०१

विश्वास-प्रस्तुतिः

दिवि वै सो᳘म ऽआ᳘सीत्॥
(द᳘) अ᳘थेह᳘ देवास्ते᳘ देवा᳘ ऽअकामयन्ता᳘ नः सो᳘मो गच्छेत्तेना᳘गतेन यजेमही᳘ति त᳘ ऽएते᳘ माये᳘ ऽअसृजन्त सुपर्णीं᳘ च कद्रूं᳘ च तद्धि᳘ष्ण्यानां ब्रा᳘ह्मणे व्या᳘ख्यायते सौ᳘पर्णीकाद्रवं य᳘था तदा᳘स॥

मूलम् - श्रीधरादि

दिवि वै सो᳘म ऽआ᳘सीत्॥
(द᳘) अ᳘थेह᳘ देवास्ते᳘ देवा᳘ ऽअकामयन्ता᳘ नः सो᳘मो गच्छेत्तेना᳘गतेन यजेमही᳘ति त᳘ ऽएते᳘ माये᳘ ऽअसृजन्त सुपर्णीं᳘ च कद्रूं᳘ च तद्धि᳘ष्ण्यानां ब्रा᳘ह्मणे व्या᳘ख्यायते सौ᳘पर्णीकाद्रवं य᳘था तदा᳘स॥

मूलम् - Weber

दिवि वै सो᳘म आ᳘सीत्॥
अ᳘थेह᳘ देवास्ते᳘ देवा᳘ अकामयन्ता᳘ नः सो᳘मो गछेत्तेना᳘गतेन यजेमही᳘ति त᳘ एते᳘ माये᳘ असृजन्त सुपर्णीं᳘ च कद्रूं᳘ च तद्धि᳘ष्ण्यानाम् ब्रा᳘ह्मणे व्या᳘ख्यायते सौ᳘पर्णीकाद्रवं य᳘था तदा᳘स॥

मूलम् - विस्वरम्

अथ सोमक्रयणविधिः । दिवि वै सोम आसीत्- अथेह देवाः । ते देवा अकामयन्त- आनः सोमो गच्छेत्, तेनागतेना यजेमहीति । त ऽएते माये असृजन्त- सुपर्णौ च कद्रूं च । तद्धिष्ण्यानां ब्राह्मणे व्याख्यायते- सौपर्णी- काद्रवं- यथा तदास ॥ १ ॥

सायणः

सोमक्रयं विधातुमाख्यायिकामाह- दिवि वै सोम इत्यादिना । दिवि वा इति । ‘वै’-शब्देन “तृतीयस्यामितो दिवि सोमः”- (तै. सं. ३ । ५ । ७ । १) इत्यादिश्रुत्यन्तरप्रसिद्धिर्द्योत्यते । ‘इह’ भूमौ ‘देवाः’ आसन्निति शेषः । सोमागमनप्रयोजनम्- तेनागतेन यजेमहीति । त एत इत्यादि । परव्यामोहनकारिणी शक्तिः ‘माया’ । ‘ते’ देवाः ‘एते’ द्वे मायाभिरूपे स्त्रियां सोमरक्षकाणां गन्धर्वाणां व्यामोहाय सृष्टवन्त इत्यर्थः । तथा चोत्तरत्राम्नास्यते- “त एते माये असृजन्त सुपर्णीञ्च कद्रूञ्च वागेव सुपर्णीयं कद्रूः“- (श. प. ब्रा. ३ । ६ । २ । २) (तै. सं. ६ । १ । ६ ।) इति । होतृमैत्रावरुणादीनां शंसनप्रदेशेषु पुरतः स्थापिता अग्नयो धिष्ण्याः होत्रीयादयः । ते खलु पुरा दिवि सोमरक्षकाः, पश्चात् सोमे आहृते सति तेन सह भूमावागत्य देवेभ्यो लब्धवराः सन्तो ऽत्रापि सोमरक्षणाय धिष्ण्यतां प्राप्ताः । तथा चोपरिष्टाद् वक्ष्यते- “तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमे होत्राः”- (श. प. ब्रा. ३ । ६ । २ । ९) इति । तेषां ‘धिष्ण्यानाम्’ ‘ब्राह्मणे‘ ‘व्याख्यायते सौपर्णीकाद्रवम्’ सुपर्णीकद्र्वोर्वृत्तान्तः सर्वो ऽपि विवरिष्यत इत्यर्थः (श. प. ब्रा. २ । ६ । २ । ७) । तत्र हि मायामय्योः सुपर्णीकद्र्वोरुत्पत्तिः; तयोर्मिथः कलहः, परस्परजयपराजयनिमित्तकः समयबन्धः, ततः कद्रूजयः, पराजितायाः सुपर्ण्याः स्वात्मनिष्क्रयाय सोमोपहरणार्थं छन्दसां सुपर्ण्याः सकाशादुत्पत्तिर्गायत्र्या च सोमाहरणम्,- इत्येवमादयो ऽर्था अस्मिन्नेव काण्डे पञ्चमप्रपाठकदौ “विजामानो हैवास्य धिष्ण्याः”- इत्याद्युपक्रम्य, “दिवि वै सोम आसीदथेह देवास्ते देवा अकामयन्त"- इत्यादिना आम्नायते- (श. प. ब्रा. ३ । ६ । २ । १-१६) ॥ १ ॥

Eggeling
  1. Now Soma was in the sky, and the gods were here on earth. The gods desired,–‘Would that Soma came to us: we might sacrifice with him, when come.’ They created those two illusions, Suparṇī and Kadrū. In the chapter on the hearths (dhishṇya 1) it is set forth how that affair of Suparṇī and Kadrū came to pass.

०२

विश्वास-प्रस्तुतिः

ते᳘भ्यो गायत्री सो᳘मम᳘च्छापतत्॥
(त्त᳘) त᳘स्या ऽआह᳘रन्त्यै गन्धर्व्वो᳘ व्विश्वा᳘वसुः प᳘र्यमुष्णात्ते᳘ देवा᳘ ऽअविदुः प्र᳘च्युतो वै᳘ पर᳘स्तात्सोमो᳘ ऽथ नो ना᳘गच्छति गन्धर्व्वा वै प᳘र्यमोषिषुरिति[[!!]]॥

मूलम् - श्रीधरादि

ते᳘भ्यो गायत्री सो᳘मम᳘च्छापतत्॥
(त्त᳘) त᳘स्या ऽआह᳘रन्त्यै गन्धर्व्वो᳘ व्विश्वा᳘वसुः प᳘र्यमुष्णात्ते᳘ देवा᳘ ऽअविदुः प्र᳘च्युतो वै᳘ पर᳘स्तात्सोमो᳘ ऽथ नो ना᳘गच्छति गन्धर्व्वा वै प᳘र्यमोषिषुरिति[[!!]]॥

मूलम् - Weber

ते᳘भ्यो गायत्री सो᳘मम᳘छापतत्॥
त᳘स्या आह᳘रन्त्यै गन्धर्वो᳘ विश्वा᳘वसुः प᳘र्यमुष्णात्ते᳘ देवा᳘ अविदुः प्र᳘च्युतो वै᳘ पर᳘स्तात्सोमो᳘ ऽथ नो ना᳘गछति गन्धर्वा वै प᳘र्यमोषिषुरि᳘ति॥

मूलम् - विस्वरम्

तेभ्यो गायत्री सोममच्छापतत् । तस्या ऽआहरन्त्यै गन्धर्वो विश्वावसुः पर्यमुष्णात् । ते देवा अविदुः- प्रच्युतो वै परस्तात्सोमः- अथ नो नागच्छति- गन्धर्वा वै पर्यमोषिषुरिति ॥ २ ॥

सायणः

तेभ्यो गायत्रीति । ‘तेभ्यः’ देवेभ्यो ऽर्थाय सुपर्ण्या निर्मिता ‘गायत्री’- छन्दोदेवता पक्षिरूपेण दिवि स्थितम् ‘सोमम्’ ‘अच्छ’ अभिमुखमगमत् । ‘आहरन्त्यै’ आहरन्त्यास्तस्याः स्वभूतं सोमम्, षष्ठ्यर्थे चतुर्थी, (पा. सू. २ । ३ । ६२ वा. १) ‘विश्वावसुः’ नाम ‘गन्धर्वः’ ‘पर्यमुष्णात्’ अपजहार । ततः ‘ते देवाः’ ‘अविदुः’ । किमिति ‘पुरस्तात्’ द्युलोकात् ‘सोमः प्रच्युतः,’ ‘अथ’ ‘नः’ अस्मान् ‘नागच्छति;’ ‘गन्धर्वाः’ विश्वावसोर्भृत्याः ‘वै’ नूनं ‘पर्यमोषिषुः’ स्तेयमकार्षुः ‘इति’ ॥ २ ॥

Eggeling
  1. Gāyatrī flew up to Soma for them. While she was carrying him off, the Gandharva Viśvāvasu stole him from her. The gods were aware of this,–‘Soma has indeed been removed from yonder (sky), but he comes not to us, for the Gandharvas have stolen him.’

०३

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्यो) योषि᳘त्कामा वै᳘ गन्धर्व्वा व्वा᳘चमे᳘वैभ्यः प्र᳘हिणवाम सा᳘ नः सह सो᳘मेना᳘गमिष्यती᳘ति ते᳘भ्यो व्वा᳘चं प्रा᳘हिण्व᳘न्त्सैनान्त्सह सो᳘मेना᳘गच्छत्॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्यो) योषि᳘त्कामा वै᳘ गन्धर्व्वा व्वा᳘चमे᳘वैभ्यः प्र᳘हिणवाम सा᳘ नः सह सो᳘मेना᳘गमिष्यती᳘ति ते᳘भ्यो व्वा᳘चं प्रा᳘हिण्व᳘न्त्सैनान्त्सह सो᳘मेना᳘गच्छत्॥

मूलम् - Weber

ते᳘ होचुः॥
योषि᳘त्कामा वै᳘ गन्धर्वा वा᳘चमेॗवैभ्यः प्र᳘हिणवाम सा᳘ नः सह सो᳘मेना᳘गमिष्यती᳘ति ते᳘भ्यो वा᳘चम् प्रा᳘हिण्वॗन्त्सैनान्त्सह सो᳘मेना᳘गछत्॥

मूलम् - विस्वरम्

ते होचुः- योषित्कामा वै गन्धर्वाः । वाचमेवैभ्यः प्रहिणवाम । सा नः सह सोमेनागमिष्यतीति । तेभ्यो वाचं प्राहिण्वन् । सैनान्त्सह सोमेनागच्छत् ॥ ३॥

सायणः

ते होचुरिति । योषितः कामयन्त इति ‘योषित्कामाः’ । ‘एभ्यः’ गन्धर्वेभ्यो व्यामोहाय ‘वाचं’ ‘प्रहिणवाम’ प्रेषयाम । वाचं प्रेषयतामभिप्रायः- सा नः सह सोमेनागमिष्यतीति ॥ ३ ॥

Eggeling
  1. They said, ‘The Gandharvas are fond of women: let us send Vāc (speech) to them, and she will return to us together with Soma.’ They sent Vāc to them, and she returned to them together with Soma.

०४

विश्वास-प्रस्तुतिः

(त्ते᳘) ते᳘ गन्धर्व्वा᳘ अन्वाग᳘त्याब्रुवन्॥
(न्त्सो᳘) सो᳘मो युष्मा᳘कं व्वा᳘गे᳘वास्मा᳘कमि᳘ति तथे᳘ति देवा᳘ ऽअब्रुवन्नि᳘हो चेदा᳘गा᳘न्मैनामभीष᳘हे व नैष्ट व्वि᳘ह्वयामहा ऽइ᳘ति तां᳘ व्य᳘ह्वयन्त॥

मूलम् - श्रीधरादि

(त्ते᳘) ते᳘ गन्धर्व्वा᳘ अन्वाग᳘त्याब्रुवन्॥
(न्त्सो᳘) सो᳘मो युष्मा᳘कं व्वा᳘गे᳘वास्मा᳘कमि᳘ति तथे᳘ति देवा᳘ ऽअब्रुवन्नि᳘हो चेदा᳘गा᳘न्मैनामभीष᳘हे व नैष्ट व्वि᳘ह्वयामहा ऽइ᳘ति तां᳘ व्य᳘ह्वयन्त॥

मूलम् - Weber

ते᳘ गन्धर्वा᳘ अन्वाग᳘त्याब्रुवन्॥
सो᳘मो युष्मा᳘कं वा᳘गेॗवास्मा᳘कमि᳘ति तथे᳘ति देवा᳘ अब्रुवन्निॗहो चेदा᳘गाॗन्मैनामभीष᳘हेव नैष्ट वि᳘ह्वयामहा इ᳘ति तां व्य᳘ह्वयन्त॥

मूलम् - विस्वरम्

ते गन्धर्वा अन्वागत्याब्रुन्- सोमो युष्माकम्, वागेवास्माकमिति । तथेति देवा अब्रुन् । इहो चेदागात्, मैनामभीषहे व, नैष्ट, विह्वयामहा इति । तां व्यह्वयन्त ॥ ४ ॥

सायणः

ते गन्धर्वा इति । सोममुपायेनानयन्ती स्वयमपि प्रतिनिवर्तयिष्यत इति ‘सोमो युष्माकं वागेवास्माकम्’ अस्त्विति । अथ गन्धर्वाविरोधेनैव देवैर्दृष्टं वाग्लाभोपायं दर्शयति- इहो चेदागादित्यादिना । प्रेषयामो वयं वाचं सोमैरिह ‘आगात्’ आगच्छेत् । ‘उ’- शब्दो ऽनर्थकः हे गन्धर्वाः ! ‘एनाम्’ ‘इह’ आगताम् ‘अभीषहे’ । ‘व‘- इति वाक्यालङ्कारे । अभिषहनममीषट्, अमिभवः । तेन बलात्कारेण ‘मा नैष्ट’ मा प्रहार्ष्ट | “न माङ्योगे”- (पा. सू. ६ । ४ । ६४) इत्यडभावः । ‘विह्वयामहै’ यूयं वयं व वाचं विविधमाकारयाम ॥ ४ ॥

Eggeling
  1. The Gandharvas came after her and said, ‘Soma (shall be) yours, and Vāc ours 2!’ ‘So be it!’ said the gods; ‘but if she would rather come hither, do not ye carry her off by force: let us woo her!’ They accordingly wooed her.

