०१
विश्वास-प्रस्तुतिः
आतिथ्ये᳘न वै᳘ देवा᳘ ऽइष्ट्वा[[!!]]॥
ता᳘न्त्सम᳘दविन्दत्ते᳘ चतुर्धा᳘ व्यद्रवन्न᳘न्यो ऽन्य᳘स्य[[!!]] श्रिया ऽअ᳘तिष्ठमाना ऽअग्निर्व्व᳘सुभिः सो᳘मो रुद्रैर्व्व᳘रुण ऽआदित्यैरि᳘न्द्रो मरु᳘द्भिर्बृ᳘हस्प᳘तिव्र्वि᳘श्वैर्देवैरि᳘त्यु है᳘क ऽआहुरेते᳘ ह᳘ त्वेव ते व्वि᳘श्वे देवा ये ते᳘ चतुर्धा व्य᳘द्रवंस्तान्वि᳘द्रुतानसुररक्षसा᳘न्यनुव्य᳘वेयुः᳘॥
मूलम् - श्रीधरादि
आतिथ्ये᳘न वै᳘ देवा᳘ ऽइष्ट्वा[[!!]]॥
ता᳘न्त्सम᳘दविन्दत्ते᳘ चतुर्धा᳘ व्यद्रवन्न᳘न्यो ऽन्य᳘स्य[[!!]] श्रिया ऽअ᳘तिष्ठमाना ऽअग्निर्व्व᳘सुभिः सो᳘मो रुद्रैर्व्व᳘रुण ऽआदित्यैरि᳘न्द्रो मरु᳘द्भिर्बृ᳘हस्प᳘तिव्र्वि᳘श्वैर्देवैरि᳘त्यु है᳘क ऽआहुरेते᳘ ह᳘ त्वेव ते व्वि᳘श्वे देवा ये ते᳘ चतुर्धा व्य᳘द्रवंस्तान्वि᳘द्रुतानसुररक्षसा᳘न्यनुव्य᳘वेयुः᳘॥
मूलम् - Weber
आतिथ्ये᳘न वै᳘ देवा᳘ इष्ट्वा᳟॥
ता᳘न्त्सम᳘दविन्दत्ते᳘ चतुर्धा व्य᳘द्रवन्नॗन्यो ऽन्य᳘स्य श्रिया अ᳘तिष्ठमाना अग्निर्व᳘सुभिः सोमो रुद्रैर्व᳘रुण आदित्यैरि᳘न्द्रो मरु᳘द्भिर्बृ᳘हस्प᳘तिर्वि᳘श्वैर्देवैरि᳘त्यु है᳘क आहुरेते᳘ हॗ त्वेव ते वि᳘श्वे देवा ये ते᳘ चतुर्धा व्य᳘द्रवंस्तान्वि᳘द्रुतानसुररक्षा᳘न्यनुव्य᳘वेयुः॥
मूलम् - विस्वरम्
अथ प्रवर्ग्यकर्मणि तानूनप्त्रम् ।
आतिथ्येन वै देवा इष्ट्वा, तान्त्समदविन्दत् । ते चतुर्धा व्यद्रवन् अन्यो ऽन्यस्य श्रिया ऽअतिष्ठमानाः । अग्निर्वसुभिः, सोमो रुद्रैः, वरुण आदित्यैः, इन्द्रो मरुद्भिः । बृहस्पतिर्विश्वेदेवैः- इत्यु हैक ऽआहुः । एते ह त्वेव ते विश्वे देवाः- ये ते चतुर्धा व्यद्रवन् । तान्विदुतानसुररक्षसान्यनुव्यवेयुः ॥ १ ॥
सायणः
अथ तानूनप्त्रं विधातुमाख्यायिकामाह- आतिथ्येन वै देवा इष्ट्वा, तान्त्समदविन्ददित्यादिना । पुरा किल देवाः ‘आतिथ्येनेष्ट्वा व्यद्रवन्’ इति सम्बन्धः । विद्रवणे कः प्रसङ्गः ? इति तं दर्शयति- तान्त्समदविन्ददिति । तस्मिन् समये ‘तान्’ देवान् ‘समत्’ कलहः ‘अविन्दत्’ प्राप्तवान् । समच्छब्दः संग्रामबाची । “सङ्गे समत्सु वृत्रहा” (ऋ. सं. १० । १३३ । १ ।) “येनासमत्सु सासहः” (वा. सं. १५-३९) इत्यादौ समच्छब्दः सङ्ग्रामे प्रसिद्धः । ते देवाः ‘चतुर्द्धा’ ‘व्यद्रवन्’ पृथग्भूताः । किमर्थम् ? ‘अन्यो ऽन्यस्य श्रिया अतिष्ठमानाः’ ‘श्रियै’ ज्योतिष्टोमफलरूपायै आत्मनो ऽभिप्रायमप्रकाशयन्तः तामसहमाना इत्यर्थः । “प्रकाशनस्थेयाख्ययोश्च” (पा. सू. १ । ३ । २३) इति तिष्ठतेरात्मनेपदम् । ”श्लाघह्नुङ्” (पा. सू. १ । ४ । ३४) इति श्रिया ज्ञापयितुमिष्टत्वाच्चतुर्थी । विद्रवणप्रकारं विभज्य दर्शयति- अग्निर्वसुभिरित्यादि । शाखान्तरप्रसिद्धं (तै. सं. ६ । २ । २ ।) पञ्चमं गणमुदाहृत्य सोपपत्तिकं पराचष्टे- बृहस्पतिर्विश्वैर्देवैरित्युहैक आहुरिति । तत्रोपपत्त्यभिधानम्- एते ह त्वेव ते विश्वे देवा ये ते चतुर्द्धा व्यद्रवन्निति । ‘तान् विद्रुतान्’ परस्परं विश्लिष्टान् असुरराक्षसाश्चायमवसर इति निश्चित्यानुप्राप्ताः ॥ १ ॥
Eggeling
- When the gods had performed the guest-offering, discord befell them. They separated into four different parties, unwilling to yield to each other’s excellence,–Agni, with the Vasus, Soma with the Rudras, Varuṇa with the Ādityas, and Indra with the Maruts. Br̥haspati with the All-gods, say some 1, but, indeed, those who separated into four parties were ‘all the gods.’ When they were separated, the Asura-Rakshas came after them and entered between them.
०२
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘ ऽविदुः॥
पा᳘पीयाᳫँ᳭सो वै᳘ भवामो ऽसुररक्षसा᳘नि वै᳘ नो ऽनुव्य᳘वागुर्द्विष᳘द्भ्यो वै᳘ रध्यामो ह᳘न्त संजाना᳘महा ऽए᳘कस्य श्रियै᳘ तिष्ठामहा ऽइ᳘ति त[[!!]] इ᳘न्द्रस्य[[!!]] श्रिया᳘ ऽअतिष्ठन्त त᳘स्मादाहुरि᳘न्द्रः, स᳘र्व्वा देव᳘ता ऽइ᳘न्द्रश्रेष्ठा देवा इ᳘ति॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ ऽविदुः॥
पा᳘पीयाᳫँ᳭सो वै᳘ भवामो ऽसुररक्षसा᳘नि वै᳘ नो ऽनुव्य᳘वागुर्द्विष᳘द्भ्यो वै᳘ रध्यामो ह᳘न्त संजाना᳘महा ऽए᳘कस्य श्रियै᳘ तिष्ठामहा ऽइ᳘ति त[[!!]] इ᳘न्द्रस्य[[!!]] श्रिया᳘ ऽअतिष्ठन्त त᳘स्मादाहुरि᳘न्द्रः, स᳘र्व्वा देव᳘ता ऽइ᳘न्द्रश्रेष्ठा देवा इ᳘ति॥
मूलम् - Weber
ते᳘ ऽविदुः॥
पा᳘पीयांसो वै᳘ भवामो ऽसुररक्षसा᳘नि वै᳘ नो ऽनुव्य᳘वागुर्द्विष᳘द्भ्यो वै᳘ रध्यामो ह᳘न्त संजाना᳘महा ए᳘कस्य श्रियै᳘ तिष्ठामहा इ᳘ति त᳘ इन्द्र᳘स्य श्रिया᳘ अतिष्ठन्त त᳘स्मादाहुरि᳘न्द्रः स᳘र्वा देव᳘ता इ᳘न्द्रश्रेष्ठा देवा इ᳘ति॥
मूलम् - विस्वरम्
ते ऽविदुः- पापीयांसो वै भवामः । असुररक्षसानि वै नो ऽनुव्यवागुः । द्विषद्भ्यो वै रध्यामः । हन्त संजानामहै । एकस्य श्रियै तिष्ठामहा ऽइति । त ऽइन्द्रस्य श्रिया ऽअतिष्ठन्त । तस्मादाहुः- इन्द्रः सर्वा देवताः, इन्द्रश्रेष्ठा देवा इति ॥ २ ॥
सायणः
ते ऽविदुरिति । स्पष्टम् । ‘असुररक्षसानि वै’ ‘नः’ ‘अनुव्यवागुः’ अनुगताः । एतेर्लुङि गादेशः (पा. सू. २ । ४ । ४५) । ‘द्विषद्भ्यो वै रध्यामः’ रध्यतिर्वशगमनकर्मा, (निरु. ६ । ६ । ४) वशं प्राप्ता इत्यर्थः । हन्त सञ्जानामहा इति । शत्रुजयोपायपरिज्ञानहर्षद्योतनार्थो ‘हन्त’- शब्दः । “कर्मकाच्च” (पा. सू. १ । ३ । २६) इति सम्पूर्वस्य जानातेरात्मनेपदम् । सङ्गता भवेम, ऐकमत्यं प्राप्नुवामेत्यर्थः । तत्प्रकारमाह- एकस्य श्रियै तिष्ठामहा इति । त इन्द्रस्य श्रिया अतिष्ठन्तेत्यादि । स्पष्टम् ॥ २ ॥
Eggeling
- They became aware of it,–‘Forsooth, we are in an evil plight, the Asura-Rakshas have come in between us: we shall fall a prey to our enemies. Let us come to an agreement and yield to the excellence of one of us!’ They yielded to the excellence of Indra; wherefore it is said, ‘Indra is all the deities, the gods have Indra for their chief.’
