०१

विश्वास-प्रस्तुतिः

तद्य᳘ ऽएष᳘ पूर्वा᳘र्द्ध्यो व्व᳘र्षिष्ठः स्थूणाराजो भ᳘वति॥
त᳘स्मात्प्राङ्प्र᳘क्रामति त्री᳘न्विक्रमांस्त᳘च्छङ्कुं नि᳘हन्ति᳘ सो ऽन्तः᳘पातः[[!!]]॥

मूलम् - श्रीधरादि

तद्य᳘ ऽएष᳘ पूर्वा᳘र्द्ध्यो व्व᳘र्षिष्ठः स्थूणाराजो भ᳘वति॥
त᳘स्मात्प्राङ्प्र᳘क्रामति त्री᳘न्विक्रमांस्त᳘च्छङ्कुं नि᳘हन्ति᳘ सो ऽन्तः᳘पातः[[!!]]॥

मूलम् - Weber

तद्य᳘ एष᳘ पूर्वाॗर्ध्यो व᳘र्षिष्ठ स्थूणाराजो भ᳘वति॥
त᳘स्मात्प्राङ् प्र᳘क्रामति त्री᳘न्विक्रमांस्त᳘छङ्कुं नि᳘हन्ति सो ऽन्तःपातः᳟॥

मूलम् - विस्वरम्

तद् य एष पूर्वार्द्ध्यो वर्षिष्ठः स्थूणाराजो भवति । तस्मात् प्राङ्प्रक्रामति त्रीन् विक्रमान् तच्छङ्कुं निहन्ति; सो ऽन्तःपातः ॥ १ ॥

सायणः

यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यतीर्थमहेश्वरम् ॥ १ ॥

आतिथ्या तानूनप्त्रे च सोमाप्यायननिह्नवौ । उपसच्चेति पञ्चार्थाश्चतुर्थे ऽत्र निरूपिताः ॥ २ ॥

अथ पञ्चमे सौमिकवेदिकरणादिकं निरूप्यते । अथ यदुक्तं कात्यायनेन- “औपवसथ्यात्पूर्वे ऽहनि पौर्वाह्णिक्या प्रचय्य वेदिं मिमीते-" (का. श्रौ. सू. ८ । ६०) इत्यादि; तदेतदाह- तद्य एष पूर्वार्द्ध्यो वर्षिष्ठः स्थूणाराजो भवति, तस्मात् प्राङ् प्रक्रामति त्रीन् विक्रमांस्तच्छङ्कुं निहन्तीति । ‘य एषः’ स्थूणाराजः ‘पूर्वार्द्ध्यः’ पूर्वार्द्धमर्हतीति पूर्वार्द्ध्यः । प्राचीनवंशस्य पूर्वभागे आहवनीयपुरोदेशे वर्तमानः पृथुस्तम्भो ऽस्ति ‘तस्मात्’ स्तम्भात् ‘प्राङ् प्रक्रमान् प्रक्रामति त्रीन्’ । ‘तत्’ तत्र तृतीयप्रक्रमावसाने ‘शङ्कुं’ निहन्यात्, स्थापयेत् 1 ‘सो ऽन्तःपातः’ ऐष्टिकवेदेर्महावेदेश्चान्तरालसञ्चरः ॥ १ ॥

Eggeling
  1. From that post which is the largest on the east side (of the hall) 2 he now strides three steps forwards (to the east), and there drives in a peg,–this is the intermediate (peg) 3.

०२

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(र्द) दक्षिणा प᳘ञ्चदश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति सा द᳘क्षिणा श्रो᳘णिः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(र्द) दक्षिणा प᳘ञ्चदश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति सा द᳘क्षिणा श्रो᳘णिः॥

मूलम् - Weber

त᳘स्मान्मध्यमा᳘छङ्कोः᳟॥
दक्षिणा प᳘ञ्चदश विक्रमान्प्र᳘क्रामति त᳘छङ्कु नि᳘हन्ति सा द᳘क्षिणा श्रो᳘णिः॥

मूलम् - विस्वरम्

तस्मान्मध्यमाच्छङ्कोः- दक्षिणा पञ्चदश विक्रमान् प्रक्रामति । तत् शङ्कुं निहन्ति- सा दक्षिणा श्रोणिः ॥ २ ॥

सायणः

दक्षिणश्रोणिप्रमाणमाह- तस्मान्मध्यमाच्छङ्ङ्कोर्दक्षिणेति । मध्यमशङ्कोर्दक्षिणतः पञ्चदशविक्रमावसाने शङ्कुं स्थापयेत् । ‘सा दक्षिणा श्रोणिः’ मर्यादा भवति 4 ॥ २ ॥

Eggeling
  1. From that middle peg he strides fifteen steps to the right, and there drives in a peg,–this is the right hip.

०३

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(रु᳘) उ᳘दङ्प᳘ञ्चदश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति सो᳘त्तरा श्रो᳘णिः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(रु᳘) उ᳘दङ्प᳘ञ्चदश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति सो᳘त्तरा श्रो᳘णिः॥

मूलम् - Weber

त᳘स्मान्मध्यमा᳘छङ्कोः᳘ उ᳘दङ् प᳘ञ्चदश विक्रमान्प्र᳘क्रामति त᳘छङ्कु नि᳘हन्ति सो᳘त्तरा श्रो᳘णिः॥

मूलम् - विस्वरम्

तस्मान्मध्यमाच्छङ्कोः- उदङ् पञ्चदश विक्रमान् प्रक्रामति तच्छङ्कुं निहन्ति सोत्तरा श्रोणिः ॥ ३ ॥

सायणः

एवमुत्तरश्रोणिवाक्यमपि- तस्मान्मध्यमाच्छङ्कोरुदङ्ङित्यादि ॥ ३ ॥

Eggeling
  1. From that middle peg he strides fifteen steps northwards, and there drives in a peg,–this is the left hip.

०४

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
प्राङ्ष᳘ट्त्रिᳫँ᳭शतं व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं[[!!]] नि᳘हन्ति स᳘ पूर्वार्धः[[!!]]॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
प्राङ्ष᳘ट्त्रिᳫँ᳭शतं व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं[[!!]] नि᳘हन्ति स᳘ पूर्वार्धः[[!!]]॥

मूलम् - Weber

त᳘स्मान्मध्यमा᳘छङ्कोः᳟॥
प्राङ् ष᳘ट्त्रिंशतं विक्रमान्प्र᳘क्रामति त᳘छङ्कु᳘ नि᳘हन्ति स᳘ पूर्वार्धः᳟॥

मूलम् - विस्वरम्

तस्मान्मध्यमाच्छङ्कोः- प्राङ् षट्त्रिंशतं विक्रमान् प्रक्रामति । तच्छङ्कुं निहन्ति स पूर्वार्द्धः ॥ ४ ॥

सायणः

आयामस्य पश्चाद्भागावधिं प्रदर्श्य प्राचीनावधिमाह- तस्मान्मध्यमाच्छङ्कोः पट्त्रिंशतं विक्रमान् प्रक्रामतीति 4 ॥ ४ ॥

Eggeling
  1. From that middle peg he strides thirty-six steps eastwards, and there drives in a peg,–this is the fore-part 5.

०५

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(र्द) दक्षिणा द्वा᳘दश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति स द᳘क्षिणो᳘ ऽᳫं᳘सः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(र्द) दक्षिणा द्वा᳘दश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति स द᳘क्षिणो᳘ ऽᳫं᳘सः॥

मूलम् - Weber

त᳘स्मान्मध्यमा᳘छङ्कोः᳟॥
दक्षिणा द्वा᳘दश विक्रमान्प्र᳘क्रामति त᳘छङ्कु नि᳘हन्ति स द᳘क्षिणो᳘ ऽंसः॥

मूलम् - विस्वरम्

तस्मान्मध्यमाच्छङ्कोः- दक्षिणा द्वादश विक्रमान् प्रक्रामति । तच्छङ्कुं निहन्ति स दक्षिणों ऽसः ॥ ५ ॥

सायणः

अथ दक्षिणोत्तरावंसौ दर्शयति- तस्मान्मध्यमाच्छङ्कोरिति । ‘तस्मात्’ पुरोदेशस्थात् ‘मध्यमाच्छङ्कोः’ श्रोणितः सकाशादंसयोरीषन्न्यूनत्वादुभयतो द्वादशप्रक्रमाभिधानम् 4 । इत्थं सर्वतो मितायां वेदिमात्रायां न्यूनाधिकत्वशङ्कामाशङ्क्य स्वयमेव व्यवच्छिनत्ति- एषा मात्रा वेदेरिति ॥ ५ ॥ ६ ॥

Eggeling
  1. From that middle peg (in front) he strides twelve steps to the right, and there drives in a peg, this is the right shoulder.

०६

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(रु᳘) उ᳘दङ्द्वा᳘दश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति स उ᳘त्तरो᳘ ऽᳫं᳘स ऽएषा मा᳘त्रा व्वे᳘देः॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्मान्मध्यमा᳘च्छङ्कोः᳘॥
(रु᳘) उ᳘दङ्द्वा᳘दश व्विक्रमान्प्र᳘क्रामति त᳘च्छङ्कुं नि᳘हन्ति स उ᳘त्तरो᳘ ऽᳫं᳘स ऽएषा मा᳘त्रा व्वे᳘देः॥

मूलम् - Weber

त᳘स्मान्मध्यमा᳘छङ्कोः᳟॥
उ᳘दङ् द्वा᳘दश विक्रमान्प्र᳘क्रामति त᳘छङ्कु नि᳘हन्ति स उ᳘त्तरो᳘ ऽंस एषा मा᳘त्रा वे᳘देः॥

मूलम् - विस्वरम्

तस्मान्मध्यमाच्छङ्कोः- उदङ् द्वादश विक्रमान्प्रक्रामति । तच्छङ्कुं निहन्ति स उत्तरों ऽसः । एषा मात्रा वेदेः ॥ ६ ॥

सायणः

[व्याख्यानं पञ्चमे]

Eggeling
  1. From that middle peg he strides twelve steps to the north, and there drives in a peg,–this is the left shoulder. This is the measure of the altar.

०७

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ य᳘त्त्रिᳫं᳭श᳘द्विक्रमा पश्चाद्भ᳘वति॥
त्रिᳫं᳭श᳘दक्षरा वै᳘ व्विरा᳘ड् विरा᳘जा वै᳘ देवा᳘ ऽअस्मिल्ँ᳘लोके प्र᳘त्यतिष्ठंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्विरा᳘जै᳘वास्मिल्ँ᳘लोके प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ य᳘त्त्रिᳫं᳭श᳘द्विक्रमा पश्चाद्भ᳘वति॥
त्रिᳫं᳭श᳘दक्षरा वै᳘ व्विरा᳘ड् विरा᳘जा वै᳘ देवा᳘ ऽअस्मिल्ँ᳘लोके प्र᳘त्यतिष्ठंस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘द्विरा᳘जै᳘वास्मिल्ँ᳘लोके प्र᳘तितिष्ठति॥

मूलम् - Weber

अ᳘थ य᳘त्त्रिंश᳘द्विक्रमा पश्चाद्भवति॥
त्रिंश᳘दक्षरा वै᳘ विरा᳘ड्विरा᳘जा वै᳘ देवा᳘ अस्मिं᳘लोके प्र᳘त्यतिष्ठंस्त᳘थो एॗवैष᳘ एत᳘द्विरा᳘जैॗवास्मिं᳘लोके प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

अथ यत् त्रिंशद्विक्रमा पश्चाद् भवति । त्रिंशदक्षरा वै विराट् । विराजा वै देवा ऽअस्मिल्ँ लोके प्रत्यतिष्ठन् । तथो ऽएवैष एतद्विराजैवास्मिल्ँ लोके प्रतितिष्ठति ॥ ७ ॥

सायणः

अथ विहितं वेदिमानं क्रमेण प्रशिशंसिषुरादौ पश्चान्मानं प्रशंसति- अथ यत् त्रिंशद्विक्रमा पश्चाद् भवतीति । त्रिंशत्पक्षे, विराजः प्रतिपादं दशाक्षरत्वात् त्रिंशदक्षराणि । स्पष्टमन्यत् ॥ ७ ॥

Eggeling
  1. Now the reason why it is thirty steps broad behind is this: the Virāj metre consists of thirty syllables, and by means of the Virāj the gods obtained a firm footing in this world; and even so does he now, by means of the Virāj, obtain a firm footing in this world.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थो ऽअ᳘पि त्र᳘यस्त्रिᳫं᳭शत्स्युः॥
(स्त्र᳘) त्र᳘यस्त्रिᳫं᳭शदक्षरा वै᳘ व्विरा᳘ट्त᳘द्विरा᳘जै᳘वास्मिल्ँ᳘लोके प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थो ऽअ᳘पि त्र᳘यस्त्रिᳫं᳭शत्स्युः॥
(स्त्र᳘) त्र᳘यस्त्रिᳫं᳭शदक्षरा वै᳘ व्विरा᳘ट्त᳘द्विरा᳘जै᳘वास्मिल्ँ᳘लोके प्र᳘तितिष्ठति॥

मूलम् - Weber

अ᳘थो अ᳘पि त्र᳘यस्त्रिंशत्स्युः॥
त्र᳘यस्त्रिंशदक्षरा वै᳘ विरा᳘ड्विरा᳘जैॗवास्मिं᳘लोके प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

अथो ऽअपि त्रयस्त्रिंशत्स्युः । त्रयस्त्रिंशदक्षरा वै विराट् विराजैवास्मिल्ँ लोके प्रतितिष्ठति ॥ ८ ॥

सायणः

पश्चान्माने पक्षान्तरमाह- अथो अपि त्रयस्त्रिंशत्स्युरिति 6 । ‘अथो’- शब्दः पक्षं व्यावर्तयति- “न वा एकेनाक्षरेण छन्दांसि वियन्ति"- (ऐ. ब्रा. १ । १ । ६ ।) इति न्यायात् । प्रतिपादमेकैकाधिक्येन विराजस्त्रियस्त्रिंशदक्षरत्वम् ॥ ८ ॥

Eggeling
  1. But there may also be thirty-three (steps); for of thirty-three syllables also consists the Virāj; and by means of the Virāj, he obtains a firm footing in this world.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यत्ष᳘ट्त्रिᳫं᳭शद्विक्रमा प्रा᳘ची भ᳘वति॥
ष᳘ट्त्रिᳫं᳭शदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्गं᳘ लोकᳫं᳭ स᳘माश्नुवत᳘ त᳘थो ऽए᳘वैष᳘ ऽएत᳘द् बृह᳘त्यैव᳘ स्वर्गं᳘ लोकᳫं᳭ स᳘मश्नुते᳘ सो ऽस्य दि᳘व्याहवनी᳘यो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यत्ष᳘ट्त्रिᳫं᳭शद्विक्रमा प्रा᳘ची भ᳘वति॥
ष᳘ट्त्रिᳫं᳭शदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्गं᳘ लोकᳫं᳭ स᳘माश्नुवत᳘ त᳘थो ऽए᳘वैष᳘ ऽएत᳘द् बृह᳘त्यैव᳘ स्वर्गं᳘ लोकᳫं᳭ स᳘मश्नुते᳘ सो ऽस्य दि᳘व्याहवनी᳘यो भवति॥

मूलम् - Weber

अ᳘थ यत्ष᳘ट्त्रिंशद्विक्रमा प्रा᳘ची भ᳘वति॥
ष᳘ट्त्रिंशदक्षरा वै᳘ बृहती᳘ बृहत्या वै᳘ देवाः᳘ स्वर्गं᳘ लोकᳫं स᳘माश्नुवत त᳘थो एॗवैष᳘ एत᳘द्बृहॗत्यैव᳘ स्वर्गं᳘ लोकᳫं स᳘मश्नुतेॗ सो ऽस्य दिॗव्याहवनी᳘यो भवति॥