०५

विश्वास-प्रस्तुतिः

त᳘स्यै गन्धर्व्वाः॥
(०) व्वे᳘दानेव प्रो᳘चिर ऽइ᳘ति वै᳘ व्वयं᳘ व्विद्मे᳘ति व्वयं᳘ व्विद्मेति[[!!]]॥

मूलम् - श्रीधरादि

त᳘स्यै गन्धर्व्वाः॥
(०) व्वे᳘दानेव प्रो᳘चिर ऽइ᳘ति वै᳘ व्वयं᳘ व्विद्मे᳘ति व्वयं᳘ व्विद्मेति[[!!]]॥

मूलम् - Weber

त᳘स्यै गन्धर्वाः᳟॥
वे᳘दानेव प्रो᳘चिर इ᳘ति वै᳘ वयं᳘ विद्मे᳘ति वयं᳘ विद्मे᳘ति॥

मूलम् - विस्वरम्

तस्यै गन्धर्वाः वेदानेव प्रोचिरे । इति वै वयं विद्म- इति वयं विद्म- इति ॥ ५ ॥

सायणः

एवं मिथः समये कृते गन्धर्वाणामाह्वानप्रकारमाह- तस्यै गन्धर्वा वेदानेवेति । ‘प्रोचिरे’ प्रवचनमकुर्वन् । तस्या वाचो वशीकरणायेति शेषः । एवमिदं ब्रुवतां तेषामभिप्रायः- इति वै वयं विद्मेति । एवं खलु वाचः स्वाधीनत्वकरणोपायं जानीम इति, अयमुपायः सर्वेषां स्वकीयानामभिमत इति प्रदर्शयितुं वीप्सया ऽभिधानम् ॥ ५ ॥

Eggeling
  1. The Gandharvas recited the Vedas to her, saying, ‘See how we know it, see how we know it 3!’

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ देवाः[[!!]]॥
(०) व्वी᳘णामेव᳘ सृष्ट्वा᳘व्वाद᳘यन्तो निगा᳘यन्तो नि᳘षेदुरि᳘ति वै᳘ ते व्वयं᳘ गास्या᳘म इ᳘ति त्वा प्र᳘मोदयिष्यामह ऽइ᳘ति सा᳘ देवा᳘नुपा᳘ववर्त सा वै सा तन्मो᳘घमुपा᳘ववर्त या᳘ स्तुव᳘द्भ्यः श᳘ᳫं᳭सद्भ्यो नृत्तं᳘ गीत᳘मुपावव᳘र्त त᳘स्माद᳘प्येत᳘र्हि मो᳘घसᳫँ᳭हिता ऽएव यो᳘षा ऽएवᳫँ᳭हि व्वा᳘गुपा᳘वर्तत ता᳘मु ह्यन्या[[!!]] अ᳘नु यो᳘षास्त᳘स्माद्य᳘ एव नृ᳘त्यति यो गा᳘यति त᳘स्मिन्ने᳘वैता नि᳘मिश्लतमा इव॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ देवाः[[!!]]॥
(०) व्वी᳘णामेव᳘ सृष्ट्वा᳘व्वाद᳘यन्तो निगा᳘यन्तो नि᳘षेदुरि᳘ति वै᳘ ते व्वयं᳘ गास्या᳘म इ᳘ति त्वा प्र᳘मोदयिष्यामह ऽइ᳘ति सा᳘ देवा᳘नुपा᳘ववर्त सा वै सा तन्मो᳘घमुपा᳘ववर्त या᳘ स्तुव᳘द्भ्यः श᳘ᳫं᳭सद्भ्यो नृत्तं᳘ गीत᳘मुपावव᳘र्त त᳘स्माद᳘प्येत᳘र्हि मो᳘घसᳫँ᳭हिता ऽएव यो᳘षा ऽएवᳫँ᳭हि व्वा᳘गुपा᳘वर्तत ता᳘मु ह्यन्या[[!!]] अ᳘नु यो᳘षास्त᳘स्माद्य᳘ एव नृ᳘त्यति यो गा᳘यति त᳘स्मिन्ने᳘वैता नि᳘मिश्लतमा इव॥

मूलम् - Weber

अ᳘थ देवाः᳟॥
वी᳘णामेव᳘ सृष्ट्वा᳘ वाद᳘यन्तो निगा᳘यन्तो नि᳘षेदुरि᳘ति वै᳘ वयं᳘ गास्या᳘म इ᳘ति त्वा प्र᳘मोदयिष्यामह इ᳘ति सा᳘ देवा᳘नुपा᳘ववर्त सा वै सा तन्मो᳘घमुपा᳘ववर्त या᳘ स्तुव᳘द्भ्यः श᳘ᳫं᳘सद्भ्यो नृत्तं᳘ गीत᳘मुपावव᳘र्त त᳘स्माद᳘प्येत᳘र्हि मो᳘घसंहिता एव यो᳘षा एवᳫं हि वा᳘गुपा᳘वर्तत ता᳘मु ह्य᳘न्या अ᳘नु यो᳘षास्त᳘स्माद्य᳘ एव नृ᳘त्यति यो गा᳘यति त᳘स्मिन्नेॗवैता नि᳘मिश्लतमा इव॥

मूलम् - विस्वरम्

अथ देवा वीणामेव सृष्ट्वा, वादयन्तो निगायन्तो निषेदुः । इति वै ते वयं गास्यामः इति । त्वा प्रमोदयिष्यामहे- इति । सा देवानुपाववर्त । सा वै सा तन्मोघमुपाववर्त- या स्तुवद्भ्यः शंसद्भ्यो नृत्तं गीतमुपाववर्त । तस्मादप्येतर्हि मोघसंहिता एव योषाः । एवं हि वागुपावर्तत । तमु ह्यन्या अनु योषाः । तस्माद्य एव नृत्यति, यो गायति- तस्मिन्नेवैता निमिश्लतमा इव ॥ ६ ॥

सायणः

देवैः स्वीकृतं वाचः स्वीकरणोपायमाह- अथ देवा वीणामेवेति । ‘वीणां वादयन्तः’ निषादादिस्वरानुकूल्येन ध्वनिमुत्पादयन्तः, तदनु स्वयं ‘गायन्तः’ ‘निषेदुः’ उपसन्नाः । इति वा इति । एवं खलु ‘ते’ त्वदर्थं ‘गास्यामः’ । न केवलमीदृशं गानमस्माकं किन्तु हे वाग्देवते ! ‘त्वा’ त्वाम् ‘इति’ एवम्प्रकारेण खलु तोषयामः । ‘इति’- शब्दो वाक्यसमाप्तौ । ‘सा देवान् उपाववर्त’ उपावर्ततेस्म । प्रत्यावृत्ता ‘या’ वाक् ‘स्तुवद्भ्यः शंसद्भ्यः’ स्तोत्रशस्त्ररूपं वेदानुवचनं कुर्वद्भ्यो गन्धर्वेभ्यः सकाशाद् देवैः कृतं ‘नृत्त’ ‘गीतम्’ चोपावृत्ता, ‘सा वै’ सैव खलु । ‘सा’ पूर्वं सोमाहरणाय प्रेषिता वाक् ‘तत्’ तदानीं ‘मोघं’ व्यर्थमेवोपावृत्ता । स्तुतशस्त्ररूपपरित्यागस्यानौचित्यादिति भावः । इदानीन्तनस्त्रीणां मोघस्वभावत्वं वाग्देवतोपक्रममित्याह 4- तस्मादिति । ‘ताम्’ अप्रकृतां वाचम् ‘अनु’ ‘अन्याः’ अपि योषितः । अप्रकृतमपि नर्तनं गानवत् स्त्रीव्यामोहसाधनमिति गानेन सहोपन्यस्तम् । ‘एताः’ योषितः ‘निमिश्लतमा इव’ विशेषेणैकीभूताः, अत्यन्तमनुरक्ता भवन्तीति शेषः । अयमर्थः सर्वो ऽप्यैतरेयब्राह्मणे सोमो वै राजा गन्धर्वेष्विति खण्डे (ऐ. ब्रा. १ । ५ । १) प्रपंचितः ॥ ६ ॥

Eggeling
  1. The gods then created the lute and sat playing and singing, saying, ‘Thus we will sing to thee, thus we will amuse thee!’ She turned to the gods; but, in truth, she turned to them vainly, since she turned away from those, engaged in praising and praying, to dance and song. Wherefore even to this day women are given to vain things: for it was on this wise that Vāc turned thereto, and other women do as she did. And hence it is to him who dances and sings that they most readily take a fancy 5.

०७

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएत᳘दुभ᳘यं देवे᳘ष्वासीत्॥
(त्सो᳘) सो᳘मश्च व्वा᳘क् च स य᳘त्सो᳘मं क्रीणात्या᳘गत्या ऽएवा᳘गतेन यजा ऽइत्य᳘नागतेन ह वै स सो᳘मेन यजते यो᳘ ऽक्रीतेन यजते᳘[[!!]]॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएत᳘दुभ᳘यं देवे᳘ष्वासीत्॥
(त्सो᳘) सो᳘मश्च व्वा᳘क् च स य᳘त्सो᳘मं क्रीणात्या᳘गत्या ऽएवा᳘गतेन यजा ऽइत्य᳘नागतेन ह वै स सो᳘मेन यजते यो᳘ ऽक्रीतेन यजते᳘[[!!]]॥

मूलम् - Weber

तद्वा᳘ एत᳘दुभ᳘यं देवे᳘ष्वासीत्॥
सो᳘मश्च वा᳘क्च स यत्सो᳘मं क्रीणात्या᳘गत्या एवा᳘गतेन यजा इत्य᳘नागतेन ह वै स सो᳘मेन यजते यो᳘ ऽक्रीतेन य᳘जते॥

मूलम् - विस्वरम्

तद्वा ऽएतदुभयं देवेष्वासीत्- सोमश्च वाक् च । स यत् सोमं क्रीणाति- आगत्या एव आगतेन यजा इति । अनागतेन ह वै स सोमेन यजते यो ऽक्रीतेन यजते ॥ ७ ॥

सायणः

इदानीं गानसिद्ध्यर्थमनूद्य सोमक्रयं विदधाति- तद्वा एतदुभयमिति । यस्मात् सोमो देवानां स्वमासीत् तस्मात् ‘आगत्या एव’ सोमप्राप्त्या एव ‘सोमं’ ‘क्रीणाति’ क्रीणीयात् । अपूर्वार्थत्वाद् यच्छब्दमनादृत्य विधिः कल्पयितव्यः । आगत्या अपि प्रयोजनमाह- आगतेन यजा इति । अक्रीतस्य यागानर्हतामाह- अनागतेनेति । आगतो ऽपि सोमः क्रयसंस्कारेणानागतत्वादनागत इत्युच्यते ॥ ७ ॥

Eggeling
  1. Both Soma and Vāc were thus with the gods. Now, when he buys Soma he does so in order that he may sacrifice with him, when obtained, for his (own) obtainment (of heavenly bliss 6); for he who

sacrifices with Soma that has not been bought, sacrifices with Soma that has not been (properly) obtained 7.

