०१

विश्वास-प्रस्तुतिः

इध्य᳘मभ्या᳘दधति॥
(त्यु) उपय᳘मनीरु᳘पकल्पयन्त्या᳘ज्यम᳘धिश्रयति स्रुवं᳘ च स्रु᳘चं स᳘म्मार्ष्ट्य᳘थोत्पूया᳘ज्यं पञ्चगृहीतं᳘ गृह्णीते यदा प्र᳘दीप्त इध्मो भ᳘वति॥

मूलम् - श्रीधरादि

इध्य᳘मभ्या᳘दधति॥
(त्यु) उपय᳘मनीरु᳘पकल्पयन्त्या᳘ज्यम᳘धिश्रयति स्रुवं᳘ च स्रु᳘चं स᳘म्मार्ष्ट्य᳘थोत्पूया᳘ज्यं पञ्चगृहीतं᳘ गृह्णीते यदा प्र᳘दीप्त इध्मो भ᳘वति॥

मूलम् - Weber

इध्य᳘मभ्या᳘दधति॥
उपय᳘मनीरु᳘पकल्पयन्त्या᳘ज्यम᳘धिश्रयति स्रुवं᳘ च स्रु᳘चᳫं स᳘म्मार्ष्ट्यथोत्पूया᳘ज्यम् पञ्चगृहीतं᳘ गृह्णीते यदा प्र᳘दीप्त इध्मो भ᳘वति॥

मूलम् - विस्वरम्

इध्ममभ्यादधति । उपयमनीरुपकल्पयन्ति, आज्यमधिश्रयति । स्रुवं च स्रुचं च सम्मार्ष्टि । अथोत्पूयाज्यं पञ्चगृहीतं गृह्णीते । यदा प्रदीप्त इध्मो भवति ॥ १ ॥

सायणः

उत्तरवेदिनिर्माणमभिधाय अथोत्तरवेद्यामग्निप्रणयनप्रयोग उच्यते- इध्ममभ्यादधतीत्यादिना 1 । आहवनीये ऽग्नौ प्रणीयमानानामङ्गाराणां सम्पादनाय काष्ठसमूहं स्थापयेयुरित्यर्थः । उपयमनीरित्यादि । ‘उप’ अग्नेरधस्तात् यम्यन्ते इत्युपयमन्यः, सिकताः । व्याघारणार्थम् ‘आज्यम्’ अग्नौ ‘अधिश्रयति’ विलापयेत् । आज्यमुत्पूतं कृत्वा स्रुवेण स्रुचि पञ्चवारं गृह्णीयात् ॥ १ ॥

Eggeling
  1. They put fire-wood on (the Āhavanīya fire), and prepare the underlayer (of gravel 2). He (the Adhvaryu) puts the butter on (the Gārhapatya to melt), and cleans both the dipping-spoon and the offering-spoon. Having then clarified the ghee, he ladles five times thereof (into the offering-spoon). When the fire-wood is ablaze-

०२

विश्वास-प्रस्तुतिः

(त्यु) अथो᳘द्य᳘च्छन्तीध्मम्[[!!]]॥
(मु᳘) उ᳘पयच्छन्त्युपय᳘मनीर᳘थाहाग्न᳘ये प्रह्रि᳘य᳘माणाया᳘नुब्रूह्ये᳘कस्फ्यया ऽनूदेही᳘त्यनूदै᳘ति प्रतिप्रस्थातै᳘कस्फ्ययैत᳘स्मान्मध्यमा᳘च्छङ्कोर्य᳘ एष व्वे᳘देर्जघनार्धे भ᳘वति तद्य᳘देवा᳘त्रान्तःपाते᳘न गा᳘र्हपत्यस्य व्वे᳘देर्व्य᳘वच्छिन्नं भ᳘वति त᳘दे᳘वैत᳘दनुस᳘न्तनोति॥

मूलम् - श्रीधरादि

(त्यु) अथो᳘द्य᳘च्छन्तीध्मम्[[!!]]॥
(मु᳘) उ᳘पयच्छन्त्युपय᳘मनीर᳘थाहाग्न᳘ये प्रह्रि᳘य᳘माणाया᳘नुब्रूह्ये᳘कस्फ्यया ऽनूदेही᳘त्यनूदै᳘ति प्रतिप्रस्थातै᳘कस्फ्ययैत᳘स्मान्मध्यमा᳘च्छङ्कोर्य᳘ एष व्वे᳘देर्जघनार्धे भ᳘वति तद्य᳘देवा᳘त्रान्तःपाते᳘न गा᳘र्हपत्यस्य व्वे᳘देर्व्य᳘वच्छिन्नं भ᳘वति त᳘दे᳘वैत᳘दनुस᳘न्तनोति॥

मूलम् - Weber

अथो᳘द्यछन्तीध्म᳘म्॥
उ᳘पयछन्त्युपय᳘मनीर᳘थाहाग्न᳘ये प्रह्रि᳘य᳘माणाया᳘नुब्रूह्ये᳘कस्फ्ययानूदेही᳘त्यनूदै᳘ति प्रतिप्रस्थातै᳘कस्फ्ययैत᳘स्मान्मध्यमा᳘छङ्कोर्य᳘ एष वे᳘देर्जघनार्धे भ᳘वति तद्य᳘देवा᳘त्रान्तःपाते᳘न गा᳘र्हपत्यस्य वे᳘देर्व्य᳘वछिन्नम् भ᳘वति त᳘देॗवैत᳘दनुसं᳘तनोति॥

मूलम् - विस्वरम्

अथोद्यच्छन्तीध्मम् । उपयच्छन्त्युपयमनीः । अथाह- ‘अग्नये प्रह्रियमाणायानुब्रूहि । एकस्फ्यया ऽनुदेहि’ इति । अनूदैति प्रतिप्रस्थातैकस्फ्यपा । एतस्मान्मध्यमाच्छङ्कोर्य एष वेदेर्जघनार्धे भवति । तद् यदेवात्रान्तःपातेन गार्हपत्यस्य वेदेर्व्यवाच्छन्नं भवति- तदेवैतदनु सन्तनोति ॥ २ ॥

सायणः

अथोद्यच्छन्तीति 1 । इध्मे प्रदीप्ते सति ‘अथ’ अनन्तरमेव ‘इध्मम्’ अङ्गारतां प्राप्तमूर्द्ध्वं धारयेत् । इध्मपात्रस्याधः ‘उपयमनीः’ उपयच्छेत् । ‘अग्नये प्रह्रियमाणाय’ उत्तरवेदिं प्रति नीयमानाय तदनुकूलं सूक्तं पठेति होतारं ब्रूयात् । ‘एकस्फ्यया’ एकः स्फ्यो यस्यां रेखायां सा तथोक्ता, तया मामनुगच्छ; स्फ्येन रेखां कुर्वन्ननुगच्छेति प्रतिप्रस्थातारं ब्रूयात् । एकस्फ्यानुगमनस्यावधिमाह- आ एतस्मान्मध्यमाच्छङ्कोर्य एष वेदेर्जघनार्धे भवतीति । ‘वेदेः’ सौमिक्याः ‘जघनार्द्धे’ ‘य एषः’ शंकुर्भवति । स्थूणाराजात् प्रक्रमत्रितये यः शंकुरन्तःपातः स्थापितः, स एव मध्यमशंकुः; तावत्पर्यन्तमित्यर्थः । गार्हपत्यस्य वेदेरिति । ‘यतः प्रणयति स गार्हपत्यः’- इति न्यायादाहवनीयादुत्तरवेदिं प्रति प्रणयनस्वोक्तत्वात् आहवनीय एव गार्हपत्य इत्युच्यते । रेखाकर्षणेनान्तःपात्यरूपो व्यवच्छेदः परिहृतो भवति 3 ॥ २ ॥

Eggeling
  1. They lift the (burning) fire-wood, and place it on the underlayer 4. Thereupon he says (to the Hotr̥), ‘Recite for Agni as he is taken forward 5!’ (and to the Pratiprasthātr̥), ‘Come up after me with the single sword(-line)!’ The Pratiprasthātr̥ goes up after him with the single sword(-line) as far

as that middle peg on the hind-part of the altar 6: whatever part of the Gārhapatya 7 is cut off from the altar by that intermediate (peg), that he thereby carries on to (connects with) it.

