०१
विश्वास-प्रस्तुतिः
आदित्यं᳘ चरुं᳘ प्रायणी᳘यं नि᳘र्व्वपति॥
देवा᳘ ह वा᳘ ऽअस्यां᳘ यज्ञं᳘ तन्वाना᳘ ऽइमां᳘ यज्ञा᳘दन्त᳘रीयुः सा᳘ हैषामियं᳘ यज्ञं᳘ मोहया᳘ञ्चकार कथं नु म᳘यि यज्ञं᳘ तन्वाना मां᳘ यज्ञा᳘दन्त᳘रीयुरि᳘ति त᳘ᳫँ᳘ ह यज्ञं न प्र᳘जज्ञुः॥
मूलम् - श्रीधरादि
आदित्यं᳘ चरुं᳘ प्रायणी᳘यं नि᳘र्व्वपति॥
देवा᳘ ह वा᳘ ऽअस्यां᳘ यज्ञं᳘ तन्वाना᳘ ऽइमां᳘ यज्ञा᳘दन्त᳘रीयुः सा᳘ हैषामियं᳘ यज्ञं᳘ मोहया᳘ञ्चकार कथं नु म᳘यि यज्ञं᳘ तन्वाना मां᳘ यज्ञा᳘दन्त᳘रीयुरि᳘ति त᳘ᳫँ᳘ ह यज्ञं न प्र᳘जज्ञुः॥
मूलम् - Weber
आदित्यं᳘ चरु᳘म् प्रायणी᳘यं नि᳘र्वपति॥
देवा᳘ ह वा᳘ अस्यां᳘ यज्ञं᳘ तन्वाना᳘ इमां᳘ यज्ञा᳘दन्त᳘रीयुः सा᳘ हैषामियं᳘ यज्ञ᳘म् मोहयां᳘ चकार कथं नु म᳘यि यज्ञं᳘ तन्वाना मां᳘ यज्ञा᳘दन्त᳘रीयुरि᳘ति तᳫं ह यज्ञं न प्र᳘जज्ञुः॥
मूलम् - विस्वरम्
अथ प्रायणीयेष्टिः ।
प्रायणीयदेवताविधिः ।
आदित्यं चरुं प्रायणीयं निर्वपति । देवा ह वा अस्यां यज्ञं तन्वाना इमां यज्ञादन्तरीयुः । सा हैषामियं यज्ञं मोहयाञ्चकार- कथं नु मयि यज्ञं तन्वाना मां यज्ञादन्तरीयुरिति । तं ह यज्ञं न प्रजज्ञुः ॥ १ ॥
सायणः
एवं वाग्यमनादयो दीक्षितधर्मा उक्ताः; अवशिष्टासु दीक्षणीयासु 1 अनुष्ठेयां प्रायणीयेष्टिं संविधत्ते- (का. श्रौ. सू. ७ । १४०) 2- आदित्यं चरुं प्रायणीयं निर्वपतीति । अदितिर्देवता अस्येति आदित्यः; न त्वादित्यो देवता अस्येति; उत्तरत्रादितेः संस्तूयमानत्वात् । “दित्यदित्यादित्य”- इति सा ऽस्य देवतेत्यर्थे प्राग्दीव्यतीयो ण्यः (पां. सू. ४ । २ । २४; ४ । ६ । ८३-८५) प्रैति प्रारभत अनेन सौमिकं कर्मेति प्रायणीयः । तथा च तैत्तिरीयकम् 3- “स्वर्गं वा एतेन लोकमुपप्रयन्ति यत् प्रायणीयस्तत् प्रायणीयस्य प्रायणीयत्वम्”- (तै. ब्रा. १ । २ । १) इति । अत्र तद्धितश्रुत्यवगतद्रव्यदेवतानुबन्धान्यथानुपपत्त्या यागे परिकल्प्ये सति इतराङ्गत्वाञ्चोदकप्राप्तस्य निर्वापस्य निर्वपतिरनुवादः, “सौर्यं चरुं निर्वपेत्”- इतिवत् । न च द्रव्यदेवतयोरुभयोरपि विधाने विधेयद्वैविध्याद् वाक्यभेद इति वाच्यम् । कर्मणो ऽप्राप्तत्वेन तदुभयविशिष्टस्य तस्यैव विधेयत्वात् । यत् “आग्नेयो ऽष्टाकपालः” इत्युक्तं तद्वदेव द्रव्यदेवताविशिष्टस्य विधानादेकवाक्यतेति । अत्र कात्यायनः- “दीक्षान्ते प्रायणीयमदित्यै चरुं निर्वपति” इति (का. श्रौ. सू. ७-१४०) उक्तमदितिदेवताकत्वमाख्यायिकया प्रतिपादयितुं स्तुतिः । तदुपोद्घातत्वेन तया कृतं मोहमुपन्यस्यति- देवा ह वा इत्यादिना । यज्ञं तन्वाना इत्यादि । अत्रेदमा संनिहितवस्तुवर्णनात्सर्वदा सर्वजनसन्निहिता पृथिवी परामृश्यते । ‘अस्यां’ पृथिव्यां यज्ञं विस्तारयन्तो ‘देवाः’, ‘इमाम्’ पृथिवी ‘यज्ञात्’ ‘अन्तरीयुः’ अन्तरितां भागरहिताम् अकुर्वन् । ‘सा’ ‘इयम्’ पृथिवी ‘एषाम्’ देवानाम् ‘यज्ञं मोहयाञ्चकार’ यज्ञविषयं मोहं जनयामास, यज्ञो यथा देवैर्न ज्ञायते तथा कृतवतीत्यर्थः । कथन्नु मयीत्यादि, तस्या अभिप्रायवर्णनम् । एवं मोहने सति ते च देवास्तं यज्ञं न प्रज्ञातवन्तः ॥ १ ॥
Eggeling
- He prepares the Prāyaṇīya rice-pap for Aditi. Now while the gods were spreading (performing) the sacrifice on this (earth) they excluded her (the earth) from the sacrifice. She thought, ‘How is it that, in spreading the sacrifice on me, they should exclude me from the sacrifice?’ and confounded their sacrifice: they knew not that sacrifice.