मूलम् - विस्वरम्

अथ यत् षट्त्रिंशद्विक्रमा प्राची भवति । षट्त्रिंशदक्षरा वै बृहती । बृहत्या वै देवाः स्वर्गं लोकं समाश्नुवत । तथो ऽएवैष ऽएतद् बृहत्यैव स्वर्गं लोकं समश्नुते । सो ऽस्य दिव्याहवनीयो भवति ॥ ९ ॥

सायणः

अथ प्रागायामस्येयत्तां प्रशंसति- अथ यत्षट्त्रिंशद्विक्रमा प्राची भवतीति । चतुर्विंशत्यक्षरगायत्र्याश्चतुरक्षराधिक्येनोष्णिगादिक्रमेण बृहत्याः षट्त्रिंशदक्षराणि भवन्ति । स्पष्टमन्यत् ॥ ९ ॥

Eggeling
  1. Then as to why the ’easterly line 7’ is thirty-six steps long;–the Br̥hatī consists of thirty-six syllables, and by means of the Br̥hatī the gods obtained

the heavenly world: and so does he now, by means of the Br̥hatī, obtain the heavenly world and that offering-fire (Āhavanīya) of his is in the sky.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यच्च᳘तुर्विᳫं᳭शतिविक्रमा पुर᳘स्ताद्भ᳘वति॥
च᳘तुर्विᳫं᳭शत्यक्षरा वै᳘ गायत्री᳘ पूर्व्वार्द्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्व्वार्द्ध᳘ ऽएष᳘ यज्ञ᳘स्य त᳘स्माच्च᳘तुर्विᳫं᳭शतिविक्रमा पुर᳘स्ताद्भवत्येषा मा᳘त्रा व्वे᳘देः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यच्च᳘तुर्विᳫं᳭शतिविक्रमा पुर᳘स्ताद्भ᳘वति॥
च᳘तुर्विᳫं᳭शत्यक्षरा वै᳘ गायत्री᳘ पूर्व्वार्द्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्व्वार्द्ध᳘ ऽएष᳘ यज्ञ᳘स्य त᳘स्माच्च᳘तुर्विᳫं᳭शतिविक्रमा पुर᳘स्ताद्भवत्येषा मा᳘त्रा व्वे᳘देः॥

मूलम् - Weber

अ᳘थ यच्च᳘तुर्विंशतिविक्रमा पुर᳘स्ताद्भ᳘वति॥
च᳘तुर्विंशत्यक्षरा वै᳘ गायत्री᳘ पूर्वार्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्वार्धे᳘ एष᳘ यज्ञ᳘स्य त᳘स्माच्च᳘तुर्विंशतिविक्रमा पुर᳘स्ताद्भवत्येषा मा᳘त्रा वे᳘देः॥

मूलम् - विस्वरम्

अथ यत् चतुर्विंशतिविक्रमा पुरस्ताद्भवति । चतुर्विंशत्यक्षरा वै गायत्री । पूर्वार्द्धो वै यज्ञस्य गायत्री, पूर्वार्द्ध एष यज्ञस्य । तस्माच्चतुर्विंशतिविक्रमा पुरस्ताद्भवति । एषा मात्रा वेदेः ॥ १० ॥

सायणः

प्राग्दिगवस्थितयोरंसयोः प्रमाणं मिलित्वा प्रशंसति- अथ यच्चतुर्विंशतिविक्रमा पुरस्ताद् भवतीति । ‘पुरस्तात्’ पूर्वस्यां दिशि विस्तारेण ‘चतुर्विंशतिविक्रमा भवति’ । पूर्वार्द्धो वै यज्ञस्येति । ‘यज्ञस्य’ यज्ञाङ्गस्य, वेदिस्वरूपस्य ‘एषः पूर्वार्द्धः’ इत्यथः । गायत्र्याः पूर्वार्द्धत्वं “गायत्रं वै प्रातस्सवनम्”- (ऐ. ब्रा. ६ । १ । २) (नि. ७ । ३ । १) इति श्रुतेः सिद्धम् ॥ १० ॥

Eggeling
  1. And as to (the altar) being twenty-four steps broad in front;–the Gāyatrī consists of twenty-four syllables, and the Gāyatrī is the fore-part of the sacrifice: this is why it is twenty-four steps broad in front. This is the measure of the altar.

११

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ य᳘त्पश्चाद्व᳘रीयसी भ᳘वति॥
पश्चाद्व᳘रीयसी पृथु᳘श्रोणिरि᳘ति वै यो᳘षां प्र᳘शᳫं᳭सन्ति य᳘द्वेव᳘ पश्चाद्व᳘रीयसी भ᳘वति पश्चा᳘दे᳘वैतद्व᳘रीयः प्रज᳘ननं करोति त᳘स्मात्पश्चाद्व᳘रीयसः प्रज᳘ननादिमाः᳘ प्रजाः प्र᳘जायन्ते॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ य᳘त्पश्चाद्व᳘रीयसी भ᳘वति॥
पश्चाद्व᳘रीयसी पृथु᳘श्रोणिरि᳘ति वै यो᳘षां प्र᳘शᳫं᳭सन्ति य᳘द्वेव᳘ पश्चाद्व᳘रीयसी भ᳘वति पश्चा᳘दे᳘वैतद्व᳘रीयः प्रज᳘ननं करोति त᳘स्मात्पश्चाद्व᳘रीयसः प्रज᳘ननादिमाः᳘ प्रजाः प्र᳘जायन्ते॥

मूलम् - Weber

अ᳘थ य᳘त्पश्चाद्व᳘रीयसी भ᳘वति॥
पश्चाद्व᳘रीयसी पृथु᳘श्रोणिरि᳘ति वै यो᳘षाम् प्र᳘शंसन्ति य᳘द्वेव᳘ पश्चाद्व᳘रीयसी भ᳘वति पश्चा᳘देॗवैतद्व᳘रीयः प्रज᳘ननं करोति त᳘स्मात्पश्चाद्व᳘रीयसः प्रज᳘ननादिमाः᳘ प्रजाः प्र᳘जायन्ते॥

मूलम् - विस्वरम्

अथ यत् पश्चाद्वरीयसी भवति । पश्चाद्वरीयसी पृथुश्रोणिः । इति वै योषां प्रशंसन्ति । यद्वेव पश्चाद्वरीयसी भवति । पश्चादेवैतद्वरीयः प्रजननं करोति । तस्मात् पश्चाद्वरीयसः प्रजननादिमाः प्रजाः प्रजायन्ते ॥ ११ ॥

सायणः

श्रोणिभागस्योरुत्वमंसभागस्य ह्रस्वत्वं यदस्ति तत् प्रशंसति- अथ यत्पश्चाद्वरीयसी भवतीति । श्रोणिभागस्य त्रिंशत्प्रक्रमत्वोक्तेः, अंसभागस्य चतुर्विंशत्यभिधानात् पश्चाद्वरीयस्त्वम् । यस्माल्लोके ‘पृथुश्रोणिः योषा’ प्रशस्ता तस्माद् वेद्याः पश्चाद्भागस्यापि श्रोणित्वात् पृथुत्वं युक्तमित्यर्थः । श्रोणिपृथुत्वं कुत्रोपयुज्यते इति, तदुपयोगमाह- तस्मात् पश्चाद् वरीयस इति । प्रजायन्ते ऽत्रेति ‘प्रजननं’ पश्चाद्भागे उरुतरं यत् तत् ‘पश्चाद्वरीयः’ । तादृक् प्रजननात् प्रजायन्ते, अतः प्रजननहेतुत्वात्- पश्चाद्वरीयस्त्वं प्रशस्तम् ॥ ११ ॥

Eggeling
  1. And why it is broader behind,–‘Wider behind, broad-hipped,’ thus they praise a woman. And by its being wider behind, he makes that womb at the hind-part (of the altar) wider, and from that wider womb these creatures are born.

१२

विश्वास-प्रस्तुतिः

ना᳘सिका ह वा᳘ ऽएषा᳘ यज्ञ᳘स्य य᳘दुत्तरवेदिः[[!!]]॥
(र᳘) अ᳘थ य᳘देनामु᳘त्तरां व्वे᳘देरुपकिर᳘ति त᳘स्मादुत्तरवेदिर्ना᳘म॥

मूलम् - श्रीधरादि

ना᳘सिका ह वा᳘ ऽएषा᳘ यज्ञ᳘स्य य᳘दुत्तरवेदिः[[!!]]॥
(र᳘) अ᳘थ य᳘देनामु᳘त्तरां व्वे᳘देरुपकिर᳘ति त᳘स्मादुत्तरवेदिर्ना᳘म॥

मूलम् - Weber

ना᳘सिका ह वा᳘ एषा᳘ यज्ञ᳘स्य य᳘दुत्तरवेदिः᳟॥
अ᳘थ य᳘देनामु᳘त्तरां वे᳘देरुपकिर᳘ति त᳘स्मादुत्तरवेदिर्ना᳘म॥

मूलम् - विस्वरम्

नासिका ह वा एषा यज्ञस्य- यदुत्तरवेदिः । अथ यदेनामुत्तरां वेदेरुपकिरति; तस्मादुत्तरवेदिर्नाम ॥ १२ ॥

सायणः

सार्थवादमुत्तरवेदिनिर्माणं विधत्ते- नासिका ह वा एषा यज्ञस्येति । नासिकाया मुखप्रदेशादपि समुच्छ्रितत्वादुत्तरवेदेर्मृदोच्छ्रितता कर्तव्या । उन्नतत्वमुत्तरवेदिनामनिर्वचनद्वारेण प्रशंसति- अथ यदेनामुत्तरां वेदेरुपकिरतीति । यस्माद् ‘वेदेः’ सौमिक्याः ‘उत्तराम्’ अत्युन्नताम् ‘उपकिरति’ मृदं क्षिपति ‘तस्माद्’ वेदेः प्रागवयवभूतस्य प्रदेशस्योन्नततरत्वात् ‘उत्तरवेदिः’ इति ‘नाम’ सम्पन्नम् ॥ १२ ॥

Eggeling
  1. That high altar (Uttaravedi 8) is the nose of the sacrifice; because they throw it up so as to be higher than the altar, therefore it is called ‘high altar.’

१३

विश्वास-प्रस्तुतिः

द्व᳘य्यो ह वा᳘ ऽइदम᳘ग्रे प्रजा᳘ आसुः॥
(रा) आदित्या᳘श्चैवा᳘ङ्गिरसश्च ततो᳘ ऽङ्गिरसः पू᳘र्व्वे यज्ञᳫं᳭ स᳘मभरंस्ते᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्योचुरग्नि᳘मिमां᳘ नः श्वःसुत्या᳘मा᳘दित्ये᳘भ्यः प्र᳘ब्रूह्यने᳘न नो यज्ञे᳘न याजयतेति[[!!]]॥

मूलम् - श्रीधरादि

द्व᳘य्यो ह वा᳘ ऽइदम᳘ग्रे प्रजा᳘ आसुः॥
(रा) आदित्या᳘श्चैवा᳘ङ्गिरसश्च ततो᳘ ऽङ्गिरसः पू᳘र्व्वे यज्ञᳫं᳭ स᳘मभरंस्ते᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्योचुरग्नि᳘मिमां᳘ नः श्वःसुत्या᳘मा᳘दित्ये᳘भ्यः प्र᳘ब्रूह्यने᳘न नो यज्ञे᳘न याजयतेति 9 [[!!]]॥

मूलम् - Weber

द्वॗय्यो ह वा᳘ इदम᳘ग्रे प्रजा᳘ आसुः॥
आदित्या᳘श्चैवा᳘ङ्गिरसश्च ततो᳘ ऽङ्गिरसः पू᳘र्वे यज्ञᳫं स᳘मभरंस्ते᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्योचुरग्नि᳘मिमां᳘ नः श्वःसुत्या᳘मादित्ये᳘भ्यः प्र᳘ब्रूह्यने᳘न नो यज्ञे᳘न याजयते᳘ति 10

मूलम् - विस्वरम्

द्वय्यो ह वा इदमग्रे प्रजा आसुः, आदित्याश्चैव, अङ्गिरसश्च । ततो ऽङ्गिरसः पूर्वे यज्ञं समभरन् । ते यज्ञं सम्भृत्योचुरग्निम्- इमां नः श्वःसुत्यामादित्येभ्यः प्रब्रूहि । अनेन नो यज्ञेन याजयतेति ॥ १३ ॥

सायणः

अथोत्तरवेदिव्याघारणविध्यर्थमाख्यायिकामाह- द्वय्यो ह वा इदमग्रे प्रजा आसुरिति । ‘अग्रे’ सृष्टेः पूर्वम् ‘द्वय्यः’ द्विविधा एव ‘प्रजाः’ ‘आसुः’ अभवन् । कास्ताः ? ‘आदित्याश्चैवाङ्गिरसश्च । ‘ते ‘अङ्गिरसः’ ‘पूर्वे’ आदित्येभ्यः पूर्वभाविनः सन्तो ‘यज्ञं’ सम्भृतवन्तः । सम्भृतयज्ञाः ‘ते’ ‘अग्निम्’ इत्थम् ‘ऊचुः-’ हे अग्ने ! त्वं ‘नः’ अस्माकं ‘इमाम्’ ‘श्वःसुत्यां’ परेद्युः क्रियमाणमभिषवम् ‘आदित्येभ्यः प्रब्रूहि;’ त्वमपि ‘अनेन’ सोमयागेन ‘नः’ अस्मान् ‘याजयेति’ । एवमुक्तो ऽग्निरादित्येभ्यः पूर्वभाविनः वृत्तान्तं प्रोवाच ॥ १३ ॥

Eggeling
  1. Now, in the beginning there were two kinds of beings here, the Ādityas and the Aṅgiras. The Aṅgiras then were the first to prepare a sacrifice, and having prepared the sacrifice they said to Agni, ‘Announce thou to the Ādityas this our to-morrow’s Soma-feast, saying, “Minister ye at this sacrifice of ours!”’

१४

विश्वास-प्रस्तुतिः

ते᳘ हादित्या᳘ ऽऊचुः॥
(रु᳘) उ᳘पजानीत य᳘था वा ऽस्मा᳘नेवा᳘ङ्गिरसो याज᳘यान्न᳘ व्वयम᳘ङ्गिरस इ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ हादित्या᳘ ऽऊचुः॥
(रु᳘) उ᳘पजानीत य᳘था वा ऽस्मा᳘नेवा᳘ङ्गिरसो याज᳘यान्न᳘ व्वयम᳘ङ्गिरस इ᳘ति॥

मूलम् - Weber

ते᳘ हादित्या᳘ ऊचुः॥
उ᳘पजानीत य᳘थास्मा᳘नेवा᳘ङ्गिरसो याज᳘यान्न᳘ वयम᳘ङ्गिरस इ᳘ति॥

मूलम् - विस्वरम्

ते हादित्या ऊचुः । उपजानीत यथा वा ऽस्मानेवाङ्गिरसो याजयान् । न वयम् अङ्गिरस इति ॥ १४ ॥

सायणः

ते हादित्या ऊचुरिति । त आदित्या आहूता इत्थं व्यचारयन् । कथम् ? ‘यथा’ येन प्रकारेण ‘अस्मानेव’ ‘अङ्गिरसः’ ‘याजयान्’ याजयेयुः ‘वयं’ तु ‘न’ तान् याजयामः । तत्प्रकारश्चिन्त्यतामिति ॥ १४ ॥

Eggeling
  1. The Ādityas spake (to one another), ‘Contrive ye how the Aṅgiras shall minister unto us, and not we unto the Aṅgiras!’