०३
विश्वास-प्रस्तुतिः
त᳘स्मादु ह न स्वा᳘ ऽऋतीयेरन्॥
(न्य᳘) य᳘ ऽएषां परस्तरा᳘मिव भ᳘वति स᳘ ऽएनाननुव्य᳘वैति ते᳘ प्रियं᳘ द्विषतां᳘ कुर्व्व᳘न्ति द्विष᳘द्भ्यो रध्यन्ति त᳘स्मान्न᳘ ऽर्तीयेरन्त्स यो᳘ हैवं᳘ विद्वा᳘न्न ऽर्तीयते᳘ ऽप्रियं द्विषतां᳘ करो᳘ति न᳘ द्विष᳘द्भ्यो रध्यति त᳘स्मा᳘न्न[[!!]] ऽर्तीयेत॥
मूलम् - श्रीधरादि
त᳘स्मादु ह न स्वा᳘ ऽऋतीयेरन्॥
(न्य᳘) य᳘ ऽएषां परस्तरा᳘मिव भ᳘वति स᳘ ऽएनाननुव्य᳘वैति ते᳘ प्रियं᳘ द्विषतां᳘ कुर्व्व᳘न्ति द्विष᳘द्भ्यो रध्यन्ति त᳘स्मान्न᳘ ऽर्तीयेरन्त्स यो᳘ हैवं᳘ विद्वा᳘न्न ऽर्तीयते᳘ ऽप्रियं द्विषतां᳘ करो᳘ति न᳘ द्विष᳘द्भ्यो रध्यति त᳘स्मा᳘न्न[[!!]] ऽर्तीयेत॥
मूलम् - Weber
त᳘स्मादु ह न स्वा᳘ ऋतीयेरन्॥
य᳘ एषाम् परस्तरा᳘मिव भ᳘वति स᳘ एनाननुव्य᳘वैति ते᳘ प्रियं᳘ द्विषतां᳘ कुर्व᳘न्ति द्विष᳘द्भ्यो रध्यन्ति त᳘स्मान्न᳘ ऽर्तीयेरन्त्स यो᳘ हैवं᳘ विद्वान्न᳘ ऽर्तीयते᳘ ऽप्रियं द्विषतां᳘ करो᳘ति न᳘ द्विप᳘द्भ्यो रध्यति त᳘स्मान्न᳘ ऽर्तीयेत॥
मूलम् - विस्वरम्
तस्मादु ह न स्वा ऋतीयेरन् । य एषां परस्तरामिव भवति- स एनाननुव्यवैति । ते प्रियं द्विषतां कुर्वन्ति । द्विषद्भ्यो रध्यन्ति । तस्मान्न ऽर्तीयेरन् । स यो हैवं विद्वान्न ऽर्तीयते । अप्रियं द्विषतां करोति । न द्विषद्भ्यो रध्यति । तस्मान्न ऽर्तीयेत ॥ ३ ॥
सायणः
तस्मादु न स्वा ऋतीयेरन्निति । यस्माद् देवानां परविश्लेषात् शत्रूणामभिभवः प्रातः, ‘तस्मादु ह’ तस्मात् खलु कारणात् । ‘स्वाः’ ज्ञातयः परस्परं न ऋतीयेरन् वैमत्येन विश्लेषं न कुर्युः । “ऋतेरीयङ्” (पा. सू. ३ । १ । २८) । विश्लेषे को दोष इति तत्राह- य एषां परस्तरामिव भवतीति । ‘य:’ शत्रुः ‘एषाम्’ विश्लिष्टानाम् ‘परस्तरामिव’ अत्यन्तदूरदेशस्थो ‘भवति’ ‘सः’ ‘एतान्’ शत्रून् विश्लिष्टान् ‘अनुव्यवैति’ अनुप्रविशति तस्मात् ‘द्विषताम्’ अवकाशप्रदानेन स्वयमेव ‘प्रियं कुर्वन्ति,’ स्वयं यद् ‘द्विषद्भ्यः’ शत्रुभ्यो ‘रध्यन्ति’ वशं प्राप्नुवन्ति ‘तस्मात्’ ‘न ऋतीयेरन्’ भेदं न गच्छेयुः । उक्तार्थस्य कञ्चित्पुरुषार्थनियमं विधत्ते- स यो हैवं विद्वानिति । यः कश्चिदेवं वृत्तान्तं देवेषु मनुष्येषु च दृष्टं जानन् ‘न ऋतीयते’ भेदं न गच्छेत् अथवा परैरुत्पादितो, ज्ञातिभेद एवंविदि न प्रवर्तत इत्यर्थः । अत एव ‘द्विषताम्’ अपि ‘अप्रियं करोति’ तत्प्रवेशावकाशस्यासम्भवात् ‘न द्विषद्भ्यः” ‘रध्यति’ वशं याति । ‘तस्मात्’ विद्वान् ‘न ऋतीयेत’ ॥ ३ ॥
Eggeling
- For this reason let not kinsmen fall out, for any (enemy) of theirs, be he ever so far away, steps in between them; they do what pleases their enemies and fall a prey to their enemies: therefore let them not fall out. For he who, knowing this, quarrels not, does what displeases his enemies and
falls not a prey to his enemies: let him therefore not quarrel.
०४
विश्वास-प्रस्तुतिः
ते᳘ होचुः॥
(र्ह᳘) ह᳘न्तेदं त᳘था कर᳘वामहै य᳘था न ऽइद᳘माप्रदिव᳘मे᳘वाजर्यम᳘सदि᳘ति॥ [शतम् १७००] (अर्ध प्रपाठकः)
मूलम् - श्रीधरादि
ते᳘ होचुः॥
(र्ह᳘) ह᳘न्तेदं त᳘था कर᳘वामहै य᳘था न ऽइद᳘माप्रदिव᳘मे᳘वाजर्यम᳘सदि᳘ति॥ [शतम् १७००] (अर्ध प्रपाठकः)
मूलम् - Weber
ते᳘ होचुः॥
ह᳘न्तेदं त᳘था कर᳘वामहै य᳘था न इद᳘माप्रदिव᳘मेॗवाजर्यम᳘सदि᳘ति॥
मूलम् - विस्वरम्
ते होचुः- हन्तेदं तथा करवामहै- यथा न इदमाप्रदिवमेवाजर्यमसदिति ॥ ४ ॥
सायणः
प्रासङ्गिकम्मुक्त्वा प्रकृतमनुसरति- ते होचुर्हन्तेदं तथा करवामहै, यथा न इदमाप्रदिवमेवाजर्यमसदितीति । ‘यथा’ ‘नः’ ‘इदम्’ ऐकमत्यं कर्म ‘आप्रदिवम् एव’ द्युलोकावस्थित्यवसानम् ‘अजर्यम्’ । “अजय संगतम्”- (पा. सू. ३ । १ । १०५) इत्यनेन निपात्यते, ‘अविनाश्यम्’ ‘असत्’ भवेत्, ‘तथा करवामहै’ ‘इति’ उक्तवन्तः ॥ ४ ॥
Eggeling
- They said, ‘Well then, let us contrive so that this (concord) of ours shall be for ever imperishable!’
