०१

विश्वास-प्रस्तुतिः

शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ बाहू᳘ प्रायणीयोदयनीयौ᳘॥
(या᳘व) अभि᳘तो वै शि᳘रो बाहू᳘ भवतस्त᳘स्मादभि᳘त ऽआतिथ्य᳘मेते᳘ हवि᳘षी भवतः प्रायणी᳘यश्चोदयनी᳘यश्च॥

मूलम् - श्रीधरादि

शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ बाहू᳘ प्रायणीयोदयनीयौ᳘॥
(या᳘व) अभि᳘तो वै शि᳘रो बाहू᳘ भवतस्त᳘स्मादभि᳘त ऽआतिथ्य᳘मेते᳘ हवि᳘षी भवतः प्रायणी᳘यश्चोदयनी᳘यश्च॥

मूलम् - Weber

शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ बाहू᳘ प्रायणीयोदयनीयौ᳟॥
अभि᳘तो वै शि᳘रो बाहू᳘ भवतस्त᳘स्मादभि᳘त आतिथ्य᳘मेते᳘ हवि᳘षी भवतः प्रायणी᳘यश्चोदयनी᳘यश्च॥

मूलम् - विस्वरम्

अथ आतिथ्येष्टिः । शिरो वै यज्ञस्यातिथ्यम्- बाहू प्रायणीयोदयनीयौ । अभितो वै शिरो बाहू भवतः । तस्मादभित आतिथ्यमेते हविषी भवतः- प्रायणीयश्चोदयनीयश्च ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

आतिथ्यस्य प्रायणीयानन्तर्यं विधत्ते- शिरो वै यज्ञस्यातिथ्यमिति । व्याख्यातमिदम् 1 ॥ १ ॥

Eggeling
  1. Verily, the guest-offering is the head of the sacrifice, and the Prāyaṇīya and Udayanīya are its arms. But the arms are on both sides of the head: therefore those two oblations, the Prāyaṇīya and Udayanīya, are on both sides of the guest-offering.

०२

विश्वास-प्रस्तुतिः

(श्चा᳘) अ᳘थ य᳘स्मादातिथ्यं नाम[[!!]]॥
(मा᳘) अ᳘तिथिर्वा᳘ ऽएष᳘ एतस्या᳘गच्छति यत्सो᳘मः क्रीतस्त᳘स्मा ऽएतद्य᳘था रा᳘ज्ञे वा ब्राह्मणा᳘य वा महोक्षं᳘ वा महाजं᳘ वा प᳘चेत्तद᳘ह मानुष᳘ᳫँ᳘ हवि᳘र्देवा᳘नामेवमस्मा ऽएत᳘दातिथ्यं᳘ करोति॥

मूलम् - श्रीधरादि

(श्चा᳘) अ᳘थ य᳘स्मादातिथ्यं नाम[[!!]]॥
(मा᳘) अ᳘तिथिर्वा᳘ ऽएष᳘ एतस्या᳘गच्छति यत्सो᳘मः क्रीतस्त᳘स्मा ऽएतद्य᳘था रा᳘ज्ञे वा ब्राह्मणा᳘य वा महोक्षं᳘ वा महाजं᳘ वा प᳘चेत्तद᳘ह मानुष᳘ᳫँ᳘ हवि᳘र्देवा᳘नामेवमस्मा ऽएत᳘दातिथ्यं᳘ करोति॥

मूलम् - Weber

अ᳘थ य᳘स्मादातिथ्यं ना᳘म॥
अ᳘तिथिर्वा᳘ एष᳘ एतस्या᳘गछति यत्सो᳘मः क्रीतस्त᳘स्मा एतद्य᳘था रा᳘ज्ञे वा ब्राह्मणा᳘य वा महोक्षं᳘ वा महाजं᳘ वा प᳘चेत्तद᳘ह मानुष᳘ᳫं᳘ हवि᳘र्देवा᳘नामेवमस्मा एत᳘दातिथ्यं᳘ करोति॥

मूलम् - विस्वरम्

अथ यस्मादातिथ्यं नाम । अतिथिर्वा ऽएष एतस्यागच्छति- यत्सोमः क्रीतः । तस्मा ऽएतद्- यथा राज्ञे वा ब्राह्मणाय वा महोक्षं वा महाजं वा पचेत्- तदह मानुषम्, हविर्देवानाम्, एवमस्मा ऽएतदातिथ्यं करोति ॥ २ ॥

सायणः

यत्सम्बन्धादिदं हविरातिथ्यं तस्य सोमस्य कथमतिथित्वमिति निर्वचनप्रदर्शनद्वारेण तद्दर्शयति-अथ यस्मादातिथ्यं नामेति । यस्मान्निमित्तादातिथ्यमिति हविषो नाम अत उच्यत इति शेषः । ‘एतस्य’ यजमानस्य वसतिं यः ‘अतिथिः’ सन् यस्मात् ‘आगच्छति;’ न विद्यते प्रतिनियता तिथिर्यस्य सो ऽतिथिरित्यर्थः । तस्मादतिथये सोमाय ‘एतद्’ हविः निरूप्यत इत्यातिथ्यं नाम सम्पन्नम् । अतिथित्वमुपजीव्यातिथ्यमवश्यं कर्तव्यमित्याह- यथा राज्ञ इति । राज्ञे वा ब्राह्मणाय वेति । राज्ञः “गौर्मधुपर्कः स्यात् स्नातकायोपस्थिताय राज्ञे वा” 1- इति स्मृतेः सिद्धः (आप. श्रौ. सू. । २ । ८ । ८) । ब्राह्मणः श्रोत्रियो ऽभिमतः । “महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्” (याज्ञ. सं. १ । १ । १०८) इति स्मृतेः । ‘तदह मानुषम्’ आतिथ्यमिति शेषः । हविर्देवानामिति । देवानां हविरेवातिथ्यमित्यर्थः । एवमस्मा एतदिति । दार्ष्टान्तिकम् ॥ २ ॥

Eggeling
  1. Now as to why it is called ‘guest-offering.’ He, the purchased Soma, truly comes as his (the sacrificer’s) guest,–to him (is offered) that (hospitable reception): even as for a king or a Brāhman one would cook a large ox or a large he-goat–for that is human (fare offered to a guest), and the oblation is that of the gods–so he prepares for him that guest-offering.

०३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
पू᳘र्वो ऽती᳘त्य गृह्णी᳘यादि᳘ति य᳘त्र वा ऽअ᳘र्हन्तमा᳘गतं᳘[[!!]] नापचा᳘यन्ति क्रु᳘ध्यति वै स᳘ त᳘त्र त᳘था हा᳘पचितो भवति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
पू᳘र्वो ऽती᳘त्य गृह्णी᳘यादि᳘ति य᳘त्र वा ऽअ᳘र्हन्तमा᳘गतं᳘[[!!]] नापचा᳘यन्ति क्रु᳘ध्यति वै स᳘ त᳘त्र त᳘था हा᳘पचितो भवति॥

मूलम् - Weber

त᳘दाहुः॥
पू᳘र्वो ऽतीत्य गृह्णीयादि᳘ति य᳘त्र वा अ᳘र्हन्तमा᳘गॗतं नापचा᳘यन्ति 2 क्रु᳘ध्यति वै स त᳘त्र त᳘था हा᳘पचितो भवति॥

मूलम् - विस्वरम्

तदाहु:- पूर्वो ऽतीत्य गृह्णीयादिति । यत्र वा ऽअर्हन्तमागतं नापचायन्ति- क्रुध्यति वै स तत्र । तथा हापचितो भवति ॥ ३ ॥

सायणः

तदाहुः पूर्वो ऽतीत्य गृह्णीयादित्यादि । सोमम् ‘अतीत्य’ पृष्ठतः कृत्वा, स्वयं ततः ‘पूर्वः’ सन् पूर्वमागत्य हविः ‘गृह्णीयात्’ । विपक्षबाधपुरःसरं हविर्ग्रहणं प्रशंसति- यत्र वा अर्हन्तमागतं नापचायन्तीति । ‘अर्हन्तं’ पूज्यं गृहम् ‘आगतम्’ आगतमात्रम् ‘न अपचायन्ति’ । चायतेर्लेट्यडभावश्छान्दसः (पा. सू. ३ । ४ । ९४) (धा. पा. भ्वा. उ. ९०५) पूजां न कुर्युः; ‘सः’ ‘तत्र’ तस्मिन्नपचितिविषये ‘क्रुध्यति’ । ‘तथा ह’ तथा सति सोमप्रवेशात् प्रागेव हविर्ग्रहणे सति ‘अपचितो भवति’ ॥ ३॥

Eggeling
  1. Here now they say, ‘Let him first walk past (Soma) and take out (the material for offering)!’ For (they argue) where people do not show respect

to a worthy person (arhant) who has come to them, he becomes angry,–and in this way he (Soma) is indeed honoured.

०४

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽअन्यतर᳘ ऽएव व्वि᳘मुक्तः स्या᳘त्॥
(द) अन्यतरो᳘ ऽविमुक्तो᳘ ऽथ गृह्णीयात्स यद᳘न्यतरो व्वि᳘मुक्तस्तेना᳘गतो य᳘द्वन्यतरो᳘ ऽव्विमुक्तस्तेना᳘पचितः॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽअन्यतर᳘ ऽएव व्वि᳘मुक्तः स्या᳘त्॥
(द) अन्यतरो᳘ ऽविमुक्तो᳘ ऽथ गृह्णीयात्स यद᳘न्यतरो व्वि᳘मुक्तस्तेना᳘गतो य᳘द्वन्यतरो᳘ ऽव्विमुक्तस्तेना᳘पचितः॥

मूलम् - Weber

तद्वा᳘ अन्यतर᳘ एव वि᳘मुक्तः स्या᳘त्॥
अन्यतरो᳘ ऽविमुक्तो᳘ ऽथ गृह्णीयात्स यद᳘न्यतरो वि᳘मुक्तस्तेना᳘गतो य᳘द्वन्यतरो᳘ ऽविमुक्तस्तेना᳘पचितः॥

मूलम् - विस्वरम्

तद्वा ऽअन्यतर एव विमुक्तः स्यात्- अन्यतरो ऽविमुक्तः । अथ गृह्णीयात् । स यदन्यतरो विमुक्तस्तेनागतः । यद्वन्यतरो ऽविमुक्तस्तेनापचितः ॥ ४ ॥

सायणः

अपचितिश्च द्वेधा सम्भवति- अन्यतरानडुद्विमोकानन्तरम्, उभयविमोकानन्तरं च; तत्रान्यतरविमोकानन्तरपक्षमुपन्यस्यति- तद्वा अन्यतर एवेति 3 । एतदेवोपपादति- स यदन्यतरो विमुक्तस्तेनागत इति । तथा हि लोके यानाद्यविमोके सति आगमनिश्चयो न भवेत्; इह त्वन्यतरानडुद्विमोकेन तन्निश्चयो भवति । अन्यतरस्याविमोके तदागमनात् प्रागेव सा कृता स्यात् ॥ ४ ॥

Eggeling
  1. Then only one (of the oxen) is to be unyoked, and the other to be left unyoked 4; and thereupon he is to take out (the material for offering): for (they argue) in that one of them is unyoked, thereby he (Soma) has arrived; and in that the other is left unyoked, thereby he is honoured.