१५

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्न) न वा᳘ ऽअन्ये᳘न यज्ञा᳘दपक्र᳘मणमस्त्य᳘न्तरामेव᳘ सुत्यां᳘ ध्रियामहा ऽइ᳘ति ते᳘ यज्ञᳫं᳭ स᳘ञ्जह्रुस्ते᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्योचुः श्वःसुत्यां वै त्व᳘मस्म᳘भ्यमग्ने प्रा᳘वोचो᳘ ऽथ व्वय᳘मद्य सुत्या᳘मेव तु᳘भ्यं प्र᳘ब्रूमो᳘ ऽङ्गिरोभ्यश्च ते᳘षां नस्त्वᳫं᳭ हो᳘ता ऽसी᳘ति᳘॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्न) न वा᳘ ऽअन्ये᳘न यज्ञा᳘दपक्र᳘मणमस्त्य᳘न्तरामेव᳘ सुत्यां᳘ ध्रियामहा ऽइ᳘ति ते᳘ यज्ञᳫं᳭ स᳘ञ्जह्रुस्ते᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्योचुः श्वःसुत्यां वै त्व᳘मस्म᳘भ्यमग्ने प्रा᳘वोचो᳘ ऽथ व्वय᳘मद्य सुत्या᳘मेव तु᳘भ्यं प्र᳘ब्रूमो᳘ ऽङ्गिरोभ्यश्च ते᳘षां नस्त्वᳫं᳭ हो᳘ता ऽसी᳘ति᳘॥

मूलम् - Weber

ते᳘ होचुः॥
न वा᳘ अन्ये᳘न यज्ञा᳘दपक्रमणमस्त्य᳘न्तरामेव᳘ सुत्यां᳘ ध्रियामहा 11 इ᳘ति ते᳘ यज्ञᳫं सं᳘जह्रुस्ते᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्योचुः श्वःसुत्यां वै त्व᳘मस्म᳘भ्यमग्ने प्रा᳘वोचो᳘ ऽथ वय᳘मद्यसुत्या᳘मेव तु᳘भ्यम् प्र᳘ब्रूमो᳘ ऽङ्गिरोभ्यश्च ते᳘षां नस्त्वᳫं हो᳘तासी᳘ति॥

मूलम् - विस्वरम्

ते होचुः- न वा ऽअन्येन यज्ञादपक्रमणमस्ति । अन्तरामेव सुत्यां ध्रियामहा ऽइति । ते यज्ञं संजह्रुः । ते यज्ञं संभृत्योचुः; श्वः सुत्यां वै त्वमस्मभ्यमग्ने प्रावोचः । अथ वयमद्यसुत्यामेव तुभ्यं प्रब्रूमः अङ्गिरोभ्यश्च, तेषां नस्त्वं होता ऽसीति ॥ १५ ॥

सायणः

ते होचुरिति । विचार्येत्थमूचुः । न वा अन्येन यज्ञादपक्रमणमस्तीति । ‘अन्येन’ वक्ष्यमाणात् साद्यस्क्रानुष्ठानात् अन्येन ‘यज्ञात्’ अङ्गिरोभिरनुष्ठीयमानात् अस्मात् ‘अपक्रमणमस्ति;’ अतः ‘सुत्यामन्तरामेव’ अङ्गिरसां सुत्यातः पूर्वमेवास्माकं सुत्याम् ‘ध्रियामहै’ व्यवस्थापयिष्यामः ‘इति’ विचारितवन्तः । ‘ते’ ‘यज्ञं’ सुत्यालक्षणं ‘सम्भृत्य’ अग्निम् ‘ऊचुः’ । ‘त्वम्’ अस्मभ्यं ‘श्वःसुत्यां’ ‘अग्ने !’ प्रावोचः । ‘अथ’- शब्दस्त्वर्थे । ‘वयं’ तु ‘तुभ्यम्’ ‘अङ्गिरोभ्यश्च’ ‘अद्यसुत्यां’ अद्य क्रियमाणा सुत्या अद्यसुत्या, तां ‘प्रब्रूमः’ । ‘तेषां’ ‘नः’ तथा कुर्वतामस्माकं ‘त्वं’ ’ ‘होता’ भव ॥ १५ ॥

Eggeling
  1. They said, ‘Verily by nothing but sacrifice is there a way out of this 12: let us undertake another

Soma-feast!’ They brought together the (materials for) sacrifice, and having made ready the sacrifice, they said, ‘Agni, thou hast announced to us a Soma-feast for to-morrow; but we announce to thee and the Aṅgiras a Soma-feast even for to-day: it is for us that thou art (to officiate as) Hotr̥ 13!’

१६

विश्वास-प्रस्तुतिः

ते ऽन्य᳘मेव᳘ प्रतिप्र᳘जिघ्युः॥
(र᳘) अ᳘ङ्गिरसो᳘ ऽच्छ ते हाप्य᳘ङ्गिरसो ऽग्न᳘ये ऽन्वाग᳘त्य चुक्रुधु᳘रिव कथं नु᳘ नो दूतश्च᳘रन्न᳘ प्रत्या᳘दृथा ऽइ᳘ति॥

मूलम् - श्रीधरादि

ते ऽन्य᳘मेव᳘ प्रतिप्र᳘जिघ्युः॥
(र᳘) अ᳘ङ्गिरसो᳘ ऽच्छ ते हाप्य᳘ङ्गिरसो ऽग्न᳘ये ऽन्वाग᳘त्य चुक्रुधु᳘रिव कथं नु᳘ नो दूतश्च᳘रन्न᳘ प्रत्या᳘दृथा ऽइ᳘ति॥

मूलम् - Weber

ते ऽन्य᳘मेव᳘ प्रतिप्र᳘जिघ्युः॥
अ᳘ङ्गिरसो᳘ ऽछ ते हाप्य᳘ङ्गिरसो ऽग्न᳘ये ऽन्वाग᳘त्य चुक्रुधु᳘रिव कथं नु᳘ नो दूतश्च᳘रन्न᳘ प्रत्या᳘दृथा इ᳘ति॥

मूलम् - विस्वरम्

ते ऽन्यमेव प्रतिप्रजिघ्युः अङ्गिरसः- अच्छ ते हाप्यङ्गिरसो ऽग्नये ऽन्वागत्य, चुक्रुधुरिव- कथं नु नो दूतश्चरन् न प्रत्यादृथा इति ॥ १६ ॥

सायणः

ते ऽन्यमेव प्रतिप्रजिघ्युरिति । एवमुक्तवन्तस्तु ‘अङ्गिरसः’ एतद्वृत्तान्तावबोधनाय अग्निप्रतिनिधिम् ‘अन्यम्’ ‘प्रजिघ्युः’ । “हि गतौ वृद्धौ च”- (धा. पा. स्वा. प. १०) प्रैरयन् । ‘ते’ अङ्गिरसः ‘अग्नये ऽन्वागत्य’ ‘चुक्रुधुः’ । ‘क्रुधद्रुहेर्ष्या"- (पा. सू. १ । ४ । ३७) इत्यादिना क्रुधियोगे चतुर्थी । कथं नु नो दूत इति । क्रोधप्रकार उक्तः । ‘न प्रत्यादृथाः’ आदरस्य प्रत्यादरं न कृतवानसि ॥ १६ ॥

Eggeling
  1. They sent back some other (messenger) to the Aṅgiras; but the Aṅgiras going after Agni, were exceeding angry with him, saying, ‘Going as our messenger, why didst thou not mind us 14?’

१७

विश्वास-प्रस्तुतिः

स᳘ होवाच॥
(चा) अनिन्द्या वै᳘ मा ऽवृषत᳘ सो ऽनिन्द्यै᳘र्व्वृतो᳘ नाशकम᳘पक्रमितुमि᳘ति त᳘स्मादु हानिन्द्य᳘स्य व्वृतो ना᳘पक्रामेत्त᳘ ऽएते᳘न सद्यःक्रिया᳘ ऽङ्गिरस ऽआदित्या᳘नयाजयन्त्स᳘ सद्यःक्रीः[[!!]]॥

मूलम् - श्रीधरादि

स᳘ होवाच॥
(चा) अनिन्द्या वै᳘ मा ऽवृषत᳘ सो ऽनिन्द्यै᳘र्व्वृतो᳘ नाशकम᳘पक्रमितुमि᳘ति त᳘स्मादु हानिन्द्य᳘स्य व्वृतो ना᳘पक्रामेत्त᳘ ऽएते᳘न सद्यःक्रिया᳘ ऽङ्गिरस ऽआदित्या᳘नयाजयन्त्स᳘ सद्यःक्रीः[[!!]]॥

मूलम् - Weber

स᳘ होवाच॥
अनिन्द्या वै᳘ मावृषतॗ सो निन्द्यै᳘र्वृतोॗ नाशकम᳘पक्रमितुमि᳘ति त᳘स्मादु हानिन्द्य᳘स्य वृतो ना᳘पक्रामेत्त᳘ एते᳘न सद्यःक्रिया᳘ङ्गिरस आदित्या᳘नयाजयन्त्स᳘ सद्यःक्रीः᳟॥

मूलम् - विस्वरम्

स होवाच । अनिन्द्या वै मा ऽवृषत । सो ऽनिन्द्यैर्वृतो नाशकमपक्रमितुमिति । तस्मादु हानिन्द्यस्य वृतो नापक्रामेत् । त एतेन सद्यःक्रिया ऽङ्गिरस आदित्यानयाजयन्, स सद्यःक्रीः ॥ १७ ॥

सायणः

अग्नेरुत्तरम्- स होवाचानिन्द्या वै मा ऽवृषतेत्यादि । प्रासङ्गिकं किञ्चिद्धर्मविशेषं विधत्ते- तस्मादु हानिन्द्यस्य वृतो नापक्रामेदिति । ‘सः’ ‘सद्यःक्रीः’ एकाहः सोमयागः । ‘एतेन अङ्गिरसः आदित्यान् अयाजयन्’ । दीक्षासोमक्रयादीनां सद्य एव क्रियमाणत्वात् ‘सद्यःक्रीः’ इति नाम ॥ १७॥

Eggeling
  1. He spake, ‘The blameless chose me: as the chosen of the blameless, I could not go away.’ And let not therefore the chosen (priest) of a blameless man turn away from him. The Aṅgiras then officiated for the Ādityas in the sacrifice with Soma bought (krī) on the same day (sadyas); whence this Sadyaḥkrī 15.

१८

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘भ्यो व्वा᳘चं द᳘क्षिणामा᳘नयन्॥
(यंस्तां) तां न प्र᳘त्यगृह्णन्हास्या᳘महे य᳘दि प्रतिग्रहीष्या᳘म ऽइ᳘ति त᳘दु त᳘द्यज्ञ᳘स्य क᳘र्म्म न᳘ व्यमुच्यत[[!!]] य᳘द्दाक्षिणमा᳘सीत्॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘भ्यो व्वा᳘चं द᳘क्षिणामा᳘नयन्॥
(यंस्तां) तां न प्र᳘त्यगृह्णन्हास्या᳘महे य᳘दि प्रतिग्रहीष्या᳘म ऽइ᳘ति त᳘दु त᳘द्यज्ञ᳘स्य क᳘र्म्म न᳘ व्यमुच्यत[[!!]] य᳘द्दाक्षिणमा᳘सीत्॥

मूलम् - Weber

ते᳘भ्यो वा᳘चं द᳘क्षिणामा᳘नयन्॥
तां न प्र᳘त्यगृह्णन्हास्या᳘महे य᳘दि प्रतिग्रहीष्या᳘म इ᳘ति त᳘दु त᳘द्यज्ञ᳘स्य क᳘र्म न व्य᳘मुच्यत य᳘द्दाक्षिणमा᳘सीत्॥

मूलम् - विस्वरम्

तेभ्यो वाचं दक्षिणामानयन्, तां न प्रत्यगृह्णन्; हास्यामहे यदि प्रतिग्रहीष्याम इति । तदु तद्यज्ञस्य कर्म न व्यमुच्यत; यद्दाक्षिणमासीत् ॥ १८ ॥

सायणः

तेभ्यो वाचं दक्षिणामिति । तेभ्यः साद्यस्कयाजकेभ्यः ‘वाचम्’ एव दक्षिणात्वेन प्रादुरित्यर्थः । वाग्दक्षिणाया निराकरणस्याभिप्रायमाह- हास्यामहे यदि प्रतिग्रहीष्याम इति । ‘यदि’ स्वीकरिष्यामः, तर्हि ‘हास्यामहे’ त्यक्ष्यामहे, दक्षिणोत्तरकालमपि वाचो ऽपेक्षितत्वात्; तथा सति यज्ञो ऽदक्षिणः स्यात् अस्तु, को दोष इत्यत आह- यद्दाक्षिणमासीदिति । दक्षिणासम्बन्धि ‘दाक्षिणं’ कर्म । ‘तद्’ ‘यज्ञस्य’ सम्बन्धि ‘कर्म,’ ‘न व्यमुच्यत’ विमुक्तं न आसीत्, सम्पूर्णं नाभवदित्यर्थः ॥ १८ ॥

Eggeling
  1. They brought Vāc (speech) to them for their sacrificial fee. They accepted her not, saying, ‘We shall be losers if we accept her.’ And so the performance of that sacrifice was not discharged (completed), as it was one requiring a sacrificial fee.

१९

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थैभ्यः सू᳘र्यं द᳘क्षिणामा᳘नयन्॥
(यंस्तं) तं प्र᳘त्यगृह्णंस्त᳘स्मादु ह स्माहुर᳘ङ्गिरसो व्वयं वा ऽआ᳘र्त्विजीनाः स्मो᳘ व्वयं᳘ दक्षिणी᳘या ऽअ᳘पि वा᳘ ऽअस्मा᳘भिरेष प्र᳘तिगृहीतो य᳘ ऽएष त᳘पती᳘ति त᳘स्मात्सद्यःक्रियो᳘ ऽश्वः श्वेतो द᳘क्षिणा॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थैभ्यः सू᳘र्यं द᳘क्षिणामा᳘नयन्॥
(यंस्तं) तं प्र᳘त्यगृह्णंस्त᳘स्मादु ह स्माहुर᳘ङ्गिरसो व्वयं वा ऽआ᳘र्त्विजीनाः स्मो᳘ व्वयं᳘ दक्षिणी᳘या ऽअ᳘पि वा᳘ ऽअस्मा᳘भिरेष प्र᳘तिगृहीतो य᳘ ऽएष त᳘पती᳘ति त᳘स्मात्सद्यःक्रियो᳘ ऽश्वः श्वेतो द᳘क्षिणा॥

मूलम् - Weber

अ᳘थैभ्यः सू᳘र्यं द᳘क्षिणामा᳘नयन्॥
तम् प्र᳘त्यगृह्णंस्त᳘स्मादु ह स्माहुर᳘ङ्गिरसो वयं वा आ᳘र्त्विजीनाः स्मो᳘ वयं᳘ दक्षिणी᳘या अ᳘पि वा᳘ अस्मा᳘भिरेष प्र᳘तिगृहीतो य᳘ एष त᳘पती᳘ति त᳘स्मात्सद्यःक्रियो᳘ ऽश्वः श्वेतो द᳘क्षिणा॥

मूलम् - विस्वरम्

अथैभ्यः सूर्यं दक्षिणामानयन्, तं प्रत्यगृह्णन्, तस्मादु ह स्माहुः; अङ्गिरसो वयम्, वा ऽआर्त्विजीनाः स्मो, वयं दक्षिणीया अपि वा ऽअस्माभिरेष प्रतिगृहीतो य एष तपतीति । तस्मात् सद्यःक्रियो ऽश्वः श्वेतो दक्षिणा ॥ १९ ॥

सायणः

अथैभ्यः सूर्यमित्यादि । स्पष्टम् । तस्मादु ह स्माहुरिति । ‘आहुः अङ्गिरसः’ स्वयं ब्रुवते- ‘आर्त्विजीनाः’ (पा. सू. ५ । १ । ७१ ।) ‘स्मः’ सम्यगृत्विक्त्वयोग्याः स्मः । तथा ‘दक्षिणीयाः’ दक्षिणायोग्याः । आर्त्विजीनत्वदक्षिणीयत्वयोरुभयोरपि हेतुरुच्यते- अस्माभिरेष प्रतिगृहीत इति । एतच्छब्दार्थमाहय- य एष तपतीति । प्रसङ्गात् साद्यस्कस्य दक्षिणामाह- तस्मात् सद्यःक्रियो ऽश्वः क्षेत्र इति । अश्वः सूर्यप्रतिनिधित्वेन दीयते । सूर्यस्याश्वत्वेनोपासनाविधानात् (श. प. ब्रा. १० । ६ । ४ । १) अध्वाशनसाम्याच्च सूर्यस्याश्वस्थानीयत्वम् (नि. १ । ४ । १ । २ । ७ । ५) । सो ऽपि वर्णसाम्याय श्वेतो भवेत् ॥ १९ ॥

Eggeling
  1. Thereupon they brought Sūrya (the sun) to them, and they accepted him. Wherefore the Aṅgiras say, ‘Verily, we are fit for the sacrificial office, we are worthy to receive Dakshiṇās; yea, even he that burns yonder has been received by us 16!’

