०१

विश्वास-प्रस्तुतिः

पु᳘रुषो वै᳘ यज्ञः᳘॥
पु᳘रुषस्ते᳘न यज्ञो य᳘देनं पु᳘रुषस्तनुत᳘ ऽएष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

पु᳘रुषो वै᳘ यज्ञः᳘॥
पु᳘रुषस्ते᳘न यज्ञो य᳘देनं पु᳘रुषस्तनुत᳘ ऽएष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः[[!!]]॥

मूलम् - Weber

पु᳘रुषो वै᳘ यज्ञः᳟॥
पु᳘रुषस्ते᳘न यज्ञो य᳘देनम् पु᳘रुषस्तनुत᳘ एष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः᳟॥

मूलम् - विस्वरम्

अथ हविर्धानकर्म ।

पुरुषो वै यज्ञः । पुरुषस्तेन यज्ञः- यदेनं पुरुषस्तनुते । एष वै तायमानो यावानेव पुरुषस्तावान् विधीयते । तस्मात् पुरुषो यज्ञः ॥ १ ॥

सायणः

उत्तरत्र (श. प. ब्रा. ३ । ५ । ३ । ७) सदोहविर्द्धानादिकं विधास्यति, तदुपोद्घातत्वेन तेषां पुरुषाकारसन्निवेशतामाह- पुरुषो वै यज्ञ इत्यादिना । अत्र यज्ञशब्देन तदाधारभूतः सदोहविर्द्धानादिक उच्यते । प्रतिज्ञाते पुरुषत्वे हेतुमाह- पुरुषस्तेन यज्ञ इति । ‘तेन’ कारणेन ‘यज्ञः’ ‘पुरुषः’ इत्यर्थः । हेतुं विवृणोति- यदेनं पुरुषस्तनुत इति । यस्मात् पुरुषेण यज्ञस्तायते, तेन यज्ञः पुरुष इत्यर्थः । तत् किं पुरुषेण तायमानः सर्वो ऽपि पुरुषः ? नेत्याह- एष वै तायमानो, यावानेव पुरुषः, तावान् विधीयत इति । पुरुषाकारेण तायमानत्वात् पुरुष इत्यर्थः ॥ १ ॥

Eggeling
  1. The sacrifice is a man; it is a man for the reason that a man spreads (prepares) it. In being spread it is made just as large 1 as a man: this is why the sacrifice is a man.

०२

विश्वास-प्रस्तुतिः

शि᳘र ऽए᳘वास्य हविर्द्धा᳘नम्॥
व्वैष्णवं᳘ देव᳘तया᳘थ य᳘दस्मिन्त्सो᳘मो भ᳘वति हविर्व्वै᳘ देवा᳘नाᳫँ᳭ सो᳘मस्त᳘स्माद्धविर्द्धा᳘नं ना᳘म॥

मूलम् - श्रीधरादि

शि᳘र ऽए᳘वास्य हविर्द्धा᳘नम्॥
व्वैष्णवं᳘ देव᳘तया᳘थ य᳘दस्मिन्त्सो᳘मो भ᳘वति हविर्व्वै᳘ देवा᳘नाᳫँ᳭ सो᳘मस्त᳘स्माद्धविर्द्धा᳘नं ना᳘म॥

मूलम् - Weber

शि᳘र एॗवास्य हविर्धा᳘नम्॥
वैष्णवं᳘ देव᳘तया᳘थ य᳘दस्मिन्त्सो᳘मो भ᳘वति हविर्वै᳘ देवा᳘नाᳫं सो᳘मस्त᳘स्माद्धविर्धा᳘नं ना᳘म॥

मूलम् - विस्वरम्

शिर एवास्य हविर्द्धानम्- वैष्णवं देवतया । अथ यदस्मिन् सोमो भवति । हविर्वै देवानां सोमः । तस्माद्धविर्द्धानं नाम ॥ २ ॥

सायणः

शिर एवास्येति । हविर्द्धानस्य यज्ञशिरस्त्वे कारणमाह- वैष्णवं देवतयेति । विष्णुदेवताकैर्मन्त्रैर्निर्मातव्यत्वात्, वैष्णवत्वम् । विष्णोः सर्वदेवतानामुत्तमत्वात्, शिरसो ऽप्यङ्गानामुत्तमत्वाद युक्तं हविर्द्धानस्य शिरस्त्वम् । हविर्द्धानं नामनिर्वचनेन प्रशंसति- अथ यदस्मिन्निति ॥ २ ॥

Eggeling
  1. The Soma-cart (shed) is no other than his head, and has Vishṇu for its deity 2. And because Soma is therein–Soma being havis (material for offering) for the gods–therefore it is called Havirdhāna (receptacle of havis).

०३

विश्वास-प्रस्तुतिः

मु᳘खमे᳘वास्याहवनी᳘यः॥
स य᳘दाहवनी᳘ये जुहो᳘ति य᳘था मु᳘ख ऽआसिञ्चे᳘देवं त᳘त्॥

मूलम् - श्रीधरादि

मु᳘खमे᳘वास्याहवनी᳘यः॥
स य᳘दाहवनी᳘ये जुहो᳘ति य᳘था मु᳘ख ऽआसिञ्चे᳘देवं त᳘त्॥

मूलम् - Weber

मु᳘खमेॗवास्याहवनी᳘यः॥
स य᳘दाहवनी᳘ये जुहो᳘ति य᳘था मु᳘ख आसिञ्चे᳘देवं त᳘त्॥

मूलम् - विस्वरम्

मुखमेवास्याहवनीयः । स यदाहवनीये जुहोति- यथा मुख आसिञ्चेद्; एवं तत् ॥ ३ ॥

सायणः

मुखमेवास्याहवनीय इति । आहवनीयस्य मुखत्वसाम्यं दर्शयति- स यदाहवनीये जुहोतीति । अत्र प्रक्षेपसाम्यान्मुखमित्यर्थः ॥ ३ ॥

Eggeling
  1. The Āhavanīya is no other than his mouth: hence, when he offers on the Āhavanīya, it is as if he poured (food) into the mouth.

०४

विश्वास-प्रस्तुतिः

(त्स्तु) स्तुप᳘ ऽए᳘वास्य यू᳘पः॥
(पो) बाहू᳘ ऽए᳘वास्याग्नीध्री᳘यश्च मार्जाली᳘यश्च॥

मूलम् - श्रीधरादि

(त्स्तु) स्तुप᳘ ऽए᳘वास्य यू᳘पः॥
(पो) बाहू᳘ ऽए᳘वास्याग्नीध्री᳘यश्च मार्जाली᳘यश्च॥

मूलम् - Weber

स्तुप᳘ एॗवास्य यू᳘पः॥
बाहू᳘ एॗवास्याग्नीध्री᳘यश्च मार्जाली᳘यश्च॥

मूलम् - विस्वरम्

स्तुप एवास्य यूपः । बाहू ऽएवास्याग्नीध्रीयश्च, मार्जालीयश्च ॥ ४ ॥

सायणः

स्तुप एवास्य यूप इति । ‘यूप एव’ ‘अस्य’ यज्ञस्य ‘स्तुपः’ केशनिचयः, दैर्घ्यसाम्यात् । हविर्द्धानस्योत्तरस्याम् ‘आग्नीध्रीयः’ दक्षिणस्यां ‘मार्जालीयः,’ अत एव ‘बाहू’; उभयतः समानत्वात्तौ बाहुस्थानीयौ ॥ ४ ॥

Eggeling
  1. The sacrificial stake is no other than his crest-lock; and the Āgnīdhrīya and Mārjālīya 3 are his arms.

०५

विश्वास-प्रस्तुतिः

(श्चो) उद᳘रमे᳘वास्य स᳘दः॥
(स्त᳘) त᳘स्मात्स᳘दसि भक्षय᳘न्ति यद्धीदं[[!!]] कि᳘ञ्चाश्न᳘न्त्युद᳘र ऽए᳘वेदᳫं᳭ स᳘र्व्वं प्र᳘तितिष्ठत्य᳘थ य᳘दस्मिन्वि᳘श्वे देवा ऽअ᳘सीदंस्त᳘स्मात्स᳘दो ना᳘म त᳘ उ ऽए᳘वास्मिन्नेते᳘ ब्राह्मणा᳘ व्विश्व᳘गोत्राः सीदन्ति॥

मूलम् - श्रीधरादि

(श्चो) उद᳘रमे᳘वास्य स᳘दः॥
(स्त᳘) त᳘स्मात्स᳘दसि भक्षय᳘न्ति यद्धीदं[[!!]] कि᳘ञ्चाश्न᳘न्त्युद᳘र ऽए᳘वेदᳫं᳭ स᳘र्व्वं प्र᳘तितिष्ठत्य᳘थ य᳘दस्मिन्वि᳘श्वे देवा ऽअ᳘सीदंस्त᳘स्मात्स᳘दो ना᳘म त᳘ उ ऽए᳘वास्मिन्नेते᳘ ब्राह्मणा᳘ व्विश्व᳘गोत्राः सीदन्ति॥

मूलम् - Weber

उद᳘रमेॗवास्य स᳘दः॥
त᳘स्मात्स᳘दसि भक्षयन्ति यॗद्धीदं किं᳘ चाश्न᳘न्त्युद᳘र ए᳘वेदᳫं स᳘र्वं प्र᳘तितिष्ठत्य᳘थ य᳘दस्मिन्वि᳘श्वे देवा अ᳘सीदंस्त᳘स्मात्स᳘दो ना᳘म त᳘ उ एॗवास्मिन्नेते᳘ ब्राह्मणा विश्व᳘गोत्राः सीदन्ति॥

मूलम् - विस्वरम्

उदरमेवास्य सदः । तस्मात् सदसि भक्षयन्ति । यद्धीदं किञ्चाश्नन्ति- उदर ऽएवेदं सर्वं प्रतितिष्ठति । अथ यदस्मिन् विश्वेदेवा ऽअसीदन्- तस्मात्सदो नाम । त उ एवास्मिन्नेते ब्राह्मणा विश्वगोत्राः सीदन्ति ॥ ५ ॥

सायणः

उदरमेवास्य सद इति । सदसि भक्षणसम्भवाद् भक्षणसाम्यात् ‘सदः उदरम्’ । ‘सदः’- शब्दो यौगिक इत्याह- अथ यदस्मिन् विश्वेदेवा असीदन्निति । सीदन्त्यत्रेति सदः । विश्वेदेवा वस्वादिरूपेण नानाजातीयाः । ब्राह्मणेषु कथं विश्वदेवत्वमिति तत्राह- ब्राह्मणा विश्वगोत्राः सीदन्तीति ॥ ५ ॥

Eggeling
  1. The Sadas 4 (tent for the priests) is no other than his belly: wherefore they feed in the Sadas, for whatever food is eaten here on earth all that settles down here in the belly. And because all the gods sat (sad) in it therefore it is called Sadas: and so do these Brahmans of every family now sit therein.

०६

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ या᳘वेतौ᳘ जघ᳘नेनाग्नी[[!!]]॥
पा᳘दावे᳘वास्यैता᳘वेष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः᳘॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ या᳘वेतौ᳘ जघ᳘नेनाग्नी[[!!]]॥
पा᳘दावे᳘वास्यैता᳘वेष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः᳘॥

मूलम् - Weber

अ᳘थ या᳘वेतौ᳘ जघ᳘नेनाग्नी᳟॥
पा᳘दावेॗवास्यैता᳘वेष वै᳘ ताय᳘मानो या᳘वानेव पु᳘रुषस्ता᳘वान्वि᳘धीयते त᳘स्मात्पु᳘रुषो यज्ञः᳟॥

मूलम् - विस्वरम्

अथ यावेतौ जघनेनाग्नी- पादावेवास्यैतौ । एष वै तायमानो यावानेव पुरुषः, तावान्विधीयते । तस्मात् पुरुषो यज्ञः ॥ ६ ॥

सायणः

अथ यावेतौ जघनेनाग्नी इति । सौमिकवेदेः पश्चाद्भागे ‘अग्नी’ आहवनीयगार्हपत्यौ, तौ जघनदेशवार्तेत्वात् ‘पादौ’ । उपपादितमर्थं गमयति- एष वै तायमान इति ॥ ६ ॥

Eggeling
  1. And the two fires which are behind 5 it are his feet. In being spread it is made just as large as a man: this is why the sacrifice is a man.

