०१

विश्वास-प्रस्तुतिः

ग्रीवा वै᳘ यज्ञ᳘स्योपस᳘दः शि᳘रः प्रव᳘र्ग्यः॥
(स्त᳘) त᳘स्माद्य᳘दि प्रव᳘र्ग्यवान्भ᳘वति प्रव᳘र्ग्येण प्रचर्या᳘थोपस᳘द्भिः प्र᳘चरन्ति त᳘द्ग्रीवाः प्र᳘तिदधति॥

मूलम् - श्रीधरादि

ग्रीवा वै᳘ यज्ञ᳘स्योपस᳘दः शि᳘रः प्रव᳘र्ग्यः॥
(स्त᳘) त᳘स्माद्य᳘दि प्रव᳘र्ग्यवान्भ᳘वति प्रव᳘र्ग्येण प्रचर्या᳘थोपस᳘द्भिः प्र᳘चरन्ति त᳘द्ग्रीवाः प्र᳘तिदधति॥

मूलम् - Weber

ग्रीवा वै᳘ यज्ञ᳘स्योपस᳘दः शि᳘रः प्रव᳘र्ग्यः॥
त᳘स्माद्य᳘दि प्रव᳘र्ग्यवान्भ᳘वति प्रव᳘र्ग्येण प्रचर्या᳘थोपस᳘द्भिः प्र᳘चरन्ति त᳘द्ग्रीवाः प्र᳘तिदधाति॥

मूलम् - विस्वरम्

ग्रीवा वै यज्ञस्योपसदः । शिरः प्रवर्ग्यः । तस्माद् यदि प्रवर्ग्यवान्भवति । प्रवर्ग्येण प्रचर्य्य, अथोपसद्भिः प्रचरन्ति । तद् ग्रीवाः प्रतिदधति ॥ १ ॥

सायणः

इत्थमातिथ्यमभिधाय अथोपसदस्तत्कालञ्चाह- ग्रीवा वै यज्ञस्योपसदः । शिरः प्रवर्ग्यः; तस्माद् यदि प्रवर्ग्यवान् भवति, प्रवर्ग्येण प्रचर्याथोपसद्भिः प्रचरन्तीति 1 । ‘तत्’ तेन प्रवर्ग्यानन्तरमुपसदनुष्ठानेन ‘ग्रीवाः’ अवयवापेक्षया बहुवचनम् । ‘प्रतिदधाति’ शिरसा सह योजितवान् भवति । “न प्रथमयज्ञे प्रवृञ्ज्यात्”- इति निषेधसम्भवाद् “यदि प्रवर्ग्यवान्” 2 इत्युक्तम् । आश्वलायनो ऽपि प्रथमयज्ञेनैके घर्म्मम्” इति (आ. सू. ४ । ८ । १६) ॥ १ ॥

Eggeling
  1. Verily the Upasads (homages or sieges) are the neck of the sacrifice, and the Pravargya is its head. Hence when it is performed with the Pravargya 3,

they perform the Upasads 4 after performing the Pravargya, and thereby they put the neck in its place.

०२

विश्वास-प्रस्तुतिः

तद्याः᳘ पूर्व्वा᳘ह्णे ऽनुवा᳘क्या भ᳘वन्ति॥
ता᳘ अपराह्णे᳘ या᳘ज्या या᳘ या᳘ज्यास्ता᳘ ऽअनुवा᳘क्यास्तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि ग्रीवा᳘णां प᳘र्व्वाणि व्य᳘तिषक्तानीमान्य᳘स्थीनि॥

मूलम् - श्रीधरादि

तद्याः᳘ पूर्व्वा᳘ह्णे ऽनुवा᳘क्या भ᳘वन्ति॥
ता᳘ अपराह्णे᳘ या᳘ज्या या᳘ या᳘ज्यास्ता᳘ ऽअनुवा᳘क्यास्तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि ग्रीवा᳘णां प᳘र्व्वाणि व्य᳘तिषक्तानीमान्य᳘स्थीनि॥

मूलम् - Weber

तद्याः᳘ पूर्वाॗह्णे ऽनुवाॗक्या भवन्ति॥
ता᳘ अपराह्णे᳘ याॗज्या या᳘ याॗज्यास्ता᳘ अनुवाॗक्यास्तद्व्य᳘तिषजति त᳘स्मादिमा᳘नि ग्रीवा᳘णाम् प᳘र्वाणि व्य᳘तिषक्तानीमान्य᳘स्थीनि॥

मूलम् - विस्वरम्

तद् याः पूर्वाह्णे ऽनुवाक्या भवन्ति; ता अपराह्णे याज्याः । या याज्यास्ता अनुवाक्याः । तद् व्यतिषजति । तस्मादिमानि ग्रीवाणां पर्वाणि व्यतिषक्तानीमान्यस्थीनि ॥ २ ॥

सायणः

“तद्याः पूर्वाह्णे ऽनुवाक्या भवन्ति ता अपराह्णे याज्याः”- इति “अग्निर्वृत्राणि जङ्घनद्”- “य उग्र इव शर्यहाः"- (ऋ. सं. ६ । १६ । ३४ ३९ ।) “त्वं सोमासि सत्पतिः”- “गयस्फानो अमीवहाः”- (ऋ. सं. १ । ९१ । ५, १२) “इदं विष्णुर्विचक्रमे”- “त्रीणि पदा विचक्रमे"- (ऋ. सं. १ । २३ । १७ । १८) इति त्रीणि युगलानि क्रमेणाग्निसोमविष्णूनां याज्याः पुरो ऽनुवाक्या: । (ऐ. ब्रा. १ । ४ । ८) तेष्वाद्याः प्रातःकालोपसदि पुरो ऽनुवाक्या 1 भवन्ति, द्वितीया याज्याः; सायङ्कालीनोपसदि तु द्वितीयाः पुरो ऽनुवाक्याः प्रथमा याज्या इत्यर्थः । ग्रीवाणामंगुलिवत् प्रसिद्धपर्वाभावात् ‘अस्थीनि’ इत्युक्तम् ॥ २ ॥

Eggeling
  1. The anuvākyās (invitatory prayers) in the forenoon are the yājyās (offering prayers) in the afternoon; and the yājyās are the anuvākyās 5. He thus interlinks them, whence those joints and those bones of the neck are interlinked.

०३

विश्वास-प्रस्तुतिः

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽएषु᳘ लोके᳘षु पु᳘रश्चक्रिरे ऽयस्म᳘यीमे᳘वास्मिल्ँ᳘लोके᳘ रजता᳘मन्त᳘रिक्षे ह᳘रिणीं दिवि[[!!]]॥

मूलम् - श्रीधरादि

देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽएषु᳘ लोके᳘षु पु᳘रश्चक्रिरे ऽयस्म᳘यीमे᳘वास्मिल्ँ᳘लोके᳘ रजता᳘मन्त᳘रिक्षे ह᳘रिणीं दिवि[[!!]]॥

मूलम् - Weber

देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः पस्पृधिरे ततो᳘ ऽसुरा एषु᳘ लोके᳘षु पु᳘रश्चक्रिरे ऽयस्म᳘यीमेॗवास्मिं᳘लोके᳘ रजता᳘मन्तरिक्षे ह᳘रिणीं दिवि᳟॥

मूलम् - विस्वरम्

देवाश्च वा ऽअसुराश्च, उभये प्राजापत्याः पस्पृधिरे । ततो ऽसुरा एषु लोकेषु पुरश्चक्रिरे- अयस्मयीमेवास्मिंल्लोके । रजतामन्तरिक्षे । हरिणीं दिवि ॥ ३ ॥

सायणः

उपसदो लोकजयसाधनत्वेन प्रशंसति- देवाश्च वा असुराश्चेत्यादिना । ‘अयस्मयीम्’ इत्यत्र “अयस्मयादीनि च्छन्दसि”- (पा. सू. १ । ४ । २०) इति भसंज्ञायां पदसंज्ञाया बाधादुत्वाभावः । हरिणीं दिवीति । हरितवर्णां पुरीम्, सुवर्णमयीमित्यर्थः ॥ ३ ॥

Eggeling
  1. Now the gods and the Asuras, both of them sprung from Prajāpati, were contending against each other 6. The Asuras then built themselves castles in these worlds,–an iron one in this world, a silver one in the air, and a golden one in the sky.

०४

विश्वास-प्रस्तुतिः

तद्वै᳘ देवा᳘ ऽअस्पृण्वत᳘॥
त᳘ ऽएता᳘भिरुपस᳘द्भिरु᳘पासीदंस्तद्य᳘दुपा᳘सीदंस्त᳘स्मादुपस᳘दो ना᳘म ते पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्रा᳘जयंस्त᳘स्मादाहुरुपस᳘दा पु᳘रं जयन्ती᳘ति यद᳘होपा᳘सते ते᳘नेमां᳘ मानुषीं पु᳘रं जयन्ति॥

मूलम् - श्रीधरादि

तद्वै᳘ देवा᳘ ऽअस्पृण्वत᳘॥
त᳘ ऽएता᳘भिरुपस᳘द्भिरु᳘पासीदंस्तद्य᳘दुपा᳘सीदंस्त᳘स्मादुपस᳘दो ना᳘म ते पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्रा᳘जयंस्त᳘स्मादाहुरुपस᳘दा पु᳘रं जयन्ती᳘ति यद᳘होपा᳘सते ते᳘नेमां᳘ मानुषीं पु᳘रं जयन्ति॥

मूलम् - Weber

तद्वै᳘ देवा᳘ अस्पृण्वत॥
त᳘ एता᳘भिरुपस᳘द्भिरु᳘पासीदंस्तद्य᳘दुपा᳘सीदंस्त᳘स्मादुपस᳘दो ना᳘म ते पु᳘रः प्रा᳘भिन्दन्निमां᳘लोकान्प्रा᳘जयंस्त᳘स्मादाहुरुपस᳘दा पु᳘रं जयन्ती᳘ति यद᳘होपा᳘सते ते᳘नेमा᳘म् मानुषीम् पु᳘रं जयन्ति॥