Hence a white horse is the sacrificial fee for the Sadyaḥkrī.

२०

विश्वास-प्रस्तुतिः

त᳘स्य रुक्मः᳘ पुर᳘स्ताद्भवति॥
त᳘देत᳘स्य रूपं᳘ क्रिय᳘ते य[[!!]] एष त᳘पति य᳘द्यश्वᳫँ᳭ श्वेतं न᳘ विन्देद᳘पि गौ᳘रेव᳘ श्वेतः[[!!]] स्यात्त᳘स्य रुक्मः᳘ पुर᳘स्ताद्भवति त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ ऽएष त᳘पति॥

मूलम् - श्रीधरादि

त᳘स्य रुक्मः᳘ पुर᳘स्ताद्भवति॥
त᳘देत᳘स्य रूपं᳘ क्रिय᳘ते य[[!!]] एष त᳘पति य᳘द्यश्वᳫँ᳭ श्वेतं न᳘ विन्देद᳘पि गौ᳘रेव᳘ श्वेतः[[!!]] स्यात्त᳘स्य रुक्मः᳘ पुर᳘स्ताद्भवति त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ ऽएष त᳘पति॥

मूलम् - Weber

त᳘स्य रुक्मः᳘ पुर᳘स्ताद्भवति॥
त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति य᳘द्यश्वं श्वेतं न᳘ विन्देद᳘पि गौ᳘रेव᳘ श्वेतः᳘ स्यात्त᳘स्य रुक्मः᳘ पुर᳘स्ताद्भवति त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति॥

मूलम् - विस्वरम्

तस्य रुक्मः पुरस्ताद् भवति । तद् एतस्य रूपं क्रियते; य एष तपति । यद्यश्वं श्वेतं न विन्देत्, अपि गौरेव श्वेतः स्यात्, तस्य रुक्मः पुरस्ताद् भवति । तद् एतस्य रूपं क्रियते य एष तपति ॥ २० ॥

सायणः

तस्य रुक्मः पुरस्ताद्भवतीति । तस्य पुरोदेशे ‘रुक्मः’ हिरण्यफलको वर्तुलाकारो भवेत् । यद्यश्वमित्यादि स्पष्टम् ॥ २० ॥

Eggeling
  1. On the front of this (horse) there is a golden ornament, whereby it is made an image of him that burns yonder.

२१

विश्वास-प्रस्तुतिः

ते᳘भ्यो ह व्वा᳘क् चुक्रोध॥
के᳘न म᳘देष श्रे᳘यान्ब᳘न्धुना ३ केना ३ य᳘देतं᳘ प्रत्य᳘ग्रहीष्ट न मामि᳘ति सा᳘ हैभ्यो᳘ ऽपचक्राम᳘ सोभ᳘यान᳘न्तरेण देवासुरान्त्सं᳘यत्तान्त्सिᳫँ᳭ही᳘ भू᳘त्वा ऽऽद᳘दाना चचार तामु᳘पैव᳘ देवा ऽअ᳘मन्त्रयन्तोपा᳘सुरा अग्नि᳘रेव᳘ देवा᳘नां दूत ऽआ᳘स सह᳘रक्षा ऽइ᳘त्यसुररक्षसम᳘सुराणाम्॥

मूलम् - श्रीधरादि

ते᳘भ्यो ह व्वा᳘क् चुक्रोध॥
के᳘न म᳘देष श्रे᳘यान्ब᳘न्धुना ३ केना ३ य᳘देतं᳘ प्रत्य᳘ग्रहीष्ट न मामि᳘ति सा᳘ हैभ्यो᳘ ऽपचक्राम᳘ सोभ᳘यान᳘न्तरेण देवासुरान्त्सं᳘यत्तान्त्सिᳫँ᳭ही᳘ भू᳘त्वा ऽऽद᳘दाना चचार तामु᳘पैव᳘ देवा ऽअ᳘मन्त्रयन्तोपा᳘सुरा अग्नि᳘रेव᳘ देवा᳘नां दूत ऽआ᳘स सह᳘रक्षा ऽइ᳘त्यसुररक्षसम᳘सुराणाम्॥

मूलम् - Weber

ते᳘भ्यो ह वा᳘क्चुक्रोध॥
के᳘न म᳘देष श्रे᳘यान्ब᳘न्धुना केना य᳘देत᳘म् प्रत्य᳘ग्रहीष्ट न मामि᳘ति सा᳘ हैभ्यो᳘ ऽपचक्रामॗ सोभ᳘यान᳘न्तरेण देवासुरान्त्स᳘यत्तान्त्सिंही᳘ भूॗत्वाद᳘दाना चचार तामु᳘पैव᳘ देवा अ᳘मन्त्रयन्तोपा᳘सुरा अग्नि᳘रेव᳘ देवा᳘नां दूत आ᳘स सह᳘रक्षा इ᳘त्यसुररक्षसम᳘सुराणाम्॥

मूलम् - विस्वरम्

तेभ्यो ह वाक् चुक्रोध- केन मद् एष श्रेयान्, बन्धुना ३ केना ३ यद् एतं प्रत्यग्रहीष्ट; न मामिति । सा हैभ्यो ऽपचक्राम । सोभयानन्तरेण देवासुरान् संयत्तान् सिंही भूत्वा ऽऽददाना चचार । तामुपैक देवा ऽअमन्त्रयन्त, उपासुराः । अग्निरेव देवानां दूत आस, सहरक्षा इति असुररक्षसामसुराणाम् ॥ २१ ॥

सायणः

तेभ्यो ह वागित्यादि । ‘तेभ्यः’ अङ्गिरोभ्यः ‘वाक्’ कुपितवत्यासीत् । केन मदेष श्रेयान् बन्धुना ३ इति । ‘केन ३’ इति असूयार्थे प्लुतिः (पा. सू. ८ । २ । १०३) । ‘मत्’ मत्तः सकाशात् ‘केन’ बन्धुना, बध्नातीति बन्धुः विशेषगुणः; केन विशेषगुणेन ‘एषः’ सूर्यः ‘श्रेयान्’ अतिशयेन प्रशस्यः । प्रशस्यहेतुभूतानां सर्वगुणानामभिधानाय पुनः ‘केना ३-’ इति ग्रहणम् । यदेतं प्रत्यग्रहीष्टेति । ‘यत्’ येन अतिशयेन ‘एतम्’ आदित्यम् ‘प्रत्यग्रहीष्ट,’ ‘न माम्’ । मय्यविद्यमानः 17 को ऽतिशयस्तत्र दृष्टः ? न को ऽप्यस्तीत्यर्थः । ‘उभयान् संयत्तान् देवासुरान्’ परस्पर-कलहायोपयुक्तान् देवानसुरांश्च ‘अन्तरेण’ मध्ये ‘सा’ अङ्गिरोभ्यो ऽपक्रान्ता वाक् । ‘सिंही भूत्वा’ ‘आददाना’ जिघत्सया 18 समीपस्थं सर्वं स्वीकुर्वती ‘चचार’ । तदानीम् ‘अग्निरेव देवानां दूतः’ अभवत्; असुरार्थाह्वानाय सहरक्षोनामको ऽसुरो दूतो ऽभवदित्यर्थः ॥ २१ ॥

Eggeling
  1. Now Vāc was angry with them: ‘In what respect, forsooth, is that one better than I,–wherefore is it, that they should have accepted him and not me 19?’ So saying she went away from them. Having become a lioness she went on seizing upon (everything 20) between those two contending parties, the gods and the Asuras. The gods called her to them, and so did the Asuras. Agni was the messenger of the gods, and one Saharakshas for the Asura-Rakshas.

२२

विश्वास-प्रस्तुतिः

(ᳫँ᳭) सा᳘ देवा᳘नुपावर्त्स्य᳘न्त्युवाच॥
य᳘द्वा ऽउपाव᳘र्तेय किं᳘ मे त᳘तः स्यादि᳘ति पू᳘र्व्वामेव᳘ त्वा ऽग्नेरा᳘हुतिः प्रा᳘प्स्यतीत्य᳘थ हैषा᳘ देवा᳘नुवाच याम् म᳘या का᳘ञ्चाशि᳘षमाशासिष्य᳘ध्वे सा᳘ वः स᳘र्व्वा स᳘मर्द्धिष्यत इ᳘ति᳘ सैवं᳘ देवा᳘नुपा᳘ववर्त॥

मूलम् - श्रीधरादि

(ᳫँ᳭) सा᳘ देवा᳘नुपावर्त्स्य᳘न्त्युवाच॥
य᳘द्वा ऽउपाव᳘र्तेय किं᳘ मे त᳘तः स्यादि᳘ति पू᳘र्व्वामेव᳘ त्वा ऽग्नेरा᳘हुतिः प्रा᳘प्स्यतीत्य᳘थ हैषा᳘ देवा᳘नुवाच याम् म᳘या का᳘ञ्चाशि᳘षमाशासिष्य᳘ध्वे सा᳘ वः स᳘र्व्वा स᳘मर्द्धिष्यत इ᳘ति᳘ सैवं᳘ देवा᳘नुपा᳘ववर्त॥

मूलम् - Weber

सा᳘ देवा᳘नुपावर्त्स्यन्त्युवाच॥
य᳘द्वा उपाव᳘र्तेय कि᳘म् मे त᳘तः स्यादि᳘ति पू᳘र्वामेव᳘ त्वाग्नेरा᳘हुतिः प्रा᳘प्स्यतीत्य᳘थ हैषा᳘ देवा᳘नुवाच याम् म᳘या कां᳘ चाशि᳘षमाशासिष्य᳘ध्वे सा᳘ वः स᳘र्वा स᳘मर्धिष्यत इ᳘तिॗ सैवं᳘ देवा᳘नुपा᳘ववर्त॥

मूलम् - विस्वरम्

सा देवानुपावर्त्स्यन्त्युवाच । यद्व उपावर्तेय किं मे ततः स्यादिति । पूर्वामेव त्वा ऽग्नेराहुतिः प्राप्स्यतीति । अथ हैषा देवानुवाच- यां मया काञ्चाशिषमाशासिष्यध्वे सा वः सवा समर्द्धिष्यत इति । सैवं देवानुपाववर्त ॥ २२ ॥

सायणः

सा देवानिति । उभयैरप्याहूता सती पूर्वं देवान् प्रत्येव उपावर्तमाना, आगमनोत्कोचरूपं किञ्चित् अर्थयामास । ते च देवाः अग्नेः पूर्वभाविनीमाज्याहुतिमागमनोपाधिना प्राहुः । ‘सा’ ‘देवान्’ इदम् ‘उवाच’ । हे देवाः ! ‘यां कां च आशिषम्’ ‘आशासिष्यध्वे’ इच्छथ, ‘सा’ सर्वाप्याशीः ‘वः’ युष्माकं ‘समर्द्धिष्यते’ समृद्धा भविष्यतीति । ततः सा प्रतिनिवृत्ता ऽऽसीत् ॥ २२ ॥

Eggeling
  1. Being willing to go over to the gods, she said, ‘What would be mine, if I were to come over to you?’–‘The offering shall reach thee even before (it reaches) Agni.’ She then said to the gods, ‘Whatsoever blessing ye will invoke through me, all that shall be accomplished unto you!’ So she went over to the gods.

२३

विश्वास-प्रस्तुतिः

स य᳘द्धार्य᳘माणे ऽग्नौ᳘॥
(ग्ना ऽउ) उत्तरवेदिं᳘ व्याघार᳘यति य᳘दे᳘वैनामदो᳘ देवा ऽअ᳘ब्रुवन्पू᳘र्व्वां त्वा ऽग्नेरा᳘हुतिः प्रा᳘प्स्यती᳘ति त᳘दे᳘वैनामेतत्पू᳘र्व्वामग्नेरा᳘हुतिः प्रा᳘प्नोति वा᳘ग्घ्येषा᳘ निदा᳘नेना᳘थ य᳘दुत्तरवेदि᳘मुपकिर᳘ति यज्ञ᳘स्यैव᳘ सर्व्वत्वा᳘य व्वाग्घि᳘ यज्ञो᳘ व्वा᳘गु᳘ ह्येषा॥

मूलम् - श्रीधरादि

स य᳘द्धार्य᳘माणे ऽग्नौ᳘॥
(ग्ना ऽउ) उत्तरवेदिं᳘ व्याघार᳘यति य᳘दे᳘वैनामदो᳘ देवा ऽअ᳘ब्रुवन्पू᳘र्व्वां त्वा ऽग्नेरा᳘हुतिः प्रा᳘प्स्यती᳘ति त᳘दे᳘वैनामेतत्पू᳘र्व्वामग्नेरा᳘हुतिः प्रा᳘प्नोति वा᳘ग्घ्येषा᳘ निदा᳘नेना᳘थ य᳘दुत्तरवेदि᳘मुपकिर᳘ति यज्ञ᳘स्यैव᳘ सर्व्वत्वा᳘य व्वाग्घि᳘ यज्ञो᳘ व्वा᳘गु᳘ ह्येषा॥

मूलम् - Weber

स यद्धार्य᳘माणे ऽग्नौ᳟॥
उत्तरवेदिं᳘ व्याघार᳘यति य᳘देॗवैनामदो᳘ देवा अ᳘ब्रुवन्पू᳘र्वां त्वाग्नेरा᳘हुतिः प्रा᳘प्स्यती᳘ति त᳘देॗवैनामेतत्पू᳘र्वामग्नेरा᳘हुतिः प्रा᳘प्नोति वाॗग्घ्येषा᳘ निदा᳘नेना᳘थ य᳘दुत्तरवेदि᳘मुपकिर᳘ति यज्ञ᳘स्यैव᳘ सर्वत्वा᳘य वाग्घि᳘ यज्ञो वा᳘गुॗ ह्येषा॥

मूलम् - विस्वरम्

स यद्धार्यमाणे ऽग्नौ उत्तरवेदिं व्याघारयति; यदेवैनामदो देवा अब्रुवन्- पूर्वां त्वा ऽग्नेराहुतिः प्राप्स्यतीति । तदेवैनामेतत् पूर्वामग्नेराहुतिः प्राप्नोति । वाग्घ्येषा निदानेन । अथ यदुत्तरवेदिमुपकिरति- यज्ञस्यैव सर्वत्वाय । वाग्घि यज्ञः, वागु ह्येषा ॥ २३ ॥

सायणः

इदानीमुत्तरवेदिव्याघारणं विधत्ते- स यद् धार्यमाणे ऽग्नावुत्तरवेदिं व्याघारयतीति । अग्नावुत्तरवेदेरुपरि धार्यमाणे सति तामुत्तरवेदिं व्याघारयेदित्यर्थः । यदेवैनामित्यादि । एतद्व्याघारणेन या आहुतिः अपवृत्तायै वेदिरूपायै वाचे देवैः कल्पिता, सा कृता भवति; अतो व्याघारयेदित्यर्थः । उत्तरवेद्यामाघारणेन वाचः किमायातमित्यत आह- वाघ्येषा निदानेनेति । अत एव वागात्मकत्वात् उत्तरवेदिप्रक्षेपस्यैवापगताया वाचो ऽवरोधनरूपत्वात् 21 उत्तरवेद्युपतापेन यज्ञः सफलो भवतीत्यर्थः ॥ २३ ॥

Eggeling
  1. And, accordingly, when he pours ghee on the high altar 22, while the fire is held (over it)–since the gods said to her on that occasion, ‘The offering shall reach thee even before Agni’–then that offering does reach her even before (it reaches) Agni; for this (high altar) is in reality Vāc. And when he raises

the high altar, it is for the completeness of the sacrifice, for the sacrifice is Vāc (speech) and that (high altar) is Vāc.