०८

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ य᳘द्ध्रुवा᳘यामाज्यं प᳘रिशिष्टं भ᳘वति॥
त᳘ज्जुह्वां᳘ चतुष्कृ᳘त्वो व्वि᳘गृह्णाति बर्हि᳘षा हि᳘रण्यं प्रब᳘ध्यावधा᳘य जुहोति कृत्स्ने᳘न प᳘यसा जुहवानी᳘ति समान᳘जन्म वै प᳘यश्च हि᳘रण्यं चोभ᳘य᳘ᳫं᳘ ह्यग्निरेतसम्[[!!]]॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ य᳘द्ध्रुवा᳘यामाज्यं प᳘रिशिष्टं भ᳘वति॥
त᳘ज्जुह्वां᳘ चतुष्कृ᳘त्वो व्वि᳘गृह्णाति बर्हि᳘षा हि᳘रण्यं प्रब᳘ध्यावधा᳘य जुहोति कृत्स्ने᳘न प᳘यसा जुहवानी᳘ति समान᳘जन्म वै प᳘यश्च हि᳘रण्यं चोभ᳘य᳘ᳫं᳘ ह्यग्निरेतसम्[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘द्ध्रुवा᳘यामा᳘ज्यम् प᳘रिशिष्टम् भ᳘वति॥
त᳘ज्जुह्वां᳘ चतुष्कृ᳘त्वो वि᳘गृह्णाति बर्हि᳘षा हि᳘रण्यम् प्रब᳘ध्यावधा᳘य जुहोति कृत्स्ने᳘न प᳘यसा जुहवानी᳘ति समान᳘जन्म वै प᳘यश्चहि᳘रण्यं चोभ᳘यᳫं ह्य᳘ग्निरेतस᳘म्॥

मूलम् - विस्वरम्

अथ यद् ध्रुवायामाज्यं परिशिष्टं भवति- तत् जुह्वां चतुष्कृत्वो विगृह्णाति । बर्हिषा हिरण्यं प्रबध्य अवधाय जुहोति- कृत्स्नेन पयसा जुहवानीति । समानजन्म वै पयश्च हिरण्यं च । उभयं ह्यग्निरेतसम् ॥ ८ ॥

सायणः

सोमक्रयात् प्राक् कर्तव्यं च कश्चिद्धोमं विदधाति- अथेति । ‘ध्रुवायामाज्यं परिशिष्टम्’ प्रायणीयार्थमुपयुज्य यद्घृतं ध्रुवायामवशिष्टम् ‘तत्’ ‘जुह्वां’ ‘चतुष्कृत्वः’ चतुर्वारं गृहीत्वा ‘बर्हिषा’ दर्भेण ‘हिरण्यं’ ‘प्रबध्य’ जुह्वाम् ‘अवधाय’ आधाय जुहुयात् । तथा च कात्यायनः- “शालाद्वाराण्यपिधाय ध्रौवं जुह्वां चतुर्विगृह्णाति, बर्हिस्तृणेन हिरण्यं बद्ध्वा ऽवदधात्येषा त इति” (का. श्रौ. सू. ७ । १५९ । १६०) इति । हिरण्यावधानप्रयोजनम्- कृत्स्नेन पयसेति । पयःप्रकृतिकत्वाद् आज्यं पयः । सति हिरण्यस्य पयस्त्वे भवत्येव कार्त्स्न्यम् । तदेव कुत इत्यत आह- समानजन्म वा इति । पयश्च हिरण्यञ्च इति वस्तुद्वयं ‘समानजन्म’ समानोत्पत्तिकम्, एकत्रोत्पन्नमित्यर्थः । कथं समानत्वं जन्मनः ? ‘हि’ यस्मात् ‘उभयम्’ अपि ‘अग्निरेतसम्’ अग्ने रेतो वीर्यं यस्योभयस्य तत् तथोक्तम् । यस्मादेवं तस्मादित्यर्थः । “अनसन्तान्नपुंसकाच्छन्दसि”- (पा. सू. ५ । ४ । १०३) इति अच्प्रत्ययः समासान्तः । पयसो ऽग्निरेतस्त्वं द्वितीयकाण्डे उक्तम् । तथाहि- गोरुत्पत्तिं प्रस्तुत्य- “तामु हाग्निरभिदध्यौ । मिथुन्येनया स्यामिति तां सम्बभूव तस्यां रेतः प्रासिञ्चत् । तत् पयो ऽभवत्”- (श. प. ब्रा. २ । २ । ४ । १५) इति । हिरण्यस्याप्यग्निरेतस्त्वं तैत्तिरीये- “आपोवरुणस्य पत्नय आसन्, ता अग्निरभ्यध्यायत्, ताः समभवत्, तस्य रेतः परापतत्, तद्धिरण्यमभवत्”- (तै. ब्रा. १ । १ । ३ । ८) इति ॥ ८ ॥

Eggeling
  1. In the first place he pours the butter, which remains in the dhruvā spoon, in four parts into the guhū; and having tied a piece of gold with a blade of the altar-grass 8, and laid it down (in the juhū), he offers (the butter), thinking, ‘I will offer with pure milk;’ for milk and gold are of the same origin, since both have sprung from Agni’s seed 9.

०९

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स हि᳘रण्यम᳘वदधाति॥
(त्ये) एषा᳘ ते शुक्र तनू᳘रेतद्व᳘र्च ऽइ᳘ति व्व᳘र्चो वा᳘ ऽएतद्यद्धि᳘रण्यं त᳘या स᳘म्भव भ्रा᳘जं गच्छे᳘ति स यदा᳘ह त᳘या स᳘म्भवे᳘ति त᳘या स᳘म्पृच्यस्वे᳘त्ये᳘वैत᳘दाह भ्रा᳘जं गच्छे᳘ति सो᳘मो वै भ्राट् सो᳘मं गच्छे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स हि᳘रण्यम᳘वदधाति॥
(त्ये) एषा᳘ ते शुक्र तनू᳘रेतद्व᳘र्च ऽइ᳘ति व्व᳘र्चो वा᳘ ऽएतद्यद्धि᳘रण्यं त᳘या स᳘म्भव भ्रा᳘जं गच्छे᳘ति स यदा᳘ह त᳘या स᳘म्भवे᳘ति त᳘या स᳘म्पृच्यस्वे᳘त्ये᳘वैत᳘दाह भ्रा᳘जं गच्छे᳘ति सो᳘मो वै भ्राट् सो᳘मं गच्छे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स हि᳘रण्यम᳘वदधाति॥
एषा᳘ ते षुक्र तनू᳘रेतद्व᳘र्च इ᳘ति व᳘र्चो वा᳘ एतद्यद्धि᳘रण्यं त᳘या स᳘म्भवम् भ्रा᳘जं गछे᳘ति स यदा᳘ह त᳘या स᳘म्भवे᳘ति त᳘या स᳘म्पृच्यस्वे᳘त्येॗवैत᳘दाह भ्रा᳘जं गछे᳘ति सो᳘मो वै भ्राट् सो᳘मं गछे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

स हिरण्यमवदधाति- “एषा ते शुक्र तनूरेतद्वर्चः”- (वा. सं. ४ । १७) इति । वर्चो वा ऽएतत्- यद्धिरण्यम् । “तया सम्भव भ्राजं गच्छ”- (वा. सं. ४ । १७) इति । स यदाह-तया सम्भवेति । तया संपृच्यस्वेत्येवैतदाह । भ्राजं गच्छेति । सोमो वै भ्राट् । सोमं गच्छेत्येवैतदाह ॥ ९ ॥

सायणः

मन्त्रमभिधाय पुनरनुवदति- स हिरण्यमिति । ‘सः’ अध्वर्युः । हिरण्यनिधानमन्त्रं त्रेधा विभज्य व्याचष्टे- एषा त इत्यादिना । हे ‘शुक्र !’ ‘एषा’ एतद्धिरण्यं ‘ते’ तनूः शरीरम् । तन्वपेक्षया स्त्रीलिङ्गता, अथवा ‘एषा’ जुहूरिति व्याख्येयम्। ‘एतत्’ एवाज्यं तव ‘वर्चः’ तेजः । शिष्टं ब्राह्मणेनैव व्याख्यातम् । व्याख्येयभागद्वयमुपादाय प्रथमभागस्य ‘सम्भव’- शब्दस्यार्थमाह- यदाह तया सम्भवेत्यादि । ‘यदाह’ मन्त्रः, ‘एतत्’ एतेन ‘तया सम्पृच्यस्व’ इत्येवाह । अत्र सम्पर्क एकीभावः । ‘भ्राट्’- शब्दार्थमाह- सोमो वै भ्राडिति । भ्राजमानत्वाद् ‘भ्राट्’ सोमः । अतः आज्यं भ्राजं गच्छेति ब्रुवती श्रुतिः, सोमं गच्छेत्युक्तवतीत्यर्थः । सोमप्राप्तिप्रकारस्त्वित्थं वेदितव्यः- हिरण्यसंस्कृताज्यहोमः सोमक्रयणार्थः, स च क्रेतव्यसोमार्थ इति विहितामाहुतिं सोमक्रयणीप्रीतिहेतुत्वेन प्रशंसयन् तदर्थः ॥ ९ ॥

Eggeling
  1. He lays down the piece of gold, with the text (Vāj. S. IV, 17), ‘This (butter) is thy body, O shining (Agni)! this (gold) is thy light,’–for that gold is indeed light:–‘unite therewith and obtain splendour!’ When he says, ‘Unite therewith,’ he means to say, ‘Mingle therewith;’ and when he says, ‘Obtain splendour,’–splendour meaning Soma,–he means to say, ‘Obtain Soma.’

१०

विश्वास-प्रस्तुतिः

तां य᳘थै᳘वादो᳘ देवाः[[!!]]॥
प्रा᳘हिण्वन्त्सो᳘मम᳘च्छैव᳘मे᳘वैनामेष᳘ ऽएतत्प्र᳘हिणोति सो᳘मम᳘च्छ व्वाग्वै᳘ सोमक्र᳘यणी निदा᳘नेन ता᳘मेतया᳘ ऽऽहुत्या प्रीणाति प्रीत᳘या सो᳘मं क्रीणानी᳘ति॥

मूलम् - श्रीधरादि

तां य᳘थै᳘वादो᳘ देवाः[[!!]]॥
प्रा᳘हिण्वन्त्सो᳘मम᳘च्छैव᳘मे᳘वैनामेष᳘ ऽएतत्प्र᳘हिणोति सो᳘मम᳘च्छ व्वाग्वै᳘ सोमक्र᳘यणी निदा᳘नेन ता᳘मेतया᳘ ऽऽहुत्या प्रीणाति प्रीत᳘या सो᳘मं क्रीणानी᳘ति॥

मूलम् - Weber

तां य᳘थैॗवादो᳘ देवाः᳟॥
प्रा᳘हिण्वन्त्सो᳘मम᳘छैव᳘मेॗवैनामेष᳘ एतत्प्र᳘हिणोति सो᳘मम᳘छ वाग्वै᳘ सोमक्र᳘यणी निदा᳘नेन ता᳘मेतया᳘हुत्या प्रीणाति प्रीत᳘या सो᳘मं क्रीणानी᳘ति॥

मूलम् - विस्वरम्

तां यथैवादो देवाः प्राहिण्वन्- सोममच्छ- एवमेवैनामेष एतत्प्रहिणोति- सोममच्छ । वाग्वै सोमक्रयणी निदानेन । तामेतया ऽऽहुत्या प्रीणाति । प्रीतया सोमं क्रीणानीति ॥ १० ॥

सायणः

तदर्थं सोमक्रयण्यानयनप्रयोजनप्रकारमाह- तां यथैवेति । ‘अदः’ व्यवहितकाले ‘ताम्’ वाचं ‘प्राहिण्वन्’ गन्धर्वापहृतां प्रति प्रागमयन् । ‘एवमेव’ अध्वर्युः एतेन सोमक्रयणीप्रेरणेन प्रेरितवान् भवति । तयोः कः सम्बन्ध इति तत्राह- वाग्वै सोमक्रयणीति । ‘निदानं’ वास्तवं स्वरूपम् ॥ १० ॥

Eggeling
  1. And as the gods then sent her (Vāc) to Soma, so does he now send her to Soma; and the cow for which the Soma is bought being in reality Vāc, it is her he gratifies by this offering, thinking, ‘With her, when gratified, I shall buy the Soma.’