०५

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दु त᳘था न᳘ कुर्यात्॥ (द्वि) विमु᳘च्यैव᳘ प्रपा᳘द्य गृह्णीयाद्य᳘था वै᳘ देवा᳘नां च᳘रणं तद्वा ऽअ᳘नुमनु᳘ष्याणां त᳘स्मान्मानुषे या᳘वन्न᳘ विमुञ्च᳘ते᳘ नै᳘वास्मै ता᳘वदुदकᳫं᳭ ह᳘रन्ति ना᳘पचितिं कुर्व्वन्त्य᳘नागतो हि स ता᳘वद्भ᳘वत्य᳘थ य᳘दैव᳘ व्विमुञ्चते᳘ ऽथास्मा ऽउदकᳫं᳭ ह᳘रन्त्यथा᳘पचितिं कुर्व्वन्ति त᳘र्हि हि स आ᳘गतो भ᳘वति त᳘स्माद्विमु᳘च्यैव᳘ प्रपा᳘द्य गृह्णीयात्॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दु त᳘था न᳘ कुर्यात्॥ (द्वि) विमु᳘च्यैव᳘ प्रपा᳘द्य गृह्णीयाद्य᳘था वै᳘ देवा᳘नां च᳘रणं तद्वा ऽअ᳘नुमनु᳘ष्याणां त᳘स्मान्मानुषे या᳘वन्न᳘ विमुञ्च᳘ते᳘ नै᳘वास्मै ता᳘वदुदकᳫं᳭ ह᳘रन्ति ना᳘पचितिं कुर्व्वन्त्य᳘नागतो हि स ता᳘वद्भ᳘वत्य᳘थ य᳘दैव᳘ व्विमुञ्चते᳘ ऽथास्मा ऽउदकᳫं᳭ ह᳘रन्त्यथा᳘पचितिं कुर्व्वन्ति त᳘र्हि हि स आ᳘गतो भ᳘वति त᳘स्माद्विमु᳘च्यैव᳘ प्रपा᳘द्य गृह्णीयात्॥

मूलम् - Weber

त᳘दु त᳘था न᳘ कुर्यात् विमु᳘च्यैव᳘ प्रपा᳘द्य गृह्णीयाद्य᳘था वै᳘ देवा᳘नां च᳘रणं तद्वा अ᳘नु मनुॗष्याणां त᳘स्मान्मानुषे या᳘वन्न᳘ विमुञ्च᳘तेॗ नैॗवास्मै ता᳘वदुदकᳫं ह᳘रन्ति ना᳘पचितिं कुर्वन्त्य᳘नागतो हि स ता᳘वद्भ᳘वत्य᳘थ यॗदैव᳘ विमुञ्चते᳘ ऽथास्मा उदकᳫं ह᳘रन्त्यथा᳘पचितिं कुर्वन्ति त᳘र्हि हि स आ᳘गतो भ᳘वति त᳘स्माद्विमु᳘च्यैव᳘ प्रपा᳘द्य गृह्णीयात्॥

मूलम् - विस्वरम्

तदु तथा न कुर्यात् । विमुच्यैव प्रपाद्य गृह्णीयात् । यथा वै देवानां चरणम् । तद्वा ऽअनुमनुष्याणाम् । तस्मान्मानुषे यावन्न विमुञ्चते- नैवास्मै तावदुदकं हरन्ति, नापचितिं कुर्वन्ति । अनागतो हि स तावद्भवति । अथ यदैव विमुञ्चते- अथास्मा ऽउदकं हरन्ति, अथापचितिं कुर्वन्ति । तर्हि हि स आगतो भवति । तस्माद्विमुच्यैव प्रपाद्य गृह्णीयात् ॥ ५ ॥

सायणः

अमुं पक्षं निराचष्टे- तदु तथा न कुर्यादिति । इदानीं 3 स्वाभिमतं पक्षमाह- विमुच्यैव प्रपाद्य गृह्णीयादिति । ‘विमुच्यैव’ उभावपीत्यर्थः । एकतरं विमोच्यापि अन्यतरस्याविमोकादनागमनं सम्भाव्येत । ‘प्रपाद्य’ सोमं शालां प्रवेश्य । लौकिकातिथ्यदृष्टान्तबलेन श्रौतस्यातिथ्यस्य निर्वापकालं प्रतिपिपादयिषुरुभयविमोकपक्षं समर्थयते- यथा वै देवानां चरणमिति । ‘यावत् न विमुञ्चते’ प्रयाणसाधनं यानादिकं न परित्यजति । स्पष्टमन्यत् ॥ ५ ॥

Eggeling
  1. Let him, however, not do this but let him take out (the material for offering) only after unyoking (both oxen) and after making (Soma) enter (the hall); for the ways of men are in accordance with those of the gods. And accordingly, in human practice, so long as (a guest) has not unyoked, people do not bring water to him and show him no honour, for so long he has not yet arrived; but when he has unyoked, then they bring him water and show him honour, for then he has indeed arrived: let him therefore take out (the material for offering) only after unyoking and after making (Soma) enter (the hall).

०६

विश्वास-प्रस्तुतिः

(त्स) स वै᳘ संत्व᳘रमाण इव गृह्णीयात्॥
(त्त᳘) त᳘था हा᳘पचितो भवति तत्प᳘त्न्यन्वा᳘रभते पर्युह्य᳘माणं वै य᳘जमानो ऽन्वा᳘रभते ऽथा᳘त्र प᳘त्न्युभय᳘त ए᳘वैत᳘न्मिथुने᳘नान्वा᳘रभेते य᳘त्र वा ऽअ᳘र्हन्नाग᳘च्छति सर्व्वगृह्या᳘ ऽइव वै त᳘त्र चेष्टन्ति त᳘था हा᳘पचितो भवति॥

मूलम् - श्रीधरादि

(त्स) स वै᳘ संत्व᳘रमाण इव गृह्णीयात्॥
(त्त᳘) त᳘था हा᳘पचितो भवति तत्प᳘त्न्यन्वा᳘रभते पर्युह्य᳘माणं वै य᳘जमानो ऽन्वा᳘रभते ऽथा᳘त्र प᳘त्न्युभय᳘त ए᳘वैत᳘न्मिथुने᳘नान्वा᳘रभेते य᳘त्र वा ऽअ᳘र्हन्नाग᳘च्छति सर्व्वगृह्या᳘ ऽइव वै त᳘त्र चेष्टन्ति त᳘था हा᳘पचितो भवति॥

मूलम् - Weber

स वै᳘ संत्व᳘रमाण इव गृह्णीयात्॥
त᳘था हा᳘पचितो भवति तत्प᳘त्न्यन्वा᳘रभते पर्युह्य᳘माणं वै य᳘जमानो ऽन्वा᳘रभते ऽथा᳘त्र प᳘त्न्युभय᳘त एॗवैत᳘न्मिथुने᳘नान्वा᳘रभेते य᳘त्र वा अ᳘र्हन्नाग᳘छति सर्वगृह्या᳘ इव वै त᳘त्र चेष्टन्ति त᳘था हा᳘पचितो भवति॥

मूलम् - विस्वरम्

स वै संत्वरमाण इव गृह्णीयात् । तथा हापचितो भवति । तत्पत्न्यन्वारभते । पर्युह्यमाणं वै यजमानो ऽन्वारभते । अथात्र पत्नी । उभयत एवैतन्मिथुनेनान्वारभेते । यत्र वा ऽअर्हन्नागच्छति । सर्वगृह्या- इव वै तत्र चेष्टन्ति- तथा हापचितो भवति ॥ ६ ॥

सायणः

स वै सन्त्वरमाण इति 5 । सन्त्वराया अभावे अनादरः प्रतिभाति, अतरत्वरया गृह्णीयात् । निर्वापे पत्न्यन्वारम्भं विधाय प्रशंसति- तत्पत्न्यन्वारभते पर्युह्यमाणं वै यजमान इति । ‘तत्’ तेन आदौ परिवहणकाले यजमानान्वारम्भणेन ‘अत्र’ सोमार्थहविर्निर्वापकाले ‘उभयतः’ उभयोः पार्श्वयोरपि ‘मिथुनेनान्वारभेते’ । जायापती मिथुनमध्ये एकस्यान्वारम्भे अपरस्य तदविनाभूतस्यापि सिद्धत्वादित्यभिप्रायः । यत्र वा अर्हन्नित्यादि । ‘सर्वगृह्या इव’ गृहे स्थिताः सर्वे पदार्था अत्यर्थमनिर्ग्राह्याः, ते सर्वगृह्याः । ‘तत्र’ तस्मिन् आगमने निमित्ते सति तादृशास्तिष्ठन्ति ॥ ६ ॥

Eggeling
  1. Let him take it out with all speed, for thus he (Soma) is honoured. The housewife holds on to it from behind 6; for the sacrificer holds on to him (Soma), while he is driven around, and here his wife does so. Thus they enclose him on the two sides by a (married) couple: and, indeed, wherever a

worthy person comes, there all the inmates of the house bestir themselves, for thus he is honoured.

०७

विश्वास-प्रस्तुतिः

स वा᳘ ऽअन्ये᳘नैव त᳘तो य᳘जुषा गृह्णीयात्॥
(द्ये᳘) ये᳘नो चान्या᳘नि हवीᳫं᳭ष्ये᳘कं वा᳘ ऽएष᳘ भागं᳘ क्रीय᳘माणो ऽभि᳘क्रीयते च्छ᳘न्दसामेव᳘ राज्या᳘य च्छ᳘न्दसाᳫं᳭ सा᳘म्राज्याय त᳘स्य च्छ᳘न्दाᳫं᳭स्यभि᳘तः साचया᳘नि य᳘था राज्ञो᳘ ऽराजानो राजकृ᳘तः सूतग्राम᳘ण्य[[!!]] एव᳘मस्य च्छ᳘न्दाᳫं᳭स्यभि᳘तः साचया᳘नि॥

मूलम् - श्रीधरादि

स वा᳘ ऽअन्ये᳘नैव त᳘तो य᳘जुषा गृह्णीयात्॥
(द्ये᳘) ये᳘नो चान्या᳘नि हवीᳫं᳭ष्ये᳘कं वा᳘ ऽएष᳘ भागं᳘ क्रीय᳘माणो ऽभि᳘क्रीयते च्छ᳘न्दसामेव᳘ राज्या᳘य च्छ᳘न्दसाᳫं᳭ सा᳘म्राज्याय त᳘स्य च्छ᳘न्दाᳫं᳭स्यभि᳘तः साचया᳘नि य᳘था राज्ञो᳘ ऽराजानो राजकृ᳘तः सूतग्राम᳘ण्य[[!!]] एव᳘मस्य च्छ᳘न्दाᳫं᳭स्यभि᳘तः साचया᳘नि॥

मूलम् - Weber

स वा᳘ अन्ये᳘नैव त᳘तो य᳘जुषा गृह्णीयात्॥
ये᳘नो चान्या᳘नि हवींष्ये᳘कं वा᳘ एष᳘ भागं᳘ क्रीय᳘माणो ऽभिक्रीयते छ᳘न्दसामेव᳘ राज्या᳘य छ᳘न्दसाᳫं सा᳘म्राज्याय त᳘स्य छ᳘न्दांस्यभि᳘तः साचया᳘नि य᳘था राज्ञो᳘ ऽराजानो राजकृ᳘तः सूतग्रामण्य᳘ एव᳘मस्य छ᳘न्दांस्यभि᳘तः साचया᳘नि॥

मूलम् - विस्वरम्

स वा ऽअन्येनैव ततो यजुषा गृह्णीयात् । येनो चान्यानि हवींषि । एकं वा ऽएष भागं क्रीयमाणो ऽभिक्रीयते । छन्दसामेव राज्याय, छन्दसां साम्राज्याय । तस्य च्छन्दांस्यभितः साचयानि । यथा राज्ञो ऽराजानो राजकृतः सूतग्रामण्यः- एवमस्य छन्दांस्यभितः साचयानि ॥ ७ ॥

सायणः

स वा अन्येनेत्यादि । ‘ततः’ तस्मात् प्राकृतान्निर्वापमन्त्रात् ‘अन्येन यजुषा’- “अग्नेस्तनूरसि”- इत्यादिना । तत इत्यस्यार्थमाह- येनो चेति । मन्त्रान्यत्वे कारणमाह- एकं वा एष भागमिति । ‘एषः’ ‘क्रीयमाणः’ आतिथ्येन प्यायमानः सोमः । ‘एकम्’ समानम् ‘भागम्’ ‘अभि-लक्ष्य’ ‘क्रीयते’ । छन्दसां राज्यायेति । यथा ऽसौ ‘छन्दसां’ राज्यं साम्राज्यं च प्राप्नोति; तथा सम्पादनायेत्यर्थः । कथं छन्दःसम्बन्ध इति तत्राह- तस्य छन्दांसीति । ‘अभितः साचयः’ पुरः पश्चाच्च सहागन्तारः प्रधानपुरुषा इत्यर्थः । “यथा राज्ञो ऽराजानः”- इत्यत्र अराजान इति अकारप्रश्लेषः । ते के ‘राजकृतः’ राजत्वसम्पादकाः पट्टाभिषेकस्य 5 कर्तारः ‘सूतग्रामण्यः’ सूतश्रेष्ठाः ॥ ७ ॥

Eggeling
  1. Let him take out (the material) with a different formula from that wherewith (one takes out) any other oblations 7, since, when he (Soma) is bought, he is bought for one special destination,–for the sovereignty of the metres, for the supreme sovereignty of the metres. The metres act as attendants about him; even as the non-royal king-makers, the heralds and headmen, (attend upon) the king, so do the metres act as attendants about him (Soma).