मूलम् - विस्वरम्

तद्वै देवा अस्पृण्वत । त ऽएताभिरूपसद्भिरुपासीदन् । तद् यदुपासीदंस्तस्मादुपसदो नाम । ते पुरः प्राभिन्दन् । इमाँ ऽल्लोकान्प्राजयन् । तस्मादाहुः- उपसदा पुरं जयन्तीति । यदहोपासते तेनेमां मानुषीं पुरं जयन्ति ॥ ४ ॥

सायणः

तद्वै देवा अस्पृण्वतेति । ‘तत्’ पुरत्रयम् ‘अस्पृण्वत’ ”स्पृ हिंसायाम्” 1 (धा. पा. स्वा. प. १२) हिंसितवन्तः ते ‘देवाः’ यस्मात् ‘एताभिः’ त्रिभिराग्नेयादीष्टिकर्मभिः सामर्थ्येनेत्यर्थः । ‘उपासीदन्’- असुरनिर्गमनप्रतिबन्धात् त्रीणि पुराण्यावृत्य न्यवसन्नित्यर्थः । अत उपसदनसाधनत्वादासामुपसन्नाम सम्पन्नमित्यर्थः 7 । उक्तमुपसदां जयसाधनत्वं लोकप्रसिद्धया द्रढयति- तस्मादाहुरुपसदा पुरं जयन्तीति । ‘आहुः’ अभिज्ञाः कथयन्ति, ‘उपसदा’ उपसदनदुर्गवेष्टनेन । अभिज्ञानामभिधानं न मृषेत्याह- यदहेति । ‘उपासते’ उपेत्यावृण्वन्ति ॥ ४ ॥

Eggeling
  1. The gods then prevailed. They besieged them by these sieges (upasad); and because they besieged (upa-sad) them, therefore the name Upasads.

They clove the castles and conquered these worlds. Hence they say, ‘A castle is conquered by siege;’ for it is indeed by beleaguering that one of these human castles is taken.

०५

विश्वास-प्रस्तुतिः

(न्त्ये) एता᳘भिर्व्वै᳘ देवा᳘ ऽउपस᳘द्भिः॥
पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्रा᳘जयंस्त᳘थो ऽए᳘वैष᳘ ऽएतन्ना᳘है᳘वास्मा ऽअस्मिल्ँ᳘लोके क᳘श्चन पु᳘रः कुरुत᳘ ऽइमा᳘ने᳘वैत᳘ल्लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति त᳘स्मादुपस᳘द्भिर्यजते॥

मूलम् - श्रीधरादि

(न्त्ये) एता᳘भिर्व्वै᳘ देवा᳘ ऽउपस᳘द्भिः॥
पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्रा᳘जयंस्त᳘थो ऽए᳘वैष᳘ ऽएतन्ना᳘है᳘वास्मा ऽअस्मिल्ँ᳘लोके क᳘श्चन पु᳘रः कुरुत᳘ ऽइमा᳘ने᳘वैत᳘ल्लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति त᳘स्मादुपस᳘द्भिर्यजते॥

मूलम् - Weber

एता᳘भिर्वै᳘ देवा᳘ उपस᳘द्भिः॥
पु᳘रः प्रा᳘भिन्दन्निमां᳘लोकान्प्रा᳘जयंस्त᳘थो एॗवैष᳘ एतन्ना᳘हैॗवास्मा अस्मिं᳘लोके क᳘श्चन पु᳘रः कुरुत᳘ इमा᳘नेॗवैत᳘ल्लोका᳘न्प्रभिन᳘त्तीमां᳘लोकान्प्र᳘जयति त᳘स्मादुपस᳘द्भिर्यजते॥

मूलम् - विस्वरम्

एताभिर्वै देवा उपसद्भिः पुरः प्राभिन्दन् । इमाल्ँ लोकान्प्राजयन् । तथो ऽएवैष एतन्नाहैवास्मा ऽअस्मिंल्लोके कश्चन पुरः कुरुते । इमानैवैतल्लोकान्प्रभिनत्ति । इमाल्ँ लोकान्प्रजयति । तस्मादुपसद्भिर्यजते ॥ ५ ॥

सायणः

एताभिर्वै देवा इति । तथो एवैष एतदिति । एतया उपसदा ‘एषः’ यजमानो ऽपि पुरः प्रभिनत्ति, जयति चेति शेषः । न केवलं पुरस्य जयः अपि तु जेतव्यपुरमेव न भवेदित्याह- नाहैवास्मा अस्मिंल्लोके कश्चन पुरः कुरुत इति (तै. सं. ६ । २ । ३) (ऐ. ब्रा. १ । ४ । ६) ॥ ५ ॥

Eggeling
  1. By means of these sieges, then, the gods clove the castles and conquered these worlds. And so does this one (the sacrificer) now,–no one, it is true, builds for himself castles against him in this world; he cleaves these same worlds, he conquers these worlds: therefore he offers with the Upasads.

०६

विश्वास-प्रस्तुतिः

ता वा ऽआ᳘ज्यहविषो भवन्ति॥
व्वज्रो[[!!]] वा ऽआ᳘ज्यमेते᳘न वै᳘ दे᳘वा व्व᳘ज्रेणा᳘ज्येन पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्राजयंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येनेमाल्ँ᳘लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति त᳘स्मादा᳘ज्यहविषो भवन्ति॥

मूलम् - श्रीधरादि

ता वा ऽआ᳘ज्यहविषो भवन्ति॥
व्वज्रो[[!!]] वा ऽआ᳘ज्यमेते᳘न वै᳘ दे᳘वा व्व᳘ज्रेणा᳘ज्येन पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्राजयंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येनेमाल्ँ᳘लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति त᳘स्मादा᳘ज्यहविषो भवन्ति॥

मूलम् - Weber

ता वा आ᳘ज्यहविषो भवन्ति॥
व᳘ज्रो वा आ᳘ज्यमेते᳘न वै᳘ देवा व᳘ज्रेणा᳘ज्येन पु᳘रः प्रा᳘भिन्दन्निमांलोकान्प्राजयंस्त᳘थो एॗवैष᳘ एते᳘न व᳘ज्रेणाज्येनेमां᳘लोका᳘न्प्रभिन᳘त्तीमां᳘लोकान्प्र᳘जयति त᳘स्मादा᳘ज्यहविषो भवन्ति॥

मूलम् - विस्वरम्

ता वा ऽआज्य हविषो भवन्ति । वज्रो वा ऽआज्यम् । एतेन वै देवा वज्रेणाज्येन पुरः प्राभिन्दन् । इमाल्ँ लोकान् प्राजयन् । तथो एवैष एतेन वज्रेणाज्येनेमाल्ँ लोकान्प्रभिनत्ति । इमाल्ँ लोकान् प्रजयति । तस्मादाज्यहविषो भवन्ति ॥ ६ ॥

सायणः

“तथो एवैष एतत्”- इति यत् सङ्ग्रहेणोक्तम् तदेव स्पष्टयति- ता वा आज्यहविष इत्यादि । स्पष्टम् ॥ ६ ॥

Eggeling
  1. They have clarified butter for their offering material. For ghee is a thunderbolt, and by that thunderbolt, the ghee, the gods clove the strongholds and conquered these worlds. And so does he cleave these worlds by that thunderbolt, the ghee, and conquer these worlds; therefore they (the Upasads) have ghee for their offering material.

०७

विश्वास-प्रस्तुतिः

स वा᳘ ऽअष्टौ कृ᳘त्वो जुह्वां᳘ गृह्णाति॥
चतु᳘रुपभृत्य᳘थो इतर᳘था ऽऽहुश्चतु᳘रेव कृ᳘त्वो जुह्वां᳘ गृह्णीया᳘दष्टौ कृ᳘त्व उपभृती᳘ति॥

मूलम् - श्रीधरादि

स वा᳘ ऽअष्टौ कृ᳘त्वो जुह्वां᳘ गृह्णाति॥
चतु᳘रुपभृत्य᳘थो इतर᳘था ऽऽहुश्चतु᳘रेव कृ᳘त्वो जुह्वां᳘ गृह्णीया᳘दष्टौ कृ᳘त्व उपभृती᳘ति॥

मूलम् - Weber

स वा᳘ अष्टौ कृ᳘त्वो जुह्वां᳘ गृह्णाति॥
चतु᳘रुपभृत्य᳘थो इतर᳘थाहुश्चतु᳘रेव कृ᳘त्वो जुह्वां᳘ गृह्णीया᳘दष्टौ कृ᳘त्व उपभृती᳘ति॥

मूलम् - विस्वरम्

स वा ऽअष्टौ कृत्वो जुह्वां गृह्णाति, चतुरुपभृति । अथो इतरथा ऽऽहुः- चतुरेव कृत्वो जुह्वां गृह्णीयात्, अष्टौ कृत्व उपभृतीति ॥ ७ ॥

सायणः

प्रधानयागत्रयार्थमाज्यग्रहणप्रकारमाह- स वा अष्टौ कृत्वो जुह्वां गृह्णाति चतुरुपभृतीति 8 । ‘अष्टौ कृत्वः’ अष्टवारावृत्त्या ॥ ७ ॥

Eggeling
  1. He takes eight times (ghee) in the juhū, and four times in the upabhr̥t; or conversely, they say, he is to take of it only four times in the juhū and eight times in the upabhr̥t 9.