०५
विश्वास-प्रस्तुतिः
ते᳘ देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫ᳘ सम᳘वददिरे ते᳘ होचुरेते᳘न नः स ना᳘ना ऽसदेते᳘न व्वि᳘ष्वङ्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति क᳘स्योपद्रष्टुरि᳘ति त᳘नून᳘प्तुरेव᳘ शाक्वरस्ये᳘ति यो वा᳘ ऽअयं[[!!]] प᳘वत ऽएष त᳘नून᳘पाच्छाक्वरः᳘[[!!]] सो ऽयं᳘ प्रजा᳘नामुपद्रष्टा प्र᳘विष्टस्ता᳘विमौ᳘ प्राणोदानौ॥
मूलम् - श्रीधरादि
ते᳘ देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫ᳘ सम᳘वददिरे ते᳘ होचुरेते᳘न नः स ना᳘ना ऽसदेते᳘न व्वि᳘ष्वङ्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति क᳘स्योपद्रष्टुरि᳘ति त᳘नून᳘प्तुरेव᳘ शाक्वरस्ये᳘ति यो वा᳘ ऽअयं[[!!]] प᳘वत ऽएष त᳘नून᳘पाच्छाक्वरः᳘[[!!]] सो ऽयं᳘ प्रजा᳘नामुपद्रष्टा प्र᳘विष्टस्ता᳘विमौ᳘ प्राणोदानौ॥
मूलम् - Weber
ते᳘ देवाः᳟॥
जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वददिरे ते᳘ होचुरेते᳘न नः स ना᳘नासदेते᳘न वि᳘ष्वङ्यो᳘ न एत᳘दतिक्रा᳘मादि᳘ति क᳘स्योपद्रष्टुरि᳘ति त᳘नून᳘प्तुरेव᳘ शाक्वरस्ये᳘ति यो वा᳘ अय᳘म् एष त᳘नून᳘पाछाक्वॗरः सो ऽय᳘म् प्रजा᳘नामुपद्रष्टा प्र᳘विष्टस्ता᳘विमौ᳘ प्राणोदानौ॥
मूलम् - विस्वरम्
ते देवा जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे । ते होचुः- एतेन नः स नाना ऽसत्, एतेन विष्वङ्- यो न एतदतिक्रामादिति । कस्योपद्रष्टुरिति । तनूनप्तुरेव शाक्वरस्येति । यो वा ऽअयं पवते- एष तनूनपाच्छाक्वरः । सो ऽयं प्रजानामुपद्रष्टा प्रविष्टः । ताविमौ प्राणोदानौ ॥ ५ ॥
सायणः
अनन्तरं- ते देवा इति । ‘ते देवाः’ ‘जुष्टाः’ प्रियभूताः ‘तनूः’ स्वस्वमूर्तीः । अस्य व्याख्यानम्- प्रियाणि धामानीति । ‘प्रियाणि धामानि’ अभिमतानि भोगायतनानि ‘सार्द्धम्’ एकत्र ‘समवददिरे’ विभज्य स्थापितवन्तः । तस्मिन् काले एवमब्रुवन् ‘एतेन’ स्थापितेन शरीरेण ‘नः’ अस्माकं मध्ये ‘सः’ समयातिक्रमकारी ‘नाना’ ‘असत्’ विना भवेत् । एतदेव व्याचष्टे- एतेन विष्वङ्ङिति । ‘विष्वङ्’ सर्वतो भवेत् विशीर्णो भवत्वित्यर्थः । तच्छब्दार्थमाह- यो न एतदतिक्रामादिति । ‘एतत्’ सङ्केतकर्म ‘अतिक्रामात्’ अतिक्रमेत् । कस्योपद्रष्टुरिति । ‘उपद्रष्टा’ साक्षी, ‘कस्य ?’ तस्य पुरस्तादिदं भवेदिति शेषः । एवं प्रश्नमुपगम्य तैरेवेदमुत्तरमुक्तम्- तनूनप्तुरेव शाक्वरस्येति । तन्वो देहस्य न पातयिता रक्षको देवः ‘तनूनप्ता’ (ऐ. ब्रा. १ । ४ । ७ ।) (आ. श्रौ. सू. ११ । १ । १-३) । अथवा सर्वतनूरात्मा प्रजापतिः तस्याकाशः पुत्रः, तत्पुत्रो वायुरिति सः ‘तनूनप्ता’ स च ‘शाक्वरः’ शक्तः स्वर्वं कर्तुम् । तस्य पुरस्तादित्यर्थः । सः कः ? इति, तं विशिनष्टि- यो वा अयं पवत इति । ‘यो ऽयम्’ ‘पवते’ गच्छति, वायुरित्यर्थः । बाह्यस्य वायोः पुरुषचित्तद्रष्टृत्वं कथं घटते? इति, तत्राह- यो ऽयं प्रजानामुपद्रष्टा प्रविष्ट इति । प्रविष्टस्य कथं नोपलभ्यतेति तत्राह- ताविमौ प्राणोदानाविति । ‘इमौ’ प्रसिद्धौ यौ ‘प्राणोदानौ’ ‘तौ’ एव स इत्यर्थः ॥ ५ ॥
Eggeling
- The gods laid down together 2 their favourite forms and desirable powers 3, one after another, and said, ‘Thereby he shall be away from us, he shall be scattered to the winds, whosoever shall transgress this (covenant) of ours!’–Whose (is it) as witness 4?’–‘Tanūnapāt, the mighty!’–Now the mighty Tanūnapāt indeed is yonder blowing (wind), he is the witness of living beings, entering thus as the in-breathing and out-breathing.
०६
विश्वास-प्रस्तुतिः
त᳘स्मादाहुः॥
(र्म᳘) म᳘नो देवा᳘ मनु᳘ष्यस्या᳘जानन्ती᳘ति म᳘नसा सं᳘कल्पयति त᳘त्प्राणम᳘पिपद्यते प्राणो व्वा᳘तं व्वा᳘तो देवे᳘भ्य ऽआ᳘चष्टे य᳘था पु᳘रुषस्य म᳘नः॥
मूलम् - श्रीधरादि
त᳘स्मादाहुः॥
(र्म᳘) म᳘नो देवा᳘ मनु᳘ष्यस्या᳘जानन्ती᳘ति म᳘नसा सं᳘कल्पयति त᳘त्प्राणम᳘पिपद्यते प्राणो व्वा᳘तं व्वा᳘तो देवे᳘भ्य ऽआ᳘चष्टे य᳘था पु᳘रुषस्य म᳘नः॥
मूलम् - Weber
त᳘स्मादाहुः॥
म᳘नो देवा᳘ मनुष्य᳘स्या᳘जानन्ती᳘ति म᳘नसा संकल्पयति त᳘त्प्राणम᳘पिपद्यते प्राणो वा᳘तं वा᳘तो देवे᳘भ्य आ᳘चष्टे य᳘था पु᳘रुषस्य म᳘नः॥
मूलम् - विस्वरम्
तस्मादाहुः- मनो देवा मनुष्यस्याजानन्तीति । मनसा संकल्पयति- तत् प्राणमपिपद्यते, प्राणो वातम्- वातो देवेभ्य आचष्टे- यथा पुरुषस्य मनः ॥ ६ ॥
सायणः
उक्ते ऽर्थे लौकिकवचनं प्रमाणयति- तस्मादाहुर्मनो देवा मनुष्यस्याजानन्तीति । दूरस्थानां देवानां कथं मनुष्यचित्तपरिज्ञानमित्याशङ्क्य तद्द्वारद्वारिकयेति दर्शयति- मनसा सङ्कल्पयति, तत्प्राणमपिपद्यत इत्यादि । प्राणप्रज्ञयोः परस्पराविनाभावान्मनसा सङ्कल्पितं प्राणं प्राप्नोति । बाह्यवायोरिव शरीरप्रवेशेन प्राणत्वात् “प्राणो वातः” इत्युक्तम् । अपिपद्यते सङ्कल्पितार्थविशिष्टः सन्नेवेति भावः । स च ‘वातः’ सर्वत्राप्रतिहतगतित्वात् देवेभ्यः आचष्टे, यथा पुरुषस्य मनः वर्तते । पुण्ये पापे वा वर्तते, तमनतिवृत्यैवाचष्ट इत्यर्थः ॥ ६ ॥
Eggeling
- Wherefore they say, ‘The gods know the mind of man.’ In his mind he proposes; it passes on to the breath, and the breath to the wind, and the wind tells the gods what the mind of man is.