०२
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘ होचुः॥
(र्य᳘) य᳘न्न्वस्या᳘मेव᳘[[!!]] यज्ञम᳘तᳫं᳭स्महि कथं नु᳘ नो ऽमुहत्कथं न प्र᳘जानीम इ᳘ति॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ होचुः॥
(र्य᳘) य᳘न्न्वस्या᳘मेव᳘[[!!]] यज्ञम᳘तᳫं᳭स्महि कथं नु᳘ नो ऽमुहत्कथं न प्र᳘जानीम इ᳘ति॥
मूलम् - Weber
ते᳘ होचुः॥
यन्न्व᳘स्या᳘मेव᳘ यज्ञम᳘तंस्महि कथं नु᳘ नो ऽमहत्कथं न प्र᳘जानीम इ᳘ति॥
मूलम् - विस्वरम्
ते होचुः- यन्न्वस्यामेव यज्ञमतंस्महि- कथं नु नो ऽमुहत्- कथं न प्रजानीम इति ॥ २ ॥
सायणः
तदनन्तरं देवैर्विचारपुरःसरं तदप्रज्ञानकारणं निर्णीतम्, तद्दर्शयति- ते होचुरिति । अतंस्महीति । अतनिष्महे, तननमकार्ष्मेत्यर्थः । “तनु विस्तारे”- (धा. पा. त. उ. १) इत्यस्माल्लुङि च्छान्दस इडभावः । ‘कथं नु’ केन खलु कारणेन ‘नः’ अस्माकं यज्ञः ‘अमुहत्’ मुग्धः, अदृश्यो ऽभूदित्यर्थः । लुङि पुषादित्वादङ् (पा. सू. १ । १ । ५५) ॥ २ ॥
Eggeling
- They said, ‘How comes it that our sacrifice was confounded, when we spread it on this (earth)? how is it that we know it not?’
०३
विश्वास-प्रस्तुतिः
ते᳘ होचुः॥
(र) अस्या᳘मेव᳘ यज्ञं᳘ तन्वाना᳘ ऽइमां᳘ यज्ञा᳘दन्त᳘रगाम सा᳘ न ऽइय᳘मेव᳘ यज्ञ᳘ममूमुहदिमा᳘मेवो᳘पधावामे᳘ति॥
मूलम् - श्रीधरादि
ते᳘ होचुः॥
(र) अस्या᳘मेव᳘ यज्ञं᳘ तन्वाना᳘ ऽइमां᳘ यज्ञा᳘दन्त᳘रगाम सा᳘ न ऽइय᳘मेव᳘ यज्ञ᳘ममूमुहदिमा᳘मेवो᳘पधावामे᳘ति॥
मूलम् - Weber
ते᳘ होचुः॥
अस्या᳘मेव᳘ यज्ञं᳘ तन्वाना᳘ इमां᳘ यज्ञा᳘दन्त᳘रगाम सा᳘ न इय᳘मेव᳘ यज्ञ᳘ममूमुहदिमा᳘मेवो᳘पधावामे᳘ति॥
मूलम् - विस्वरम्
ते होचुः- अस्यामेव यज्ञं तन्वाना इमां यज्ञादन्तरगाम, सा न इयमेव यज्ञममूमुहत्, इमामेवोपधावामेति ॥ ३ ॥
सायणः
ते होचुरिति । अन्तरगामेति । अन्तरितामकृष्महि “इणो गा लुङि”- (पा. सू. २ । ४ । ४५) इति गादेशः । “गातिस्था”- (पा. सू. २ । ४ । ७७) इति सिचो लुक् । सा न इति । ‘सा’ ‘इयम्’ पृथिवी ‘एव’ कृतापराधानां ‘नः’ अस्माकं ‘यज्ञम् अमूमुहत्’ यज्ञविषयं मोहमज्ञानं प्रापयदित्यर्थः । मोहयतेर्लुङि- “णिश्रिद्रुस्रुभ्यः”- (पा. सू. ३ । १ । ४८) इति च्लेश्चङादेशः । ‘इमामेव’ पृथिवीम् ‘उपधावाम’ क्लृप्तेन हविर्भागेनोपगच्छामेत्यर्थः ॥ ३ ॥
Eggeling
- They said, ‘In spreading the sacrifice on her, we have excluded her from the sacrifice: it is she that has confounded our sacrifice,–let us have recourse to her!’
०४
विश्वास-प्रस्तुतिः
ते᳘ होचुः॥
(र्य) यन्नु᳘ त्व᳘य्येव᳘ यज्ञम᳘तᳫं᳭स्महि कथं नु᳘ नो ऽमुहत्कथं न प्र᳘जानीम इ᳘ति॥
मूलम् - श्रीधरादि
ते᳘ होचुः॥
(र्य) यन्नु᳘ त्व᳘य्येव᳘ यज्ञम᳘तᳫं᳭स्महि कथं नु᳘ नो ऽमुहत्कथं न प्र᳘जानीम इ᳘ति॥
मूलम् - Weber
ते᳘ होचुः॥
यन्नु त्व᳘य्येव᳘ यज्ञम᳘तंस्महि कथं नु᳘ नो ऽमुहत्कथं न प्र᳘जानीम इ᳘ति॥
मूलम् - विस्वरम्
ते होचुः- यन्नु त्वय्येव यज्ञमतंस्महि, कथं नु नो ऽमुहत्, कथं न प्रजानीम इति ॥ ४ ॥
सायणः
ते होचुरिति । ‘यत्’ यस्मात् हे अदिते ! त्वय्येव यज्ञमतंस्महि ! ‘कथं नु’ कस्मात् कारणात् ‘नः’ अस्माकम् यज्ञः ‘अमुहत्’ मोहविषयो ऽभूत्, वयं च किंकारणं ‘न प्रजानीमः’ । ‘इति’- शब्दः प्रश्नसमाप्तौ ॥ ४ ॥
Eggeling
- They said, ‘When we were spreading the sacrifice on thee, how was it that it became confounded, that we know it not?’