०३

विश्वास-प्रस्तुतिः

तद्धै᳘के᳘॥
(क ऽ) ओत्तरवेदे᳘रनूदा᳘यन्ति त᳘दु त᳘था न᳘ कुर्या᳘दे᳘वैत᳘स्मान्मध्यमा᳘च्छङ्को᳘रनूदे᳘यात्त ऽआ᳘यन्त्या᳘गच्छन्त्युत्तरवेदिम्[[!!]]॥ (शतम् १८००)

मूलम् - श्रीधरादि

तद्धै᳘के᳘॥
(क ऽ) ओत्तरवेदे᳘रनूदा᳘यन्ति त᳘दु त᳘था न᳘ कुर्या᳘दे᳘वैत᳘स्मान्मध्यमा᳘च्छङ्को᳘रनूदे᳘यात्त ऽआ᳘यन्त्या᳘गच्छन्त्युत्तरवेदिम्[[!!]]॥ (शतम् १८००)

मूलम् - Weber

तद्धै᳘के᳟᳟॥
ओत्तरवेदे᳘रनूदा᳘यन्ति त᳘दु त᳘था न᳘ कुर्याॗदैॗवैत᳘स्मान्मध्यमा᳘छङ्को᳘रनूदे᳘यात्त आ᳘यन्त्या᳘गछन्त्युत्तरवेदि᳘म्॥

मूलम् - विस्वरम्

तद्धैके ओत्तरवेदेनूदायन्ति । तदु तथा न कुर्यात् । एवैतस्मान्मध्यमाच्छङ्कोरनूदेयात् । त ऽआयन्ति, आगच्छन्त्युत्तरवेदिम् ॥ ३ ॥

सायणः

रेखानुगतिविषये केषाञ्चित्पक्षमुपन्यस्य व्यवच्छेदपरिहाराय प्रयोजनाभावाभिप्रायेण निराचष्टे तद्धैके ओत्तरवेदेरनूदायन्तीति 1 ॥ ३ ॥

Eggeling
  1. Now some walk up behind (and draw a line) as far as the high altar; but let him not do that: let him walk up only as far as that middle peg. They proceed and come up to the high altar 8.

०४

विश्वास-प्रस्तुतिः

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ पुर᳘स्तादेवा᳘ग्रे प्रो᳘क्षत्यु᳘दङ्ति᳘ष्ठन्निन्द्रघोष᳘स्त्वा व्व᳘सुभिः पुर᳘स्तात्पात्वि᳘तीन्द्रघोष᳘स्त्वा व्व᳘सुभिः पुर᳘स्ताद्गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ पुर᳘स्तादेवा᳘ग्रे प्रो᳘क्षत्यु᳘दङ्ति᳘ष्ठन्निन्द्रघोष᳘स्त्वा व्व᳘सुभिः पुर᳘स्तात्पात्वि᳘तीन्द्रघोष᳘स्त्वा व्व᳘सुभिः पुर᳘स्ताद्गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

प्रोक्षणीरध्वर्युरा᳘दत्ते॥
स᳘ पुर᳘स्तादेवा᳘ग्रे प्रो᳘क्षत्यु᳘दङ् ति᳘ष्ठन्निन्द्रघोष᳘स्त्वा व᳘सुभिः पुर᳘स्तात्पात्वि᳘तीन्द्रघोष᳘स्त्वा व᳘सुभिः पुर᳘स्ताद्गोपायत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

प्रोक्षणीरध्वर्युरादत्ते । स पुरस्तादेवाग्रे प्रोक्षति- उदङ्तिष्ठन् । “इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु”- (वा. सं. ५ । ११) इति । इन्द्रघोषस्त्वा वसुभिः पुरस्ताद्गोपायत्वित्येवैतदाह ॥ ४ ॥

सायणः

प्रोक्षणीरध्वर्युरित्यादि 9 । अध्वर्योः प्रोक्षण्यादानविधानात् अग्निप्रणेता अग्नीदेव ‘अग्ने’ उत्तरादिभ्यः पूर्वम् ‘पुरस्तात्’ पूर्वस्यां दिशि ‘प्रोक्षति’ ‘उदङ्’ उदङ्मुखस्तिष्ठन् ॥

प्रोक्षणमन्त्रस्यायमर्थः । इन्द्र इति घुष्यते शब्द्यते इति ‘इन्द्रघोषः’ इन्द्रनामा देवः, सः ‘वसुभिः’ सहितः ‘पातु’ रक्षतु, असुरादिभ्यः सकाशाद् ‘गोपायतु’ इत्यर्थः । ‘प्रचेताः’ प्रकृष्टप्रज्ञो वरुणः ! ‘पितरः’ अग्निष्वात्ताप्रमुखाः । ‘मनोजवाः’ मनोवेगोपमवेगः । ‘विश्वकर्मा’ विश्वविषयं कर्म यस्य स एतन्नामको देवः । निनेतव्यायाः दक्षिणपूर्वस्रक्तेः स्पष्टप्रदर्शनाय पूर्वदिग्गतस्रक्तिद्वयोपन्यासः ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥

Eggeling
  1. The Adhvaryu takes the sprinkling-water. He first sprinkles (the high altar) in front, while standing (south of it) facing the north, with the text (Vāj. S. V, 11), ‘May Indra’s noise 10 shield thee in front with the Vasus!’ whereby he means to say, ‘May Indra’s noise protect thee in front with the Vasus.’

०५

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ पश्चात्प्रो᳘क्षति॥
प्र᳘चेतास्त्वा रुद्रैः᳘ पश्चा᳘त्पात्वि᳘ति प्र᳘चेतास्त्वा रुद्रैः᳘ पश्चा᳘द्गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ पश्चात्प्रो᳘क्षति॥
प्र᳘चेतास्त्वा रुद्रैः᳘ पश्चा᳘त्पात्वि᳘ति प्र᳘चेतास्त्वा रुद्रैः᳘ पश्चा᳘द्गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ पश्चात्प्रो᳘क्षति॥
प्र᳘चेतास्त्वा रुद्रैः᳘ पश्चा᳘त्पात्वि᳘ति प्र᳘चेतास्त्वा रुद्रैः᳘ पश्चा᳘द्गोपायत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ पश्चात्प्रोक्षति । “प्रचेतास्त्वा रुद्रैः पश्चात्पातु”- (वा. सं. ५ । ११) इति प्रचेतास्त्वा रुद्रैः पश्चाद्गोपायत्वित्येवैतदाह ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. He then sprinkles it behind with, ‘May the Wise 11 shield thee from behind with the Rudras!’ whereby he means to say, ‘May the Wise One protect thee from behind with the Rudras!’