२४

विश्वास-प्रस्तुतिः

तां वै᳘ युगशम्ये᳘न व्वि᳘मिमीते॥
युगे᳘न य᳘त्र ह᳘रन्ति श᳘म्यया य᳘तो ह᳘रन्ति युगशम्ये᳘न वै यो᳘ग्यं युञ्जन्ति सा य᳘दे᳘वादः᳘ सिᳫँ᳭ही᳘ भूत्वा᳘ शान्तेवा᳘चरत्त᳘दे᳘वैनामेत᳘द्यज्ञे᳘ युनक्ति॥

मूलम् - श्रीधरादि

तां वै᳘ युगशम्ये᳘न व्वि᳘मिमीते॥
युगे᳘न य᳘त्र ह᳘रन्ति श᳘म्यया य᳘तो ह᳘रन्ति युगशम्ये᳘न वै यो᳘ग्यं युञ्जन्ति सा य᳘दे᳘वादः᳘ सिᳫँ᳭ही᳘ भूत्वा᳘ शान्तेवा᳘चरत्त᳘दे᳘वैनामेत᳘द्यज्ञे᳘ युनक्ति॥

मूलम् - Weber

तां वै᳘ युगशम्ये᳘न वि᳘मिमीते॥
युगे᳘न य᳘त्र ह᳘रन्ति श᳘म्यया य᳘तो ह᳘रन्ति युगशम्ये᳘न वै यो᳘ग्यं युञ्जन्ति सा य᳘देॗवादः᳘ सिंही᳘ भूत्वा᳘शान्तेवा᳘चरत्त᳘देॗवैनामेत᳘द्यज्ञे᳘ युनक्ति॥

मूलम् - विस्वरम्

तां वै युगशम्येन विमिमीते । युगेन यत्र हरन्ति, शम्यया यतो हरन्ति युगशम्येन वै योग्यं युञ्जन्ति । सा यदेवादः सिंही भूत्वा शान्तेवाचरत्- तदेवैनामेतद्यज्ञे युनक्ति ॥ २४ ॥

सायणः

उत्तरवेद्या मानादिसाधनं द्रव्यं विधत्ते- तां वै युगशम्येनेति । युगेन शम्यया चेत्यर्थः । युगवच्छम्याया अपि साधनत्वमस्तीत्याह- युगेन यत्र हरन्तीति । ‘यत्र’ यस्मिन् देशे ‘युगेन हरन्ति,’ ‘यतः’ यस्मात् तत्र ‘शम्यया’ अपि ‘हरन्ति’; अतो युगवच्छम्याया अपि हरणक्रियासम्बन्धो ऽस्त्येवेत्यर्थः । तत् कुत इत्यत आह- युगशम्येन वा इति । ‘योग्यम्’ योजनार्हमश्वम् । ‘अदः’ विप्रकृष्टकाले, देवासुरयोर्युद्धकाले ‘सा’ यज्ञस्य सम्बन्धिनी वाक् ‘सिंही भूत्वा’ ‘अशान्ता’ क्रूरा सती ‘अचरत्’ । ‘तत्’ तत्र युगेन शम्यया च मानेन ‘एनां’ वाचम् ‘एतत्’ इदानीम् ‘यज्ञे’ योजितवान् भवति ॥ २४ ॥

Eggeling
  1. He measures it with the yoke and pin;–namely with the yoke (that place) whither they take (the earth); and with a yoke-pin that, from whence they take (the earth 23), for the team is harnessed with the yoke and the pin: it is because she (Vāc), as a lioness, at that time roamed about unappeased that he thus yokes her here at the sacrifice.

२५

विश्वास-प्रस्तुतिः

त᳘स्मान्निवृत्तदक्षिणां न प्र᳘तिगृह्णीयात्॥
(त्सि) सिᳫँ᳭ही᳘ हैनं भूत्वा᳘ क्षिणोति᳘ नो हामा᳘ कुर्वीत सिᳫँ᳭ही᳘ है᳘वैनं भूत्वा᳘ क्षिणोति᳘ नो हान्य᳘स्मै दद्याद्यज्ञं त᳘दन्य᳘त्रात्म᳘नः कुर्वीत᳘ तस्मा᳘द्यो ऽस्या᳘पि[[!!]] पाप᳘ ऽइव समान᳘बन्धुः स्यात्त᳘स्मा ऽएनां दद्यात्स यद्द᳘दाति त᳘देनᳫँ᳭ सिᳫँ᳭ही᳘ भूत्वा न᳘ क्षिणोति य᳘दु समान᳘बन्धवे द᳘दाति त᳘दु᳘ नान्य᳘त्रात्म᳘नः कुरुत ऽए᳘षो निवृत्तदक्षिणा᳘यै प्रतिष्ठा॥

मूलम् - श्रीधरादि

त᳘स्मान्निवृत्तदक्षिणां न प्र᳘तिगृह्णीयात्॥
(त्सि) सिᳫँ᳭ही᳘ हैनं भूत्वा᳘ क्षिणोति᳘ नो हामा᳘ कुर्वीत सिᳫँ᳭ही᳘ है᳘वैनं भूत्वा᳘ क्षिणोति᳘ नो हान्य᳘स्मै दद्याद्यज्ञं त᳘दन्य᳘त्रात्म᳘नः कुर्वीत᳘ तस्मा᳘द्यो ऽस्या᳘पि[[!!]] पाप᳘ ऽइव समान᳘बन्धुः स्यात्त᳘स्मा ऽएनां दद्यात्स यद्द᳘दाति त᳘देनᳫँ᳭ सिᳫँ᳭ही᳘ भूत्वा न᳘ क्षिणोति य᳘दु समान᳘बन्धवे द᳘दाति त᳘दु᳘ नान्य᳘त्रात्म᳘नः कुरुत ऽए᳘षो निवृत्तदक्षिणा᳘यै प्रतिष्ठा॥

मूलम् - Weber

त᳘स्मान्निवृत्तदक्षिणां न प्र᳘तिगृह्णीयात्॥
सिंही᳘ हैनम् भूत्वा᳘ क्षिणोतिॗ नो हामा᳘कुर्वीत सिंही᳘ हैॗवैनम् भूत्वा᳘ क्षिणोतिॗ नो हान्य᳘स्मै दद्याद्यज्ञं त᳘दन्य᳘त्रात्म᳘नः कुर्वीत त᳘स्माॗद्यो ऽस्या᳘पि पाप᳘ इव समान᳘बन्धुः स्यात्त᳘स्मा एनां दद्यात्स यद्द᳘दाति त᳘देनᳫं सिंही᳘ भूत्वा न᳘ क्षिणोति य᳘दु समान᳘बन्धवे द᳘दाति त᳘दुॗ नान्य᳘त्रात्म᳘नः कुरुत एॗषो निवृत्तदक्षिणा᳘यै प्रतिष्ठा॥

मूलम् - विस्वरम्

तस्मात् निवृत्तदक्षिणां न प्रतिगृह्णीयात्- सिंही हैनं भूत्वा क्षिणोति; नो हामा कुर्वीत, सिंही हैवैनं भूत्वा क्षिणोति; नो हान्यस्मै दद्यात्, यज्ञं तद् अन्यत्रात्मनः कुर्वीत । तस्माद्यो ऽस्यापि पाप इव समानबन्धुः स्यात् तस्मा ऽएनां दद्यात् । स यद्ददाति तदेनं सिंही भूत्वा न क्षिणोति । यदु समानबन्धवे ददाति तदु नान्यत्रात्मनः कुरुते । एषो निवृत्तदक्षिणायै प्रतिष्ठा ॥ २५ ॥

सायणः

प्रासङ्गिकं कञ्चिन्नियमं विधत्ते- तस्मान्निवृत्तदक्षिणां न प्रतिगृह्णीयादिति । अन्येन 24 परित्यक्ता दक्षिणा । नोह अमा कुर्वीतेति । ‘अमा’ सह स्वात्मनेत्यर्थः । ‘नो ह’ नैव कुर्वीत । ‘क्षिणोति’ हिनस्ति । ‘क्षिणु हिंसायाम्’ (धा. पा. त. उ. ४) । नो हान्यस्मा इत्यादि । स्पष्टम् । ‘अस्य’ यजमानस्य । समानबन्धुः एकविधिनिबन्धनः, एकविषय इत्यर्थः । तादृशो ऽन्य: ‘पाप इवापि स्यात्’ पापी यदि भवेत्, ‘तस्मै दद्यात्’ । तादृग्विधाय दाने उक्तदोषद्वयराहित्यं दर्शयति- स यद्ददाति तदेनमित्यादिना । ‘एषा उ निवृत्तदक्षिणायै प्रतिष्ठा’ निवृत्तदक्षिणाया एषा गतिरित्यर्थः । अथवा यजमानबन्धुरेव तस्या आस्पदमित्यर्थः ॥ २५ ॥

Eggeling
  1. One must not therefore accept a Dakshiṇā (sacrificial fee) that has been refused (by another priest 25), for, having turned into a lioness, it destroys him;–nor must he (the sacrificer) take it home again, for, having turned into a lioness, it destroys him;–nor must he give it to any one else, as he would thereby make over the sacrifice to some one other than himself. Hence if he have any wretched kinsman, let him give it to him; for in that he gives it away, it will not turn into a lioness and destroy him; and in that he gives it to a kinsman, he does not make over (the sacrifice) to one other than himself: and this is the settling of a refused Dakshiṇā.

२६

विश्वास-प्रस्तुतिः

(ष्ठा᳘ ऽथ᳘) अ᳘थ शम्याञ्च[[!!]] स्फ्यञ्चा᳘दत्ते॥
तद्य᳘ ऽएष᳘ पूर्व्वा᳘र्द्ध्य ऽउत्तरा᳘र्द्ध्यः शङ्कुर्भ᳘वति त᳘स्मात्प्र᳘त्यङ्प्रक्रामति[[!!]] त्री᳘न्विक्रमांस्तच्चा᳘त्वालं प᳘रिलिखति सा चा᳘त्वालस्य मा᳘त्रा ना᳘त्र मा᳘त्रा ऽस्ति य᳘त्रैव᳘ स्वयं म᳘नसा म᳘न्येता᳘ग्रेणोत्करं तच्चा᳘त्वालं प᳘रिलिखेत्॥

मूलम् - श्रीधरादि

(ष्ठा᳘ ऽथ᳘) अ᳘थ शम्याञ्च[[!!]] स्फ्यञ्चा᳘दत्ते॥
तद्य᳘ ऽएष᳘ पूर्व्वा᳘र्द्ध्य ऽउत्तरा᳘र्द्ध्यः शङ्कुर्भ᳘वति त᳘स्मात्प्र᳘त्यङ्प्रक्रामति[[!!]] त्री᳘न्विक्रमांस्तच्चा᳘त्वालं प᳘रिलिखति सा चा᳘त्वालस्य मा᳘त्रा ना᳘त्र मा᳘त्रा ऽस्ति य᳘त्रैव᳘ स्वयं म᳘नसा म᳘न्येता᳘ग्रेणोत्करं तच्चा᳘त्वालं प᳘रिलिखेत्॥

मूलम् - Weber

अ᳘थ श᳘म्यां च स्फ्यं चा᳘दत्ते॥
तद्य᳘ एष᳘ पूर्वार्ध्यः᳘ उत्तरार्ध्यः᳘ शङ्कुर्भ᳘वति त᳘स्मात्प्रत्यङ् प्र᳘क्रामति त्री᳘न्विक्रमांस्तच्चा᳘त्वालम् प᳘रिलिखति सा चा᳘त्वालस्य मा᳘त्रा ना᳘त्र मा᳘त्रास्ति य᳘त्रैव᳘ स्वयम् म᳘नसा म᳘न्येता᳘ग्रेणोत्करं तच्चा᳘त्वालम् परिलिखेत्॥

मूलम् - विस्वरम्

अथ शम्याञ्च स्फ्यञ्चादत्ते । तद् य एष पूर्वार्द्ध्य उत्तरार्द्ध्यः शङ्कुर्भवति, तस्मात् प्रत्यङ् प्रक्रामति त्रीन् विक्रमान् । तच्चात्वालं परिलिखति । सा चात्वालस्य मात्रा । नात्र मात्रा ऽस्ति, यत्रैव स्वयं मनसा मन्येताग्रेणोत्करं तच्चात्वालं परिलिखेत् ॥ २६ ॥

सायणः

अथ शम्याञ्चेति । ‘य एषः’ शङ्कुः ‘पूर्वार्द्ध्यः’ सन्नपि ‘उत्तराद्ध्यः’ भवति । सौमिकवेदेरुत्तरांसस्य शङ्कुरित्यर्थः । ‘तस्मात्’ शङ्कोः सकाशात् ‘प्रत्यङ्’ प्रत्यङ्मुखः ‘त्रीन्’ ‘विक्रमान्’ प्रक्रमान् ‘प्रक्रामति’ । तत्र चात्वालार्थं परितो लेखनं कुर्यात्, ‘सा चात्वालस्य मात्रा’ । यैवोत्तरवेदेरुक्ता, सैवेत्यर्थः, चात्वालखननोत्पन्नयैव मृदा उत्तरवेदिकरणात् । तदेवाह- नात्र मात्रा ऽस्तीति 24

उत्तरार्द्ध्यशङ्कोः प्रत्यक्प्रक्रमे चात्वाल इति यः पक्ष उक्तः, तेन सह विकल्पितं पक्षमाह 26- यथैव स्वयं मनसा मन्येताग्रेणोत्करमिति ॥ २६ ॥

Eggeling
  1. He now takes the yoke-pin and the wooden sword; and from where the northern peg of the front side is, he strides three steps backwards and there marks off the pit (cātvāla). The measure for the pit is the same (as for the high altar) 27; there

is no (other) measure in regard to it: wherever he himself may think fit in his mind (to fix it), in front of the heap of rubbish (utkara), there let him mark off the pit.

२७

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ व्वेद्यन्तात्[[!!]]॥
(दु᳘) उ᳘दीचीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखति तप्ता᳘यनी मे ऽसी᳘तीमा᳘मे᳘वैत᳘दाहास्याᳫँ᳭ हि᳘ तप्त एति[[!!]]॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ व्वेद्यन्तात्[[!!]]॥
(दु᳘) उ᳘दीचीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखति तप्ता᳘यनी मे ऽसी᳘तीमा᳘मे᳘वैत᳘दाहास्याᳫँ᳭ हि᳘ तप्त एति[[!!]]॥

मूलम् - Weber

स᳘ वेद्यन्ता᳘त्॥
उ᳘दीचीं श᳘म्यां नि᳘दधाति स प᳘रिलिखति तप्ता᳘यनी मे ऽसी᳘तीमा᳘मेॗवैत᳘दाहास्याᳫं हि᳘तप्त ए᳘ति॥

मूलम् - विस्वरम्

स वेद्यन्तात् उदीचीं शम्यां निदधाति । स परिलिखति । “तप्तायनी मे ऽसि”- (वा. सं. ५ । ९) इति । इमामेवैतदाह । अस्यां हि तप्त एति ॥ २७ ॥

सायणः

चात्वालस्य सर्वतः परिलेखनप्रकारं तन्मन्त्रांश्च दर्शयति- स वेद्यन्तादुदीचीं शम्यमिति 28 । दक्षिणश्रोणिरूपवेद्यन्तादित्यर्थः । ‘स परिलिखति’ शम्यानुगुण्येन लेखनं कुर्यात् । अनेनैव पश्चादवधिनिर्द्देशः कृतो भवति । तस्य मन्त्रः- तप्तायनी मे ऽसीति । हे भूमे ? त्वं ‘तप्तायनी असि’ तप्तः पुमान् यस्यामिति तप्तायनी, तद्रूपा भवसि । मन्त्रं व्याचष्टे- इमामेवैतदाहेति । ‘हि’ यस्मात् ‘तप्तः’ पुरुषो दारिद्र्येण दुःखितः सन् धनादिसाधनेच्छया ‘एति’, तस्मादित्यर्थः ॥ २७ ॥

Eggeling
  1. From the (north) edge of the altar he lays down the pin from south to north, and draws the (western) outline, with the text (Vāj. S. V, 9), ‘Thou art for me the resort of the afflicted!’ Thereby he means this (earth), for it is thereon that he walks afflicted.