११

विश्वास-प्रस्तुतिः

स᳘ जुहोति॥
जू᳘रसी᳘त्येत᳘द्ध वा᳘ ऽअस्या ऽए᳘कं ना᳘म यज्जू᳘रसी᳘ति धृता म᳘नसे᳘ति म᳘नसा वा᳘ ऽइयं व्वा᳘ग्धृता म᳘नो वा᳘ ऽइदं᳘ पुर᳘स्ताद्वाच᳘ ऽइत्थं᳘ व्वद᳘ मैत᳘द्वादीरि᳘त्यल᳘ग्लामिव ह वै व्वा᳘ग्वदेद्यन्म᳘नो न स्यात्त᳘स्मादाह धृता म᳘नसे᳘ति॥

मूलम् - श्रीधरादि

स᳘ जुहोति॥
जू᳘रसी᳘त्येत᳘द्ध वा᳘ ऽअस्या ऽए᳘कं ना᳘म यज्जू᳘रसी᳘ति धृता म᳘नसे᳘ति म᳘नसा वा᳘ ऽइयं व्वा᳘ग्धृता म᳘नो वा᳘ ऽइदं᳘ पुर᳘स्ताद्वाच᳘ ऽइत्थं᳘ व्वद᳘ मैत᳘द्वादीरि᳘त्यल᳘ग्लामिव ह वै व्वा᳘ग्वदेद्यन्म᳘नो न स्यात्त᳘स्मादाह धृता म᳘नसे᳘ति॥

मूलम् - Weber

स᳘ जुहोति॥
जू᳘रसी᳘त्येत᳘द्ध वा᳘ अस्या ए᳘कं ना᳘म यज्जू᳘रसी᳘ति धृता म᳘नसे᳘ति म᳘नसा वा᳘ इयं वा᳘ग्धृता म᳘नो वा᳘ इद᳘म् पुर᳘स्ताद्वाच᳘ इत्थं᳘ वदॗ मैत᳘द्वादीरि᳘त्यल᳘ग्लमिव 10 ह वै वा᳘ग्वदेद्यन्म᳘नो न स्यात्त᳘स्मादाह धृता म᳘नसे᳘ति॥

मूलम् - विस्वरम्

स जुहोति- “जूरसि”- (वा. सं. ४ । १७) इति । एतद्ध वा अस्या एकं नाम यज्जूरसीति । “धृता मनसा”- (वा. सं. ४ । १७) इति । मनसा वा ऽइयं वाग्धृता । मनो वा ऽइति पुरस्ताद्वाचः । इत्थं वद, मैतद्वादीरिति । अलग्लमिव ह वै वाग् वदेद्- यन्मनो न स्यात् । तस्मादाह- धृता मनसेति ॥ ११ ॥

सायणः

होममन्त्रं पञ्चधा विभज्य व्याचष्टे- स जुहोतीति । जूरसीत्यादिना 11 ब्राह्मणेनैव मन्त्रस्य साकल्येन व्याख्यातत्वान्नास्माभिर्व्याख्यातः । ‘जू’- इति सौत्रो धातुर्गत्यर्थः । जवति सोमं प्रति गच्छतीति ‘जूः’ । ‘अस्याः’ वाग्रूपायाः सोमक्रयण्याः प्रतिज्ञातं । मनसो वागाधारत्वमुपपत्त्या साधयति- मनो वा इदं पुरस्ताद् वाच इति । मनः पूर्वरूपम्, वागुत्तररूपम् । मनो वा इति । ‘वै’- शब्देन “यद्वै मनसा ध्यायति तद्वाचा वदति”- (श. प. ब्रा. १२ । ९ । १ । १३) इत्यादिश्रुत्यन्तरप्रसिद्धिर्द्योत्यते । धारणप्रकारं दर्शयति- इत्थं वदेति । यद्यपि हितोपदेष्टृवन्मनो न वाग्व्यापारं करोति, तथापीदं वक्तव्यमिदं नेति गुणदोषविकल्पनस्य मनोव्यापारत्वाद् वाग्विधिनिषेधकर्तृव्यवहारः । व्यतिरेकदोषोपन्यासेन मनोवाचोरेकत्वं द्रढयति- अलग्लमिवेति । ‘अलग्लमिव’ अलग्नमिव वक्तव्यपदार्थेन सहासंसृष्टमिव; हृदयपूर्वकत्वाभावात् ॥ ११ ॥

Eggeling
  1. He offers, with the text, ‘Thou art the singer of praises 12,’–for this (word ‘jūḥ’), the ‘singer of praises,’ is one of her (Vāc’s) names;–‘upholden by the Mind,’–this speech of ours

is indeed upheld by the mind, because the Mind goes before 13 Speech (and prompts her), ‘Speak thus! say not this!’ for, were it not for the Mind, Speech would indeed talk incoherently: for this reason he says, ‘Upholden by the Mind.’

१२

विश्वास-प्रस्तुतिः

जु᳘ष्टा व्वि᳘ष्णव ऽइ᳘ति॥
जु᳘ष्टा सो᳘माये᳘त्ये᳘वैत᳘दाह य᳘मच्छेम इ᳘ति त᳘स्यास्ते सत्य᳘सवसः प्रसव ऽइ᳘ति सत्य᳘प्रसवा न ऽएधि सो᳘मं नो᳘ ऽच्छेही᳘त्ये᳘वैत᳘दाह त᳘न्वो यन्त्र᳘मशीय स्वाहे᳘ति स᳘ ह वै᳘ त᳘न्वो यन्त्र᳘मश्नुते यो᳘ यज्ञ᳘स्योदृ᳘चं ग᳘च्छति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

जु᳘ष्टा व्वि᳘ष्णव ऽइ᳘ति॥
जु᳘ष्टा सो᳘माये᳘त्ये᳘वैत᳘दाह य᳘मच्छेम इ᳘ति त᳘स्यास्ते सत्य᳘सवसः प्रसव ऽइ᳘ति सत्य᳘प्रसवा न ऽएधि सो᳘मं नो᳘ ऽच्छेही᳘त्ये᳘वैत᳘दाह त᳘न्वो यन्त्र᳘मशीय स्वाहे᳘ति स᳘ ह वै᳘ त᳘न्वो यन्त्र᳘मश्नुते यो᳘ यज्ञ᳘स्योदृ᳘चं ग᳘च्छति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

जु᳘ष्टा वि᳘ष्णव इ᳘ति॥
जु᳘ष्टा सो᳘माये᳘त्येॗवैत᳘दाह य᳘मछेम इ᳘ति त᳘स्यास्ते सत्य᳘सवसः प्रसव इ᳘ति सत्य᳘प्रसवा न एधि सो᳘मं नो᳘ ऽछेही᳘त्येॗवैत᳘दाह तॗन्वो यन्त्र᳘मशीय स्वाहे᳘ति स᳘ ह वै᳘ तॗन्वो यन्त्र᳘मश्नुते यो᳘ यज्ञ᳘स्योदृ᳘चं ग᳘छति यज्ञ᳘स्योदृ᳘चं गछानी᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“जुष्टा विष्णवे”- (वा. सं. ४ । १८) इति । जुष्टा सोमायेत्येवैतदाह । यमच्छेम इति । “तस्यास्ते सत्यसवसः प्रसवे”- (वा. सं. ४ । १८) इति । सत्यप्रसवा न एधि, सोमं नो ऽच्छेहीत्येवैतदाह । “तन्वो यन्त्रमशीय स्वाहा” (वा. सं. ४ । १८) इति । स ह वै तन्वो यन्त्रमश्नुते- यो यज्ञस्योदृचं गच्छति । यज्ञस्योदृचं गच्छानीत्येवैतदाह ॥ १२ ॥

सायणः

जुष्टा विष्णव इतीति । विष्णुशब्दस्याभिमतमर्थमाह- जुष्टासोमायेत्येवैतदाहेति । भुवनत्रयव्यापकत्वात् सोमो विष्णुः । “रुच्यर्थानां प्रीयमाणः”- (पा. सू. १ । ४ । ३३) इति जुषतियोगे चतुर्थी । ‘यं’ सोमं ‘अच्छ’ अभिमुखम् ‘इमः’ गच्छेम वयम् ‘इति’ अनेनाभिप्रायेण सोमायेत्याहेत्यर्थः । ‘सत्यसवसः’ सत्यानुज्ञायाः ‘तस्याः’ ‘देवैः’ प्रेरिताया वाचः ‘प्रसवे’ अनुज्ञायां सत्यामिति मन्त्रभागस्यार्थः । अस्य भागस्य तात्पर्यमाह- सत्यप्रसवा न एधीति । नः अस्माकं सत्यानुज्ञा भवेत्यर्थः । ‘न एधि’ इत्यत्र न इत्यस्य नः सोममित्यर्थ इति व्याचष्टे- सोमं नो ऽच्छेहीति । चरमभागस्य तात्पर्यमाह- तन्वो यन्त्रमिति । ‘उदृक्’ उत्तमा ऋक्, उदृक्तया यज्ञसमाप्तिर्लक्ष्यते; अतो ‘यः’ यज्ञसमाप्तिं ‘गच्छति’ ‘सः’ एव ‘तन्वो यन्त्रम् अश्नुते’ ॥ १२ ॥

Eggeling
  1. ‘Well-pleasing to Vishṇu,’ whereby he means to say, ‘Well-pleasing to Soma whom we approach 14.’ [He proceeds, Vāj. S. IV, 18], ‘Inspired by thee of true inspiration,’ whereby he means to say, ‘Be thou of true inspiration! go thou to Soma for us!’–‘May I obtain a support for my body, Svāhā!’ for he who reaches the end of the sacrifice, indeed obtains a support for his body: hence he thereby means to say, ‘May I reach the end of the sacrifice!’

१३

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ हि᳘रण्यमपो᳘द्धरति॥
त᳘न्मनु᳘ष्येषु हि᳘रण्यं करोति स यत्स᳘हिरण्यं जुहुयात्प᳘रागु है᳘वैत᳘न्मनु᳘ष्येभ्यो हि᳘रण्यं प्र᳘वृञ्ज्यात्तन्न᳘ मनु᳘ष्येषु हि᳘रण्यमभि᳘गम्येत᳘॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ हि᳘रण्यमपो᳘द्धरति॥
त᳘न्मनु᳘ष्येषु हि᳘रण्यं करोति स यत्स᳘हिरण्यं जुहुयात्प᳘रागु है᳘वैत᳘न्मनु᳘ष्येभ्यो हि᳘रण्यं प्र᳘वृञ्ज्यात्तन्न᳘ मनु᳘ष्येषु हि᳘रण्यमभि᳘गम्येत᳘॥

मूलम् - Weber

अ᳘थ हि᳘रण्यमपो᳘द्धरति॥
त᳘न्मनुॗष्येषु हि᳘रण्यं करोति स यत्स᳘हिरण्यं जुहुयात्प᳘रागु हैॗवैत᳘न्मनुॗष्येभ्यो हि᳘रण्यम् प्र᳘वृञ्ज्यात्तन्न᳘ मनुॗष्येषु हि᳘रण्यमभि᳘गम्येत॥

मूलम् - विस्वरम्

अथ हिरण्यमपोद्धरति । तन्मनुष्येषु हिरण्यं करोति । स यत्सहिरण्यं जुहुयात्- परागु हैवैतन्मनुष्येभ्यो हिरण्यं प्रवृञ्जयात् । तन्न मनुष्येषु हिरण्यमभिगम्येत ॥ १३ ॥

सायणः

हिरण्यस्यापोद्धारं विधाय प्रशंसति- अथ हिरण्यमिति । प्राण्युपभोगस्य धनमूलत्वाद् हिरण्यस्वापोद्धारेण मनुष्येषु हिरण्यस्थापनं च कृतं भवति । विपक्षे बाधदर्शनेन विहितमर्थं प्रशंसति- स यत् सहिरण्यमिति । ‘सहिरण्यम्’ हिरण्येन सहितमाज्यम् । ‘पराक् प्रवृञ्ज्यात्’ अपुनरागमनं ‘मनुष्येभ्यः’ सकाशाद् वर्जयेत् । अस्तु, किं तत इत्यत आह- तन्नेति । ‘तत्’ तर्हि ‘मनुष्येषु’ ‘हिरण्यम्’ ‘न’ अनुवर्तेत ॥ १३ ॥

Eggeling
  1. Thereupon he takes out the piece of gold (from the spoon), whereby he bestows gold on men; but were he to offer (the butter) together with the gold, he would doubtless cast the gold away from men, and no gold would then be gained among men.