०७

विश्वास-प्रस्तुतिः

(ऽ) उभय᳘तोद्वा᳘रᳫं᳭ हविर्द्धा᳘नं भ᳘वति॥
(त्यु) उभय᳘तोद्वारᳫं᳭ स᳘दस्त᳘स्मादयं पु᳘रुष ऽआन्तᳫं᳭ स᳘न्तृण्णः प्र᳘णिक्ते हविर्द्धा᳘ने ऽउ᳘पतिष्ठते॥

मूलम् - श्रीधरादि

(ऽ) उभय᳘तोद्वा᳘रᳫं᳭ हविर्द्धा᳘नं भ᳘वति॥
(त्यु) उभय᳘तोद्वारᳫं᳭ स᳘दस्त᳘स्मादयं पु᳘रुष ऽआन्तᳫं᳭ स᳘न्तृण्णः प्र᳘णिक्ते हविर्द्धा᳘ने ऽउ᳘पतिष्ठते॥

मूलम् - Weber

उभय᳘तोद्वारᳫं हविर्धा᳘नम् भ᳘वति॥
उभय᳘तोद्वारᳫं स᳘दस्त᳘स्मादयम् पु᳘रुष आन्तᳫं सं᳘तृणः प्र᳘णिक्ते हविर्धा᳘ने उपतिष्ठते॥

मूलम् - विस्वरम्

उभयतोद्वारं हविर्द्धानं भवति, उभयतोद्वारं सदः । तस्मादयं पुरुष ऽआन्तं सन्तृण्णः । प्रणिक्ते हविर्द्धाने उपतिष्ठते ॥ ७ ॥

सायणः

उभयतोद्वारमिति (“पृष्ठ्यामुभयतोद्वार्ये” इति का. श्रौ. सू. ८ । ११०) हविर्द्धानं सदश्चेत्युभयम्, ‘उभयतोद्वारम्’ प्राक् पश्चाच्च । यस्मात् पुरुषरूपो यज्ञ उभयतोद्वारकः, ‘तस्मात्’ ‘पुरुषः’ मनुष्यः ‘आन्तम्’ अन्तपर्यन्तम् ‘सन्तृण्णः’ सुषिरवान् भवति । आन्तसाम्यात् पुरुषाकारत्वं यज्ञस्य सिद्धम् । हविर्द्धानप्रवर्तनायोभयोर्निर्णिज्य स्थापनं विधत्ते- प्रणिक्ते हविर्द्धाने उपतिष्ठते इति । अत्र कात्यायनः- “ओपनिवपनात्कृत्वा हविर्द्धाने स्थापयति पृष्ठ्यामुभयतः-” इति (का. श्रौ. सू. ८ । ७३) ॥ ७ ॥

Eggeling
  1. The cart-shed has doors on both sides; and so has the Sadas doors on both sides: hence this man is perforated from one end to the other. He steps to the Soma-carts when they have been -washed down.

०८

विश्वास-प्रस्तुतिः

ते᳘ सम᳘ववर्तयन्ति॥
द᳘क्षिणेनैवं द᳘क्षिणमु᳘त्तरेणो᳘त्तरं यद्व᳘र्षीयस्तद्द᳘क्षिणᳫं᳭ स्यात्॥

मूलम् - श्रीधरादि

ते᳘ सम᳘ववर्तयन्ति॥
द᳘क्षिणेनैवं द᳘क्षिणमु᳘त्तरेणो᳘त्तरं यद्व᳘र्षीयस्तद्द᳘क्षिणᳫं᳭ स्यात्॥

मूलम् - Weber

ते᳘ सम᳘ववर्तयन्ति॥
द᳘क्षिणेनैव द᳘क्षिणमु᳘त्तरेणो᳘त्तरं यद्व᳘र्षीयस्तद्द᳘क्षिणᳫं स्यात्॥

मूलम् - विस्वरम्

ते समववर्तयन्ति- दक्षिणेनैव दक्षिणम्, उत्तरेणोत्तरम् । यद्वर्षीयस्तद्दक्षिणं स्यात् ॥ ८ ॥

सायणः

ते समववर्तयन्तीति । ‘दक्षिणेन’ पृष्ठ्याख्यमध्यरज्ज्वोर्दक्षिणदेशेन ‘दक्षिणं’ हविर्द्धानम्, तथा ‘उत्तरेण उत्तरम्’ ‘समववर्तयन्ति’ हविर्धानमण्डपं प्रति सम्यग्गमयन्ति । ‘यद्’ ‘वर्षीयः’ अतिशयेन वृद्धम्, ‘तद्’ ‘दक्षिणम्’ हविर्द्धानं कर्तव्यम् 6 ॥ ८ ॥

Eggeling
  1. They turn them round, the southern one on the south side, and the northern one on the north side 7. The larger of the two should be the southern (or right) one 8.

०९

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘योः सम᳘ववृत्तयोः॥
(श्छ) छदि᳘रधिनि᳘दधति य᳘दि च्छदिर्न᳘ विन्दे᳘युश्छदिः᳘सम्मितां भित्तिं᳘ प्रत्या᳘नह्यन्ति ररा᳘ट्यां प᳘रिश्रयन्त्युच्छ्रायी᳘भ्यां छदिः᳘ पश्चा᳘दधिनि᳘दधति च्छदिः᳘सम्मितां वा भित्तिम्॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘योः सम᳘ववृत्तयोः॥
(श्छ) छदि᳘रधिनि᳘दधति य᳘दि च्छदिर्न᳘ विन्दे᳘युश्छदिः᳘सम्मितां भित्तिं᳘ प्रत्या᳘नह्यन्ति ररा᳘ट्यां प᳘रिश्रयन्त्युच्छ्रायी᳘भ्यां छदिः᳘ पश्चा᳘दधिनि᳘दधति च्छदिः᳘सम्मितां वा भित्तिम्॥

मूलम् - Weber

त᳘योः सम᳘ववृत्तयोः॥
छदि᳘रधिनि᳘दधति य᳘दि छदिर्न᳘ विन्दे᳘युश्छदिः᳘सम्मिताम् भित्तिम् प्रत्या᳘नह्यन्ति 9 रराॗट्याम् प᳘रिश्रयन्त्युछ्रायी᳘भ्यां छदिः᳘ पश्चा᳘दधिनि᳘दधति छदिः᳘सम्मितां वा भित्ति᳘म्॥

मूलम् - विस्वरम्

तयोः समववृत्तयोः छदिरधिनिदधति । यदि छदिर्न विन्देयुः- छदिः संमितां भित्तिं प्रत्यानह्यन्ति । रराट्यां परिश्रयन्ति । उच्छ्रायीभ्यां छदिः पश्चादधिनिदधति, छदिः सम्मितां वा भित्तिम् ॥ ९ ॥

सायणः

तयोः समववृत्तयोरिति । ‘समववृत्तयोस्तयोः’ ‘अधि’ उपरि ‘छदिः’ तृणमयं कटम् उभयतः स्थापयेत् तदभावे ‘भित्तिं वा’ प्रत्यानह्येत् । तथा च कात्यायनः “वर्षीयो दक्षिणम् तयोश्छदिरध्यस्यति भित्तिं वा ऽभावे” 10 (का. श्रौ. सू. ८ । ७३-७५) इति । ‘रराट्यां’ हविर्द्धानयोर्मुखप्रदेशे उच्छ्रायीभ्यां तोरणकाष्ठाभ्यामन्तराले परिश्रये ‘पश्चात्’ पृष्ठभागे ऽपि ‘छदिः’ ‘अधि’ निदधात् । तदभावे ‘भित्तिः’ पूर्ववत् कर्तव्या ॥ ९ ॥

Eggeling
  1. Over them, having been turned round (and placed on the altar), they put a mat of reed-grass; or, if he cannot procure a reed-mat, a frame of split cane

made in like manner as a reed-mat. They fasten a front-band (to the posts of the front door 11). They enclose (the carts) within two upright hurdles; and lay a (second) reed-mat, or a frame of split cane made in like manner as a reed-mat, behind (the first mat 12).

१०

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ पु᳘नः प्रप᳘द्य॥
चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ सावित्रं᳘ प्रसवा᳘य जुहोति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूताय यज्ञं᳘ तनवामहा ऽइ᳘ति त᳘स्मात्सावित्रं᳘ जुहोति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ पु᳘नः प्रप᳘द्य॥
चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ सावित्रं᳘ प्रसवा᳘य जुहोति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूताय यज्ञं᳘ तनवामहा ऽइ᳘ति त᳘स्मात्सावित्रं᳘ जुहोति॥

मूलम् - Weber

अ᳘थ पु᳘नः प्रप᳘द्य॥
चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘ सावित्र᳘म् प्रसवा᳘य जुहोति सविता वै᳘ देवा᳘नाम् प्रसविता᳘ सवितृ᳘प्रसूताय यज्ञं᳘ तनवामहा इ᳘ति त᳘स्मात्सावित्रं᳘ जुहोति॥

मूलम् - विस्वरम्

अथ पुनः प्रपद्य चतुर्गृहीतमाज्यं गृहीत्वा सावित्रं प्रसवाय जुहोति । सविता वै देवानां प्रसविता । सवितृप्रसृताय यज्ञं तनवामहा ऽइति । तस्मात् सावित्रं जुहोति ॥ १० ॥

सायणः

हविर्द्धानप्रवर्तनाभ्यनुज्ञापनाय सावित्रं होमं विधत्ते- अथ पुनः प्रपद्य चतुर्गृहीतमाज्यं गृहीत्वा सावित्रं प्रसवाय जुहोतीति 10 । व्याघारणायाज्यं ग्रहीतुं पूर्वमाहवनीयं प्रति गतत्वात् ‘पुनः प्रपद्य’- इत्युच्यते । सत्स्वन्येषु देवेषु सवित्रे किमर्थं हूयत इत्यत आह- सविता वै देवानामिति । देवानां मध्ये सविता अनुज्ञाकर्ता ॥ १०॥

Eggeling
  1. Now 13, having again entered (the hall), and

taken ghee in four ladlings, he makes offering to Savitr̥ for his impulsion, for Savitr̥ is the impeller (prasavitr̥) of the gods: ‘We will perform the sacrifice, for one impelled by Savitr̥,’ thus (the priest thinks and) therefore he makes offering to Savitr̥.

११

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
युञ्ज᳘ते म᳘न ऽउत᳘ युञ्जते धि᳘य ऽइ᳘ति म᳘नसा च वै᳘ व्वाचा᳘ च यज्ञं᳘ तन्वते स यदा᳘ह यु᳘ञ्जते म᳘न ऽइ᳘ति तन्म᳘नो युनक्त्युत᳘ युञ्जते धि᳘य इ᳘ति तद्वा᳘चं युनक्ति धिया᳘ धिया᳘ ह्येत᳘या मनु᳘ष्या जु᳘ज्यूषन्त्य᳘नूक्तेनेव प्रकामो᳘द्येनेव गा᳘थाभिरिव ता᳘भ्यां युक्ता᳘भ्यां यज्ञं᳘ तन्वते॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
युञ्ज᳘ते म᳘न ऽउत᳘ युञ्जते धि᳘य ऽइ᳘ति म᳘नसा च वै᳘ व्वाचा᳘ च यज्ञं᳘ तन्वते स यदा᳘ह यु᳘ञ्जते म᳘न ऽइ᳘ति तन्म᳘नो युनक्त्युत᳘ युञ्जते धि᳘य इ᳘ति तद्वा᳘चं युनक्ति धिया᳘ धिया᳘ ह्येत᳘या मनु᳘ष्या जु᳘ज्यूषन्त्य᳘नूक्तेनेव प्रकामो᳘द्येनेव गा᳘थाभिरिव ता᳘भ्यां युक्ता᳘भ्यां यज्ञं᳘ तन्वते॥

मूलम् - Weber

स᳘ जुहोति॥
युञ्ज᳘ते म᳘न उत᳘ युञ्जते धि᳘य इ᳘ति म᳘नसा च वै᳘ वाचा᳘ च यज्ञं᳘ तन्वते स यदा᳘ह यु᳘ञ्जते म᳘न इ᳘ति तन्म᳘नो युनक्त्युत᳘ युञ्जते धि᳘य इ᳘ति तद्वा᳘चं युनक्ति धिया᳘धियाॗ ह्येत᳘या मनुॗष्या जु᳘ज्यूषन्त्य᳘नूक्तेनेव प्रकामो᳘द्येनेव गा᳘थाभिरिव ता᳘भ्यां युक्ता᳘भ्यां यज्ञं᳘ तन्वते॥

मूलम् - विस्वरम्

स जुहोति । “युञ्जते मन उत युञ्जते धियः”- (वा. सं. ५ । १४) इति । मनसा च वै वाचा च, यज्ञं तन्वते । स यदाह- युञ्जते मन ऽइति- तन्मनो युनक्ति । उत युञ्जते धिय-इति-तद्वाचं युनक्ति । धिया-धिया ह्येतया मनुष्या जुज्यूषन्ति- अनूक्तेनेव, प्रकामोद्येनेव, गाथाभिरिव । ताभ्यां युक्ताभ्यां यज्ञं तन्वते ॥ ११ ॥

सायणः

होममन्त्रमाह- स जुहोतीति । मन्त्रस्यायमर्थः- ‘विप्राः’ मेधाविनः, अध्वर्युप्रमुखाः ऋत्विजः ! ‘विप्रस्य’ विशेषेणाभिमतफलपूरकस्य प्रापकस्य ‘बृहतः’ महतः, ‘विपश्चितः’ मेधाविनः, यज्ञस्य । इतरे विपश्चितो ऽल्पविपश्चितः, असौ तु ‘यज्ञो बृहन् विपश्चित्;’ अतः पदद्वयसामर्थ्याद् यज्ञ एवाभिमतः । तं 14 यज्ञं सवित्रप्रसूतं ‘मनः’ ‘धियः’ बुद्धीश्च ‘युञ्जते’ अन्तः करणस्य मनसः पृथङ् निर्देशात् ‘धी’- शब्देन तत्पूर्विका वागुच्यते । तथा ‘होत्राः’ वषट्कर्तारः सप्त होत्रकाश्च यज्ञविषये सवित्रा ऽनुज्ञाता एव मनो धियश्च ‘विदधे’ विदधते, कुर्वते । “लोपस्त आत्मनेपदेषु”- (पा. सू. । ७ । १ । ४१) इति तलोपः । कुत ईदृङ्माहात्म्यं सवितुरिति, तत्राह- यस्मात् सविता ‘एक इत्’ एक एव ‘वयुनावित्’ । वयुनमिति प्रज्ञानाम (निघं. ३ । ९ । १०) प्रज्ञावानित्यर्थः । यद्वा वीयते गम्यत इति वयुनं, यज्ञमार्गः । “वयुनं वेतेः” इति निरुक्तम् (निरु. ५ । ३ । २) । तस्य वेदिता एक एव । तस्य सवितुर्देवस्य ‘परिष्टुतिः’ ‘मही’ महती ‘स्वाहा’ स्तुतिरूपमिदं द्रव्यं स्वाहुतमस्तु ॥

