०१

विश्वास-प्रस्तुतिः

आतिथ्येन[[!!]] वै᳘ देवा᳘ इष्ट्वा[[!!]]॥
ता᳘न्त्सम᳘दविन्दत्ते᳘ तानूनप्त्रैः स᳘मशाम्यंस्त᳘ ऽएत᳘स्य प्रा᳘यश्चित्तिमैच्छन्य᳘द᳘न्यो ऽन्यं᳘ पा᳘पम᳘वदन्ना᳘ह पुरा ऽवभृ᳘थात्पु᳘नर्दीक्षा᳘मवा᳘कल्पयंस्त᳘ ऽएता᳘मवान्तरां᳘ दीक्षा᳘मपश्य᳘न्॥

मूलम् - श्रीधरादि

आतिथ्येन[[!!]] वै᳘ देवा᳘ इष्ट्वा[[!!]]॥
ता᳘न्त्सम᳘दविन्दत्ते᳘ तानूनप्त्रैः स᳘मशाम्यंस्त᳘ ऽएत᳘स्य प्रा᳘यश्चित्तिमैच्छन्य᳘द᳘न्यो ऽन्यं᳘ पा᳘पम᳘वदन्ना᳘ह पुरा ऽवभृ᳘थात्पु᳘नर्दीक्षा᳘मवा᳘कल्पयंस्त᳘ ऽएता᳘मवान्तरां᳘ दीक्षा᳘मपश्य᳘न्॥

मूलम् - Weber

आतिथ्ये᳘न वै᳘ देवा᳘ इष्ट्वा᳟॥
ता᳘न्त्सम᳘दविन्दत्ते᳘ तानूनप्त्रैः स᳘मशाम्यंस्त᳘ एत᳘स्य प्रा᳘यश्चित्तिमैछन्य᳘दॗन्यो ऽन्य᳘म् पापम᳘वदन्ना᳘ह पुॗरावभृथात्पु᳘नर्दीक्षा᳘मवा᳘कल्पयंस्त᳘ एता᳘मवान्तरां᳘ दीक्षा᳘मपश्यन्॥

मूलम् - विस्वरम्

अथ प्रवर्ग्यकर्मण्यवान्तरदीक्षा । आतिथ्येन वै देवा इष्ट्वा, तान् समदविन्दत् । ते तानूनप्त्रैः समशाम्यन् । त एतस्य प्रायश्चित्तिमैच्छन्- यदन्यो ऽन्यं पापमवदन् । नाह पुरा ऽवभृथात् पुनर्दीक्षामवाकल्पयन् । त एतामवान्तरां दीक्षामपश्यन् ॥ १ ॥

सायणः

अवान्तरदीक्षां विधातुमाह- आतिथ्येन वै देवा इष्ट्वा, तानिति । ‘ते’ ‘एतस्य’ तानूनप्त्रस्य शपथात्मकस्य दोषपरिहाराय । तानूनप्त्रस्य निन्दितत्वमाह- यदन्यो ऽन्यं पापमवदन्निति । “सत्यं वदानि, मेदमतिक्रमिषम्" इत्येवंरूपमित्यर्थः । “नाह पुरा” इत्यनेन दोषपरिहारोपायाभाव उक्तः । स्वीकृताया दीक्षाया अवभृथपर्यन्तानुवर्तने सति प्राग्गतस्य पापवदनस्य परिहारो भवति, सा चानुवृत्तिर्न तैः कृतेत्यर्थः; मध्ये दीक्षापरित्यागादितिभावः । यद्वा स्वीकृताया दीक्षाया इदानीमप्यपरित्यागात् तन्मध्ये नूतनां ‘दीक्षां’ ‘पुनः’ ‘न’ ‘अवाकल्पयन्,’ किन्तु प्रकृतदीक्षाया अविरोधिनीम् ‘अवान्तरदीक्षाम्’ ‘अपश्यन्’ ॥ १ ॥

Eggeling
  1. When the gods had performed the guest-offering, discord arose between them. They allayed it by means of the Tānūnaptra (oaths). They desired an atonement for having spoken evil to one another; for they had appointed no other consecration-ceremony till the expiatory bath. They perceived this intermediate consecration 1.

०२

विश्वास-प्रस्तुतिः

(श्यंस्ते) ते ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्याङ्गयन्त॥
त᳘पो वा᳘ ऽअग्निस्त᳘पो दीक्षा त᳘दवान्तरां᳘ दीक्षामु᳘पायंस्तद्य᳘दवान्तरां᳘ दीक्षा᳘मुपा᳘यँस्त᳘स्मादवान्तरदीक्षा᳘ सन्तरा᳘मङ्गु᳘लीरा᳘ञ्चन्त सन्तरां मे᳘खलां प᳘र्यस्तामे᳘वैनामेत᳘त्सतीं प᳘र्यास्यन्त त᳘थो ऽए᳘वैष᳘ एतद्यद᳘तः प्राची᳘नमव्रत्यं᳘ वा करो᳘त्यव्रत्यं᳘ वा व्व᳘दति त᳘स्यै᳘वैतत्प्रा᳘यश्चित्तिं कुरुते᳘॥

मूलम् - श्रीधरादि

(श्यंस्ते) ते ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्याङ्गयन्त॥
त᳘पो वा᳘ ऽअग्निस्त᳘पो दीक्षा त᳘दवान्तरां᳘ दीक्षामु᳘पायंस्तद्य᳘दवान्तरां᳘ दीक्षा᳘मुपा᳘यँस्त᳘स्मादवान्तरदीक्षा᳘ सन्तरा᳘मङ्गु᳘लीरा᳘ञ्चन्त सन्तरां मे᳘खलां प᳘र्यस्तामे᳘वैनामेत᳘त्सतीं प᳘र्यास्यन्त त᳘थो ऽए᳘वैष᳘ एतद्यद᳘तः प्राची᳘नमव्रत्यं᳘ वा करो᳘त्यव्रत्यं᳘ वा व्व᳘दति त᳘स्यै᳘वैतत्प्रा᳘यश्चित्तिं कुरुते᳘॥

मूलम् - Weber

ते ऽग्नि᳘नैव त्व᳘चं विप᳘ल्याङ्गयन्त॥
त᳘पो वा᳘ अग्निस्त᳘पो दीक्षा त᳘दवान्तरां᳘ दीक्षामु᳘पायंस्तद्य᳘दवान्तरां᳘ दीक्षा᳘मुपा᳘यंस्त᳘स्मादवान्तरदीक्षा᳘ संतरा᳘मङ्गुलीरा᳘ञ्चन्त संतराम् मे᳘खलाम् प᳘र्यस्तामेॗवैनामेत᳘त्सतीम् प᳘र्यास्यन्त त᳘थो एॗवैष᳘ एतद्यद᳘तः प्राची᳘नमव्रत्यं᳘ वा करो᳘त्यव्रत्य᳘म् वा व᳘दति त᳘स्यैॗवैतत्प्रा᳘यश्चित्तिं कुरुते॥

मूलम् - विस्वरम्

ते ऽग्निनैव त्वचं विपल्याङ्गयन्त । तपो वा अग्निः, तपो दीक्षा । तदवान्तरां दीक्षामुपायन् तद् यदवान्तरां दीक्षामुपायन्- तस्मादवान्तरदीक्षा । सन्तरामंगुलीराञ्चन्त, सन्तरां मेखलां पर्यस्तामेवैनामेतत्सतीं पर्यास्यन्त । तथो एवैष एतद्- यदतः प्राचीनमव्रत्यं वा करोति, अव्रत्यं वा वदति । तस्यैवैतत्प्रायश्चित्तिं कुरुते ॥ २ ॥

सायणः

अवान्तरदीक्षाकल्पनप्रकार उच्यते- ते ऽग्निनैव त्वचमिति । ‘विपल्याङ्गयन्त’ विविधं ‘परि’ परितः ‘आङ्ग्यन्त’ अवेष्टयन्; अग्निमेव त्वचमकुर्वन्नित्यर्थः । अग्नेस्त्वग्भावे कः सम्बन्ध इति, तत्रोच्यते- तपो वा अग्निरिति । तपनसाधनत्वात् अग्निः ‘तपः’ ‘दीक्षा’ तु क्लेशात्मकत्वादेव ‘तपः’ । अवान्तरदीक्षां नाम निर्वचनेन प्रशंसति- तद्यदवान्तरामिति । सन्तरामित्यादि । ‘सन्तरामाञ्चन्त’ अतिशयेन, संश्लिष्टा अङ्गुलीरकुर्वन् । तथा मेखलाम् अपि पूर्वां शिथिलबद्धां पुनः संलग्नामकुर्वन् । तदेवाह- पर्यस्तामेवेति । ‘पर्यस्तामेव’ परितः क्षिप्तामेव । व्रतमर्हतीति ‘व्रत्यम्,’ तद्विरोधि ‘अव्रत्यं’ । ‘तस्य’ ‘एतत्’ अवान्तरदीक्षाख्यं कर्म ‘प्रायश्चित्तम्’ तस्य पापस्य निर्हरणमित्यर्थः ॥ २ ॥

Eggeling
  1. By means of fire they enveloped (the body) with a skin. Now, fire being fervour, and the consecration being fervour, they thereby underwent an intermediate consecration; and because they underwent that

intermediate consecration, therefore this intermediary consecration (avāntaradīkshā, is performed). They turned in their fingers more tightly and drew 2 their zone tighter, whereby they (again) put round them what had been put round them before 3;–and so does he thereby make atonement for what heretofore he has done injurious to the vow, for what he has spoken injurious to the vow.

०३

विश्वास-प्रस्तुतिः

सो ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्यङ्गयते॥
त᳘पो वा᳘ ऽअग्निस्त᳘पो दीक्षा त᳘दवान्तरां᳘ दीक्षामु᳘पैति सन्तरा᳘मङ्गु᳘लीर᳘चते सन्तरां मे᳘खलां प᳘र्यस्तामे᳘वैनामेत᳘त्सतीं प᳘र्यस्यते प्रजा᳘मु हैव त᳘द्देवा उ᳘पाय᳘न्॥

मूलम् - श्रीधरादि

सो ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्यङ्गयते॥
त᳘पो वा᳘ ऽअग्निस्त᳘पो दीक्षा त᳘दवान्तरां᳘ दीक्षामु᳘पैति सन्तरा᳘मङ्गु᳘लीर᳘चते सन्तरां मे᳘खलां प᳘र्यस्तामे᳘वैनामेत᳘त्सतीं प᳘र्यस्यते प्रजा᳘मु हैव त᳘द्देवा उ᳘पाय᳘न्॥

मूलम् - Weber

सो ऽग्नि᳘नैव त्व᳘चं विप᳘ल्यङ्गयते॥
त᳘पो वा᳘ अग्निस्त᳘पो दीक्षा त᳘दवान्तरां᳘ दीक्षामु᳘पैति संतरा᳘मङ्गु᳘लीर᳘चते संतराम् मे᳘खलाम् प᳘र्यस्तामेॗवैनामेत᳘त्सतीम् प᳘र्यस्यते प्रजा᳘मु हैव त᳘द्देवा उ᳘पायन्॥

मूलम् - विस्वरम्

सो ऽग्निनैव त्वचं विपल्यङ्गयते । तपो वा अग्निः, तपो दीक्षा । तदवान्तरां दीक्षामुपैति- सन्तरामङ्गुलीरचते, सन्तरां मेखलां पर्यस्तामेवैनामेतत्सतीं पर्यस्यते । प्रजामु हैव तद्देवा उपायन् ॥ ३ ॥

सायणः

यदर्थमाख्यायिकामुखेनावान्तरदीक्षोक्ता, तामिदानीं विधत्ते- सो ऽग्निनैवेति । ‘सः’ यजमानः । शिष्टं पूर्ववत् । अवान्तरदीक्षां प्रजासाधनत्वेन प्रशंसति- प्रजामु हैवेत्यादिना ॥ ३ ॥

Eggeling
  1. By means of the fire they (the priests) envelop him with a skin. Now, fire being fervour, and the consecration being fervour, he thereby undergoes an intermediate consecration. He turns in his fingers more tightly and draws the zone tighter, whereby he (again) puts round himself what was put round him before. Moreover, it was offspring the gods thereby obtained.