२८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पुर᳘स्तात्॥
(दु᳘) उ᳘दीचीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखति व्वित्ता᳘यनी मे ऽसी᳘तीमा᳘मे᳘वैत᳘दाहास्याᳫं᳭ हि᳘ व्विविदान एति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पुर᳘स्तात्॥
(दु᳘) उ᳘दीचीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखति व्वित्ता᳘यनी मे ऽसी᳘तीमा᳘मे᳘वैत᳘दाहास्याᳫं᳭ हि᳘ व्विविदान एति[[!!]]॥

मूलम् - Weber

अ᳘थ पुर᳘स्तात्॥
उ᳘दीचीं श᳘म्यां नि᳘दधाति स प᳘रिलिखति वित्ता᳘यनी मे ऽसी᳘तीमा᳘मेॗवैत᳘दाहास्याᳫं हि᳘ विविदान ए᳘ति॥

मूलम् - विस्वरम्

अथ पुरस्तात् उदीचीं शम्यां निदधाति । स परिलिखति । “वित्तायनी मे ऽसि”- (वा. सं. ५ । ९) इति । इमामेवैतदाह । अस्यां हि विविदान एति ॥ २८ ॥

सायणः

अथ पुरस्तादित्यादि 28 । स्पष्टम् । अस्यां हि विविदान एतीति । ‘विविदानः’ धनादिकं लब्धवान् पुरुषः पुनः ‘अस्याम्’ एव खलु ‘एति’ गच्छति अतो ‘वित्तायनी’ इति भूम्यभिधानं युक्तमित्यर्थः ॥ २८ ॥

Eggeling
  1. Thereupon he lays down the pin in front from south to north, and draws the outline with, ‘Thou art my wealth-resort.’ Thereby he means this (earth), for it is thereon that he walks having acquired (wealth).

२९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थानुवेद्यन्तम्[[!!]]॥
(म्प्रा᳘) प्रा᳘चीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखत्य᳘वतान्मा नाथितादि᳘तीमा᳘मे᳘वैत᳘दाह य᳘त्र ना᳘थै त᳘न्मा ऽवतादिति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थानुवेद्यन्तम्[[!!]]॥
(म्प्रा᳘) प्रा᳘चीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखत्य᳘वतान्मा नाथितादि᳘तीमा᳘मे᳘वैत᳘दाह य᳘त्र ना᳘थै त᳘न्मा ऽवतादिति[[!!]]॥

मूलम् - Weber

अ᳘थानुवेद्यन्त᳘म्॥
प्रा᳘चीं श᳘म्यां नि᳘दधाति स प᳘रिलिखत्य᳘वतान्मा नाथितादि᳘तीमा᳘मेॗवैत᳘दाह य᳘त्र ना᳘थैत᳘न्मावतादि᳘ति॥

मूलम् - विस्वरम्

अथानुवेद्यन्तं प्राचीं शम्यां निदधाति । स परिलिखति । “अवतान्मा नाथितात्”- (वा. सं. ५ । ९) इति । इमामेवैतदाह । यत्र नाथै तन्मा ऽवतादिति ॥ २९ ॥

सायणः

अथानुवेद्यन्तमिति (का. श्रौ. सू. ५ । ६७) । ‘अनुवेद्यन्तं प्राचीं शम्यां निदधाति’ अनेन चात्वालस्य दक्षिणसीमोच्यते । तत्र खननमन्त्रस्यायमर्थः । ‘मा’ मां ‘नाथिताद्’ याचिताद्धिरण्यादिरूपादर्थाद् भूमे ! ‘अवतात्’ रक्ष । यत्र नाथै तन्मा ऽवतादितीति । ‘यत्र’ यस्मिन् विषये ‘नाथै’ याचै धनात्किम् ‘तत्,’ तस्मात् त्वं माम् ‘अवतात्’ अव रक्षेत्यर्थः ॥ २९ ॥

Eggeling
  1. He then lays down the pin along the (north) edge of the altar from west to east, and draws the outline with, ‘Preserve me from being in want 29!’ Thereby he means this (earth): ‘Wherever there is want, from that preserve me!’

३०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोत्तरतः॥
प्रा᳘चीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखत्य᳘वतान्मा व्यथितादि᳘तीमा᳘मे᳘वैत᳘दाह य᳘त्र व्य᳘थै त᳘न्मा ऽवतादिति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोत्तरतः॥
प्रा᳘चीᳫं᳭ श᳘म्यां नि᳘दधाति स प᳘रिलिखत्य᳘वतान्मा व्यथितादि᳘तीमा᳘मे᳘वैत᳘दाह य᳘त्र व्य᳘थै त᳘न्मा ऽवतादिति[[!!]]॥

मूलम् - Weber

अ᳘थोत्तरतः॥
प्रा᳘चीं श᳘म्यां नि᳘दधाति स प᳘रिलिखत्य᳘वतान्मा व्यथितादि᳘तीमा᳘मेॗवैत᳘दाह य᳘त्र व्य᳘थैत᳘न्मावतादि᳘ति॥

मूलम् - विस्वरम्

अथोत्तरतः प्राचीं शम्यां निदधाति । स परिलिखति । “अवतान्मा व्यथितात्”- (वा. सं. ५ । ९) इति । इमामेवैतदाह । यत्र व्यथै तन्मा ऽवतादिति ॥ ३० ॥

सायणः

अथोत्तरत इति । चात्वालस्योत्तरावधिपरिलेखनस्य “अवतान्मा व्यथितात्”- इति मन्त्रः । तस्य व्याख्यानम्- यत्र व्यथै तन्मा ऽवतादिति । ‘यत्र’ यस्मिन् धनादिविषये ‘व्यथै’ लाभोपायमजानानो व्यथितः स्याम् ‘तत्’ तस्मात् सकाशात् ‘अवतात्’ अव ॥ ३० ॥

Eggeling
  1. He then lays down the pin on the north side from west to east, and draws the outline with, ‘Preserve me from being afflicted 29!’ Thereby he

means this (earth): ‘wherever there is affliction, from that preserve me!’

३१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ हरति॥
य᳘त्र ह᳘रति त᳘दग्नीदु᳘पसीदति स वा᳘ ऽअग्नीना᳘मेव ना᳘मानि गृह्णन्हरति[[!!]] यान्वा᳘ ऽअमू᳘न्देवा ऽअ᳘ग्रे ऽग्नी᳘न्होत्रा᳘य प्रा᳘वृणत ते प्रा᳘धन्वंस्त᳘ ऽइमा᳘ ऽएव᳘ पृथिवीरु᳘पासर्पन्निमाम᳘हैव द्वे᳘ ऽअस्याः प᳘रे ते᳘नै᳘वैत᳘न्निदा᳘नेन हरति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ हरति॥
य᳘त्र ह᳘रति त᳘दग्नीदु᳘पसीदति स वा᳘ ऽअग्नीना᳘मेव ना᳘मानि गृह्णन्हरति[[!!]] यान्वा᳘ ऽअमू᳘न्देवा ऽअ᳘ग्रे ऽग्नी᳘न्होत्रा᳘य प्रा᳘वृणत ते प्रा᳘धन्वंस्त᳘ ऽइमा᳘ ऽएव᳘ पृथिवीरु᳘पासर्पन्निमाम᳘हैव द्वे᳘ ऽअस्याः प᳘रे ते᳘नै᳘वैत᳘न्निदा᳘नेन हरति॥

मूलम् - Weber

अ᳘थ हरति॥
य᳘त्र ह᳘रति त᳘दग्नीदु᳘पसीदति स वा᳘ अग्नीना᳘मेव ना᳘मानि गृह्ण᳘न्हरति यान्वा᳘ अमू᳘न्देवा अ᳘ग्रे ऽग्नी᳘न्होत्रा᳘य प्रा᳘वृणत ते प्रा᳘धन्वंस्त᳘ इमा᳘ एव᳘ पृथिवीरु᳘पासर्पन्निमाम᳘हैव द्वे᳘ अस्याः प᳘रे ते᳘नैॗवैता᳘न्निदा᳘नेन हरति॥

मूलम् - विस्वरम्

अथ हरति यत्र हरति तद्- अग्नीदुपसीदति । स वा ऽअग्नीनामेव नामानि गृह्णन्हरति । यान् वा ऽअमून् देवा ऽअग्रे ऽग्नीन् होत्राय प्रावृणत । ते प्राधन्वन् । त इमा एव पृथिवीरुपासर्पन् इमामहैव द्वे ऽअस्याः परे । तेनैवैतन्निदानेन हरति ॥ ३१ ॥

सायणः

खाताया मृदश्चात्वालादुत्तरवेदिं प्रति हरणं विधत्ते- अथ हरतीति । ‘यत्र हरति’, ‘तत्’ तत्र उत्तरवेदिप्रदेशे ‘अग्नीदुपसीदति’ उपविशति आग्नीध्रः । ‘अग्नीनां’ ‘नामानि’ वक्ष्यमाणानि (श. प. ब्रा. ३ । ६ । २ । २१) ‘गृह्णान्’ एव हरेत् । सत्सु अग्निषु चात्वालप्रदेशे तन्नामग्रहणमुपपद्यते, त एवात्र कुत इत्यत्राह- यान् वा अमून् देवा अग्रे ऽग्नीनिति । ‘होत्राय’ होमनिष्पादनाय हविर्वहनाय ‘प्रावृणत’ प्रावृण्वन् । ‘ते प्राधन्वन्’ धन्वतिर्गतिकर्मा (धा. पा. भ्वा. प. ५९८) । ‘इमाम्’ ‘अहैव’ । अहेति विनिग्रहार्थीयः (निरु. १ । २ । २) । इमां पृथिवीं परिविद्वेष्य असुरादयो ऽपि ‘उपासर्पन्’ । ‘तेनैव’ ‘एतत्’ एतेन ‘निदानेन’ मूलकारणेनैव हरणं कृतवान् भवति ॥ ३१ ॥

Eggeling
  1. He then flings (the wooden sword) 30; at the place where he flings 31, the Agnīdh sits. He flings while mentioning the names of the Agnis 32. For those (three) Agnis whom the gods at first chose for the office of Hotr̥ passed away: they crept into these very earths,–namely, into this one and the two beyond it. It is really with this one 33 that he now flings.

३२

विश्वास-प्रस्तुतिः

स प्र᳘हरति॥ व्विदे᳘दग्निर्न᳘भो नामा᳘ग्ने ऽअङ्गिर ऽआ᳘युना नाम्नेही᳘ति स यत्प्रा᳘धन्वंस्तदा᳘युर्दधाति तत्स᳘मीरयति᳘ यो ऽस्यां᳘ पृथिव्यामसी᳘ति᳘ यो ऽस्यां᳘ पृथिव्यामसी᳘ति हृत्वा नि᳘दधाति यत्ते᳘ ऽनाधृष्टं ना᳘म यज्ञि᳘यं ते᳘न त्वा᳘ ऽऽदध इ᳘ति यत्ते᳘ ऽनाधृष्टᳫं र᳘क्षोभिर्ना᳘म यज्ञि᳘यं ते᳘न त्वा᳘ ऽऽदध ऽइ᳘त्ये᳘वैत᳘दाहा᳘नु त्वा देव᳘वीतय ऽइ᳘ति चतुर्थ᳘ᳫं᳘ हरति देवे᳘भ्यस्त्वाजु᳘ष्टाᳫं हरामी᳘त्ये᳘वैत᳘दाह तां वै च᳘तुःस्रक्तेश्चा᳘त्वालाद्धरति च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनामेत᳘द्दिग्भ्यो᳘ हरति॥

मूलम् - श्रीधरादि

स प्र᳘हरति॥ व्विदे᳘दग्निर्न᳘भो नामा᳘ग्ने ऽअङ्गिर ऽआ᳘युना नाम्नेही᳘ति स यत्प्रा᳘धन्वंस्तदा᳘युर्दधाति तत्स᳘मीरयति᳘ यो ऽस्यां᳘ पृथिव्यामसी᳘ति᳘ यो ऽस्यां᳘ पृथिव्यामसी᳘ति हृत्वा नि᳘दधाति यत्ते᳘ ऽनाधृष्टं ना᳘म यज्ञि᳘यं ते᳘न त्वा᳘ ऽऽदध इ᳘ति यत्ते᳘ ऽनाधृष्टᳫं र᳘क्षोभिर्ना᳘म यज्ञि᳘यं ते᳘न त्वा᳘ ऽऽदध ऽइ᳘त्ये᳘वैत᳘दाहा᳘नु त्वा देव᳘वीतय ऽइ᳘ति चतुर्थ᳘ᳫं᳘ हरति देवे᳘भ्यस्त्वाजु᳘ष्टाᳫं हरामी᳘त्ये᳘वैत᳘दाह तां वै च᳘तुःस्रक्तेश्चा᳘त्वालाद्धरति च᳘तस्रो वै दि᳘शः स᳘र्व्वाभ्य ऽए᳘वैनामेत᳘द्दिग्भ्यो᳘ हरति॥

मूलम् - Weber

स प्र᳘हरति विदे᳘दग्निर्न᳘भो नामा᳘ग्ने अङ्गिर आ᳘युना नाम्नेही᳘ति स यत्प्रा᳘धन्वंस्तदा᳘युर्दधाति तत्स᳘मीरयतिॗ यो स्या᳘म् पृथिव्यामसी᳘तिॗ यो ऽस्या᳘म् पृथिव्यामसी᳘ति हृत्वा निदधाति यत्ते᳘ ऽनाधृष्टं ना᳘म यज्ञि᳘यं ते᳘न त्वा᳘दध इ᳘ति यत्ते᳘ ऽनाधृष्टं र᳘क्षोभिर्ना᳘म यज्ञि᳘यं ते᳘न त्वा᳘दध इ᳘त्येॗवैत᳘दाहा᳘नु त्वा देव᳘वीतय इ᳘ति चतुर्थ᳘ᳫं᳘ हरति देवे᳘भ्यस्त्वा जु᳘ष्टाᳫं हरामी᳘त्येॗवैत᳘दाह तां वै च᳘तुःस्रक्तेश्चा᳘त्वालाद्ध्रति च᳘तस्रो वै दि᳘शः स᳘र्वाभ्य एॗवैनामेत᳘द्दिग्भ्यो᳘ हरति॥

मूलम् - विस्वरम्

स प्रहरति । “विदेदग्निर्नमो नामाग्ने ऽअङ्गिर आयुना नाम्नेहि”- (वा. सं. ५ । ९) इति । स यत् प्राधन्वंस्तदायुर्दधाति । तत् समीरयति । “यो ऽस्यां पृथिव्यामसि”- (वा. सं. ५ । ९) इति । यो ऽस्यां पृथिव्यामसीति हृत्वा निदधाति । “यत्ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा ऽऽदधे”- (वा. सं. ५ । ९) इति । यत्ते ऽनाधृष्टं रक्षोभिर्नाम यज्ञियं तेन त्वा ऽऽदध इत्येवैतदाह । “अनु त्वा देववीतये”- (वा. सं. ९ । ५) इति । चतुर्थं हरति देवेभ्यस्त्वा जुष्टां हरामीत्येवैतदाह । तां वै चतुःस्रक्तेश्चात्वालाद्धरति । चतस्रो वै दिशः, सर्वाभ्य एवैनामेतद्दिग्भ्यो हरति ॥ ३२ ॥