०५
विश्वास-प्रस्तुतिः
सा᳘ होवाच॥
म᳘य्येव᳘ यज्ञं᳘ तन्वाना मां᳘ यज्ञा᳘दन्त᳘रगात सा᳘ वो ऽह᳘मेव᳘ यज्ञ᳘ममूमुहं भागं नु᳘ मे कल्पयता᳘थ यज्ञं᳘ द्रक्ष्यथा᳘थ प्र᳘ज्ञास्यथे᳘ति॥
मूलम् - श्रीधरादि
सा᳘ होवाच॥
म᳘य्येव᳘ यज्ञं᳘ तन्वाना मां᳘ यज्ञा᳘दन्त᳘रगात सा᳘ वो ऽह᳘मेव᳘ यज्ञ᳘ममूमुहं भागं नु᳘ मे कल्पयता᳘थ यज्ञं᳘ द्रक्ष्यथा᳘थ प्र᳘ज्ञास्यथे᳘ति॥
मूलम् - Weber
सा᳘ होवाच॥
म᳘य्येव᳘ यज्ञं᳘ तन्वाना मां᳘ यज्ञा᳘दन्त᳘रगात सा᳘ वो ऽह᳘मेव᳘ यज्ञ᳘ममूमुहम् भागं नु᳘ मे कल्पयता᳘थ यज्ञं द्रक्ष्यथा᳘थ प्र᳘ज्ञास्यथे᳘ति॥
मूलम् - विस्वरम्
सा होवाच- मय्येव यज्ञं तन्वाना मां यज्ञादन्तरगात, सा वो ऽहमेव यज्ञममूमुहम्, भागं नु मे कल्पयत- अथ यज्ञं द्रक्ष्यथ- अथ प्रज्ञास्यथेति ॥ ५ ॥
सायणः
सा होवाचेत्यादि । हे देवाः ! यूयं ‘मां’ यज्ञात् ‘अन्तरगात’ अन्तरितां भागरहितां मा कृतवन्तः । यत एवम् अतः कारणात् ‘अहमेव’ ‘वः’ युष्माकम् ‘यज्ञम्’ ‘अमूमुहम्’ मोहं प्रापयम् । येन भागेन ‘यज्ञम्’ ‘द्रक्ष्यथ,’ तं ‘भागम्’ मदर्थं कल्पयत । ‘अथ’ अनन्तरम् । एवं मोहापसरणाद् यज्ञं द्रक्ष्यथ; यदा चैवं दर्शनविषयो यज्ञो जातः, अथानन्तरं तं प्रकर्षेण ज्ञास्यथेति सम्बन्धः ॥ ५ ॥
Eggeling
- She said, ‘While spreading the sacrifice on me, ye have excluded me from the sacrifice: that was why I have confounded your sacrifice. Set ye aside a share for me; then ye shall see the sacrifice, then ye shall know it!’
०६
विश्वास-प्रस्तुतिः
तथे᳘ति देवा᳘ अब्रुवन्॥
(वंस्त᳘) त᳘वैव᳘ प्रायणी᳘यस्त᳘वोदयनी᳘य इ᳘ति त᳘स्मादेष᳘ आदित्य᳘ ऽएव᳘ प्रायणी᳘यो भ᳘वत्यादित्य᳘ ऽउदयनी᳘य ऽइय᳘ᳫं᳘[[!!]] ह्येवा᳘दितिस्त᳘तो यज्ञ᳘मपश्यंस्त᳘मतन्वत॥
मूलम् - श्रीधरादि
तथे᳘ति देवा᳘ अब्रुवन्॥
(वंस्त᳘) त᳘वैव᳘ प्रायणी᳘यस्त᳘वोदयनी᳘य इ᳘ति त᳘स्मादेष᳘ आदित्य᳘ ऽएव᳘ प्रायणी᳘यो भ᳘वत्यादित्य᳘ ऽउदयनी᳘य ऽइय᳘ᳫं᳘[[!!]] ह्येवा᳘दितिस्त᳘तो यज्ञ᳘मपश्यंस्त᳘मतन्वत॥
मूलम् - Weber
तथे᳘ति देवा अब्रुवन्॥
त᳘वैव᳘ प्रायणी᳘यस्त᳘वोदयनी᳘य इ᳘ति त᳘स्मादेष᳘ आदित्य᳘ एव᳘ प्रायणी᳘यो भ᳘वत्यादित्य᳘ उदयनी᳘य इॗयᳫं ह्येवा᳘दितिस्त᳘तो यज्ञ᳘मपश्यंस्त᳘मतन्वत॥
मूलम् - विस्वरम्
तथेति देवा अब्रुवन् । तवैव प्रायणीयस्तवोदयनीय इति । तस्मादेष आदित्य एव प्रायणीयो भवति- आदित्य उदयनीयः । इयं ह्येवादितिः (१) । ततो यज्ञमपश्यन्- तमतन्वत ॥ ६ ॥
सायणः
एवमदितिदेवतयोक्तैर्देवैः कृतां भागक्लृप्तिं दर्शयति- तथेति । देवा इत्यादि । प्रायणीयोदयनीयाख्यौ सोमयागस्य पुरस्तादुपरिष्टाच्चानुष्ठेयौ यागौ तव भागत्वेनास्माभिर्दत्तावित्यर्थः । उपपादितमर्थमुपसंहरति- तस्मादेव इति । अत्रोदनीययागस्यादितिदेवताकत्वप्रतिपादनं प्रासङ्गिकम् । ननु देवा ह वा अस्यामित्यादौ (श. प. ब्रा. ३ । २ । ३ । १) ‘इदं’ शब्देन पृथिवी निर्दिष्टा, तत् कथमदितेर्देवतात्ववर्णनमित्यत आह- इयं ह्येवादितिरिति । दितिः खण्डनं न विद्यते ऽस्यामिति व्युत्पत्तेः ‘इयमेव’ पृथिवी ‘अदिति’- शब्दवाच्या । अत एव पृथिवीनामसु यास्केन परिपठितम्- “अदितिः इला निर्ऋतिः” इति (नि. घ. १ । १४ । १५ । १६) । अत एव तैत्तिरीयके 4- “इयं वा अदितिः”- इति । यत्तूपरिष्टात् ‘अदिति’- शब्दस्य निर्वचनमाम्नास्यते “स यद्यदेवासृजत तत्तदत्तुमध्रियत, सर्वं वा अत्तीति तददितेरदितित्वम्-” (श. प. ब्रा. १० । ६ । ५ । ५) इति तत्सृष्ट्यादिकारणेन ब्रह्मविषयम् । स्वात्मनि जातमोषधिवनस्पत्यादिकं पार्थिवं सर्वमत्तीत्यदितिरिति योजनीयम् । एवमदितियागे सति देवानां यज्ञप्राप्तिर्जातेत्याह- ततो यज्ञमपश्यंस्तमतन्वतेति । ‘ततः’ तस्मात्, अदितेर्हविर्भागकल्पनात् 5 । स्पष्टमन्यत् ॥ ६ ॥
Eggeling
- ‘So be it!’ said the gods: ‘Thine, forsooth, shall be the opening (prāyaṇīya 6), and thine the concluding (udayanīya) oblation!’ This is why both the Prāyaṇīya and the Udayanīya (pap) belong
to Aditi; for Aditi truly is this (earth). Thereupon they saw and spread the sacrifice.