मन्त्रं व्याचष्टे- मनसा च वै वाचा चेत्यादिना । ‘धी’- शब्दस्य विवक्षितमर्थमाह- उत युञ्जते धिय इति । तद्वाचं युनक्तीति । ‘धिया-धिया’ यदा यदा बुद्धिर्जायते तदा-तदा खलु ‘एतया’ वाचा ‘जुज्यूषन्ति’ जीवितुमिच्छन्ति । अतः केवलबुद्धेर्ज्जीवनसाधनत्वाभावेन वाचो ऽपेक्षितत्वात् ‘धी’- शब्देन तत्पूर्विका वागुच्यते । जीवनसाधनत्वमेव विशदयति- अनूक्तेनेवेति । ‘अनूक्तम्’ अनुवचनम्, अध्ययनादिकम् । ‘प्रकामः’ स्वैच्छिकलौकिकभाषणम् । ‘गाथाः’ गद्यपद्यात्मिकाः ॥ ११ ॥

Eggeling
  1. He offers with the text (Vāj. S. V, 14; Rig-veda V, 81, 1), ‘They harness the mind and they harness the thoughts’–with the mind and with speech they truly perform the sacrifice. When he says, ‘They harness the mind,’ he harnesses the mind; and when he says, ‘and they harness the thoughts (dhī),’ he harnesses speech; for it is thereby 15 that people seek to make their living in accordance with their respective intelligence (dhī), either by reciting (the Veda), or by readiness of speech, or by songs,–with these two thus harnessed they perform the sacrifice.

१२

विश्वास-प्रस्तुतिः

व्वि᳘प्रा व्वि᳘प्रस्य बृहतो᳘ व्विपश्चि᳘त इ᳘ति॥
ये वै᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते व्वि᳘प्रास्ता᳘ने᳘वैत᳘द᳘भ्याह बृहतो᳘ व्विपश्चि᳘त ऽइ᳘ति यज्ञो वै᳘ बृह᳘न्विपश्चि᳘द्यज्ञ᳘मे᳘वैत᳘द᳘भ्याह व्विहो᳘त्रा दधे व्वयुनाविदे᳘क इदि᳘ति व्वि हि हो᳘त्रा द᳘धते य᳘ज्ञं तन्वाना᳘ मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिः स्वाहे᳘ति त᳘त्सावित्रं᳘ प्रसवा᳘य जुहोति॥

मूलम् - श्रीधरादि

व्वि᳘प्रा व्वि᳘प्रस्य बृहतो᳘ व्विपश्चि᳘त इ᳘ति॥
ये वै᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते व्वि᳘प्रास्ता᳘ने᳘वैत᳘द᳘भ्याह बृहतो᳘ व्विपश्चि᳘त ऽइ᳘ति यज्ञो वै᳘ बृह᳘न्विपश्चि᳘द्यज्ञ᳘मे᳘वैत᳘द᳘भ्याह व्विहो᳘त्रा दधे व्वयुनाविदे᳘क इदि᳘ति व्वि हि हो᳘त्रा द᳘धते य᳘ज्ञं तन्वाना᳘ मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिः स्वाहे᳘ति त᳘त्सावित्रं᳘ प्रसवा᳘य जुहोति॥

मूलम् - Weber

वि᳘प्रा वि᳘प्रस्य बृहतो᳘ विपश्चि᳘त इ᳘ति॥
ये वै᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते वि᳘प्रास्ता᳘नेॗवैत᳘दॗभ्याह बृहतो᳘ विपश्चि᳘त इ᳘ति यज्ञो वै᳘ बृहन्विपश्चि᳘द्यज्ञ᳘मेॗवैत᳘दॗभ्याह वि हो᳘त्रा दधे वयुनाविदे᳘क इदि᳘ति वि हि हो᳘त्रा द᳘धते य᳘ज्ञं तन्वाना᳘ मही᳘ देव᳘स्य सवितुः प᳘रिष्टुतिः स्वाहे᳘ति त᳘त्सावित्र᳘म् प्रसवा᳘य जुहोति॥

मूलम् - विस्वरम्

“विप्रा विप्रस्य बृहतो विपश्चितः"- (वा. सं. ५ । १४) इति । ये वै ब्राह्मणाः शुश्नुवांसो ऽनूचानास्ते विप्राः । तानेवैतदभ्याह । ‘बृहतो विपश्चित’- इति । यज्ञो वै बृहन् विपश्चित् । यज्ञमेवैतदभ्याह । “विहोत्रा दधे वयुनाविदेक ऽइत्"- (वा. सं. ५ । १४) इति । वि हि होत्रा दधते- यज्ञं तन्वानाः । “मही देवस्य सवितुः परिष्टुतिः स्वाहा”- (वा. सं. ५ । १४) इति । तत्-सावित्रं प्रसवाय जुहोति ॥ १२ ॥

सायणः

विप्रा विप्रस्य बृहत इति । मन्त्रगतस्य प्रथमविप्रशब्दस्याभिमतमर्थमाह- ये वै ब्राह्मणा इति । ऋत्विज इत्यर्थः । ‘एतत्’ ‘विप्राः’- इति पदम्, ‘तानेव’ ब्राह्मणानेव ‘अभ्याह’ ब्रूते इत्यर्थः । बृहद्विपश्चिच्छब्दाभ्यां यज्ञो विवक्ष्यत इत्याह- यज्ञो वै बृहन् विपश्चिदिति । ‘होत्रा’- शब्देन यज्ञकर्तारो ऽभिमताः । ‘दधे-’ इत्येतद् ‘दधते’- इत्यस्य बहुवचनस्य स्थाने इति व्याचष्टे- वि हि होत्रा दधते यज्ञं तन्वाना इति । तत् सावित्रं प्रसवाय जुहोतीति । यस्मान्मन्त्रे “सवितुर्देवस्य"- इति सविता देवः श्रूयते, ‘तत्’ तस्मादेव मन्त्रसाध्यं ‘सावित्रं’ होमं ‘प्रसवाय’ जुहुयात् ॥ १२ ॥

Eggeling
  1. ‘The priests of the priest, of the great inspirer of devotion,’–the learned Brāhmans versed in sacred writ, truly, are the priests: it is regarding them that he says this. And ‘of the great inspirer of devotion 16,’–the great inspirer of devotion, truly, is the sacrifice: it is regarding the sacrifice that he says this. ‘The knower of rites alone hath assigned the priestly offices,’ for, in performing

the sacrifice, they indeed assign the priestly offices. ‘Great is the praise of the divine Savitr̥; Hail!’ Thus he offers to Savitr̥ for his impulsion.

१३

विश्वास-प्रस्तुतिः

(त्य) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वो) उपनि᳘ष्क्रामति दक्षिणया[[!!]] द्वारा प᳘त्नीं नि᳘ष्क्रामयन्ति स द᳘क्षिणस्य हविर्द्धा᳘नस्य द᳘क्षिणायां वर्तन्याᳫं᳭ हि᳘रण्यं निधा᳘य जुहोतीदं व्वि᳘ष्णुर्व्वि᳘चक्रमे त्रेधा नि᳘दधे पद᳘म्। स᳘मूढमस्य पाᳫं᳭सुरे स्वाहे᳘ति सᳫं᳭स्रवं प᳘त्न्यै पाणावा᳘नयति सा᳘क्षस्य सन्तापमु᳘पानक्ति देवश्रु᳘तौ देवेष्वा᳘घोषतमि᳘ति प्र᳘यच्छति प्रतिप्रस्थात्रे स्रु᳘चं चाज्यविला᳘पनीं च पर्या᳘णयन्ति प᳘त्नीमुभौ᳘ जघ᳘नेनाग्नी᳘॥

मूलम् - श्रीधरादि

(त्य) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वो) उपनि᳘ष्क्रामति दक्षिणया[[!!]] द्वारा प᳘त्नीं नि᳘ष्क्रामयन्ति स द᳘क्षिणस्य हविर्द्धा᳘नस्य द᳘क्षिणायां वर्तन्याᳫं᳭ हि᳘रण्यं निधा᳘य जुहोतीदं व्वि᳘ष्णुर्व्वि᳘चक्रमे त्रेधा नि᳘दधे पद᳘म्। स᳘मूढमस्य पाᳫं᳭सुरे स्वाहे᳘ति सᳫं᳭स्रवं प᳘त्न्यै पाणावा᳘नयति सा᳘क्षस्य सन्तापमु᳘पानक्ति देवश्रु᳘तौ देवेष्वा᳘घोषतमि᳘ति प्र᳘यच्छति प्रतिप्रस्थात्रे स्रु᳘चं चाज्यविला᳘पनीं च पर्या᳘णयन्ति प᳘त्नीमुभौ᳘ जघ᳘नेनाग्नी᳘॥

मूलम् - Weber

अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृहीॗत्वा॥
उपनि᳘ष्क्रामति द᳘क्षिणया द्वारा प᳘त्नीं नि᳘ष्क्रामयन्ति स द᳘क्षिणस्य हविर्धा᳘नस्य द᳘क्षिणायां वर्तन्याᳫं हि᳘रण्यं निधा᳘य जुहोतीदं वि᳘ष्णुर्वि᳘चक्रमे त्रेधा नि᳘दधे पद᳘म् स᳘मूढमस्य पांसुरे स्वाहे᳘ति संस्रवम् प᳘त्न्यै पाणावा᳘नयति सा᳘क्षस्य संतापमु᳘पानक्ति देवश्रु᳘तौ देवेष्वा᳘घोषतमि᳘ति प्र᳘यछति प्रतिप्रस्थात्रे स्रु᳘चं चाज्यविला᳘पनीं च पर्या᳘णयन्ति प᳘त्नीमुभौ᳘ जघ᳘नेनाग्नी᳟॥

मूलम् - विस्वरम्
सायणः

अथापरं चतुर्गृहीतमाज्यं गृहीत्वा उपनिष्क्रामति । दक्षिणया द्वारा पत्नीं निष्क्रामयन्ति । स दक्षिणस्य हविर्द्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोति । “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पांसुरे स्वाहा” – (वा. सं. ५ । १५) इति । संस्रवं पत्न्यै पाणावानयति साक्षस्य सन्तापमुपानक्ति । “देवश्रुतौ देवेष्वाघोषतम्”- (वा. सं. ५ । १७) इति प्रयच्छति प्रतिप्रस्थात्रे- स्रुचं च आज्यविलापनीं च । पर्याणयन्ति पत्नीमुभौ जघनेनाग्नी ॥ १३ ॥ अथापरमित्यादि 17 । दक्षिणहविर्द्धानशकटवर्त्मनि होमार्थमन्यत्, ‘चतुर्गृहीतमाज्यं गृहीत्वा’ प्राचीनवंशादुपनिष्क्रामेत् । ‘पत्नीं’ च अक्षधुराभ्यञ्जनाय ‘दक्षिणया द्वारा’ निष्क्रामयेत् 18 । ‘सः’ अध्वर्युः । ‘दक्षिणस्य’ ‘हविर्द्धानस्य’ शकटस्य दक्षिणचक्ररेखायां ‘हिरण्यं’ ‘निधाय’ अध्वर्युर्जुहुयात् ॥

होममन्त्रस्यायं संगृहीतो ऽर्थः- ‘इदं’ विश्वं ‘विष्णुः’ त्रिविक्रमावतारधारी ‘विचक्रमे’ विक्रान्तवान् । विक्रमणप्रकारमाह- ‘त्रेधा’ त्रिप्रकारेण त्रिषु स्थानेषु क्षित्यादिषु ‘पदं’ ‘निदधे’ स्थापितवान् । ‘अस्य’ विष्णोः ‘पांसुरे’ रजोयुक्ते पदे लोकत्रयं ‘समूढम्’ गृहीतं सम्मितमासीदित्यर्थः । ‘स्वाहा’ इदं सुहुतमस्तु । ‘संस्रवं’ जुहूलिप्तम् । ‘सा’ पत्नी संस्रवेणाज्येन ‘अक्षस्य’ ‘सन्तापं’ सन्तप्यते चक्रसङ्घर्षेणेति सन्तापः, ‘चक्रवलयसंस्पर्शप्रदेशः । चक्रद्वयम् ‘उपानक्ति’ अनुलोमाञ्जनं कुर्यात्, न प्रतिलोमम् । पुनः पाणिमावर्तयेत् । तथा च कात्यायनः- “पत्नी पाणिभ्यां शेषं प्रतिगृह्याक्षधुरावनक्ति पराग् देवश्रुताविति-” (का. श्रौ. सू. ८ । ८२) इति ॥

आञ्जनमन्त्रस्यायमर्थः- हे ‘देवश्रुतौ’ ! देवान् श्रावयत इति देवश्रुतौ, अक्षयोराधारप्रदेशौ । युवां ‘देवेषु’ मध्ये ऽस्मान् ‘आघोषतम्’ ते सम्यग् यजन्तीति शब्दं कुरुतम् ॥

पर्याणयन्ति पत्नीमुभौ जघनेनाग्नी- इति । दक्षिणहविर्द्धानाञ्जनानन्तरप्रादक्षिण्यक्रमेण उभौ ‘जघनेन’ आहवनीयगार्हपत्ययोः पश्चाद्भागेन पत्नी ‘पर्याणयन्ति’ परितो गमयन्ति ॥ १३ ॥

Eggeling
  1. Having then taken ghee a second time in four ladlings, he walks out (of the hall by the front door). The (sacrificer’s) wife is led out by the south door. He then lays down a piece of gold in the right wheel-track of the southern Sonia-cart, and offers thereon, with (Vāj. S. V, 15; Rig-veda I, 22, 17), ‘Vishṇu strode through this(universe),thrice he put down his foot: it is enveloped in his dust; Hail!’ The residue (of ghee) he pours into the wife’s hand. She anoints the burning (part) of the axle 19 with (Vāj. S. V, 17), ‘Audible to the gods, announce ye unto the gods!’ He hands to his assistant both the offering-spoon and the melting-pot. They lead the wife round by the back of the two fires 20.