०८

विश्वास-प्रस्तुतिः

स वा᳘ ऽअष्टा᳘वेव कृ᳘त्वो जुह्वां᳘ गृह्णा᳘ति॥
चतु᳘रुपभृ᳘ति तद्व᳘ज्रमभि᳘भारं करोति ते᳘न व्व᳘ज्रेणाभि᳘भारेणेमाल्ँ᳘लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति॥

मूलम् - श्रीधरादि

स वा᳘ ऽअष्टा᳘वेव कृ᳘त्वो जुह्वां᳘ गृह्णा᳘ति॥
चतु᳘रुपभृ᳘ति तद्व᳘ज्रमभि᳘भारं करोति ते᳘न व्व᳘ज्रेणाभि᳘भारेणेमाल्ँ᳘लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति॥

मूलम् - Weber

स वा᳘ अष्टावेव कृ᳘त्वो जुह्वां᳘ गृह्णाति॥
चतु᳘रुपभृ᳘ति तद्व᳘ज्रमभि᳘भारं 10 करोति ते᳘न व᳘ज्रेणाभि᳘भारेणेमां᳘लोका᳘न्प्रभिन᳘त्तीमां᳘लोकान्प्र᳘जयति॥

मूलम् - विस्वरम्

स वा ऽअष्टावेव कृत्वो जुह्वां गृह्णाति, चतुरुपभृति । तद् वज्रमभिभारं करोति; तेन वज्रेणाभिभारेणेमाल्ँ लोकान्प्रभिनत्ति । इमाल्ँ लोकान्प्रजयति ॥ ८ ॥

सायणः

स वा अष्टावेव कृत्वो जुह्वामिति । अत्र ‘एव’-कारेण “अथो इतरथा ऽऽहुः”- इति केषाञ्चित् पक्षो निरस्यते । तद्यज्ञमभिभारं करोतीति । ‘तत्’ तेन जुह्वामष्टौ कृत्वो ग्रहणेन आज्यस्य वज्रत्वात्, तस्य च मुखत एवाष्टवारग्रहणात्, वज्रमेव मुखप्रदेशभारयुक्तं कृतवान् भवति ॥ ८ ॥

Eggeling
  1. He takes eight times in the juhū, and four times in the upabhr̥t. He thereby makes the thunderbolt heavy in front, and with that thunderbolt heavy in front he cleaves these worlds, and conquers these worlds.

०९

विश्वास-प्रस्तुतिः

(त्य) अग्नीषो᳘मौ वै᳘ देवा᳘नाᳫं᳭सयु᳘जौ॥
ता᳘भ्याᳫँ᳭ सार्द्धं᳘ गृह्णा᳘ति व्वि᳘ष्णव ऽएकाकि᳘ने ऽन्यतर᳘मे᳘वाघारमा᳘घारयति य᳘ᳫं᳘ स्रुवे᳘ण प्र᳘तिक्रामति वा ऽउ᳘त्तर᳘माघा᳘रमाघार्याभि᳘जित्या ऽअभि᳘जयानी᳘ति[[!!]] त᳘स्मादन्यतर᳘मे᳘वाघारमा᳘घारयति य᳘ᳫं᳘ स्रुवेण[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अग्नीषो᳘मौ वै᳘ देवा᳘नाᳫं᳭सयु᳘जौ॥
ता᳘भ्याᳫँ᳭ सार्द्धं᳘ गृह्णा᳘ति व्वि᳘ष्णव ऽएकाकि᳘ने ऽन्यतर᳘मे᳘वाघारमा᳘घारयति य᳘ᳫं᳘ स्रुवे᳘ण प्र᳘तिक्रामति वा ऽउ᳘त्तर᳘माघा᳘रमाघार्याभि᳘जित्या ऽअभि᳘जयानी᳘ति[[!!]] त᳘स्मादन्यतर᳘मे᳘वाघारमा᳘घारयति य᳘ᳫं᳘ स्रुवेण[[!!]]॥

मूलम् - Weber

अग्नीषो᳘मौ वै᳘ देवा᳘नाᳫं सयु᳘जौ॥
ता᳘भ्याᳫं सार्धं᳘ गृह्णाति वि᳘ष्णव एकाकि᳘ने ऽन्यतर᳘मेॗवाघारमा᳘घारयति य᳘ᳫं᳘ स्रुवे᳘ण प्र᳘तिक्रामति वा उ᳘त्तरमाघार᳘माघा᳘र्याभि᳘जित्या अभि᳘जयानी᳘ति त᳘स्मादन्यतर᳘मेॗवाघारमा᳘घारयति य᳘ᳫं᳘ स्रुवे᳘ण॥

मूलम् - विस्वरम्

अग्नीषोमौ वै देवानां सयुजौ; ताभ्यां सार्द्धं गृह्णाति । विष्णव ऽएकाकिने ऽन्यतरमेवाघारमाघारयन्ति । यं स्रुवेण । प्रतिक्रामति वा ऽउत्तरमाघारमाघार्य । अभिजित्या ऽअभिजयानीति । तस्मादन्यतरमेवाघारमाघारयति यं स्रुवेण ॥ ९ ॥

सायणः

प्रकारान्तरेण जुह्वामष्टौ कृत्वो ग्रहणं प्रशंसति- अग्नीषोमौ वै देवानां सयुजौ, ताभ्यां सार्द्धं गृह्णाति; विष्णव एकाकिन इति । गृह्णातीति शेषः । प्रकृतिवदाघारद्वयप्रसक्तौ स्रुच्यां द्वितीयमाघारं निषेधति- अन्यतरमेवाघारमिति । ‘यं स्रुवेणाघारयति’ तमन्यतरमित्यर्थः । अभिजयसाधनत्वेनान्यतरमाघारं प्रशंसति- प्रतिक्रामति वेति । उत्तराधारानन्तरं प्रतिक्रमणसम्भवात् तस्य चाभिजयरूपत्वात् जेतव्याभिजयाय स्रौचमेवाघारमाघारयेदिति स्तुतिः ॥ ९ ॥

Eggeling
  1. Agni and Soma verily are yoke-fellows among the gods: for these two he takes (ghee) in common 11. For Vishṇu (he takes) singly. He makes only the one libation (āghāra) which (he makes) with the dipping-spoon (sruva) 12. For when he has made

the northern (higher) libation he retires 13: ‘May I conquer for conquest’ so he thinks, and therefore he makes only the one libation, that with the dipping-spoon.

१०

विश्वास-प्रस्तुतिः

(णा) अथाश्रा᳘व्य न हो᳘तारं प्र᳘वृणीते॥
सी᳘द होतरि᳘त्ये᳘वाहो᳘पविशति हो᳘ता होतृष᳘दन ऽउपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावा᳘दत्ते॥

मूलम् - श्रीधरादि

(णा) अथाश्रा᳘व्य न हो᳘तारं प्र᳘वृणीते॥
सी᳘द होतरि᳘त्ये᳘वाहो᳘पविशति हो᳘ता होतृष᳘दन ऽउपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावा᳘दत्ते॥

मूलम् - Weber

अथाश्रा᳘व्य न हो᳘तारम् प्र᳘वृणीते॥
सी᳘द होतरि᳘त्येॗवाहो᳘पविशति हो᳘ता होतृष᳘दन उपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावा᳘दत्ते॥

मूलम् - विस्वरम्

अथाश्राव्य न होतारं प्रवृणीते- सीद होतरित्येवाह । उपविशति होता होतृषदने । उपविश्य प्रसौति । प्रसूतो ऽध्वर्युः स्रुचावादत्ते ॥ १० ॥

सायणः

अथाश्राव्य न होतारं प्रवृणीत इति 14 । अध्वर्युराह- ‘आश्रावय’ इत्युक्त्वा, “अग्निदवो दैव्यो होता” इत्यादि- “असौ मानुषः" इत्यन्तं- न ब्रूयादित्यर्थः- किन्तु ‘सीद होतः’ इत्येव ब्रूयात् । तथा चाश्वलायनः- “ईक्षितः सीद होतरिति वोक्त उपविशेत्”- इति । होता होतृषदन उपविश्य प्रसौतीति । वेदेरुत्तरा श्रोणिर्होतृषदनम् । “घृतवतीमध्वर्यो स्रुचमास्यस्व”- इत्यनुजानीयादित्यर्थः । ‘स्रुचौ’ जुहूपभृतौ ॥ १० ॥

Eggeling
  1. When he has called on the Āgnīdhra) for the Śraushaṭ,– he does not elect the Hotr̥ 15. ‘Seat thee, O Hotr̥!’ he says. The Hotr̥ sits down on the Hotr̥’s seat. Having sat down he urges the Adhvaryu; and he, thus urged, takes the two offering-spoons 16.

११

विश्वास-प्रस्तुतिः

स᳘ आहातिक्रा᳘मन्नग्नये᳘ ऽनुब्रूही᳘ति॥
(त्या) आश्रा᳘व्याहाग्निं᳘ यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

स᳘ आहातिक्रा᳘मन्नग्नये᳘ ऽनुब्रूही᳘ति॥
(त्या) आश्रा᳘व्याहाग्निं᳘ यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

स᳘ आहातिक्रा᳘मन्नग्नये᳘ ऽनुब्रूही᳘ति॥
आश्रा᳘व्याहाग्निं᳘ यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

स आहातिक्रामन्- अग्नये ऽनुब्रूहीति । आश्राव्याह- अग्निं यजेति । वषट्कृते जुहोति ॥ ११ ॥

सायणः

स आहातिक्रामन्नित्यादि 17 । ‘अतिक्रामन्’ आहवनीयस्य दक्षिणभागं प्रतिगन्तुं वेद्यतिक्रमं कुर्वन् “अग्नये ऽनुब्रूहि"- इति होतारम् ‘आह’ । अग्नेर्यागार्थमनुवचनं ब्रूहीत्यर्थः । पुनराश्रावणप्रत्याश्रावणानन्तरम् “अग्निं यज”- ‘इति’ आह । याज्यां पठेति ब्रूयादित्यर्थः । ‘वषट्कृते’ होत्रा “वौषट्” 18- इत्युक्ते ॥ ११ ॥ १२ ॥

Eggeling
  1. While passing over (to the south side of the fire and altar) he says 19 (to the Hotr̥), ‘Recite the invitatory prayer to Agni!’ and having called for the Śraushaṭ, he says, ‘Pronounce the offering prayer to Agni!’ and pours out the oblation when the Vashaṭ is uttered.