०७
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
म᳘नसा सं᳘कल्पयति तद्वा᳘तम᳘पि गच्छति॥ व्वा᳘तो देवे᳘भ्य ऽआ᳘चष्टे य᳘था पुरुष ते म᳘न[[!!]] ऽइ᳘ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
म᳘नसा सं᳘कल्पयति तद्वा᳘तम᳘पि गच्छति॥ व्वा᳘तो देवे᳘भ्य ऽआ᳘चष्टे य᳘था पुरुष ते म᳘न[[!!]] ऽइ᳘ति॥
मूलम् - Weber
त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
म᳘नसा सं᳘कल्पयति तद्वा᳘तम᳘पिगछति वा᳘तो देवे᳘भ्य आ᳘चष्टे य᳘था पुरुष ते म᳘न इ᳘ति॥
मूलम् - विस्वरम्
तस्मादेतदृषिणा ऽभ्यनूक्तम्- “मनसा संकल्पयति तद् वातमपि गच्छति । वातो देवेभ्य आचष्टे यथा पुरुष ते मनः”- (ऋ. सं. १२ । ४ । ४) इति ॥ ७ ॥
सायणः
उक्ते ऽर्थे मन्त्रं प्रमाणयति- तस्मादेतदिति । मनसा सङ्कल्पयति, तद्वातमपि गच्छतीत्यादि । स्पष्टो ऽर्थः॥ ७ ॥
Eggeling
- Hence it was in regard to this what was said by the R̥shi, ‘In his mind he proposeth, and it goeth on to the wind 5; and the wind telleth the gods what thy mind is, O man.’
०८
विश्वास-प्रस्तुतिः
ते᳘ देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वददिरे ते᳘ होचुरेते᳘न नः स ना᳘नासदेते᳘न व्वि᳘ष्वङ्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति त᳘द्देवा[[!!]] ऽअ᳘प्येत᳘र्हि ना᳘तिक्रामन्ति के हि स्युर्य᳘दतिक्रा᳘मेयुर᳘नृतᳫं᳭ हि व्व᳘देयुरे᳘कᳫं᳭ ह वै᳘ देवा᳘ व्व्रतं᳘ चरन्ति सत्य᳘मेव त᳘स्मादेषां जित᳘मनपजय्यं त᳘स्माद्य᳘श ऽएव᳘ᳫं᳘ ह वा᳘ ऽअस्य जित᳘मनपजय्य᳘मेवं य᳘शो भवति य᳘ एवं᳘ व्विद्वा᳘न्त्सत्यं व्व᳘दति त᳘देत᳘त्तानूनप्त्रं᳘ निदा᳘नेन॥
मूलम् - श्रीधरादि
ते᳘ देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वददिरे ते᳘ होचुरेते᳘न नः स ना᳘नासदेते᳘न व्वि᳘ष्वङ्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति त᳘द्देवा[[!!]] ऽअ᳘प्येत᳘र्हि ना᳘तिक्रामन्ति के हि स्युर्य᳘दतिक्रा᳘मेयुर᳘नृतᳫं᳭ हि व्व᳘देयुरे᳘कᳫं᳭ ह वै᳘ देवा᳘ व्व्रतं᳘ चरन्ति सत्य᳘मेव त᳘स्मादेषां जित᳘मनपजय्यं त᳘स्माद्य᳘श ऽएव᳘ᳫं᳘ ह वा᳘ ऽअस्य जित᳘मनपजय्य᳘मेवं य᳘शो भवति य᳘ एवं᳘ व्विद्वा᳘न्त्सत्यं व्व᳘दति त᳘देत᳘त्तानूनप्त्रं᳘ निदा᳘नेन॥
मूलम् - Weber
ते᳘ देवाः᳟॥
जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वददिरे ते᳘ होचुरेते᳘न नः स ना᳘नासदेते᳘न वि᳘ष्वङ्यो᳘ न एत᳘दतिक्रा᳘मादि᳘ति त᳘द्देवा᳘ अ᳘प्येत᳘र्हि ना᳘तिक्रामन्ति के हि स्युर्य᳘दतिक्रा᳘मेयुर᳘नृतᳫं हि व᳘देयुरे᳘कᳫं ह वै᳘ देवा᳘ व्रतं᳘ चरन्ति सत्य᳘मेव त᳘स्मादेषां जित᳘मनपजय्यं त᳘स्माद्य᳘श एव᳘ᳫं᳘ ह वा᳘ अस्य जित᳘मनपजय्य᳘मेवं य᳘शो भवति य᳘ एवं᳘ विद्वा᳘न्त्सत्यं व᳘दति त᳘देत᳘त्तानूनप्त्रं᳘ निदा᳘नेन॥
मूलम् - विस्वरम्
ते देवा जुष्टास्तनूः प्रियाणि धामानि सार्द्धं समवददिरे । ते होचुः- एतेन नः स नाना ऽसद्, एतेन विष्वङ्- यो न एतदतिक्रामादिति । तद्देवा अप्येतर्हि नातिक्रामन्ति । के हि स्युर्यदतिक्रामेयुः । अनृतं हि वदेयुः । एकं ह वै देवा व्रतं चरन्ति- सत्यमेव । तस्मादेषां जितमनपजय्यम्, तस्माद्यशः । एवं ह वा ऽअस्य जितमनपजय्यम्, एवं यशो भवति- य एवं विद्वान्त्सत्यं वदति । तदेतत् तानूनप्त्रं निदानेन ॥ ८ ॥
सायणः
विशेषाभिधानाय पूर्वोक्तं तानूनप्त्रमनुवदति- ते देवा जुष्टास्तनूरित्यादिना । तद्देवा इति । ‘तत्’ “एतेन नः स नाना ऽसत्"- इत्युक्तमित्यर्थः । ‘अप्येतर्हि’ इदानीमपि 6 । अतिक्रमे बाधमाह- के हि स्युरिति । यद्यतिक्रामेयुः तर्हि के स्युः । उपपत्तिमाह- अनृतं हि वदेयुरिति । देवत्वमतिहाय अनृतवदनात् कुत्सिता मनुष्या भवन्तीत्यर्थः । देवानां सत्यवादित्वनियमे सति (ऐ. ब्रा. १ । १ । ६) अनृतं हीत्ययं दोषः स्यात् । स एव तेषु कुत इत्यत आह- एक ह वै देवा व्रतमिति । सत्यवादफलमाह- तस्मादेषां जितमनपजय्यमिति । यत् ‘अनपजय्यं’ जेतुमशक्यम् (पा. सू. ६ । १ । ८१) तत् ‘जितम्’ भवति । तस्माद् यश इति । प्राप्नुवन्तीति शेषः । अथवा यशोरूपा एव भवन्तीत्यर्थः । “एवं ह”- इत्यादिना उक्तार्थज्ञप्रशंसा- तदेतत् तानूनप्त्रं निदानेनेति । स्वस्वशरीरसमवदानपूर्वकं शपथकर्म तानूनप्त्रम् (ऐ. ब्रा. १ । ४ । ७) । ‘तत्’ इदानीमनुष्ठीयमानं ‘तानूनप्त्रम्’ आज्यग्रहणस्पर्शनात्मकं कथमेतद् भवेत् ? तत्राह- ‘निदानेन’ कारणेनेत्यर्थः ॥ ८ ॥
Eggeling
- The gods laid down together their favourite forms and desirable powers, and said, ‘Thereby he shall be away from us, he shall be scattered to the winds, whosoever shall transgress this (covenant) of ours!’ And even now the gods do not transgress that (covenant), for how would they fare, were they
to transgress it?–they would speak untruth, and verily there is one law which the gods do keep, namely, the truth. It is through this that their conquest, their glory is unassailable: and so, forsooth, is his conquest, his glory unassailable whosoever, knowing this, speaks the truth. Now, the Tānūnaptra is really that same (covenant of the gods).