१४

विश्वास-प्रस्तुतिः

चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘॥
प्रतिप्रस्थातो᳘त्तरस्य हविर्द्धा᳘नस्य द᳘क्षिणायां वर्तन्याᳫं᳭ हिरण्यं[[!!]] निधा᳘य जुहोती᳘रावती धेनुम᳘ती हि᳘ भूत᳘ᳫं᳘ सूयवसि᳘नी म᳘नवे दशस्या। व्य᳘स्कभ्ना रो᳘दसी व्विष्णवेते᳘ दाध᳘र्थ पृथिवी᳘मभि᳘तो मयू᳘खैः स्वाहे᳘ति सᳫं᳭स्रुवं प᳘त्न्यै पाणावा᳘नयति सा᳘क्षस्य सन्तापमु᳘पानक्ति देवश्रु᳘तौ देवेष्वा᳘घोषतमि᳘ति तद्य᳘देवं᳘ जुहो᳘ति॥

मूलम् - श्रीधरादि

चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳘॥
प्रतिप्रस्थातो᳘त्तरस्य हविर्द्धा᳘नस्य द᳘क्षिणायां वर्तन्याᳫं᳭ हिरण्यं[[!!]] निधा᳘य जुहोती᳘रावती धेनुम᳘ती हि᳘ भूत᳘ᳫं᳘ सूयवसि᳘नी म᳘नवे दशस्या। व्य᳘स्कभ्ना रो᳘दसी व्विष्णवेते᳘ दाध᳘र्थ पृथिवी᳘मभि᳘तो मयू᳘खैः स्वाहे᳘ति सᳫं᳭स्रुवं प᳘त्न्यै पाणावा᳘नयति सा᳘क्षस्य सन्तापमु᳘पानक्ति देवश्रु᳘तौ देवेष्वा᳘घोषतमि᳘ति तद्य᳘देवं᳘ जुहो᳘ति॥

मूलम् - Weber

चतुर्गृहीतमा᳘ज्यं गृहीत्वा᳟॥
प्रतिप्रस्थातो᳘त्तरस्य हविर्धा᳘नस्य द᳘क्षिणायां वर्तन्याᳫं हि᳘रण्यं निधा᳘य जुहोती᳘रावती धेनुम᳘ती हि᳘ भूत᳘ᳫं᳘ सूयवसि᳘नी म᳘नवे दशस्या 21 व्य᳘स्कभ्ना रो᳘दसी विष्णवेते᳘ दाध᳘र्थ पृथिवी᳘मभि᳘तो मयू᳘खैः स्वाहे᳘ति संस्रुवम् प᳘त्न्यै पाणावा᳘नयति सा᳘क्षस्य संतापमु᳘पानक्ति देवश्रु᳘तौ देवेष्वा᳘घोषतमि᳘ति तद्य᳘देवं᳘ जुहो᳘ति॥

मूलम् - विस्वरम्

चतुर्गृहीतमाज्यं गृहीत्वा प्रतिप्रस्थाता उत्तरस्य हविर्द्धानस्य दक्षिणायां वर्तन्यां हिरण्यं निधाय जुहोति- “इरावती धेनुमती हि भूतं सूयवासिनी मनवे दशस्या । व्यस्कभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः स्वाहा”- (वा. सं. ५ । १६) इति । संस्रवं पत्न्यै पाणावानयति साक्षस्य सन्तापमुपानक्ति । “देवश्रुतौ देवेष्वाघोषतम्”- (वा. सं. ५ । १७) इति । तद् यदेवं जुहोति ॥ १४ ॥

सायणः

चतुर्गृहीतमाज्यमिति । प्रतिप्रस्थाता उत्तरहविर्द्धानस्य दक्षिणवर्तन्यां ‘हिरण्यं निधाय’ “इरावती” इति मन्त्रेण चतुर्गृहीतमाज्यं जुहुयात् 22 । मन्त्रस्यायमर्थः- हे द्यावापृथिव्यौ ! युवां ‘मनवे’ मनुष्याय यजमानाय ‘इरावती’ अन्नवत्यौ ‘धेनुमती’ बहुधेनुयुक्ते च ‘भूतम्’ भवतम् । तथा ‘सूयवसिनी’ शोभनघासयुक्ते, ‘दशस्या’ दशस्यौ अभिमतफलदात्र्यौ भवतम् । एवं महानुभावे एते रोदस्यौ हे विष्णो ! त्वं ‘व्यस्कभ्नाः’ विविधं स्कम्भितवानसि । तथा विशेषेण ‘पृथिवीम्’ ‘अभितः’ सर्वतः मयूखैः मयूखवत् सन्ततैर्जीवैस्तेजोभिर्वा ‘दाधर्थ’ धारयसि । तादृशाय तुभ्यम् इदमुत्तरहविर्धान-दक्षिणचक्रमार्गे हूयमानमन्नं ‘स्वाहा’ सुहुतमस्तु ॥

संस्रवमित्यादि पूर्ववत् । तद्यदेवं जुहोतीति । ‘यद्’ यदा एवं वर्त्मद्वये जुहोति, ‘तत्’ तदा ‘संस्रवं’ ‘पत्न्यै’ पत्न्याः ‘पाणौ’ इति पूर्वत्र सम्बन्धः ॥ १४ ॥

Eggeling
  1. Having taken ghee in four ladlings, the assistant lays down a piece of gold in the right wheel-track of the northern Soma-cart, and offers thereon, with (Vāj. S. V, 16; Rig-veda VII, 99, 3), ‘Be ye too abundant in food and milch kine and pastures, through benevolence to man! Thou proppedst asunder these two worlds, O Vishṇu; with beams of light didst thou hold fast 23 the earth on all sides; Hail!’ The residue (of ghee) he pours into the wife’s hand. She anoints the burning (part) of the axle with,

‘Audible to the gods, announce ye unto the gods!’ Then as to why he thus offers.

१५

विश्वास-प्रस्तुतिः

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभया᳘ञ्चक्रुर्व्व᳘ज्रो वा ऽआ᳘ज्यं त᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन दक्षिणतो᳘ नाष्ट्रा र᳘क्षाᳫं᳭स्य᳘वाघ्नंस्त᳘थैषां निया᳘नं᳘ नान्व᳘वायंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन दक्षिणतो᳘ नाष्ट्रा र᳘क्षाᳫं᳭स्य᳘वहन्ति त᳘थास्य निया᳘नं᳘ नान्व᳘वयन्ति तद्य᳘द्वैष्णवी᳘भ्यामृग्भ्यां᳘ जुहो᳘ति व्वैष्णवᳫं᳭ हि᳘ हविर्द्धा᳘नम्॥

मूलम् - श्रीधरादि

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳘॥
(स्ते) ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभया᳘ञ्चक्रुर्व्व᳘ज्रो वा ऽआ᳘ज्यं त᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन दक्षिणतो᳘ नाष्ट्रा र᳘क्षाᳫं᳭स्य᳘वाघ्नंस्त᳘थैषां निया᳘नं᳘ नान्व᳘वायंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येन दक्षिणतो᳘ नाष्ट्रा र᳘क्षाᳫं᳭स्य᳘वहन्ति त᳘थास्य निया᳘नं᳘ नान्व᳘वयन्ति तद्य᳘द्वैष्णवी᳘भ्यामृग्भ्यां᳘ जुहो᳘ति व्वैष्णवᳫं᳭ हि᳘ हविर्द्धा᳘नम्॥

मूलम् - Weber

देवा᳘ ह वै᳘ यज्ञं᳘ तन्वानाः᳟᳟॥
ते ऽसुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रुर्व᳘ज्रो वा आ᳘ज्य त᳘ एते᳘न व᳘ज्रेणा᳘ज्येन दक्षिणतो᳘ नाष्ट्रा र᳘क्षांस्य᳘वाघ्नंस्त᳘थैषां नियाॗनं नान्व᳘वायंस्त᳘थो एॗवैष᳘ एते᳘न व᳘ज्रेणा᳘ज्येन दक्षिणतो᳘ नाष्ट्रा र᳘क्षांस्य᳘वहन्ति त᳘थास्य नियाॗनं नान्व᳘यन्ति तद्य᳘द्वैष्णवी᳘भ्यामृग्भ्यां᳘ जुहो᳘ति वैष्णवᳫं हि᳘ हविर्धा᳘नम्॥

मूलम् - विस्वरम्

देवा ह वै यज्ञं तन्वानाः । ते ऽसुररक्षसेभ्य आसङ्गाद् बिभयाञ्चक्रुः । वज्रो वा आज्यम् । त एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवाघ्नन्, तथैषां नियानं नान्ववायन् । तथो ऽएवैष एतेन वज्रेणाज्येन दक्षिणतो नाष्ट्रा रक्षांस्यवहन्ति, तथा ऽस्य नियानं नान्ववयन्ति । तद् यद्वैष्णवीभ्यामृग्भ्यां जुहोति, वैष्णवं हि हविर्द्धानम् ॥ १५ ॥

सायणः

विहितं मार्गहोमं रक्षसां मार्गानुगमनपरिहारसाधनत्वेन प्रशंसति- देवा ह वै यज्ञं तन्वाना इत्यादिना । आज्यस्य यज्ञस्य असकृत् नियात्यत्रेति नियानो मार्गः । स्पष्टमन्यत् । मन्त्रयोर्विष्णुदेवताकत्वं हविर्द्धानयोरुचितमित्याह- तद्यद्वैष्णवीभ्यामिति । हविर्द्धानस्य वैष्णवत्वं शिर एवास्य हविर्द्धानमित्यत्रोक्तम् (श. प. ब्रा. ३ । ५ । ३ । २) ॥ १५ ॥

Eggeling
  1. Now, once on a time, the gods, while performing sacrifice, were afraid of an attack on the part of the Asura-Rakshas; and, the ghee being a thunderbolt, they kept off the evil spirits from the south by that thunderbolt, the ghee; and thus they came not after them on their way. And in like manner does he now keep off the evil spirits from the south by that thunderbolt, the ghee; and thus they do not come after him on his way. And the reason why he offers with two verses relating to Vishṇu, is that the Soma-cart belongs to Vishṇu.

१६

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ यत्पत्न्य᳘क्षस्य सन्ताप᳘मुपान᳘क्ति॥
प्रज᳘ननमे᳘वैतत्क्रियते यदा वै᳘ स्त्रियै᳘ च पुᳫँ᳭स᳘श्च सन्तप्यते᳘ ऽथ रे᳘तः सिच्यते तत्त᳘तः प्र᳘जायते प᳘रागु᳘पानक्ति प᳘रा᳘ग्घ्येव रे᳘तः सिच्यते᳘ ऽथाह हविर्द्धा᳘नाभ्यां प्रवर्त्य᳘मानाभ्याम᳘नुब्रूहीति [[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ यत्पत्न्य᳘क्षस्य सन्ताप᳘मुपान᳘क्ति॥
प्रज᳘ननमे᳘वैतत्क्रियते यदा वै᳘ स्त्रियै᳘ च पुᳫँ᳭स᳘श्च सन्तप्यते᳘ ऽथ रे᳘तः सिच्यते तत्त᳘तः प्र᳘जायते प᳘रागु᳘पानक्ति प᳘रा᳘ग्घ्येव रे᳘तः सिच्यते᳘ ऽथाह हविर्द्धा᳘नाभ्यां प्रवर्त्य᳘मानाभ्याम᳘नुब्रूहीति [[!!]]॥

मूलम् - Weber

अ᳘थ यत्पत्न्य᳘क्षस्य संताप᳘मुपान᳘क्ति॥
प्रज᳘ननमेॗवैतत्क्रियते यदा वै᳘ स्त्रियै᳘ च पुंस᳘श्च संतप्यते᳘ ऽथ रे᳘तः सिच्यते तत्त᳘तः प्र᳘जायते प᳘रागु᳘पानक्ति प᳘राॗग्घ्येव रे᳘तः सिच्यते᳘ ऽथाह हविर्धा᳘नाभ्याम् प्रवर्त्य᳘मानाभ्याम᳘नुब्रूही᳘ति॥

मूलम् - विस्वरम्

अथ यत्पत्न्यक्षस्य सन्तापमुपानक्ति- प्रजननमेवैतत्क्रियते । यदा वै स्त्रियै च पुंसश्च सन्तप्यते- अथ रेतः सिच्यते, तत् ततः प्रजायते । परागुपानक्ति । पराग्घ्येव रेतः सिच्यते । अथाह- ‘हविर्द्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रूहि’ इति ॥ १६ ॥

सायणः

अथ यत्पत्न्यक्षस्येत्यादि । सन्ताप्यमानस्या??स्योपाञ्जनमेव प्रजननोत्पादनम् । यस्मात् स्त्रीपुरुषयोः सम्भोगकाले सन्तापेन रेतस उत्पादनद्वारा प्रजननसम्भवस्तस्मात् सन्तापोपाञ्जनकरणम् । उपाञ्जनस्य पराग्रूपतां विधाय प्रशंसति- परागुपानक्तीति ॥ १६ ॥

Eggeling
  1. And in that the wife anoints the burning (part) of the axle, thereby a productive union is effected; for when woman and man become heated, the seed flows, and thereupon birth takes place. She anoints in a direction away (from the cart), for away the seed is cast. He then says (to the Hotr̥), ‘Recite to the Soma-carts as they are wheeled forward 24!’