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
(त्या) आश्रा᳘व्याह सो᳘मं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
(त्या) आश्रा᳘व्याह सो᳘मं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
आश्रा᳘व्याह सो᳘मं यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथाह- सोमायानुब्रूहीति । आश्राव्याह- सोमं यजेति । वषट्कृते जुहोति ॥ १२॥

सायणः

[व्याख्यानं एकादशे]

Eggeling
  1. Thereupon he says, ‘Recite the invitatory prayer to Soma!’ and having called for the Śraushaṭ, he says, ‘Pronounce the offering prayer to Soma!’ and pours out the oblation when the Vashaṭ is uttered.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दुपभृत्या᳘ज्यं भ᳘वति॥
त᳘त्समान᳘यमान आह व्वि᳘ष्णवे᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याह व्वि᳘ष्णुं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दुपभृत्या᳘ज्यं भ᳘वति॥
त᳘त्समान᳘यमान आह व्वि᳘ष्णवे᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याह व्वि᳘ष्णुं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थ य᳘दुपभृत्या᳘ज्यम् भ᳘वति॥
त᳘त्समान᳘यमान आह वि᳘ष्णवे᳘ ऽनुब्रूही᳘त्याश्रा᳘व्याह वि᳘ष्णुं यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथ यदुपभृत्याज्यं भवति; तत्समानयमान आह- विष्णवे ऽनुब्रूहीति । आश्राव्याह- विष्णुं यजेति । वषट्कृते जुहोति ॥ १३ ॥

सायणः

विष्णोरनुवचनकालमाह- अथ यदुपभृत्याज्यं भवति तत्, समानयमान आह विष्णवे ऽनुब्रूहीतीति (का. श्रौ. सू. ८ । ४९) 17 । ‘समानयमानः’ जुह्वां प्रक्षिपेत् ॥ १३ ॥

Eggeling
  1. Thereupon, while pouring the ghee which is in the upabhr̥t 20, together (with what is left in the guhū), he says, ‘Recite the invitatory prayer to Vishṇu!’ and, having called for the Śraushaṭ, he says, ‘Pronounce the offering prayer to Vishṇu!’

and pours out the oblation when the Vashaṭ is uttered.

१४

विश्वास-प्रस्तुतिः

स य᳘त्समान᳘त्र ति᳘ष्ठञ्जुहो᳘ति॥
न य᳘थेदं᳘ प्रच᳘रन्त्सञ्च᳘रत्यभि᳘जित्या ऽअभि᳘जयानीत्य᳘थ य᳘देता᳘ देव᳘ता य᳘जति व्व᳘ज्रमे᳘वैतत्स᳘ᳫं᳘स्करोत्यग्निम᳘नीकᳫँ᳭ सो᳘मᳫँ᳭ शल्यं वि᳘ष्णुं कु᳘ल्मलम्॥

मूलम् - श्रीधरादि

स य᳘त्समान᳘त्र ति᳘ष्ठञ्जुहो᳘ति॥
न य᳘थेदं᳘ प्रच᳘रन्त्सञ्च᳘रत्यभि᳘जित्या ऽअभि᳘जयानीत्य᳘थ य᳘देता᳘ देव᳘ता य᳘जति व्व᳘ज्रमे᳘वैतत्स᳘ᳫं᳘स्करोत्यग्निम᳘नीकᳫँ᳭ सो᳘मᳫँ᳭ शल्यं वि᳘ष्णुं कु᳘ल्मलम्॥

मूलम् - Weber

स य᳘त्समान᳘त्र ति᳘ष्ठन्जुहो᳘ति॥
न य᳘थेद᳘म् 21 प्रच᳘रन्त्संच᳘रत्यभि᳘जित्या अभि᳘जयानीत्य᳘थ य᳘देता᳘ देव᳘ता य᳘जति व᳘ज्रमेॗवैतत्स᳘ᳫं᳘स्करोत्यग्निम᳘नीकᳫं सो᳘मं शल्पं वि᳘ष्णुं कु᳘ल्मलं॥

मूलम् - विस्वरम्

स यत् समानत्र तिष्ठन् जुहोति । न यथेदं प्रचरन्त्सञ्चरति । अभिजित्या ऽअभिजयानीति । अथ यदेता देवता यजति; वज्रमेवैतत्संस्करोत्यग्निम्- अनीकम्, सोमम् शल्यम्, विष्णुं कुल्मलम् ॥ १४ ॥

सायणः

स यत् समानत्र तिष्ठन् जुहोतीति । ‘अत्र’ एकस्मिन्नेवाहवनीयदक्षिणदेशे । न यथेदं प्रचरन् सञ्चरतीति । दर्शपूर्णमासेष्ट्यां ‘यथेदं’ येन मार्गेण गतः तेनैव पुनरपि हविरवदानाय गच्छति, तथा ऽत्र न कर्तव्यमित्यर्थः । तथाविधे एकत्रैव होमः ‘अभिजित्यै’ भवति । अतः ‘अभिजयानि’- इति एकत्रैव तिष्ठन् जुहुयात् । प्रकृतिवत् प्रतियागमाक्रमणप्रत्याक्रमणे न कार्ये; अपि तु सकृदेवातिक्रम्य त्रीन् यागान् कुर्यादिति तात्पर्यार्थः 17 । अग्न्यादियागत्रयं प्रशंसति- अथ यदेता इति । कथमेतासां यागेन यज्ञः संस्कृतो भवतीति तद्विभज्य दर्शयति-अग्निमनीकमित्यादिना । ‘अनीकम्’ वज्रस्य मुखप्रदेशः ‘शल्यं’ तत्पूर्वो भागः ‘कुल्मलम्’ तत्पुच्छभागः (तै. सं. ६ । २ । ३ । १ । ऐ. ब्रा. १ । ४ । ८) ॥ १४ ॥

Eggeling
  1. The reason why in offering he remains standing in one and the same place, and does not move about as he is wont to do here in performing, is that he thinks ‘I will conquer for conquest 22!’ And the reason why he offers to those deities is that he thereby constructs the thunderbolt: Agni (he makes) the point (anīka), Soma the barb (śalya), and Vishṇu the connecting piece (kulmala) 23.

१५

विश्वास-प्रस्तुतिः

(ᳫँ᳭) संव्वत्सरो हि व्व᳘ज्रः॥
(ज्रो ऽग्नि) अग्निर्वा ऽअ᳘हः सो᳘मो रा᳘त्रिर᳘थ यद᳘न्तरेण तद्वि᳘ष्णुरेतद्वै᳘ परिप्ल᳘वमानᳫं᳭ संव्वत्सरं᳘ करोति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) संव्वत्सरो हि व्व᳘ज्रः॥
(ज्रो ऽग्नि) अग्निर्वा ऽअ᳘हः सो᳘मो रा᳘त्रिर᳘थ यद᳘न्तरेण तद्वि᳘ष्णुरेतद्वै᳘ परिप्ल᳘वमानᳫं᳭ संव्वत्सरं᳘ करोति॥

मूलम् - Weber

संवत्सरो हि व᳘ज्रः॥
अग्निर्वा अ᳘हः सो᳘मो रा᳘त्रिर᳘थ यद᳘न्तरेण तद्वि᳘ष्णुरेतद्वै᳘ परिप्ल᳘वमानᳫं संवत्सरं᳘ करोति॥

मूलम् - विस्वरम्

संवत्सरो हि वज्रः, अग्निर्वा ऽअहः, सोमो रात्रिः । अथ यदन्तरेण; तद् विष्णुः । एतद्वै परिप्लवमानं संवत्सरं करोति ॥ १५ ॥

सायणः

उक्तं वज्रत्वं संवत्सरतयोपपाद्य प्रशंसति- संवत्सरो हि वज्रो ऽग्निर्वा अहः सोमो रात्रिरथ यदन्तरेण तद् विष्णुरिति । अहो रात्रेश्च यो ऽन्तरालः कालः, स विष्णुरित्यर्थः । पूर्वोत्तरोभयकालव्यापित्वादिति भावः । ‘एतत्’ त्रयं ‘परिप्लवमानं’ पुनःपुनरावर्तमानं ‘संवत्सरं’ निष्पादयति ॥ १५ ॥

Eggeling
  1. For the thunderbolt is the year the day is Agni, the night Soma, and what is between the two, that is Vishṇu. Thus he makes the revolving year.

१६

विश्वास-प्रस्तुतिः

संवत्सरो व्व᳘ज्रः॥
(ऽ) एते᳘न वै᳘ देवाः᳘ संव्वत्सरे᳘ण व्व᳘ज्रेण पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्रा᳘जयंस्त᳘थो ऽए᳘वैष᳘ एते᳘न संव्वत्सरे᳘ण व्व᳘ज्रेणेमाल्ँ᳘लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति त᳘स्मादेता᳘ देव᳘ता यजति॥

मूलम् - श्रीधरादि

संवत्सरो व्व᳘ज्रः॥
(ऽ) एते᳘न वै᳘ देवाः᳘ संव्वत्सरे᳘ण व्व᳘ज्रेण पु᳘रः प्रा᳘भिन्दन्निमाल्ँ᳘लोकान्प्रा᳘जयंस्त᳘थो ऽए᳘वैष᳘ एते᳘न संव्वत्सरे᳘ण व्व᳘ज्रेणेमाल्ँ᳘लोका᳘न्प्रभिन᳘त्तीमाल्ँ᳘लोकान्प्र᳘जयति त᳘स्मादेता᳘ देव᳘ता यजति॥

मूलम् - Weber

संवत्सरो व᳘ज्रः॥
एते᳘न वै᳘ देवाः᳘ संवत्सरे᳘ण व᳘ज्रेण पु᳘रः प्रा᳘भिन्दन्निमां᳘लोकान्प्रा᳘जयंस्त᳘थो एॗवैष᳘ एते᳘न संवत्सरे᳘ण व᳘ज्रेणेमां᳘लोका᳘न्प्रभिन᳘त्तीमां᳘लोकान्प्र᳘जयति त᳘स्मादेता᳘ देव᳘ता यजति॥

मूलम् - विस्वरम्

संवत्सरो वज्रः । एतेन वै देवाः संवत्सरेण वज्रेण पुरः प्राभिन्दन्, इमाल्ँ लोकान्प्राजयन् । तथो एवैष एतेन संवत्सरेण वज्रेणेमाल्ँ लोकान् प्रभिनत्ति, इमाल्ँ लोकान्प्रजयति । तस्मादेता देवता यजति ॥ १६ ॥

सायणः

संवत्सरो वज्र इति । स च ‘संवत्सरः’ ‘वज्रः’; वज्ररूपाग्न्यादित्रयावृत्तिरूपत्वात् । तस्मादेता देवता यजतीति । उपसंहारः ॥ १६ ॥

Eggeling
  1. The thunderbolt is the year: by that year, as a thunderbolt, the gods clove the strongholds and conquered these worlds. And so does he now by that year, as a thunderbolt, cleave these worlds, and conquer these worlds. This is why he offers to those gods.