०९
विश्वास-प्रस्तुतिः
ते᳘ देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रियाणि[[!!]] धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वददिरे᳘ ऽथैत ऽआ᳘ज्यान्येव᳘ गृह्णा᳘ना जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वद्यन्ते त᳘स्मादु ह न स᳘र्व्वेणेव समभ्य᳘वेयान्ने᳘न्मे जु᳘ष्टास्तन्वः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ समभ्यवा᳘यानि᳘ति ये᳘नो ह समभ्यवेया᳘न्नास्मै द्रुह्येदिद᳘ᳫं᳘[[!!]] ह्याहुर्न स᳘तानूनप्त्रिणे द्रोग्ध᳘व्यमिति[[!!]]॥
मूलम् - श्रीधरादि
ते᳘ देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रियाणि[[!!]] धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वददिरे᳘ ऽथैत ऽआ᳘ज्यान्येव᳘ गृह्णा᳘ना जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वद्यन्ते त᳘स्मादु ह न स᳘र्व्वेणेव समभ्य᳘वेयान्ने᳘न्मे जु᳘ष्टास्तन्वः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ समभ्यवा᳘यानि᳘ति ये᳘नो ह समभ्यवेया᳘न्नास्मै द्रुह्येदिद᳘ᳫं᳘[[!!]] ह्याहुर्न स᳘तानूनप्त्रिणे द्रोग्ध᳘व्यमिति[[!!]]॥
मूलम् - Weber
ते᳘ देवाः᳟॥
जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वददिरे᳘ ऽथैत आ᳘ज्यान्येव᳘ गृह्णाना जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ सम᳘वद्यन्ते त᳘स्मादु ह न स᳘र्वेणेव समभ्य᳘वेयान्ने᳘न्मे जु᳘ष्टास्तन्वः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ समभ्यवा᳘यानि᳘ति ये᳘नो ह समभ्यवेयाॗन्नास्मै द्रुह्येदिॗदᳫं ह्याहुर्न स᳘तानुनप्त्रिणे द्रोग्ध᳘व्यमि᳘ति॥
मूलम् - विस्वरम्
ते देवा जुष्टास्तनूः, प्रियाणि धामानि, सार्धं समवददिरे । अथैत ऽआज्यान्येव गृह्णाना जुष्टास्तनूः प्रियाणि धामानि सार्धं समवद्यन्ते । तस्मादु ह न सर्वेणेव समभ्यवेयात् । नेन्मे जुष्टास्तन्वः प्रियाणि धामानि सार्धं समभ्यवायानिति । येनो ह समभ्यवेयात्- नास्मै दुह्येत् । इदं ह्याहुः- न सतानूनप्त्रिणे द्रोग्धव्यमिति ॥ ९ ॥
सायणः
निदानमेव दर्शयति- ते देवा इत्यादिना । देवा आज्यानि गृह्णाना एव स्वतनूरपि आज्येन ‘सार्द्धं’ ‘समवददिरे’ अत इदानीन्तनैरपि तानूतप्त्रमेवं समवदातव्यमित्यनुमीयते ॥
प्रसङ्गात् किञ्चित् पुरुषार्थमाह- तस्मादु ह न सर्वेणैवेति । ‘सर्वेण’ बहुजनेन सह समवगतिं शपथपूर्वकं समयं ‘न’ कुर्यात् । तद्दोषमाह- नेन्मे जुष्टास्तन्व इति । ‘मे’ मम ‘जुष्टाः’ अत्यन्तं प्रियभूताः ‘तन्वः’ प्रियधामभूताः सर्वैः साकम् ‘नेत् समभ्यवायान्’ नैव सङ्गता भवेयुरिति । ‘नेत्’ परिभये । अभ्यवपूर्वादेतेर्लेट् (पा. सू. ३ । ४ । ७) “अथापि नेत्येष इदित्येतेन सम्प्रयुज्यते परिभये” (निरु. १ । ३ । ५) इति हि निरुक्तम् । ‘येनो ह’ येनापि खलु सह अशक्यत्वात् ‘अभ्यवेयात्’ तस्मै द्रोह न कुर्यात् । तथा च लौकिका अपि ‘इदम्’ ‘आहुः’ । किम् ? इति- ‘सतानूनप्त्रिणे’ सम्भूयशपथकारिणे ‘न द्रोग्धव्यम् इति’ द्रोहो न कर्तव्य इति । “क्रुधद्रुहेर्ष्या-“ (पा. सू. १ । ४ । ३७) । इत्यादिना चतुर्थी ॥ ९ ॥
Eggeling
- The gods laid down together their favourite forms and desirable powers. Now it is by taking portions of butter that they (the priests) lay down together the desirable forms and favourite powers. Let him, then, not covenant with any one and every one, lest his favourite forms and desirable powers should be mixed up (with those of others). But let him not deceive one with whom he makes a covenant; for thus it is said, ‘Let there be no deceiving of him with whom one has made the covenant of Tanūnapāt.’
१०
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वा᳘) आ᳘पतये त्वा प᳘रिपतये गृह्णामी᳘ति यो वा᳘ ऽअयं प᳘वत ऽएष आ᳘ च प᳘तति प᳘रि च पतत्येत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाहा᳘पतये त्वा प᳘रिपतये गृह्णामी᳘ति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो गृह्णा᳘त्येव᳘॥
(वा᳘) आ᳘पतये त्वा प᳘रिपतये गृह्णामी᳘ति यो वा᳘ ऽअयं प᳘वत ऽएष आ᳘ च प᳘तति प᳘रि च पतत्येत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाहा᳘पतये त्वा प᳘रिपतये गृह्णामी᳘ति॥
मूलम् - Weber
अथा᳘तो गृह्णा᳘त्येव᳟॥
आ᳘पतये त्वा प᳘रिपतये गृह्णामी᳘ति यो वा᳘ अयम् प᳘वत एष आ᳘ च प᳘तति प᳘रि च पतत्येत᳘स्मा उ हि᳘ गृह्णा᳘ति त᳘स्मादाहा᳘पतये त्वा प᳘रिपतये गृह्णामी᳘ति॥
मूलम् - विस्वरम्
अथातो गृह्णात्येव- “आपतये त्वा परिपतये गृह्णामि”- (वा. सं. ५ । ५) इति । यो वा ऽअयं पवते- एष आ च पतति, परि च पतति । एतस्मा ऽउ हि गृह्णाति । तस्मादाह- आपतये त्वा परिपतये गृह्णामीति ॥ १० ॥
सायणः
अथ तानूनप्त्रार्थमाज्यग्रहणं समन्त्रकं विधत्ते- अथातो गृह्णात्येवापतये त्वा परिपतय इति । अत्र गृह्णामीत्यन्त एको मन्त्रः । तनूनप्त्रे शाक्वरायेति द्वितीयः । शक्वन ओजिष्ठायेति तृतीयः । अस्मिन् पक्षे ‘गृह्णामि’- इत्ययमुत्तरयोरपि मन्त्रयोरनुषज्यते । तत्र स्रुवेण सर्वस्य ध्रौवाज्यस्यैकवारं ग्रहणम्, स्थाल्याः स्रुवेण द्विर्ग्रहणम् । अथवा “तनूनप्त्रे शाक्वराय”- “शक्वन ओजिष्ठाय" । इत्येतौ पूर्वमन्त्रशेषौ । तथा सत्येक एव मन्त्रः ॥
अत्र ब्राह्मणम्- “अथैत आज्यान्येव गृह्णाना जुष्टास्तनूः” इति प्रत्येकमाज्यग्रहणस्य श्रुतत्वात् सर्वे गृह्णीयुः । तथा च कात्यायनः- “ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति द्विश्च स्थाल्याः स्रुवेण तनूनप्त्रे शाक्वरायेति, शक्वन ओजिष्ठायेति, गृह्णामीति सर्वत्र साकाङ्क्षत्वात् पूर्वशेषौ वोत्तरौ” (का. श्रौ. सू. ८ । १४-१७)। “प्रतिपुरुषं च ग्रहणमाज्यानि गृह्णाना इति श्रुतेः” इति ॥
मन्त्रस्यायमर्थः- ‘आपतये’ आ अभिमुखं पतत्यागच्छतीति ‘आपतिः’, परिपततीति ‘परिपतिः’ वायुः आज्य ! त्वां तस्मै ‘गृह्णामि’ ॥ १० ॥
Eggeling
- In the first place he takes (butter) therefrom 7, with the text (Vāj. S. V, 5), ‘For him that rushes onward, for him that rushes about, I take thee.’ He that blows yonder (the wind) does indeed rush onward and rush about; and it is for him that he takes (the butter): therefore he says, ‘for him that rushes onward, for him that rushes about, I take thee.’