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वाचयति॥
प्रा᳘ची प्रे᳘तमध्वरं᳘ कल्प᳘यन्ती ऽइ᳘त्यध्वरो वै᳘ यज्ञः प्रा᳘ची प्रे᳘तं यज्ञं᳘ कल्प᳘यन्ती ऽइ᳘त्ये᳘वैत᳘दाहोर्ध्वं᳘ यज्ञं᳘ नयतं मा᳘ जिह्वरतमि᳘त्यूर्ध्व᳘मिमं᳘ यज्ञं᳘ देवलोकं᳘ नयतमि᳘त्ये᳘वैत᳘दाह मा᳘ जिह्वरतमि᳘ति त᳘देत᳘स्मा ऽअ᳘ह्वलामा᳘शास्ते समुद्गृ᳘ह्येव प्र᳘वर्तयेयुर्य्य᳘था᳘ नोत्स᳘र्जेतामसु᳘र्य्या वा᳘ ऽएषा व्वाग्या᳘ ऽक्षे ने᳘दि᳘हासु᳘र्या वाग्व᳘दादि᳘ति य᳘द्युत्स᳘र्जेताम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वाचयति॥
प्रा᳘ची प्रे᳘तमध्वरं᳘ कल्प᳘यन्ती ऽइ᳘त्यध्वरो वै᳘ यज्ञः प्रा᳘ची प्रे᳘तं यज्ञं᳘ कल्प᳘यन्ती ऽइ᳘त्ये᳘वैत᳘दाहोर्ध्वं᳘ यज्ञं᳘ नयतं मा᳘ जिह्वरतमि᳘त्यूर्ध्व᳘मिमं᳘ यज्ञं᳘ देवलोकं᳘ नयतमि᳘त्ये᳘वैत᳘दाह मा᳘ जिह्वरतमि᳘ति त᳘देत᳘स्मा ऽअ᳘ह्वलामा᳘शास्ते समुद्गृ᳘ह्येव प्र᳘वर्तयेयुर्य्य᳘था᳘ नोत्स᳘र्जेतामसु᳘र्य्या वा᳘ ऽएषा व्वाग्या᳘ ऽक्षे ने᳘दि᳘हासु᳘र्या वाग्व᳘दादि᳘ति य᳘द्युत्स᳘र्जेताम्॥

मूलम् - Weber

अ᳘थ वाचयति॥
प्रा᳘ची प्रे᳘तमध्वरं᳘ कल्प᳘यन्ती इ᳘त्यध्वरो वै᳘ यज्ञः प्रा᳘ची प्रे᳘तं यज्ञं᳘ कल्प᳘यन्ती इ᳘त्येॗवैत᳘दाहोर्ध्वं᳘ यज्ञं᳘ नयतम् मा᳘ जिह्वरतमि᳘त्यूर्ध्व᳘मिमं᳘ यज्ञं᳘ देवलोकं᳘ नयतमि᳘त्येॗवैत᳘दाह मा᳘ जिह्वरतमि᳘ति त᳘देत᳘स्मा अ᳘ह्वलामा᳘शास्ते समुद्गृ᳘ह्येव प्र᳘वर्तयेयुर्य᳘थाॗ नोत्स᳘र्जेतामसुॗर्या वा᳘ एषा वाग्या᳘क्षे ने᳘दिॗहासुॗर्या वाग्व᳘दादि᳘ति य᳘द्युत्स᳘र्जेताम्॥

मूलम् - विस्वरम्

अथ वाचयति “प्राची प्रेतमध्वरं कल्पयन्ती”- (वा. सं. ५ । १७) इति । अध्वरो वै यज्ञः । प्राची प्रेतं यज्ञं कल्पयन्ती इत्येवैतदाह । “ऊर्ध्वं यज्ञं नयतम्”- (वा. सं. ५ । १७) इति । “मा जिह्वरतम्”- (वा. सं. ५ । १७) इति । ऊर्ध्वम् इमं यज्ञं देवलोकं नयतम् इत्येवैतदाह- मा जिह्वरतम् इति । तत्- एतस्मा ऽअह्वलामाशास्ते समुद्गृह्येव प्रवर्तयेयुः- यथा नोत्सर्जेताम् । असुर्य्या वा ऽएषा वाक् या ऽक्षे नेदिहासुर्या वाग् वदादिति यद्युत्सर्जेताम् ॥ १७ ॥

सायणः

अथ वाचयतीति 25 । अथ प्रैषानन्तरं हविर्द्धानयोः प्रवर्तनकाले ‘वाचयति’ । मन्त्रस्यायमर्थः- हे हविर्द्धाने ‘प्राची’ प्रागञ्चने प्रगच्छतम् ‘अध्वरं’ सोमयागं ‘कल्पयन्ती’ फलजननसमर्थं कर्त्तुं शक्ते । ‘यज्ञम्’ सोमयागम् ‘ऊर्ध्वं’ स्वर्गलोकं ‘नयतम्’ प्रापयतम् । ‘मा जिह्वरतम्’ चलनभ्रंशं मा कुरुतम् ॥

अध्वरो वै यज्ञ इति । “ध्वरतिर्हिंसाकर्मा ।” (निरु. १ । ३ । ३ ।) हिंसा नास्तीत्यध्वरः स ‘यज्ञः’ नयतमित्युक्ते किमिति कर्मापेक्षायां तद्दर्शयति- ऊर्ध्वमिमं यज्ञं देवलोकं नयतमिति । ह्वला चलनम् (धा. पा. भ्वा. प. ८०७) तदभावः, ‘अह्वला’ तयोः प्रवर्तनकाले ‘समुद्गृह्येव’ सम्यगुद्धृतं गृहीत्वेव । तस्य व्याख्यानम्- यथा नोत्सर्जेतामिति । दुष्टध्वनिविसर्गः यथा ऽत्यन्तकर्षणे च ध्वनिर्नोत्पद्येतामित्यर्थः । अक्षध्वनेः श्रवणकटुत्वादसुर्यत्वम् ॥ १७ ॥

Eggeling
  1. He makes (the sacrificer) say, ‘Go ye both forward, furthering the cult!’ The cult, namely, is the sacrifice: ‘go ye both forward, furthering the sacrifice’ he thereby means to say. ‘Convey ye the sacrifice upward; lead it not astray 26!’ whereby he means to say, ‘convey this sacrifice upward to the world of the gods;’ and by saying ’lead it not astray,’ he prays for this (sacrificer) that he may not

stumble. Let them wheel (the carts) forward, as it were lifting them, so that they may not creak; for of the Asuras is that voice which is in the axle 27: ‘Lest the Asuras’ voice should speak here!’ so he thinks. But if they should creak,–

१८

विश्वास-प्रस्तुतिः

(मे) एत᳘द्वाचयेत्॥
(त्स्व᳘) स्व᳘ङ्गोष्ठमा᳘वदतं देवी[[!!]] दुर्य्ये ऽआ᳘युर्मा नि᳘र्व्वादिष्टं प्रजां मा नि᳘र्व्वादिष्टमि᳘ति त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - श्रीधरादि

(मे) एत᳘द्वाचयेत्॥
(त्स्व᳘) स्व᳘ङ्गोष्ठमा᳘वदतं देवी[[!!]] दुर्य्ये ऽआ᳘युर्मा नि᳘र्व्वादिष्टं प्रजां मा नि᳘र्व्वादिष्टमि᳘ति त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - Weber

एत᳘द्वाचयेत्॥
स्वं᳘ गोष्ठमावदतं देवी᳘ दुर्ये आ᳘युर्मा नि᳘र्वादिष्टम् प्रजाम् मा नि᳘र्वादिष्टमि᳘ति त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - विस्वरम्

एतद्वाचयेत्- “स्वङ्गोष्ठमावदतम् देवी दुर्य्ये आयुर्मा निर्वादिष्टम्, प्रजां मा निर्वादिष्टम्”- (वा. सं. ५ । १७) इति । तस्यो हैषा प्रायश्चित्तिः ॥ १८ ॥

सायणः

एतद्वाचयेदिति 28 । प्रमादाद्ध्वन्युत्पत्तौ “स्वं गोष्ठम्”- इति ‘एतद् वाचयेत्’ हे ‘देवी’ हविर्द्धाने ! हे ‘दुर्ये गृहेषु साधुरूपे । युवां ‘स्वं’ यजमानस्य स्वभूतं ‘गोष्ठं’ गवां स्थानम् ‘आवदतं’ सर्वतः शब्दयतम् पशवः समृद्धाः स्युरिति ब्रूतमित्यर्थः । ‘आयुः’ अस्मदायुषं ‘मा’ ‘निर्बाधिष्टम्’ 29 ‘प्रजां’ पुत्रादिरूपां च ‘मा निर्बाधिष्टम्’ । ‘तस्य’ ध्वनेरसुर्यस्य ‘एषा’ मन्त्रोच्चारणरूपा ‘प्रायश्चित्तिः’ ॥ १८ ॥

Eggeling
  1. Let him make (the sacrificer) say this, ‘Speak ye unto your own cow-pen, ye divine resorts; speak not my life away, speak not my offspring away!’ This, then, is the expiation thereof.

१९

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दाहुः॥
(रु) उत्तरवेदेः[[!!]] प्रत्यङ्प्र᳘क्रामेत्त्री᳘न्विक्रमांस्त᳘द्धविर्द्धा᳘ने स्थापयेत्सा᳘ हविर्द्धा᳘नयोर्मात्रे᳘ति ना᳘त्र मा᳘त्रा ऽस्ति य᳘त्रैव᳘ स्वयं म᳘नसा म᳘न्येत ना᳘हैव᳘ सत्रा᳘ ऽत्यन्तिके᳘ नो दूरे त᳘त्स्थापयेत्॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दाहुः॥
(रु) उत्तरवेदेः[[!!]] प्रत्यङ्प्र᳘क्रामेत्त्री᳘न्विक्रमांस्त᳘द्धविर्द्धा᳘ने स्थापयेत्सा᳘ हविर्द्धा᳘नयोर्मात्रे᳘ति ना᳘त्र मा᳘त्रा ऽस्ति य᳘त्रैव᳘ स्वयं म᳘नसा म᳘न्येत ना᳘हैव᳘ सत्रा᳘ ऽत्यन्तिके᳘ नो दूरे त᳘त्स्थापयेत्॥

मूलम् - Weber

त᳘दाहुः॥
उत्तरवेदेः᳘ प्रत्यङ् प्र᳘क्रामेत्त्री᳘न्विक्रमांस्त᳘द्धविर्धा᳘ने स्थापयेत्सा᳘ हविर्धा᳘नयोर्मात्रे᳘ति ना᳘त्र मा᳘त्रास्ति य᳘त्रैव᳘ स्वयम् म᳘नसा म᳘न्येत ना᳘हैव᳘ सत्रा᳘त्यन्तिकेॗ नो दूरे त᳘त्स्थापयेत्॥

मूलम् - विस्वरम्

तदाहुः- उत्तरवेदेः प्रत्यङ् प्रक्रामेत, त्रीन् विक्रमांस्तद्धविर्द्धाने स्थापयेत्, सा हविर्द्धानयोर्मात्रेति । नात्र मात्रा ऽस्ति । यत्रैव स्वयं मनसा मन्येत । नाहैव सत्रा ऽत्यन्तिके, नो दूरे-तत् स्थापयेत् ॥ १९ ॥

सायणः

हविर्द्धानयोः स्थापनप्रदेशे पक्षान्तरमभिधातुं केषाञ्चित्पक्षमाह- तदाहुरिति । ‘उत्तरवेदेः’ पश्चात्सञ्चराय विक्रमत्रयं परित्यज्य यत्र देशे तयोः स्थापनं भवति, ‘सा हविर्द्धानयोर्मात्रा’ स्थापनप्रदेशप्रमाणम् । स्वपक्षमाह- नात्रेति । तत्र स्थापयेदिति शेषः । मनसा यत्र मन्येतेति विशिनष्टि- नाहैवेति । ‘सत्रा’ अभिमतदेशे ऽपि अतिदूरमतिसमीपञ्च विसृज्य मध्ये स्थापयेदित्यर्थः । तथा च कात्यायनः- “पश्चादुत्तरवेदेस्त्रिषु प्रक्रमेषु मत्या वा”- (का. श्रौ. सू. ८ । ९० ।) इति ॥ १९ ॥

Eggeling
  1. As to this they say, ‘Let him stride three steps from the high altar westward and make the Soma-carts stop there: this is the measure for the Soma-carts.’ But there is no (fixed) measure in this; wherever he himself may think fit in his mind, only not too near 30, nor too far (from the high altar), there let him stop them.