सायणः

स प्रहरतीति 34 । ‘सः’ मृदो हर्त्ता अध्वर्युः स्फ्येन ‘प्रहरति’ खनेत् । मन्त्रस्यायमर्थः- हे ‘अङ्गिरः’ अङ्गिरोनामकर्षिरूप ! ‘अग्ने’ ! त्वम् । “ये ऽङ्गारा आसंस्ते ऽङ्गिरसो ऽभवन्“ (ऐ. ब्रा. ३ । ३ । १०) (निरु. ५ । ३ । ५)- इति श्रुतिः । अग्निः आहुत्याधारभूतः । ‘नभो नाम विदेत्’ । न भातीति ‘नभः’ एतत् ‘नाम’ विन्देदित्यर्थः । यद्वा, नभो नामाग्निरिति ‘विदेः’ 35 जानीया इत्यर्थः । त्वञ्च ‘आयुना’ एतदात्मना ‘नाम्ना’ अभिधानेन युक्तः ‘एहि’ आगच्छ । स यदित्यादि । आयुर्दधातीति । ‘आयुः’- शब्दः सामान्येन श्रुतिः । ‘तत्’ अवदारितं ‘समीरयति’ उत्तरवेदिं प्रति सम्यक् 36 प्रेरयति । तत्र मन्त्रः- यो ऽस्यां पृथिव्यामसीति 37 । ‘यः’ त्वम् ‘अस्यां’ चात्वाललक्षणायां ‘पृथिव्यां’ भूम्यां ‘असि’ भवसि स त्वमायुना नाम्नैहीति सम्बन्धः । अथवा यो मृन्निचपरूपस्त्वं अस्यां खातायां भूम्यां भवसि तं त्वां समीरयामीत्यर्थः ॥

आनीताया मृदो वेद्याकारेण स्थापनं समन्त्रकं विधत्ते- हृत्वा निदधाति यत्ते ऽनाधृष्टमिति । मृदा एकीभूत ! यत् ते यद्वा हे तिरोहिताग्निविशिष्टे मृत् ! ‘यत्’ ‘ते’ ‘अनाधृष्टं’ रजोभिरहिंस्यम्, ‘यज्ञियम्’ यज्ञार्हं ‘नाम’, ‘तेन’ नाम्ना ‘त्वा’ त्वाम् ‘आदधे’ स्थापयामि । “यो ऽस्याम्”- इति 38 मन्त्रेण त्रिवारं हरेत् ॥

चतुर्थवारहरणमन्त्रस्यायमर्थः- हे आह्रियमाणपदार्थ ! ‘त्वा’ त्वाम् ‘अनु’ पूर्वं हरणत्रयमनुकृत्य आह- रामीति शेषः । किमर्थम् ? ‘देववीतये’ देवा व्यन्ति हविर्भक्षयन्ति अत्रेति देववीतिर्यज्ञस्तदर्थम् 39

अर्थसिद्धमनूद्य प्रशंसति- तां वै चतुःस्रक्तेरिति । चतस्रः स्रक्तयो यस्य चात्वालस्य स तथोक्तः, चतुरसात् साकल्येन हरतीत्यर्थः ॥ ३२ ॥

Eggeling
  1. He flings with the texts, ‘May the Agni called Nabhas 40 know (thee)! Go thou, O Agni, Aṅgiras, with the name of Āyu (life)!’ What life they passed away from 41 that he bestows, that he re-animates. Having with, ‘Thou who art in this earth,’ taken (the loose soil dug up by the wooden sword), he puts it down (on the altar 42), with, ‘Whatever inviolate, holy name of thine,

therewith I lay thee down!’ whereby he means to say, ‘whatever holy name, unviolated by the Rakshas, is thine, thereby I lay thee down 43.’–With ‘Thee, moreover, for the delight of the gods,’ he takes (earth) a fourth time 44; whereby he means to say, ‘I take thee well-pleasing to the gods.’ He takes that (high altar) from a quadrangular pit, for there are four quarters: thus he takes it from all the four quarters.

३३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थानु᳘ व्यूहति॥
सि᳘ᳫं᳘ह्यसि[[!!]] सपत्नसाही᳘ देवे᳘भ्यः कल्पस्वे᳘ति सा य᳘दे᳘वादः᳘ सिᳫं᳭ही᳘ भूत्वा᳘ शान्तेवा᳘चरत्त᳘दे᳘वैनामेत᳘दाह सि᳘ᳫं᳘ह्यसी᳘ति सपत्नसाही᳘ति त्व᳘या व्वय᳘ᳫं᳘ सप᳘त्नान्पा᳘पीयसः क्रियास्मे᳘त्ये᳘वैत᳘दाह देवे᳘भ्यः कल्पस्वे᳘ति यो᳘षा वा᳘ ऽउत्तरवेदिस्ता᳘मे᳘वैत᳘द्देवे᳘भ्यः कल्पयति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थानु᳘ व्यूहति॥
सि᳘ᳫं᳘ह्यसि[[!!]] सपत्नसाही᳘ देवे᳘भ्यः कल्पस्वे᳘ति सा य᳘दे᳘वादः᳘ सिᳫं᳭ही᳘ भूत्वा᳘ शान्तेवा᳘चरत्त᳘दे᳘वैनामेत᳘दाह सि᳘ᳫं᳘ह्यसी᳘ति सपत्नसाही᳘ति त्व᳘या व्वय᳘ᳫं᳘ सप᳘त्नान्पा᳘पीयसः क्रियास्मे᳘त्ये᳘वैत᳘दाह देवे᳘भ्यः कल्पस्वे᳘ति यो᳘षा वा᳘ ऽउत्तरवेदिस्ता᳘मे᳘वैत᳘द्देवे᳘भ्यः कल्पयति॥

मूलम् - Weber

अ᳘थानुॗव्यूहति॥
सिंह्य᳘सि सपत्नसाही᳘ देवे᳘भ्यः कल्पस्वे᳘ति सा य᳘देॗवादः᳘ सिंही᳘ भूत्वा᳘शान्तेवा᳘चरत्त᳘देॗवैनामेत᳘दाह सिंह्य᳘सी᳘ति सपत्नसाही᳘ति त्व᳘या वय᳘ᳫं᳘ सप᳘त्नान्पा᳘पीयसः क्रियास्मे᳘त्येॗवैत᳘दाह देवे᳘भ्यः कल्पस्वे᳘ति यो᳘षा वा᳘ उत्तरवेदिस्ता᳘मेॗवैत᳘द्देवे᳘भ्यः कल्पयति॥

मूलम् - विस्वरम्

अथानु व्यूहति । “सिंह्यसि सपत्नसाही देवेभ्यः कल्पस्व”- (वा. सं. ५ । १०) इति । सा यदेवादः सिंही भूत्वा शान्तेवाचरत्, तदेवैनामेतदाह- सिंह्यसीति, सपत्नसाहीति । त्वया वयं सपत्नान् पापीयसः क्रियास्मेत्येवैतदाह- देवभ्यः कल्पस्वेति । योषा वा ऽउत्तरवेदिस्तामेवैतद्देवेभ्यः कल्पयति ॥ ३३ ॥

सायणः

अथानुव्यूहतीति 45 । अनुक्रमेण व्यूहनं मृत्प्रसारणं कुर्यात् । “सिंह्यसि”- इति व्यूहनमन्त्रः । हे अनुव्यूह्यमाने वेदे ! त्वं ‘सिंही असि’ प्रागुक्तप्रकारेण सिंही भवसि । कीदृशी ‘सपत्नसाही शत्रूणामभिभवित्री । तादृशी त्वं ‘देवेभ्यः’ तेषामर्थाय ‘कल्पस्व’ योषारूपा सती भोगसाधनं भवेत्यर्थः ॥

सिंह्यसीति मन्त्रभागस्य तात्पर्यमाह- सा यदेवादः सिंही भूत्वेति । उक्तः सिंहीभावः । सपत्नसाहीत्यस्य तात्पर्यमाह- त्वया वयं सपत्नानिति । देवेभ्यः कल्पस्वेत्यस्य तात्पर्याभिधानम्- योषा वेत्यादि ॥ ३३ ॥

Eggeling
  1. Thereupon he shifts (the earth) asunder, with the text (Vāj. S. V, 10), ‘Thou art a lioness, overcoming the enemies; be thou meet for the gods!’ Inasmuch as, on that occasion, she became a lioness and roamed about unappeased, therefore he says to her, ‘Thou art a lioness;’ and by ‘overcoming the enemies’ he means to say, ‘Through thee may we worst our enemies.’ ‘Be thou meet for the gods’ he says, because the high altar is a woman: her he thus renders meet for the gods.

३४

विश्वास-प्रस्तुतिः

तां वै᳘ युगमात्रीं᳘ वा सर्व्व᳘तः करो᳘ति॥
य᳘जमानस्य वा द᳘शदश पदा᳘नि द᳘शाक्षरा वै᳘ व्विराड्वाग्वै᳘ व्विराड्वा᳘ग्यज्ञो म᳘ध्ये नाभिका᳘मिव करोति समानत्रा᳘सीनो व्या᳘घारयाणी᳘ति॥

मूलम् - श्रीधरादि

तां वै᳘ युगमात्रीं᳘ वा सर्व्व᳘तः करो᳘ति॥
य᳘जमानस्य वा द᳘शदश पदा᳘नि द᳘शाक्षरा वै᳘ व्विराड्वाग्वै᳘ व्विराड्वा᳘ग्यज्ञो म᳘ध्ये नाभिका᳘मिव करोति समानत्रा᳘सीनो व्या᳘घारयाणी᳘ति॥

मूलम् - Weber

तां वै᳘ युगमात्रीं᳘ वा सर्व᳘तः करो᳘ति॥
य᳘जमानस्य वा द᳘शदश पदा᳘नि द᳘शाक्षरा वै᳘ विराड्वाग्वै᳘ विराड्वा᳘ग्यज्ञो म᳘ध्ये नाभिका᳘मिव करोति समानत्रा᳘सीनो व्या᳘घारयाणी᳘ति॥

मूलम् - विस्वरम्

तां वै युगमात्रीं वा सर्वतः करोति, यजमानस्य वा दश-दश पदानि । दशाक्षरा वै विराट् । वाग्वै विराट् । वाग्यज्ञः । मध्ये नाभिकामिव करोति; समानत्रासीनो व्याघारयाणीति ॥ ३४ ॥

सायणः

तां वै युगमात्रीं वेत्यादि 46 । षडशीत्यङ्गुलपरिमिता 47 ‘युगमात्री’ । दिक्चतुष्टयापेक्षया “दश-दश”- इति वीप्सा । युगमात्रस्य पूर्वमभिहितत्वात् तत् परित्यज्य दशपदपक्षं प्रशंसति- दशाक्षरा वै विराडिति । सर्वत्र विराजमानत्वाद् वाचा उच्चार्यमाणत्वाच्च ‘विराड्-वाक्’ । मन्त्रादिरूपतया निष्पाद्यमानत्वाद् ‘वाग् यज्ञः’ अतो द्वारद्वारिकया यज्ञसम्बन्धात् दशसङ्ख्या युज्यत इति स्तुतिः । मध्ये नाभिकामिव करोतीति 48 । अल्पा नाभिर्नाभिका । तस्या निर्माणप्रयोजनमाह- समानत्रेति । एकत्र स्थित्वा सर्वत्रोत्तरवेद्यां व्याघारणस्याशक्यत्वात् तत्सिद्धये मध्ये नाभिकरणमित्यर्थः ॥ ३४ ॥

Eggeling
  1. He makes it on each side either of the size of the yoke, or ten feet of the sacrificer’s 49; for the

Virāj consists of ten syllables, and the Virāj is speech, and the sacrifice is speech. In the middle 50 he makes, as it were, a navel, thinking, ‘Seated in one and the same place, I shall sprinkle (ghee) all round 51.’

३५

विश्वास-प्रस्तुतिः

ता᳘मद्भि᳘र᳘भ्युक्षति॥
सा᳘ य᳘देवादः᳘ सिᳫं᳭ही᳘ भू᳘त्वा᳘ शान्तेवा᳘चरच्छा᳘न्तिरा᳘पस्ता᳘मद्भिः᳘ शमयति यो᳘षा वा᳘ ऽउत्तरवेदिस्ता᳘मे᳘वैत᳘द्देवे᳘भ्यो हिन्वति त᳘स्मादद्भि᳘र᳘भ्युक्षति᳘॥

मूलम् - श्रीधरादि

ता᳘मद्भि᳘र᳘भ्युक्षति॥
सा᳘ य᳘देवादः᳘ सिᳫं᳭ही᳘ भू᳘त्वा᳘ शान्तेवा᳘चरच्छा᳘न्तिरा᳘पस्ता᳘मद्भिः᳘ शमयति यो᳘षा वा᳘ ऽउत्तरवेदिस्ता᳘मे᳘वैत᳘द्देवे᳘भ्यो हिन्वति त᳘स्मादद्भि᳘र᳘भ्युक्षति᳘॥

मूलम् - Weber

ता᳘मद्भि᳘रॗभ्युक्षति॥
सा᳘ य᳘देवादः᳘ सिंही᳘ भूत्वा᳘शान्तेवा᳘चरछा᳘न्तिरा᳘पस्ता᳘मद्भिः᳘ शमयति यो᳘षा वा᳘ उत्तरवेदिस्ता᳘मेॗवैत᳘द्देवे᳘भ्यो हिन्वति त᳘स्मादद्भि᳘रॗभ्युक्षति॥

मूलम् - विस्वरम्

तामद्भिरभ्युक्षति- सा यदेवादः सिंही भूत्वा शान्तेवाचरत् शान्तिरापस्तामद्भिः शमयति । योषा वा ऽउत्तरवेदिस्तामेवैतद्देवेभ्यो हिन्वति । तस्मादद्भिरभ्युक्षति ॥ ३५ ॥

सायणः

वेद्या अद्भिरभ्युक्षणं विधत्ते- तामद्भिरभ्युक्षतीति 46 । अभ्युक्षणस्य प्रयोजनद्वयम्- सिंही भूत्वा अशान्तायाः शान्तिरेकं प्रयोजनम्, स्निग्धभावेन रमणीयत्वमपरम्; तदुभयमुच्यते- सा यदेवाद इत्यादिना । तामेवैतद्देवेभ्यो हिन्वतीति । हिन्वतिः प्रीणनकर्मा (धा. पा. भ्वा. प. ५९२) । तस्या अभ्युक्षणेन प्रीणनं देवेभ्यो ऽर्थाय भवति; योषात्वेनाभिधानात् । योषाया अलङ्करणेन पत्युः प्रीतिर्भवतीति सुप्रसिद्धम् ॥ ३५ ॥

Eggeling
  1. He sprinkles it with water: inasmuch as, on that occasion, she became a lioness and roamed about unappeased–water being (a means of) appeasement–he appeases her with water. And, the high altar being a woman, he thereby fits her for the gods: this is why he sprinkles it with water.