१४

विश्वास-प्रस्तुतिः

सो ऽपो᳘द्धरति॥
शुक्र᳘मसि चन्द्र᳘मस्यमृ᳘तमसि व्वैश्वदेव᳘मसी᳘ति कृत्स्ने᳘न प᳘यसा हुत्वा य᳘दे᳘वैतत्त᳘दाह शुक्र᳘मसी᳘ति शु᳘क्र᳘ᳫं᳘ ह्येत᳘च्चन्द्र᳘मसी᳘ति चन्द्र᳘ᳫं᳘[[!!]] ह्येत᳘दमृ᳘तमसी᳘त्यमृ᳘तᳫं᳘ ह्येत᳘द्वैश्वदेव᳘मसी᳘ति वैश्वदेव᳘ᳫं᳘[[!!]] ह्येत᳘त्प्रमु᳘च्य तृ᳘णं बर्हिष्य᳘पिसृजति सू᳘त्रेण हि᳘रण्यं प्र᳘बध्नीते॥

मूलम् - श्रीधरादि

सो ऽपो᳘द्धरति॥
शुक्र᳘मसि चन्द्र᳘मस्यमृ᳘तमसि व्वैश्वदेव᳘मसी᳘ति कृत्स्ने᳘न प᳘यसा हुत्वा य᳘दे᳘वैतत्त᳘दाह शुक्र᳘मसी᳘ति शु᳘क्र᳘ᳫं᳘ ह्येत᳘च्चन्द्र᳘मसी᳘ति चन्द्र᳘ᳫं᳘[[!!]] ह्येत᳘दमृ᳘तमसी᳘त्यमृ᳘तᳫं᳘ ह्येत᳘द्वैश्वदेव᳘मसी᳘ति वैश्वदेव᳘ᳫं᳘[[!!]] ह्येत᳘त्प्रमु᳘च्य तृ᳘णं बर्हिष्य᳘पिसृजति सू᳘त्रेण हि᳘रण्यं प्र᳘बध्नीते॥

मूलम् - Weber

सो ऽपो᳘द्धरति॥
शुक्र᳘मसि चन्द्र᳘मस्यमृ᳘तमसि वैश्वदेव᳘मसी᳘ति कृत्स्ने᳘न प᳘यसा हुत्वा य᳘देॗवैतत्त᳘दाह शुक्र᳘मसी᳘ति शुॗक्रᳫं ह्येत᳘च्चन्द्र᳘मसी᳘ति चॗन्द्रᳫं ह्येत᳘दमृ᳘तमसी᳘त्यमृॗतᳫं ह्येत᳘द्वैश्वदेव᳘मसी᳘ति वैश्वदेॗवᳫं ह्येत᳘त्प्रमु᳘च्य तृ᳘णम् बर्हिष्य᳘पिसृजति सू᳘त्रेण हि᳘रण्यम् प्र᳘बध्नीते॥

मूलम् - विस्वरम्

सो ऽपोद्धरति- “शुक्रमसि चन्द्रमस्यमृतमसि वैश्वदेवमसि” (वा. सं. ४ । १८) इति । कृत्स्नेन पयसा हुत्वा यदेवैतत्- तदाह शुक्रमसीति । शुक्रं ह्येतत् । चन्द्रमसीति । चन्द्रं ह्येतत् । अमृतमसीति । अमृतं ह्येतत् । वैश्वदेवमसीति । वैश्वदेवं ह्येतत् । प्रमुच्य तृणं बर्हिष्यपिसृजति । सूत्रेण हिरण्यं प्रबध्नीते ॥ १४ ॥

सायणः

अपोद्धारमनूद्य मन्त्रमाह- सो ऽपोद्धरति शुक्रमसीति । हे हिरण्य ! त्वं ‘शुक्रं’ दीप्तम् ‘असि’ ‘चन्द्रं’ सर्वाह्लादकम् । ‘असि’ ‘अमृतम्’ अमरणधर्मकम् ‘असि’; अत्यन्ताग्निसंयोगे ऽपि विनाशादर्शनात् । ‘वैश्वदेवम्’ सर्वदेवताप्रीतिकरत्वात् । तदीयो ऽयमपोद्धारो होमानन्तरं कार्य इत्याह- कृत्स्नेनेति । प्रागेव यद्यपोद्धरेत्- तदा हिरण्यात्मकस्य पयसो ऽभावादाज्यं रूपं पयसो ऽकृत्स्नं स्यात्, तस्मादुच्यते- कृत्स्नेन पयसा हुत्वेति । मन्त्रगतं हिरण्यस्य शुक्राद्यात्मकत्वं न स्तुत्यर्थमित्याह- यदेवैतत्तदाह शुक्रमसीत्यादिना । ‘यदेव’ ‘एतत्’ हिरण्यस्य स्वाभाविकं रूपम् ‘शुक्रं’ शुक्ररूपं ‘तत्’ एष मन्त्रः ‘आह’ । यद्यपि हिरण्यमाग्नेयं तथापि सर्वप्रियत्वाद् वैश्वदेवमुच्यते । प्रमुच्य तृणमिति । हिरण्ये बद्धं तृणं विमुच्य ‘बर्हिषि’ अपिसृज्य पुनः ‘सूत्रेण’ बध्नीयात् । तथा च सूत्रम्- “शुक्रमसीति हिरण्यमुद्धृत्य वेद्यां तृणं निदधाति सूत्रे बद्धं हिरण्यं कुरुते”- (का. श्रौ. सू. ७ । १६२ । १६३) इति ॥ १४ ॥

Eggeling
  1. He takes it out, with the text, Thou art pure, thou art shining, thou art immortal, thou art sacred to all the gods.’ When, having offered the whole milk, he now says, ‘Thou art pure . . . ,’ it is indeed pure, and shining, and immortal, and sacred to all the gods. Having loosened the grass-blade, he throws it on the barhis, and ties a string round the gold 15.

१५

विश्वास-प्रस्तुतिः

(ते ऽथा᳘) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वा ऽन्वा᳘) अन्वा᳘रभस्व यजमाने᳘त्याहा᳘पोर्णु᳘वन्ति शा᳘लायै द्वा᳘रे दक्षिणतः᳘ सोमक्र᳘यण्यु᳘पतिष्ठते तत्प्र᳘हितामे᳘वैनामेत᳘त्सतीं प्रा᳘हैषीद्वाग्वै᳘ सोमक्र᳘यणी निदा᳘नेन ता᳘मेतया᳘ ऽऽहुत्या ऽप्रैषीत्प्रीत᳘या सो᳘मं क्रीणानीति[[!!]]॥

मूलम् - श्रीधरादि

(ते ऽथा᳘) अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृही᳘त्वा॥
(त्वा ऽन्वा᳘) अन्वा᳘रभस्व यजमाने᳘त्याहा᳘पोर्णु᳘वन्ति शा᳘लायै द्वा᳘रे दक्षिणतः᳘ सोमक्र᳘यण्यु᳘पतिष्ठते तत्प्र᳘हितामे᳘वैनामेत᳘त्सतीं प्रा᳘हैषीद्वाग्वै᳘ सोमक्र᳘यणी निदा᳘नेन ता᳘मेतया᳘ ऽऽहुत्या ऽप्रैषीत्प्रीत᳘या सो᳘मं क्रीणानीति[[!!]]॥

मूलम् - Weber

अथा᳘परं चतुर्गृहीतमा᳘ज्यं गृहीॗत्वा॥
अन्वा᳘रभस्व यजमाने᳘त्याहा᳘पोर्णुवन्ति शा᳘लायै द्वा᳘रे दक्षिणतः᳘ सोमक्र᳘यण्यु᳘पतिष्ठते तत्प्र᳘हितामेॗवैनामेत᳘त्सतीम् प्रा᳘हैषीद्वाग्वै᳘ सोमक्र᳘यणी निदा᳘नेन ता᳘मेतया᳘हुत्याप्रैषीत्प्रीत᳘या सो᳘मं क्रीणानी᳘ति॥

मूलम् - विस्वरम्

अथापरं चतुर्गृहीतमाज्यं गृहीत्वा- अन्वारभस्व यजमानेत्याह । अपोर्णुवन्ति शालायै द्वारे । दक्षिणतः सोमक्रयण्युपतिष्ठते । तत्प्रहितामेवैनामेतत्सतीं प्राहैषीत् । वाग्वै सोमक्रयणी निदानेन । तामेतया ऽऽहुत्या ऽप्रैषीत् प्रीतया सोमं क्रीणानीति ॥ १५ ॥

सायणः

अथापरमिति । पूर्वोक्तप्रायणीयशेषादेवान्यतः ‘चतुर्गृहीतमाज्यं गृहीत्वा’ ‘यजमान अन्वारभस्व’- ‘इति ब्रूयात्’ 16 । अध्वर्योरनुस्पर्शो ऽन्वारम्भः । ‘शालायै’ शालायाः ‘अपोर्णुवन्ति’ द्वाराणीति शेषः । सूत्रकारेण “शालाया द्वाराण्यपिधाय”- इत्युक्तत्वात् (का. श्रौ. सू. ७ । १५९) । पूर्वं पिहितानि द्वाराणि सर्वाण्यपवृत्तानि कुर्युः 17 । ‘द्वारे’ आहवनीयात्- प्राक्तने, सोमक्रयार्थं ‘दक्षिणतः’ दक्षिणदेशे ‘सोमक्रयणी’ गौः ‘उपतिष्ठते’ 18 । सोमक्रयण्यवस्थापनं प्रशंसति- तत्प्रहितामित्यादिना । ‘एतत्’ ‘एतेनावस्थापनेन ‘एनां’ सोमक्रयणीं ‘तत्प्रहितामेव सतीं’ तया देवैः प्रेषितया वाचा प्रेरितां सतीम् । अथवा ‘तत्’ तथा सतीव ‘प्रहितामेव’ इमां सोमक्रयार्थं गमयेति स्वप्रेरितां सतीमेवैताम् ‘एतत्’ एतेनावस्थापनेन ‘प्राहैषीत्’ प्रेरितवान् भवति । तस्या इतरगोसाधारण्यं वारयति- वाग्वै सोमक्रयणीति । तामेतयेति । ‘तां’ वाग्रूपां सोमक्रयणीं यस्मात् ‘एतया’ पूर्वविहितया “धूरसि”- इत्यादिमन्त्रदेवतया ‘अप्रैषीत्’ अध्वर्युः प्रेरितवान् । कया बुद्ध्या ? ‘प्रीतया’ तृप्तया ‘सोमं क्रीणानीति’ ॥ १५ ॥

Eggeling
  1. Having then taken butter a second time in

four parts, he says, ‘Sacrificer, hold on behind 19!’ They open the (south and east) 20 doors of the hall (and walk out). On the right side (of the front door) approaches the Soma-cow 21: (by having) her thus put forward 22, he has sent her forth (to Soma); for the Soma-cow is in reality Vāc: it is her he has gratified by this offering, thinking, ‘With her, when gratified, I will buy Soma.’

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोपनिष्क्र᳘म्याभि᳘मन्त्रयते॥
चि᳘दसि म᳘नासी᳘ति चित्तं वा᳘ ऽइदं म᳘नो व्वाग᳘नुवदति धी᳘रसि द᳘क्षिणे᳘ति धिया᳘ धिया᳘ ह्येत᳘या मनु᳘ष्या जु᳘ज्यूषन्त्य᳘नूक्तेनेव प्रकामो᳘द्येनेव गा᳘थाभिरिव त᳘स्मादाह धी᳘रसी᳘ति द᳘क्षिणे᳘ति द᳘क्षिणा᳘ ह्येषा᳘ क्षत्रि᳘या ऽसि यज्ञि᳘या ऽसी᳘ति क्षत्रि᳘या᳘ ह्येषा᳘ यज्ञि᳘या᳘ ह्येषा᳘ ऽदितिरस्युभयतःशीर्ष्णी᳘ति स य᳘देनया समानᳫँ᳭ स᳘द्विपर्या᳘सं व्व᳘दति यद᳘परं तत्पू᳘र्व्वं करो᳘ति[[!!]] यत्पू᳘र्व्वं तद᳘परं ते᳘नोभयतःशीर्ष्णी त᳘स्मादाहा᳘दितिरस्युभयतःशीर्ष्णी᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोपनिष्क्र᳘म्याभि᳘मन्त्रयते॥
चि᳘दसि म᳘नासी᳘ति चित्तं वा᳘ ऽइदं म᳘नो व्वाग᳘नुवदति धी᳘रसि द᳘क्षिणे᳘ति धिया᳘ धिया᳘ ह्येत᳘या मनु᳘ष्या जु᳘ज्यूषन्त्य᳘नूक्तेनेव प्रकामो᳘द्येनेव गा᳘थाभिरिव त᳘स्मादाह धी᳘रसी᳘ति द᳘क्षिणे᳘ति द᳘क्षिणा᳘ ह्येषा᳘ क्षत्रि᳘या ऽसि यज्ञि᳘या ऽसी᳘ति क्षत्रि᳘या᳘ ह्येषा᳘ यज्ञि᳘या᳘ ह्येषा᳘ ऽदितिरस्युभयतःशीर्ष्णी᳘ति स य᳘देनया समानᳫँ᳭ स᳘द्विपर्या᳘सं व्व᳘दति यद᳘परं तत्पू᳘र्व्वं करो᳘ति[[!!]] यत्पू᳘र्व्वं तद᳘परं ते᳘नोभयतःशीर्ष्णी त᳘स्मादाहा᳘दितिरस्युभयतःशीर्ष्णी᳘ति॥

मूलम् - Weber

अ᳘थोपनिष्क्र᳘म्याभि᳘मन्त्रयते॥
चि᳘दसि म᳘नासी᳘ति चित्तं वा᳘ इदम् म᳘नो वाग᳘नुवदति धी᳘रसि द᳘क्षिणे᳘ति धिया᳘-धियाॗ ह्येत᳘या मनुॗष्या जु᳘ज्यूषन्त्य᳘नूक्तेनेव प्रकामो᳘द्येनेव गा᳘थाभिरिव त᳘स्मादाह धी᳘रसी᳘ति द᳘क्षिणे᳘ति द᳘क्षिणाॗ ह्येषा᳘ क्षत्रि᳘यासि यज्ञि᳘यासी᳘ति क्षत्रि᳘याॗ ह्येषा᳘ यज्ञि᳘याॗ ह्येषा᳘दितिरस्युभयतःशीर्ष्णी᳘ति स य᳘देनया समानᳫं स᳘द्विपर्या᳘सं व᳘दति यद᳘परं तत्पू᳘र्वं क᳘रोति यत्पू᳘र्वं तद᳘परं ते᳘नोभयतःशीर्ष्णी त᳘स्मादाहा᳘दितिरस्युभयतःशीर्ष्णी᳘ति॥