२०

विश्वास-प्रस्तुतिः

(त्ते᳘) ते᳘ ऽअभि᳘मन्त्रयते॥
(ते᳘ ऽत्र) अ᳘त्र रमेथां व्व᳘र्ष्मन्पृथिव्या ऽइ᳘ति व्व᳘र्ष्म᳘ ह्येत᳘त्पृथिव्यै भ᳘वति दिवि᳘ ह्यस्याहवनी᳘यो[[!!]] भ᳘वति नभ्यस्थे᳘ करोति तद्धि क्षे᳘मस्य रूपम्[[!!]]॥

मूलम् - श्रीधरादि

(त्ते᳘) ते᳘ ऽअभि᳘मन्त्रयते॥
(ते᳘ ऽत्र) अ᳘त्र रमेथां व्व᳘र्ष्मन्पृथिव्या ऽइ᳘ति व्व᳘र्ष्म᳘ ह्येत᳘त्पृथिव्यै भ᳘वति दिवि᳘ ह्यस्याहवनी᳘यो[[!!]] भ᳘वति नभ्यस्थे᳘ करोति तद्धि क्षे᳘मस्य रूपम्[[!!]]॥

मूलम् - Weber

ते᳘ अभि᳘मन्त्रयते॥
अ᳘त्र रमेथां व᳘र्ष्मन्पृथिव्या इ᳘ति व᳘र्ष्मॗ ह्येत᳘त्पृथिव्यै भ᳘वति दिवि ह्य᳘स्याहवनी᳘यो भ᳘वति नभ्यस्थे᳘ करोति तद्धि क्षे᳘मस्य रूप᳘म्॥

मूलम् - विस्वरम्

ते ऽअभिमन्त्रयते- “अत्र रमेथां वर्ष्मन् पृथिव्याः”- (वा. सं. ५ । १७) इति । वर्ष्म ह्येतत् पृथिव्यै भवति । दिवि ह्यस्याहवनीयो भवति । नभ्यस्थे करोति । तद्धि क्षेमस्य रूपम् ॥ २० ॥

सायणः

ते अभिमन्त्रयत 28 इति । स्थापनानन्तरं हविर्द्धाने अभिमन्त्रयेत- अत्र रमेथामिति । ‘पृथिव्यै’ पृथिव्याः ‘वर्ष्मणि’ शरीरे अत्र च देशे हविर्द्धाने ‘रमेथाम्’ रतिं कुरुतम् । दिवि ह्यस्येति । एतद्धविर्द्धानस्य पृथिवीत्वे हेतुः । । यस्मादुपरिभाग उत्तरवेदिरूपः ‘आहवनीयः’ द्युलोकस्थानीयः, अतस्तदधोवर्तिवेदिदेशस्य पृथिवीशरीरत्वं युज्यते । ‘नभ्यस्थे करोति’ यथा नाभ्याधारफलके भूमिष्ठे भवतः, तथा कुर्यात् । “नाभि नभं च” (पा. सू. ५ । १ । २ । ग. सू. ९५) इति यत्प्रत्यययोगे नभादेशः । उत्तरत्र प्रदेशस्य भूस्पर्शे भ्रंशः कदाचिद् भवेत्, अत एव तत् ‘क्षेमस्य रूपम्’ भवति ॥ २० ॥

Eggeling
  1. He salutes them with, ‘May ye rejoice here on the height of the earth!’ for this (altar) is verily the height 31 (top) of the earth, since his offering-fire is in the heaven. He makes them rest on their naves 32 for that is the appearance of repose.

२१

विश्वास-प्रस्तुतिः

(म) अथो᳘त्तरेण पर्य्ये᳘त्याध्वर्य्युः[[!!]]॥
(र्द᳘) द᳘क्षिणᳫँ᳭ हविर्द्धा᳘नमु᳘पस्तभ्नाति व्वि᳘ष्णोर्नु᳘कं व्वी᳘र्य्याणि प्र᳘वोचं यः पा᳘र्थिवानि व्विममे र᳘जाᳫं᳭सि। यो ऽअ᳘स्कभायदु᳘त्तरᳫं᳭ सध᳘स्थं व्विचक्रमाण᳘स्त्रे᳘धोरुगायो व्वि᳘ष्णवे त्वे᳘ति मेथी᳘मुपनि᳘हन्तीतर᳘तस्त᳘तो य᳘दु च मानुषे[[!!]]॥

मूलम् - श्रीधरादि

(म) अथो᳘त्तरेण पर्य्ये᳘त्याध्वर्य्युः[[!!]]॥
(र्द᳘) द᳘क्षिणᳫँ᳭ हविर्द्धा᳘नमु᳘पस्तभ्नाति व्वि᳘ष्णोर्नु᳘कं व्वी᳘र्य्याणि प्र᳘वोचं यः पा᳘र्थिवानि व्विममे र᳘जाᳫं᳭सि। यो ऽअ᳘स्कभायदु᳘त्तरᳫं᳭ सध᳘स्थं व्विचक्रमाण᳘स्त्रे᳘धोरुगायो व्वि᳘ष्णवे त्वे᳘ति मेथी᳘मुपनि᳘हन्तीतर᳘तस्त᳘तो य᳘दु च मानुषे[[!!]]॥

मूलम् - Weber

अथोत्तरेण पर्ये᳘त्याध्वर्युः᳟॥
द᳘क्षिणᳫं हविर्धा᳘नमु᳘पस्तभ्नाति विष्णोर्नु᳘ कं वीॗर्याणि प्र᳘वोचं यः पा᳘र्थिवानि विममे र᳘जांसि यो अ᳘स्कभायदु᳘त्तरᳫं सध᳘स्थं विचक्रमाण᳘स्त्रेॗधोरुगायो वि᳘ष्णवे त्वे᳘ति मेथी᳘मुपनि᳘हन्तीतर᳘तस्त᳘तो य᳘दु च मानुषे᳟॥

मूलम् - विस्वरम्

अथोत्तरेण पर्य्येत्याध्वर्य्युर्दक्षिणं हविर्द्धानमुपस्तभ्नाति- “विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि । यो ऽअस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वा”- (वा. सं. ५ । १८) इति । मेथीमुपनिहन्तीतरतः, ततो यदु च मनुषे ॥ २१ ॥

सायणः

अथोत्तरेण पर्येत्येति 33 । दक्षिणहविर्द्धानस्योत्तरतः ‘परीत्य’ पुरोदेशं गत्वा ‘दक्षिणं हविर्द्धानम्’ उपस्तभ्नाति । यथा ऽधो न पतेत्, तथा कस्मिंश्चित् काष्ठे स्थापयेत् ॥

तन्मन्त्रः- “विष्णोर्नुकम्”- इति । ‘विष्णोः’ त्रिविक्रमावतारस्य ‘वीर्याणि’ ‘प्रवोचम्’ प्रब्रवीमि । कानि तानि ? तदुच्यन्ते- ‘यः’ विष्णुः ‘पार्थिवानि’ पृथिवीविकारान्, ‘रजांसि’ “लोका रजांस्युच्यन्ते” (निरु० ४ । ३ । ३) इति निरुक्तम्, लोकान् विविधं परिच्छिन्नवान् । ‘यः’ च ‘उत्तरम्’ उपरितनं ‘सधस्थं ’ सहस्थानं द्युलोकम् ‘अस्कभायत्’ स्तम्भितवान् । किं कुर्वन् ? ‘त्रेधा’ त्रिप्रकारेण ‘विश्वं’ ‘विचक्रमाणः’ विविधं क्रममाणः सन्, ‘उरुगायः’ बहुभिर्महात्मभिर्बहुविधं वा श्रुत्यादिमुखेन गीयमानः । यो विष्णुरेवमकरोत् तस्य वीर्याणि प्रवोचम् इति ॥

विष्णवे त्वेति मेथीमुपहन्तीति 34 । हे ‘मेथी’ स्तम्भ ! ‘विष्णवे’ हविर्द्धानशकटाय ‘त्वा’ त्वाम् उपहन्मीत्यर्थः । कस्मिन् देशे निहन्यादिति तमाह- इतरतस्ततो यदु च मानुषे इति । ‘मानुषे’ शकटधारणे ‘यत्’ स्थानमीषाग्रेतरभागः तदुत्तरत्र ‘मेथीं’ स्तम्भं निहन्यादित्यर्थः । तथा च सूत्रकार उभयोरपि दक्षिणतो निहननस्येदं ब्राह्मणवाक्यं प्रमाणयामास “उभे वा दक्षिणतः, इतरतस्ततः, यदु च मानुष इति श्रुतेः (का. श्रौ. सू. ८ । ९५-९७)”- इति ॥ २१ ॥

Eggeling
  1. The Adhvaryu, having gone round along the north side (of the carts), props the southern cart, with (Vāj. S. V, 18; Rig-veda I, 154, 1), ‘Now will I declare the heroic deeds of Vishṇu, who measured out the earthly regions; who propped the upper seat, striding thrice, the wide-stepping! For Vishṇu (I prop) thee!’ He fixes the prop in a different place from where (it is fixed) in ordinary practice 35.

२२

विश्वास-प्रस्तुतिः

(षे᳘ ऽथ) अ᳘थ प्रतिप्रस्थाता᳘॥
(तो᳘) उ᳘त्तरᳫं᳭ हविर्द्धा᳘नमु᳘पस्तभ्नाति दिवो᳘ वा व्विष्ण ऽउत᳘ वा पृथिव्या᳘ महो᳘ वा व्विष्ण ऽउरो᳘रन्त᳘रिक्षात्। उभा हि ह᳘स्ता व्व᳘सुना पृणस्वा प्र᳘यच्छ द᳘क्षिणा᳘दोत᳘ सव्याद्वि᳘ष्णवे त्वे᳘ति मेथी᳘मुपनि᳘हन्तीतर᳘त᳘स्ततो[[!!]] य᳘दु च मानु᳘षे तद्य᳘द्वैष्णवैर्य्य᳘जुर्भिरुपच᳘रन्ति व्वैष्णवᳫँ᳭हि᳘ हविर्द्धा᳘नम्॥

मूलम् - श्रीधरादि

(षे᳘ ऽथ) अ᳘थ प्रतिप्रस्थाता᳘॥
(तो᳘) उ᳘त्तरᳫं᳭ हविर्द्धा᳘नमु᳘पस्तभ्नाति दिवो᳘ वा व्विष्ण ऽउत᳘ वा पृथिव्या᳘ महो᳘ वा व्विष्ण ऽउरो᳘रन्त᳘रिक्षात्। उभा हि ह᳘स्ता व्व᳘सुना पृणस्वा प्र᳘यच्छ द᳘क्षिणा᳘दोत᳘ सव्याद्वि᳘ष्णवे त्वे᳘ति मेथी᳘मुपनि᳘हन्तीतर᳘त᳘स्ततो[[!!]] य᳘दु च मानु᳘षे तद्य᳘द्वैष्णवैर्य्य᳘जुर्भिरुपच᳘रन्ति व्वैष्णवᳫँ᳭हि᳘ हविर्द्धा᳘नम्॥

मूलम् - Weber

अ᳘थ प्रतिप्रस्थाता᳟॥
उ᳘त्तरᳫं हविर्धा᳘नमु᳘पस्तभ्नाति दिवो᳘ वा विष्ण उत᳘ वा पृथिव्या᳘ महो᳘ वा विष्ण उरो᳘रन्त᳘रिक्षात उभा हि ह᳘स्ता व᳘सुना पृणस्वा प्र᳘यछ द᳘क्षिणाॗदोत᳘ सव्याद्वि᳘ष्णवे त्वे᳘ति मेथी᳘मुपनिहन्तीतर᳘तस्त᳘तो य᳘दु च मानुषे तद्य᳘द्वैष्णवैर्य᳘जुर्भिरुपच᳘रन्ति वैष्णवᳫं हि᳘ हविर्धा᳘नम्॥

मूलम् - विस्वरम्

अथ प्रतिप्रस्थाता उत्तरं हविर्द्धानमुपस्तभ्नाति- “दिवो वा विष्ण ऽउत वा पृथिव्या महो वा विष्ण ऽउरोरन्तरिक्षात् । उभा हि हस्ता वसुना पृणस्वा प्रयच्छ दक्षिणादोत सव्याद्विष्णवे त्वा”- (वा. सं. ५ । १९) इति । मेथीमुपनिहन्तीतरतस्ततो यदु च मानुषे तद् यद्वैष्णवैर्यजुर्भिरुपचरन्ति वैष्णवं हि हविर्द्धानम् ॥ २२ ॥

सायणः

अथ प्रतिप्रस्थातेति 33 । दक्षिणहविर्द्धानोत्तम्भनमन्त्रस्यायमर्थः । हे ‘विष्णो’ ! ‘दिवः’ द्युलोकात् ‘वा’ अथवा ‘पृथिव्याः’ सकाशात् हे ‘विष्णो !’ ‘महः’ महतो गुणात् ‘उरोः’ विस्तीर्णात् ‘अन्तरिक्षात्’ वा उभौ हस्तौ तावकौ ‘वसुना’ धनेन ‘पृणस्व’ पूरय । ततो ‘दक्षिणात्’ हस्तात्, अपि चोत्तराच्च ‘आ’ सर्वतः ‘प्रयच्छ’ पूर्णं वसु यजमानार्थम् ॥

“विष्णवे त्वा”- इति उत्तरहविर्द्धानस्य मेथीं प्रतिप्रस्थाता उपहन्यात् 36 “इतरतस्ततः” इति पूर्ववत् (श. प. ब्रा. ३ । ५ । ३ । २१) ॥ २२ ॥

Eggeling
  1. The assistant then props the northern cart, with (Vāj. S. V, 19), ‘Either from the heaven, O Vishṇu, or from the earth, or from the great, wide airy region, O Vishṇu, fill both thine hands with wealth and bestow on us from the right and the left! For Vishṇu thee!’ He fixes the prop in a different place from where (it is fixed) in ordinary practice. The reason why he performs with prayers to Vishṇu is that the Soma-cart belongs to Vishṇu.