०७
विश्वास-प्रस्तुतिः
स य᳘दादित्यं᳘ चरुं᳘ प्रायणी᳘यं निर्व्व᳘पति॥
यज्ञ᳘स्यैव दृ᳘ष्ट्यै यज्ञं᳘ दृष्ट्वा᳘ क्रीणानि तं᳘ तनवा ऽइ᳘ति त᳘स्मादादित्यं᳘ चरुं᳘ प्रायणी᳘यं नि᳘र्व्वपति तद्वै नि᳘रुप्तᳫँ᳭ हविरा᳘सीद᳘निष्टा देवता᳘[[!!]]॥
मूलम् - श्रीधरादि
स य᳘दादित्यं᳘ चरुं᳘ प्रायणी᳘यं निर्व्व᳘पति॥
यज्ञ᳘स्यैव दृ᳘ष्ट्यै यज्ञं᳘ दृष्ट्वा᳘ क्रीणानि तं᳘ तनवा ऽइ᳘ति त᳘स्मादादित्यं᳘ चरुं᳘ प्रायणी᳘यं नि᳘र्व्वपति तद्वै नि᳘रुप्तᳫँ᳭ हविरा᳘सीद᳘निष्टा देवता᳘[[!!]]॥
मूलम् - Weber
स य᳘दादित्यं᳘ चरु᳘म् प्रायणी᳘यं निर्व᳘पति॥
यज्ञ᳘स्यैव दृ᳘ष्ट्यै यज्ञं᳘ दृष्ट्वा᳘ क्रीणानि तं᳘ तनवा इ᳘ति त᳘स्मादादित्यं᳘ चरु᳘म् प्रायणी᳘यं नि᳘र्वपति तद्वै नि᳘रुप्तᳫं हविरा᳘सीद᳘निष्टा देव᳘ता॥
मूलम् - विस्वरम्
स यदादित्यं चरुं प्रायणीयं निर्वपति । यज्ञस्यैव दृष्ट्यै । यज्ञं दृष्ट्वा क्रीणानि- तं तनवा इति । तस्मादादित्यं चरुं प्रायणीयं निर्वपति । तद्वै निरुप्तं हविरासीत् । अनिष्टा देवता ॥ ७ ॥
सायणः
अनया ऽऽख्यायिकया प्रायणीयस्य चरोर्यज्ञदर्शनहेतुत्वमुपपाद्य प्रकृते योजयति- स यदिति । यदेतत् प्रायणीययागस्यानुष्ठानं तद् व्यामोहविषयतामापन्नस्य कृत्स्नस्य ‘यज्ञस्यैव’ दर्शनाय सम्पद्यते । तद्दर्शनमपि किमर्थमित्यत आह- यज्ञं दृष्ट्वेति । सोमसाध्यं ‘यज्ञम्’ प्रथमं ‘दृष्ट्वा,’ पश्चात्तत्साधनं सोमं ‘क्रीणानि’ सोमविक्रयिणः सकाशात्,- “तं वै ते क्रीणानि” इत्यादिवक्ष्यमाणप्रकारेण, (श. प. ब्रा. ३ । ३ । ३ । १) स्वीकरवाणि । तेन च क्रीतेन सोमेन ‘तं’ सोमसाध्यं यज्ञं ‘तनवै’ विस्तारयाणि । ‘इति’- शब्दो वाक्यसमाप्तौ । एवं यज्ञदर्शनस्य सप्रयोजनतां प्रतिपाद्य तद्धेतुभूतं प्रायणीययागं निगमयति- तस्मादादित्यमिति । एवं प्रायणीयेष्टौ चरुसाध्यमादित्ययागं विधायान्यांश्चतुरो यागान् विधित्सुस्तेषां कालमाह- तद्वा इत्यादि । निरुप्तमिति, हविःसंस्कारोपलक्षणम् । आदित्यस्य हविषो निर्वापप्रोक्षणाद्यासादनान्ताः संस्काराः कृता भवेयुः । प्रधानदेवता च ‘अनिष्टा’ अकृतयागा भवति । तस्मिन् काले वक्ष्यमाणाश्चतस्रो देवता यष्टव्या इत्यर्थः (ऐ. ब्रा. १ । २ । ९) ॥ ७ ॥
Eggeling
- Hence, when he prepares the Prāyaṇīya rice-pap for Aditi, he does so for the purpose of his seeing the sacrifice: ‘After seeing the sacrifice I shall buy (the Soma) and spread that (sacrifice);’ thus thinking he prepares the Prāyaṇīya pap for Aditi. The sacrificial food had been prepared, but offering had not yet been made to the deity (Aditi),–
०८
विश्वास-प्रस्तुतिः
(ता᳘ ऽ) अ᳘थैभ्यः प᳘थ्या स्वस्तिः प्रा᳘रोचत॥
ता᳘मयजन्वाग्वै᳘ प᳘थ्या स्वस्तिर्व्वाग्यज्ञस्त᳘द्यज्ञ᳘मपश्यंस्त᳘मतन्वत॥
मूलम् - श्रीधरादि
(ता᳘ ऽ) अ᳘थैभ्यः प᳘थ्या स्वस्तिः प्रा᳘रोचत॥
ता᳘मयजन्वाग्वै᳘ प᳘थ्या स्वस्तिर्व्वाग्यज्ञस्त᳘द्यज्ञ᳘मपश्यंस्त᳘मतन्वत॥
मूलम् - Weber
अ᳘थैभ्यः पॗथ्या स्वस्तिः प्रा᳘रोचत॥
ता᳘मयजन्वाग्वै᳘ पॗथ्या स्वस्तिर्वा᳘ग्यज्ञस्त᳘द्यज्ञ᳘मपश्यंस्त᳘मतन्वत॥
मूलम् - विस्वरम्
अथैभ्यः पथ्या स्वस्तिः प्रारोचत (२) । तामयजन् । वाग् वै पथ्या स्वस्तिः । वाग् यज्ञः । तद् यज्ञमपश्यन् । तमतन्वत ॥ ८ ॥
सायणः
अथ तान् यागान् पूर्ववदाख्यायिकया विधित्सुस्तत्र प्रथमयागस्य विधिमर्थवादेनोन्नयति- अथैभ्य इति । अथेत्याज्यभागानन्तर्ये । ननु प्रायणीयायामाज्यभागौ न स्तः, अत एवाश्वलायनो ऽप्यसूत्रयत्- “शंय्वन्तेयमनाज्यभागा” इति (आश्व. श्रौ. सू. ४ । ३ । २ । ३) । अस्येवानाज्यभागपक्षस्य लिङ्गमापस्तम्बेनापि दर्शितम्- “स्विष्टकृतं षष्ठम्” इति (आ. श्रौ. सू. १० । २१ । १२) । यदि ह्याज्यभागौ स्यातां तदा पथ्यास्वस्त्यादयः पञ्चेति स्विष्टकृदष्टमः स्यात् । नैष दोषः; वाजसनेयिशाखान्तराभिप्रायेणाज्यभागसद्भावात् । अत एवं कात्यायनेन सूत्रितम्- “आज्यभागाविष्ट्वा ऽऽज्येन देवताश्चतस्रो 7 यजति, पथ्यां स्वस्तिमग्निं सोमं सवितारञ्च” 8- (का. श्रौ. सू. ७ । १४१) इति । पथ्या स्वस्तिरिति । ‘एभ्यः’ इति “रुच्यर्थानां प्रीयमाणः” (पा. सू. १ । ४ । ३३) इति चतुर्थी । ते च देवाः ‘ताम्’ ‘पथ्यां स्वस्तिम्’ ‘अयजन्’ । मन्त्ररूपा वाक् एव ‘पथ्या स्वस्तिः’- इत्युच्यते । पथो ऽनपेता ‘पथ्या’ । “धर्मपंथ्यर्थन्यायादनपेते”- (पा. सू. ४ । ४ । ९२) इति यत् । ‘स्वस्तिः’ शोभनरूपेति । ‘पथ्या-स्वस्ति’- शब्दनिर्वचनस्य वाचि सम्भवात् (निरु. ११ । ४ । ११) । सा च वाग् यज्ञात्मिका । अतस्तस्या दर्शनेन ‘यज्ञम्’ एव ‘अपश्यन्’ । एवं पुरावृत्तप्रतिपादनेन पथ्या स्वस्तिः प्रथमं यष्टव्येति प्रतिपादितं भवति ॥ ८ ॥
Eggeling
- When Pathyā Svasti 9 appeared to them. They offered to her, for Pathyā Svasti (the wishing of ‘a happy journey’) is speech, and the sacrifice also is speech. Thereby they perceived the sacrifice and spread it.