३६

विश्वास-प्रस्तुतिः

सो᳘ ऽभ्युक्षति॥
सि᳘ᳫं᳘ह्यसि [[!!]] सपत्नसाही᳘ देवे᳘भ्यः शुन्धस्वेत्य᳘थ सि᳘कताभिरनुवि᳘किरत्यलङ्कारो᳘ न्वेव सि᳘कता भ्रा᳘जन्त ऽइव हि सि᳘कता ऽअग्नेर्वा ऽएत᳘द्वैश्वानर᳘स्य[[!!]] भ᳘स्म यत्सि᳘कता ऽअग्निं वा᳘ ऽअस्यामाधास्य᳘न्भवति त᳘थो हैनामग्निर्न᳘ हिनस्ति त᳘स्मात्सि᳘कताभिरनुवि᳘किरति᳘ सो ऽनुवि᳘किरति सि᳘ᳫं᳘ह्यसि [[!!]] सपत्नसाही᳘ देवे᳘भ्यः शुम्भस्वेत्य᳘थैनां छादयति᳘ सा᳘ च्छ᳘न्नैताᳫँ᳭ रा᳘त्रिं व्वसति॥

मूलम् - श्रीधरादि

सो᳘ ऽभ्युक्षति॥
सि᳘ᳫं᳘ह्यसि [[!!]] सपत्नसाही᳘ देवे᳘भ्यः शुन्धस्वेत्य᳘थ सि᳘कताभिरनुवि᳘किरत्यलङ्कारो᳘ न्वेव सि᳘कता भ्रा᳘जन्त ऽइव हि सि᳘कता ऽअग्नेर्वा ऽएत᳘द्वैश्वानर᳘स्य[[!!]] भ᳘स्म यत्सि᳘कता ऽअग्निं वा᳘ ऽअस्यामाधास्य᳘न्भवति त᳘थो हैनामग्निर्न᳘ हिनस्ति त᳘स्मात्सि᳘कताभिरनुवि᳘किरति᳘ सो ऽनुवि᳘किरति सि᳘ᳫं᳘ह्यसि [[!!]] सपत्नसाही᳘ देवे᳘भ्यः शुम्भस्वेत्य᳘थैनां छादयति᳘ सा᳘ च्छ᳘न्नैताᳫँ᳭ रा᳘त्रिं व्वसति॥

मूलम् - Weber

सोॗ ऽभ्युक्षति॥
सिंह्य᳘सि सपत्नसाही᳘ देवे᳘भ्यः शुन्धस्वेत्य᳘थ सि᳘कताभिरनुवि᳘किरत्यलंकारोॗ न्वेव सि᳘कता भ्रा᳘जन्त इव हि सि᳘कता अग्नेर्वा᳘ एत᳘द्वैश्वानर᳘स्य भ᳘स्म यत्सि᳘कता अग्निं वा᳘ अस्यामाधास्य᳘न्भवति त᳘थो हैनामग्निर्न᳘ हिनस्ति त᳘स्मात्सि᳘कताभिरनुवि᳘किरॗति सो ऽनुवि᳘किरति सिंह्य᳘सि सपत्नसाही᳘ देवे᳘भ्यः शुम्भस्वेत्य᳘थैनां छादयति सा᳘ छॗन्नैतां रा᳘त्रिं वसति॥

मूलम् - विस्वरम्

सो ऽभ्युक्षति । “सिंह्यसि सपत्नसाही देवेभ्यः शुन्धस्व”- (वा. सं. ५ । १०) इति । अथ सिकताभिरनुविकिरति; अलङ्कारो न्वेव सिकताः, भ्राजन्त ऽइव हि सिकताः, अग्नेर्वा ऽएतद्वैश्वानरस्य भस्म यत्सिकताः । अग्निं वा ऽअस्यामाधास्यन् भवति; तथो हैनामग्निर्न हिनस्ति । तस्मात् सिकताभिरनुविकिरति । सो ऽनु विकिरति । “सिंह्यसि सपत्नसाही देवेभ्यः शुम्भस्व”- (वा. सं. ५ । १०) इति । अथैनां छादयति; सा छन्नैतां रात्रिं वसति ॥ ३६ ॥

सायणः

सो ऽभ्युक्षतीति (का. श्रौ. सू. ५ । ७८) । अभ्युक्षणमन्त्रः- सिंह्यसीति । अयं स्पष्टार्थः । सिकतानां प्रक्षेपस्योक्तमलङ्काररूपत्वं समर्थयते- भ्राजन्त इव हि सिकता इति । अतिधवलत्वाद् भ्राजमाना भवन्ति । वैद्यलङ्कारत्वेन प्रशस्य अग्निसंयोगकृतसन्तापनिवर्तकत्वेन प्रशंसति- अग्नेर्वा एतद् वैश्वानरस्य भस्मेत्यादिना । अग्न्यवयवभूतानामेव सिकतानामुत्तरवेद्यवयवत्वसम्पादनेन भूमेः स्वाङ्गस्य स्वात्मदाहकत्वाभावाद्धिंसापरिहार इत्यभिप्रायः । सिकता-प्रकिरणमन्त्रार्थस्तु स्पष्टएव ॥

अथोत्तरवेदेर्यज्ञियवृक्षशाखया प्रच्छादनं विधत्ते- अथैनां छादयतीति ॥ ३६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे पञ्चमाध्याये प्रथमं ब्राह्मणम् ॥ (३-५- १) ॥

Eggeling
  1. He sprinkles it with, ‘Thou art a lioness, overcoming the enemies: get thee pure for the gods!’ He then bestrews it with gravel. Now gravel certainly is an ornament, because gravel is rather shining. And that gravel being the ashes of Agni Vaiśvānara, he is now about to place Agni thereon, and so Agni does not injure it: this is why he bestrews it with gravel. He bestrews it with, ‘Thou art a lioness, overcoming the enemies: array thee for the gods!’ He then covers it 52, and thus covered it remains during that night.

  1. पूर्वार्द्धात्स्तम्भात्पुरस्तात्रिषु प्रक्रमेषु शंकुं निहन्ति सो ऽन्तःपात्य इति । का. श्रौ. सू. ८ । ६१ । ↩︎

  2. 111:3 This post stands in the middle of the east door of the hall or Prācīna-vaṁśa, just in front of the Āhavanīya-fire. See p. 3, note 2. ↩︎

  3. 111:4 Antaḥpāta, lit. ‘falling within or between,’ because it stands between the (new) altar and the Prācīna-vaṁśa fires and altar. See III, 5, 2, 2. ↩︎

  4. दक्षिणोत्तरौ च पश्चदशसु पञ्चदशसु । का. श्रौ. सू ८ । ६३ । ↩︎ ↩︎ ↩︎

  5. 112:1 That is, the middle of the front side of the altar, or, as it were, its head, where the ‘high altar’ is to be raised. ↩︎

  6. अर्द्धसप्तदशेषु वा । का. श्रौ. सू. ८ । ६४ । ↩︎

  7. 112:2 The ‘prācī’ is the line drawn from the middle of the west side to that of the front side of the altar, forming as it were the spine (pr̥shṭḥyā) of the altar. ↩︎

  8. 113:1 On the uttara-vedi (lit. ‘higher, upper altar’), now about to be raised on the fore-part of the great altar (mahā-vedi or saumikī vedi) described in the preceding paragraphs, see also part i, p. 392 note. ↩︎

  9. याजयेति सायणसंमतः पाठः । सच युक्तो भाति । ↩︎

  10. याजयेति Sây. ↩︎

  11. धियाम Sây. ध्रियाम AB. ↩︎

  12. 113:2 The Kāṇva MS. reads, nāpakramaṇam astv iti, which, if correct, would mean, ‘Let there be no going away!’ i.e. ‘Let us not go (to the Aṅgiras)!’ or perhaps, ‘Do not thou (Agni) go away!’ ↩︎

  13. 114:1 Teshāṁ nas tvaṁ hotāsīti, perhaps ’thou wilt sacrifice for us.’ ↩︎

  14. 114:2 ‘Sent by us, why didst thou not return?’ Kāṇva rec. ↩︎

  15. 114:3 An ekāha (one day’s) performance of the Soma-sacrifice at which the consecrations, buying and pressing of Soma, are compressed into one day. ↩︎

  16. 114:4 Api vā asmābhir esha pratigr̥hītaḥ, ‘Ist doch jener von uns empfangen worden.’ ↩︎

  17. ‘अप्यविद्यमानः’ इति पा । ↩︎

  18. ‘जिन्वमाना’ इति क्व० पा० । ↩︎

  19. 115:1 The Kāṇva text reads, Na mad esha kena cana śreyan iti na bandhunā na kena cana katham etaṁ pragr̥hṇīyur na mām iti; ‘That one is not my superior by anything, not by kinship, not by anything, why should they accept him and not me?’ ↩︎

  20. 115:2 Ādadānā cacāra = jighatsayā samīpasthaṁ sarvaṁ svīkurvatī, Sāy. ↩︎

  21. ‘वरघनरूपत्वात्’ इति क्व० पा० । ↩︎

  22. 115:3 See III, 5, 2, 9-11. ↩︎

  23. 116:1 That is to say, the pit (cātvāla) whence the earth for the high altar is taken is measured with the yoke-pin, and the high altar with the yoke. Sāyaṇa seems to take it differently: Yatra yasmin deśe yugena haranti yato yasmāt tatra śamyayāpi haranti. ↩︎

  24. “अन्येन परित्यक्तां दक्षिणाममा सह स्वात्मनि न कुर्वीत” इति- क्व. पा. । ↩︎ ↩︎

  25. 116:2 Or perhaps, one must not take back a Dakshiṇā, refused by a priest. ↩︎

  26. यथोक्तं वा । ८ । ६९ । यथोक्तमिति- पूर्व्वेणोत्करँ संचरं परिहाप्येति कर्कः । ↩︎

  27. 116:3 The earth taken from the pit being used for constructing the high altar, both are of the same size or cubic content. The pit is to measure thirty-two aṅgulas (about two feet) on each side. As to the exact distance of the pit from the north-east peg, this is to be left to the discretion of the Adhvaryu, provided it be in front of the utkara, or heap of rubbish formed in making the large altar (on which the high altar is raised), and a passage be left between the utkara and the pit. The latter is contiguous to the north edge of the large altar. As described in the succeeding paragraphs, the west side is marked off first (by drawing the wooden sword along the inner side of the yoke-pin), then successively the front, the south, and the north sides. ↩︎

  28. शम्यामुदीचीं निदधाति पुरस्ताच्च ५ । ६५ । शम्यामानं शुल्बे-चत्वारो ऽष्टकाः शम्येति । द्वात्रिंशदंगुलेत्यर्थः । का. श्रौ. सू. । ३२ । स्फ्येनांतर्लिखतितप्तायनीति प्रतिमंत्रम् । का. श्रौ. सू. ५ । ६८ । ↩︎ ↩︎

  29. 117:1 For ’nāthitāt’ and ‘vyathitāt,’ the Kāṇva text, as the Taitt. S. VI, 2, 7, 2, has the readings ’nāthitam’ and ‘vyathitam.’ ↩︎ ↩︎

  30. 118:1 Compare the Stambayajur-haraṇam (which has also to be performed on the present occasion, in preparing the large altar), I, 2, 4, 8 seq. ↩︎

  31. 118:2 That is, at the place where the uttaravedi is to be raised, whence the Adhvaryu throws the sphya to where the pit is to be dug. While he throws (or thrusts in) the wooden sword, the sacrificer has to take hold of him from behind. ↩︎

  32. 118:3 See I, 2, 3, 1. ↩︎

  33. 118:4 I.e. with the Agni who entered into this earth. ↩︎

  34. व्विदेदग्निरिति चात्वाले प्रहरति स्फ्येनान्वारब्धे । का. श्रौ. सू. ५ । ६९ । ↩︎

  35. अत्र विदेदित्यस्य पुरुषव्यत्ययेन ‘विदेः’ इति भाष्यकारो व्याजहार । ↩︎

  36. ‘सम्यगीरयति’- इति क्व० पा० । ↩︎

  37. अग्ने अंगिर इति पुरीषँ हरति हस्तेन च । ५ । ७० । यो ऽस्यामिति निवपति पूर्वार्द्धे शंकुसहितं । ५ । ७१ अग्नीदुत्करवत्तूष्णीँ हृतं । का. श्रौ. सू. ५ । ७२ । ↩︎

  38. एवं द्विरपरं द्वितीयस्यां तृतीयस्यामिति विशेषः । का. श्रौ. सू. ५। ७३ । ↩︎

  39. अनुत्वेति चतुर्थे यथार्थमाहृत्य । का. श्रौ. सू. ५ । ७५ । ↩︎

  40. 118:5 Apparently ‘vapour, welkin.’ The Kāṇva rec. reads, ‘Mayest thou know Agni’s name Nabhas’ (Vider Agner, &c.). The Taitt. S., on the other hand, reads ‘vider Agnir nabho nāma,’ which Sāyaṇa explains by ’the Agni of the vedi (!) is Nabhas by name.’ ↩︎

  41. 118:6 Yat prādhanvaṁs tad āyur dadhāti. Perhaps we ought to read with the Kāṇva text, Vat prādhanvat tad asminn āyur dadhāti tad enaṁ samīrayati, ’the life which passed away (?), that he bestows on him, therewith he re-animates him.’ ↩︎

  42. 118:7 He throws it on the fore-part of the altar, close to the peg marking the middle of the front side, where the ‘high altar’ is to be raised on it. ↩︎

  43. 119:1 He repeats the same ceremony a second and a third time with the same texts, except that, instead of ‘Thou who art in this earth,’ he says, ‘Thou who art in the second (third) earth.’ ↩︎

  44. 119:2 He takes with the spade as much as is required to make the high altar of the proper size. ↩︎

  45. सिँह्यसीति व्यूहत्युत्तरवेदिम् । का. श्रौ. सू. ५ । ७५ । ↩︎

  46. शम्यामात्रीं व्वितृतीयामपरिमितां युगमात्रीं यजमानदशपद्यां वा । का. श्रौ. सू. ५। ७६ । ↩︎ ↩︎

  47. सोमे वोत्तरे व्युपस्फुरणश्रुतेरसंभवाच्च । का. श्रौ. सू. ५-७७ । ↩︎

  48. मध्ये नाभिं करोति प्रादेशसमां चतुःस्रक्तिं । का. श्रौ. सू. ५ । ७८ । युगमानं शुल्बे कात्यायनः- षडशीत्यंगुलं ८६ युगमिति । युगमात्री व्यरत्निः स्यादंगुलानि चतुर्द्दश इति । ह । १४ अंगुल । यजमानस्य वा दशदश पदानीत्यत्र सर्व्वतः करोतीत्यस्यानुवृत्तौ- दशदशपदा शतपदक्षेत्रफलका इत्यर्थो भवति । सोमे वोत्तरे व्युपस्फुरणश्रुतेरसंभवाच्चेति वदता कात्यायनेन शतपदक्षेत्रफलैव प्रदर्शिता । शुल्बपरिशिष्टकारस्तु- यजमानदशपद्यां वा- इत्येतावदेव सूत्रमालोच्य- दशपदक्षेत्रफलकामाह ॥ दशपदक्षेत्रफलकासाधनं शुल्बे । पदं तिर्यङ्मानी त्रिपदा पार्श्वमानी तस्याक्ष्णवा रज्जुर्दशकरणीति । त्रिपदा पार्श्वमानी तु- त्रिः प्रमाणा नवकरणीति- इति शुल्बम् । त्रिःप्रमाणा करणी तु- ४६ अं. ६य. । १ यु. । ↩︎

  49. 119:3 This statement seems to have greatly puzzled the later ritualists, as Kāty. V, 3, 32-35 and the comments thereon show. In rule 32 it is laid down, in accordance with paragraph 26 above, that the Adhvaryu is to make the high altar of the size of the yoke-pin and the pit, i.e. about two feet square. The next rule then leaves an option between four other measurements, viz. he may make it either one third of the area of the large altar, or of unlimited size, or of the size of the yoke (86 aṅgulas = c. 5-5½ feet) or of ten of the sacrificer’s feet. This latter measurement is explained rather ingeniously by Harisvāmin, as meaning that the high altar is to form an oblong of three feet by one foot, when, in counting the number of sides of the three squares thus obtained, we obtain ten sides of one foot each. However, the repetition of ‘daśa’ in our text–which can only mean ’ten feet on each side’–does not favour this explanation, The last two alternatives, according to rules 34-35, only apply to the Soma-sacrifice, because otherwise the altar (as in the case of the ’northern altar’ at the Cāturmāsya, cf. part i, p. 392) would not be large enough to contain a ‘high altar’ of that size. ↩︎

  50. 120:1 The Kāṇva text wants it to be made at the back (jaghanena). ↩︎

  51. 120:2 When he makes the libation of ghee on the high altar (III, 5, 2, 9-14 he pours it on the four corners of the ’navel’ and thereby, as it were, on the whole ‘high altar.’ ↩︎

  52. 120:3 Viz. with branches of udumbara or plaksha (see III, 8, 3, 10), or with darbha grass. ↩︎