०४

विश्वास-प्रस्तुतिः

(यं᳘स्ते) ते ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्याङ्गयन्त॥
(न्ता) अग्निर्व्वै᳘ मिथुन᳘स्य कर्ता᳘ प्रजनयिता त᳘त्प्रजामु᳘पायन्त्सन्तरा᳘मङ्गु᳘लीरा᳘ञ्चन्त सन्तरां मे᳘खलां त᳘त्प्रजा᳘मात्म᳘न्नकुर्व्वत त᳘थो ए᳘वैष᳘ ऽएत᳘त्प्रजा᳘मेवोपैति᳘॥

मूलम् - श्रीधरादि

(यं᳘स्ते) ते ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्याङ्गयन्त॥
(न्ता) अग्निर्व्वै᳘ मिथुन᳘स्य कर्ता᳘ प्रजनयिता त᳘त्प्रजामु᳘पायन्त्सन्तरा᳘मङ्गु᳘लीरा᳘ञ्चन्त सन्तरां मे᳘खलां त᳘त्प्रजा᳘मात्म᳘न्नकुर्व्वत त᳘थो ए᳘वैष᳘ ऽएत᳘त्प्रजा᳘मेवोपैति᳘॥

मूलम् - Weber

ते ऽग्नि᳘नैव त्व᳘च विप᳘ल्याङ्गयन्त॥
अग्निर्वै᳘ मिथुन᳘स्य कर्ता᳘ प्रजनयिता त᳘त्प्रजामु᳘पायन्त्संतरा᳘मङ्गु᳘लीरा᳘ञ्चन्त संतराम् मे᳘खलां त᳘त्प्रजा᳘मात्म᳘न्नकुर्वत त᳘थो एॗवैष᳘ एत᳘त्प्रजा᳘मेवोपैति॥

मूलम् - विस्वरम्

ते ऽग्निनैव त्वचं विपल्याङ्गयन्त । अग्निर्वै मिथुनस्य कर्ता प्रजनयिता तत् प्रजामुपायन् । सन्तरामङ्गुलीराञ्चन्त, सन्तरां मेखलाम् । तत्प्रजामात्मन्नकुर्वत । तथो एवैष एतत्प्रजामेवोपैति ॥ ४ ॥

सायणः

ते ऽग्निनैव त्वचमिति । अग्निर्वै मिथुनस्य कर्तेति । वधूवरयोर्युग्मीभावस्याग्निसव्यपेक्षत्वान्मिथुनकर्ता ऽग्निरुच्यते । सा प्रसिद्धिः ‘वै’- शब्देनोक्ता । अशितपीतयोः शुक्रशोणितरूपेण परिणामस्य, पुनश्च देहाकारेण परिणामस्य चाग्न्यधीनत्वात् ‘प्रजनयिता’ । अथवा कथम् ‘अग्निर्मिथुनस्य कर्ता’ यतो ऽसौ ‘मिथुनस्य प्रजनयिता’ इति व्याख्यानव्याख्येयभावो द्रष्टव्यः । देवानां प्रजार्थत्वमुक्त्वा इदानीन्तनयजमानस्यापि तदर्थत्वमाह- तथो एवैष एतत्प्रजामेवोपैतीति । ‘एतत्’ एतया अवान्तरदीक्षया ॥ ४ ॥ ५ ॥

Eggeling
  1. By means of Agni (fire) they enveloped (the body) with a skin. Now, Agni being the causer of sexual union, the progenitor, they thereby obtained offspring. They turned in their fingers more tightly and drew their zone tighter, whereby they produced offspring for themselves. And in like manner does he (the sacrificer) thereby obtain offspring.

०५

विश्वास-प्रस्तुतिः

सो ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्यङ्गयते॥
(ते ऽग्नि) अग्निर्व्वै᳘ मिथुन᳘स्य कर्ता᳘ प्रजनयिता त᳘त्प्रजामु᳘पैति सन्तरा᳘मङ्गु᳘लीर᳘चते सन्तरां मे᳘खलां त᳘त्प्रजा᳘मात्म᳘न्कुरुते॥

मूलम् - श्रीधरादि

सो ऽग्नि᳘नैव त्व᳘चं व्विप᳘ल्यङ्गयते॥
(ते ऽग्नि) अग्निर्व्वै᳘ मिथुन᳘स्य कर्ता᳘ प्रजनयिता त᳘त्प्रजामु᳘पैति सन्तरा᳘मङ्गु᳘लीर᳘चते सन्तरां मे᳘खलां त᳘त्प्रजा᳘मात्म᳘न्कुरुते॥

मूलम् - Weber

सो ऽग्नि᳘नैव त्व᳘चं विप᳘ल्यङ्गयते॥
अग्निर्वै᳘ मिथुन᳘स्य कर्ता᳘ प्रजनयिता त᳘त्प्रजामु᳘पैति संतरा᳘मङ्गु᳘लीर᳘चते संतराम् मे᳘खलां त᳘त्प्रजा᳘मात्म᳘न्कुरुते॥

मूलम् - विस्वरम्

सो ऽग्निनैव त्वचं विपल्यङ्गयते । अग्निर्वै मिथुनस्य कर्ता प्रजनयिता । तत् प्रजामुपैति । सन्तरामङ्गुलीरचते, सन्तरां मेखलाम् । तत्प्रजामात्मन् कुरुते ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. By means of Agni he envelops himself with a skin. Now, Agni being the causer of sexual union, the progenitor, he thereby 4 obtains offspring. He turns in his fingers more tightly and draws his zone tighter, whereby he produces offspring for himself.

०६

विश्वास-प्रस्तुतिः

देवा᳘नामु ह स्म दीक्षिता᳘नाम्॥
यः᳘ समिद्धारो᳘ वा स्वाध्यायं᳘ वा व्विसृज्य᳘ते त᳘ᳫं᳘ ह स्मे᳘तरस्यैवे᳘तरᳫं᳭ रूपेणे᳘तरस्ये᳘तरमसुररक्षसा᳘नि जिघाᳫं᳭सन्ति ते᳘ ह पापं व्व᳘दन्त ऽउपसमे᳘युरि᳘ति वै मां त्वम᳘चिकीर्षीरि᳘ति माजिघाᳫं᳭सीरि᳘त्यग्नि᳘र्हैव त᳘था᳘ नान्य᳘मुवा᳘दाग्निं त᳘था᳘ नान्यः[[!!]]॥

मूलम् - श्रीधरादि

देवा᳘नामु ह स्म दीक्षिता᳘नाम्॥
यः᳘ समिद्धारो᳘ वा स्वाध्यायं᳘ वा व्विसृज्य᳘ते त᳘ᳫं᳘ 5 ह स्मे᳘तरस्यैवे᳘तरᳫं᳭ रूपेणे᳘तरस्ये᳘तरमसुररक्षसा᳘नि जिघाᳫं᳭सन्ति ते᳘ ह पापं व्व᳘दन्त ऽउपसमे᳘युरि᳘ति वै मां त्वम᳘चिकीर्षीरि᳘ति माजिघाᳫं᳭सीरि᳘त्यग्नि᳘र्हैव त᳘था᳘ नान्य᳘मुवा᳘दाग्निं त᳘था᳘ नान्यः[[!!]]॥

मूलम् - Weber

देवा᳘नामु ह स्म दीक्षिता᳘नाम्॥
यः᳘ समिद्धारो᳘ वा स्वाध्यायं᳘ वा विसृज᳘ते 6 त᳘ᳫं᳘ ह स्मे᳘तरस्यैवे᳘तरं रूपेणे᳘तरस्ये᳘तरमसुररक्षसा᳘नि जिघांसन्ति ते᳘ ह पापं व᳘दन्त उपसमे᳘युरि᳘ति वै मां त्वम᳘चिकीर्षीरि᳘ति माजिघांसीरि᳘त्यग्नि᳘र्हैव त᳘थाॗ नान्य᳘मुवा᳘दाग्निं त᳘थाॗ नान्यः᳟॥

मूलम् - विस्वरम्

देवानामु ह स्म दीक्षितानां यः समिद्धारो वा, स्वाध्यायं वा- विसृज्यते । तं ह स्मेतरस्यैवेतरं रूपेण- इतरस्येतरमसुररक्षांसि जिघांसन्ति । ते ह पापं वदन्त उपसमेयुः- इति वै मां त्वमचिकीर्षीः इति । मा जिघांसीरिति । अग्निर्हैव तथा नान्यमुवाद- अग्निं तथा नान्यः ॥ ६ ॥

सायणः

अवान्तरदीक्षारूपेण समिदाधानं विधास्यते, तन्मन्त्रे “या तनूरियं सा मयि” इत्यादि वक्ष्यते, तदुपोद्धातत्वेनाख्यायिकामाह- देवानामु ह स्म दीक्षितानामित्यादिना । ‘समिद्धारो वा’ समिधं हरतीति ‘समिद्धारः" “हरतेरनुद्यमने ऽच्” (पा. सू. ३ । २ । ८) इत्यत्रानुद्यमन इति पर्युदासात्तादृशोद्यमनस्य सम्भवात्सामान्येन प्राप्तः “कर्मण्यण्” (पा. सू. ३ । २ । १) इत्यण् । स्वाध्यायं वा विसृजत इति । ‘विसृजते’ नोच्चारयति कश्चित् । ‘तं ह’ समिदाहर्तारं वा ऋत्विजं वा मन्त्रोत्स्रष्टारं वा । उपलक्षणमेतत् । ऋत्विजां मध्ये यं कञ्चिन्न व्यापृतम्, तम् । ‘इतरम् इतरस्य रूपेण’- ‘इतरम् इतरस्य रूपेण’ समिदाहर्तृरूपेण प्रवचनकर्तारम्, प्रवचनकर्तृरूपेण समिदाहर्तारमित्यर्थः । एवम् ‘असुररक्षसानि’ असुराश्च रक्षांसि च ‘जिघांसन्ति’ हन्तुमिच्छन्ति । तथा सति देवाः ‘इति’ खलु ‘मां त्वम्’ ‘अचिकीर्षीः’ कर्तुमैच्छः ‘इति’ । ‘मा’ मां ‘जिघांसीः’ हन्तुमैच्छः, ‘इति’ । ‘पापं वदन्तः’ ‘उपसमेयुः’ अन्यो ऽन्यं प्राप्नुवन्ति । किमग्निरपि तादृग्विषयापन्नः ? नेत्याह- अग्निर्हैव तथा नान्यमिति । ‘उवाद’ उदितवान् ॥ ६ ॥

Eggeling
  1. Now, while the gods were consecrated, whichever of them fetched fire-wood or uttered his appointed texts, him the Asura-Rakshas endeavoured to

strike–the one by (assuming) the form of this one, and the other by that of another. They came together, upbraiding one another, saying, ‘See, what thou hast clone to me! see, how thou hast struck me!’ But Agni alone did not speak thus to any one, nor did any one speak thus to Agni.