०८

विश्वास-प्रस्तुतिः

न वै तद᳘वकल्पते॥
यच्छ᳘न्दोभ्य इ᳘ति के᳘वलं गृह्णीयाद्य᳘त्र वा ऽअ᳘र्हते प᳘चन्ति त᳘दभि᳘तः साच᳘यो ऽन्वा᳘भक्ता भवन्त्य᳘राजानो राजकृ᳘तः सूतग्राम᳘ण्यस्त᳘स्माद्य᳘त्रै᳘वैत᳘स्यै[[!!]] गृह्णीयात्त᳘देव च्छ᳘न्दाᳫं᳭स्यन्वा᳘भजेत्॥

मूलम् - श्रीधरादि

न वै तद᳘वकल्पते॥
यच्छ᳘न्दोभ्य इ᳘ति के᳘वलं गृह्णीयाद्य᳘त्र वा ऽअ᳘र्हते प᳘चन्ति त᳘दभि᳘तः साच᳘यो ऽन्वा᳘भक्ता भवन्त्य᳘राजानो राजकृ᳘तः सूतग्राम᳘ण्यस्त᳘स्माद्य᳘त्रै᳘वैत᳘स्यै[[!!]] गृह्णीयात्त᳘देव च्छ᳘न्दाᳫं᳭स्यन्वा᳘भजेत्॥

मूलम् - Weber

न वै तद᳘वकल्पते॥
यच्छ᳘न्दोभ्य इ᳘ति के᳘वलं गृह्णीयाद्य᳘त्र वा अ᳘र्हते प᳘चन्ति तदभि᳘तः साच᳘यो ऽन्वा᳘भक्ता भवन्त्य᳘राजानो राजकृ᳘तः सूतग्रामण्य᳘स्त᳘स्माद्य᳘त्रैॗवैत᳘स्यै गृह्णीयात्त᳘देव छ᳘न्दांस्यन्वा᳘भजेत्॥

मूलम् - विस्वरम्

न वै तदवकल्पते- यच्छन्दोभ्य इति केवलं गृह्णीयात् । यत्र वा ऽअर्हते पचन्ति- तदभितः साचयो ऽन्वाभक्ता भवन्ति- अराजानो राजकृतः सूतग्रामण्यः । तस्माद्यत्रैवैतस्यै गृह्णीयात् तदेव छन्दांस्यन्वाभजेत् ॥ ८ ॥

सायणः

निर्वापे समप्राधान्यपक्षं दूषयित्वा असमस्यैव निर्वापमाह- न वै तदवकल्पत इत्यादिना । अयमर्थः । यदि प्रधानस्योपसर्जनानाञ्च सदृशीं प्रतिपत्तिं कुर्यात् तदा प्रधानस्य प्रतिपत्तिर्न कृता स्यात्, अतो यथा प्रधानस्य आमन्त्रणे सति अप्रधाना अप्यनाहूता एव तमनुगच्छन्ति, एवं सोमार्थनिर्वापेण छन्दसामपि प्रसङ्गसिद्धेरन्वाभजनं सिद्धमिति सोमस्यैव निर्वापं कुर्यादित्यर्थः ॥ ८ ॥

Eggeling
  1. In no wise, then, is it befitting that he should take out any (material for offering) solely ‘for the metres 8;’ for whenever people cook food for some worthy person 9, then the attendants about him, the non-royal king-makers, the heralds and headmen, have their share (of the food) assigned to them; after (or along with their master): hence, when he takes out that (oblation to Soma), let him assign the metres a share in it along with (the deity).

०९

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ गृह्णाति॥
(त्य) अग्ने᳘स्तनू᳘रसि व्वि᳘ष्णवे त्वे᳘त्यग्निर्वै᳘ गायत्री त᳘द्गायत्री᳘मन्वा᳘भजति॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ गृह्णाति॥
(त्य) अग्ने᳘स्तनू᳘रसि व्वि᳘ष्णवे त्वे᳘त्यग्निर्वै᳘ गायत्री त᳘द्गायत्री᳘मन्वा᳘भजति॥

मूलम् - Weber

स᳘ गृह्णाति॥
अग्ने᳘स्तनू᳘रसि वि᳘ष्णवे त्वे᳘त्यग्निर्वै᳘ गायत्री त᳘द्गायत्री᳘मन्वा᳘भजति॥

मूलम् - विस्वरम्

स गृह्णाति । “अग्नेस्तनूरसि विष्णवे त्वा”- (वा. सं. ५ । १) इति । अग्निर्वै गायत्री । तद्गायत्रीमन्वाभजति ॥ ९ ॥

सायणः

हविर्ग्रहणे मन्त्रं विधत्ते- स गृह्णात्यग्नेस्तनूरसीति । हे निरुप्यमाणव्रीहिपदार्थ ! ‘त्वं अग्नेः तनूरसि’ स्वं शरीरं भवसि । शरीरोपचयहेतुत्वाद्वा तनूवदाच्छादकत्वाद्वा तनूत्वम् । “यो वै विष्णुः सोमः सः”- (श. प. ब्रा. ३ । ३ । ४ । २१) इति श्रुतेः, सवनत्रयव्यापित्वाद्वा सोमो विष्णुः, अतो ‘विष्णवे त्वा’ इति सोमस्य विष्णुत्वेन निर्द्देश उपपद्यते । अथवा “विष्णवे हि गृह्णाति यो यज्ञाय गृह्णाति” (श. प. ब्रा. ३ । ३ । १ । १४) इति श्रुतेः त्वां यज्ञाय गृह्णामीत्यर्थः । मन्त्रगतमग्निपदं गायत्र्यन्वाभक्तिसाधनत्वेन प्रशंसति- अग्निर्वै गायत्रीत्यादिना । अग्नेर्गायत्रीरूपत्वं प्रजापतिमुखात् सहोत्पन्नत्वाद्द्रष्टव्यम्- “तमग्निर्देवता ऽन्वसृज्यत गायत्रीछन्दः” (तै. सं. ७ । १ । १ । ४) इति हि श्रूयते । एवमुत्तरमन्त्रवाक्यान्यपि व्याख्येयानि ॥ ९ ॥

Eggeling
  1. He takes it out, with the text (Vāj. S. V, 1), ‘Thou art Agni’s body,–thee (I take) for Vishṇu!’ the Gāyatrī is Agni: to Gāyatrī he thus assigns her share.

१०

विश्वास-प्रस्तुतिः

सो᳘मस्य तनू᳘रसि व्वि᳘ष्णवे त्वे᳘ति॥
क्षत्रं वै सो᳘मः क्षत्रं᳘ त्रिष्टुप्त᳘त्त्रिष्टु᳘भमन्वा᳘भजति॥

मूलम् - श्रीधरादि

सो᳘मस्य तनू᳘रसि व्वि᳘ष्णवे त्वे᳘ति॥
क्षत्रं वै सो᳘मः क्षत्रं᳘ त्रिष्टुप्त᳘त्त्रिष्टु᳘भमन्वा᳘भजति॥

मूलम् - Weber

सो᳘मस्य तनू᳘रसि वि᳘ष्णवे त्वे᳘ति॥
क्षत्रं वै सो᳘मः क्षत्रं᳘ त्रिष्टुप्त᳘त्त्रिष्टु᳘भमन्वा᳘भजति॥

मूलम् - विस्वरम्

“सोमस्य तनूरसि विष्णवे त्वा”- (वा. सं. ५ । १) इति । क्षत्रं वै सोमः । क्षत्रं त्रिष्टुप् । तत्त्रिष्टुभमन्वाभजति ॥ १० ॥

सायणः

सोमस्य तनूरसीत्यादि । सोमस्यान्नत्वेन साक्षाच्छरीरोपचयहेतुत्वात् तनूत्वन् । सोमस्य राज्ञः क्षत्रत्वमसकृदुक्तम् । प्रजापतेरुरसो बाहुभ्याञ्च राजन्येन सह त्रिष्टुभो ऽप्युत्पत्तेः क्षत्रत्वम् (तै. सं. ७ । १ । १ । ४ ।) ॥ १० ॥

Eggeling
  1. ‘Thou art Soma’s body,–thee for Vishṇu!’ Soma is the nobility, and the Trishṭubh

is the nobility: to Trishṭubh he thus assigns her share.

११

विश्वास-प्रस्तुतिः

(त्स᳘) अ᳘तिथेरातिथ्य᳘मसि व्वि᳘ष्णवे त्वे᳘ति[[!!]]॥
सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठस्योद्धार᳘ ऽएव᳘मस्यैष᳘ ऽऋते च्छ᳘न्दोभ्यः॥

मूलम् - श्रीधरादि

(त्स᳘) अ᳘तिथेरातिथ्य᳘मसि व्वि᳘ष्णवे त्वे᳘ति[[!!]]॥
सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठस्योद्धार᳘ ऽएव᳘मस्यैष᳘ ऽऋते च्छ᳘न्दोभ्यः॥

मूलम् - Weber

अ᳘तिथेरातिथ्य᳘मसि वि᳘ष्णवे त्वे᳘ति᳟᳟॥
सो ऽस्योद्धारो य᳘था श्रे᳘ष्ठस्योद्धार᳘ एव᳘मस्यैष᳘ ऋते छ᳘न्दोभ्यः॥

मूलम् - विस्वरम्

“अतिथेरातिथ्यमसि विष्णवेत्वा”- (वा. सं. ५ । १) इति । सो ऽस्योद्धारः- यथा श्रेष्ठस्योद्धारः । एवमस्यैषः । ऋते छन्दोभ्यः ॥ ११ ॥

सायणः

अतिथेरातिथ्यमसीति । अत्रातिथिशब्दस्य तात्पर्यमाह- सो ऽस्योद्धारो यथा श्रेष्ठस्येति । उद्ध्रियते असाधारण्येन विभज्यत इत्युद्धारः प्रतिनियतभागः ॥ ११ ॥

Eggeling
  1. ‘Thou art the guest’s hospitable entertainment 10,–thee for Vishṇu!’ This is his (Soma’s) special share: as there is a special share for a chief, so is this his special share apart from the metres.

१२

विश्वास-प्रस्तुतिः

श्येना᳘य त्वा सोमभृ᳘ते व्वि᳘ष्णवे त्वे᳘ति॥
त᳘द्गायत्री᳘मन्वा᳘भजति सा य᳘द्गायत्री᳘ श्येनो᳘ भूत्वा᳘ दिवः सो᳘ममा᳘हरत्तेन सा᳘ श्येनः᳘ सोमभृत्ते᳘नै᳘वैनामेत᳘द्वी᳘र्येण द्विती᳘यमन्वा᳘भजति॥

मूलम् - श्रीधरादि

श्येना᳘य त्वा सोमभृ᳘ते व्वि᳘ष्णवे त्वे᳘ति॥
त᳘द्गायत्री᳘मन्वा᳘भजति सा य᳘द्गायत्री᳘ श्येनो᳘ भूत्वा᳘ दिवः सो᳘ममा᳘हरत्तेन सा᳘ श्येनः᳘ सोमभृत्ते᳘नै᳘वैनामेत᳘द्वी᳘र्येण द्विती᳘यमन्वा᳘भजति॥

मूलम् - Weber

श्येना᳘य त्वा सोमभृ᳘ते वि᳘ष्णवे त्वे᳘ति॥
त᳘द्गायत्री᳘मन्वा᳘भजति सा य᳘द्गायत्री᳘ श्येनो᳘ भूत्वा᳘ दिवः सो᳘ममाहरत्तेन सा᳘ श्येनः᳘ सोमभृत्ते᳘नैॗवैनामेत᳘द्वीॗर्येण द्विती᳘यमन्वा᳘भजति॥

मूलम् - विस्वरम्

“श्येनाय त्वा सोमभृते विष्णवे त्वा”- (वा. सं. ५ । १) इति । गायत्रीमन्वाभजति । सा यद्गायत्री श्येनो भूत्वा दिवः सोममाहरत्- तेन सा श्येनः सोमभृत् । तेनैवैनामेतद्वीर्येण द्वितीयमन्वाभजति ॥ १२ ॥

सायणः

पुनरपि गायत्र्या अन्वाभजनरूपतया श्येनशब्दं प्रशंसति- श्येनाय त्वेति । श्येनरूपमास्थाय सोमाहरणाद् गायत्री सोमभृत् श्येनः । एतदेव दर्शयति- सा यद् गायत्री श्येनो भूत्वेति । ‘तेनैव वीर्येण’ हेतुना ‘एनां’ गायत्रीं ‘द्वितीयं’ भागं प्रति ‘अन्वाभजति’ अध्वर्युः एतद्भागपाठेनेत्यर्थः ॥ १२ ॥

Eggeling
  1. ‘Thee for the Soma-bearing falcon! thee for Vishṇu!’ thereby he assigns to Gāyatrī her share. Because Gāyatrī, in the form of a falcon, carried off Soma from the sky, therefore she is the Soma-bearing falcon: in virtue of that heroic deed he now assigns to her a second share.