०६

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ दक्षिणतः प्रो᳘क्षति॥
म᳘नोजवास्त्वा पितृ᳘भिर्दक्षिणतः᳘ पात्वि᳘ति म᳘नोजवास्त्वा पितृ᳘भिर्दक्षिणतो᳘ गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ दक्षिणतः प्रो᳘क्षति॥
म᳘नोजवास्त्वा पितृ᳘भिर्दक्षिणतः᳘ पात्वि᳘ति म᳘नोजवास्त्वा पितृ᳘भिर्दक्षिणतो᳘ गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ दक्षिणतः प्रो᳘क्षति॥
म᳘नोजवास्त्वा पितृ᳘भिर्दक्षिणतः᳘ पात्वि᳘ति म᳘नोजवास्त्वा पितृ᳘भिर्दक्षिणतो᳘ गोपायत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ दक्षिणतः प्रोक्षति । “मनोजवास्त्वा पितृभिर्दक्षिणतः पातु"- (वा. सं. ५ । ११) इति । मनोजवास्त्वा पितृभिर्दक्षिणतो गोपायत्वित्येवैतदाह ॥ ६ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. He then sprinkles on the right (south) side with, ‘May the Thought-swift shield thee with the Fathers on the right!’ whereby he means

to say, ‘May he swift as thought 12 protect thee on the right with the Fathers!’

०७

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थोत्तरतः प्रो᳘क्षति॥
व्विश्व᳘कर्मा त्वा ऽऽदित्यै᳘रुत्तरतः᳘ पात्वि᳘ति व्विश्व᳘कर्मा त्वा ऽऽदित्यै᳘रुत्तरतो᳘ गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थोत्तरतः प्रो᳘क्षति॥
व्विश्व᳘कर्मा त्वा ऽऽदित्यै᳘रुत्तरतः᳘ पात्वि᳘ति व्विश्व᳘कर्मा त्वा ऽऽदित्यै᳘रुत्तरतो᳘ गोपायत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थोत्तरतः प्रो᳘क्षति॥
विश्व᳘कर्मा त्वादित्यै᳘रुत्तरतः᳘ पात्वि᳘ति विश्व᳘कर्मा त्वादित्यै᳘रुत्तरतो᳘ गोपायत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथोत्तरतः प्रोक्षति । “विश्वकर्मा त्वा ऽऽदित्यैरुत्तरतः पातु"- (वा. सं. ५ । ११) इति । विश्वकर्मा त्वा ऽऽदित्यैरुत्तरतो गोपायत्वित्येवैतदाह ॥ ७ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. He then sprinkles on the left side with, ‘May Viśvakarman (the All-shaper) shield thee with the Ādityas on the left!’ whereby he means to say, ‘May Viśvakarman protect thee on the left with the Ādityas!’

०८

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
तद्ये᳘ ऽएते पू᳘र्वे स्रक्ती त᳘योर्या द᳘क्षिणा ता᳘न्यन्ते᳘न बहिर्व्वेदि नि᳘नयतीद᳘महं᳘ तप्तं व्वा᳘र्बहिर्द्धा यज्ञान्निः᳘सृजामी᳘ति सा य᳘दे᳘वादः᳘ सिᳫँ᳭ही᳘ भूत्वा᳘ शान्तेवा᳘चरत्ता᳘मे᳘वास्या ऽएतच्छु᳘चं बहिर्द्धा᳘ यज्ञान्निः᳘सृजति य᳘दि᳘ नाभिच᳘रेद्य᳘द्यु ऽअभिच᳘रेदा᳘दिशेदिद᳘महं᳘ तप्तं वा᳘रमु᳘मभि निः᳘सृजामी᳘ति त᳘मेत᳘या शुचा᳘ व्विध्यति स शो᳘चन्ने᳘वामुं᳘ लोक᳘मेति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
तद्ये᳘ ऽएते पू᳘र्वे स्रक्ती त᳘योर्या द᳘क्षिणा ता᳘न्यन्ते᳘न बहिर्व्वेदि नि᳘नयतीद᳘महं᳘ तप्तं व्वा᳘र्बहिर्द्धा यज्ञान्निः᳘सृजामी᳘ति सा य᳘दे᳘वादः᳘ सिᳫँ᳭ही᳘ भूत्वा᳘ शान्तेवा᳘चरत्ता᳘मे᳘वास्या ऽएतच्छु᳘चं बहिर्द्धा᳘ यज्ञान्निः᳘सृजति य᳘दि᳘ नाभिच᳘रेद्य᳘द्यु ऽअभिच᳘रेदा᳘दिशेदिद᳘महं᳘ तप्तं वा᳘रमु᳘मभि निः᳘सृजामी᳘ति त᳘मेत᳘या शुचा᳘ व्विध्यति स शो᳘चन्ने᳘वामुं᳘ लोक᳘मेति॥

मूलम् - Weber

अ᳘थ याः प्रो᳘क्षण्यः परिशिष्य᳘न्ते॥
तद्ये᳘ एते पू᳘र्वे स्रक्ती त᳘योर्या द᳘क्षिणा ता᳘ न्यन्ते᳘न 13 बहिर्वेदि नि᳘नयतीद᳘महं᳘ तप्तं वा᳘र्बहिर्धा᳘ यज्ञान्निः᳘सृजामी᳘ति सा य᳘देॗवादः᳘ सिंही᳘ भूत्वा᳘शान्तेवा᳘चरत्ता᳘मेॗवास्या एतछु᳘चं बहिर्धा᳘ यज्ञान्निः᳘सृजति य᳘दिॗ नाभिच᳘रेद्य᳘द्यु अभिच᳘रेदा᳘दिशेदिद᳘महं᳘ तप्तं वा᳘रमु᳘मभि निः᳘सृजामी᳘ति त᳘मेत᳘या शुचा᳘ विध्यति स शो᳘चन्नेॗवामुं᳘ लोक᳘मेति॥

मूलम् - विस्वरम्

अथ याः प्रोक्षण्यः परिशिष्यन्ते- तद् ये एते पूर्वे स्रक्ती-तयोर्या दक्षिणा-तान्यन्तेन बहिर्वेदि निनयति । “इद्महं तप्तं वार्बहिर्द्धा यज्ञान्निःसृजामि”- (वा. सं ५ । ११ ।) इति । सा यदेवादः सिंही भूत्वा शान्तेवाचरत्- तामेवास्या एतच्छुचं बहिर्द्धा यज्ञान्निःसृजति । यदि नाभिचरेद् । यद्यु ऽअभिचरेदादिशेदिदमहं तप्तं वारमुमभि निःसृजामीति । तमेतया शुचा विध्यति । स शोचन्नेवामुं लोकमेति ॥ ८ ॥

सायणः

अथ याः प्रोक्षण्य इति । ता न्यन्तेनेति । ‘ताः’ प्रोक्षणीः ‘न्यन्तेन’ अत्यन्तान्तदेशेन । तत्रापि स्रक्त्यन्ते प्रोक्षणीये शेषनिनयनप्रसक्तावाह- बहिर्वेदीति 14 । निनयनमन्त्रस्यायमर्थः । ‘इदं’ प्रोक्षणीशेषं ‘तप्तम्’ ‘वेद्याः’ सिंहीरूपायाः क्रौर्यव्युत्सादनतः तस्मिन् सन्तापप्राप्तेः सम्भवादवशिष्टमम्भस्तप्तं भवति तथाविधं वा; ‘अहं’ ‘यज्ञाद्’ यज्ञसाधनाद् वेदिदेशात् ‘बहिः निःसृजामि’ । सा यदेवाद इत्यादिनिनयनार्थवादः स्पष्टः ॥

अयं निनयनमन्त्रो ऽभिचारेच्छाराहित्यविषय इत्याह- यदि नाभिचरेदिति । ‘यदि उ’ यद्यपि अभिचारं कर्तुमिच्छेत्, तदा ‘यज्ञाद्बहिः’ स्थाने ‘अमुमभि निःसृजामि’- इत्यादिशेत् । अमुमित्यत्र द्वेष्यस्य नाम गृह्णीयात् । ‘सः’ अभितप्तः ‘शोचन्नेवामुं लोकमेति’ दुःखेन प्राणान् जहातीत्यर्थः ॥ ८ ॥

Eggeling
  1. The sprinkling-water which is left he pours outside the altar close to where is the southern of those two front corners (of the high altar) with, ‘This burning water I dismiss from the sacrifice.’ Because she (Vāc–the altar) on that occasion became a lioness and roamed about unappeased 15, he thus dismisses from the sacrifice that sorrow of hers,–if he do not wish to exorcise. But should he wish to exorcise, let him indicate it by saying, ‘This burning water I dismiss from the sacrifice against so and so!’ He then smites him with that sorrow, and sorrowing he goes to yonder world.