०७

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥
(र᳘) अ᳘पीत्थन्त्वा᳘मग्ने ऽवादिषू३ रि᳘ति᳘ नै᳘वाह᳘मन्यं न मा᳘मन्य इ᳘ति᳘॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥
(र᳘) अ᳘पीत्थन्त्वा᳘मग्ने ऽवादिषू३ रि᳘ति᳘ नै᳘वाह᳘मन्यं न मा᳘मन्य इ᳘ति᳘॥

मूलम् - Weber

ते᳘ होचुः॥
अ᳘पीत्थं त्वा᳘मग्ने ऽवादिषूरि᳘तिॗ नैॗवाह᳘मन्यं न मा᳘मन्य इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः- अपीत्थं त्वामग्ने ऽवादिषूः ३ इति । नैवाहमन्यं न मामन्य इति ॥ ७ ॥

सायणः

ते होचुरिति । ‘ते’ असुरैरभिभूता देवाः । ‘अग्ने !’ ‘त्वामपि’ ‘इत्थम्’ अनेन प्रकारेण अस्मानिव किम् ? ‘अवादिषूः ३’ । (पा. सू. ८ । २ । १००) प्रश्ने प्लुतिः । तस्योत्तरम्- ‘नैवाहमन्यम्, नमामन्यः’ वा अवादीदित्यग्निः प्रत्युवाच ॥ ७ ॥

Eggeling
  1. They said, ‘Have they spoken thus to thee also, Agni?’ He said, ‘Verily, I have not spoken to any one, nor has any one spoken to me.’

०८

विश्वास-प्रस्तुतिः

ते ऽविदुः॥
(र) अयं वै᳘ नो व्वि᳘रक्षस्तमो᳘ ऽस्यैव᳘ रूप᳘मसाम ते᳘न र᳘क्षाᳫं᳭स्यतिमोक्ष्या᳘महे ते᳘न स्वर्गं᳘ लोकᳫं᳭ स᳘मश्नुविष्यामह इ᳘ति᳘ ते ऽग्नि᳘रेव᳘ रूप᳘मभवंस्ते᳘न र᳘क्षाᳫं᳭स्यत्य᳘मुच्यन्त ते᳘न स्वर्गं᳘ लोकᳫं᳭ स᳘माश्नुवत त᳘थो ऽए᳘वैष᳘ ऽएत᳘दग्ने᳘रेव᳘ रूपं᳘ भवति ते᳘न र᳘क्षाᳫं᳭स्यतिमुच्य᳘ते ते᳘न स्वर्गं᳘ लोकᳫं᳭ स᳘मश्नुते स वै᳘ समि᳘धमे᳘वाभ्याद᳘धदवान्तरदीक्षामु᳘पैति॥

मूलम् - श्रीधरादि

ते ऽविदुः॥
(र) अयं वै᳘ नो व्वि᳘रक्षस्तमो᳘ ऽस्यैव᳘ रूप᳘मसाम ते᳘न र᳘क्षाᳫं᳭स्यतिमोक्ष्या᳘महे ते᳘न स्वर्गं᳘ लोकᳫं᳭ स᳘मश्नुविष्यामह इ᳘ति᳘ ते ऽग्नि᳘रेव᳘ रूप᳘मभवंस्ते᳘न र᳘क्षाᳫं᳭स्यत्य᳘मुच्यन्त ते᳘न स्वर्गं᳘ लोकᳫं᳭ स᳘माश्नुवत त᳘थो ऽए᳘वैष᳘ ऽएत᳘दग्ने᳘रेव᳘ रूपं᳘ भवति ते᳘न र᳘क्षाᳫं᳭स्यतिमुच्य᳘ते ते᳘न स्वर्गं᳘ लोकᳫं᳭ स᳘मश्नुते स वै᳘ समि᳘धमे᳘वाभ्याद᳘धदवान्तरदीक्षामु᳘पैति॥

मूलम् - Weber

ते ऽविदुः॥
अयं वै᳘ नो वि᳘रक्षस्तमो᳘ ऽस्यैव᳘ रूप᳘मसाम ते᳘न र᳘क्षांस्यतिमोक्ष्या᳘महे ते᳘न स्वर्गं᳘ लोकᳫं स᳘मश्नुविष्यामह इ᳘तिॗ ते ऽग्नि᳘रेव᳘ रूपमभवंस्ते᳘न र᳘क्षांस्यत्य᳘मुच्यन्त ते᳘न स्वर्गं᳘ लोकᳫं स᳘माश्नुवत 7 त᳘थो एॗवैष᳘ एत᳘दग्ने᳘रेव᳘ रूपम् भवति ते᳘न र᳘क्षांस्यतिमुच्यते ते᳘न स्वर्गं᳘ लोकᳫं स᳘मश्नुते स वै᳘ समि᳘धमेॗवाभ्याद᳘धदवान्तरदीक्षामु᳘पैति॥

मूलम् - विस्वरम्

ते ऽविदुः । अयं वै नो विरक्षस्तमः- अस्यैव रूपमसाम- तेन रक्षांस्यतिमोक्ष्यामहे- तेन स्वर्गं लोकं समश्नुविष्यामहे- इति । ते ऽग्नेरेव रूपमभवन्, तेन रक्षांस्यत्यमुच्यन्त । तेन स्वर्गं लोकं समाश्नुवत । तथो ऽएवैष एतदग्नेरेवं रूपं भवति, तेन रक्षांस्यतिमुच्यते, तेन स्वर्गं लोकं समश्नुते । स वै समिधमेवाभ्यादधदवान्तरदीक्षामुपैति ॥ ८ ॥

सायणः

ते ऽविदुरिति । ‘अयम्’ अग्निः ‘नः’ अस्माकं मध्ये ‘विरक्षस्तमः’ विरक्षो यस्मात् स विरक्षाः, अतिशयेन विरक्षाः ‘विरक्षस्तमः’ । “अस्यैव रूपमसाम”- इत्यादि । स्पष्टम् । यद्यपि मेखलाकृष्णाजिनधारणादिकमपि दीक्षाङ्गम्, तथाप्यवान्तरदीक्षायां समिदाधानस्य मुख्यत्वात्-समिधमेवाभ्यादधदवान्तरदीक्षामुपैतीत्युक्तम् ॥ ८ ॥

Eggeling
  1. They became aware,–‘He verily is the greatest repeller of the Rakshas among us; let us be like him: thereby we shall escape from the Rakshas, thereby we shall attain to the heavenly world.’ They accordingly became like Agni, and thereby escaped from the Rakshas and attained to the heavenly world. And in like manner does this one now become like Agni, and thereby escape from the Rakshas and attain to the heavenly world. It is in putting a kindling-stick on (the Āhavanīya fire 8) that he enters upon the Avāntaradīkshā.

०९

विश्वास-प्रस्तुतिः

स᳘ समि᳘धमभ्या᳘दधाति[[!!]]॥
(त्य᳘) अ᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रतपा इ᳘त्यग्निर्हि᳘ देवा᳘नां व्व्रत᳘पतिस्त᳘स्मादाहा᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रतपा इ᳘ति या त᳘व तनू᳘रियᳫं᳭ सा म᳘यि[[!!]] यो म᳘म तनू᳘रेषा सा त्व᳘यि॥ सह᳘ नौ व्व्रतपते व्व्रतानी᳘ति त᳘दग्नि᳘ना त्वचं[[!!]] व्विप᳘ल्यङ्गयते᳘ ऽनु मे दीक्षां᳘ दीक्षा᳘पतिर्म᳘न्यताम᳘नुत᳘पस्त᳘पस्पतिरि᳘ति त᳘दवान्तरां᳘ दीक्षामु᳘पैति सन्तरा᳘मङ्गु᳘लीर᳘चते सन्तरां मे᳘खलां प᳘र्यस्तामे᳘वैनामेत᳘त्सतीं प᳘र्य्यस्यते॥

मूलम् - श्रीधरादि

स᳘ समि᳘धमभ्या᳘दधाति[[!!]]॥
(त्य᳘) अ᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रतपा इ᳘त्यग्निर्हि᳘ देवा᳘नां व्व्रत᳘पतिस्त᳘स्मादाहा᳘ग्ने व्व्रतपास्त्वे᳘ व्व्रतपा इ᳘ति या त᳘व तनू᳘रियᳫं᳭ सा म᳘यि[[!!]] यो म᳘म तनू᳘रेषा सा त्व᳘यि॥ सह᳘ नौ व्व्रतपते व्व्रतानी᳘ति त᳘दग्नि᳘ना त्वचं[[!!]] व्विप᳘ल्यङ्गयते᳘ ऽनु मे दीक्षां᳘ दीक्षा᳘पतिर्म᳘न्यताम᳘नुत᳘पस्त᳘पस्पतिरि᳘ति त᳘दवान्तरां᳘ दीक्षामु᳘पैति सन्तरा᳘मङ्गु᳘लीर᳘चते सन्तरां मे᳘खलां प᳘र्यस्तामे᳘वैनामेत᳘त्सतीं प᳘र्य्यस्यते॥

मूलम् - Weber

स᳘ समि᳘ध᳘मभ्या᳘दधाति॥
अ᳘ग्ने व्रतपास्त्वे᳘ 9 व्रतपा इ᳘त्यग्निर्हि᳘ देवा᳘नां व्रत᳘पतिस्त᳘स्मादाहाग्ने व्रतपास्त्वे᳘ व्रतपा इ᳘ति या त᳘व तनू᳘रियᳫं सा म᳘यिॗ यो म᳘म तनू᳘रेषा सा त्व᳘यि सह᳘ नौ व्रतपते व्रतानी᳘ति त᳘दग्निना त्व᳘चं विप᳘ल्यङ्गयते᳘ ऽनु मे दीक्षां᳘ दीक्षापतिर्म᳘न्यताम᳘नु त᳘पस्तपस्पतिरि᳘ति त᳘दवान्तरां᳘ दीक्षामु᳘पैति संतरा᳘मङ्गु᳘लीर᳘चते संतराम् मे᳘खलाम् प᳘र्यस्तामेॗवैत᳘त्सतीम् प᳘र्यस्यते॥

मूलम् - विस्वरम्

रा समिधमभ्यादधाति- “अग्ने व्रतपास्त्वे व्रतपाः”- (वा. सं ५ । ६ ।) इति । अग्निर्हि देवानां व्रतपतिः । तस्मादाह- अग्ने व्रतपास्त्वे व्रतपा इति । “या तव तनूरियं- सा मयि । यो मम तनूरेषा सा त्वयि । सह नौ व्रतपते ? व्रतानि”- (वा. सं. ५ । ६) इति । तद् अग्निना त्वचं विपल्यङ्गयते । “अनु मे दीक्षां दीक्षापतिर्मन्यताम् । अनुतपस्तपस्पतिः”- (वा. सं. ५ । ६) इति । तदवान्तरां दीक्षामुपैति । सन्तरामंगुलीरचते, सन्तरां मेखलां पर्यस्तामेवैनमितत्सतीं पर्यस्यते ॥ ९ ॥