मूलम् - विस्वरम्

अथोपनिष्क्रम्याभिमन्त्रयते- “चिदसि मनासि”- (वा. सं. ४ । १९) इति । चित्तं वा ऽइदं मनो वागनुवदति । “धीरसि दक्षिणा ऽसि”- (वा. सं ४ । १९) इति । धियाधिया ह्येतया मनुष्या जुज्यूषन्ति । अनूक्तेनेव, प्रकामोद्येनेव, गाथाभिरिव, तस्मादाह- धीरसीति । दक्षिणेति । दक्षिणा ह्येषा । “क्षत्रियासि यज्ञियासि”- इति । क्षत्रिया ह्येषा, यज्ञिया ह्येषा । “अदितिरस्युभयतःशीर्ष्णी”- (वा. सं. ४ । १९) इति । स यदेनया समानं सद्विपर्यासं वदति । यदपरन्तत्पूर्वं करोति, यत् पूर्वं- तदपरम् । तेनोभयतःशीर्ष्णी । तस्मादाह- अदितिरस्युभयतः- शीर्ष्णीति ॥ १६ ॥

सायणः

तस्या अभिमन्त्रणं विधत्ते- अथोपनिष्क्रम्याभिमन्त्रयत इति 23 । ‘उपनिष्क्रम्य’ शालातो निर्गम्य । अभिमन्त्रणमन्त्रं विभज्य व्याचष्टे- चिदसि मनासीत्यादिना । मन्त्रवाक्यानि तु ब्राह्मणेनैव साकल्येन व्याख्यातानीत्यतो नास्माभिर्वक्तव्यमस्ति । ‘इदम्’ इदानीं सर्वविदितप्रकारेण ‘चित्तं’ ‘मनः;’ मनसा ‘वागनुवदति,’ चित्तेन ज्ञानम् । मनसा मतमेवार्थं वाक् प्रकाशयतीत्यर्थः । अतो हे सोमक्रयणि ! त्वं चेतनावस्थापन्ना सती ‘चिदसि’ तथा मननेन ‘मना’ अपि ‘असि’ । धीरूपत्वसमर्थनम्- धिया धियेति । ‘धिया’ इत्थं वदिष्यामीति बुद्ध्या चित्तवदभिवदनरूपेण कर्मणा वा । धीरिति कर्मनाम (निघं. २ । १ । २१) । ‘जुज्यूषन्ति’ जीवितुमिच्छन्ति मनुष्याः । “जीव प्राणधारणे”- (धा. पा. भ्वा. प. ५६२) इत्यस्मात्सन्नन्तादूंठि कृते रूपम् । तया जीवनप्रकारं स्वयमेव दर्शयति- अनूक्तेनैवेत्यादिना । ‘अनूक्तेन’ अनुवचनेन, वेदाध्ययनेनेत्यर्थः । ‘प्रकामोद्यम्’ इच्छया लौकिकभाषणम् । ‘गाथा’ गद्यपद्यगीत्याद्यात्मिका सर्वत्र इव- शब्दो वाक्यालङ्कारार्थः । एवंविधैर्वाग्विशेषैर्यतो जीवितुमिच्छन्ति, अतो धीरसीत्युक्तम् । सोमविक्रयिण आनत्यर्थं दीयमानत्वात् साक्षाद् दक्षिणापि खल्वेषा वस्तुतो भवति । क्षत्रं बलं तदर्हतीति ‘क्षत्रिया’ गौः । पयआदिसाधनत्वेन तस्या बलकरत्वं सिद्धम् । अथवा क्षत्रं सोमः; “सोमो वै राजा”- (ऐ. ब्रा. १ । ३ । १, ३ । ३ । १) इति सर्वत्र राजशब्देन व्यवहारात् । न यज्ञयोगाद्राजत्वं किन्तु राजत्वं नाम क्षत्रियत्वमित्युक्तम् । श्रूयते च- “यान्येतानि देवतया क्षत्रियाणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यः”- (श. प. ब्रा. ४ । ४ । २ । २३-२७) इत्यादि । अतस्तत्सम्बन्धात् क्षत्रियैवैषा । यज्ञियत्वं तु सिद्धमेव । अदितिरसीति । हे सोमक्रयणि ! वस्तुतो वाग्रूपा त्वम् ‘उभयतः शीर्ष्णी अदितिरसि’ प्रदेशद्वयशिरोयुक्ता अखण्डनीया गौरसि । कुत एतदित्यत आह- स यदिति । ‘सः’ वक्ता ‘यत्’ यस्मात् ‘एनया’ अदित्या उभयतः शिरस्कया निमित्तभूतया ‘समानम्’ एकमेव ‘सद्’ वाक्यं ‘विपर्यासम्’ व्यत्यासेन ‘वदति’ तथाहि- “भुङ्क्ष्व देवदत्त ! तिष्ठ विष्णुमित्र !”- इत्यादौ ‘यदेवापरं’ वचनं देवदत्तेत्येवमादि ‘तदेव पूर्वं करोति’ उक्तवैपरीत्येन; यत् पूर्वं भुङ्क्ष्वेत्यादिकम्, ‘तद्’ ‘अपरम्’ “देवदत्त ! भुङ्क्ष्व“- इत्यादिरूपेणापरं च ‘करोति’ । तस्माद् वाग्रूपां सोमक्रयणीम् ‘उभयतःशीर्ष्णी अदितिरसि’- ‘इत्याह’ मन्त्रः । तैत्तिरीयके तु सोमयागस्याद्यन्तभूतयोः प्रायणीयोदयनीययोः शिरोवत्प्रधानभूतयोर्वर्तमानयोरदितिर्देवता ऽस्ति सा ऽसीत्यर्थः । तथा च तैत्तिरीयकम्- “अदितिरस्युभयतःशीर्ष्णीत्याह- यदेवादित्यः प्रायणीयो यज्ञानामादित्य उदयनीयः”- (तै. सं. ६ । १ । ७ । ५) इति ॥ १६ ॥

Eggeling
  1. Having gone up to her, he (the Adhvaryu) salutes her, with the text (Vāj. S. IV, 19), ‘Thou art thought, thou art the mind,’–for speech, doubtless, speaks in accordance with thought, with the mind 24;–‘Thou art intelligence, thou art the Dakshiṇā 25,’–for it is by means of their respective intelligence 26 that people seek to make their living, either by reciting (the Veda), or by readiness of speech 27, or by songs: therefore he says, ‘Thou art intelligence;’ and ‘Dakshiṇā’ (gift to the priests) he calls her, because she is indeed the Dakshiṇā;–

‘Thou art supreme, thou art worthy of worship,’–for she is indeed supreme and worthy of worship;–‘Thou art Aditi, the double-headed,’–inasmuch as, through her (Vāc, speech), he speaks the right thing wrongly, and puts last what comes first, and first what comes last, therefore she is double-headed: that is why he says, ‘Thou art Aditi, the double-headed 28.’

१७

विश्वास-प्रस्तुतिः

सा नः सु᳘प्राची सु᳘प्रतीच्येधी᳘ति॥
सु᳘प्राची न ऽएधि सो᳘मं नो᳘ ऽच्छेही᳘त्ये᳘वैत᳘दाह सु᳘प्रतीची न ऽएधि सो᳘मेन नः सह पु᳘नरेही᳘त्ये᳘वैत᳘दाह त᳘स्मादाह सा᳘ नः सु᳘प्राची सु᳘प्रतीच्येधी᳘ति॥

मूलम् - श्रीधरादि

सा नः सु᳘प्राची सु᳘प्रतीच्येधी᳘ति॥
सु᳘प्राची न ऽएधि सो᳘मं नो᳘ ऽच्छेही᳘त्ये᳘वैत᳘दाह सु᳘प्रतीची न ऽएधि सो᳘मेन नः सह पु᳘नरेही᳘त्ये᳘वैत᳘दाह त᳘स्मादाह सा᳘ नः सु᳘प्राची सु᳘प्रतीच्येधी᳘ति॥

मूलम् - Weber

सा नः सु᳘प्राची सु᳘प्रतीच्येधी᳘ति॥
सु᳘प्राची न एधि सो᳘मं नो᳘ ऽछेही᳘त्येॗवैत᳘दाह सु᳘प्रतीची त एधि सो᳘मेन नः सह पु᳘नरेही᳘त्येॗवैत᳘दाह त᳘स्मादाह सा᳘ नः सु᳘प्राची सु᳘प्रतीच्येधी᳘ति॥

मूलम् - विस्वरम्

“सा नः सुप्राची सुप्रतीच्येधि”- (वा. सं. ४ । १९) इति । सुप्राची न एधि, सोमं नो ऽच्छेहीत्येवैतदाह । सुप्रतीची न एधि, सोमेन नः सह पुनरेहीत्येवैतदाह । तस्मादाह- सा नः सुप्राची सुप्रतीच्येधीति ॥ १७ ॥

सायणः

“सा नः” इति मन्त्रभागे न इत्यस्य ‘नः सोमम्-’ इत्यर्थ इति व्याचष्टे- सा नः सुप्राचीति । सोमक्रयणावसरे ‘सुप्राची’ भव पुनर्यजमानगृहप्राप्त्यवसरे क्रीतेन सोमेन सह ‘सुप्रतीची’ भव । यथा देवप्रेरिता वाक् सोमेन सह पुनरागता, तदात्मकत्वात् त्वमपि सोमक्रयं साधयित्वा क्रीतेन सोमेन सह पुनरावर्तस्वेत्यर्थः ॥ १७ ॥

Eggeling
  1. ‘Be thou for us successful (in going) forward and successful (in coming) back!’ when he says, ‘Be thou for us successful (in going) forward,’ he means to say, ‘Go to (fetch) Soma for us!’ and when he says, ‘Be thou successful (in coming) back,’ he means to say, ‘Come back to us with Soma!’ This is why he says, ‘Be thou for us successful (in going) forward and successful (in coming) back!’

१८

विश्वास-प्रस्तुतिः

मित्र᳘स्त्वा पदि᳘ बध्नीतामि᳘ति॥
व्वरु᳘ण्या व्वा᳘ ऽएषा यद्र᳘ज्जुः सा यद्र᳘ज्ज्वा ऽभि᳘हिता स्या᳘द्वरु᳘ण्या स्याद्यद्व᳘नभिहिता स्याद᳘यतेव स्यादेतद्वा᳘ ऽअवरुण्यं य᳘न्मैत्रᳫं᳭ सा य᳘था र᳘ज्ज्वाभि᳘हिता य᳘तैव᳘मस्यैत᳘द्भवति य᳘दाह मित्र᳘स्त्वा पदि᳘ बध्नीतामि᳘ति॥

मूलम् - श्रीधरादि

मित्र᳘स्त्वा पदि᳘ बध्नीतामि᳘ति॥
व्वरु᳘ण्या व्वा᳘ ऽएषा यद्र᳘ज्जुः सा यद्र᳘ज्ज्वा ऽभि᳘हिता स्या᳘द्वरु᳘ण्या स्याद्यद्व᳘नभिहिता स्याद᳘यतेव स्यादेतद्वा᳘ ऽअवरुण्यं य᳘न्मैत्रᳫं᳭ सा य᳘था र᳘ज्ज्वाभि᳘हिता य᳘तैव᳘मस्यैत᳘द्भवति य᳘दाह मित्र᳘स्त्वा पदि᳘ बध्नीतामि᳘ति॥

मूलम् - Weber

मित्र᳘स्त्वा पदि᳘ बध्नीतामि᳘ति॥
वरुॗण्या वा एषा यद्र᳘ज्जुः सा यद्र᳘ज्ज्वाभि᳘हिता स्या᳘द्वरुॗण्या स्याद्यद्व᳘नभिहिता स्याद᳘यतेव स्यादेतद्वा᳘ अवरुण्यं य᳘न्मैत्रᳫं सा य᳘था र᳘ज्ज्वाभि᳘हिता यॗतैव᳘मस्यै तद्भवति य᳘दाह मित्र᳘स्त्वा पदि᳘ बध्नीतामि᳘ति॥

मूलम् - विस्वरम्

“मित्रस्त्वा पदि बध्नीताम्”- (वा. सं. ४ । १९) इति । वरुण्या वा ऽएषा यद्रज्जुः- सा यद्रज्ज्वा ऽभिहिता स्याद् वरुण्या स्यात् । यद्वनभिहिता स्याद्- अयतेव स्याद् । एतद्वा ऽअवरुण्यं- यन्मैत्रम् । सा यथा रज्ज्वा ऽभिहिता यता । एवमस्यैतद्भवति । यदाह- मित्रस्त्वा पदि बध्नीतामिति ॥ १८ ॥

सायणः

मित्रस्त्वेत्यादि । मित्रदेवतायाः पादबन्धनोपयोगं दर्शयति- वरुण्या वा इति । पाशस्य वरुणस्वामिकत्वात् वरुणदेवताका 29 ‘रज्जुः’ । ‘यत्’ यदि तया ‘अभिहिता’ बद्धा यदि स्यात् । तदा वरुण्या स्यात् । सोमार्थता न स्यात् । यत् यदि वा ’ ’ अनभिहिता स्यात् तदा ‘अयता’ अस्वाधीना स्यात् । तदा अवरुण्या स्यात् । अत एव तद्दोषपरिहाराय मन्त्रे मित्रकर्तृकपादबन्धनमित्याह- एतद्वा अवरुण्यमिति । सा यथेति । दृष्टान्तेन मन्त्रभागपाठमात्राद् बन्धनं भवत्येवेति समर्थ्यते ॥ १८ ॥

Eggeling
  1. ‘May Mitra bind thee by the foot!’ For that rope, doubtless, is of Varuṇa; and were she (the cow) tied with a rope, she would be (under the power) of Varuṇa. And, on the other hand, were she not tied at all, she would be uncontrolled. Now that which is of Mitra is not of Varuṇa; and as (a cow), if tied with a rope, is under control, so it is in the case of this one when he says, ‘May Mitra bind thee by the foot!’