०९
विश्वास-प्रस्तुतिः
(ता᳘ ऽ) अ᳘थैभ्यो ऽग्निः प्रा᳘रोचत॥
त᳘मयजन्त्स य᳘दाग्नेयं᳘ यज्ञस्या᳘सीत्त᳘दपश्यन्यद्वै शु᳘ष्कं यज्ञ᳘स्य त᳘दाग्नेयं त᳘दपश्यंस्त᳘दतन्वत॥
मूलम् - श्रीधरादि
(ता᳘ ऽ) अ᳘थैभ्यो ऽग्निः प्रा᳘रोचत॥
त᳘मयजन्त्स य᳘दाग्नेयं᳘ यज्ञस्या᳘सीत्त᳘दपश्यन्यद्वै शु᳘ष्कं यज्ञ᳘स्य त᳘दाग्नेयं त᳘दपश्यंस्त᳘दतन्वत॥
मूलम् - Weber
अ᳘थैभ्यो ऽग्निः सा᳘रोचत॥
त᳘मयजन्त्स य᳘दाग्नेयं᳘ यज्ञस्या᳘सीत्त᳘दपश्यन्यद्वै शु᳘ष्कं यज्ञ᳘स्य त᳘दाग्नेयं त᳘दपश्यंस्त᳘दतन्वत॥
मूलम् - विस्वरम्
अथैभ्यो ऽग्निः प्रारोचत (३) । तमयजन् । स यदाग्नेयं यज्ञस्यासीत्- तदपश्यन् । यद्वै शुष्कं यज्ञस्या तदाग्नेयम् । तदपश्यन्, तदतन्वत ॥ ९ ॥
सायणः
अथाग्नेयस्य द्वितीययागस्य विधिमुन्नयति- अथैभ्यो ऽग्निरिति । ‘आग्नेयम्’- इति सामान्योक्तस्य विवरणम्- यद्वै शुष्कमिति । यत् खलु यज्ञसम्बन्धि ‘शुष्कम्’ नीरसं समिदादि द्रव्यम्, ‘तद् आग्नेयम्’ अन्यत् समानं पूर्वेण ॥ ९ ॥
Eggeling
- Thereupon Agni appeared to them: they offered to him; whereby they perceived that part of the sacrifice which was of Agni’s nature. Now of Agni’s nature is what is dry in the sacrifice: that they thereby perceived and spread.
१०
विश्वास-प्रस्तुतिः
(ता᳘ ऽ) अ᳘थैभ्यः सो᳘मः प्रा᳘रोचत॥
त᳘मयजन्त्स य᳘त्सौम्यं᳘ यज्ञस्या᳘सीत्त᳘दपश्यन्यद्वा᳘ ऽआर्द्रं᳘ यज्ञ᳘स्य त᳘त्सौम्यं त᳘दपश्यंस्त᳘दतन्वत॥
मूलम् - श्रीधरादि
(ता᳘ ऽ) अ᳘थैभ्यः सो᳘मः प्रा᳘रोचत॥
त᳘मयजन्त्स य᳘त्सौम्यं᳘ यज्ञस्या᳘सीत्त᳘दपश्यन्यद्वा᳘ ऽआर्द्रं᳘ यज्ञ᳘स्य त᳘त्सौम्यं त᳘दपश्यंस्त᳘दतन्वत॥
मूलम् - Weber
अ᳘थैभ्यः सो᳘मः प्रा᳘रोचत॥
त᳘मयजन्त्स य᳘त्सौम्यं᳘ यज्ञस्या᳘सीत्त᳘दपश्यन्यद्वा᳘ आर्द्रं᳘ यज्ञ᳘स्य त᳘त्सौम्यं त᳘दपश्यंस्त᳘दतन्वत॥
मूलम् - विस्वरम्
अथैभ्यः सोमः प्रारोचत (४) । तमयजन् । स यत्सौम्यं यज्ञस्यासीत्- तदपश्यन् । यद्वा आर्द्रं यज्ञस्य- तत्सौम्यम् । तदपश्यन्, तदन्वत ॥ १० ॥
सायणः
अथ सौम्यस्य तृतीययागस्य विधिमुन्नयति- अथैभ्यः सोम इति । स यदिति । सर्वत्र तच्छन्दः प्रसिद्धिद्योतकः । ‘सौम्यम्’ सोमदेवत्यम् । “सोमाट्ट्यण्”- (पा. सू. ४ । २ । ३) । ‘यत्’ खलु यज्ञसम्बन्धि ‘आर्द्रम्’ रसयुक्तम् सोमादिद्रव्यम् ‘तत् सौम्यम्’ शुष्कार्द्रयोर्ह्यग्नीषोमावभिमानिदेवते । एतच्च प्रागप्याम्नातम्- “द्वयं वा इदं न तृतीयमस्त्यार्द्रञ्चैव शुष्कञ्च”- (श. प. ब्रा. १ । ६ । ३ । २३ भाष्ये) इत्यादिना ॥ १० ॥
Eggeling
- Then Soma appeared to them: they offered to him; whereby they perceived that part of the sacrifice which was of Soma’s nature. Now of Soma’s nature is what is moist in the sacrifice: that they thereby perceived and spread.