१३

विश्वास-प्रस्तुतिः

(त्स) अग्न᳘ये त्वा रायस्पोषदे व्वि᳘ष्णवे त्वा᳘त॥
पश᳘वो वै᳘ रायस्पो᳘षः पश᳘वो ज᳘गती तज्ज᳘गतीमन्वा᳘भजति॥

मूलम् - श्रीधरादि

(त्स) अग्न᳘ये त्वा रायस्पोषदे व्वि᳘ष्णवे त्वा᳘त॥
पश᳘वो वै᳘ रायस्पो᳘षः पश᳘वो ज᳘गती तज्ज᳘गतीमन्वा᳘भजति॥

मूलम् - Weber

अग्न᳘ये त्वा रायस्पोषदे वि᳘ष्णवे त्वे᳘ति॥
पश᳘वो वै᳘ रायस्पो᳘षः पश᳘वो ज᳘गती तज्ज᳘गतीमन्वाभजति॥

मूलम् - विस्वरम्

“अग्नये त्वा रायस्पोषदे विष्णवे त्वा”- (वा. सं. ५ । १) इति । पशवो वै रायस्पोषः । पशवो जगती । तज्जगतीमन्वाभजति ॥ १३ ॥

सायणः

अग्नये त्वेति । ‘अग्नये’ अङ्गनादिगुणविशिष्टाय ‘रायस्पोषदे’ धनपोषप्रदात्रे ‘विष्णवे’ सोमाय हे हविः ! ‘त्वा’ त्वाम् गृह्णामीत्यर्थः । जगत्यन्वाभजनरूपतया मन्त्रभागं प्रशंसति- पशवो वै रायस्पोष इति । वर्द्धमानधनरूपत्वं पशूनामेवेति ‘पशवो वै रायस्पोषः’ इत्युक्तम् । पशूनां जगतीत्वं जगत्या सोमाहरणसमये आहृतत्वाद्द्रष्टव्यम्- तथा च तैत्तिरीयकम्- “सा पशुभिश्च दीक्षया चागच्छदिति”- (तै. सं. ६ । १ । ६ । २) ॥ १३ ॥

Eggeling
  1. ‘Thee for Agni, the bestower of prosperity! thee for Vishṇu!’ Prosperity means cattle, and the Jagatī (the moving, living one) means cattle: to Jagatī he thereby assigns her share.

१४

विश्वास-प्रस्तुतिः

(त्स᳘) अ᳘थ यत्प᳘ञ्च कृ᳘त्वो गृह्णाति[[!!]]॥
संव्वत्सर᳘संमितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्च कृ᳘त्वो गृह्णात्य᳘थ यद्वि᳘ष्णवे त्वा व्वि᳘ष्णवे त्वे᳘ति गृह्णा᳘ति व्वि᳘ष्णवे हि᳘ गृह्णा᳘ति यो᳘ यज्ञा᳘य गृह्णा᳘ति॥

मूलम् - श्रीधरादि

(त्स᳘) अ᳘थ यत्प᳘ञ्च कृ᳘त्वो गृह्णाति[[!!]]॥
संव्वत्सर᳘संमितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्च कृ᳘त्वो गृह्णात्य᳘थ यद्वि᳘ष्णवे त्वा व्वि᳘ष्णवे त्वे᳘ति गृह्णा᳘ति व्वि᳘ष्णवे हि᳘ गृह्णा᳘ति यो᳘ यज्ञा᳘य गृह्णा᳘ति॥

मूलम् - Weber

अ᳘थ यत्प᳘ञ्च कृ᳘त्वो गृह्णा᳘ति॥
संवत्सर᳘सम्मितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऋत᳘वः संवत्सर᳘स्य त᳘म् पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्च कृ᳘त्वो गृह्णात्य᳘थ यद्वि᳘ष्णवे त्वा वि᳘ष्नवे त्वे᳘ति गृह्णा᳘ति वि᳘ष्णवे हि᳘ गृह्णा᳘ति यो᳘ यज्ञा᳘य गृह्णा᳘ति॥

मूलम् - विस्वरम्

अथ यत्पञ्च कृत्वो गृह्णाति । संवत्सरसंमितो वै यज्ञः । पञ्च वा ऽऋतवः संवत्सरस्य । तं पञ्चभिराप्नोति । तस्मात्पञ्च कृत्वो गृह्णाति । अथ यद् विष्णवे त्वा, विष्णवे त्वेति गृह्णाति । विष्णवे हि गृह्णाति- यो यज्ञाय गृह्णाति ॥ १४ ॥

सायणः

प्रकृतौ चतुःकृत्वो ग्रहणादत्रापि चोदकतस्तत्प्राप्त्यै पञ्चसङ्ख्यां विधाय प्रशंसति- अथ यत्पञ्चकृत्व 11 इति । (का. श्रौ. सू. ८ । २) । यज्ञस्य संवत्सरसम्मितत्वं गवामयनादिसत्ररूपस्य यज्ञस्य संवत्सरसाध्यत्वाद्वा (ऐ. ब्रा. २ । ३ । ३ । तै. सं. ७ । ४ । ७) संवत्सरात्मकप्रजापतिसम्मितत्वाद्वा, (ऐ. ब्रा. २ । २ । ७) “द्वादशाग्निष्टोमस्य स्तोत्राणि”- इति श्रुतेस्तद्गतसङ्ख्यया संवत्सरसाम्याद्वा द्रष्टव्यम् । ग्रहणमन्त्रेषु सर्वत्र विष्णुशब्दोपादानं प्रशंसति- अथ यद् विष्णवे त्वा विष्णवे त्वेति । यत्र यत्र हविर्गृह्यते, तत्र तत्र यज्ञार्थत्वनियमात्सोमस्य हविष्ट्वेन यज्ञार्थत्वात् सर्वत्र ‘विष्णवे-विष्णवे’ इति ग्रहणं युक्तमित्यर्थः ॥ १४ ॥

Eggeling
  1. Now as to his taking five times;–the sacrifice is of equal measure with the year, and five seasons there are in the year: the latter he gains in five (divisions);–for this reason he takes five times. And as to his taking it with ‘For Vishṇu (I take) thee! for Vishṇu thee!’ it is because he who takes out (material) for the sacrifice, takes it for Vishṇu.

१५

विश्वास-प्रस्तुतिः

नवकपालः पुरोडा᳘शो भवति॥
शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं न᳘वाक्षरा वै᳘ गाय᳘त्र्यष्टौ[[!!]] ता᳘नि या᳘न्यन्वा᳘ह प्रणवो᳘ नवमः᳘ पूर्वार्धो वै᳘ यज्ञ᳘स्य गा᳘यत्री᳘ पूर्वार्ध᳘ एष᳘ यज्ञ᳘स्य त᳘स्मान्न᳘वकपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

नवकपालः पुरोडा᳘शो भवति॥
शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं न᳘वाक्षरा वै᳘ गाय᳘त्र्यष्टौ[[!!]] ता᳘नि या᳘न्यन्वा᳘ह प्रणवो᳘ नवमः᳘ पूर्वार्धो वै᳘ यज्ञ᳘स्य गा᳘यत्री᳘ पूर्वार्ध᳘ एष᳘ यज्ञ᳘स्य त᳘स्मान्न᳘वकपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

नवकपालः पुरोडा᳘शो भवति॥
शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं न᳘वाक्षरा वै᳘ गायत्र्य᳘ष्टौ ता᳘नि या᳘न्यन्वा᳘ह प्रणवो᳘ नवमः᳘ पूर्वार्धो वै᳘ यज्ञ᳘स्य गायत्री᳘ पूर्वार्धे᳘ एष᳘ यज्ञ᳘स्य त᳘स्मान्न᳘वकपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

नवकपालः पुरोडाशो भवति । शिरो वै यज्ञस्यातिथ्यम् । नवाक्षरा वै गायत्री । अष्टौ तानि- यान्यन्वाह । प्रणवो नवमः । पूर्वार्धो वै यज्ञस्य गायत्री । पूर्वार्ध एष यज्ञस्य । तस्मान्नवकपालः पुरोडाशो भवति ॥ १५ ॥

सायणः

नवकपालः पुरोडश इति 12 । नवसु कपालेषु संस्कृतो नवकपालः । नवकपालस्यातिथ्यार्हत्वमाह- शिरो वा इति । यान्यन्वाहेति । ‘यानि’ अक्षराणि अनुक्रमेण उच्चारणकाले ब्रूते तान्यष्टौ भवन्ति, प्रयोगकाले “प्रणवष्टेः” इति (पा. सू. ८ । २ । ८९) प्रयुज्यमानः ‘प्रणवः’ एव ‘नवमः’ “गायत्रं प्रातस्सवनम्” (तै. सं. ३. २. ९.) इति श्रुतेः । ‘यज्ञस्य पूर्वार्द्धो गायत्री’; तस्माद् गायत्र्यानुगुण्याय ‘नवकपालः’ कर्तव्यः ॥ १५ ॥

Eggeling
  1. It is a sacrificial cake on nine potsherds;–for the guest-offering is the head of the sacrifice, and the Gāyatrī consists of nine syllables 13: eight (syllables) are those he recites and the sacred syllable 14 is the ninth; and the Gāyatrī is the fore-part of the

sacrifice 15, and so is that (cake) the fore-part of the sacrifice: therefore it is a cake on nine potsherds.

१६

विश्वास-प्रस्तुतिः

कार्ष्मर्यम᳘याः परिध᳘यः॥
(यो) देवा᳘ ह वा᳘ ऽएतं व्व᳘नस्प᳘तिषु राक्षोघ्नं᳘ ददृशुर्य᳘त्कार्ष्मर्यᳫं᳭ शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं नेच्छि᳘रो यज्ञ᳘स्य नाष्ट्रा र᳘क्षाᳫं᳭सि हिन᳘सन्नि᳘ति त᳘स्मात्कार्ष्मर्यम᳘याः परिध᳘यो भवन्ति॥

मूलम् - श्रीधरादि

कार्ष्मर्यम᳘याः परिध᳘यः॥
(यो) देवा᳘ ह वा᳘ ऽएतं व्व᳘नस्प᳘तिषु राक्षोघ्नं᳘ ददृशुर्य᳘त्कार्ष्मर्यᳫं᳭ शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं नेच्छि᳘रो यज्ञ᳘स्य नाष्ट्रा र᳘क्षाᳫं᳭सि हिन᳘सन्नि᳘ति त᳘स्मात्कार्ष्मर्यम᳘याः परिध᳘यो भवन्ति॥

मूलम् - Weber

कार्ष्मर्यम᳘याः परिध᳘यः॥
देवा᳘ ह वा᳘ एतं व᳘नस्प᳘तिषु राक्षोघ्नं᳘ ददृशुर्य᳘त्कार्ष्म᳘र्यं शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं नेछि᳘रो यज्ञ᳘स्य नाष्ट्रा र᳘क्षांसि हिन᳘सन्नि᳘ति त᳘स्मात्कार्ष्मर्यम᳘याः परिध᳘यो भवन्ति॥

मूलम् - विस्वरम्

कार्ष्ममयाः परिधयः । देवा ह वा ऽएतं वनस्पतिषु राक्षोघ्नं ददृशुः- यत् कार्ष्मर्यम् । शिरो वै यज्ञस्यातिथ्यम् । नेच्छिरो यज्ञस्य नाष्ट्रा रक्षांसि हिनसन्निति । तस्मात्कार्ष्मर्यमयाः परिधयो भवन्ति ॥ १६ ॥

सायणः

कार्ष्मर्यमयाः परिधय इति 16 । ‘कार्ष्मर्यः’ भद्रपर्णी तन्मया एव ‘परिधयः’ कर्तव्याः । प्रकृतौ पलाशवैकङ्कतादीनामैच्छिकत्वादत्र नियमविधिः । देवा ह वा इत्यादि । कार्ष्मर्यमयत्वस्योपपादनम् ॥ १६ ॥

Eggeling
  1. The enclosing-sticks are of kārshmarya wood (Gmelina Arborea 17), for the gods, once upon a time, perceived that one, the kārshmarya, to be the Rakshas-killer among trees. Now, the guest-offering being the head of the sacrifice, the enclosing-sticks are of kārshmarya wood, in order that the evil spirits may not injure the head of the sacrifice.