१९

विश्वास-प्रस्तुतिः

पूषा᳘ ऽध्वनस्पात्वि᳘ति॥
(ती) इयं वै᳘ पृथिवी᳘ पूषा य᳘स्य वा᳘ ऽइयम᳘ध्वन्गोप्त्री भ᳘वति त᳘स्य न का᳘ चन᳘ ह्वला᳘ भवति त᳘स्मादाह पूषा᳘ ऽध्वनस्पात्विति॥

मूलम् - श्रीधरादि

पूषा᳘ ऽध्वनस्पात्वि᳘ति॥
(ती) इयं वै᳘ पृथिवी᳘ पूषा य᳘स्य वा᳘ ऽइयम᳘ध्वन्गोप्त्री भ᳘वति त᳘स्य न का᳘ चन᳘ ह्वला᳘ भवति त᳘स्मादाह पूषा᳘ ऽध्वनस्पात्विति॥

मूलम् - Weber

पूषा᳘ध्वनस्पात्वि᳘ति॥
इयं वै᳘ पृथिवी᳘ पूषा य᳘स्य वा᳘ इयम᳘ध्वन्गोप्त्री भ᳘वति त᳘स्य न का᳘ चन᳘ ह्वला᳘ भवति त᳘स्मादाह पूषा᳘ध्वनस्पात्वि᳘ति॥

मूलम् - विस्वरम्

“पूषा ऽध्वनस्पातु”- (वा. सं. ४ । १९) इति । इयं वै पृथिवी पूषा । यस्य वा ऽइयमध्वन्गोप्त्री भवति- तस्य न का चन ह्वला भवति । तस्मादाह- पूषा ऽध्वनस्पात्विति ॥ १९ ॥

सायणः

पूषा ऽध्वन इत्यादि । पोषणात् ‘पूषा’ ‘पृथिवी’ । यस्य वा इयमिति । ‘अध्वन्’ अध्वनि । ‘ह्वला’ “ह्वल संचलने” (धा. पा. भ्वा. प. ४०७) । ‘प्रच्युतिः’ विनाशः यस्मात् पूष्णा रक्षितस्य प्रच्युतिर्नास्ति, तस्मात् “पूषा ऽध्वनः-” इत्याह मन्त्रः । पूष्णो मार्गाणां त्वं नेतृत्वं “पूषा त्वेतो नयतु-” (ऋ. सं. ८ । २ । २५) इत्यादिमन्त्रप्रसिद्धम् ॥ १९ ॥

Eggeling
  1. ‘May Pūshan guard thy paths!’ Now Pūshan is this Earth, and for whomsoever she is the guardian of his paths 30, he stumbles not at any time: therefore he says, ‘May Pūshan guard thy paths!’

२०

विश्वास-प्रस्तुतिः

(ती᳘) इ᳘न्द्राया᳘ध्यक्षाये᳘ति॥
स्वध्य᳘क्षा ऽसदि᳘त्ये᳘वैत᳘दाह यदाहे᳘न्द्राया᳘ध्यक्षायेत्य᳘नु माता᳘ मन्यताम᳘नु पिता᳘ ऽनु भ्रा᳘ता सगर्भ्यो᳘ ऽनु[[!!]] स᳘खा स᳘यूथ्य इ᳘ति सा य᳘त्ते ज᳘न्म ते᳘न नो᳘ ऽनुमता सो᳘मम᳘च्छेही᳘त्ये᳘वैत᳘दाह सा᳘ देवि᳘ देवम᳘च्छेही᳘ति देवी᳘ ह्येषा᳘ देव᳘मच्छै᳘ति यद्वाक्सो᳘मं त᳘स्मादाह सा᳘ देवि देवम᳘च्छेहीती᳘न्द्राय सो᳘ममिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय सो᳘ममि᳘ति रुद्रस्त्वा᳘ ऽऽवर्तयत्वित्य᳘प्रणाशायैत᳘दाह रुद्रᳫं᳭ हि ना᳘ति पश᳘वः स्वस्ति सो᳘मसखा पु᳘नरेही᳘ति स्वस्ति᳘ नः सो᳘मेन सह पुनरेही᳘त्ये᳘वैत᳘दाह[[!!]]॥

मूलम् - श्रीधरादि

(ती᳘) इ᳘न्द्राया᳘ध्यक्षाये᳘ति॥
स्वध्य᳘क्षा ऽसदि᳘त्ये᳘वैत᳘दाह यदाहे᳘न्द्राया᳘ध्यक्षायेत्य᳘नु माता᳘ मन्यताम᳘नु पिता᳘ ऽनु भ्रा᳘ता सगर्भ्यो᳘ ऽनु[[!!]] स᳘खा स᳘यूथ्य इ᳘ति सा य᳘त्ते ज᳘न्म ते᳘न नो᳘ ऽनुमता सो᳘मम᳘च्छेही᳘त्ये᳘वैत᳘दाह सा᳘ देवि᳘ देवम᳘च्छेही᳘ति देवी᳘ ह्येषा᳘ देव᳘मच्छै᳘ति यद्वाक्सो᳘मं त᳘स्मादाह सा᳘ देवि देवम᳘च्छेहीती᳘न्द्राय सो᳘ममिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय सो᳘ममि᳘ति रुद्रस्त्वा᳘ ऽऽवर्तयत्वित्य᳘प्रणाशायैत᳘दाह रुद्रᳫं᳭ हि ना᳘ति पश᳘वः स्वस्ति सो᳘मसखा पु᳘नरेही᳘ति स्वस्ति᳘ नः सो᳘मेन सह पुनरेही᳘त्ये᳘वैत᳘दाह[[!!]]॥

मूलम् - Weber

इ᳘न्द्राया᳘ध्यक्षायेति॥
स्वध्यॗक्षासदि᳘त्येॗवैत᳘दाह यदाहे᳘न्द्राया᳘ध्यक्षायेत्य᳘नु माता᳘ मन्यताम᳘नु पिता᳘नु भ्रा᳘ता स᳘गर्भ्यो᳘ ऽनु स᳘खा स᳘यूथ्य इ᳘ति सा य᳘त्ते ज᳘न्म ते᳘न नो ऽनुमता सो᳘मम᳘छेही᳘त्येॗवैत᳘दाह सा᳘ देवि देवम᳘छेही᳘ति देवीॗ ह्येषा᳘ देव᳘मछै᳘ति यद्वाक्सो᳘मं त᳘स्मादाह सा᳘ देवि देवम᳘छेहीती᳘न्द्राय सो᳘ममिती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्राय सो᳘ममि᳘ति रुद्रस्त्वा᳘वर्तयत्वित्य᳘प्रणाशायैत᳘दाह रुद्रᳫं हि ना᳘ति पश᳘वः स्वस्ति सो᳘मसखा पु᳘नरेही᳘ति स्वस्ति᳘ नः सो᳘मेन सह पु᳘नरेही᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“इन्द्रायाध्यक्षाय”- (वा. सं. ४ । १९) इति । स्वध्यक्षा ऽसद्- इत्येवैतदाह- यदाहेन्द्रायाध्यक्षायेति । “अनु त्वा माता मन्यतामनु पिता ऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः”- (वा. सं. ४ । २०) इति । सा यत्ते जन्मतेन नो ऽनुमता सोममच्छेहि-इत्येवैतदाह । “सा देवि देवमच्छेहि”- (वा. सं. ४ । २०) इति । देवी ह्येषा देवमच्छैति- यद्वाक् सोमम् । तस्मादाह- सा देविदेवमच्छेहीति । “इन्द्राय सोमम्”- (वा. सं. ४ । २०) इति । इन्द्रो वै यज्ञस्य देवता । तस्मादाह- इन्द्राय सोममिति । “रुद्रस्त्वा ऽऽवर्तयतु”- (वा. सं. ४ । २०) इति । अप्रणाशायैतदाह । रुद्रं हि नाति पशवः । “स्वस्ति सोमसखा पुनरेहि”- (वा. सं. ४ । २०) इति । स्वस्ति नः सोमेन सह पुनरेहि- इत्येवैतदाह ॥ २० ॥

सायणः

इन्द्राध्यक्षायेति । अध्यक्षः स्वामी, तथाविधेन्द्रार्थं पूषा पात्वित्यर्थः । सोमस्येन्द्रस्वामिकत्वात् तदर्थायाः सोमक्रयण्या अपि तत्स्वामित्वम् । ‘स्वध्यक्षा असत्’- एषा शोभनस्वामिका भवेत्,- इत्यनेनाभिप्रायेण मन्त्र एवमाहेत्यर्थः। अनु त्वा मातेत्यादि । हे सोमकयणि ! ‘त्वा’ त्वाम् मात्रादिबन्धुवर्गः क्रयार्थं गमनम् ‘अनुमन्यताम्’ अनुमतिं करोत्विति मन्त्रभागस्यार्थः । ‘सगर्भ्यः’ समानगर्भभवः, अनेन ‘भ्राता’ विशेष्यते । ‘सयूथ्यः’ यूथं सजातीयानां सङ्घः, समाने यूथे भवः ‘सयूथ्यः’ तादृशः ‘सखा’ च ‘अनु’ मन्यताम् । यत्ते जन्मेति । तादृश्यास्तव सम्बन्धि ‘यत्’ तव ‘जन्म’ जायत इति जन्म, मात्रादिबन्धुवर्गः, ‘तेन’ ‘अनुमता’ इत्यर्थः । “सा देवि” इत्यत्र सोमस्य देवत्वं विधित्सितसोमेनानन्यत्वाच्च सिद्धम् । सोमक्रयिण्या देवीत्वं न स्तुत्यर्थमित्यवगमयितुं यद्वाक् सोममित्युक्तम् । इन्द्राय सोममिति । सम्पादये इति शेषः। अतो ‘देवमच्छेहीति’ पूर्वत्रान्वयः । इन्द्रो वै यज्ञस्य देवतेति । ‘यज्ञस्य’ तत्साधनस्य सोमस्य ‘इन्द्रो देवता’ । तथा च तैत्तिरीयकम्- “इन्द्राय हि सोम आह्रियते”- (तै. सं. ६ । १ । ७ । ७ ।) इति । रुद्रस्त्वावर्तयत्विति । रुद्रस्य पश्वधिपतित्वात् स्वयमगृह्णन् पुनरावर्तयत्वित्यभिधानं तस्या अप्रणाशाय भवति । कथं हिंसाप्रसङ्ग इति तत्राह- रुद्रं हीति । ‘नाति’ वर्तन्तत इति शेषः । स्वस्ति सोमसखेति । स्वस्तीत्यविनाशनाम- इति निरुक्तम् । (निरु. ६ । ४ । ४) उक्तो नाशप्रसङ्गः, अतः क्षेमेण ‘सोमसखा’ तेन सहिता पुनरागच्छेति मन्त्रस्यार्थः ॥ २० ॥

Eggeling
  1. ‘For Indra as the supreme guide;’–whereby he says, ‘May she be well-guarded!’ [He

proceeds, Vāj. S. IV, 20], ‘May thy mother grant thee permission, thy father, thine own brother, thy fellow in the herd!’ whereby he says, ‘Go thou for us to fetch Soma, with the permission of all thy kin.’–‘O goddess, go to the god,’–for it is indeed as a goddess, as Vāc, that she goes to a god, to Soma: therefore he says, ‘O goddess, go to the god;’–‘To Soma for the sake of Indra!’ Indra truly is the deity of the sacrifice: therefore he says, ‘To Soma for the sake of Indra.’ ‘May Rudra guide thee back!’ this he says for her safety, for cattle cannot pass beyond Rudra 31. ‘Hail to thee! come back, with Soma for thy companion!’ whereby he says, ‘Hail to thee, come back to us together with Soma!’