११
विश्वास-प्रस्तुतिः
(ता᳘ ऽ) अ᳘थैभ्यः सविता प्रा᳘रोचत॥
त᳘मयजन्पश᳘वो वै᳘ सविता᳘ पश᳘वो यज्ञस्त᳘द्यज्ञ᳘मपश्यंस्त᳘मतन्वता᳘थ य᳘स्यै देव᳘तायै हविर्नि᳘रुप्तमा᳘सीत्ता᳘मयजन्॥
मूलम् - श्रीधरादि
(ता᳘ ऽ) अ᳘थैभ्यः सविता प्रा᳘रोचत॥
त᳘मयजन्पश᳘वो वै᳘ सविता᳘ पश᳘वो यज्ञस्त᳘द्यज्ञ᳘मपश्यंस्त᳘मतन्वता᳘थ य᳘स्यै देव᳘तायै हविर्नि᳘रुप्तमा᳘सीत्ता᳘मयजन्॥
मूलम् - Weber
अ᳘थैभ्यः सविता प्रा᳘रोचत॥
त᳘मयजन्पश᳘वो वै᳘ सविता᳘ पश᳘वो यज्ञस्त᳘द्यज्ञ᳘मपश्यंस्त᳘मतन्वता᳘थ य᳘स्यै देव᳘तायै हविर्नि᳘रुप्तमा᳘सोत्ता᳘मयजन्॥
मूलम् - विस्वरम्
अथैभ्यः सविता प्रारोचत (५) । तमयजन् । पशवो वै सविता । पशवो यज्ञः । तद् यज्ञमपश्यन् । तमतन्वत । अथ यस्यै देवतायै हविर्निरुप्तमासीत्- तामयजन् ॥ ११ ॥
सायणः
अथ सावित्रस्य चतुर्थयागस्य विधिमुन्नयति- अथैभ्यः सवितेति । सवितु: प्रेरकत्वात् पशूनां च तत्प्रेर्यत्वात् प्रेर्यप्रेरकयोरभेदं विवक्षित्वा ‘सविता पशवः’- इति तादात्म्यव्यपदेशः । सवितुश्च पशुप्रेरकत्वं- “देवो वः सविता प्रार्पयतु” इति (वा. सं. १ । १ । ४) मन्त्रवर्णादवगम्यते । ते च पशवो हृदयाद्यवदानद्वारेण पयःप्रभृतिद्रव्यापादानत्वेन च यज्ञात्मकाः । यस्मादेवं चतसृभिर्देवताभिर्देवाः कृत्स्नं यज्ञमपश्यम्, दृष्ट्वा चाकुर्वन्, तस्मादिमाश्चतस्रो देवताश्चिकीर्षितयज्ञस्य प्रथमत आज्येन यष्टव्या इति समुदायार्थः । एवमाज्यहविष्काश्चतुरः प्रधानयागान् 10 कृत्वा प्रथमनिरुप्तेन हविषा अदितिर्यष्टव्येत्याह- अथ यस्यै देवताया इति । यस्मादेवं देवा पञ्चमीमदितिमयजन् तस्मादिदानीन्तनो ऽपि यजमानो यागसमये अदितियागं पञ्चमं कुर्यादित्यर्थः ॥ ११ ॥
Eggeling
- Then Savitr̥ appeared to them: they offered to him. Now Savitr̥ represents cattle, and the sacrifice also means cattle: hence they thereby perceived and spread the sacrifice. Thereupon they offered to the deity (Aditi), for whom the sacrificial food had been prepared.
१२
विश्वास-प्रस्तुतिः
(जंस्ता) ता वा᳘ ऽएताः[[!!]]॥
प᳘ञ्च देव᳘ता यजति यो वै स᳘ यज्ञो᳘ मुग्ध ऽआ᳘सीत्पा᳘ङ्क्तो वै स᳘ ऽआसीत्त᳘मेता᳘भिः पञ्चभिर्देव᳘ताभिः[[!!]] प्रा᳘जानन्॥
मूलम् - श्रीधरादि
(जंस्ता) ता वा᳘ ऽएताः[[!!]]॥
प᳘ञ्च देव᳘ता यजति यो वै स᳘ यज्ञो᳘ मुग्ध ऽआ᳘सीत्पा᳘ङ्क्तो वै स᳘ ऽआसीत्त᳘मेता᳘भिः पञ्चभिर्देव᳘ताभिः[[!!]] प्रा᳘जानन्॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
प᳘ञ्च देव᳘ता यजति यो वै स᳘ यज्ञो᳘ मुग्ध आ᳘सीत्पा᳘ङ्क्तो वै स᳘ आसीत्त᳘मेता᳘भिः पञ्च᳘भिर्देव᳘ताभिः प्रा᳘जानन्॥
मूलम् - विस्वरम्
ता वा एताः पञ्च देवता यजति । यो वै स यज्ञो मुग्ध आसीत्- पाङ्क्तो वै स आसीत् । तमेताभिः पञ्चभिर्देवताभिः प्राजानन् ॥ १२ ॥
सायणः
पञ्चसङ्ख्यामनूद्य प्रशंसति- ता वा इति । ‘एताः’ पथ्यास्वस्त्याद्याः । ‘मुग्ध आसीत्’ मोहविषयो ऽभवदित्यर्थः । अस्तेर्हि लङि “अस्तिसिचो ऽपृक्ते” (पा. सू. ७ । ३ । ९६) इतीट् । पाङ्क्तो वा इति । पञ्चपदा पंक्तिः तद्वाचिना पंक्तिशब्देन पञ्चसंख्या लक्ष्यते, तद्योगाद् ‘यज्ञः पांक्तः’ । तद्योगश्च तैत्तिरीयके स्पष्टमाम्नातः- “धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पंक्तिराप्यते, तद् यज्ञस्य पांक्तत्वम्”- (तै. सं. ६ । ५ । ११ । ५) ऐतरेयके तु तत् पांक्तत्वम् “यो वै यज्ञं हविष्पंक्तिं वेद”- (ऐ. ब्रा. २ । ३ । ६) इत्यादिना बहुश आम्नातम् ॥ १२ ॥
Eggeling
- It is to these same five deities, then, that he offers. For that sacrifice, when thrown into disorder,
was in five parts; and by means of those five deities they recognised it.