१७

विश्वास-प्रस्तुतिः

स वै᳘ तिस्र᳘ ऽउपस᳘द ऽउ᳘पेयात्॥
(त्त्र᳘) त्र᳘यो वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫं᳘स्करोति द्विरे᳘कया प्रच᳘रति द्विरेकया[[!!]]॥

मूलम् - श्रीधरादि

स वै᳘ तिस्र᳘ ऽउपस᳘द ऽउ᳘पेयात्॥
(त्त्र᳘) त्र᳘यो वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫं᳘स्करोति द्विरे᳘कया प्रच᳘रति द्विरेकया[[!!]]॥

मूलम् - Weber

स वै᳘ तिस्र᳘ उपस᳘द उ᳘पेयात्॥
त्र᳘यो वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सर᳘स्यैॗवैत᳘द्रूपं᳘ क्रिय᳘ते संवत्सर᳘मेॗवैतत्स᳘ᳫं᳘स्करोति द्विरे᳘कया प्रच᳘रति द्विरे᳘कया॥

मूलम् - विस्वरम्

स वै तिस्र उपसद उपेयात् । त्रयो वा ऽऋतवः संवत्सरस्य, संवत्सरस्यैवैतद्रूपं क्रियते । संवत्सरमेवैतत्संस्करोति । द्विरेकया प्रचरति द्विरेकया ॥ १७ ॥

सायणः

उपसदां त्रित्वं विधाय प्रशंसति- स वै तिस्र उपसद उपेयात् त्रयो वा ऋतव इत्यादिना 24द्विरेकया प्रचरतीति 25 । आग्नेयादियागत्रयस्य व्यापकोपसत्तया एकस्मिन्नह्नि ‘द्विः प्रचरति’ अनुतिष्ठेत् । तथाविधानुष्ठानस्य दिनत्रयकर्तव्यता वीप्सयोच्यते ॥ १७ ॥

Eggeling
  1. Let him undertake three Upasads; for, there being three seasons in the year, it is thereby made of the form of the year: he thus makes up the year. He performs twice each.

१८

विश्वास-प्रस्तुतिः

ताः षट् स᳘म्पद्यन्ते॥
षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫं᳘स्करोति॥

मूलम् - श्रीधरादि

ताः षट् स᳘म्पद्यन्ते॥
षड्वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫं᳘स्करोति॥

मूलम् - Weber

ताः षट्स᳘म्पद्यन्ते॥
षड्वा᳘ ऋत᳘वः संवत्सर᳘स्य संवत्सर᳘स्यैॗवैत᳘द्रूपं᳘ क्रिय᳘ते संवत्सर᳘मेॗवैतत्स᳘ᳫं᳘स्करोति॥

मूलम् - विस्वरम्

ताः षट् सम्पद्यन्ते । षड् वा ऽऋतवः संवत्सरस्य; संवत्सरस्यैवैतद्रूपं क्रियते । संवत्सरमेवैतत्संस्करोति ॥ १८ ॥

सायणः

दिनत्रये ऽपि द्विर्द्विरनुष्ठानं प्रशंसति- ताः षट् सम्पद्यन्त (तै. सं ६ । २ । ३ । ४) इत्यादिना ॥ १८ ॥

Eggeling
  1. These amount to six; for, there being six seasons in the year, it is thereby made of the form of the year: he thus makes up the year.

१९

विश्वास-प्रस्तुतिः

य᳘द्यु द्वा᳘दशोपस᳘द ऽउपेयाद्[[!!]]॥
(द्द्वा᳘) द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫं᳘स्करोति द्विरे᳘कया प्रच᳘रति द्विरे᳘कया॥

मूलम् - श्रीधरादि

य᳘द्यु द्वा᳘दशोपस᳘द ऽउपेयाद्[[!!]]॥
(द्द्वा᳘) द्वा᳘दश वै मा᳘साः संव्वत्सर᳘स्य संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫं᳘स्करोति द्विरे᳘कया प्रच᳘रति द्विरे᳘कया॥

मूलम् - Weber

य᳘द्यु द्वा᳘दशोपस᳘द उपेया᳘त्॥
द्वा᳘दश वै मा᳘साः संवत्सर᳘स्य संवत्सर᳘स्यैॗवैत᳘द्रूपं᳘ क्रिय᳘ते संवत्सर᳘मेॗवैतत्स᳘ᳫं᳘स्करोति द्विरे᳘कया प्रच᳘रति द्विरे᳘कया॥

मूलम् - विस्वरम्

यद्यु द्वादशोपसद उपेयात् । द्वादश वै मासाः संवत्सरस्य; संवत्सरस्यैवैतद्रूपं क्रियते । संवत्सरमेवैतत्संस्करोति । द्विरेकया प्रचरति । द्विरेकया ॥ १९ ॥

सायणः

त्रित्वपक्षवदुपसद्द्वादशत्वपक्षमपि विकल्पयति- यद्यु द्वादशोपसद इति । अस्मिन्नपि पक्षे प्रतिदिनमुपसदोर्द्विर्द्विरनुष्ठानं विधत्ते- द्विरेकया प्रचरति द्विरेकयेति । वीप्सा पूर्ववत् ॥ १९ ॥

Eggeling
  1. And should he undertake twelve Upasads,–there being twelve months in the year, it is thereby made of the form of the year: he thus makes up the year. He performs twice each.

२०

विश्वास-प्रस्तुतिः

ताश्च᳘तुर्विᳫँ᳭शतिः स᳘म्पद्यन्ते॥
च᳘तुर्विᳫँ᳭शतिर्वै संव्वत्सर᳘स्यार्द्धमासाः᳘ संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫँ᳘स्करोति॥

मूलम् - श्रीधरादि

ताश्च᳘तुर्विᳫँ᳭शतिः स᳘म्पद्यन्ते॥
च᳘तुर्विᳫँ᳭शतिर्वै संव्वत्सर᳘स्यार्द्धमासाः᳘ संव्वत्सर᳘स्यै᳘वैत᳘द्रूपं᳘ क्रिय᳘ते संव्वत्सर᳘मे᳘वैतत्स᳘ᳫँ᳘स्करोति॥

मूलम् - Weber

ताश्च᳘तुर्विंशतिः स᳘म्पद्यन्ते॥
च᳘तुर्विंशतिर्वै᳘ संवत्सर᳘स्यार्धमासाः संवत्सर᳘स्यैॗवैत᳘द्रूपं᳘ क्रिय᳘ते संवत्सर᳘मेॗवैतत्स᳘ᳫं᳘स्करोति॥

मूलम् - विस्वरम्

ताश्चतुर्विंशतिः सम्पद्यन्ते । चतुर्विंशतिर्वै संवत्सरस्यार्द्धमासाः; संवत्सरस्यैवैतद्रूपं क्रियते । संवत्सरमेवैतत्संस्करोति ॥ २० ॥

सायणः

‘द्विरेकया’ इत्युक्तं द्विरनुष्ठानमनूद्य शत्रुजयसम्पत्त्यानुकूल्यात्मना प्रशंसति- ताश्चतुर्विंशतिरित्यादिना ॥ २० ॥

Eggeling
  1. These amount to twenty-four;–there being twenty-four half-moons in the year, it is thereby made of the form of the year: he thus makes up the year.

२१

विश्वास-प्रस्तुतिः

स य᳘त्साय᳘म्प्रातः प्रच᳘रति॥
त᳘था᳘ ह्येव᳘ सम्प᳘त्सम्प᳘द्यते स य᳘त्पूर्वाह्णे᳘ प्रच᳘रति त᳘ज्जयत्य᳘थ य᳘दपराह्णे᳘ प्रच᳘रति सु᳘जितमसदित्य᳘थ य᳘ज्जुहो᳘तीदं वै पु᳘रं युद्ध्यन्ति तां᳘ जित्वा स्वा᳘ᳫं᳘ सतीं प्र᳘पद्यन्ते॥

मूलम् - श्रीधरादि

स य᳘त्साय᳘म्प्रातः प्रच᳘रति॥
त᳘था᳘ ह्येव᳘ सम्प᳘त्सम्प᳘द्यते स य᳘त्पूर्वाह्णे᳘ प्रच᳘रति त᳘ज्जयत्य᳘थ य᳘दपराह्णे᳘ प्रच᳘रति सु᳘जितमसदित्य᳘थ य᳘ज्जुहो᳘तीदं वै पु᳘रं युद्ध्यन्ति तां᳘ जित्वा स्वा᳘ᳫं᳘ सतीं प्र᳘पद्यन्ते॥

मूलम् - Weber

स य᳘त्साय᳘म्प्रातः प्रच᳘रति॥
त᳘थाॗ ह्येव᳘ सम्प᳘त्सम्प᳘द्यते स य᳘त्पूर्वाह्णे᳘ प्रच᳘रति त᳘ज्जयत्य᳘थ य᳘दपराह्णे᳘ प्रच᳘रति सु᳘जितमसदित्य᳘थ य᳘ज्जुहो᳘तीदं वै पु᳘रं युद्यन्ति तां᳘ जित्वा स्वा᳘ᳫं᳘ सतीं प्र᳘पद्यन्ते॥

मूलम् - विस्वरम्

स यत् सायम्प्रातः प्रचरति; तथा ह्येव सम्पत्सम्पद्यते । स यत् पूर्वाह्णे प्रचरति; तज्जयति । अथ यदपराह्णे प्रचरति सुजितमसदिति । अथ यज्जुहोति । इदं वै पुरं युद्ध्यन्ति; तां जित्वा स्वां सतीं प्रपद्यन्ते ॥ २१ ॥

सायणः

स यत् सायंप्रातरिति । सम्पत्तिसाम्यं विभज्य दर्शयति- स यत् पूर्वाह्णे प्रचरतीति । पूर्वाह्णप्रचारः शत्रुजयमात्ररूपः, अपराह्णप्रचारस्तु साकल्येन जयात्मक इत्यर्थः । आग्नेयादियागत्रयवद्दर्विहोमरूपं कश्चिदुपसद्धोमं विधत्ते- अथ यज्जुहोतति । अत्रपूर्वार्थत्वाद् यच्छब्दतिरस्कारेण विधिरभ्युपगन्तव्यः । विहितमुपसद्धोमं पूर्वयागैर्जितस्य स्वाधीनीकरणात्मना प्रशंसति- इदं वै पुरं युद्ध्यन्ति तां जित्वा स्वां सतीं प्रपद्यन्त इति । इदं हि लोके दृश्यत इति शेषः । जेतारः प्रथमं पुरं युद्ध्यन्ति, भिन्दन्ति, पश्चात् तां जयन्ति, सुविजितां च पुनः ‘स्वाम्’ आत्मीयां प्रपद्यन्त इति ॥ २१ ॥

Eggeling
  1. As to his performing in the evening and in the morning,–it is because only thus completeness is obtained. When he performs in the forenoon, then he gains the victory;–and when he performs in the afternoon, he does so that it may be a good (complete) victory;–and when he offers the Homa, (it is as if) people fight here for a stronghold, and having conquered it, they enter it as their own.