२३

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ मध्यमं᳘ छदि᳘रुपस्पृ᳘श्य व्वाचयति॥
प्रतद्वि᳘ष्णुस्तवते व्वी᳘र्य्येण मृगो न᳘ भीमः᳘ कुचरो᳘ गिरिष्ठाः[[!!]]। य᳘स्योरु᳘षु त्रिषु᳘ व्विक्र᳘मणेष्वधिक्षिय᳘न्ति भु᳘वनानि व्विश्वे᳘तीद᳘ᳫँ᳘ है᳘वास्यैत᳘च्छीर्षकपालं य᳘दिद᳘मुप᳘रिष्टाद᳘धीव᳘ ह्येत᳘त्क्षिय᳘न्त्यन्या᳘नि शीर्षकपाला᳘नि त᳘स्मादाहाधिक्षियन्तीति[[!!]]॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ मध्यमं᳘ छदि᳘रुपस्पृ᳘श्य व्वाचयति॥
प्रतद्वि᳘ष्णुस्तवते व्वी᳘र्य्येण मृगो न᳘ भीमः᳘ कुचरो᳘ गिरिष्ठाः[[!!]]। य᳘स्योरु᳘षु त्रिषु᳘ व्विक्र᳘मणेष्वधिक्षिय᳘न्ति भु᳘वनानि व्विश्वे᳘तीद᳘ᳫँ᳘ है᳘वास्यैत᳘च्छीर्षकपालं य᳘दिद᳘मुप᳘रिष्टाद᳘धीव᳘ ह्येत᳘त्क्षिय᳘न्त्यन्या᳘नि शीर्षकपाला᳘नि त᳘स्मादाहाधिक्षियन्तीति[[!!]]॥

मूलम् - Weber

अ᳘थ मध्यमं᳘ छदि᳘रुपस्पृश्य वाचयति॥
प्र तद्वि᳘ष्णु स्तवते वीॗर्येण मृगो न᳘ भीमः᳘ कुचरो गिरिष्ठाः᳘ य᳘स्योरु᳘षु त्रिषु᳘ विक्रमणेष्वधिक्षिय᳘न्ति भु᳘वनानि विश्वे᳘तीद᳘ᳫं᳘ है᳘वास्यैत᳘छीर्षकपालं य᳘दिद᳘मुप᳘रिष्टाद᳘धीवॗ ह्येतत्क्षिय᳘न्त्यन्या᳘नि शीर्षकपाला᳘नि त᳘स्मादाहाधिक्षियन्ती᳘ति॥

मूलम् - विस्वरम्

अथ मध्यमं छदिरुपस्पृश्य वाचयति- “प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा”- (वा. सं. ५ । २०) इति । इदं हैवास्यैतत् शीर्षकपालम्- यद् इदमुपरिष्टात् । अधीव ह्येतत् क्षियन्त्यन्यानि शीर्षकपालानि । तस्मादाह- अधिक्षियन्तीति ॥ २३ ॥

सायणः

अथ मध्यमं छदिरित्यादि 37 “तयोः सभववृत्तयोश्छदिरधि निदधाति” इति छदिः प्रागुक्तम् (श. प. ब्रा. ३ । ५ । ३ । १०) । तत् ‘उपस्पृश्य’ “प्रतद्विष्णुः”- इति वाचयेत् ॥

तस्यार्थः- ‘विष्णुः’ ‘वीर्येण’ वीरस्य कर्म वीर्यम्, तेन निमित्तेन ‘प्रस्तवते’ प्रस्तूयते । वीर्येण स्तूयमानत्वे दृष्टान्तः- मृगो न इति । ‘कुचरः’ कुत्सितं हिंसन् सञ्चरन् ‘भीमः’ सर्वप्राणिभीतिजनकः, ‘गिरिष्ठाः’ गिरिस्थायी ‘मृगो न’ सिंहतुल्यः । ‘यस्य’ विष्णोः, ‘उरुषु’ लोकत्रयव्यापकत्वेनातिविस्तृतेषु ‘त्रिषु’ ‘विक्रमणेषु’ ‘विश्वा’ सर्वाणि ‘भुवनानि’ लोकाः ‘अधिक्षियन्ति’ अधिनिवसन्ति ॥

अथवा ब्राह्मणानुसारेणायं मन्त्रो ऽधियज्ञपरतया व्याख्येयः । ‘विष्णुः’ हविर्द्धानाख्यः, तस्य यदुपरि वर्तमानं मध्यमं छदिरस्ति, तत् स्तूयत इत्यर्थः । उत्तरवेदेः प्रत्यक् त्रिषु विक्रमणेष्वतीतेषु निधीयमानस्य यस्य उपरिशीर्षकपालस्थानीयं मध्यमं छदिरस्ति, तस्य ‘अधि’ उपरि सर्वतो विश्वा भुवनानि भवन्तीति । भुवनानि उपरिशीर्षकपालस्थानानि अन्यानि छदींषि क्षियन्ति निवसन्ति ॥

अधिक्षियन्तीत्येतं मन्त्रभागं व्याचष्टे- इदं हैवास्यैतच्छीर्षकपालमित्यादिना ॥ २३ ॥

Eggeling
  1. He then makes (the sacrificer) say, after touching the middle reed-mat 38 (Vāj. S. V, 20; Rig-veda I, 154, 2), ‘Let Vishṇu then be praised for his power, terrible like a wild beast prowling about the mountains, on whose three wide strides all beings abide!’ Now that (mat-covering) indeed is his (Vishṇu, the shed’s) upper skull-bone 39

for thereon, as it were, the other skull-bones rest: this is why he says ’they abide on.’

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ररा᳘ट्यामुपस्पृ᳘श्य व्वाचयति॥
व्वि᳘ष्णो ररा᳘टमसी᳘ति लला᳘टᳫँ᳭ है᳘वास्यैतद᳘थोच्छ्रा᳘या ऽउपस्पृ᳘श्य व्वाचयति व्वि᳘ष्णोः श्न᳘प्त्रे स्थ इ᳘ति स्र᳘क्वे है᳘वास्यैते ऽअ᳘थ य᳘दिदं᳘ पश्चा᳘च्छदिर्भ᳘वतीद᳘ᳫँ᳘ है᳘वास्यैत᳘च्छीर्षकपालं य᳘दिदं᳘ पश्चात्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ररा᳘ट्यामुपस्पृ᳘श्य व्वाचयति॥
व्वि᳘ष्णो ररा᳘टमसी᳘ति लला᳘टᳫँ᳭ है᳘वास्यैतद᳘थोच्छ्रा᳘या ऽउपस्पृ᳘श्य व्वाचयति व्वि᳘ष्णोः श्न᳘प्त्रे स्थ इ᳘ति स्र᳘क्वे है᳘वास्यैते ऽअ᳘थ य᳘दिदं᳘ पश्चा᳘च्छदिर्भ᳘वतीद᳘ᳫँ᳘ है᳘वास्यैत᳘च्छीर्षकपालं य᳘दिदं᳘ पश्चात्[[!!]]॥

मूलम् - Weber

अ᳘थ रराॗट्यामुपस्पृ᳘श्य वाचयति॥
वि᳘ष्णो ररा᳘टमसी᳘ति लला᳘टᳫं हैॗवास्यैतद᳘थोछ्राॗय्या उपस्पृ᳘श्य वाचयति वि᳘ष्णोः श्न᳘प्त्रे स्थ इ᳘ति स्र᳘क्वे हैॗवास्यैते अ᳘थ य᳘दिद᳘म् पश्चा᳘च्छदिर्भ᳘वतीद᳘ᳫं᳘ हैॗवास्यैत᳘छीर्षकपालं य᳘दिद᳘म् पश्चा᳘त्॥

मूलम् - विस्वरम्

अथ रराट्यामुपस्पृश्य वाचयति- “विष्णो रराटमसि”- (वा. सं. ५ । २१) इति । ललाटं हैवास्यैतत् । अथोच्छ्राया ऽउपस्पृश्य वाचयति- “विष्णो श्नप्त्रे स्थः”- (वा. सं. ५ । २१) इति । स्रक्वे हैवास्यैते । अथ यत् इदं पश्चाच्छदिर्भवति इदं हैवास्यैतत् शीर्षकपालं- यदिदं पश्चात् ॥ २४ ॥

सायणः

अथ रराट्यामुपस्पृश्येति 40 । ‘रराट्याम्’ रराटीमित्यर्थः । ‘अस्य’ हविर्द्धानस्य ‘एतत्’ रराट्याख्यमङ्गं ललाटं खलु ‘अथ’ अतः ‘उच्छ्रायौ,’ द्वारशाखे द्वारस्योभयपार्श्ववर्तिनी तृणादिनिर्मिते प्रावरणे, तौ ‘उपस्पृश्य’ ‘वाचयति’- विष्णोरिति । ‘विष्णोः’ हविर्द्धानस्य ‘श्नप्त्रे’ सृक्किणी, ओष्ठसन्धी ‘स्थः’ भवथः । श्नप्त्रशब्दार्थमाह- स्रक्वे हैवास्यैते इति । पश्चाच्छदिषः स्थानं प्रशंसति- अथ यदिदं पश्चाच्छदिरिति । ‘इदं पश्चाच्छदिः’ हविर्धानाख्यस्य यज्ञशिरसः पश्चात्, कपालस्थानीयमित्यर्थः ॥

अथ मध्यच्छदिष उपरिगतानि त्रीण्यपि छदींषि उदगग्राणि कर्तव्यानि; त्रयाणामपि प्रागग्रीकरणे पश्चाच्छदिरिति श्रूयमाणं पश्चादित्युक्तं न युज्येत । तथा च कात्यायनः- “उदगग्राणि च्छदींषि भवन्ति पश्चाच्छ्रुतेः” इति (का. श्रौ. सू. ८ । १०२) ॥ २४ ॥

Eggeling
  1. Thereupon he makes him say, after touching the front-band (Vāj. S. V, 2), ‘Thou art Vishṇu’s fillet;’ for it indeed is his fillet. He then makes him say, after touching the two upright hurdles, ‘Ye are the corners of Vishṇu’s mouth;’ for they indeed are the corners of his mouth. Then that mat which is behind there, that indeed is that skull-bone of his here behind (viz. the occiput).

२५

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ लस्पूजन्या᳘ स्प᳘न्द्यया[[!!]] प्र᳘सीव्यति॥
व्वि᳘ष्णोः स्यू᳘रसीत्य᳘थ ग्रन्थिं᳘ करोति व्वि᳘ष्णोर्ध्रु᳘वो ऽसी᳘ति ने᳘द्व्यवप᳘द्याता ऽइ᳘ति तं प्र᳘कृते क᳘र्म्मन्वि᳘ष्यति त᳘थो हाध्वर्युं᳘ वा य᳘जमानं वा ग्राहो न᳘ विन्दति तन्नि᳘ष्ठितमभि᳘मृशति व्वैष्णव᳘मसी᳘ति व्वैष्णवᳫँ᳭ हि᳘ हविर्द्धा᳘नम्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ लस्पूजन्या᳘ स्प᳘न्द्यया[[!!]] प्र᳘सीव्यति॥
व्वि᳘ष्णोः स्यू᳘रसीत्य᳘थ ग्रन्थिं᳘ करोति व्वि᳘ष्णोर्ध्रु᳘वो ऽसी᳘ति ने᳘द्व्यवप᳘द्याता ऽइ᳘ति तं प्र᳘कृते क᳘र्म्मन्वि᳘ष्यति त᳘थो हाध्वर्युं᳘ वा य᳘जमानं वा ग्राहो न᳘ विन्दति तन्नि᳘ष्ठितमभि᳘मृशति व्वैष्णव᳘मसी᳘ति 40 व्वैष्णवᳫँ᳭ हि᳘ हविर्द्धा᳘नम्॥

मूलम् - Weber

अ᳘थ लस्पूजन्या᳘ स्पन्द्य᳘या प्र᳘सीव्यति॥
वि᳘ष्णोः स्यू᳘रसीत्य᳘थ ग्रन्थिं᳘ करोति वि᳘ष्णोर्ध्रुॗवो ऽसी᳘ति ने᳘द्व्यंवप᳘द्याता इ᳘ति तम् प्र᳘कृते क᳘र्मन्वि᳘ष्यति तथो हाध्वर्युं᳘ वा य᳘जमानं वा ग्राहो न विन्दति तन्नि᳘ष्ठितमभि᳘मृशति 41 वैष्णव᳘मसी᳘ति वैष्णवᳫं हि᳘ हविर्धा᳘नम्॥