सायणः

स समिधमभ्यादधातीति 10 । “अग्ने व्रतपा इत्यादिः समिदाधानमन्त्रः । हे ‘व्रतपा अग्ने’ ! ‘त्वे’ त्वयि व्रतस्य पातरि सति, अहं ‘व्रतपाः’ व्रतस्य पालयिता, भूयासमित्यर्थः । सप्तम्याः शे आदेशः । (पा. सू. ७ । १ । ३९) । अथवा ‘व्रतपाः’ भवसि ‘त्वे’ त्वम् । “अग्निर्हि देवानां व्रतपतिः” इत्यत्र ‘हि’- शब्देन “त्वमग्ने व्रतपा असि देव आ मर्त्येषु”- इत्यादि (वा. सं. ४ । १६) श्रुत्यन्तरप्रसिद्धिर्द्योत्यते । ‘या तव’ तेजोमयी ‘तनूः’ अस्ति ‘सा’ ‘इयं’ ममापि भवतु, तथा ‘या मम’ इत्येतद् व्याख्येयम् । हे ‘व्रतपते’ अग्ने ! ‘नौ’ आवां ‘सह’ ‘व्रतानि’ चरिष्यावः इति शेषः । ‘तत्’ तेन तनूविनिमयेन मन्त्रगतेन । “अनु मे दीक्षाम्” इति मन्त्रभागे ‘दीक्षा’- शब्दश्रवणात् तन्मन्त्रभागपाठेनावान्तरदीक्षां प्राप्तवान् भवति ॥

दीक्षाहुत्यनन्तरं पुनरंगुल्यादिसमञ्चनस्याभिधानादादौ दीक्षाहुतिः कर्त्तव्या पश्चात् समञ्चनमिति क्रमो ऽवगम्यते ॥ ९ ॥

Eggeling
  1. He puts on the kindling-stick, with the text (Vāj. S. V, 6), ‘O Agni, protector of vows; on thee, O protector of vows–’ for Agni is lord of vows to the gods; wherefore he says, ‘O Agni, protector of vows, on thee, O protector of vows–’ ‘what bodily form 11 there is of thine, (may that be) here on me; and what bodily form there is of mine, (may that be) on thee! May my vows be bound up with thine, O lord of vows!’ whereby he envelops himself with the skin by means of Agni, ‘May the lord of consecration approve my

consecration, and the lord of penance my penance!’ Thereby he enters upon the intermediary consecration. More closely he turns in his fingers, and closer he draws the zone; whereby he (again) puts round himself what was put round him before.

१०

विश्वास-प्रस्तुतिः

(ते᳘ ऽथै) अ᳘थैनम᳘तो म᳘दन्तीभिरु᳘पचरन्ति॥
त᳘पो वा᳘ अग्निस्त᳘पो म᳘दन्त्यस्त᳘स्मादेनं म᳘दन्तीभिरु᳘पचरन्ति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथै) अ᳘थैनम᳘तो म᳘दन्तीभिरु᳘पचरन्ति॥
त᳘पो वा᳘ अग्निस्त᳘पो म᳘दन्त्यस्त᳘स्मादेनं म᳘दन्तीभिरु᳘पचरन्ति॥

मूलम् - Weber

अ᳘थैनम᳘तो म᳘दन्तीभिरु᳘पचरन्ति॥
त᳘पो वा᳘ अग्निस्त᳘पो म᳘दन्त्यस्त᳘स्मादेनम् म᳘दन्तीभिरु᳘पचरन्ति॥

मूलम् - विस्वरम्

अथैनमतो मदन्तीभिरुपचरन्ति । तपो वा अग्निः, तपो मदन्त्यः । तस्मादेनं मदन्तीभिरुपचरन्ति ॥ १० ॥

सायणः

अथ यद्यद्यजमानस्य तत्तन्मदन्तीभिः कर्तव्यमिति विधत्ते- अथैनमतो मदन्तीभिरिति (का. श्रौ. सू. ८ । २४) । एनं सोमं यजमानं वा । तप्ता आपो ‘मदन्त्यः’ । अग्नेर्मदन्तीनाञ्च सन्तापकत्वात् तपोरूपत्वम् ॥ १० ॥

Eggeling
  1. They then attend on him with the boiling lustral water (madantī);–fire is heat, and the lustral water is heat: that is why they attend on him with the lustral water.

११

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ म᳘दन्तीभिरुपस्पृ᳘श्य॥
रा᳘जानमा᳘प्याययन्ति तद्यन्म᳘दन्तीरुपस्पृ᳘श्य रा᳘जानमाप्याय᳘यन्ति व्व᳘ज्रो वा आ᳘ज्यᳫं᳭ रे᳘तः सोमो[[!!]] नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫँ᳭ हिन᳘सामे᳘ति त᳘स्मान्म᳘दन्तीरुपस्पृ᳘श्य रा᳘जानमा᳘प्याययन्ति॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ म᳘दन्तीभिरुपस्पृ᳘श्य॥
रा᳘जानमा᳘प्याययन्ति तद्यन्म᳘दन्तीरुपस्पृ᳘श्य रा᳘जानमाप्याय᳘यन्ति व्व᳘ज्रो वा आ᳘ज्यᳫं᳭ रे᳘तः सोमो[[!!]] नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫँ᳭ हिन᳘सामे᳘ति त᳘स्मान्म᳘दन्तीरुपस्पृ᳘श्य रा᳘जानमा᳘प्याययन्ति॥

मूलम् - Weber

अ᳘थ म᳘दन्तीभिरुपस्पृ᳘श्य॥
रा᳘जानमा᳘प्याययन्ति तद्यन्म᳘दन्तीरुपस्पृ᳘श्य रा᳘जानमाप्याय᳘यन्ति व᳘ज्रो वा आ᳘ज्यं रे᳘तः सो᳘मो नेद्व᳘ज्रेणा᳘ज्येन रे᳘तः सो᳘मᳫं हिन᳘सामे᳘ति त᳘स्मान्म᳘दन्तीरुपस्पृ᳘श्य रा᳘जानमा᳘प्याययन्ति॥

मूलम् - विस्वरम्

अथ मदन्तीरुपस्पृश्य राजानमाप्याययन्ति । तद् यन्मदन्तीरुपस्पृश्य राजानमाप्याययन्ति; वज्रो वा आज्यम्, रेतः सोमः । नेद्वज्रेणाज्येन रेतः सोमं हिनसामेति । तस्मान्मदन्तीरुपस्पृश्य, राजानमाप्याययन्ति ॥ ११ ॥

सायणः

मदन्त्युपस्पर्शनपूर्वकं राजाप्यायनं विधत्ते- मदन्तीभिरुपस्पृश्य राजानमिति 12वज्रो वा आज्यमिति । “घृतं वै देवा वज्रं कृत्वा सोममघ्नन्”- (तै. सं. ६ । २ । २ । ४) इति श्रुतेराज्यस्य वज्रत्वम् । सोमस्य सर्वौषध्यनुप्रवेशाद्रेतसश्चौषधिजन्यत्वात् 13 रेतस्त्वं सोमस्य । अथवा “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति”- (ऐ. ब्रा. ७ । ९ । १ । श. प. १४ । ९ । १ । १५) इति आहुतिरूपस्य सोमस्य क्रमेण रेतोरूपेण परिणामाद्रेतस्त्वम् ॥ ११ ॥

Eggeling
  1. Having touched the lustral water, they (the priests and sacrificer) therewith strengthen 14 the king (Soma). The reason why, after touching the lustral water, they strengthen the king is this;–ghee is a thunderbolt, and Soma is seed: hence they strengthen the king after touching the lustral water, lest they should injure the seed, Soma, by the thunderbolt, the ghee.

१२

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्य᳘) य᳘स्मा ऽएत᳘दाप्या᳘यनं क्रियत[[!!]] ऽआतिथ्यᳫँ᳭ सो᳘माय त᳘मेवा᳘ग्र ऽआप्याययेयुर᳘थावान्तरदीक्षाम᳘थ[[!!]] तानूनप्त्राणी᳘ति त᳘दु त᳘था न᳘ कुर्याद्यज्ञ᳘स्य वा᳘ ऽएवं कर्मा᳘त्र वा᳘ ऽएनान्त्सम᳘दविन्दत्ते᳘ सᳫं᳭शम᳘मेव पू᳘र्व्वमुपायन्न᳘थावान्तरदीक्षाम᳘थाप्या᳘यनम्[[!!]]॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्य᳘) य᳘स्मा ऽएत᳘दाप्या᳘यनं क्रियत[[!!]] ऽआतिथ्यᳫँ᳭ सो᳘माय त᳘मेवा᳘ग्र ऽआप्याययेयुर᳘थावान्तरदीक्षाम᳘थ[[!!]] तानूनप्त्राणी᳘ति त᳘दु त᳘था न᳘ कुर्याद्यज्ञ᳘स्य वा᳘ ऽएवं कर्मा᳘त्र वा᳘ ऽएनान्त्सम᳘दविन्दत्ते᳘ सᳫं᳭शम᳘मेव पू᳘र्व्वमुपायन्न᳘थावान्तरदीक्षाम᳘थाप्या᳘यनम्[[!!]]॥

मूलम् - Weber

त᳘दाहुः॥
य᳘स्मा एत᳘दाप्या᳘यनं क्रिय᳘त आतिथ्यᳫं सो᳘माय त᳘मेवा᳘ग्र 15 आ᳘प्याययेयुर᳘थावान्तरदीक्षाम᳘थ तानूनप्त्राणी᳘ति त᳘दु त᳘था न᳘ कुर्याद्यज्ञ᳘स्य वा᳘ एवं कर्मा᳘त्र वा᳘ एनान्त्सम᳘दविन्दत्ते᳘ संशम᳘मेव पू᳘र्वमु᳘पायन्न᳘थावान्तरदीक्षाम᳘थाप्या᳘यनम्॥ ᳘

मूलम् - विस्वरम्

तदाहुः । यस्मा ऽएतदाप्यायनं क्रियते- आतिथ्यं सोमाय- तमेवाग्र ऽआप्याययेयुः- अथावान्तरदीक्षाम्- अथ तानूनप्त्राणीति । तदु तथा न कुर्याद् । यज्ञस्य वा एवं कर्म । अत्र वा एनान्त्समदविन्दत् । ते संशममेव पूर्वमुपायन्- अथावान्तरदीक्षाम्- अथाप्यायनम् ॥ १२ ॥

सायणः

अनुष्ठेयपदार्थक्रमविषये किञ्चिद् ब्रह्मवादिनश्चोद्यमुद्भावयन्ति- तदाहुर्यस्मा एतदाप्यायनं क्रियत इति । ‘यस्मै सोमाय एतदातिथ्यं क्रियते’ ‘तमेव’ ‘अग्रे’ आप्यायनादिभिः सत्कर्तुं युक्तम् । सोमसम्बन्धाभिप्रायेण चोद्य उद्भाविते यागसम्बन्धेन परिहरति- यज्ञस्य वा एवं कर्मेति । एवम्प्रकारक्रमविशिष्टं कर्मजातं यज्ञस्य खलु क्रियत इत्यर्थः । ‘अत्र’ खलु ‘एनान्’ ‘समत्’ कलहः ‘अविन्दत्’ आप्नोत् ‘ते’ च देवाः ‘पूर्वं संशममेवोपायन्’ कलहोपशमनरूपं तानूनप्त्रं ते कृतवन्त इत्यर्थः । अथावान्तरदीक्षामिति । शपथजनितदोषपरिहाराय अनन्तरमेव अवान्तरदीक्षा कार्या । अतः परिशेषादाप्यायनस्यान्ते निवेश इति ॥ १२ ॥

Eggeling
  1. Here now they say, ‘Him, Soma, for whom that strengthening (meal), the guest-offering, is prepared, they ought first to strengthen, and then (ought to be performed) the Avāntaradīkshā, and thereupon the Tānūnaptra.’ But let him not do this. For such indeed was the course of the sacrificial performance: discord arose between them (the gods) thereat; they attained to their former tranquillity; then the Avāntaradīkshā and finally the strengthening.