२२

विश्वास-प्रस्तुतिः

स य᳘त्प्रच᳘रति॥ त᳘द्युध्यत्य᳘थ य᳘त्सन्ति᳘ष्ठते त᳘ज्जयत्य᳘थ य᳘ज्जुहो᳘ति स्वा᳘मे᳘वैत᳘त्सतीं प्र᳘पद्यते॥

मूलम् - श्रीधरादि

स य᳘त्प्रच᳘रति॥ त᳘द्युध्यत्य᳘थ य᳘त्सन्ति᳘ष्ठते त᳘ज्जयत्य᳘थ य᳘ज्जुहो᳘ति स्वा᳘मे᳘वैत᳘त्सतीं प्र᳘पद्यते॥

मूलम् - Weber

स य᳘त्प्रच᳘रति त᳘द्युध्यत्य᳘थ य᳘त्संति᳘ष्ठते त᳘ज्जयत्य᳘थय᳘ज्जुहो᳘ति स्वा᳘मेॗवैत᳘त्सतीम् प्र᳘पद्यते॥

मूलम् - विस्वरम्

स यत् प्रचरति तद्युध्यति । अथ यत् सन्तिष्ठते । तज्जयति । अथ यज्जुहोति स्वामेवैतत् सतीं प्रपद्यते ॥ २२ ॥

सायणः

लोकप्रकारं प्रकृतकर्मणि विभज्य दर्शयति- स यत् प्रचरतीति । ‘प्रचारः’ आनुपूर्व्येण समाप्तिपर्यन्तो यागत्रयप्रयोगः स एव युद्धस्थानीयः । कृत्स्नसमापनं, तज्जयस्थानीयम् । यो ऽयमुपसद्धोमः, स जितस्य स्वाधीनत्वसम्पादनात्मकः ॥ २२ ॥

Eggeling
  1. When he performs (the upasads), he fights; and when (the performance) is completed, he conquers; and when he offers the Homa 26, he enters that (stronghold) now his own.

२३

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः प्रचरिष्यन्भ᳘वति या᳘ ते ऽअग्ने ऽयःशया᳘ तनूर्व्व᳘र्षिष्ठा गह्वरेष्ठा[[!!]]॥ उग्रं व्व᳘चो अ᳘पावधीत्त्वेषं व्व᳘चो अ᳘पावधीत्स्वाहे᳘त्येव᳘ᳫँ᳘रूपा हि सा᳘ ऽऽसीदयस्म᳘यी हि सा᳘ ऽऽसीत्॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः प्रचरिष्यन्भ᳘वति या᳘ ते ऽअग्ने ऽयःशया᳘ तनूर्व्व᳘र्षिष्ठा गह्वरेष्ठा[[!!]]॥ उग्रं व्व᳘चो अ᳘पावधीत्त्वेषं व्व᳘चो अ᳘पावधीत्स्वाहे᳘त्येव᳘ᳫँ᳘रूपा हि सा᳘ ऽऽसीदयस्म᳘यी हि सा᳘ ऽऽसीत्॥

मूलम् - Weber

स᳘ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः प्रचरिष्यन्भ᳘वति या᳘ ते अग्ने ऽयःशया᳘ तनूर्व᳘र्षिष्ठा गह्वरेष्ठा᳘ 27 उग्रं व᳘चो अ᳘पावधीत्त्वेषं व᳘चो अ᳘पावधीत्स्वाहे᳘त्येवं᳘रूपा हि सा᳘सीदयस्म᳘यी हि सा᳘सीत्॥

मूलम् - विस्वरम्

स जुहोति यया द्विरेकस्याह्नः प्रचरिष्यन्भवति । “या ते ऽअग्ने ऽयःशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽअपावधीत्त्वेषं वचो अपावधीत् स्वाहा”- (वा. सं. ५ । ८) इति । एवंरूपा हि सा ऽऽसीद्; अयस्मयी हि सा ऽऽसीत् ॥ २३ ॥

सायणः

प्रथमदिनोपसद्धोमे मन्त्रं विधातुमाह- स जुहोति यया द्विरेकस्याह्नः प्रचरिष्यन्भवतीति 28 । उक्तानुसङ्कीर्तनमुपसद्यागवदुपसद्धोमो ऽपि एकस्मिन्नहनि द्विः कर्तव्य इति ज्ञापनार्थन् । मन्त्रस्यायमर्थः । हे अग्ने ! ‘ते’ तव या ‘तनूः’ ‘अयःशया’ अयसि शेते इत्ययःशया अयोरूपेत्यर्थः । ‘वर्षिष्ठा’ ‘उरुतरा’ ‘गह्वरेष्ठा’ गह्वरे परैरनिर्गम्ये स्थाने वर्तमाना अस्ति, सा तनूः मम ‘उग्रं’ ‘त्वेषं’ ‘वचः’ ‘अपावधीत्’ । उग्रत्वेषयोरर्थस्तैत्तिरीयके स्पष्टमाम्नातः- “अशनायापिपासे ह वा उग्रं वचः, एनश्च वैरहत्यञ्च त्वेषं वचः”- (तै. सं. १ । २ । ११ सायणभाष्ये) इति मन्त्रे यादृग्रूपा तनूर्निर्दिष्टा, सा न स्तुत्यर्थेत्याह- एवंरूपा हि सा ऽऽसीदिति ॥ २३॥

Eggeling
  1. He offers it (with the verse) with which he

will have to perform twice in one day 29 (Vāj. S. V, 8), ‘What most excellent iron-clad body is thine, O Agni, established in the deep, it hath chased away the cruel word, it hath chased away the fearful word; Hail!’ for such-like it was, it was indeed iron.

२४

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः प्रचरिष्यन्भ᳘वति या᳘ ते ऽअग्ने रजःशया᳘ तनूर्व्व᳘र्षिष्ठा गह्वरेष्ठा[[!!]]॥ उग्रं व्व᳘चो ऽअ᳘पावधीत्त्वेषं व्व᳘चो ऽअ᳘पावधीत्स्वाहे᳘त्येव᳘ᳫँ᳘रूपा हि सा᳘ ऽऽसीद्रजता हि सा᳘ ऽऽसीत्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः प्रचरिष्यन्भ᳘वति या᳘ ते ऽअग्ने रजःशया᳘ तनूर्व्व᳘र्षिष्ठा गह्वरेष्ठा[[!!]]॥ उग्रं व्व᳘चो ऽअ᳘पावधीत्त्वेषं व्व᳘चो ऽअ᳘पावधीत्स्वाहे᳘त्येव᳘ᳫँ᳘रूपा हि सा᳘ ऽऽसीद्रजता हि सा᳘ ऽऽसीत्॥

मूलम् - Weber

अ᳘थ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः प्रचरिष्यन्भ᳘वति या᳘ ते अग्ने रजःशया᳘ तनूर्व᳘र्षिष्ठा गह्वरेष्ठा᳘ 30 उग्रं व᳘चो अ᳘पावधीत्त्वेषं व᳘चो अ᳘पावधीत्स्वाहे᳘त्येवं᳘रूपा हि सा᳘सीद्रजता हि सा᳘सीत्॥

मूलम् - विस्वरम्

अथ जुहोति । यया द्विरेकस्याह्नः प्रचरिष्यन् भवति । “या ते ऽअग्ने रजःशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽअपावधीत्त्वेषं वचो ऽअपावधीत् स्वाहा”- (वा. सं. ५ । ८) इति । एवंरूपा हि सा ऽऽसीद् रजता हि सा ऽऽसीत् ॥ २४ ॥

सायणः

एवं द्वितीयतृतीयोपसन्मन्त्रावपि व्याख्येयौ ॥ २४ ॥

Eggeling
  1. Again he offers (with the verse) with which he will have to perform twice in one day, ‘What most excellent silver-clad body is thine, O Agni, established in the deep, it hath chased away the cruel word, it hath chased away the fearful word; Hail!’ for such-like it was, it was indeed silver.