०९

विश्वास-प्रस्तुतिः

स य᳘द्धार्य᳘माणे ऽग्नौ᳘॥
(ग्ना᳘ ऽउ) उत्तरवेदिं᳘ व्याघार᳘यति य᳘दे᳘वैनामदो᳘ देवा अ᳘ब्रुवन्पू᳘र्व्वां त्वा ऽग्नेरा᳘हुतिः प्रा᳘प्स्यती᳘ति त᳘दे᳘वैनामेतत्पू᳘र्व्वामग्नेरा᳘हुतिः प्रा᳘प्नोति य᳘द्वेषा᳘ देवान᳘ब्रवीद्यां मया का᳘ञ्चाशि᳘षमाशासिष्य᳘ध्वे सा᳘ वः स᳘र्व्वा स᳘मर्द्धिष्यत ऽइ᳘ति ता᳘मेनया᳘ ऽत्रर्त्वि᳘जो य᳘जमानायाशि᳘षमा᳘शासते᳘ सा ऽस्मै स᳘र्व्वा स᳘मृद्ध्यते॥

मूलम् - श्रीधरादि

स य᳘द्धार्य᳘माणे ऽग्नौ᳘॥
(ग्ना᳘ ऽउ) उत्तरवेदिं᳘ व्याघार᳘यति य᳘दे᳘वैनामदो᳘ देवा अ᳘ब्रुवन्पू᳘र्व्वां त्वा ऽग्नेरा᳘हुतिः प्रा᳘प्स्यती᳘ति त᳘दे᳘वैनामेतत्पू᳘र्व्वामग्नेरा᳘हुतिः प्रा᳘प्नोति य᳘द्वेषा᳘ देवान᳘ब्रवीद्यां मया का᳘ञ्चाशि᳘षमाशासिष्य᳘ध्वे सा᳘ वः स᳘र्व्वा स᳘मर्द्धिष्यत ऽइ᳘ति ता᳘मेनया᳘ ऽत्रर्त्वि᳘जो य᳘जमानायाशि᳘षमा᳘शासते᳘ सा ऽस्मै स᳘र्व्वा स᳘मृद्ध्यते॥

मूलम् - Weber

स य᳘द्धार्य᳘माणे ऽग्नौ᳟॥
उत्तरवेदिं᳘ व्याघार᳘यति य᳘देॗवैनामदो᳘ देवा अ᳘ब्रुवन्पू᳘र्वां त्वाग्नेरा᳘हुतिः प्रा᳘प्स्यती᳘ति त᳘देॗवैनामेतत्पू᳘र्वामग्नेरा᳘हुतिः प्रा᳘प्नोति य᳘द्वेषा᳘ देवान᳘ब्रवीद्यां मया कां᳘ चाशि᳘षमाशासिष्य᳘ध्वे सा᳘ वः स᳘र्वा स᳘मर्धिष्यत इ᳘ति ता᳘मेनया᳘त्रर्त्वि᳘जो य᳘जमानायाशि᳘षमा᳘शासतेॗ सास्मै स᳘र्वा स᳘मृध्यते॥

मूलम् - विस्वरम्

स यद्वार्यमाणे ऽग्नौ उत्तरवेदिं व्याघारयति- यदेवैनामदो देवा अब्रुवन्- पूर्वां त्वा ऽग्नेरहुतिः प्राप्स्यतीति । तदेवैनामेतत्पूर्वामग्नेराहुतिः प्राप्नोति । यद्वेषा देवा अब्रवीत्- यां मया काञ्चाशिषमाशासिष्यध्वे- सा वः सर्वा समर्द्धिष्यत ऽइति । तामेनया ऽत्रर्त्विजो यजमानायाशिषमाशासते । सा ऽस्मै सर्वा समृद्ध्यते ॥ ९ ॥

सायणः

इदानीं प्राप्तावसरत्वाद्व्याघारणमाह- स यद्वार्यमाणे ऽग्नाविति । आग्नीध्रेण उत्तरवेदेरुपरि देशे ‘अग्नौ धार्यमाणे’ सत्यध्वर्युर्व्याघारयति । यदेवैनामद इत्यादिकमुत्तरवेदेर्विध्यर्थाख्यायिकाप्रसङ्गे व्याख्यातम् (श. प. ब्रा. ३ । ५ । १ । २३) । यस्मादपक्रान्ताया वाचः प्रतिनिवृत्तये देवैर्व्याघारणं दत्तम्, तस्मादेवेत्थमेतत्कर्तव्यमित्यर्थः । यस्माच्च व्याघारणपरितुष्टया वाचा सर्वाशीःसमृद्धिरूपस्य वरस्य देवेभ्यो दत्तत्वाद् यजमानार्थमृत्विग्भिराशास्यमानाशिषां समृद्धये चोत्तरवेदिव्याघारणं कर्त्तव्यमित्यर्थः ॥ ९ ॥

Eggeling
  1. Now as to why he pours ghee on the high altar, while the fire is held (over it). Because the gods said to her on that occasion, ‘The offering shall reach thee before Agni,’ therefore the offering now does reach her before (it reaches) Agni. And because she said to the gods, ‘Whatsoever blessing ye will invoke through me, all that shall be accomplished unto you!’ therefore the priests now invoke through her that blessing upon the sacrificer, and it is fully accomplished unto him.

१०

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएतदे᳘कं कुर्व्व᳘न्द्वयं᳘ करोति॥
य᳘दुत्तरवेदिं᳘ व्याघार᳘यत्य᳘थ᳘ यैषां म᳘ध्ये नाभि᳘केव भ᳘वति त᳘स्यै ये पू᳘र्व्वे स्रक्ती त᳘योर्या द᳘क्षिणा॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएतदे᳘कं कुर्व्व᳘न्द्वयं᳘ करोति॥
य᳘दुत्तरवेदिं᳘ व्याघार᳘यत्य᳘थ᳘ यैषां म᳘ध्ये नाभि᳘केव भ᳘वति त᳘स्यै ये पू᳘र्व्वे स्रक्ती त᳘योर्या द᳘क्षिणा॥

मूलम् - Weber

तद्वा᳘ एतदे᳘कं कुर्व᳘न्द्वयं᳘ करोति॥
य᳘दुत्तरवेदिं᳘ व्याघार᳘यत्य᳘थॗ यैषाम् म᳘ध्ये नाभिॗकेव भ᳘वति त᳘स्यै ये पू᳘र्वे स्रक्ती त᳘योर्या द᳘क्षिणा॥

मूलम् - विस्वरम्

तद्वा ऽएतदेकं कुर्वन् द्वयं करोति- यदुत्तरवेदिं व्याघारयति । अथ यैषां मध्ये नाभिकेव भवति- तस्यै ये पूर्वे स्रक्ती- तयोर्या दक्षिणा ॥ १० ॥