१३

विश्वास-प्रस्तुतिः

तद्य᳘दाप्याय᳘यन्ति॥
देवो वै सो᳘मो दिवि हि सो᳘मो व्वृत्रो वै सो᳘म आसीत्त᳘स्यैतच्छ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्त᳘दे᳘षो ऽशाना नामौ᳘षधिर्जायत इ᳘ति ह स्माह श्वेत᳘केतुरौ᳘द्दालकिस्ता᳘मेत᳘दाहृ᳘त्याभि᳘षुण्वन्ति तां᳘ दीक्षोपस᳘द्भिस्तानूनप्त्रैराप्या᳘यनेन सो᳘मं कुर्वन्ती᳘ति त᳘थो ऽए᳘वैनामेष᳘ ऽए᳘त᳘द्दीक्षोपस᳘द्भिस्तानूनप्त्रै᳘राप्या᳘यनेन सो᳘मं करोति॥

मूलम् - श्रीधरादि

तद्य᳘दाप्याय᳘यन्ति॥
देवो वै सो᳘मो दिवि हि सो᳘मो व्वृत्रो वै सो᳘म आसीत्त᳘स्यैतच्छ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्त᳘दे᳘षो ऽशाना नामौ᳘षधिर्जायत इ᳘ति ह स्माह श्वेत᳘केतुरौ᳘द्दालकिस्ता᳘मेत᳘दाहृ᳘त्याभि᳘षुण्वन्ति तां᳘ दीक्षोपस᳘द्भिस्तानूनप्त्रैराप्या᳘यनेन सो᳘मं कुर्वन्ती᳘ति त᳘थो ऽए᳘वैनामेष᳘ ऽए᳘त᳘द्दीक्षोपस᳘द्भिस्तानूनप्त्रै᳘राप्या᳘यनेन सो᳘मं करोति॥

मूलम् - Weber

तद्य᳘दाप्याययन्ति॥
देवो वै सो᳘मो दिवि हि सो᳘मो वृत्रो वै सो᳘म आसीत्त᳘स्यैतछ᳘रीरं य᳘द्गिर᳘यो यद᳘श्मानस्त᳘देॗषोशाना नामौ᳘षधिर्जायत इ᳘ति ह स्माह श्वेत᳘केतुरौ᳘द्दालकिस्ता᳘मेत᳘दाहृ᳘त्याभि᳘षुण्वन्ति तां᳘ दीक्षोपस᳘द्भिस्तानूनप्त्रै᳘राप्या᳘यनेन सो᳘मं कुर्वन्ती᳘ति त᳘थो एॗवैनामेष᳘ एत᳘द्दीक्षोपस᳘द्भिस्तानूनप्त्रै᳘राप्या᳘यनेन सो᳘मं करोति॥

मूलम् - विस्वरम्

तद् यदाप्याययन्ति । देवो वै सोमः । दिवि हि सोमः, वृत्रो वै सोम आसीत् । तस्यैतच्छरीरम्- यद्गिरयो, यदश्मानः । तदेषो ऽशाना नामौषधिर्जायते- इति ह स्माह श्वेतकेतुरौद्दालकिः । तामेतदाहृत्याभिषुण्वन्ति । तां दीक्षोपसद्भिः, तानूनप्त्रैः, आप्यायनेन सोमं कुर्वन्तीति । तथो ऽएवैनामेष एतद्दीक्षोपसद्भिस्तानूनप्त्रैराप्यायनेन सोमं करोति ॥ १३ ॥

सायणः

तद्यदाप्याययन्तीति । आध्यापनं प्रशंसति- देवो वा इति । सोमस्य देवत्वं समर्थयते- दिवि हीति । अस्त्वेवं सोमस्य, सोमस्याप्यायने किमायातमित्यत आह- वृत्रो वा इत्यादि । त्वष्ट्रेन्द्रघातकोत्पत्त्यर्थं हुतस्येन्द्रपीतसोमशेषस्य वृत्रत्वेनोत्पत्तेः सोमस्य वृत्रत्वम् । ‘तस्य’ इन्द्रेण हतस्य वृत्रस्य ‘शरीरं’ ‘गिरयो ऽश्मानः’ चाभवन् । सोमाख्यं वस्त्वेव सोमशरीरभूतेषु गिर्यादिषु वर्तते ‘तत् एवः’ अशानाख्या 16 ‘ओषधिः’ ‘जायते’ ‘इति’ एवं ‘श्वेतकेतु’ रौद्दालकिः आह स्म । अतः ‘तामेव’ गिरावुत्पन्नामेव इदानीन्तना यजमानाः अभिषुण्वन्ति, न साक्षात् ‘सोमम्’ । अतः ‘ताम्’ ओषधीं दीक्षादिभिः संस्कारैः साक्षात् ‘सोमं कुर्वन्ति’ तथो एवैनामेष इत्यादि । स्पष्टम् ॥ १३ ॥

Eggeling
  1. Then as to why they strengthen (Soma). Soma is a god, since Soma (the moon) is in the sky. ‘Soma, forsooth, was Vr̥tra; his body is the same as the mountains and rocks: thereon grows that plant called Uśānā,’–so said Śvetaketu Auddālaki;

’they fetch it hither and press it; and by means of the consecration and the Upasads, by the Tānūnaptra and the strengthening they make it into Soma.’ And in like manner does he now make it into Soma by means of the consecration and the Upasads, by the Tānūnaptra and the strengthening.

१४

विश्वास-प्रस्तुतिः

म᳘धु सारघमि᳘ति वा᳘ आहुः॥
(र्य) यज्ञो᳘ ह वै म᳘धुसारघम᳘थैत᳘ ऽएव᳘ सर᳘घो मधुकृ᳘तो य᳘दृत्वि᳘जस्तद्य᳘था म᳘धु मधुकृ᳘त ऽआप्याय᳘येयुरेव᳘मे᳘वैत᳘द्यज्ञमा᳘प्याययन्ति॥

मूलम् - श्रीधरादि

म᳘धु सारघमि᳘ति वा᳘ आहुः॥
(र्य) यज्ञो᳘ ह वै म᳘धुसारघम᳘थैत᳘ ऽएव᳘ सर᳘घो मधुकृ᳘तो य᳘दृत्वि᳘जस्तद्य᳘था म᳘धु मधुकृ᳘त ऽआप्याय᳘येयुरेव᳘मे᳘वैत᳘द्यज्ञमा᳘प्याययन्ति॥

मूलम् - Weber

म᳘धु सारघमि᳘ति वा᳘ आहुः॥
यज्ञो᳘ ह वै म᳘धु सारघम᳘थैत᳘ एव᳘ सर᳘घो मधुकृ᳘तो य᳘दृत्वि᳘जस्तद्य᳘था म᳘धु मधुकृ᳘त आप्याय᳘येयुरेव᳘मेॗवैत᳘द्यज्ञमा᳘प्याययन्ति॥

मूलम् - विस्वरम्

मधु सारघमिति वा आहुः । यज्ञो वै मधु सारघम् । अथैत एव सरघो मधुकृतो यदृत्विजः । तद्यथा मधु मधुकृत आप्याययेयुः- एवमेवैतद्यज्ञमाप्याययन्ति ॥ १४ ॥

सायणः

ऋत्विग्यजमानकर्तृकमाप्यायनं संरघमधुकल्पनया 16 प्रशंसति- मधु सारघमिति वा आहुरित्यादिना ॥ १४ ॥

Eggeling
  1. ‘It is bees’ honey,’ they say; for bees’ honey means the sacrifice, and the bees that make the honey are no other than the officiating priests; and in like manner as the working-bees make the honey increase, so do they (the priests) thereby strengthen the sacrifice.

१५

विश्वास-प्रस्तुतिः

यज्ञे᳘न वै᳘ देवाः᳘॥
(०) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यूपेन[[!!]] योपयित्वा᳘ ति᳘रो ऽभवन्नथ[[!!]] य᳘देनेना᳘योपयंस्त᳘स्माद्यूपो[[!!]] नाम[[!!]]॥

मूलम् - श्रीधरादि

यज्ञे᳘न वै᳘ देवाः᳘॥
(०) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यूपेन[[!!]] योपयित्वा᳘ ति᳘रो ऽभवन्नथ[[!!]] य᳘देनेना᳘योपयंस्त᳘स्माद्यूपो[[!!]] नाम[[!!]]॥

मूलम् - Weber

यज्ञे᳘न वै᳘ देवाः᳟॥
इमां जि᳘तिं जिग्युॗर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इद᳘म् मनुॗष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिॗरो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥

मूलम् - विस्वरम्

यज्ञेन वै देवाः इमां जितिं जिग्युः- यैषामियं जितिः । ते होचुः- कथं न इदं मनुष्यैरनभ्यारोह्यं स्यादिति । ते यज्ञस्य रसं धीत्वा- यथा मधु मधुकृतां निर्द्धयेयुः- विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन् । अथ यदनेनायोपयन् । तस्माद्यूपो नाम ॥ १५ ॥

सायणः

एतदेवाप्यायनं गतसारत्वपरिहारात्मना प्रशंसति- यज्ञेन वै देवा इमां जितिं जिग्युरित्यादिना । यदेवात्र यज्ञस्य निर्द्धीतं यद्विदुग्धं तदेवैतत् पुनराप्याययन्तीत्यन्तेन एतदसकृद् व्याख्यातम् ॥ १५ ॥ १६ ॥

Eggeling
  1. By means of the sacrifice the gods gained that supreme authority which they now wield. They spake, ‘How can this (world) of ours be made unattainable to men?’ Having sipped the sap of the sacrifice, as bees would suck out honey, and having drained the sacrifice and scattered it by means of the sacrificial post, they disappeared; and because they scattered (yopaya) therewith, therefore it is called yūpa (post).

१६

विश्वास-प्रस्तुतिः

तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा[[!!]] ऽएष᳘ यज्ञᳫं᳭ स᳘म्भरति यो दी᳘क्षते व्वाग्वै᳘ यज्ञस्तद्य᳘देवा᳘त्र यज्ञ᳘स्य निर्धीतं[[!!]] यद्वि᳘दुग्धं त᳘दे᳘वैतत्पु᳘नरा᳘प्याययति॥

मूलम् - श्रीधरादि

तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा[[!!]] ऽएष᳘ यज्ञᳫं᳭ स᳘म्भरति यो दी᳘क्षते व्वाग्वै᳘ यज्ञस्तद्य᳘देवा᳘त्र यज्ञ᳘स्य निर्धीतं[[!!]] यद्वि᳘दुग्धं त᳘दे᳘वैतत्पु᳘नरा᳘प्याययति॥

मूलम् - Weber

तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫं स᳘मभरन्य᳘थायं᳘ यज्ञः स᳘म्भृत एवं वा᳘ एष᳘ यज्ञᳫं स᳘म्भरति यो दी᳘क्षते वाग्वै᳘ यज्ञस्तद्य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं त᳘देॗवैतत्पु᳘नरा᳘प्याययति॥

मूलम् - विस्वरम्

तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन् । यथा ऽयं यज्ञः सम्भूतः- एवं वा एष यज्ञं सम्भरति- यो दीक्षते । वाग् वै यज्ञः । तद्यदेवात्र यज्ञस्य निर्धीतं यद्विदुग्धं- तदेवैतत्पुनराप्याययति ॥ १६ ॥

सायणः

[व्याख्यानं पञ्चदशे]

Eggeling
  1. Now this was heard by the R̥shis. They collected the sacrifice; and as that sacrifice was collected, so does he collect the sacrifice who is consecrated. The sacrifice is speech: hence he thereby again supplies what part of the sacrifice here has been sucked out and drained.