१७

विश्वास-प्रस्तुतिः

(न्त्या᳘) आ᳘श्ववालः प्रस्तरः᳘॥
(रो᳘) यज्ञो᳘ ह देवेभ्यो᳘ ऽपचक्राम सो᳘ ऽश्वो भूत्वा प᳘राङा᳘ववर्त त᳘स्य देवा᳘ अनुहा᳘य व्वा᳘लानभि᳘पेदुस्ताना᳘लुलुपुस्ता᳘नालु᳘प्य सार्ध᳘ᳫं᳘[[!!]] सं᳘न्यासुस्त᳘त एता ऽओ᳘षधयः स᳘मभवन्य᳘दश्ववालाः शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ जघनार्धो व्वा᳘ला ऽउभय᳘त ऽए᳘वैत᳘द्यज्ञं प᳘रिगृह्णाति यदा᳘श्ववालः प्रस्तरो भ᳘वति॥

मूलम् - श्रीधरादि

(न्त्या᳘) आ᳘श्ववालः प्रस्तरः᳘॥
(रो᳘) यज्ञो᳘ ह देवेभ्यो᳘ ऽपचक्राम सो᳘ ऽश्वो भूत्वा प᳘राङा᳘ववर्त त᳘स्य देवा᳘ अनुहा᳘य व्वा᳘लानभि᳘पेदुस्ताना᳘लुलुपुस्ता᳘नालु᳘प्य सार्ध᳘ᳫं᳘[[!!]] सं᳘न्यासुस्त᳘त एता ऽओ᳘षधयः स᳘मभवन्य᳘दश्ववालाः शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ जघनार्धो व्वा᳘ला ऽउभय᳘त ऽए᳘वैत᳘द्यज्ञं प᳘रिगृह्णाति यदा᳘श्ववालः प्रस्तरो भ᳘वति॥

मूलम् - Weber

आ᳘श्ववालः प्रस्तरः᳟॥
यज्ञो᳘ ह देवेभ्यो᳘ ऽपचक्राम सो᳘ ऽश्वो भूत्वा प᳘राङा᳘ववर्त त᳘स्य देवा᳘ अनुहा᳘य वा᳘लानभि᳘पेदुस्ताना᳘लुलुपुस्ता᳘नालु᳘प्य साॗर्ध᳘ᳫं᳘ संन्यासुस्त᳘त एता ओ᳘षधयः स᳘मभवन्य᳘दश्ववालाः शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ जघनार्धो वा᳘ला उभय᳘त एॗवैत᳘द्यज्ञम् प᳘रिगृह्णाति यदा᳘श्ववालाः प्रस्तरो भ᳘वति॥

मूलम् - विस्वरम्

आश्ववालः प्रस्तरः- यज्ञो ह देवेभ्यो ऽपचक्राम । सो ऽश्वो भूत्वा पराङाववर्त । तस्य देवा अनुहाय वालानभिपेदुः । तानालुलुपुः । तानालुप्य सार्द्धं संन्यासुः । तत एता ओषधयः समभवन्- यदश्ववालाः । शिरो वै यज्ञस्यातिथ्यम् । जघनार्धो वालाः । उभयत एवैतद्यज्ञं परिगृह्णाति- यदाश्ववालः प्रस्तरो भवति ॥ १७ ॥

सायणः

आश्ववालः प्रस्तर इति । आश्ववालत्वं तन्नामनिवचनद्वारेण प्रशंसति- यज्ञो ह देवेभ्य इति । ‘तान्’ आश्ववालान् ‘आलुलुपुः’ “लुप्ऌ छेदने”- (धा. पा. तु. उ. ५०) चिच्छिदुः ‘सार्द्धं सन्न्यासुः’ एकीकृत्य सम्यग् भूमौ प्रचिक्षिपुः । तेभ्यः ताः ‘एताः’ अश्ववालाख्याः ‘ओषधयः’ सञ्जाताः । आश्ववालानामातिथ्येष्टियोग्यत्वमाह- शिरो वै यज्ञस्यातिथ्यम्, जघनार्द्धो वाला इति । आतिथ्यस्य सोमात् प्रथममनुष्ठेयत्वेन शिरस्त्वात् तस्यादावनुष्ठितत्वाज्जघनार्द्धावस्थितवालपरिणामरूपस्याश्ववालस्य तत्र प्रयोगे सति अपगतस्य यज्ञस्य ‘उभयतः’ परिग्रहः कृतो भवति ॥ १७ ॥

Eggeling
  1. The prastara-bunch 18 is of aśvavāla-grass (Saccharum Spontaneum). For, once upon a time, the sacrifice escaped from the gods. It became a horse (aśva) and sped away from them. The gods, rushing after it, took hold of its tail (vāla) and tore it out; and having torn it out, they threw it down in a lump, and what had been the hairs of the horse’s tail then grew up as those plants (of aśvavāla-grass). Now the guest-offering is the head of the sacrifice, and the tail is the hind-part (of animals): hence by the prastara being of aśvavāla-grass he encompasses the sacrifice on both sides.

१८

विश्वास-प्रस्तुतिः

(त्यै) ऐक्ष᳘व्यौ व्वि᳘धृती॥
ने᳘द्बर्हि᳘श्च प्रस्तर᳘श्च संलु᳘भ्याता ऽइत्य᳘थोत्पूया᳘ज्यᳫं᳭ स᳘र्व्वाण्येव᳘ चतुर्गृहीतान्या᳘ज्यानि गृह्णाति न ह्य᳘त्रानुयाजा भ᳘वन्ति॥

मूलम् - श्रीधरादि

(त्यै) ऐक्ष᳘व्यौ व्वि᳘धृती॥
ने᳘द्बर्हि᳘श्च प्रस्तर᳘श्च संलु᳘भ्याता ऽइत्य᳘थोत्पूया᳘ज्यᳫं᳭ स᳘र्व्वाण्येव᳘ चतुर्गृहीतान्या᳘ज्यानि गृह्णाति न ह्य᳘त्रानुयाजा भ᳘वन्ति॥

मूलम् - Weber

ऐक्षॗव्यौ वि᳘धृती॥
ने᳘द्बर्हि᳘श्च प्रस्तर᳘श्च संलु᳘भ्यात 19 इत्य᳘थोत्पूया᳘ज्यᳫं स᳘र्वाण्येव᳘ चतुर्गृहीतान्या᳘ज्यानि गृह्णाति न ह्य᳘त्रानुयाजा भ᳘वन्ति॥

मूलम् - विस्वरम्

ऐक्षव्यौ विधृती । नेद्बर्हिश्च प्रस्तरश्च संलुभ्यातै- इति । अथोपूत्याज्यम्, सर्वाण्येव चतुगृहीतान्याज्यानि गृह्णाति । न ह्यत्रानुयाजा भवन्ति ॥ १८ ॥

सायणः

ऐक्षव्यौ विधृती इति । बर्हिःप्रस्तरयोरन्तराले तियक्प्रसार्यमाणौ दर्भौ ‘विधृती’ ते अत्र इक्षुपत्ररूपे स्याताम् । ‘संलुभ्यातै’ पञ्चमलकारः । संलोभनमाकुलीभावो मिश्रणम् । तद्भयाद् ‘ऐक्षव्यौ’ (तै. सं. ६ । २ । १) कर्तव्ये इत्यर्थः । अथोत्पूयाज्यमित्यादि । उत्पवनं प्रकृतिवत् कर्तव्यम् । ‘सर्वाण्येव’ जुहूपभृद्ध्रुवाख्येषु पात्रेषु गृह्यमाणानि ‘आज्यानि’ ‘चतुर्गृहीतानि’ एव कुर्यात् । प्रकृतिवदेवेतरयोश्चतुर्गृहीतत्वं सिद्धम् । अत उपभृति अष्टगृहीतत्वनिवृत्त्यर्थमेवाभिधानम् । तत्र चतुर्गृहीतत्वे उपपत्तिं श्रुतिरेवाह- न ह्यत्रानुयाजा भवन्तीति ॥ १८ ॥

Eggeling
  1. There are two vidhr̥tis 20 of sugar-cane, lest

the barhis and the prastara should become mixed up together. Having then purified the ghee 21, he takes all the butter-portions in four ladlings 22, for at this (sacrifice) there are no after-offerings.

१९

विश्वास-प्रस्तुतिः

(न्त्या) आसा᳘द्य हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥
शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ जन᳘यन्ति वा᳘ ऽएनमेतद्यन्म᳘न्थन्ति शीर्षतो वा ऽअ᳘ग्रे जा᳘यमानो जायते शीर्षत᳘ ऽए᳘वैतद᳘ग्रे[[!!]] यज्ञं᳘ जनयत्यग्निर्वै स᳘र्व्वा देव᳘ता ऽअग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वति शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्य᳘ᳫं᳘शीर्षत᳘ ऽए᳘वैत᳘द्यज्ञᳫं᳭ स᳘र्व्वाभिर्देव᳘ताभिः स᳘मर्धयति त᳘स्मादग्निं᳘ मन्थति᳘॥

मूलम् - श्रीधरादि

(न्त्या) आसा᳘द्य हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥
शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ जन᳘यन्ति वा᳘ ऽएनमेतद्यन्म᳘न्थन्ति शीर्षतो वा ऽअ᳘ग्रे जा᳘यमानो जायते शीर्षत᳘ ऽए᳘वैतद᳘ग्रे[[!!]] यज्ञं᳘ जनयत्यग्निर्वै स᳘र्व्वा देव᳘ता ऽअग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वति शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्य᳘ᳫं᳘शीर्षत᳘ ऽए᳘वैत᳘द्यज्ञᳫं᳭ स᳘र्व्वाभिर्देव᳘ताभिः स᳘मर्धयति त᳘स्मादग्निं᳘ मन्थति᳘॥

मूलम् - Weber

आसा᳘द्य हवीं᳘ष्यग्नि᳘म् मन्थति॥
शिरो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ जन᳘यन्ति वा᳘ एनमेतद्यन्म᳘न्थन्ति शीर्षतो वा अ᳘ग्रे जा᳘यमानो जायते शीर्षत᳘ एॗवैत᳘द᳘ग्रे यज्ञं᳘ जनयत्यग्निर्वै सर्वा देव᳘ता अग्नौ हि स᳘र्वाभ्यो देव᳘ताभ्यो जु᳘ह्वति शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ शीर्षत᳘ एॗवैत᳘द्यज्ञᳫं स᳘र्वाभिर्देव᳘ताभिः स᳘मर्धयति त᳘स्मादग्नि᳘म् मन्थति॥

मूलम् - विस्वरम्

आसाद्य हवींष्यग्निं मन्थति । शिरो वै यज्ञस्यातिथ्यम् । जनयन्ति वा ऽएनमेतद्यन्मन्थन्ति । शीर्षतो वा ऽअग्रे जायमानो जायते शीर्षत । एवैतदग्रे यज्ञं जनयति । अग्निर्वै सर्वा देवताः । अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति । शिरो वै यज्ञस्यातिथ्यम् । शीर्षत एवैतद्यज्ञं सर्वाभिर्देवताभिः समर्धयति । तस्मादग्निं मन्थति ॥ १९ ॥

सायणः

अग्निमन्थनं तत्कृतं विधत्ते- आसाद्य हवींष्यग्निं मन्थतीति 23 । आतिथ्यायामेवाग्निमन्थने को विशेष इत्यत आह- शिरो वै यज्ञस्येति । जनयन्ति वा एनमेतद् यन्मन्थन्तीति । ‘एतत्’ एतेन मन्थनजातेनाग्निना यज्ञनिष्पत्तिदर्शनादग्न्युत्पादनमेव यज्ञोत्पादनम् । प्रकारान्तरेणातिथ्यायामग्निमन्थनं प्रशंसति- अग्निर्वै सर्वा देवता इति । सोमयागस्य शिरोभूतायामातिथ्यायां सर्वदेवतामयस्याग्नेरुत्पादनेन सर्वासामपि देवतानामुत्पत्तेर्यज्ञप्रारम्भ एव सर्वैर्देवैर्यज्ञं समृद्धं कारितवान् भवति ॥ १९ ॥

Eggeling
  1. When he has placed the sacrificial dishes (on the altar) 24, he churns the fire. For the guest-offering is the head of the sacrifice; and in churning (the fire) they produce that (sacrifice); and one who is born is born with the head first: hence he thereby makes the sacrifice to be produced with the head first. Further, Agni means all the gods, since offering is made in the fire to all gods; and the guest-offering is the head of the sacrifice: hence, through all the deities, he secures success to the sacrifice from the very head (beginning). This is why he churns the fire 25.