सायणः

तद्वा एतदेकमिति । ‘एकम्’ उत्तरवेदिव्याघारणं कुर्वन् ‘द्वयं करोति’ व्याघारणं यजमानाशीराशासनं चेत्यथः । उत्तरवेदिमध्यङ्गतायाश्चतुःस्रक्तेरुत्तरनाभेर्दक्षिणया व्याघारप्रकार उच्यते- अथ यैषां मध्ये नाभिकेव भवतीत्यादिना 16 । ‘ये पूर्वे स्रक्ती’ ईशानाग्नेयदिग्गते, ‘तयोः’ मध्ये ‘दक्षिणा’ स्रक्तिराग्नेयदिग्गता, तस्यां “सिंह्यसि स्वाहा” ‘इति’ व्याघारयति । अथापरयोरुत्तरस्यामिति । नाभेः पश्चाद्दिग्गतयोर्मध्ये ‘उत्तरस्यां’ वायव्यदिगवस्थितायां स्रक्त्यामित्यर्थः । आदित्यान् यजमानार्थं वनति भजत इति ‘आदित्यवनिः’, तादृशी ‘सिंह्यसि’ तुभ्यं स्वाहुतमस्तु । ‘अथ’ ‘अपरयोः’ दक्षिणस्यां ‘नैर्ऋतकोणकोष्ठे इत्यर्थः । अत्र ब्रह्मक्षत्रोभयाशासनस्याभिप्रायमाह- बह्वी वै यजुःष्वाशीरिति । ‘यजुःषु’ आशीःपरेषु प्रायेण ‘वह्वी आशीः’ बहुविधान्याशासनान्युपलभ्यन्ते । अतो युक्तमित्यर्थः । ‘अथ’ ‘पूर्वयोरुत्तरस्याम्’ ईशानस्रक्त्यां ‘सुप्रजावनिः’ शोभनपुत्रादिलक्षणप्रजासम्भक्तिः, ‘रायस्पोषवनिः’ रायस्पोषो धनपुष्टिः ॥ १०-१२ ॥

Eggeling
  1. When he pours ghee on the high altar, he

does it twofold even while doing it in one 17. Now that which is the southern of the two front corners of that navel, so to say, which is in the middle of these (sides of the high altar)–

११

विश्वास-प्रस्तुतिः

त᳘स्यामा᳘घारयति॥
सि᳘ᳫँ᳘ह्यसि स्वाहेत्यथा᳘परयोरु᳘त्तरस्याᳫँ᳭सि᳘ᳫँ᳘ह्यस्यादित्यव᳘निः स्वाहेत्यथा᳘परयोर्द᳘क्षिणस्याᳫँ᳭सि᳘ᳫं᳘ह्यसि ब्रह्मव᳘निः क्षत्रव᳘निः स्वाहे᳘ति बह्वी वै य᳘जुःष्वाशीस्तद्ब्र᳘ह्म च क्षत्रं चा᳘शास्त ऽउभे᳘ व्वी᳘र्ये॥

मूलम् - श्रीधरादि

त᳘स्यामा᳘घारयति॥
सि᳘ᳫँ᳘ह्यसि स्वाहेत्यथा᳘परयोरु᳘त्तरस्याᳫँ᳭सि᳘ᳫँ᳘ह्यस्यादित्यव᳘निः स्वाहेत्यथा᳘परयोर्द᳘क्षिणस्याᳫँ᳭सि᳘ᳫं᳘ह्यसि ब्रह्मव᳘निः क्षत्रव᳘निः स्वाहे᳘ति बह्वी वै य᳘जुःष्वाशीस्तद्ब्र᳘ह्म च क्षत्रं चा᳘शास्त ऽउभे᳘ व्वी᳘र्ये॥

मूलम् - Weber

त᳘स्यामा᳘घारयति॥
सिंह्य᳘सि स्वाहेत्यथा᳘परयोरु᳘त्तरस्याᳫं सिंह्य᳘स्यादित्यव᳘निः स्वाहेत्यथा᳘परयोर्द᳘क्षिणस्याᳫं सिंह्य᳘सि ब्रह्मव᳘निः क्षत्रव᳘निः स्वाहे᳘ति बह्वी वै य᳘जुःष्वाशीस्तद्ब्र᳘ह्म च क्षत्रं चा᳘शास्त उभे᳘ वीॗर्ये॥

मूलम् - विस्वरम्

तस्यामाघारयति । “सिंह्यसि स्वाहा”- (वा. सं. ५ । १२) इति । अथापरयोरुत्तरस्याम् । “सिंह्यस्यादित्यवनिः स्वाहा”- (वा. सं. ५ । १२) इति । अथापरयोर्दक्षिणस्याम् । “सिंह्यसि ब्रह्मवनिः क्षत्रवनिः स्वाहा”- (वा. सं. ५ । १२) इति । बह्वी वै यजुःष्वाशीः । तद् ब्रह्म च क्षत्रं चाशास्ते- उभे वीर्ये ॥ ११ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. On that 18 he pours ghee, with the text (Vāj. S. V, 12), ‘Thou art a lioness; Hail!’ Then on the northern of the two back corners with, ‘Thou art a lioness, winning the Ādityas 19, Hail!’ Then on the southern of the two back corners with, ‘Thou art a lioness, winning the Brahman, winning the Kshatra, Hail!’ Manifold, verily, is the prayer for blessing in the sacrificial texts: by this one he prays 20 for the Brahman (priesthood) and the Kshatra. (nobility), those two vital forces.

१२

विश्वास-प्रस्तुतिः

(र्ये ऽअ᳘) अ᳘थ पू᳘र्व्वयोरु᳘त्तरस्याम्॥
(ᳫँ᳭) सि᳘ᳫँ᳘ह्यसि सुप्रजाव᳘नी रायस्पोषव᳘निः स्वाहे᳘ति त᳘त्प्रजामा᳘शास्ते यदा᳘ह सुप्रजाव᳘निरि᳘ति रायस्पोषव᳘निरि᳘ति भूमा वै᳘ रायस्पो᳘षस्त᳘द्भूमा᳘नमा᳘शास्ते॥

मूलम् - श्रीधरादि

(र्ये ऽअ᳘) अ᳘थ पू᳘र्व्वयोरु᳘त्तरस्याम्॥
(ᳫँ᳭) सि᳘ᳫँ᳘ह्यसि सुप्रजाव᳘नी रायस्पोषव᳘निः स्वाहे᳘ति त᳘त्प्रजामा᳘शास्ते यदा᳘ह सुप्रजाव᳘निरि᳘ति रायस्पोषव᳘निरि᳘ति भूमा वै᳘ रायस्पो᳘षस्त᳘द्भूमा᳘नमा᳘शास्ते॥

मूलम् - Weber

अ᳘थ पू᳘र्वयोरु᳘त्तरस्यां॥
सिंह्य᳘सि सुप्रजाव᳘नी रायस्पोषव᳘निः स्वाहे᳘ति त᳘त्प्रजामा᳘शास्ते यदा᳘ह सुप्रजाव᳘निरि᳘ति रायस्पोषव᳘निरि᳘ति भूमा वै᳘ रायस्पो᳘षस्त᳘द्भूमा᳘नमाशास्ते॥

मूलम् - विस्वरम्

अथ वर्पूयोरुत्तरस्याम् । “सिंह्यसि सुप्रजावनी रायस्पोषवनिः स्वाहा”- (वा. सं. ५ । १२) इति । तत् प्रजामाशास्ते- यदाह- सुप्रजावनिरिति । रायस्पोषवनिरिति । भूमा वै रायस्पोषः । तद् भूमानमाशास्ते ॥ १२ ॥

सायणः

[व्याख्यानं दशमे]

Eggeling
  1. Then on the northern of the front corners with, ‘Thou art a lioness, winning abundant offspring, winning growth of wealth, Hail!’ In that he says, ‘winning abundant offspring,’ he prays for offspring; and in that he says, ‘winning growth of wealth’–growth of wealth meaning abundance–he prays for abundance.