१३
विश्वास-प्रस्तुतिः
(न्नृ) ऋत᳘वो मुग्धा᳘ ऽआसन्प᳘ञ्च॥
ता᳘नेता᳘भिरेव᳘ पञ्च᳘भिर्देव᳘ताभिः प्रा᳘जानन्॥
मूलम् - श्रीधरादि
(न्नृ) ऋत᳘वो मुग्धा᳘ ऽआसन्प᳘ञ्च॥
ता᳘नेता᳘भिरेव᳘ पञ्च᳘भिर्देव᳘ताभिः प्रा᳘जानन्॥
मूलम् - Weber
ऋत᳘वो मुग्धा᳘ आसन्प᳘ञ्च॥
ता᳘नेता᳘भिरेव᳘ पञ्चभिर्देव᳘ताभिह् प्रा᳘जानन्॥
मूलम् - विस्वरम्
ऋतवो मुग्धा आसन पञ्च- तानेताभिरेव पञ्चभिर्देवताभिः प्राजानन् ॥ १३ ॥
सायणः
ऋतुपरिज्ञानहेतुत्वादपि तां पञ्चसङ्ख्यां प्रशंसति- ऋतवो मुग्धा इति । हेमन्तशिशिरावेकीकृत्य ऋतूनां पञ्चत्वम् । तथा चैतरेयकं प्रागुदाहृतम्- “हेमन्तशिशिरयोः समासेन” इति (ऐ. ब्रा. १ । १ । १) । ऋतुपरिज्ञानाभावे हि वसन्तादिकालसाध्यो यज्ञो विकलः स्यात् । अतस्तत्परिहारायैतद्यागपञ्चकानुष्ठानमिति स्तुतिः ॥ १३ ॥
Eggeling
- The seasons became confounded, the five: by means of those same five deities they recognised them.
१४
विश्वास-प्रस्तुतिः
(न्दि᳘) दि᳘शो मुग्धा᳘ ऽआसन्प᳘ञ्च॥
ता᳘ ऽएता᳘भिरेव᳘ पञ्च᳘भिर्देव᳘ताभिः प्रा᳘जानन्॥
मूलम् - श्रीधरादि
(न्दि᳘) दि᳘शो मुग्धा᳘ ऽआसन्प᳘ञ्च॥
ता᳘ ऽएता᳘भिरेव᳘ पञ्च᳘भिर्देव᳘ताभिः प्रा᳘जानन्॥
मूलम् - Weber
दि᳘शो मुग्धा᳘ आसन्प᳘ञ्च॥
ता᳘ एता᳘भिरेव᳘ पञ्च᳘भिर्देव᳘ताभिः प्राजानन्॥
मूलम् - विस्वरम्
दिशो मुग्धा आसन्पञ्च । ता एताभिरेव पञ्चभिर्देवताभिः प्राजानन् ॥ १४ ॥
सायणः
दिङ्मोहनिवृत्तिहेतुत्वेनापि पञ्चसङ्ख्यां प्रशंसति- दिशो मुग्धा इति । यज्ञानुष्ठानाय वसन्तादिकाला इव तदुपयुक्ताः प्राच्याद्याः ‘पञ्च दिशः’ ‘मुग्धा आसन्’ व्यामूढा अभवन् । गतमन्यत् ॥ १४ ॥
Eggeling
- The regions became confounded, the five: by means of those same five deities they recognised them.
१५
विश्वास-प्रस्तुतिः
(न्नु᳘) उ᳘दीचीमेव दि᳘शम्॥
प᳘थ्यया[[!!]] स्वस्त्या प्रा᳘जानंस्त᳘स्माद᳘त्रोत्तरा᳘ हि व्वा᳘ग्वदति कुरुपञ्चालत्रा व्वा᳘ग्घ्येषा᳘ निदा᳘नेनो᳘दीची᳘ᳫं᳘ ह्येत᳘या दि᳘शं प्रा᳘जानन्नु᳘दीची᳘ ह्येत᳘स्यै दिक्[[!!]]॥
मूलम् - श्रीधरादि
(न्नु᳘) उ᳘दीचीमेव दि᳘शम्॥
प᳘थ्यया[[!!]] स्वस्त्या प्रा᳘जानंस्त᳘स्माद᳘त्रोत्तरा᳘ हि व्वा᳘ग्वदति कुरुपञ्चालत्रा व्वा᳘ग्घ्येषा᳘ निदा᳘नेनो᳘दीची᳘ᳫं᳘ ह्येत᳘या दि᳘शं प्रा᳘जानन्नु᳘दीची᳘ ह्येत᳘स्यै दिक्[[!!]]॥
मूलम् - Weber
उ᳘दीचीमेव दि᳘शम्॥
पथ्य᳘या स्वस्त्या प्रा᳘जानंस्त᳘स्माद᳘त्रोत्तरा᳘हि वा᳘ग्वदति 11 कुरुपञ्चालत्रा वाॗग्घ्येषा᳘ निदा᳘नेनो᳘दीचीॗᳫंॗ ह्येत᳘या दि᳘शम् प्रा᳘जानन्नु᳘दीचीॗ ह्येत᳘स्यै दि᳘क्॥
मूलम् - विस्वरम्
उदीचीमेव दिशं पथ्यया स्वस्त्या प्राजानन् । तस्मादत्रोत्तरा हि वाग्वदति कुरुपञ्चालत्रा । वाग्घ्येषा निदानेन । उदीचीं ह्येतया दिशं प्राजानन् । उदीची ह्येतस्यै दिक् ॥ १५ ॥
सायणः
तत्र कीदृश्या देवतया कतमा दिक् प्रज्ञातेत्याशङ्क्य प्रथमदेवतया ज्ञातां दिशं प्रदर्श्योपपादयति- उदीचीमेवेति । यस्मादेवं पथ्यास्वस्त्याख्यया प्रथमदेवतया उदीची दिक् देवैः प्रज्ञाता, तस्मात् ‘अत्र’ अस्मिन् लोके कुरुपञ्चालाख्येषु जनपदेषु ‘उत्तरा’ उच्चतरा ‘वाग्’ ‘वदति’ भृशं शब्दायते अत्युन्नतसम्भाषणस्य तत्रोपलम्भात् । “देवमनुष्य”- इत्यादौ- (पा. सू. ५ । ४ । ५६ ।) परिगणनाभावे ऽपि बहुलग्रहणात् कुरुपञ्चालशब्दादपि त्राप्रत्ययः । ननु वाच उत्तरदिक्सम्बन्धो ऽस्तु, कुतः पथ्या-स्वस्त्या दिशः सम्बन्धः ? इति तत्राह- वाग्घीति । ‘एषा’ पथ्या स्वस्तिः यस्मात् ‘निदानेन’ कारणेन निरूप्यमाणा सती ‘वाक्’ एव “वाग्वै पथ्या स्वस्तिः”- इति ह्युक्तम् (कौ. ब्रा. ७ । ६ ।) अत उत्तरस्यां दिशि वाचः प्रसिद्धिर्युक्तेति भावः । ‘हि’ यस्माच्चैवम् ‘एतया’ ‘उदीचीं दिशं’ देवाः ‘प्राजानन्’ । तस्मात् ‘एतस्यै’ षष्ठ्यर्थे चतुर्थी, (पा. सू. २ । ३ । ६२ वा. १) एतस्याः पथ्यायाः स्वस्तेः ‘उदीची दिक्’ स्वभूता ॥ १५ ॥
Eggeling
- Through Pathyā Svasti they recognised the northern (upper) region: wherefore speech sounds higher here 12 among the Kuru-Pañcālas; for she (Pathyā Svasti) is in reality speech, and through her they recognised the northern region, and to her belongs the northern region.