२०

विश्वास-प्रस्तुतिः

सो ऽधिम᳘न्थनᳫं᳭ श᳘कलमा᳘दत्ते॥
(त्ते ऽग्ने᳘) अग्ने᳘र्जनि᳘त्रमसीत्य᳘त्र᳘ ह्यग्निर्जा᳘यते[[!!]] त᳘स्मादाहाग्ने᳘र्जनि᳘त्रमसीति[[!!]]॥

मूलम् - श्रीधरादि

सो ऽधिम᳘न्थनᳫं᳭ श᳘कलमा᳘दत्ते॥
(त्ते ऽग्ने᳘) अग्ने᳘र्जनि᳘त्रमसीत्य᳘त्र᳘ ह्यग्निर्जा᳘यते[[!!]] त᳘स्मादाहाग्ने᳘र्जनि᳘त्रमसीति[[!!]]॥

मूलम् - Weber

सो ऽधिम᳘न्थनं श᳘कलमा᳘दत्ते॥
अग्ने᳘र्जनि᳘त्रमसीत्य᳘त्र ह्य᳘ग्निर्जा᳘यते त᳘स्मादाहाग्ने᳘र्जनि᳘त्रमसी᳘ति॥

मूलम् - विस्वरम्

सो ऽधिमन्थनं शकलमादत्ते । “अग्नेर्जनित्रमसि”- (वा. सं. ५ । २) इति । अत्र ह्यग्निर्जायते । तस्मादाहाग्नेर्जनित्रमसीति ॥ २० ॥

सायणः

सो ऽधिमन्थनं शकलमिति 23 । यूपतक्षणोत्पन्नो ऽधरारण्या अधः स्थाप्यमानः शकलः ‘अधिमन्थनशकलः’ यस्योपरि मध्यते; तमादत्ते । तत्र मन्त्रः- अग्नेर्जनित्रमसीति । हे शकल ! त्वम् ‘अग्नेः’ ‘जनित्रम्’ उत्पादकम् ‘असि’ । कथमस्य जनित्रत्वमिति, तत्राह- अत्र ह्यग्निरिति । ‘अत्र’ अधरारणिव्यवहिते शकल इत्यर्थः ॥ २० ॥

Eggeling
  1. He takes the bottom piece of wood 26, with the text (Vāj. S. V, 2), ‘Thou art the birth-place of Agni;’ for it is thereon that Agni is produced: hence he says, ‘Thou art the birth-place of Agni.’

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दर्भतरुणके नि᳘दधाति॥
व्वृ᳘षणौ स्थ ऽइ᳘ति तद्या᳘वे᳘वेमौ᳘ स्त्रियै᳘ साकंजा᳘वेता᳘वे᳘वैतौ[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दर्भतरुणके नि᳘दधाति॥
व्वृ᳘षणौ स्थ ऽइ᳘ति तद्या᳘वे᳘वेमौ᳘ स्त्रियै᳘ साकंजा᳘वेता᳘वे᳘वैतौ[[!!]]॥

मूलम् - Weber

अ᳘थ दर्भतरुणके नि᳘दधाति॥
वृ᳘षणौ स्थ इ᳘ति तद्या᳘वेॗवेमौ स्त्रियै᳘ साकंजा᳘वेता᳘वेॗवैतौ᳟॥

मूलम् - विस्वरम्

अथ दर्भतरुणके निदधाति- “वृषणौ स्थः”- (वा. सं. ५ । २) इति । तद्यावेवेमौ स्त्रियै साकञ्जौ- “एतावेवैतौ” ॥ २१ ॥

सायणः

अथ दर्भतरुणके इति 27 । ‘दर्भतरुणके’ कोमलौ परस्परसदृशौ दर्भौ, तौ अधो निदध्यात् “वृषणौ स्थः” इति तत्र मन्त्रः । हे दर्भौ ! युवां वृषणौ अभिमतफलवर्षकौ भवथ इति तस्यार्थः । तौ प्रशंसति- तद्यावेवेमौ स्त्रियै साकञ्जावेतावेवैताविति । ‘स्त्रियै’ स्त्रियाः सकाशात् ‘साकञ्जौ’ सहोत्पन्नौ ‘याविमौ’ परस्परसदृशौ पुत्रौ ‘एतौ’ दर्भौ, ‘एतावेव’ युगलौ पुत्रावेव । रूपकोपन्यासेनात्यन्तसादृश्यमभिमतमिति द्रष्टव्यम् ॥ २१ ॥

Eggeling
  1. Thereon he lays two sprouts of a kuśa stalk (with the tops towards the east), with, ‘Ye are

males 28;’ thereby these two are as two (sons) born together here from a woman.

२२

विश्वास-प्रस्तुतिः

(ताव᳘) अ᳘थाधरारणिं नि᳘दधाति॥
(त्यु) उव्व᳘श्यसीत्य᳘थोत्तरार᳘ण्या ऽऽज्यविला᳘पनीमु᳘पस्पृशत्यायु᳘रसी᳘ति ता᳘मभिनि᳘दधाति पुरूर᳘वा ऽअसी᳘त्युर्व्व᳘शी वा᳘ ऽअप्सराः᳘ पुरूर᳘वाः प᳘तिर᳘थ यत्त᳘स्मान्मिथुनाद᳘जायत त᳘दायु᳘रेव᳘मे᳘वैष᳘ ऽएत᳘स्मान्मिथुना᳘द्यज्ञं᳘ जनयत्य᳘थाहाग्न᳘ये मथ्य᳘मानाया᳘नुब्रूही᳘ति॥

मूलम् - श्रीधरादि

(ताव᳘) अ᳘थाधरारणिं नि᳘दधाति॥
(त्यु) उव्व᳘श्यसीत्य᳘थोत्तरार᳘ण्या ऽऽज्यविला᳘पनीमु᳘पस्पृशत्यायु᳘रसी᳘ति ता᳘मभिनि᳘दधाति पुरूर᳘वा ऽअसी᳘त्युर्व्व᳘शी वा᳘ ऽअप्सराः᳘ पुरूर᳘वाः प᳘तिर᳘थ यत्त᳘स्मान्मिथुनाद᳘जायत त᳘दायु᳘रेव᳘मे᳘वैष᳘ ऽएत᳘स्मान्मिथुना᳘द्यज्ञं᳘ जनयत्य᳘थाहाग्न᳘ये मथ्य᳘मानाया᳘नुब्रूही᳘ति॥

मूलम् - Weber

अ᳘थाधरारणिं नि᳘दधाति॥
उर्व᳘श्यसीत्य᳘थोत्तरारॗण्याज्यविला᳘पनीमु᳘पस्पृशत्यायु᳘रसी᳘ति ता᳘मभिनि᳘दधाति पुरूर᳘वा असी᳘त्युर्व᳘शी वा᳘ अप्सराः᳘ पुरूर᳘वाः प᳘तिर᳘थ यत्त᳘स्मान्मिथुनाद᳘जायत त᳘दायु᳘रेव᳘मेॗवैष᳘ एत᳘स्मन्मिथुना᳘द्यज्ञं᳘ जनयत्य᳘थाहाग्न᳘ये मथ्य᳘मानाया᳘नुब्रूही᳘ति॥

मूलम् - विस्वरम्

अथाधरारणिं निदधाति- “उर्वश्यसि"- (वा. सं. ५ । २) इति । अथोत्तरारण्या ऽऽज्यविलापनीमुपस्पृशति- “आयुरसि"- (वा. सं. ५ । २) इति । तामभिनिदधाति- “पुरूरवा असि"- (वा. सं. ५ । २) इति । उर्वशी वा ऽअप्सराः । पुरूरवाः पतिः । अथ यत् तस्मान्मिथुनादजायत- तदायुः । एवमेवैष एतस्मान्मिथुनाद्यनं जनयति । अथाह- ‘अग्नये मथ्यमानायानुब्रूहि’ इति ॥ २२ ॥

सायणः

अथाधरारणिमिति 27 । तत्राधरारणिनिधाने मन्त्रः- उर्वश्यसीति । हे अधरारणे ! त्वम् ‘उर्वशी’ भवसि । आज्यं विलाप्यते यस्यां सा आज्यविलापनी स्थाली ताम्, उत्तरारण्या सम्पर्शं कुर्यात् ‘आयुरसीति’ मन्त्रेण 29 । तामुत्तरारणिं ‘पुरूरवा असीति’ तस्या उपरि निदध्यात् ॥

अरण्योराज्यविलापन्याश्च यदुर्वश्याद्यात्मकत्वम्, तत्-त्रयं प्रशंसितुं पुरावृत्तदृष्टान्तमाह- उर्वशी वा अप्सरा इत्यादि । ‘उर्वशी अप्सराः’ पत्नी अभवत्, ‘पुरूरवाः’ ‘पतिः’ अभवत्म् ‘तस्मान्मिथुनात्,’ ‘आयुः’ नाम पुत्रः ‘अजायत’ । एतत्सर्वमग्रे समाम्नास्यते- “उर्वशी हाप्सराः पुरूरवसमैलं चकमे" इति । (श. प. ब्रा. ११ । ५ । १ । १-१७) । “एवमेवैषः-“ इति दार्ष्टान्तिकाभिधानम् । ‘यज्ञं जनयति’ यज्ञसाधनत्वाद्- यज्ञमित्युच्यते । ‘अथ’ अरण्योरासादनानन्तरम् “अग्नये मथ्यमानायानुब्रूहि" 30 इति होतारम् ‘आह’ ॥ २२ ॥

Eggeling
  1. Thereon he lays the lower churning-stick (with the top to the north), with, ‘Thou art Urvaśī!’ He then touches the (ghee in the) ghee-pan with the upper churning-stick, with, ‘Thou art Āyu,’ he puts it down (on the lower araṇi) with, ‘Thou art Purūravas.’ For Urvaśī was a nymph, and Purūravas was her husband; and the (child) which sprung from that union was Āyu 31: in like manner does he now produce the sacrifice from that union. Thereupon he says (to the Hotr̥), ‘Recite to Agni, as he is churned 32!’

२३

विश्वास-प्रस्तुतिः

स᳘ मन्थति॥
गायत्रे᳘ण त्वा च्छ᳘न्दसा मन्थामि त्रै᳘ष्टुभेन त्वा च्छ᳘न्दसा मन्थामि जा᳘गतेन त्वा च्छ᳘न्दसा मन्थामी᳘ति तं वै छ᳘न्दोभिरेव म᳘न्थति च्छ᳘न्दाᳫं᳭सि मथ्य᳘मानाया᳘न्वाह च्छ᳘न्दाᳫं᳭स्ये᳘वैत᳘द्यज्ञ᳘मन्वा᳘यातयति य᳘था ऽमु᳘मादित्य᳘ᳫँ᳘ रश्म᳘यो जाताया᳘नुब्रूही᳘त्याह यदा जा᳘यते प्रह्रिय᳘माणाये᳘त्यनुप्रह᳘र᳘न्॥

मूलम् - श्रीधरादि

स᳘ मन्थति॥
गायत्रे᳘ण त्वा च्छ᳘न्दसा मन्थामि त्रै᳘ष्टुभेन त्वा च्छ᳘न्दसा मन्थामि जा᳘गतेन त्वा च्छ᳘न्दसा मन्थामी᳘ति तं वै छ᳘न्दोभिरेव म᳘न्थति च्छ᳘न्दाᳫं᳭सि मथ्य᳘मानाया᳘न्वाह च्छ᳘न्दाᳫं᳭स्ये᳘वैत᳘द्यज्ञ᳘मन्वा᳘यातयति य᳘था ऽमु᳘मादित्य᳘ᳫँ᳘ रश्म᳘यो जाताया᳘नुब्रूही᳘त्याह यदा जा᳘यते प्रह्रिय᳘माणाये᳘त्यनुप्रह᳘र᳘न्॥

मूलम् - Weber

स᳘ मन्थति॥
गायत्रे᳘ण त्वा छ᳘न्दसा मन्थामि त्रै᳘ष्टुभेन त्वा छ᳘न्दसा मन्थामि जा᳘गतेन त्वा छ᳘न्दसा मान्थामी᳘ति तं वै छ᳘न्दोभिरेव म᳘न्थति छ᳘न्दांसि मथ्य᳘मानाया᳘न्वाह छ᳘न्दांस्येॗवैत᳘द्यज्ञ᳘मन्वा᳘यातयति य᳘थामु᳘मादित्यं᳘ रश्म᳘यो जाताया᳘नुब्रूही᳘त्याह यदा जा᳘यते प्रह्रिय᳘माणाये᳘त्यनुप्रह᳘रन्॥

मूलम् - विस्वरम्

स मन्थति- “गायत्रेण त्वा च्छन्दसा मन्थामि, त्रैष्टुभेन त्वा च्छन्दसा मन्थामि, जागतेन त्वा च्छन्दसा मन्थामि” (वा. सं. ५ । २) इति । तं वै छन्दोभिरेव मन्थति । छन्दांसि मथ्यमानायान्वाह । छन्दांस्येवैतद्यज्ञमन्वायातयति- यथा ऽमुमादित्यं रश्मयः । ‘जातायानुब्रूहि’ इत्याह- यदा जायते । ‘प्रह्रियमाणाय’- इत्यनुप्रहरन् ॥ २३ ॥

सायणः

समन्त्रकं मन्थनं विधत्ते- स मन्थतीति 33गायत्रेण त्वा च्छन्दसेत्यादि । तं वै छन्दोभिरेवेति । यद्यप्यन्यैः साधनैः मन्थति, तथापि “गायत्रेण त्वा च्छन्दसा” इत्यादिमन्त्रसामर्थ्येन छन्दोभिरेव साधनैर्मन्थनं कृतवान् भवतीत्यर्थः 34 । अस्त्वेवम्, छन्दसां किं फलं, जातमित्यस्या आशङ्कायाः फलं वक्ष्यति- छन्दांस्येवैतद्यज्ञमन्वायातयतीति । छन्दसामनुप्रवेशनं न केवलं छन्दोलिङ्गकैर्मन्त्रैर्मन्थनाद् भवति, अपि तु तस्मिन् काले होत्रा छन्दसामनुवचनादपि भवतीत्याह- छन्दांसि मथ्यमानायान्वाहेति । होतेति शेषः । नियमेनानुप्रवेशे दृष्टान्तः- यथा ऽमुमादित्यमिति । ‘रश्मयः’ अन्वायत्ता इति शेषः । प्रह्रियमाणायेत्यनुप्रहरन्निति 35 । ‘प्रह्रियमाणाय’ आहवनीये प्रक्षिप्यमाणाय, अनुब्रूहीत्यनुषज्यते ॥ २३ ॥

Eggeling
  1. He churns, with the texts, ‘With the Gāyatrī metre I churn thee!–With the Trishṭubh metre I churn thee!–With the Gagatī metre I churn thee!’ For it is with the metres that he churns him (Agni, the fire); the metres he recites to him when he is churned, whereby he attaches the metres to the sacrifice, even as the rays (are attached) to yonder sun.–‘Recite to the born one!’ he says,

when he (Agni) is produced 36; and ‘To him who is thrown 37!’ when he throws him (on the old Āhavanīya fire).