१७

विश्वास-प्रस्तुतिः

ते वै ष᳘ड्भूत्वा᳘ ऽऽप्याययन्ति॥
षड्वा᳘ ऋत᳘व ऽऋत᳘व ऽए᳘वैत᳘द्भूत्वा᳘ ऽऽप्याययन्ति॥

मूलम् - श्रीधरादि

ते वै ष᳘ड्भूत्वा᳘ ऽऽप्याययन्ति॥
षड्वा᳘ ऋत᳘व ऽऋत᳘व ऽए᳘वैत᳘द्भूत्वा᳘ ऽऽप्याययन्ति॥

मूलम् - Weber

ते वै ष᳘ड्भूत्वा᳘प्याययन्ति॥
षड्वा᳘ ऋत᳘व ऋत᳘व एॗवैत᳘द्भूत्वा᳘प्याययन्ति॥

मूलम् - विस्वरम्

ते वै षड्भूत्वा ऽऽप्याययन्ति । षड् वा ऋतवः । ऋतव एवैतद् भृत्वा ऽऽप्याययन्ति ॥ १७ ॥

सायणः

ते वै षड्भूत्वा ऽऽप्याययन्तीत्यादि । स्पष्टम् ॥ १७॥

Eggeling
  1. They strengthen (the Soma), being six 17:–there are six seasons: having become the seasons, they strengthen it 18.

१८

विश्वास-प्रस्तुतिः

त ऽआ᳘प्याययन्ति॥
(न्त्य) अᳫँ᳭शुरᳫँ᳭शुष्टे देव सोमा᳘प्यायतामि᳘ति त᳘दस्याशुं᳘ᳫ᳭मᳫं᳭शुमेवा᳘प्याययन्ती᳘न्द्रायैकधनवि᳘द ऽइती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राये᳘त्येकधनवि᳘द ऽइ᳘ति शत᳘ᳫँ᳘ शतᳫँ᳭ ह स्म वा᳘ एष᳘ देवान्प्रत्ये᳘कैक ऽए᳘वाᳫँ᳭शुरे᳘कधना᳘नाप्यायते[[!!]] द᳘श दश वा तु᳘भ्यमि᳘न्द्रः प्या᳘यतामा त्वमि᳘न्द्राय प्यायस्वेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मे᳘वैतदा᳘प्याययत्या त्वमि᳘न्द्राय प्यायस्वे᳘ति त᳘देत᳘स्मिन्नाप्या᳘यनं दधात्या᳘प्याययास्मान्त्स᳘खीन्त्सन्या᳘ मेधये᳘ति स य᳘त्सनो᳘ति तत्त᳘दाह य᳘त्सन्येत्य᳘थ य᳘दनुब्रूते त᳘दु त᳘दाह य᳘न्मेधये᳘ति स्वस्ति᳘ ते देव सोम सुत्या᳘मशीयेत्ये᳘का वा᳘ ऽएते᳘षामाशी᳘र्भवत्यृत्वि᳘जां च य᳘जमानस्य च यज्ञ᳘स्योदृ᳘चं गच्छेमे᳘ति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

त ऽआ᳘प्याययन्ति॥
(न्त्य) अᳫँ᳭शुरᳫँ᳭शुष्टे देव सोमा᳘प्यायतामि᳘ति त᳘दस्याशुं᳘ᳫ᳭मᳫं᳭शुमेवा᳘प्याययन्ती᳘न्द्रायैकधनवि᳘द ऽइती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राये᳘त्येकधनवि᳘द ऽइ᳘ति शत᳘ᳫँ᳘ शतᳫँ᳭ ह स्म वा᳘ एष᳘ देवान्प्रत्ये᳘कैक ऽए᳘वाᳫँ᳭शुरे᳘कधना᳘नाप्यायते[[!!]] द᳘श दश वा तु᳘भ्यमि᳘न्द्रः प्या᳘यतामा त्वमि᳘न्द्राय प्यायस्वेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता सा᳘ यैव᳘ यज्ञ᳘स्य देव᳘ता ता᳘मे᳘वैतदा᳘प्याययत्या त्वमि᳘न्द्राय प्यायस्वे᳘ति त᳘देत᳘स्मिन्नाप्या᳘यनं दधात्या᳘प्याययास्मान्त्स᳘खीन्त्सन्या᳘ मेधये᳘ति स य᳘त्सनो᳘ति तत्त᳘दाह य᳘त्सन्येत्य᳘थ य᳘दनुब्रूते त᳘दु त᳘दाह य᳘न्मेधये᳘ति स्वस्ति᳘ ते देव सोम सुत्या᳘मशीयेत्ये᳘का वा᳘ ऽएते᳘षामाशी᳘र्भवत्यृत्वि᳘जां च य᳘जमानस्य च यज्ञ᳘स्योदृ᳘चं गच्छेमे᳘ति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

त आ᳘प्याययन्ति॥
अंशुरंशुष्टे देव सोमा᳘प्यायतामि᳘ति त᳘दस्यांशु᳘मंशुमेवा᳘प्याययन्ती᳘न्द्रायैकधनवि᳘द इती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राये᳘त्येकधनवि᳘द इति शतं᳘शतᳫं ह स्म वा᳘ एष᳘ देवान्प्रत्ये᳘कैक एवांशुरे᳘कधनाना᳘प्यायते द᳘शदश वा तु᳘भ्यमि᳘न्द्रः प्या᳘यतामा त्वमि᳘न्द्राय प्यायस्वेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता साॗ यैव यज्ञ᳘स्य देव᳘ता ता᳘मेॗवैतदा᳘प्याययत्या त्वमि᳘न्द्राय प्यायस्वे᳘ति त᳘देत᳘स्मिन्नाप्या᳘यनं दधात्या᳘प्याययास्मान्त्स᳘खीन्त्सन्या मेधये᳘ति स य᳘त्सनो᳘ति तत्त᳘दाह य᳘त्सन्येत्य᳘थ य᳘दनुब्रूते त᳘दु त᳘दाह य᳘न्मघये᳘ति स्वस्ति ते देव सोम सत्या᳘मशीयेत्ये᳘का वा᳘ एते᳘षामाशी᳘र्भवत्यृत्वि᳘जां च य᳘जमानस्य च यज्ञ᳘स्योदृ᳘चं गछेमे᳘ति यज्ञ᳘स्योदृ᳘चं गछानी᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

त आप्याययन्ति- “अंशुरंशुष्टे देव सोमाप्यायताम्”- (वा. सं. ५ । ७) इति । तदस्यांशुमंशुमेवाप्याययन्ति । “इन्द्रायैकधनविदे”- (वा. सं. ५ । ७) इति । इन्द्रो वै यज्ञस्य देवता । तस्मादाह- इन्द्राय इति । एकधनविद ऽइति । शतं शतं ह स्म वा एष देवान्प्रत्येकैक एवांशुः । एकधनानाप्यायते, दश-दश वा । “आतुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्व”- (वा. सं. ५ । ७) इति । इन्द्रो वै यज्ञस्य देवता । सा चैव यज्ञस्य देवता- तामेवैतदाप्याययति । आ त्वमिन्द्राय प्यायस्व इति । तदेतस्मिन्नाप्यायनं दधाति । “आप्याययास्मान्त्सखीन्त्सन्या मेधया”- (वा. सं ५ । ७) इति । स यत्सनोति- तत्तदाह यत्सन्येति । अथ यदनुब्रूते । तदु तदाह-यन्मेधयेति । “स्वस्ति ते देव सोम सुत्यामशीय”- (वा. सं. ५ । ७) इति । एका वा एतेषामाशीर्भवति- ऋत्विजां च यजमानस्य च “यज्ञस्योदृचं गच्छेम” -इति । यज्ञस्योदृचं गच्छानीत्येवैतदाह ॥ १८ ॥

सायणः

त आप्याययन्तीति । आप्यायनमन्त्रस्य प्रथमभागं व्याचष्टे- अंशुरंशुष्टे देवेत्यादि। यद्यप्याप्यायने सोमस्य सर्वो ऽशुर्नाप्यायते, तथापि मन्त्रे ‘अंशुरंशुः’ इति वीप्साभिधानसामर्थ्येनैव प्रत्यंशु आप्याययन्तो भवन्तीत्यर्थः । इन्द्रायैकधनविद इति । अत्रेन्द्रशब्दतात्पर्यमाह- इन्द्रो वै यज्ञस्येति । एकधनानाप्यायते दश दश वेति । एक एव सोमादिरूपो हविःपदार्थ एव धनं येषां ते देवा एकधनाः; तान् विन्दति यज्ञे सोमपानाय लभत इतीन्द्रः ‘एकधनवित्’ । ‘तस्मात्’ एकैक एवाशुः शतशो दशशो वा ‘एकधनान्’ देवान् ‘आप्यायते’ वर्द्धयति, शरीरोपचयं करोति, अतः उक्तप्रकारेण सोमाख्यैकधनेन देवानामेकधनत्वान्मन्त्रः ‘इन्द्रायैकधनविदे’ ‘इति’ ‘आह’ इत्यर्थः । आ तुभ्यमिन्द्रः प्यायतामिति । हे सोम ! ‘तुभ्यं’ त्वदर्थं त्वां पातुं स इन्द्रः समर्थो भवत्विति । यज्ञसाधनभूतस्य सोमस्येन्द्रार्थत्वावगमादिन्द्रस्यैवाप्यायनं कृतं भवतीत्यर्थः । आ त्वमिन्द्राय प्यायस्वेति । अत्र सोमाप्यायनरयेन्द्रार्थत्वावगतेस्तस्मिन्नेवाप्यायनं दधातीत्युक्तम् । आप्याययास्मान्त्सखीन्त्सन्न्या मेधयेति । अनेन मन्त्रभागेन धनमेषां दित्सया प्यायनायास्मत्सखिभूतानामृत्विजामाशासनं क्रियते । अत्र ‘सनि-मेधा’- शब्दयोर्दातव्यं धनमनुवचनीयं मन्त्रादिकं चार्थ इत्याह- स यत् सनोति तत्तदाह यत्सन्येतीति । ‘सन्या’ ‘इति’ एवंरूपेण शब्देन यदाहार्थजातम् ‘तद्’ ‘यत् सनोति’ धनं यज्ञेन यजमानः, ‘तदाह’ इत्यर्थः । एवमुत्तरवाक्यमपि योज्यम् । पूर्वापरभूतस्यानुवचनस्य मेधामन्तरेणासम्भवान्मेधाशब्दस्यानुवचनमर्थ इति व्याख्यानम् । स्वस्ति ते देव सोमेति । ‘हे सोम !’ तव ‘स्वस्ति’ विनाशाभावः क्षेमः, अस्त्विति शेषः । अहं त्वदनुग्रहात् ‘सुत्याम्’ सोमाभिषवम् ‘अशीय’ आप्नुयाम् । सुत्याप्राप्तिप्रार्थनायास्तात्पर्यमाह- एको वा एतेषामाशीर्भवतीति । यज्ञस्योदृचमिति । उपरिभाविनी 19 ऋक् ‘उदृक्’ तया समाप्तिर्लक्ष्यते ॥ १८ ॥

Eggeling
  1. They strengthen him with (Vāj. S. V, 7),

‘Let stalk after stalk of thine wax strong, O divine Soma!’ whereby they strengthen (increase) stalk after stalk of his;–‘for Indra, the winner of the ekadhanas 20;’ Indra indeed is the deity of the sacrifice: therefore he says, ‘For Indra, the winner (or bestower) of the ekadhanas.’ For verily every one of those stalks swells to fill a hundred or ten 21 ekadhana cups for the several gods. ‘May Indra wax strong for thee, and wax thou strong for Indra!’ for Indra is the deity of the sacrifice: he thus strengthens him who is the deity of the sacrifice. By saying, ‘Wax thou strong for Indra,’ he instils that invigorating draught into him. ‘Strengthen us friends with gain and understanding!’ ‘With gain’ he says with reference to what he gains; and ‘with understanding’ he says with reference to what he recites. ‘Mayest thou thrive, O divine Soma, and may I attain to the Soma-feast!’ They, the priests and sacrificer, have one prayer in common, ‘May we reach the end of the sacrifice!’ hence he thereby means to say, ‘May I reach the end of the sacrifice!’