मूलम् - विस्वरम्

अथ लस्पूजन्या स्पन्द्यया प्रसीव्यति । “विष्णो स्यूरसि”- (वा. सं. ५ । २१) इति । अथ ग्रंथिं करोति । “विष्णोर्ध्रुवो ऽसि”- (वा. सं. ५ । २१) इति । नेद् व्यवपद्याता ऽइति । तं प्रकृते कर्मन् विष्यति । तयो हाध्वर्युं वा यजमानं वा ग्राहो न विन्दति । तन्निष्ठितमभिमृशति । “वैष्णवमसि”- (वा. सं. ५ । २१) इति । वैष्णवं हि हविर्द्धानम् ॥ २५ ॥

सायणः

अथ लस्पूजन्या स्पन्द्यया प्रसीव्यतीति 40 । ‘लस्पूजनी’ नाम सीवनसाधनसूच्यादिः तत्र सम्बद्धया रज्ज्वेत्यर्थः । द्वारशाखां दर्भैरावेष्ट्य रज्ज्वा “विष्णोः स्यूरसि”- इति मन्त्रेण सीव्येत् । हे द्वार्ये ! यद्वा हे रज्जो ! त्वं ‘विष्णोः’ हविर्द्धानस्य ‘स्यूः’ स्यूतप्रदेशः ‘असि’ । हे ग्रथ्यमानप्रदेश ! त्वं विष्णोः हविर्द्धानस्य ‘ध्रुवः’ अच्युतावयवः ‘असि’ । अतस्त्वां ग्रथ्नामीत्यर्थः 42

ग्रन्थिकरणप्रयोजनमाह- नेद् व्यवपद्याता इतीति । अवाग् विविधं नैव पतेदित्येवमर्थमित्यर्थः । तं ग्रन्थिं ‘कर्मन्’ कर्मणि ‘प्रकृते’ प्रकर्षेण कृते परिसमाप्ते ‘विष्यति’ विमुञ्चेत् । तत ऊर्ध्वमपि बन्धने सति तदपराधेन ‘अध्वर्युं’ ‘यजमानं’ च ‘ग्राहः’ गृह्णाति विश्लेषे सति स न भवतीत्यर्थः । निष्ठितमभिमृशति वैष्णवमसीतीति (का. श्रौ. सू. ८ । १०७) [^४_१८७] । ‘निष्ठितं’ सीवनेन सुनिष्पन्नम् । स्पष्टमन्यत् ॥ २५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे पञ्चमाध्याये तृतीयं ब्राह्मणम् ॥ (३–५–३) ॥

Eggeling
  1. With ‘Thou art Vishṇu’s sewer 43,’ he sews (the hurdles to the four door posts) with cord by means of a wooden pin. With, ‘Thou art Vishṇu’s fixed (point) 44,’ he then makes a knot, ’lest it should fall asunder.’ That same (knot) he undoes when the work is completed; and thus disease 45 befalls not either the Adhvaryu or the Sacrificer. The completed (cart-shed) he touches with, ‘Thou art Vishṇu’s own,’ for the Soma-cart (and shed) belongs to Vishṇu.

  1. 126:2 Yāvat-tāvat would rather seem to mean here ‘of corresponding (or relatively the same) proportions’ as a man, viz. as the respective sacrificer. ‘Sa vai tāyamāno yāvān eva purushas tāvān vidhīyate, purushasyaiva vidhām anu.’ Kāṇva rec. ↩︎

  2. 126:3 Soma himself is Vishṇu. ↩︎

  3. 126:4 See III, 6, 1, 23; 2, 21. ↩︎

  4. 127:1 See III, 6, 2, 21. ↩︎

  5. 127:2 That is, the (old) Āhavanīya and Gārhapatya fires of the Prācīna-vaṁśa. ↩︎

  6. व्वर्षीयोदक्षिणं । का. श्रौ. सू. ८ । ७३ । ↩︎

  7. 127:3 The southern (and larger) cart is under the charge of the Adhvaryu and the northern one under that of his assistant, the Pratiprasthātr̥. Each now drives his cart westward along the south and north sides respectively; and when they are opposite the hall (śāla), they make the carts turn round from left to right; whereupon they drive back to the altar, and place them thereon with the shafts towards the east, near the antaḥpāta (‘intermediate’ peg, see III, 5, 1, 1), south and north of the ‘spine’ (cf. p. 112, note 2), each at the distance of one cubit from the latter. ↩︎

  8. 127:4 In order to make the shed incline towards the north, cf. III, 1, 1, 2. ↩︎

  9. भि᳘त्तिं प्रत्या᳘. ↩︎

  10. रलयोरैक्याद्रराटीनाम ललाटपट्टिका इत्यर्थः । ↩︎ ↩︎

  11. 128:1 It is not clear to me whether the arrangements mentioned in this paragraph refer to the carts in the first place, and have then to be repeated after the shed has been erected, or whether, as I think, some of them refer to the shed only. Even at the time of the Kāty. Sūtras there seems to have been some confusion in this respect, and the rules VIII, 4, 7-12 (10-15, in edition) were entirely misunderstood by the commentator. It is, however, certain that the carts were covered with mats, previously to being shifted from the back to the front part of the altar. As regards the shed, it seems to have been constructed in the following way. In front of the carts, as well as behind them, beams are driven into the ground, six on each side, according to Sāyaṇa on T. S. I, 2, 13; the two middle ones, one cubit north and south of the ‘spine’ respectively, forming a gateway on each side (Kāty. VIII, 4, 24 scholl.). On these two rows of beams other beams are laid, running from south to north, and forming, as it were, the lintels of the gates; and thereon the tie-beams rest (west to east). This frame of timber is to form a square of nine (or ten) cubits. Over the tie-beams three mats of reed-grass(cadis)–measuring nine (or ten) cubits by three (3½)–are spread, from south to north; first the middle one and then the two others, behind and in front of it. Upright hurdles (or reed-mats) are then stretched between the respective corner-posts, so as to form the south and north sides of the shed; and are ‘sewn’ to the corner-posts. Between the tops of the two front door-posts a band or garland of plaited reed-tufts (or, according to Haug, a bunch of Darbha grass, consisting of dry and green stalks) is hung up, to represent either a fillet or wreath worn on the forehead (?), or as a door-garland. ↩︎

  12. 128:2 This remark would seem to imply that there are only two mats (cf. parags. 23, 24), but perhaps it is merely intended to show that two mats are spread behind and in front of the first mat (i.e. from south to north, and not west to east); not that there are only two mats. ↩︎

  13. 128:3 If the preceding paragraph refers (at least partly) to the shed, then the atha here means ‘Now, in the first place,’ thereby introducing details preliminary to what has just been stated. ↩︎

  14. ‘तं निर्वाहाय’- इ. क्व. पा. । ↩︎

  15. 129:1 See III, 2, 4, 16. I now refer ’etayā’ to ‘vācam,’ as does Sāyaṇa,–yadā buddhir jāyate tadā khalv etayā vācā jujyūshanti. He explains ‘prakāmodya’ by ‘mlaicchikaṁ laukikam bhāshaṇam,’ barbarous, worldly speech. ↩︎

  16. 129:2 Vipaścit, probably ’thinker of hymns.’ It remains doubtful what meaning our author assigned to the word. Mahīdhara explains it by sarvajña, ‘all-knowing.’ Sāyaṇa, on Taitt. S. I, 2, 13, refers ‘viprasya br̥hato vipaścitah’ to the sacrificer. ↩︎

  17. अपरं दक्षिणे व्वर्त्मनि दक्षिणस्यानसो हिरण्यं निधायाभिजुहोतीदं व्विष्णुरिति । का. श्रौ. सू. ८ । ८१ । ↩︎

  18. ‘निष्क्रामेत्’ इति क्व. ↩︎

  19. 130:1 That is, the iron pins driven into the axle, round which the naves of the wheels revolve. See also p. 121, note 2. ↩︎

  20. 130:2 They make her enter the hall by the south door and walk round by the back of the (old) Gārhapatya fire-place to the wheel-tracks on the north side where the Pratiprasthātr̥ is about to offer. ↩︎

  21. दशस्या । AB. - ह्ये᳘तत्क्षिय᳘त्यन्या᳘नि AB. ↩︎

  22. स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावतीति पूर्व्ववत् । का. श्रौ. सू. ८ । ८४ । ↩︎

  23. 130:3 The rays of the sun are apparently likened to ropes wherewith he keeps the earth straight and firm. ↩︎

  24. 131:1 While reciting his hymn of eight verses (brought up, as usual, to twelve by repetitions of the first and last verses) the Hotr̥ has to follow the carts so as to have the north wheel-track of the south cart between his feet. Cf. p. 79, note 1. For the verses recited by him, see Ait. Br. I, 29; Āśv. Śr. IV, 9. ↩︎

  25. हविर्द्धानाभ्यां प्रवर्त्यमानाभ्यामनुवाचयति । का. श्रौ. सू. ८ । ८६ । प्राची प्रेतमिति व्याचयति । ८ । ८८ । ↩︎

  26. 131:2 Or, ‘falter not!’ ↩︎

  27. 132:1 The Taitt. S. VI, 2, 9 refers it to Varuṇa, on account of the axle being bound firmly with strings (thongs), resembling Varuṇa’s noose. ↩︎

  28. स्वं गोष्ठमिति च खर्जति । का. श्रौ. सू. ८ । ८९ । ↩︎ ↩︎

  29. अत्र मूलपुस्तकेषु सर्वत्र निर्वादिष्टमित्येव दृश्यते । भाष्ये तु निर्बाधिष्टमिति । महीधरस्तु (वा. सं. ५ । १७) मन्त्रभाष्ये ‘निर्वादिष्टम्’ इत्येव पाठमवलम्ब्य ‘निराकार्ष्टम्’ इति व्याचख्यौ । ↩︎

  30. 132:2 Rather, ’not so very near,’ ’nicht allzu nahe, nicht gar zu nahe.’ ↩︎

  31. 132:3 Both here, and on Taitt. S. I, 2, 13, Sāyaṇa takes ‘varshman’ in the sense of body (śarīra).’ ↩︎

  32. 132:4 Or rather, ’nave-boards (nabhya).’ The cart wheels are described as consisting, after the fashion prevalent in Malaya (Kāty. VIII, 4, 5 scholl.), of three parallel boards: the two outer ones form segments, and the middle and largest one has the nave fixed to it, the axle-pin running through its centre. It is on this middle board that he is to make the carts stand. Perhaps ‘kshema’ should be taken in the sense of ‘security, firm position,’ instead of repose, rest,’ in which case the upright position of the middle board would seem to be compared with a man in upright position; ’nābhi (nābhya)’ meaning both ’navel’ and ’nave.’ ↩︎

  33. उत्तरेण परिक्रम्य दक्षिणमुपस्तभ्नाति- व्विष्णोर्नुकमिति । का. श्रौ. सू. ८ । ९१ । ↩︎ ↩︎

  34. दक्षिणतः स्थूणामुपनिहंति व्विष्णवे त्वेति । का. श्रौ. सू. ८ ९२ । ↩︎

  35. 133:1 Sāyaṇa, on Taitt. S. I, 2, 13, remarks:–‘The southern and northern parts of the yoke represent the ears of the cart. Through a hole (is effected) the firm tying (of the yoke parts) to the shafts. At the juncture (sandhi) at the (place of) fastening of the southern (part of the yoke) the prop is fixed.’ In ordinary practice the prop is put up to support the extreme end of the shafts or pole. ↩︎

  36. उत्तरतः स्थूणां पूर्ववत् । का. श्रौ. सू. ८ । ९४ । ↩︎

  37. प्रतद्विष्णुरिति वाचयति मध्यमं छदिरालभ्य । का. सू. ८ । ९८ । ↩︎

  38. 133:2 See p. 128, note 1. ↩︎

  39. 133:3 Apparently the parietal bone is meant; or perhaps the frontal bone. The Kāṇva text reads: ‘He then touches that reed-mat, or cane-frame, above, with “Let Vishṇu . . .” for that is for him (Vishṇu, the shed) what that skull-bone is up here. And when he says “they abide upon,” it is because that rest on the other skull-bones [? adhi hy etad anyeshu kapāleshu kshiyanti!]. Then what two reed-mats there are on the two carts, they indeed are for him what the two skull-bones are here on both sides. And that reed-mat, or cane-frame, which he puts on there behind (or behind that one), that is for him what the skull-bone behind is.’ ↩︎

  40. व्विष्णोरराटमिति रराट्याम् । का. श्रौ. सू. ८ । १०० । ↩︎ ↩︎ ↩︎

  41. तं नि᳘ष्ठित AB. - The fifth adhyâya is reckoned by Sâyaṇa as containing five brâhmaṇas and accordingly the sixth as having three only. ↩︎

  42. व्विष्णोर्ध्रुवो ऽसीति ग्रंथिं करोति । का. श्रौ. सू. ८ । १०४ । ↩︎

  43. 134:1 Syū, explained by Sāyaṇa as ’thread, cord,’ by Mahīdhara as ’needle.’ ↩︎

  44. 134:2 ? Dhruvaḥ, the ‘firm one,’ (? ‘pole-star.’) The St. Petersburg Dictionary gives the tentative meaning ‘knot.’ The Taitt. S. reads ‘dhruvam.’ ↩︎

  45. 134:3 Grāha, lit. ‘seizing.’ For Varuṇa, whose attribute the knot is, (I, 3, 1, 16), seizing upon men by means of disease; see II, 5, 2, 2. ↩︎