११
विश्वास-प्रस्तुतिः
त᳘नून᳘प्त्रे शाक्वराये᳘ति॥
यो वा᳘ ऽअयं प᳘वत ऽएष त᳘नूत᳘प्ता शाक्वर᳘ ऽएत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाह त᳘नून᳘प्त्रे शाक्वराये᳘ति॥
मूलम् - श्रीधरादि
त᳘नून᳘प्त्रे शाक्वराये᳘ति॥
यो वा᳘ ऽअयं प᳘वत ऽएष त᳘नूत᳘प्ता शाक्वर᳘ ऽएत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाह त᳘नून᳘प्त्रे शाक्वराये᳘ति॥
मूलम् - Weber
त᳘नून᳘प्त्रे शाक्वराये᳘ति॥
यो वा᳘ अयम् प᳘वत एष त᳘नूत᳘प्ता शाक्वर᳘ एत᳘स्मा उ हि᳘ गृह्णा᳘ति त᳘स्मादाह त᳘नूनप्त्रे शाक्वराये᳘ति॥
मूलम् - विस्वरम्
“तनूनप्त्रे शाक्वराय”- (वा. सं. ५ । ५) इति । यो वा ऽअयं पवते- एष तनूनप्ता शाक्वरः । एतस्मा ऽउ हि गृह्णाति । तस्मादाह- तनूनप्त्रे शाक्वरायेति ॥ ११ ॥
सायणः
तनूनप्त्र इति । उक्तार्थौ तनूनप्तृशाक्वरशब्दौ (श. प. ब्रा. ३ । ४ । २ । ५) । ‘शक्वने’ सर्वत्र शक्ताय, ‘ओजिष्ठाय’ अतिशयेन बलवते । “यो वा अयं पवते”- इत्यादि ब्राह्मणं स्पष्टम् ॥ ११ ॥ १२ ॥
Eggeling
- ‘For Tanūnapāt, the mighty.’ The mighty Tanūnapāt truly is yonder blowing (wind), and it is for him that he takes (the butter): therefore he says, ‘For Tanūnapāt, the mighty.’
१२
विश्वास-प्रस्तुतिः
श᳘क्वन ऽओ᳘जिष्ठाये᳘ति॥
(त्ये) एष वै शक्वौ᳘जिष्ठ ऽएत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाह श᳘क्वन ऽओ᳘जिष्ठायेति[[!!]]॥
मूलम् - श्रीधरादि
श᳘क्वन ऽओ᳘जिष्ठाये᳘ति॥
(त्ये) एष वै शक्वौ᳘जिष्ठ ऽएत᳘स्मा ऽउ हि᳘ गृह्णा᳘ति त᳘स्मादाह श᳘क्वन ऽओ᳘जिष्ठायेति[[!!]]॥
मूलम् - Weber
श᳘क्वन ओ᳘जिष्ठाये᳘ति॥
एष वै शक्वौ᳘जिष्ठ एत᳘स्मा उ हि᳘ गृह्णा᳘ति त᳘स्मादाह श᳘क्वन ओ᳘जिष्ठाये᳘ति॥
मूलम् - विस्वरम्
“शक्वन ऽओजिष्ठाय”- (वा. सं. ५ । ५) इति । एष वै शक्वौजिष्ठः । एतस्मा ऽउ हि गृह्णाति । तस्मादाह- शक्वन ऽओजिष्ठायेति ॥ १२ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘For the powerful, the most strong!’ He is indeed powerful and most strong; and for him he takes it: therefore he says, ‘For the powerful, the most strong.’
१३
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तः सम᳘वमृशन्त्येव᳘॥
(वै) एत᳘द्ध देवा भू᳘यः स᳘मामिर ऽइत्थं᳘[[!!]] नः᳘ सो ऽमु᳘थासद्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति त᳘थो ऽए᳘वैत᳘ ऽएतत्स᳘ममन्त ऽइत्थं᳘[[!!]] नः सो ऽमु᳘थासद्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तः सम᳘वमृशन्त्येव᳘॥
(वै) एत᳘द्ध देवा भू᳘यः स᳘मामिर ऽइत्थं᳘[[!!]] नः᳘ सो ऽमु᳘थासद्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति त᳘थो ऽए᳘वैत᳘ ऽएतत्स᳘ममन्त ऽइत्थं᳘[[!!]] नः सो ऽमु᳘थासद्यो᳘ न ऽएत᳘दतिक्रा᳘मादि᳘ति॥
मूलम् - Weber
अथा᳘तः सम᳘वमृशन्त्येव᳟॥
एत᳘द्ध देवा भू᳘यः स᳘मामिर इॗत्थं᳘ नः सो ऽमु᳘थासद्यो᳘ न एत᳘दतिक्रा᳘मादि᳘ति त᳘थो एॗवैत᳘ एतत्स᳘ममन्त इॗत्थं᳘ नः सो ऽमु᳘थासद्यो᳘ न एत᳘दतिक्रा᳘मादि᳘ति॥
मूलम् - विस्वरम्
अथातः समवमृशन्त्येव । एतद्ध देवा भूयः समामिरे- इत्थं नः सो ऽमुथासद्- यो न एतदतिक्रामादिति । तथो एवैत एतत्सममन्ते- इत्थं नः सो ऽमुथासत्- यो न एतदतिक्रामादिति ॥ १३ ॥
सायणः
गृहीतस्याज्यस्य सर्वैरवमर्शनं विधत्ते- अथातः समवमृशन्त्येवेति 8 । स्पर्शकाले देवैः कृतमन्यसङ्केतं दर्शयति- एतद्ध वै देवा भूयः समामिर इति । ‘एतद्’ वक्ष्यमाणं ‘भूयः समामिरे’ पूर्वोक्तसंकेतमन्तरेण पुनस्सङ्गता अभवन् । “अम गत्यादिषु”- (धा० पा० भ्वा० प० ४६६) ‘यः’ ‘नः’ अस्माकं मध्ये ‘एतत्’ ‘अतिक्रामात्’ अतिक्रामेत् । ‘सः’ ‘इत्थं’ देवभूत एव सन् ‘अमुथा’ अन्यथा प्रकारेण ‘असत्’ देवभावाद् विनश्येदित्यर्थः । न केवलं देवानामेवायं सङ्केतः, किन्त्विदानीन्तनानुष्ठातॄणामित्याह- तथो एवैत इति ॥ १३॥
Eggeling
- They then touch it at the same time. Now the gods were fully agreed on this point, ‘Verily, so and thus shall he of us fare who shall transgress this (covenant) of ours!’ And so are these (priests and sacrificer) now agreed on this,–‘Verily, so and thus shall he of us fare who shall transgress this (covenant) of ours!’
१४
विश्वास-प्रस्तुतिः
ते᳘ सम᳘वमृशन्ति॥
(न्त्य᳘) अ᳘नाधृष्ट᳘मस्यनाधृष्यं᳘ देवा᳘नामो᳘ज ऽइत्य᳘नाधृष्टा हि᳘ देवा ऽआ᳘सन्ननाधृष्याः᳘ सहस᳘न्तः समानं व्व᳘दन्तः समानं᳘ दध्राणा᳘ देवा᳘नामो᳘ज इ᳘ति देवा᳘नां वै जु᳘ष्टास्त᳘न्वः[[!!]] प्रिया᳘णि धा᳘मान्य᳘नभिशस्त्यभिशस्तिपा᳘ ऽअनभिशस्तेन्यमि᳘ति स᳘र्व्वाᳫं᳭ हि᳘ देवा᳘ ऽअभि᳘शस्तिं तीर्णा ऽअ᳘ञ्जसा सत्यमु᳘पगेषमि᳘ति सत्यं᳘ व्वदानि मेदम᳘तिक्रमिषमि᳘त्ये᳘वैत᳘दाह स्विते᳘ मा ऽधा ऽइ᳘ति स्विते हि त᳘द्देवा᳘ ऽआत्मा᳘नम᳘दधत य᳘त्सत्यम᳘वदन्य᳘त्सत्यम᳘कुर्व्वंस्त᳘स्मादाह स्विते᳘ मा ऽधा इति[[!!]]॥