२५

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः[[!!]] प्रचरिष्यन्भ᳘वति या᳘ ते ऽअग्ने हरिशया᳘ तनूर्व्व᳘र्षिष्ठा गह्वरेष्ठा। उग्रं व्व᳘चो ऽअ᳘पावधीत्त्वेषं व्व᳘चो ऽअ᳘पावधीत्स्वाहे᳘त्येव᳘ᳫँ᳘रूपा हि सा᳘ ऽऽसीद्ध᳘रिणी हि सा᳘ ऽऽसीद्य᳘द्यु द्वा᳘दशोपस᳘द ऽउपेया᳘च्चतुरहमे᳘कया प्रच᳘रेच्चतुरहमे᳘कया॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ जुहोति॥
य᳘या द्विरे᳘कस्या᳘ह्नः[[!!]] प्रचरिष्यन्भ᳘वति या᳘ ते ऽअग्ने हरिशया᳘ तनूर्व्व᳘र्षिष्ठा गह्वरेष्ठा। उग्रं व्व᳘चो ऽअ᳘पावधीत्त्वेषं व्व᳘चो ऽअ᳘पावधीत्स्वाहे᳘त्येव᳘ᳫँ᳘रूपा हि सा᳘ ऽऽसीद्ध᳘रिणी हि सा᳘ ऽऽसीद्य᳘द्यु द्वा᳘दशोपस᳘द ऽउपेया᳘च्चतुरहमे᳘कया प्रच᳘रेच्चतुरहमे᳘कया॥

मूलम् - Weber

अ᳘थ जुहोति॥
य᳘याद्वि᳘रेकस्या᳘ह्नः प्रचरिष्यन्भ᳘वति या᳘ ते अग्ने हरिशया᳘ तनूर्व᳘र्षिष्ठा उग्रं व᳘चो अ᳘पावधीत्त्वेषं व᳘चो अ᳘पावधीत्स्वाहे᳘त्येवं᳘रूपा हि सा᳘सीद्ध᳘रिणी हि सा᳘सीद्य᳘द्यु द्वा᳘दशोपस᳘द उपेया᳘च्चतुरहमे᳘कया प्रच᳘रेच्चतुरहमे᳘कया॥

मूलम् - विस्वरम्

अथ जुहोति यया द्विरेकस्याह्नः प्रचरिष्यन्भवति । “या ते ऽअग्ने हरिशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो ऽअपावधीत्त्वेषं वचो ऽअपावधीत् स्वाहा”- (वा. सं. ५ । ८) इति । एवंरूपा हि सा ऽऽसीद् हरिणी हि सा ऽऽसीद् । यद्यु द्वादशोपसद उपेयात्; चतुरहमेकया प्रचरेच्चतुरहमेकया ॥ २५ ॥

सायणः

एवमुपसन्नयस्य मन्त्रान् निर्दिश्य, द्वादशोपसत्पक्षे न्यायसिद्धमर्थं ब्राह्मणं स्वयमेव विस्पष्टं दर्शयति- यद्यु द्वादशोपसद उपेयाच्चतुरहमेकया प्रचरेच्चतुरहमेकयेति । अयःशयेत्येतन्मन्त्रसाध्या एकोपसद् तादृशीं चतुर्ष्वहस्सु आवर्तयेत् । पुनश्च द्वितीयमन्त्रसाध्यया ऽपि चतुर्दिनमावर्तयेत् । तृतीयया ऽप्येवम् । एवं द्वादश सम्पाद्याः । को ऽर्थ उक्तो भवति ? अयःशयादीनां त्रयाणां मन्त्राणां मध्ये एकैकस्य मन्त्रस्यककोपसदं गत्वा चतुर्षु दिनेषु प्रथमं “या ते अग्ने ऽयःशया”- इति मन्त्रमावर्तयेत्, पुनः पञ्चमादिषु चतुर्षु दिनेषु रजःशयेति मन्त्रमावर्तयेत्, ततो नवमादिषु चतुर्षु दिनेषु हरिशयेति मन्त्रमावर्तयेदित्यर्थः 31 ॥ २५ ॥

Eggeling
  1. And again he offers (with the verse) with which he will have to perform twice in one day, ‘What most excellent gold-clad body is thine, O Agni, established in the deep, it hath chased away the cruel word, it hath chased away the fearful word; Hail!’ for such-like it was, it was indeed golden. If he undertakes twelve Upasads, let him perform each of them for four days.

२६

विश्वास-प्रस्तुतिः

(या ऽथा᳘) अथा᳘तो व्व्रतोपस᳘दामेव᳘॥
पर᳘उर्वीर्व्वा᳘ अन्या᳘ ऽउपस᳘दः प᳘रो ऽह्वीरन्याः स या᳘सामे᳘क प्रथमाहं दोग्ध्य᳘थ द्वाव᳘थ त्रींस्ताः᳘ पर᳘उर्वीर᳘थ या᳘सां त्री᳘न्प्रथमाहं दोग्ध्य᳘थ द्वावथै᳘कं ताः᳘ प᳘रो ऽह्वीर्या वै᳘ प᳘रो ऽह्वीस्ताः᳘ पर᳘उर्व्वीर्याः᳘ पर᳘उर्व्वीस्ताः᳘ प᳘रो ऽह्वीः॥

मूलम् - श्रीधरादि

(या ऽथा᳘) अथा᳘तो व्व्रतोपस᳘दामेव᳘॥
पर᳘उर्वीर्व्वा᳘ अन्या᳘ ऽउपस᳘दः प᳘रो ऽह्वीरन्याः स या᳘सामे᳘क प्रथमाहं दोग्ध्य᳘थ द्वाव᳘थ त्रींस्ताः᳘ पर᳘उर्वीर᳘थ या᳘सां त्री᳘न्प्रथमाहं दोग्ध्य᳘थ द्वावथै᳘कं ताः᳘ प᳘रो ऽह्वीर्या वै᳘ प᳘रो ऽह्वीस्ताः᳘ पर᳘उर्व्वीर्याः᳘ पर᳘उर्व्वीस्ताः᳘ प᳘रो ऽह्वीः॥

मूलम् - Weber

अथा᳘तो व्रतोपस᳘दामेव॥
पर᳘उर्वीर्वा᳘ अन्या᳘ उपस᳘दः पॗरो ऽह्वीरन्याः स या᳘सामे᳘कम् प्रथमाहं दोग्ध्य᳘थ द्वाव᳘थ त्रींस्ताः᳘ पर᳘उर्वीरथ या᳘सां त्री᳘न्प्रथमाहं दोग्ध्य᳘थ द्वावथै᳘कं ताः᳘ पॗरो ऽह्वीर्या वै᳘ पॗरो ऽह्वीस्ताः᳘ पर᳘उर्वीर्याः᳘ पर᳘उर्वीस्ताः᳘ पॗरो ऽह्वीः॥

मूलम् - विस्वरम्

अथातो व्रतोपसदामेव- परउर्वीर्वा अन्या उपसदः । परो ऽह्वीरन्याः । स यासामेकं प्रथमाहं दोग्धि । अथ द्वौ । अथ त्रीन्; ताः परउर्वीः । अथ यासां त्रीन् प्रथमाहं दोग्धि । अथ द्वौ । अथैकम्; ताः परो ऽह्वीः । या वै परो ऽह्वीस्ताः परउर्वीः । याः परउर्वीस्ताः परो ऽह्वीः ॥ २६ ॥

सायणः

अथातो व्रतोपसदामेवेत्यादि । यासूपसत्सु यजमानो व्रतयति पयः, ताः ‘व्रतोपसदः’ तासां मीमांसा क्रियत हत्यर्थः । ‘परउर्वीः’ उपर्युपरि एकद्यादिस्तनवृद्ध्या व्रतवृद्धिर्यास्वस्ति ताः ‘परउर्व्यः’ उपसदः । ‘ताः’ केचनानुष्ठातारो ऽनुतिष्ठन्तीति शेषः । उक्तवैपरीत्ययुक्ताः ‘परो ऽह्व्यः’ उपर्युपरि ह्वसीयस्य इत्यर्थः 31 । ‘ताः’ केचनानुष्ठातारो ऽनुतिष्ठन्तीति । तद् द्विविधानामप्युपसदां स्वरूपतो विचार्य्यमाणे पर्यवसानस्यैकरूप्यान्न वस्तुतो भेदो ऽस्ति ॥ २६ ॥

Eggeling
  1. Now then of the fast-homages. Some Upasads get wider and wider, others narrower and narrower: those at which he milks out one (teat) 32 on the first day, then two, and then three, are those that get wider and wider; and those at which he

milks out three on the first day, then two, and then one, are those that get narrower and narrower. Those getting narrower and narrower are (as good as) those getting wider and wider; and those getting wider and wider are (as good as) those getting narrower and narrower.

२७

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘पसा वै᳘ लोकं᳘ जयन्ति॥
त᳘दस्यैत᳘त्परः᳘पर एव व्व᳘रीयस्त᳘पो भवति परः᳘परः श्रे᳘याᳫँ᳭सं लोकं᳘ जयति व्व᳘सीयानु है᳘वास्मिल्ँ᳘लोके᳘ भवति य᳘ एवं विद्वा᳘न्प᳘रो ऽह्वीरुपस᳘द ऽउपै᳘ति त᳘स्मादु प᳘रो ऽह्वीरे᳘वोपस᳘द ऽउ᳘पेयाद्य᳘द्यु द्वा᳘दशोपस᳘द ऽउपेयात्त्रीं᳘श्चतुरहं᳘ दोह᳘येद्द्वौ᳘ चतुरहमे᳘कं चतुरहम्[[!!]]॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘पसा वै᳘ लोकं᳘ जयन्ति॥
त᳘दस्यैत᳘त्परः᳘पर एव व्व᳘रीयस्त᳘पो भवति परः᳘परः श्रे᳘याᳫँ᳭सं लोकं᳘ जयति व्व᳘सीयानु है᳘वास्मिल्ँ᳘लोके᳘ भवति य᳘ एवं विद्वा᳘न्प᳘रो ऽह्वीरुपस᳘द ऽउपै᳘ति त᳘स्मादु प᳘रो ऽह्वीरे᳘वोपस᳘द ऽउ᳘पेयाद्य᳘द्यु द्वा᳘दशोपस᳘द ऽउपेयात्त्रीं᳘श्चतुरहं᳘ दोह᳘येद्द्वौ᳘ चतुरहमे᳘कं चतुरहम्[[!!]]॥

मूलम् - Weber

त᳘पसा वै᳘ लोकं᳘ जयन्ति॥
त᳘दस्यैत᳘त्परः᳘ पर एव व᳘रीयस्त᳘पो भवति परः᳘परः श्रे᳘यांसं लोकं᳘ जयति व᳘सीयानु हैॗवास्मिं᳘लोके᳘ भवति य᳘ एवं विद्वा᳘न्पॗरो ऽह्वीरुपस᳘द उपै᳘ति त᳘स्मादु पॗरो ऽह्वीरेॗवोपस᳘द उ᳘पेयाद्य᳘द्यु द्वा᳘दशोपस᳘द उपेयात्त्रीं᳘श्चतुरहं᳘ दोह᳘येद्द्वौ᳘ चतुरहमे᳘कं चतुरह᳘म्॥