१३

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथ) अ᳘थ म᳘ध्य ऽआ᳘घारयति॥
सि᳘ᳫं᳘ह्यस्या᳘वह देवान्यजमानाय᳘[[!!]] स्वाहे᳘ति त᳘द्देवान्य᳘जमानाया᳘वाहयत्य᳘थ स्रु᳘चमु᳘द्यच्छति भू᳘तेभ्यस्त्वे᳘ति प्रजा वै᳘ भूता᳘नि प्रजा᳘भ्यस्त्वे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथ) अ᳘थ म᳘ध्य ऽआ᳘घारयति॥
सि᳘ᳫं᳘ह्यस्या᳘वह देवान्यजमानाय᳘[[!!]] स्वाहे᳘ति त᳘द्देवान्य᳘जमानाया᳘वाहयत्य᳘थ स्रु᳘चमु᳘द्यच्छति भू᳘तेभ्यस्त्वे᳘ति प्रजा वै᳘ भूता᳘नि प्रजा᳘भ्यस्त्वे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ म᳘ध्य आ᳘घारयति॥
सिंह्य᳘स्या᳘वह देवान्य᳘जमानाय स्वाहे᳘ति त᳘द्देवान्य᳘जमानाया᳘वाहयत्य᳘थ स्रु᳘चमु᳘द्यछति भू᳘तेभ्यस्त्वे᳘ति प्रजा वै᳘ भूता᳘नि प्रजा᳘भ्यस्त्वे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ मध्य ऽआघारयति । “सिंह्यस्यावह देवान् यजमानाय स्वाहा”- (वा. सं. ५ । १२) इति । तद्देवान् यजमानायावाहयति । अथ स्रुचमुद्यच्छति । “भूतेभ्यस्त्वा”- (वा. सं. ५ । १२) इति । प्रजा वै भूतानि । प्रजाभ्यस्त्वेत्येवैतदाह ॥ १३ ॥

सायणः

अथ मध्य आघारयतीति । नाभिमध्यव्याघारणमन्त्रः- “सिंह्यस्यावह देवान्” इत्यादिः । स्पष्टार्थः । ‘अथ’ ‘स्रुचम्’ ‘उद्यच्छति’ 21 ऊर्ध्वं धारयेत् । स्रुगुद्यमनमन्त्रस्थस्य भूतशब्दस्य भूतकार्यमर्थ इत्याह- प्रजा वै भूतानीति ॥ १३ ॥

Eggeling
  1. He then pours ghee into the middle with, ‘Thou art a lioness, bring thou hither the gods for the sacrificer! Hail!’ whereby he causes the gods to be brought to the sacrificer. He then raises the offering-spoon with, ‘To the

beings thee! Hail!’–beings meaning offspring–he thereby means to say, ‘To offspring thee!’

१४

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ परिधीन्प᳘रिदधाति॥
ध्रु᳘वो ऽसि पृथिवीं᳘ दृᳫँ᳭हे᳘ति मध्यमं᳘ ध्रुवक्षि᳘दस्यन्त᳘रिक्षं दृᳫँ᳭हे᳘ति द᳘क्षिणमच्युतक्षि᳘दसि दि᳘वं दृᳫँ᳭हेत्यु᳘त्तरमग्नेः पु᳘रीषमसी᳘ति सम्भारा᳘नुपनि᳘वपति तद्य᳘त्सम्भारा भ᳘वन्त्यग्ने᳘रेव᳘ सर्व्वत्वा᳘य॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ परिधीन्प᳘रिदधाति॥
ध्रु᳘वो ऽसि पृथिवीं᳘ दृᳫँ᳭हे᳘ति मध्यमं᳘ ध्रुवक्षि᳘दस्यन्त᳘रिक्षं दृᳫँ᳭हे᳘ति द᳘क्षिणमच्युतक्षि᳘दसि दि᳘वं दृᳫँ᳭हेत्यु᳘त्तरमग्नेः पु᳘रीषमसी᳘ति सम्भारा᳘नुपनि᳘वपति तद्य᳘त्सम्भारा भ᳘वन्त्यग्ने᳘रेव᳘ सर्व्वत्वा᳘य॥

मूलम् - Weber

अ᳘थ परिधीन्प᳘रिदधाति॥
ध्रुॗवो ऽसि पृथिवीं᳘ दृंहे᳘ति मध्यमं᳘ ध्रुवक्षि᳘दस्यन्त᳘रिक्षं दृंहे᳘ति द᳘क्षिणमच्युतक्षि᳘दसि दि᳘वं दृंहेत्युत्तरमग्नेः पु᳘रीषमसी᳘ति सम्भारा᳘नुपनि᳘वपति तद्य᳘त्सम्भारा भ᳘वन्त्यग्ने᳘रेव᳘ सर्वत्वा᳘य॥

मूलम् - विस्वरम्

अथ परिधीन् परिदधाति- “ध्रुवो ऽसि पृथिवीं दृंह”- (वा. सं. ५ । १३) इति- मध्यमम् । “ध्रुवक्षिदस्यन्तरिक्षं दृंह”- (वा. सं. ५ । १३) इति- दक्षिणम् । “अच्युतक्षिदसि दिवं दृंह”- (वा. सं. ३ । २३) इति- उत्तरम् । “अग्नेः पुरीषमसि" (वा. सं. ५ । १३) इति- सम्भारानुपनिवपति । तद्यत्सम्भारां भवन्ति- अग्नेरेव सर्वत्वाय ॥ १४ ॥

सायणः

अथ परिधीन् परिदधातीति 21 । तन्मन्त्रस्यार्थः- हे परिधे ! त्वं यस्मात् ‘ध्रुवो ऽसि,’ अतः ‘पृथिवीं’ ‘दृंह’ दृढां कुरु । अनेन मध्यमपरिधिं परिदधाति । ध्रुवमविचलं क्षियति निवसतीति ‘ध्रुवक्षित्’ । अच्युतं परैरच्यावितं यथा न चलति तथा क्षियतीति ‘अच्युतक्षित्’ । उत्तरवेदिनाभिदेशे गुग्गुलुसुगन्धितेजनादिसम्भारप्रक्षेपं समन्त्रकं विधत्ते- अग्नेः पुरीषमसीति । सम्भारानुपनिवपत्तीति 22 । स च सम्भारनिवापः ‘अग्नेः’ ‘सवत्वाय’ कृत्स्नत्वाय सम्पद्यते गुग्गुल्वादीनामग्न्यवयवत्वं स्वयमेव वक्ष्यति,- अतस्तेषामग्निना संयोजनेन स सर्वः सम्पूर्णो भवति ॥ १४ ॥

Eggeling
  1. He then lays the enclosing-sticks 23 round (the navel); with the text (Vāj. S. V, 13), ‘Thou art firm, steady thou the earth!’ the middle one; with, ‘Thou art firmly settled, steady thou the air!’ the right one; with, ‘Thou art immovably settled, steady thou the sky!’ the left one. With, ‘Thou art Agni’s provision’ he throws the ’equipments’ upon (the high altar). Wherefore are the equipments?–for Agni’s completeness.