मूलम् - श्रीधरादि
ते᳘ सम᳘वमृशन्ति॥
(न्त्य᳘) अ᳘नाधृष्ट᳘मस्यनाधृष्यं᳘ देवा᳘नामो᳘ज ऽइत्य᳘नाधृष्टा हि᳘ देवा ऽआ᳘सन्ननाधृष्याः᳘ सहस᳘न्तः समानं व्व᳘दन्तः समानं᳘ दध्राणा᳘ देवा᳘नामो᳘ज इ᳘ति देवा᳘नां वै जु᳘ष्टास्त᳘न्वः[[!!]] प्रिया᳘णि धा᳘मान्य᳘नभिशस्त्यभिशस्तिपा᳘ ऽअनभिशस्तेन्यमि᳘ति स᳘र्व्वाᳫं᳭ हि᳘ देवा᳘ ऽअभि᳘शस्तिं तीर्णा ऽअ᳘ञ्जसा सत्यमु᳘पगेषमि᳘ति सत्यं᳘ व्वदानि मेदम᳘तिक्रमिषमि᳘त्ये᳘वैत᳘दाह स्विते᳘ मा ऽधा ऽइ᳘ति स्विते हि त᳘द्देवा᳘ ऽआत्मा᳘नम᳘दधत य᳘त्सत्यम᳘वदन्य᳘त्सत्यम᳘कुर्व्वंस्त᳘स्मादाह स्विते᳘ मा ऽधा इति[[!!]]॥
मूलम् - Weber
ते᳘ सम᳘वमृशन्ति॥
अ᳘नाधृष्टमस्यनाधृष्यं᳘ देवा᳘नामो᳘ज इत्य᳘नाधृष्टा हि᳘ देवा आ᳘सन्ननाधृष्याः᳘ सह स᳘न्तः समानं व᳘दन्तः समानं᳘ दध्राणा᳘ देवा᳘नामो᳘ज इ᳘ति देवा᳘नां वै जु᳘ष्टास्तन्वः᳘ प्रिया᳘णि धा᳘मान्य᳘नभिशस्त्यभिशस्तिपा᳘ अनभिशस्तेन्यमि᳘ति स᳘र्वाᳫं हि᳘ देवा᳘ अभि᳘शस्तिं तीर्णा अ᳘ञ्जसा सत्यमु᳘पगेषमि᳘ति सत्यं᳘ वदानि मेदम᳘तिक्रमिषमि᳘त्येॗवैत᳘दाह स्विते᳘ मा धा इ᳘ति स्विते हि त᳘द्देवा आत्मा᳘नम᳘दधत य᳘त्सत्यम᳘वदन्य᳘त्सत्यम᳘कुर्वस्त᳘स्मादाह स्विते᳘ मा धा इ᳘ति॥
मूलम् - विस्वरम्
ते समवमृशन्ति- “अनाधृष्टमस्यनाधृष्यं देवानामोजः”- (वा० सं० ५ । ५) इति । अनाधृष्टा हि देवा आसन्, अनाधृष्याः, सहसन्तः, समानं वदन्तः, समानं दध्राणाः । देवानामोज इति । देवानां वै जुष्टास्तन्वः प्रियाणि धामानि । “अनभिशस्त्यभिशस्तिपा अनभिशस्तेन्यम्”- (वा० सं० ५ । ५) इति । सर्वां हि देवा अभिशस्तिं तीर्णाः । “अञ्जसा सत्यमुपगेषम्”- (वा० सं० ५ । ५) इति । सत्यं वदानि, मेदमतिक्रमिषमित्येवैतदाह । “स्विते मा ऽधाः"- (वा० सं० ५ । ५) इति । स्विते हि तद्देवा आत्मानमदधत- यत् सत्यमवदन्, यत् सत्यमकुर्वन्- तस्मादाह- स्विते मा ऽधा इति ॥ १४ ॥
सायणः
ते समवमृशन्तीति । अवमर्शनमन्त्रस्यायमर्थः । हे आज्य ! त्वं पूर्वापरैः ‘अनाधृष्टम्’ आधर्षमप्राप्तं भवसि । तथा अनाधर्षणीयमप्यसि । ‘देवानाम्’ ‘ओजः’ बलरूपमसि । ‘अनभिशस्ति’ निन्दकरहितम् । कर्तरि क्तिच् (पा. सू. ३ । ३ । १७४) । न केवलं तादृगेव, किन्तु ‘अभिशस्तिपाः’ । लिङ्गव्यत्ययः (पा. सू. ३ । ३ । ८५) । अभिशस्तेर्निन्दायाः सकाशात् पातृ असि । ‘अनभिशस्तेन्यम्’ अहिंस्यम् । कृत्यार्थे केन्य-प्रत्ययः 9 न (पा. सू. ३ । ४ । १४) । अथवा अनभिशस्तस्य स्वर्गादेः प्रदातृत्वेन सम्बन्ध्यसि । यत एवं महानुभावं त्वाम् ‘अञ्जसा’ प्रगुणेन मुख्यया वृत्त्या ‘सत्यं’ यथार्थस्वरूपम् ‘उपगेषम्’ उपगच्छेयम् । “गाङ् गतौ”- (धा. पा. भा. आ. ९७५) इत्यस्य “लिङर्थे लेट्”- (पा० सू० ३ । ४ । ७) “सिब्बहुलम्”- (पा० सू० ३ । १ । ३४) इति सिप्त्वं च । तेन सत्येन ‘स्विते’ सुष्ठु प्राप्तौ ‘मा’ माम् ‘अधाः’ धारय ॥
मन्त्रं विभज्य व्याचष्टे- अनाधृष्टा हि देवा आसन्ननाधृष्या इति । पूर्वं कैरप्यनाधृष्टा अपि देवाः परस्परापरागेणाधर्मविषया अपि सन्तः, पश्चात् सङ्केतपूर्वकेणाज्यग्रहणेन स्वशरीराण्यवमर्शन्तः पुनः ‘अनाधृष्या आसन्’ अतस्त्वमनाधृष्टानां पुनरनाधर्षहेतुत्वात् तद्रूपमसि । “सहसन्तः”- इत्यादि पदत्रयमनाधृष्यत्वे हेतुत्वेन निर्दिष्टम् । “सहसन्तः"- परस्परैकमत्येन वर्तमानाः; तथा ‘समानं वदन्तः’ यदेको ब्रूते, तदन्ये ऽप्यनुकुर्वन्तः ‘समानम्’ एकमेव कार्यं मनसि ‘दध्राणाः’ धारयमाणाः । द्वितीयभागस्य तात्पर्यमाह- देवानामोज इति । ओजोरूपाणां प्रियधाम्नामाज्ये स्थापनात् । अनभिशस्त्यादिपदत्रयस्यैकतात्पर्यतामाह- सर्वां हि देवा अभिशस्तिं तीर्णा इति । ‘सत्यमुपगेषम्’- इत्येतस्य सत्यप्राप्तेः प्रतिज्ञानरूपत्वेन वागात्मकत्वात् ‘सत्यं वदानि’- इत्येवंरूपा सत्यप्राप्तिरुक्ता । तदेव सत्यं ‘मेदम्’- इत्यत्र ‘इदं’- शब्देन निर्दिष्टम् । ‘स्विते मा ऽधाः’- इत्यत्र ‘स्वित’ शब्दार्थमाह- स्विते हि तद्देवा इति । सुष्ठु प्राप्तव्यं स्वितम्; तदत्र सत्यमेव वदानीति प्रतिज्ञापूर्वकं तदनुष्ठानमेवेत्यर्थः ॥ १४ ॥
Eggeling
- They touch it simultaneously, with the text, ‘Thou art the strength of the gods, unassailed and unassailable; for the gods were indeed unassailed and unassailable while being together, and speaking with one accord and holding together. ‘The strength of the gods’ doubtless means the favourite forms and desirable powers of the gods, ‘uncursed, curse-averting, uncursable,’ for the gods have overcome every curse;–‘May I straightway go to the truth!’ whereby he means to say, ‘May I speak the truth, may I not transgress this (covenant);’–‘Establish me in welfare!’ for in welfare the gods indeed established themselves by speaking the truth, by performing the truth: therefore he says, ‘Establish me in welfare!’