१९

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ प्रस्तरे नि᳘ह्नुवते॥
(त ऽ) उत्तरत᳘उपचारो वै᳘ यज्ञो᳘ ऽथैत᳘द्दक्षि᳘णेवान्वित्याप्याययन्त्यग्निर्वै᳘[[!!]] यज्ञस्त᳘द्यज्ञं᳘ पृष्ठतः᳘ कुर्व्वन्ति त᳘न्मिथ्या᳘ कुर्व्वन्ति देवे᳘भ्य ऽआ᳘वृश्च्यन्ते यज्ञो वै᳘ प्रस्तरस्त᳘द्यज्ञं पु᳘नरा᳘रभन्ते त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थो हैषामेतन्न᳘ मिथ्या᳘कृतं भ᳘वति न᳘ देवे᳘भ्य आ᳘वृश्च्यन्ते त᳘स्मात्प्रस्तरे नि᳘ह्नुवते॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ प्रस्तरे नि᳘ह्नुवते॥
(त ऽ) उत्तरत᳘उपचारो वै᳘ यज्ञो᳘ ऽथैत᳘द्दक्षि᳘णेवान्वित्याप्याययन्त्यग्निर्वै᳘[[!!]] यज्ञस्त᳘द्यज्ञं᳘ पृष्ठतः᳘ कुर्व्वन्ति त᳘न्मिथ्या᳘ कुर्व्वन्ति देवे᳘भ्य ऽआ᳘वृश्च्यन्ते यज्ञो वै᳘ प्रस्तरस्त᳘द्यज्ञं पु᳘नरा᳘रभन्ते त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थो हैषामेतन्न᳘ मिथ्या᳘कृतं भ᳘वति न᳘ देवे᳘भ्य आ᳘वृश्च्यन्ते त᳘स्मात्प्रस्तरे नि᳘ह्नुवते॥

मूलम् - Weber

अ᳘थ प्रस्तरे नि᳘ह्नुवते॥
उत्तरत᳘उपचारो वै᳘ यज्ञो᳘ ऽथैत᳘द्दक्षिॗणेवान्वित्या᳘प्याययन्त्यग्निर्वै᳘ यज्ञस्त᳘द्यज्ञ᳘म् पृष्ठतः᳘ कुर्वन्ति त᳘न्मिथ्या᳘कुर्वन्ति देवे᳘भ्य आ᳘वृश्च्यन्ते यज्ञो वै᳘ प्रस्तरस्त᳘द्यज्ञम् पु᳘नरा᳘रभन्ते त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थो हैषामेतन्न᳘ मिथ्या᳘कृतम् भ᳘वति न᳘ देवे᳘भ्य आ᳘वृश्च्यन्ते त᳘स्मात्प्रस्तरे नि᳘ह्नुवते॥

मूलम् - विस्वरम्

अथ प्रस्तरे निह्नुवते । उत्तरतउपचारो वै यज्ञः । अथैतद् दक्षिणेवान्वित्याप्याययन्ति । अग्निर्वै यज्ञः । तद् यज्ञं पृष्ठतः कुर्वन्ति । तन्मिथ्या कुर्वन्ति, देवेभ्य आवृश्च्यन्ते । यज्ञो वै प्रस्तरः । तद् यज्ञं पुनरारभन्ते । तस्यो हैषा प्रायश्चित्तिः । तथो हैषामेतन्न मिथ्याकृतं भवति । न देवेभ्य आवृश्च्यन्ते । तस्मात् प्रस्तरे निह्नुवते ॥ १९ ॥

सायणः

आप्यायनमभिधाय निह्नवमाह- अथ प्रस्तरे निह्नुवत इति 19 । प्रस्तरस्योपरि पाणी सम्पुटीकृत्य “एष्टा रायः”- (वा. सं. ५ । ७ ।) इति मन्त्रजपो निह्नवः । निह्नवशब्दो ऽपलापे प्रसिद्धो लोके, इह देवानां नमस्कारादिना सान्त्वनं विहितम् । निह्नवं सोमाप्यायनकाले सम्भावितस्यातिक्रमस्य परिहाररूपेण प्रशंसति- उत्तरत उपचारो वै यज्ञ इति । उत्तर उपचार इति व्यतिरेकप्रदर्शनाय अभिधानं साध्यसाधनयोरभेदाभिप्रायेण । अग्नेर्यज्ञत्वमृत्विजां दक्षिणत उपचारेण । पश्चाद्भागस्थितस्य गार्हपत्यस्य पृष्ठतः करणं भवति, तेन ‘मिथ्या’ अकृतं कुर्वन्ति; अग्नेः सर्वदेवात्मकत्वात् सर्वदेवेभ्यो ऽपि वर्जितो भवति । तर्हि प्रस्तरनिह्नवेन कथं समाधानमिति, तत्राह- यज्ञो वै प्रस्तर इति । हविराधारकत्वेन यज्ञनिर्वर्त्तकत्वात् प्रस्तरस्य यज्ञत्वोपचारः ॥ १९ ॥

Eggeling
  1. Thereupon they make amends on the prastara. For the sacrifice requires a northward attendance;

but now they strengthen (Soma) after going, as it were, towards the right (south) 22; and, the sacrifice being the fire, they thereby turn their back on the sacrifice and thus do wrong and are cut off from the gods. Now the prastara also is (part of) the sacrifice, and by (touching) it they again get hold of the sacrifice. And this is his expiation of that (transgression); and so no wrong is committed by them and they are not cut off from the gods: for this reason they make amends on the prastara.

२०

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र) अक्ते᳘ निह्नुवीरा ३ न᳘नक्ता ३ इत्य᳘नक्ते हैव नि᳘ह्नुवीरन्न नु प्रह᳘रण᳘ᳫं᳘[[!!]] ह्ये᳘वाक्त᳘स्य॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र) अक्ते᳘ निह्नुवीरा ३ न᳘नक्ता ३ इत्य᳘नक्ते हैव नि᳘ह्नुवीरन्न नु प्रह᳘रण᳘ᳫं᳘[[!!]] ह्ये᳘वाक्त᳘स्य॥

मूलम् - Weber

त᳘दाहुः॥
अक्ते᳘ निह्नुवीरान᳘नक्ता इत्य᳘नक्ते हैव नि᳘ह्नुवीरन्ननुप्रह᳘रॗणᳫं ह्येॗवाक्त᳘स्य॥

मूलम् - विस्वरम्

तदाहुः- अक्ते निह्नुवीरा ३ ननक्ता ३ इति । अनक्ते हैव निह्नुवीरन् । न तु प्रहरणं ह्येवाक्तस्य ॥ २० ॥

सायणः

निह्नुवस्य कालं निर्द्धारयितुं ब्रह्मवादिनां विचारं दर्शयति- तदाहुरक्ते निह्नुवीरा ३ ननक्ता ३ इतीति 23 । किमु ‘अक्ते’ प्रस्तरे निह्नवः कर्त्तव्यः उतानक्ते ? इति विचार्यमाणत्वात्- (पा. सू. ८ । २ । ९७) । प्लुतिः अक्तस्य अविलम्बेनाग्नौ प्रहरणादनक्त एव प्रस्तरे कर्तव्यमित्यर्थः ॥ २० ॥

Eggeling
  1. Here now they say, ‘On the anointed?–let them rather make amends on the unanointed 24!’ They should indeed make amends on the un-anointed (prastara), since anointed it is thrown into the fire.

२१

विश्वास-प्रस्तुतिः

ते नि᳘ह्नुवते॥
(त ऽ) ए᳘ष्टा रा᳘यः᳘ प्रेषे भ᳘गाय ऽऋत᳘मृतवादि᳘भ्य इ᳘ति सत्य᳘ᳫँ᳘ सत्यवादि᳘भ्य ऽइ᳘त्यै᳘वैत᳘दाह न᳘मो द्या᳘वापृथिवी᳘भ्यामि᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यां नि᳘ह्नुवते य᳘योरिदᳫँ᳭ स᳘र्वमधि[[!!]]॥

मूलम् - श्रीधरादि

ते नि᳘ह्नुवते॥
(त ऽ) ए᳘ष्टा रा᳘यः᳘ प्रेषे भ᳘गाय ऽऋत᳘मृतवादि᳘भ्य इ᳘ति सत्य᳘ᳫँ᳘ सत्यवादि᳘भ्य ऽइ᳘त्यै᳘वैत᳘दाह न᳘मो द्या᳘वापृथिवी᳘भ्यामि᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यां नि᳘ह्नुवते य᳘योरिदᳫँ᳭ स᳘र्वमधि[[!!]]॥

मूलम् - Weber

ते नि᳘ह्नुवते॥
ए᳘ष्टा राॗयः प्रेषे भ᳘गाय ऋत᳘मृतवादि᳘भ्य इ᳘ति सत्य᳘ᳫं᳘ सत्यवादि᳘भ्य इ᳘त्यैॗवैत᳘दाह न᳘मो द्या᳘वापृथिवी᳘भ्यामि᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यां नि᳘ह्नुवते य᳘योरिदᳫं स᳘र्वम᳘धि॥

मूलम् - विस्वरम्

ते निह्नुवते । “एष्टा रायः प्रेषे भगाय ऋतमृतवादिभ्यः”- (वा. सं. ५ । ७) इति । सत्यं सत्यवादिभ्य इत्येवैतदाह । “नमो द्यावापृथिवीभ्याम्”- (वा. सं. ५ । ७) इति । तद् आभ्यां द्यावापृथिवीभ्यां निह्नुवते; ययोरिदं सर्वमधि ॥ २१ ॥

सायणः

ते निह्नुवत एष्टा रायः प्रेष इति । (तै. सं. ६ । २ । २ । ६) निह्नवमन्त्रस्यायमर्थः । हे ‘एष्टः’ ! तृजन्तस्य सम्बुद्धिः । धनं यजमानार्थमिच्छन् अग्ने ! अत्र ब्राह्मणे सोमाप्यायननिह्नवातिक्रमस्योक्तत्वात् स एव प्रसाध्यः । ‘रायः’ धनानि, प्रयच्छन्निति शेषः । किमर्थम् ? ‘इषे’ अन्नाय, ‘भगाय’ सौख्याय च । तथा ‘ऋतवादिभ्यः’ सत्यवादिभ्यो ऽस्मभ्यम् ‘ऋतं प्रयच्छ’ क्रियमाणं कर्म यथा न वृथा 25 स्यात्, तथा कुर्वित्यर्थः । सर्वदेवाश्रयाभ्यां ‘द्यावापृथिवीभ्यां’ ‘नमः’ अस्तु । ऋतशब्दस्योदकयज्ञाद्यर्थेषु अभिमतमर्थमाह- सत्यवादिभ्य इतीति । द्यावापृथिवीभ्यां नमस्कार एव निह्नव इत्याह- द्यावापृथिवीभ्यामेव निह्नुवत इति । अस्तु नमस्कारेण तयोर्निह्नवः, इतरेषां देवानां स कथं कृतः स्यादिति, तत्राह- ययोरिदं सर्वमधीति । यस्मात् तयोरन्तः ‘इदम्’ परिदृश्यमानं सर्वम् ‘अधि’ स्थितमिति शेषः । तस्मादित्यर्थः । अथवा ‘अधि’- इति सप्तम्यर्थानुवादी तयोरधीदं सर्वमिति ॥ २१ ॥

Eggeling
  1. They make amends 26 with, ‘Desirable treasures (may come) forth for strength and well-being–the right for the right-saying’–whereby

he means to say, ’the truth for the truth-speaking;’–‘Homage be to Heaven and to the Earth!’ whereby they make amends to these two, heaven and earth, on whom this All is founded.