२४

विश्वास-प्रस्तुतिः

(न्त्सो) सो ऽनुप्र᳘हरति॥
भ᳘वतं नः स᳘मनसौ स᳘चेतसावरेप᳘सौ। मा᳘ यज्ञ᳘ᳫँ᳘ हिᳫँ᳭सिष्टं मा᳘ यज्ञ᳘पतिं जातवेदसौ शिवौ᳘ भवतमद्य᳘ न इ᳘ति शान्तिमे᳘वाभ्यामेत᳘द्वदति[[!!]] य᳘था᳘ ना᳘ ऽन्यो ऽन्य᳘ᳫँ᳘ हिᳫं᳭स्या᳘ताम्॥

मूलम् - श्रीधरादि

(न्त्सो) सो ऽनुप्र᳘हरति॥
भ᳘वतं नः स᳘मनसौ स᳘चेतसावरेप᳘सौ। मा᳘ यज्ञ᳘ᳫँ᳘ हिᳫँ᳭सिष्टं मा᳘ यज्ञ᳘पतिं जातवेदसौ शिवौ᳘ भवतमद्य᳘ न इ᳘ति शान्तिमे᳘वाभ्यामेत᳘द्वदति[[!!]] य᳘था᳘ ना᳘ ऽन्यो ऽन्य᳘ᳫँ᳘ हिᳫं᳭स्या᳘ताम्॥

मूलम् - Weber

सो ऽनुप्र᳘हरति॥
भ᳘वतं नः स᳘मनसौ स᳘चेतसावरेप᳘सौ मा᳘ यज्ञ᳘ᳫं᳘ हिंसिष्टम् मा᳘ यज्ञ᳘पतिं जातवेदसौ शिवौ᳘ भवतमद्य᳘ न इ᳘ति शा᳘न्तिमेॗवाभ्यामेत᳘द्वदति य᳘थाॗ नान्यो ऽन्य᳘ᳫं᳘ हिंस्या᳘ताम्॥

मूलम् - विस्वरम्

सो ऽनुप्रहरति- “भवतं नः समनसौ सचेतसावरेपसौ । मा यज्ञं हिंसिष्टम्, मा यज्ञपतिम्, जातवेदसौ शिवौ भवतमद्य नः"- (वा. सं. ५ । ३) इति । शान्तिमेवाभ्यामेतद्वदति- यथा ना ऽन्यो ऽन्यं हिंस्याताम् ॥ २४ ॥

सायणः

समन्त्रकमनुप्रहरणं विधत्ते- सो ऽनुप्रहरतीति 33 । “भवतं नः”- इत्यादिमन्त्रस्यायमर्थः । हे आहवनीयनिर्मन्थ्यौ उभावग्नी ! ‘नः’ अस्माकं, ‘समनसौ’ अस्मदभिमतप्रदानविषये समानमनस्कौ ‘भवतम्’ । अथवा परस्परं कलहमकृत्वा समनसौ भवतम् । ‘समौकसौ’ समानस्थानौ, ‘अरेपसौ’ अपापौ । एवम्भूतौ युवां ‘यज्ञं’ मदीयम् ‘मा हिंसिष्टम्’ । तथा ‘यज्ञपतिं’ यजमानं च मा हिंसिष्टम् । हे ‘जातवेदसौ’ जातप्रज्ञौ ! युवाम् ‘अद्य’ ‘नः’ अस्माकम् ‘शिवौ’ सुखकरौ ‘भवतम्’ । मन्त्रस्य तात्पर्यमाह- शान्तिमेवाभ्यामेतद्वदतीति । ‘एतत्’ मन्त्रवचनम् ‘आभ्याम्’ अपेक्षिताम् ‘शान्तिमेव’ ‘वदति’ नान्यमर्थमित्यर्थः । अत्र शान्तेः कः प्रसङ्ग इति तत्राह- यथा नान्यो ऽन्यमिति ॥ २४ ॥

Eggeling
  1. He throws (the fire on the hearth), with the text (Vāj. S. V, 3), ‘For our sake be ye two (fires) friendly to one another, of one mind, unblemished! Injure not the sacrifice, nor the lord of the sacrifice! be gracious unto us this day, ye knowers of beings!’ He thus bespeaks peacefulness between them, that they may not injure each other.

२५

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ स्रुवे᳘णोपहत्या᳘ज्यम्॥
(म) अग्नि᳘मभि᳘जुहोत्यग्ना᳘वग्नि᳘श्चरति प्र᳘विष्ट ऋ᳘षीणां पुत्रो᳘ ऽअभिशस्तिपा᳘वा। स᳘ नः स्योनः᳘ सुय᳘जा यजेह᳘ देवे᳘भ्यो हव्यᳫँ᳭ स᳘दम᳘प्रयुच्छन्त्स्वाहेत्या᳘हुत्यै वा᳘ ऽएत᳘मजीजनत त᳘मेतया᳘ ऽऽहुत्या ऽप्रैषीत्त᳘स्मादेव᳘मभि᳘जुहोति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ स्रुवे᳘णोपहत्या᳘ज्यम्॥
(म) अग्नि᳘मभि᳘जुहोत्यग्ना᳘वग्नि᳘श्चरति प्र᳘विष्ट ऋ᳘षीणां पुत्रो᳘ ऽअभिशस्तिपा᳘वा। स᳘ नः स्योनः᳘ सुय᳘जा यजेह᳘ देवे᳘भ्यो हव्यᳫँ᳭ स᳘दम᳘प्रयुच्छन्त्स्वाहेत्या᳘हुत्यै वा᳘ ऽएत᳘मजीजनत त᳘मेतया᳘ ऽऽहुत्या ऽप्रैषीत्त᳘स्मादेव᳘मभि᳘जुहोति॥

मूलम् - Weber

अ᳘थ स्रुवे᳘णोपहत्या᳘ज्यम्॥
अग्नि᳘मभि᳘जुहोत्यग्ना᳘वग्नि᳘श्चरति प्र᳘विष्ट ऋ᳘षीणाम् पुत्रो᳘ अभिशस्तिपा᳘वा स᳘ नः स्योनः᳘ सुय᳘जा यजेह᳘ देवे᳘भ्यो हव्यᳫं स᳘दम᳘प्रयुछन्त्स्वाहेत्या᳘हुत्यै वा᳘ एत᳘मजीजनत त᳘मेतया᳘हुत्याप्रैषीत्त᳘स्मादेव᳘मभि᳘जुहोति॥

मूलम् - विस्वरम्

अथ स्रुवेणोपहत्याज्यम्, अग्निमभिजुहोति- “अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो ऽअभिशस्तिपावा । स नः स्योनः सुयजा यजेह देवेभ्यो हव्यं सदमप्रयुच्छन्त्स्वाहा"- (वा. सं. ५ । ४) इति । आहुत्यै वा ऽएतमजीजनत । तमेतया ऽऽहुत्या ऽप्रैषीत् । तस्मादेवमभिजुहोति ॥ २५ ॥

सायणः

अनुप्रहृते अग्नौ समन्त्रकं होमं विधत्ते- अथ स्रुवेणेति 38 । ‘उपहृत्य’ अवदाय ‘अग्निमभि’ प्रहृत्य अग्नेरुपरि जुहुयात् । मन्त्रस्यायमर्थः । ‘अग्नौ’ आहवनीये ‘अग्निः’ निर्मथितः प्रविष्टः सन् ‘चरति’ इतस्ततो ज्वालाभिः सञ्चरति । कीदृश: ? ‘ऋषीणां पुत्रः’ मन्त्रेणोत्पद्यमानत्वात् । ‘अभिशस्तिपावा’ अभिशस्तेर्निन्दातः सकाशात् पाता । “आतो मनिन्”- (पा. सू. ३ । २ । ७४) इति वनिप् । ‘सः’ तादृशः त्वं ‘नः’ अस्मदर्थं इह ‘हव्यम्’ हविः ‘सुयज’ शोभनेन यागेन यज, सङ्गमयेत्यर्थः । केभ्यः ? ‘देवेभ्यः’ । कदा ? ‘सदं’ सदा, सर्वदा । ‘अप्रयुच्छन्’ अप्रमाद्यन् उद्दिष्टेषु देवेषु कमप्यपरित्यज्येत्यर्थः । ‘स्वाहा’ इदं द्रव्यं स्वाहुतमस्तु । आहुत्यै वा एतमिति । ‘अजीजनत’ उदपादयत्, अध्वर्युः, ‘अप्रैषीत्’ तर्पितवान् भवति ॥ २५ ॥

Eggeling
  1. He then takes out some clarified butter with the dipping-spoon, and pours it on the fire, with the text (Vāg. S. V, 4), ‘Agni resorteth to Agni, he the son of the seers that shieldeth us from curses: graciously offer thou for us now with good offering, never withholding the oblation from the gods, Hail!’ For the purpose of offering they have produced him, and by this offering he has now gratified him: that is why he thus makes offering unto him.

२६

विश्वास-प्रस्तुतिः

तदि᳘डान्तं भवति᳘॥
नानुयाजा᳘न्यजन्ति शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ पूर्वार्धो वै शि᳘रः पूर्वार्ध᳘मे᳘वैत᳘द्यज्ञ᳘स्याभिस᳘ᳫं᳘स्करोति स य᳘द्धानुयाजान्य᳘जेद्य᳘था शी᳘र्षतः᳘ पर्याहृ᳘त्य पा᳘दौ प्रतिदध्या᳘देवं तत्त᳘स्मादि᳘डान्तं भवति[[!!]] नानुयाजा᳘न्यजन्ति॥

मूलम् - श्रीधरादि

तदि᳘डान्तं भवति᳘॥
नानुयाजा᳘न्यजन्ति शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्यं᳘ पूर्वार्धो वै शि᳘रः पूर्वार्ध᳘मे᳘वैत᳘द्यज्ञ᳘स्याभिस᳘ᳫं᳘स्करोति स य᳘द्धानुयाजान्य᳘जेद्य᳘था शी᳘र्षतः᳘ पर्याहृ᳘त्य पा᳘दौ प्रतिदध्या᳘देवं तत्त᳘स्मादि᳘डान्तं भवति[[!!]] नानुयाजा᳘न्यजन्ति॥

मूलम् - Weber

तदि᳘डान्तम् भवति᳟᳟॥
नानुयाजा᳘न्यजन्ति शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्य᳘म् पूर्वार्धो वै शि᳘रः पूर्वार्ध᳘मेॗवैत᳘द्यज्ञ᳘स्याभिस᳘ᳫं᳘स्करोति 39 स य᳘द्धानुयाजान्य᳘जेद्य᳘था शीर्षतः᳘ पर्याहृ᳘त्य पा᳘दौ प्रतिदध्या᳘देवं तत्त᳘स्मादि᳘डान्तं भवतिॗ नानुयाजा᳘न्यजन्ति॥

मूलम् - विस्वरम्

तदिडान्तं भवति । नानुयाजान्यजन्ति । शिरो वै यज्ञस्यातिथ्यम् । पूर्वार्द्धो वै शिरः । पूर्वार्धमेवैतद्यज्ञस्याभिसंस्करोति । स यद्धानुयाजान् यजेत्- यथा शीर्षतः पर्याहृत्य पादौ प्रतिदध्यात्- एवं तत् । तस्मादिडान्तं भवति । नानुयाजान् यजन्ति ॥ २६ ॥ इत्यातिथ्येष्टिः ॥

सायणः

प्रकृतदर्शपूर्णमासेष्टिवत्समापनप्रसक्तावाह- तदिडान्तं भवतीति 38 । अर्थसिद्धे ऽप्युत्तराङ्गनिषेधे पुनर्नित्यानुवादतया दार्ढ्यायानुवदति- नानुयाजानिति । इडान्तत्वं प्रशंसति- शिरो वै यज्ञस्यातिथ्यमिति । उत्तराङ्गजातस्यानुष्ठानं दोषोपन्यासेन समर्थयते- स यद्धानुयाजान् यजेदिति । ‘यथा’ कश्चित् ‘शीर्षतः’ शीर्ष्णि, सार्वविभक्तिकस्तसिः (पा. सू. ५ । ३ । १४) । ‘पादौ’ पर्याहृत्य ‘प्रतिदध्यात्’ ‘एवं’ ‘तत्’ अनुयाजाद्यङ्गजातमनुष्ठितं सद् भवति आतिथ्यस्य शिरस्त्वात् तस्मादित्युपसंहारः ॥ २६ ॥

इति श्रौसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे चतुर्थाध्याये प्रथमं ब्राह्मणम् ॥ (३-४-१)

Eggeling
  1. It (the guest-offering) ends with the Iḍā; no after-offerings are performed. For the guest-offering is the head of the sacrifice, and the head is the fore-part: he thus fits him up as the head of the sacrifice. But were he to perform the after-offerings, it would be as if, by reversing, he were to put the feet in the place of the head. Hence it ends with the Iḍā, and no after-offerings are performed.