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यास्त᳘द्देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्द्ध᳘ᳫँ᳘ समवददिरे तदि᳘न्द्रे सं᳘न्यदधतैष[[!!]] वा ऽइ᳘न्द्रो य᳘ एष त᳘पति न᳘ ह वा᳘ ऽएषो᳘ ऽग्रे तताप य᳘था है᳘वैद᳘मन्य᳘त्कृष्ण᳘मेव᳘ᳫं᳘ है᳘वास ते᳘नै᳘वैत᳘द्वी᳘र्येण तपति त᳘स्माद्य᳘दि बहवो[[!!]] दी᳘क्षेरन्गृह᳘पतय ऽएव᳘ व्व्रत᳘मभ्युत्सि᳘च्य प्र᳘यच्छेयुः स᳘ हि ते᳘षामिन्द्रभाजनं भ᳘वति य᳘द्यु द᳘क्षिणावता दी᳘क्षेत य᳘जमानायैव᳘ व्व्रत᳘मभ्युत्सि᳘च्य प्र᳘यच्छेयुरिद᳘ᳫं᳘[[!!]] ह्याहुरि᳘न्द्रो य᳘जमान इति[[!!]]॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यास्त᳘द्देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्द्ध᳘ᳫँ᳘ समवददिरे तदि᳘न्द्रे सं᳘न्यदधतैष[[!!]] वा ऽइ᳘न्द्रो य᳘ एष त᳘पति न᳘ ह वा᳘ ऽएषो᳘ ऽग्रे तताप य᳘था है᳘वैद᳘मन्य᳘त्कृष्ण᳘मेव᳘ᳫं᳘ है᳘वास ते᳘नै᳘वैत᳘द्वी᳘र्येण तपति त᳘स्माद्य᳘दि बहवो[[!!]] दी᳘क्षेरन्गृह᳘पतय ऽएव᳘ व्व्रत᳘मभ्युत्सि᳘च्य प्र᳘यच्छेयुः स᳘ हि ते᳘षामिन्द्रभाजनं भ᳘वति य᳘द्यु द᳘क्षिणावता दी᳘क्षेत य᳘जमानायैव᳘ व्व्रत᳘मभ्युत्सि᳘च्य प्र᳘यच्छेयुरिद᳘ᳫं᳘[[!!]] ह्याहुरि᳘न्द्रो य᳘जमान इति[[!!]]॥
मूलम् - Weber
अ᳘थ यास्त᳘द्देवाः᳟॥
जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ समवददिरे तदि᳘न्द्रे संन्य᳘दधतैष वा इ᳘न्द्रो य᳘ एष त᳘पति न᳘ ह वा᳘ एषो᳘ ऽग्रे तताप य᳘था हैॗवैद᳘मन्य᳘त्कृष्ण᳘मेव᳘ᳫं᳘ हैॗवास ते᳘नैॗवैत᳘द्वीॗर्येण तपति त᳘स्माद्य᳘दि बह᳘वो दी᳘क्षेरन्गृह᳘पतय एव᳘ व्रत᳘मभ्युत्सि᳘च्य प्र᳘यछेयुः स हि ते᳘षामिन्द्रभाजनम् भ᳘वति य᳘द्यु द᳘क्षिणावता दी᳘क्षेत य᳘जमानायैव᳘ व्रत᳘मभ्युत्सि᳘च्य प्र᳘यछेयुरिॗदᳫं ह्याहुरि᳘न्द्रो य᳘जमान इ᳘ति॥
मूलम् - विस्वरम्
अथ यास्तद्देवा जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे- तदिन्द्रे संन्यदधत । एष वा ऽइन्द्रो- य एष तपति । न ह वा ऽएषो ऽग्रे तताप- यथा हैवेदमन्यत्कृष्णमेवं हैवास । तेनैवैतद्वीर्यण तपति । तस्माद्यदि बहवो दीक्षेरन्- गृहपतय एव व्रतमभ्युत्सिच्य प्रयच्छेयुः । स हि तेषामिन्द्रभाजनं भवति । यद्यु दक्षिणावता दीक्षेत- यजमानायैव व्रतमभ्युत्सिच्य प्रयच्छेयुः । इदं ह्याहुः- इन्द्रो यजमान इति ॥ १५ ॥
सायणः
तानूनप्त्रमाज्यं सर्वैः स्पृष्टमपि सद् यजमानायैव दातव्यमिति विधातुमाह 9- अथ यास्तद्देवा इति । इन्द्र-शब्दस्य विवक्षितमर्थमाह- एष वा इन्द्रो य एष तपतीति । इन्द्रेणैतत्प्राप्तौ को ऽतिशयो लब्ध इति तत्राह- न ह वा एष इति । तापकतया न ततापेत्यर्थः, ‘यथा ह एव’ ‘इदम्’ इदानीं परिदृश्यमानं तपनम् । तर्हि कथमास ? ‘कृष्णम् एव’ कृष्णरूपमेव ‘आस’ । तस्मात् ‘तेनैव’ तानूनप्त्राज्यस्वीकारजनितेनैव ‘वीर्येण’ दुर्द्धर्षः सन् ‘तपति’ इत्यर्थः । “तस्माद् यदि बहवः” इत्यादि प्रकृतपर्यवसानवाक्यं स्पष्टम् । ‘अभ्युत्सिच्य’ उपरि तदाज्यमासिच्य । स हि तेषामिन्द्रभाजनं भवतीति । ‘इन्द्रभाजनम्’ इन्द्रस्थानीयः । फलस्य साम्ये ऽपि गृहपतित्वेन वरणेन प्राधान्यादिन्द्रत्वम् । यद्यु दक्षिणावतेति । यदि तु दक्षिणायुक्तेनैकाहादिना सोमयागेन दीक्षेतेत्यर्थः । स्पष्टमन्यत् ॥ १५ ॥
Eggeling
- Now those favourite forms and desirable powers which the gods put together, they then deposited in Indra 10;–Indra verily is he that burns yonder (the sun); but he indeed did not burn in the beginning, but as now everything else is dark, so was he then; and it is by that very energy (derived
from those divine objects) that he burns. Hence, if many persons perform the consecration 11, let it (the Tānūnaptra butter), after pouring the fast-milk to it, be handed only to the master of the house, since he, among them, is the representative of Indra. And if he perform the consecration by means of an (offering) with a dakshiṇā, let them hand it (the butter) to the sacrificer, after pouring the fast-milk to it, for thus it is said,–‘The Sacrificer is Indra.’
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यास्त᳘द्देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्द्ध᳘ᳫँ᳘ समवददिरे त᳘त्सार्धᳫँ᳭ सं᳘जघ्ने तत्सामाभवत्तस्मादाहुः[[!!]] सत्यᳫँ᳭ सा᳘म देवजᳫँ᳭ सामे᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यास्त᳘द्देवाः[[!!]]॥
(०) जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्द्ध᳘ᳫँ᳘ समवददिरे त᳘त्सार्धᳫँ᳭ सं᳘जघ्ने तत्सामाभवत्तस्मादाहुः[[!!]] सत्यᳫँ᳭ सा᳘म देवजᳫँ᳭ सामे᳘ति॥
मूलम् - Weber
अ᳘थ यास्त᳘द्देवाः᳟॥
जु᳘ष्टास्तनूः᳘ प्रिया᳘णि धा᳘मानि सार्ध᳘ᳫं᳘ समवददिरे त᳘त्सार्धᳫं सं᳘जघ्ने तत्सा᳘माभवत्त᳘स्मादाहुः सत्यᳫं सा᳘म देवजᳫं सामे᳘ति॥
मूलम् - विस्वरम्
अथ यास्तद्देवा जुष्टास्तनूः प्रियाणि धामानि सार्द्धं समवददिरे, तत् सार्धं संजघ्ने । तत्सामाभवत् । तस्मादाहु:- सत्यं साम, देवजं सामेति ॥ १६ ॥
सायणः
यजमानेन क्रियमाणस्य सामोपायस्य देवैः कृतं साम मूलमित्याह- अथ यास्तद्देवा जुष्टास्तनूरित्यादिना । ‘तत्‘ अवत्तं ‘सार्द्धम्’ ‘सञ्जघ्ने’ । तदाज्येन साकं प्रक्षिप्तशरीरकदम्बकम् संहतमेकमभूत्, ‘तत् सामाभवत्’ देवानां सत्येनोत्पन्नत्वात् ‘सत्यं देवजम्’ च ‘साम’ ॥ १६ ॥
इति श्रौसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे चतुर्थाध्याये द्वितीयं ब्राह्मणम् ॥ (३ । ४ । २)॥
Eggeling
- Now what favourite forms and desirable powers the gods then laid together, all that was wrought together and became the Sāman: wherefore they say, ‘The Sāman is the truth, the Sāman is born of the gods.’
-
93:2 Thus Ait. Br. I, 24, where moreover the Rudras are assigned to Indra, (the Vasus to Agni, and the Ādityas to Varuṇa.) ↩︎
-
94:1 Literally, ‘cut off together, part by part.’ ↩︎
-
94:2 Or, attributes, resources, ‘dhāmāni.’ ↩︎
-
94:3 Kasya upadrashṭur; the Kāṇva text has, Tasya naḥ ka upadrashṭā, ‘who (shall be) the witness of this (covenant) of ours?’ ↩︎
-
94:4 Cp. Atharva-veda XII, 4, 32, ‘In his mind he proposes and it goes forth to the gods.’ ↩︎
-
‘तदानीम्’ इ० क्व० प० । ↩︎
-
95:1 Viz. the butter in the dhruvā spoon, pouring it into the ‘vratapradāna,’ or vessel in which the fast-milk is handed to the sacrificer. ↩︎
-
दक्षिणस्यां व्वेदिश्रोणौ निधायावमृशंत्यृत्विजो यजमानश्चानाधृष्टमिति । का. श्रौ. सू. ८ । १९ । ↩︎
-
96:1 According to Ait. Br. I, 24 the gods deposited their forms in the house of king Varuṇa. ↩︎
-
97:1 That is, in a Sattra or sacrificial session, where all the officiating priests are consecrated and ‘sacrificers;’ the Yajamāna proper being styled Gr̥hapati (master of the house). See IV, 6, 8, 1 seq. ↩︎