१५

विश्वास-प्रस्तुतिः

श᳘रीरᳫं᳭ है᳘वास्यै पी᳘तुदारु॥
तद्यत्पै᳘तुदारवाः परिध᳘यो भ᳘वन्ति श᳘रीरेणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति॥

मूलम् - श्रीधरादि

श᳘रीरᳫं᳭ है᳘वास्यै पी᳘तुदारु॥
तद्यत्पै᳘तुदारवाः परिध᳘यो भ᳘वन्ति श᳘रीरेणै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति॥

मूलम् - Weber

श᳘रीरᳫं हैॗवास्य पी᳘तुदारु॥
तद्यत्प्रै᳘तुदारवाः परिध᳘यो भ᳘वन्ति श᳘रीरेणैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

शरीरं हैवास्य पीतुदारु । तद् यत् पैतुदारवाः परिधयो भवन्ति- शरीरेणैवैनमेतत् समर्द्धयति, कृत्स्नं करोति ॥ १५ ॥

सायणः

शरीरं हैवेति । ‘अस्य’ अग्नेः ‘पीतुदारु’ उदुम्बरविशेषः । “स यो वनस्पतिष्ववसत्तां पितुद्रौ” (तै. सं. ६ । २ । ८ । ४) इति च तैत्तिरीयके श्रवणात् पीतुदारुणो ऽग्नेः शरीरत्वम् ॥ १५ ॥

Eggeling
  1. The pine-wood, namely, is his body 24: hence in that there are enclosing-sticks of pine-wood, thereby he supplies him with a body, makes him whole.

१६

विश्वास-प्रस्तुतिः

माᳫँ᳭स᳘ᳫँ᳘ ह᳘वास्य गु᳘ल्गुलु॥
तद्यद्गु᳘ल्गुलु भ᳘वति माᳫँ᳭से᳘नै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति॥

मूलम् - श्रीधरादि

माᳫँ᳭स᳘ᳫँ᳘ ह᳘वास्य गु᳘ल्गुलु॥
तद्यद्गु᳘ल्गुलु भ᳘वति माᳫँ᳭से᳘नै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति॥

मूलम् - Weber

मांस᳘ᳫं᳘ हैॗवास्य गु᳘ल्गुलु 25
तद्यद्गु᳘ल्गुलु भ᳘वति मांसे᳘नैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

मांसं हैवास्य गुल्गुलु । तद् यत् गुल्गुलु भवति- मांसेनैवैनमेतत् समर्द्धयति- कृत्स्नं करोति ॥ १६ ॥

सायणः

मांसं हैवास्येति । “यन्मांसमुपस्रुतं तद् गुल्गुलु" इति (तै. सं. ६ । २ । ८ । ४) श्रतेः गुग्गुलोरग्नेर्मासत्वम् ॥ १६ ॥

Eggeling
  1. And the bdellium, forsooth, is his flesh: hence in that there is bdellium, thereby he supplies him with flesh, makes him whole.

१७

विश्वास-प्रस्तुतिः

गन्धो᳘ है᳘वास्य सुगन्धिते᳘जनम्॥
तद्य᳘त्सुगन्धिते᳘जनं भ᳘वति गन्धे᳘नै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति॥

मूलम् - श्रीधरादि

गन्धो᳘ है᳘वास्य सुगन्धिते᳘जनम्॥
तद्य᳘त्सुगन्धिते᳘जनं भ᳘वति गन्धे᳘नै᳘वैनमेतत्स᳘मर्द्धयति कृत्स्नं᳘ करोति॥

मूलम् - Weber

गन्धो᳘ हैॗवास्य सुगन्धिते᳘जनम्॥
तद्य᳘त्सुगन्धिते᳘जनम् भ᳘वति गन्धे᳘नैॗवैनमेतत्स᳘मर्धयति कृत्स्नं᳘ करोति॥

मूलम् - विस्वरम्

गन्धो हैवास्य सुगन्धितेजनम् । तद् यत् सुगन्धितेजनं भवति- गन्धेनैवैनमेतत् समर्द्धयति, कृत्स्नं करोति ॥ १७ ॥

सायणः

गन्धो हैवास्येति । “यामोषधीषु तां सुगन्धितेजने-” (तै. सं. ६ । २ । ८ । ४) इति श्रुतेः सुगन्धितेजनाख्यौषधिविशेषे 26 अग्नेरेकरात्रनिवासादग्नेर्गन्धः सुगन्धितेजने सङ्क्रान्तः । तदुपवापेन अग्नेर्गन्धाख्यांशस्य पुनर्योजना । अतः कृत्स्नत्वमग्नेः ॥ १७ ॥

Eggeling
  1. And the fragrant reed-grass (sugandhi-tejana), forsooth, is his fragrance: hence in that there is fragrant reed-grass, thereby he supplies him with fragrance, makes him whole.

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यद्वृ᳘ष्णे स्तु᳘का भ᳘वति॥
व्वृ᳘ष्णेर्ह वै᳘ व्विषा᳘णे ऽअ᳘न्तरेणाग्निरे᳘काᳫँ᳭ रा᳘त्रिमुवास तद्य᳘देवा᳘त्राग्ने᳘र्न्यक्तं[[!!]] त᳘दिहा᳘प्यसदि᳘ति त᳘स्माद्वृ᳘ष्णे स्तु᳘का भवति त᳘स्माद्या᳘ शीर्ष्णो ने᳘दिष्ठᳫं᳭ स्यात्ता᳘माच्छिद्या᳘हरेद्य᳘द्यु तां न᳘ विन्देद᳘पि या᳘मेव काञ्चा᳘हरेत्तद्य᳘त्परिध᳘यो भ᳘वन्ति गु᳘प्त्या ऽएव᳘ दूर᳘ ऽइव᳘ ह्येनमुत्तरे परिध᳘य ऽआग᳘च्छन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यद्वृ᳘ष्णे स्तु᳘का भ᳘वति॥
व्वृ᳘ष्णेर्ह वै᳘ व्विषा᳘णे ऽअ᳘न्तरेणाग्निरे᳘काᳫँ᳭ रा᳘त्रिमुवास तद्य᳘देवा᳘त्राग्ने᳘र्न्यक्तं[[!!]] त᳘दिहा᳘प्यसदि᳘ति त᳘स्माद्वृ᳘ष्णे स्तु᳘का भवति त᳘स्माद्या᳘ शीर्ष्णो 26 ने᳘दिष्ठᳫं᳭ स्यात्ता᳘माच्छिद्या᳘हरेद्य᳘द्यु तां न᳘ विन्देद᳘पि या᳘मेव काञ्चा᳘हरेत्तद्य᳘त्परिध᳘यो भ᳘वन्ति गु᳘प्त्या ऽएव᳘ दूर᳘ ऽइव᳘ ह्येनमुत्तरे परिध᳘य ऽआग᳘च्छन्ति॥

मूलम् - Weber

अ᳘थ यद्वृ᳘ष्णे स्तु᳘का भ᳘वति॥
वृ᳘ष्णेर्ह वै᳘ विषा᳘णे अ᳘न्तरेणाग्निरे᳘कां रा᳘त्रिमुवास तद्य᳘देवा᳘त्राग्नेर्न्य᳘क्तं त᳘दिहा᳘प्यसदि᳘ति त᳘स्माद्वृ᳘ष्णे स्तु᳘का भवति त᳘स्माद्या᳘ शीर्ष्णो ने᳘दिष्ठᳫं स्यात्ता᳘माछिद्या᳘हरेद्य᳘द्यु तां न᳘ विन्देद᳘पि या᳘मेव कां चा᳘हरेत्तद्य᳘त्परिध᳘यो भ᳘वन्ति गु᳘प्त्या एव᳘ दूर᳘ इवॗ ह्येनमु᳘त्तरे परिध᳘य आग᳘छन्ति॥

मूलम् - विस्वरम्

अथ यद् वृष्णेः स्तुका भवति । वृष्णेर्ह वै विषाणे अन्तरेणाग्निरेकां रात्रिमुवास । तद् यदेवात्राग्नेर्न्यक्तं- तदिहाप्यसदिति । तस्माद् वृष्णेः स्तुका भवति । तस्माद्या शीर्ष्णो नेदिष्ठं स्यात्- तामाच्छिद्याहरेत् । यद्यु तां न विन्देदपि यामेव काञ्चाहरेत् । तद् यत्परिधयो भवन्ति- गुप्त्या ऽएव । दूर ऽइव ह्येनमुत्तरे परिधय आगच्छन्ति ॥ १८ ॥