२१

विश्वास-प्रस्तुतिः

तां य᳘थै᳘वादो᳘ देवाः[[!!]]॥
प्रा᳘हिण्वन्त्सो᳘मम᳘च्छ᳘ सैनान्त्सह सो᳘मेना᳘गच्छदेव᳘मे᳘वैनामेष᳘ ऽएतत्प्र᳘हिणोति सो᳘मम᳘च्छ᳘ सैनᳫँ᳭ सह सो᳘मेना᳘गच्छति॥

मूलम् - श्रीधरादि

तां य᳘थै᳘वादो᳘ देवाः[[!!]]॥
प्रा᳘हिण्वन्त्सो᳘मम᳘च्छ᳘ सैनान्त्सह सो᳘मेना᳘गच्छदेव᳘मे᳘वैनामेष᳘ ऽएतत्प्र᳘हिणोति सो᳘मम᳘च्छ᳘ सैनᳫँ᳭ सह सो᳘मेना᳘गच्छति॥

मूलम् - Weber

तां य᳘थैॗवादो᳘ देवाः᳟॥
प्रा᳘हिण्वन्त्सो᳘मम᳘छॗ सैनान्त्सह सो᳘मेना᳘गछदेव᳘मेॗवैनामेष᳘ एतत्प्र᳘हिणोति सो᳘मम᳘छॗ सैनᳫं सह सो᳘मेना᳘गछति॥

मूलम् - विस्वरम्

तां यथैवादो देवाः प्राहिण्वन् सोममच्छ- सैनान्त्सह सोमेनागच्छत् । एवमेवैनामेष एतत्प्रहिणोति- सोममच्छ । सैनं सह सोमेनागच्छति ॥ २१ ॥

सायणः

इत्थं मन्त्रवाक्यानां विभज्य तात्पर्यमभिधायेदानीं कृत्स्नमन्त्रतात्पर्यमाह- तां यथैवादो देवा इत्यादिना । सोमक्रयण्या वस्तुतो वागात्मकत्वात् तस्याः सोमक्रयप्रदेशप्राप्तिप्रार्थनं देवैः कृतं सोमानयनार्थवाक्प्रेषणस्थानीयम् । पुनरागमनप्रार्थनन्तु देवानां पुनर्वागाह्वानस्थानीयमिति सङ्ग्रहार्थः ॥ २१ ॥

Eggeling
  1. Even as, at that time, the gods sent her to Soma, and she returned to them together with Soma, so does he now send her to Soma, and she returns to him together with Soma.

२२

विश्वास-प्रस्तुतिः

तां य᳘थै᳘वादो᳘ देवाः[[!!]]॥
(०) व्य᳘ह्वयन्त गन्धर्व्वैः सा᳘ देवा᳘नुपा᳘वर्ततैव᳘मे᳘वैनामेतद्य᳘जमानो व्वि᳘ह्वयते सा य᳘जमानमुपा᳘वर्तते तामु᳘दीचीमत्या᳘कुर्व्वन्त्युदीची[[!!]] हि᳘ मनु᳘ष्याणां दि᳘क्सो ऽएव य᳘जमानस्य त᳘स्मादु᳘दीचीमत्याकुर्व्वन्ति[[!!]]॥

मूलम् - श्रीधरादि

तां य᳘थै᳘वादो᳘ देवाः[[!!]]॥
(०) व्य᳘ह्वयन्त गन्धर्व्वैः सा᳘ देवा᳘नुपा᳘वर्ततैव᳘मे᳘वैनामेतद्य᳘जमानो व्वि᳘ह्वयते सा य᳘जमानमुपा᳘वर्तते तामु᳘दीचीमत्या᳘कुर्व्वन्त्युदीची[[!!]] हि᳘ मनु᳘ष्याणां दि᳘क्सो ऽएव य᳘जमानस्य त᳘स्मादु᳘दीचीमत्याकुर्व्वन्ति[[!!]]॥

मूलम् - Weber

तं य᳘थैॗवादो᳘ देवाः᳟॥
व्य᳘ह्वयन्त गन्धर्वैः सा᳘ देवा᳘नुपा᳘वर्ततैव᳘मेॗवैनामेतद्य᳘जमानो वि᳘ह्वयते सा य᳘जमानमुपा᳘वर्तते तामु᳘दीचीमत्या᳘कुर्वन्त्यु᳘दीची हि᳘ मनुॗष्याणां दिॗक्सो एव य᳘जमानस्य त᳘स्मादु᳘दीचीमत्या᳘कुर्वन्ति॥

मूलम् - विस्वरम्

तां यथैवादो देवा व्यह्वयन्त गन्धर्वैः; सा देवानुपावर्तत- एवमेवैनामेतद्यजमानो विह्वयते । सा यजमानमुपावर्तते । तामुदीचीमत्याकुर्वन्ति । उदीची हि मनुष्याणां दिक् । सो ऽएव यजमानस्य । तस्मादुदीचीमत्याकुर्वन्ति ॥ २२ ॥

सायणः

तां यथैवाद इति । यथा विप्रकृष्टे काले, पूर्वमित्यर्थः । ‘गन्धर्वैः’- सोमपालैः विश्वावसुप्रभृतिभिः साकं ‘व्यह्वयन्त’- विविधमाह्वयन् । गन्तव्यद्वारदक्षिणदेशस्थायाः 32 सोमक्रयण्याः उदक् प्रापणम् सार्थवादं विधत्ते- तामुदीचीमिति 33 । ‘उदीचीमत्याकुर्वन्ति’ 34 । उदङ्मुखातदेत्यध्वर्युः मुखा यन्ति- अध्वर्युप्रमुखाः । ‘सो एव’ सैव मनुष्यान्तर्वर्तित्वाद् यजमानस्यापि दिक् ॥ २२ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये तृतीयकाण्डे द्वितीयाध्याये चतुर्थं ब्राह्मणम् ॥ (३-२-४)

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ २ ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ ३ ॥

श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे द्वितीयो ऽध्यायः समाप्तः ॥ २ ॥ २ ॥

Eggeling
  1. And as the gods then wooed her with the Gandharvas, and she turned to the gods, so does the sacrificer now woo her, and she turns to the sacrificer. They lead her (the Soma-cow) northwards round (to the place where the Soma is to be sold); for the north is the quarter of men, and hence it is that of the sacrificer for this reason they lead her northwards round.

  1. 52:2 See III, 6, 2, 2 seq. ↩︎

  2. 53:1 ‘Yours (shall be) Soma, and ours Vāc, wherewith you bought (Soma) from us.’ Kāṇva text. ↩︎

  3. 53:2 The G. proclaimed the sacrifice and Veda to her, saying, ‘Thus we know the sacrifice, thus we know (the Veda); mighty are we.’ Kāṇva text. ↩︎

  4. ‘वाग्देवतोपक्षेमम्’- इ. क्व. पा. । ↩︎

  5. 53:3 ‘And hence it is to him who is given to vain things, who dances and sings, that women are most attached.’ Kāṇva text. ↩︎

  6. 53:4 Literally, ’that he may sacrifice with the arrived (guest) for his own arrival (? in the world of the gods).’ ↩︎

  7. 54:1 Lit. ‘with Soma that has not come’ (to him as a guest), so that the guest-offering (ātithya, III, 4, 1) could not take place. ↩︎

  8. 54:2 Because of this piece of gold, the offering here described is called Hiraṇyavatī-āhuti, or ‘offering with gold.’ ↩︎

  9. 54:3 See II, 1, 1, 5; 3, 1, 15. ↩︎

  10. अलग्नमिव Sây. ↩︎

  11. जूरसीति जुहोति । का. श्रौ. सू. ७ । १६१ । अस्मिन् सूत्रे कर्कः- प्रायणीयाशेषभूतद्रव्यसाध्या ऽपीयमाहुतिः सोमक्रयार्था । एवं हि श्रूयते । व्वाग्वै सोमक्रयणी निदानेन तामेतया ऽऽहुत्या प्रीणाति प्रीतया सोमं क्रीणानीति । एवं च सति उदयनीयायां न भवतीति ॥ ↩︎

  12. 54:4 The author seems to take jūḥ here as nom. of jur = gur (gr̥, gir), cf. jūrṇi. Some of the native dictionaries give jū as one of the names of Sarasvatī. The St. Petersb. Dict. takes it here in the sense of ‘drängend, treibend (pressing forward).’ ↩︎

  13. 55:1 Mano hīdaṁ purastād vācaś carati, Kāṇva text. ↩︎

  14. 55:2 To whom we send you, K. ↩︎

  15. 55:3 The concluding ceremonies of the Prāyaṇīya (see III, 2, 3, 23) are now performed; the offering of the Barhis being optional, as the barhis may be used again for the Udayanīya (ib. 22). Katy VII, 6, 11 comm. ↩︎

  16. चतुर्गृहीतं गृहीत्वा ऽन्वारभस्व यजमानेत्याह । का. श्रौ. सू. ७ । १६४ । ↩︎

  17. अपावृतद्वारे निष्क्रामतः । का. श्रौ. सू. ७ । १६५ । अपावृतद्वारे इति सप्तम्यंतम् । विमिते इति शेषः । विमित इति शालाया उपलक्षणं च । ↩︎

  18. दक्षिणेत द्वारँ सोमक्रयणी तिष्ठत्यलक्षिता ऽव्यंगा ऽप्रवीता ऽरज्जुबद्धा बभ्रुः पिंगला पिंगलाभाव ऽरुणा ऽरुणाभावे रोहिण्यश्येताक्षी । का. श्रौ. सू. ७ । १६६ । आहवनीयात्प्राक्तनं द्वारं दक्षिणत इत्यर्थः । ↩︎

  19. 56:1 According to the Kāṇvas, the Adhvaryu’s formula is,–Ihi, Yajamāna, ‘Go, Sacrificer!’ In Kāty. VII, 6, 1 2 only the above formula is mentioned. ↩︎

  20. 56:2 The eastern door is for the Adhvaryu (and Sacrificer) and the southern for the Pratiprasthātr̥. ↩︎

  21. 56:3 Soma-krayaṇī, ’the cow for which the Soma-is bought.’ ↩︎

  22. 56:4 Prahitaṁ seems to be taken here in the double sense of ‘put forward or in front’ (from pra-dhā) and despatched (from pra-hi). ↩︎

  23. चिदसीत्येनामभिमंत्रयते । का. श्रौ. सू. । ७ । १६७ ॥ ↩︎

  24. 56:5 ‘In accordance with the thought of the mind,’ manaso vai cittam anu vāg vadati, K. ↩︎

  25. 56:6 The omission of ‘asi’ in the Brāhmaṇa is curious; the Kāṇva text has correctly ‘dakshiṇāsi.’ ↩︎

  26. 56:7 Dhiyā-dhiyā, or rather ‘by means of this their respective genius (in regard to speech).’ Dhī seems to mean ’thought expressed by speech,’ hence often ‘prayer, hymn;’ cf. III, 5, 3, 11. ↩︎

  27. 56:8 Prakāmodya, rather either ‘fondness for talk’ or ’effusive speech.’ It seems to refer to story-tellers (? amusing speech). ↩︎

  28. 57:1 In Taitt. S. VI, 1, 7, 5, this epithet is explained by the fact that both the prāyaṇīya and the udayanīya belong to Aditi. ↩︎

  29. उदुत्तमं वरुण पाशमस्मदवाधमं व्वि मध्यमँ श्रथायेति माध्यन्दिनसंहिता ४ । १९ । ऋ. सं. १ । २५ । १५ ↩︎

  30. 57:2 ‘And her he thereby makes the guardian on his path,’ imām evāsmā etad adhvani goptāraṁ karoti, K. ↩︎

  31. 58:1 Rudra rules over these (cows); the cattle do not pass beyond (nātiyanti) him; and thus she does not pass beyond him: therefore he says, ‘May Rudra turn thee back!’ Kāṇva text. ↩︎

  32. ‘दक्षिणद्वारदेशस्थायाः’ इति क्व. पा. । ↩︎

  33. उदीचीन्नीयमानामनुगच्छतो व्यस्व्यसीति ७ । १६८ । ↩︎

  34. तामुदीचीमित्युदङ्नयनविधिः । उदीचीमतिक्रमणायाकुर्वंति- अभिमुखीकुर्वंति- अतिक्रमयति यजमानपुरुषाः । अध्वर्युयजमानौ त्वनुगमिष्यत इति हरिस्वामिनः । उदीचीन्नीयमानामनुगच्छतो वस्व्यसीति सूत्राशयो ऽपीदृगेवेति । ↩︎