२२

विश्वास-प्रस्तुतिः

(ध्य᳘) अ᳘थाह समुल्लु᳘प्य प्रस्तर᳘म्॥
(म᳘) अ᳘ग्नीन्म᳘दन्त्यापा ३ इ᳘ति म᳘दन्ती᳘त्यग्नी᳘दाह ता᳘भिरेही᳘त्युप᳘र्य्युपर्य्यग्निम᳘तिहरति स य᳘न्नानुप्रह᳘रत्येते᳘न ह्य᳘त ऊर्द्ध्वान्य᳘हानि प्रचरिष्यन्भ᳘वत्य᳘थ य᳘दुप᳘र्य्युपर्य्यग्नि᳘मतिह᳘रति त᳘दे᳘वास्यानुप्रहृतभाजनं᳘ भवति त᳘मग्नी᳘धे प्र᳘यच्छति त᳘मग्नीन्नि᳘दधाति॥

मूलम् - श्रीधरादि

(ध्य᳘) अ᳘थाह समुल्लु᳘प्य प्रस्तर᳘म्॥
(म᳘) अ᳘ग्नीन्म᳘दन्त्यापा ३ इ᳘ति म᳘दन्ती᳘त्यग्नी᳘दाह ता᳘भिरेही᳘त्युप᳘र्य्युपर्य्यग्निम᳘तिहरति स य᳘न्नानुप्रह᳘रत्येते᳘न ह्य᳘त ऊर्द्ध्वान्य᳘हानि प्रचरिष्यन्भ᳘वत्य᳘थ य᳘दुप᳘र्य्युपर्य्यग्नि᳘मतिह᳘रति त᳘दे᳘वास्यानुप्रहृतभाजनं᳘ भवति त᳘मग्नी᳘धे प्र᳘यच्छति त᳘मग्नीन्नि᳘दधाति॥

मूलम् - Weber

अ᳘थाह समुल्लु᳘प्य प्रस्तर᳘म्॥
अ᳘ग्नीन्म᳘दन्त्यापाइ᳘ति 27 म᳘दन्ती᳘त्यग्नी᳘दाह ता᳘भिरेही᳘त्युप᳘र्युपर्यग्निम᳘तिहरति स यॗन्नानुप्रह᳘रत्येते᳘न ह्य᳘त ऊर्ध्वान्य᳘हानि प्रचरिष्यन्भ᳘वत्य᳘थ य᳘दुप᳘र्युपर्यग्नि᳘मतिह᳘रति त᳘देॗवास्यानुप्रहृतभाजन᳘म् भवति त᳘मग्नी᳘धे प्र᳘यछति त᳘मग्नीन्नि᳘दधाति॥

मूलम् - विस्वरम्

अथाह समुल्लुप्य प्रस्तरम्; अग्नीन्मदन्ति- आपा ३ ॥ इति । मदन्तीत्यग्नीदाह । ताभिरेहीत्युपर्य्युपर्य्यग्निमतिहरति । स यन्नानुप्रहरति; एतेन ह्यतः ऊर्ध्वान्यहानि प्रचरिष्यन्भवति । अथ यदुपर्य्युपर्य्यग्निमतिहरति; तदेवास्यानुप्रहृतभाजनं भवति । तमग्नीधे प्रयच्छति । तमग्नीन्निदधाति ॥ २२ ॥

सायणः

अध्वर्युकर्तृकं प्रैषं दर्शयति- अथाह समुल्लुप्य प्रस्तरमग्नीन्मदन्त्यापा ३ इतीति 25 । ‘प्रस्तरं’ ‘समुल्लुप्य’ सम्यगाहत्येत्यर्थः । हे ‘अग्नीत्’ ! ‘आपः’ किम् ‘मदन्ती’ मदन्त्यः तप्ताः किमासन्नित्यर्थः । ‘ताभिरेहि’ इति, ‘आह’ इति शेषः । तं प्रस्तरम् ‘अग्निम् उपर्युपरि’ अग्नेरुर्ध्वोर्ध्वभावे ‘अतिहरति’ अनुप्रहरेत् 28 । अनुप्रहरणस्य प्रयोजनमाह- एतेन ह्यत ऊर्ध्वानीति । ‘एतेन’ आतिथ्यार्थप्रस्तरेण । उपर्युपरि प्रहरणस्य प्रयोजनमाह- तदेवास्यानुप्रहृतभाजनं भवतीति । ‘तम्’ अध्वर्युणा दत्तं प्रस्तरम्, ‘अग्नीत्’ आग्नीध्रः सुरक्षिते देशे ‘निदधाति’ 29 स्थापयेत् ॥ २२ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे चतुर्थाध्याये तृतीयं ब्राह्मणम् ॥ ३-४-३ ॥

Eggeling
  1. Having then picked up the prastara, he says, ‘Agnīdh, does the water boil? It boils,’ replies the Agnīdh 30. ‘Come hither with it!’ He holds (the prastara) quite close over the fire. The reason why he does not throw it into the fire is that he (the sacrificer) is to perform therewith 31 during the days that follow; and in that he holds it quite close over the fire, thereby it is for him as if it were really thrown into the fire. He hands it to the Agnīdh, and the Agnīdh puts it aside (in a safe place).

  1. 97:2 The Avāntaradīkshā extends to the end of the sixth Brāhmaṇa. ↩︎

  2. 98:1 Our text has no verb; the Kāṇva recension reads ‘auhanta.’ ↩︎

  3. 98:2 Viz. the dīkshā, as symbolised by the zone (or the skin). ↩︎

  4. 98:3 Viz. through Agni, or the Avāntaradīkshā. ↩︎

  5. ‘विसृजते’ इति सायणसम्मतः पाठः । ↩︎

  6. विसृज्य᳘ते AB विसृजते Sây. ↩︎

  7. स᳘माश्नवत AB. ↩︎

  8. 99:1 The sacrificer’s wife performs silently on and near the Gārhapatya fire the same ceremonies as her husband. ↩︎

  9. व्रयास्त्वे᳘ व्रतया A. ↩︎

  10. अग्नेव्व्रतपा इत्याहवनीयसमिधमाधाय मदंतीरुपस्पृश्य गाढतरं मुष्टिमेखलं कुरुते । का. श्रौ. सू. ८ । २४ । ↩︎

  11. 99:2 Tanu, see p. 10, note 4. ↩︎

  12. मदंतोरुपस्पृश्य यजमानगृह्याः सोममाप्याययंत्यँ शुरिति । का. श्रौ. सू. ८ । २६ । ↩︎

  13. ‘रेतसश्चौषाधसाररूपत्वात्’ इति क्व. पा. । ↩︎

  14. 100:1 On the ‘āpyāyana’ (ā-pyai,’to swell; make swell,’ to strengthen, become strong, increase, fill), see part i, p. 178, note 2. According to Āpastamba and other authorities, they tie a piece of gold to their nameless (gold) finger, and touch the Soma with their moist hands. ↩︎

  15. तमेवाग्रे Sây. तमेवा᳘य A. तमेवा᳘ग्र B. ↩︎

  16. दुधानाख्या इति उपानाख्यः इति च क्व. पा. । ↩︎ ↩︎

  17. 101:1 Viz. the five priests–Brahman, Udgātr̥, Hotr̥, Adhvaryu, and Āgnīdhra–and the sacrificer. ↩︎

  18. 101:2 That is, as the seasons make the Soma-plant grow. ↩︎

  19. तदुपरिभाविनी । इ० पा० । ↩︎ ↩︎

  20. 102:1 Ekadhana-vid; the meaning of ’ekadhana’ (apparently ‘one prize’ or ‘one part of the booty or goods’) in this compound is not clear. The author of the Brāhmaṇa seems to take it in its technical sense, viz. the ekadhana pitchers in which the ekadhanā water, used for mixing with the Soma juice, is kept, see III, 9, 3; 16; 27; 34. According to Haug, Transl. Ait. Br. p. 114 notes, they are so called because the Adhvaryu throws one stalk of Soma (eka-dhana) into each pitcher to consecrate it. ↩︎

  21. 102:2 This anticlimax is rather curious. The Kāṇva text reads: daśa daśa vā ha smaisha ekaiko ’ṁśur devān pratīndrāyaikadhanān āpyāyayanti (!) śataṁ śatam vā tasmād āhaikadhanavida iti. ↩︎

  22. 103:1 Soma’s throne stands south of the Āhavanīya fire, and in going to perform the āpyayanam upon him, the priests and sacrificer have to move round the fire, along the east side of it towards the south (the region of the Fathers). ↩︎

  23. व्यूहनपरिध्यंजने कृत्वैके । का० श्रौ० सू० । ८-२८ । ↩︎

  24. 103:2 This seems to be Sāyaṇa’s interpretation of the passage ‘akte nihnuvīrā̃n anaktā̃i.’ The two words, with their final syllable protracted, being intended to strongly contradict the preceding ‘akte.’ It is hardly possible to take the latter absolutely, ‘it being anointed (when thrown into the fire), let them make amends on it while unanointed.’ On the throwing of the prastara into the fire, see I, 8, 3, 17. The prastara referred to is that of the guest-offering (ātithyeshṭi), which was broken off after the Iḍā ceremony (see III, 4, I, 26) and has to be completed after the present ceremony. Neither the prastara nor the barhis is burnt on this occasion. ↩︎

  25. मुधा- इ. क्व.पा. । ↩︎ ↩︎

  26. 103:3 In performing this propitiatory rite, the priests and sacrificer lay their hands on the prastara, either both of them with the palms upwards, or only the right one, and the left in the opposite way. Kāty. VIII, 2, 9. The latter mode is the one practised by the Taittirīyas. Sāy. on Taitt. S. I, 2, 11. ↩︎

  27. दन्त्या᳘पा३ इ᳘ति AB, see ३. ३. १. ↩︎

  28. न प्रहरेत् इति क्व. पा. । ↩︎

  29. ताभिरेहीति ब्रुवन्नध्याहवनीयँ हृत्वा ऽभ्युक्ष्याग्नीधे प्रयच्छति निधानाय । का. श्रौ. सू. ८ । ३१ । ↩︎

  30. 104:1 According to the Kāṇva text, this conversation takes the place of the colloquy (samudita) held by the Adhvaryu and the Āgnīdhra, after the prastara has been thrown into the fire at the normal ishṭi; see I, 8, 3, 20. ↩︎

  31. 104:2 Or, ‘in the shape of it (tena),’ the prastara representing the sacrificer himself. This sentence seems also to imply, that the sacrificer thereby continues to live during the days that follow. ↩︎