सायणः

अथ यद्वृष्णे स्तुका भवतीति । वृष्णिर्मेषः, तस्य स्तुका रोम । स्तुकाया अग्न्यवयवत्वमुपपादयति- वृष्णेर्ह वै विषाणे अन्तरेणेति । “यां पशुषु तां पेत्वस्यान्तरा शृङ्गे-” (तै. सं. ६ । २ । ८ । ४) इति तैत्तिरीयकम् ॥

या शीर्ष्णे नेदिष्ठं स्यात् तामाच्छिद्याहरेदिति । वृष्णेरलाभे कथमित्यत आह- अपि यामेव कां चाहरेदिति। तदवान्तरजातिसम्बन्धामपीत्यर्थः । परिधीनां परिधानं तद्दारुविशेषत्वं चोक्तम्, इदानीं तदावश्यकत्वमाह- तद् यत् परिधयो भवन्तीत्यादि । यस्मात् ‘उत्तरे’ उपरि क्रियमाणाः ‘परिधयः’ ‘दूरे’ विप्रकृष्टकाले होमकाले ‘आगच्छन्ति’ अतो ऽग्नेर्गुप्तिस्तावत्पर्यन्तमपेक्षिता; तस्मादिदानीमवश्यं कर्तव्यमित्यर्थः ॥ १८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये तृतीयकाण्डे पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥ (३-५-२)

Eggeling
  1. And as to why there is a wether’s hair-tuft,–Agni, forsooth, dwelt once for one night between the two horns of a wether: ‘Whatever of Agni’s nature is inherent therein, let that be here too,’ so he thinks, and therefore there is a wether’s hair-tuft. Let him, therefore, cut off that (tuft) which is nearest to the head, and bring it; and if he be unable to procure that, let him bring any kind (of wether’s hair). And why there are enclosing-sticks?–for the

protection (of Agni): for it is somewhat long before the next enclosing-sticks will come nigh to him 27.


  1. अग्नी प्रणयतीध्माभ्यामुपयम्य । का. श्रौ. सू. ५-८१ । ↩︎ ↩︎ ↩︎

  2. 121:2 Some gravel is put in a pan for the burning wood to lie upon, when it is to be transferred from the Āhavanīya to the new altar. The Taittirīyas mix with the gravel one-fourth part of the dust of the foot-print of the Soma-cow (III, 3, 1, 6), the other three parts being used respectively for anointing the axle of the Soma-cart (III, 5, 3, 13), for the underlayer of the Āgnīdhra fire (III, 6, 3, 4), and for scattering about behind the Gārhapatya (III, 6, 3, 4-7). ↩︎

  3. प्रतिप्रस्थाता स्फ्येन लिखत्यावेदिश्रोणेरुत्तरवेदेर्वा । का. श्रौ. सू. ५-८७ । ८८ । ↩︎

  4. 121:3 Lit. they lift the underlayer underneath (the burning wood). ↩︎

  5. 121:4 For the eight verses (or twelve, the first and last being recited thrice each) which the Hotr̥ has to repeat while the fire is carried eastward and laid down on the high altar, see Ait. Br. I, 28; Āśv. Sr. II, 17. For the Brahman’s duties, see Kāty. XI, 1, 9. ↩︎

  6. 122:1 See III, 5, 1, 1. ↩︎

  7. 122:2 The Āhavanīya or offering fire being now transferred to the new altar, the old Āhavanīya hearth is henceforward used as Gārhapatya; and a line is drawn from it up to the antaḥpāta, marking the middle of the west side of the great altar. ↩︎

  8. 122:3 In ’leading forwards’ the fire they proceed along the north side of the large altar. ↩︎

  9. व्वेद्यंतरे स्थित्वोदङ्ङुत्तरवेदिं प्रोक्षतींद्रघोष इति प्रतिमंत्रं प्रतिदिशं यथालिंगम् । का. श्रौ. सू. ५-८९ । ↩︎

  10. 122:4 Indraghoshá, perhaps ‘India’s name;’ Mahīdhara and Sāyaṇa take it as ‘he who is noised abroad as Indra’ (i.e. called Indra), which, however, would require the accent ‘índraghosha.’ Perhaps ’the noise of Indra’ means Agni, the roaring fire: for Agni and the Vasus, see III, 4, 2, 1. ↩︎

  11. 122:5 Pracetas, here Varuṇa according to Mahīdhara and Sāyaṇa. Cf. III, 4, 2, 1. ↩︎

  12. 123:1 ‘Manojavas’ is taken by Mahīdhara and Sāyaṇa as referring to Yama. ↩︎

  13. तां᳘ न्यन्ते᳘न A. ता᳘ न्यन्ते᳘न the schol. at Kâtyây. ५. ४.१२ ↩︎

  14. दक्षिणा ँ ससहितं बहिर्वेदिशेषं निषिंवतीदमहं तप्तं वारित्य ँ मभिचरन् । का. श्रौ. सू. ५-९० । ↩︎

  15. 123:2 ‘Śocantī (sorrowing),’ Kāṇva rec. ↩︎

  16. नाभ्याः श्रोण्य ँ सेषु पंचगृहीतं जुहोत्यक्ष्णया दक्षिणे ँ से श्रोण्या श्रोण्या ँ से मध्ये च- हिरण्यं निधाय सिँह्यसीति प्रतिमंत्रम् । का. श्रौ. सू. ५ । ९१ । ↩︎

  17. 124:1 Viz. by pouring the ghee cross-wise on the corners of the ’navel’ of the altar. ↩︎

  18. 124:2 The south-east is sacred to Agni, the north-west to Vāyu. ↩︎

  19. 124:3 Because the Ādityas brought her as a Dakshiṇā, Kāṇva rec.; cf. III, 5, 1, 18. ↩︎

  20. 124:4 But for the lack of a demonstrative pronoun with āśīḥ one would like to take the passage thus: ‘Plenteous, forsooth, is this prayer for blessing among sacrificial texts: he thereby prays for the priesthood and the nobility.’ Cf. I, 2, 1, 7. ↩︎

  21. भूतेभ्यस्त्वेति स्रुचमुद्यच्छति । का. श्रौ. सू. ५ । ९२ । ↩︎ ↩︎

  22. अग्नेः पुरीषमिति निवपति गुग्गुलुसुगंधितेजनव्वृष्णेस्तुकाश्चोपरिशीर्षण्या अभावे ऽन्याः इति । का. श्रौ. सू. ५-९४ । ↩︎

  23. 125:1 They are of pītudāru (Pinus Deodora) wood, a span (of thumb and fore-finger) long. ↩︎

  24. 125:2 The Kāṇva text makes it his bones. ↩︎

  25. गुग्गुल्लु Sây. ↩︎

  26. ‘सुगन्धितेजनादोषाधिविशेषे’ इति जयपुरीयपु० पा० । ↩︎ ↩︎

  27. 126:1 Ordinarily the laying round of the paridhis takes place immediately before the fire is kindled for the offering; but as the next offering is not to come off for some time, the fire would be without a protection, if he were to leave it without the enclosing-sticks. Sāyaṇa takes ‘dūre’ in the sense of ‘in a long time,’ as above; but it might be taken of space ‘far off,’ when the passage would refer to the offering about to be performed on the old Āhavanīya (III, 5, 3, 10 seq.); and it may be noticed in reference to this point, that, according to Kāty. VIII, 3, 30, that fire does not become the Gārhapatya till immediately after that offering. ↩︎