  1. आतिथ्यं निर्व्वपति व्वैष्णवं नवकपालं । का. श्रौ. सू. ८ । १ । ↩︎ ↩︎

  2. नापचायन्त Sây. ↩︎

  3. एकविमुक्ते वा । का. श्रौ. सू. ८ । २ । ↩︎ ↩︎

  4. 86:1 This is the practice recognised by the Taittirīyas (T. S. VI, 2, 1, 1), on the ground that, if one were to unyoke both oxen, he would interrupt the sacrifice; and if he were to leave them both unyoked, it would be as if a hospitable reception were given to one who has not actually arrived. ↩︎

  5. पत्न्यन्वारब्धस्तूर्णम् । का. श्रौ. सू. ८ । २ । ↩︎ ↩︎

  6. 86:2 That is, by touching the Adhvaryu while he takes out the sacrificial food. See p. 79, note 3. ↩︎

  7. 87:1 For the ordinary formula with which material for offering is taken out at an ishṭi, ‘At the impulse of the divine Savitr̥, I take thee with the arms of the Aśvins, with the hands of Pūshan, thee well-pleasing to–!’ see I, 1, 2, 17. ↩︎

  8. 87:2 According to Taitt. S. VI, 2, 1, the five portions are taken out for the metres Gāyatrī, Trishṭubh, Jagatī, Anushṭubh, and Gāyatrī, with the texts, ‘Thou art Agni’s hospitable feast, for Vishṇu (I take) thee,’ &c. ↩︎

  9. 87:3 ‘Arhant’ seems rather to mean ‘ruler’ here. ↩︎

  10. 88:1 Atither ātithyam, ’the guest’s guest-meal.’ ↩︎

  11. निर्व्वपेदग्नेंस्तनूरिति पंच कृत्वः प्रतिमंत्रम् । का. श्रौ. सू. ८ । २ । सावित्रनिवृत्तिः श्रुतिविधेयाभ्याम् । का. श्रौ. सू. ८ । ३ । सवितृशब्दसंबंधाद्देवस्य त्वेत्येष मंत्रः सावित्र इत्युच्यते । स च चोदकप्राप्तः । अग्नेस्तनूरसीत्यादयो मंत्राः प्रत्यक्षश्रुतिचोदिताः । तत्र हरिस्वामिपितृभूतिकर्काचार्ययाज्ञिकानंतदेवदेवयाज्ञिकादिभाष्यकृतामते प्रथमद्वितीयतृतीयग्रहणमंत्रेषु (समुच्चयश्रुतेः) उभयोच्चोदकप्रत्यक्षशिष्टयोर्मंत्रयोः समुच्चयः । नांत्ययोश्चतुर्थपंचमयोः । समुच्चयश्रुतिस्त्वस्मिन्नेव ब्राह्मणे सप्तमीकं. ७ । स वा ऽअन्येनैव ततो यजुषा गृह्णीयात् । येनो चान्यानि हवीँ षीति । इति सर्वेषामैकमत्यम् । परं त्वत्र वैमत्यं चेत्थम्- हरिस्वामियाज्ञिका ऽनन्तदेवदेवयाज्ञिकमते- विरोधात्सावित्रमंत्रे त्वाशब्दमात्रस्य निवृत्तिः । पितृभूतिकर्काचार्यमते तु सा नेति । तत्रापि- पूर्वं चोदकप्राप्तः । पश्चात्प्रत्यक्षशिष्ट इति । जुष्टशब्दस्तु चोदकप्राप्तो ऽपि देवतादेशादुत्तर एव भवति । प्रकृतावेवमेव दृष्टत्वात् । सावित्रस्य तु ग्रहणत्रय एव प्रयोगः । प्रकृतौ दृष्टत्वात् । नोत्तरयोः । जुष्टशब्दस्य चेति कर्कः । ततश्च मंत्रपाठे द्वैविध्यम् । ॐ देवस्य सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नेस्तनूरसि व्विष्णवे त्वा जुष्टं गृह्णामीति प्रथमम् । १ । देवस्य सवितुरित्यादि- सोमस्य तनूरसि व्विष्णवे त्वा जुष्टं गृह्णामीति द्वितीयम् । २ । ॐ देवस्य सवितुरित्यादि- अतिथेरातिथ्यमसि व्विष्णवे जुष्टं गृह्णामीति तृतीयम् । ३ । ॐ श्येनाय त्वा सोममृते व्विष्णवे त्वा गृह्णामि- इति चतुर्थम् । ४ । ॐ अग्नये त्वा रायस्पोषदे व्विष्णवे त्वा गृह्णामीति च पंचमम् । ५ । एको ऽयं पाठः । अपरस्तु । ॐ देवस्य त्वा सवितरित्यादिस्त्वाविशिष्टो मंत्रः । परतस्तु सर्वं समानम् इति । ↩︎

  12. आतिथ्यं निर्व्वपति वैष्णवं नवकपालम् । का. श्रौ. सू. ८ । १ । ↩︎

  13. 88:2 According to Taitt. S. VI, 2, 1, 4, it is because the head has nine seams, ’navadhā śiro vishyūtam.’ ↩︎

  14. 88:3 The final syllable of the prayers recited in offering is protracted and nasalized, a final ‘a’ becoming ôṁ,–this drawing out of the syllable is called praṇava. ↩︎

  15. 89:1 Because the Gāyatrī metre is connected with the prātaḥsavana or morning pressing. See IV, 2, 5, 20 seq.; Ait. Br. III, 27 seq. ↩︎

  16. कार्ष्मर्यमयाः परिधय आश्ववालः प्रस्तर ऽऐक्षव्यौ व्विधृती । का. श्रौ. सू. ८ । १० । कार्ष्मर्यः (शिवणी) इति लोके प्रसिद्धः । तथा ऽऽहामरः- ‘गंभारी सर्वतोभद्रा काश्मरी मधुपर्णिका । श्रौपर्णी भद्रपर्णी च काश्मर्यश्च’ इति । अश्ववालाः- दर्भविशेषाः काशाः । “अश्ववालः काशप्रस्तरः" इति श्रुतत्वात् । न चायं समासः अश्वस्य वालः अश्ववाल इति । कथं तर्ह्यश्ववाला उच्यन्ते । तन्मयः प्रस्तरः । वाक्यशेषात् । “तत एता ओषधयः समभवन्यदश्ववालाः” इति पितृभूतिः । “ते वालः काशतां प्राप्ताः कार्या ऽतः प्रस्तरस्तु तैः" इति मीमांसायां प्रथमाध्याये तृतीयपादे चोक्तमिति । ↩︎

  17. 89:2 See I, 3, 3, 19-20, where the approved kinds of wood for the paridhis at an ishṭi are enumerated. ↩︎

  18. 89:3 For the prastara, or bunch of reed-grass, representing the sacrificer, see I, 3, 3, 5 seq.; 8, 3. 11 seq. The aśvavāla (horsetail) grass (generally called kāśa) is said to resemble horse-hair, and is used for twine, mats, thatch, &c. Sir H. M. Elliot, ‘Races of the N. W. Prov.’ II, pp. 371, 372, describes it as growing from three to fifteen feet high, and flowering in great profusion after the rains; the base of the flowers being surrounded with a bright silvery fleece, which whitens the neighbouring fields so much as frequently to resemble a fall of snow. ↩︎

  19. संल्हु᳘भ्यते B सलुन्यातै Sây. ↩︎

  20. 89:4 For the vidhr̥ti or stalks laid across the barhis (sacrificial grass covering the altar), to keep the prastara separate from the latter when laid upon it, see I, 3, 4, 10. As no special mention is made of the barhis, the same material has to be used for it as at the model ishṭi (New and Full-moon sacrifice), viz. Kuśa grass (Poa Cynosuroides). ↩︎

  21. 90:1 See I, 3, 1, 22-23. ↩︎

  22. 90:2 See I, 3, 2, 8-9. ↩︎

  23. आसाद्याग्निमंथनमाहोमात्करोति । का. श्रौ. सू. ८ । १२ । आसाद्याग्निमंथनं । का. श्रौ. सू. ५ । २७ ↩︎ ↩︎

  24. 90:3 See I, 3, 4, 14. ↩︎

  25. 90:4 On the production of the fire by ‘churning,’ see part i, p. 294, note 3. ↩︎

  26. 90:5 The adhimanthana śakala is a chip of wood used for the lower churning-stick (adharāraṇi), wherein the upper churning-stick is drilled, to rest upon. It is laid down on the altar-grass (barhis) from south to north. According to Sāyaṇa it is a chip obtained in rough-hewing the sacrificial stake. ↩︎

  27. वृषणाविति कुशतरुणे तस्मिन् । का. श्रौ. सू. ५ । २३ । ↩︎ ↩︎

  28. 91:1 In this sense ‘vr̥shaṇau’ is taken by Mahīdhara (sektārau, from vr̥shan), Sāyaṇa, and apparently also by our author. Perhaps it means ’testicles’ (vr̥shaṇa) in the text. See III, 6, 3, 10; and part i, p. 389, note 3. ↩︎

  29. आयुरसीत्युत्तरया ऽज्यस्थाली स स्पृश्य पुरूरवः इत्यमिनिधानं तथा । का. श्रौ. सू. ५ । २५ । ↩︎

  30. अग्नये मध्यमानायानुवाचयति । का. श्रौ. सू. ५ । २९ । ↩︎

  31. 91:2 The myth of Purūravas and Urvaśī is given at length XI, 5, 1, I-17. Compare also Max Müller, Chips, vol. ii, p.202 seq.; A. Kuhn, Herabkunft des Feuers, p. 78 seq. ↩︎

  32. 91:3 The verses which the Hotr̥ has to recite are (a) one to Savitr̥ (the Vivifier, viz. Rig-veda I, 24, 3); (b) to Heaven and Earth (IV, 56, s); (c) a triplet to Agni (VI, 16, 13-15). If fire has not appeared by this time, he recites the so-called Rakshas-killing verses (X, 118), repeating them until fire has been produced. See Ait. Br. I, 17; Āśv. Śr. II, 16. ↩︎

  33. मंथति गायत्रेणेति प्रतिमंत्रं त्रिः प्रदक्षिणम् । का. श्रौ. सू. ४ । २७ । ↩︎ ↩︎

  34. जाते जातायेति । का. श्रौ. सू. ५ । २८ ↩︎

  35. प्रह्रियमाणायेति प्रास्यन् । का. श्रौ. सू. ५ । २९ । ↩︎

  36. 92:1 The Hotr̥ recites the two verses, Rig-veda I, 74, 3; VI, 16, 40. ↩︎

  37. 92:2 The verb is ‘pra-hr̥,’ which is also the common term for the hurling of the thunderbolt. The six verses, recited by the Hotr̥; are Rig-veda VI, 16, 41-42; I, 12, 6; VIII, 43, 14; VIII, 73, 8; I, 164, 50. ↩︎

  38. अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेण । का. श्रौ. सू. ५ । ३१ । ↩︎ ↩︎

  39. सं᳘स्करो AB. ↩︎