मूलम् - विस्वरम्

तपसा वै लोकं जयन्ति; तद् अस्यैतत् परः- पर एव वरीयस्तपो भवति । परःपरः श्रेयांसल्ँ लोकं जयति । वसीयानु हैवास्मिल्ँ लोके भवति; य एवं विद्वान् परो ऽह्वीरूपसद उपैति । तस्मादु परो ऽह्वीरेवोपसद उपेयाद् । यद्यु द्वादशोपसद उपेयात्; त्रींश्चतुरहं दोहयेद् । द्वौ चतुरहम् । एकं चतुरहम् ॥ २७ ॥

सायणः

अथापि परो ऽह्वीरेवोपेयात्, कस्माद्धेतोरिति तत्राह- तपसा वै लोकं जयन्तीति । परो ऽह्वीषु उपर्युपरि स्तनह्रासेन पयोह्रासात् तयोर्वृद्धिरुपर्युपरि भवति, तथा लोकमप्युपर्युपरि जयति तथा परउर्वीपक्षे स्तनबाहुल्यसम्भवेन शरीरक्षयाभावाच्चिरकालं भूलोके ‘वसीयानेव’ वसुमत्तर एव ‘भवति’ 33 । द्वादशोपसत्पक्षो व्रतप्रकारः कथमिति, तत्राह- यद्यु द्वादशेति 34 । प्रथमं ‘चतुरहं’ प्रथमेषु चतुर्षु दिनेषु प्रतिदिनं ‘त्रींस्त्रीन्’ स्तनान् ‘दोहयेत्’ द्वितीये चतुरहे ‘द्वौ-द्वौ’ तृतीये च ‘एकैकम्’ (तै. सं. ६ । २ । ३ । ५ । ६ ।) इति ॥ २७ ॥

इति श्रौसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे चतुर्थे ऽध्याये चतुर्थं ब्राह्मणम् ॥ (३-४-४) ॥

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ २ ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ ३ ॥

इति श्रौमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थो ऽध्यायः समाप्तः ॥ ३ ॥ ४ ॥

Eggeling
  1. Verily, the world is conquered by austere devotion. Now, his devotion becomes ever and ever wider, he conquers an ever and ever more glorious world and becomes better even in this world, whosoever, knowing this, undertakes the Upasads that get narrower and narrower 35: let him, therefore, undertake the Upasads that get narrower and narrower. And should he undertake twelve Upasads, let him have three (teats) milked out for four days, two for four days, and one for four days.

  1. प्रवर्ग्योपसदावतः । का. श्रौ. सू. ८ । ३३ । ↩︎ ↩︎ ↩︎

  2. उपसदेव वा ऽप्रवर्ग्ये । का. श्रौ. सू. ८ । ३४ । ↩︎

  3. 104:3 The Pravargya, an offering of heated milk, which precedes each performance of the Upasads,–except at the first performance of the Soma-sacrifice, when it is prohibited by many authorities,–seems originally to have been an independent ceremony, and as such it is treated by most ritualistic books apart from the exposition of the Soma-cult. The Śatapatha-brāhmaṇa deals with it in XIV, 1-3 (Vāj. S. XXXIX). Its mystic significance appears to have been that of supplying the sacrificer with a new celestial body. There seems to have been a tendency towards exalting its importance–if not, indeed, towards making it take the place of the Soma-cult. The hot milk (gharma) is even styled ‘Samrāj’ or supreme king–as against the title ‘rājan’ or king, assigned to Soma; and a throne is provided for it, just as for the latter. The rules for its performance, according to the Āpastamba Śrauta-sūtra, have been published, with a translation, by Professor Garbe (Zeitsch. der D. M. G. XXXIV, p. 319 seq.). See also Haug’s Transl. of the Ait. Br. pp. 41-43; Weber, Ind. Stud. IX. pp. 218-220. ↩︎

  4. 105:1 The Upasadaḥ, consisting of three offerings of ghee to Agni, Soma, and Vishṇu, followed by a Homa, have to be performed twice daily, for at least three days (the normal number at the Agnishṭoma). The first day’s performance is called (from the corresponding Homa) the ‘ayaḥśayā’ (lying in iron, made of iron), the second day’s ‘rajaḥśayā’ (silvern),and the third day’s ‘hariśayā’ (golden). If there are six, or twelve Upasad days, each of the three varieties of performance has assigned to it an equal number of successive days; and if there are more than twelve the three varieties are to be performed alternately. ↩︎

  5. 105:2 For the anuvākyās and yājyās, as well as the kindling-verses (sāmidhenīs) to be recited at the Upasads, see Ait. Br. I, 26; Āśv. IV, 8. ↩︎

  6. 105:3 For other versions of this myth, see Ait. Br. I, 23; Taitt. S. VI, 2, 3. ↩︎

  7. प्रणीताद्युपसत् । का. श्रौ. सू. ८ । ३५ । ↩︎

  8. अष्टगृहीतं जुह्वां चतुरूपभृति यथाप्रकृति वा । का. श्रौ. सू. ८ । ४४ । ↩︎

  9. 106:1 This would be the regular mode of ladling. See 1, 3, 2, 8 seq. ↩︎

  10. अतिभारं Sây. ↩︎

  11. 106:2 See p. 108, note 1. ↩︎

  12. 106:3 For the two āghāra, or libations of ghee, made with the sruva north of the fire and juhū south of the fire respectively, see I, 4, 4, 1 seq. At the Upasad-ishṭi neither fore-offerings (prayāja) nor after-offerings (anuyāja) are performed. ↩︎

  13. 107:1 Viz. to the offering place on the south side of the fire. The covert meaning is that, were he to make the second libation, he would have to recede front the higher (uttara, northern) position already gained. ↩︎

  14. स्रुवाघारमाघार्य सम्मृष्ट आश्राव्य सीद होतरित्येव ब्रूयात् । का. श्रौ. सू. ८ । ४७ । ↩︎

  15. 107:2 See I, 5, 1, 1 seq. ↩︎

  16. 107:3 See I, 5, 2, 1 seq. ↩︎

  17. प्रसूतो ऽतिक्रामन्नग्नये ऽनुवाचयति । का. श्रौ. सू. ८ । ४८ । ↩︎ ↩︎ ↩︎

  18. अर्द्धँ हुत्वा सोमाय व्विष्णवे समानीय । का. श्रौ. सू. ८ । ४९ । ↩︎

  19. 107:4 See I, 7, 2, 1 seq. ↩︎

  20. 107:5 Of the ghee in the juhū (obtained from eight ladlings with the sruva) he first offers one half each to Agni and Soma. Thereupon he pours the ghee from the upabhr̥t (obtained from four ladlings with the sruva) into the juhū and offers it to Vishṇu. ↩︎

  21. य᳘येदं᳘ B. यथेतं Sây. ↩︎

  22. 108:1 ‘It is for conquest that he does not move about as he (does when he) performs here in any other sacrifice.’ Kāṇva recension. ↩︎

  23. 108:2 ? The socket; compare Ait. Br. I, 25, ‘The gods constructed that arrow, the Upasads: Agni was its point (? anīka, shaft, Haug), Soma its barb (śalya, steel, H.), Vishṇu its shaft (tejanam, point, H.), and Varuṇa its feathers (parṇa) . . . . For the arrow consists of three parts, anīka, śalya, and tejana . . . . For the arrow consists of two parts, śalya and tejana.’ Here śalya would seem to be the barbed head-piece (with the point, anīka), and tejana the shaft or reed of the arrow. ↩︎

  24. एकाहन्न्युपसत्को द्वादश वा । का० श्रौ० सू० ८-५४ । ↩︎

  25. द्विरेकया चरति सुसायँ सुपूर्वाह्णे च । का० श्रौ० सू० ८-५२ । सूत्रे सायंशब्दो ऽपराह्णवाची । तद्याः पूर्वाह्णे ऽनुवाक्या भवंति ता अपराह्णे याज्याः । इति श्रुतौ ३ । ४ । १ । २ अपराह्णश्रवणात् । इति पितृभूतिः । ↩︎

  26. 109:1 On the completion of each performance of the Upasad offerings, after the anointing of the prastara (see I, 8, 3, 11-14) and previously to taking up the enclosing-sticks (ib. 22), a homa (or juhoti) offering (part i, p. 263, note 2), called Upasad-homa, has to be performed with the dipping-spoon; the sacrificer holding on to Adhvaryu from behind, while the ghee is poured into the fire. Its performance over, the Upasads are brought to an end by a repetition of the ceremony with the prastara (which is not burnt) described above, III, 4, 3, 22, and the minor concluding ceremonies (I, 8, 3, 23 seq.; 9, 2, 19 seq.); whereupon the Subrahmaṇyā litany (III, 3, 4, 17) is recited. ↩︎

  27. गह्वरेष्ठा । AB. ↩︎

  28. अवत्वाप्रस्तरमुपसदं जुहोति स्रुवेण या त इत्ययःशयामन्वारब्धे । का. श्रौ. सू. ८ । ५१ । ↩︎

  29. 110:1 While the Hotr̥, as we saw (parag. 2, above), uses the same two verses twice in one day, viz. one for the anuvākyā in the morning and for the yājyā in the afternoon; and the other for the yājyā in the morning and for the anuvākyā in the evening,–the Adhvaryu is to use the three formulas here mentioned on the three Upasad days respectively, both at the morning and afternoon performances. ↩︎

  30. गह्वरेष्ठा । AB. ↩︎

  31. एवमितरे अन्वहँ रजःशयाँ हरिशयां च । का. श्रौ. सू. ८ । ५३ । ↩︎ ↩︎

  32. 110:2 Viz. of the vratadughā, or cow supplying his fast-milk. The milk so obtained is to be his only food during the Upasad days. ↩︎

  33. विपर्यस्य वानग्निचित्ये । ८-५७ । एवं प्रवृद्धौ समं विभजेत् । का० श्रौ० सू० । ८-५८ । ↩︎

  34. स्वस्थानविवृद्धिः । का० श्रौ० सू० ८-५९ । ↩︎

  35. 111:1 The simile is apparently taken from the arrow, which pierces the deeper the more pointed it is; cf. parag. 14, above; Ait. Br. I, 25. Also Taitt. S. VI, 2, 3, 5, where a goad (āra?) is compared. ↩︎