१६
विश्वास-प्रस्तुतिः
(क्प्रा᳘) प्रा᳘चीमेव दि᳘शम्॥
(म) अग्नि᳘ना प्रा᳘जानंस्त᳘स्मादग्निं᳘ पश्चात्प्रा᳘ञ्चमुद्धृत्यो᳘पासते प्रा᳘ची᳘ᳫं᳘ ह्येते᳘न दि᳘शं प्रा᳘जानन्प्रा᳘ची᳘ ह्येत᳘स्य दिक्[[!!]]॥
मूलम् - श्रीधरादि
(क्प्रा᳘) प्रा᳘चीमेव दि᳘शम्॥
(म) अग्नि᳘ना प्रा᳘जानंस्त᳘स्मादग्निं᳘ पश्चात्प्रा᳘ञ्चमुद्धृत्यो᳘पासते प्रा᳘ची᳘ᳫं᳘ ह्येते᳘न दि᳘शं प्रा᳘जानन्प्रा᳘ची᳘ ह्येत᳘स्य दिक्[[!!]]॥
मूलम् - Weber
प्रा᳘चीमेव दि᳘शम्॥
अग्नि᳘ना प्रा᳘जानंस्त᳘स्मादग्नि᳘म् पश्चात्प्रा᳘ञ्चमुद्धृत्यो᳘पासते प्रा᳘चीॗᳫंॗ ह्येते᳘न दि᳘शम् प्रा᳘जानन्प्रा᳘चीॗ ह्येत᳘स्य दि᳘क्॥
मूलम् - विस्वरम्
प्राचीमेव दिशमग्निना प्राजानन् । तस्मादग्निं पश्चात्प्राञ्चमुद्धृत्योपासते । प्राचीं ह्येतेन दिशं प्राजानन् । प्राची ह्येतस्य दिक् ॥ १६ ॥
सायणः
अथ द्वितीयदेवतया प्रज्ञातां दिशमुपन्यस्योपपादयति- प्राचीमेवेति । यस्मादग्निः प्राच्या दिशो ज्ञानहेतुः, तस्मात् ‘पश्चात्’ अवस्थितम् ‘अग्निम्’ आहवनीयरूपेण ‘प्राञ्चमुद्धृत्योपासते’ अग्निहोत्रहोमादिरूपमुपासनं कुर्वन्ति । यस्माद् देवाः ‘प्राचीं दिशम्’ ‘एतेन’ अग्निना ‘प्राजानन्’ तस्मात् ‘एतस्य’ अग्नेः ‘प्राची दिक्’ स्वभूतेत्यर्थः । अत एवान्यत्राम्नायते- “प्राची दिगग्निर्देवता” (कौ. ब्रा. ७ । ६) इति ॥ १६ ॥
Eggeling
- Through Agni they recognised the eastern region: wherefore they take out Agni from behind towards the east 13, and render homage to him; for through him they recognised the eastern region, and to him belongs the eastern region.
१७
विश्वास-प्रस्तुतिः
(ग्द᳘) द᳘क्षिणामेव दि᳘शम्॥
(ᳫं᳭) सो᳘मेन प्रा᳘जानंस्त᳘स्मात्सो᳘मं क्रीतं᳘ दक्षिणा प᳘रिवहन्ति त᳘स्मादाहुः पितृदेव᳘त्यः सो᳘म ऽइ᳘ति द᳘क्षिणा᳘ᳫं᳘ ह्येते᳘न दि᳘शं प्रा᳘जानन्द᳘क्षिणा᳘ ह्येत᳘स्य दि᳘क्॥
मूलम् - श्रीधरादि
(ग्द᳘) द᳘क्षिणामेव दि᳘शम्॥
(ᳫं᳭) सो᳘मेन प्रा᳘जानंस्त᳘स्मात्सो᳘मं क्रीतं᳘ दक्षिणा प᳘रिवहन्ति त᳘स्मादाहुः पितृदेव᳘त्यः सो᳘म ऽइ᳘ति द᳘क्षिणा᳘ᳫं᳘ ह्येते᳘न दि᳘शं प्रा᳘जानन्द᳘क्षिणा᳘ ह्येत᳘स्य दि᳘क्॥
मूलम् - Weber
द᳘क्षिणामेव दि᳘शम्॥
सो᳘मेन प्रा᳘जानंस्त᳘स्मात्सो᳘मं क्रीतं᳘ दक्षिणा प᳘रिवहन्ति त᳘स्मादाहुः पितृदेव᳘त्यः सो᳘म इ᳘ति द᳘क्षिणाॗᳫंॗ ह्येते᳘न दि᳘शम् प्रा᳘जानन्द᳘क्षिणाॗ ह्येत᳘स्य दि᳘क्॥
मूलम् - विस्वरम्
दक्षिणामेव दिशं सोमेन प्राजानन् । तस्मात्सोमं क्रीतं दक्षिणा परिवहन्ति । तस्मादाहुः- पितृदेवत्यः सोम इति । दक्षिणां ह्येतेन दिशं प्राजानन् । दक्षिणा ह्येतस्य दिक् ॥ १७ ॥
सायणः
अथ तृतीयदेवतया प्रज्ञातां दिशमुपन्यस्योपपादयति 14- दक्षिणामेवेति । यस्माद् दक्षिणा दिक् ‘सोमेन’ परिज्ञाता ‘तस्मात्’ उपरवदेशे ‘क्रीतं सोमम्’ महावेदेर्दक्षिणतो ऽनसा ‘परिवहन्ति’ । “दक्षिणादाच्” (पा. सू. ५ । ३ । ३६) इत्याच् प्रत्ययः । ‘तस्मात्’ दक्षिणादिक्प्रवर्तनाद्धेतोः वल्लीरूपः ‘सोमः’ ‘पितृदेवत्यः’ । पितृदेवताकदक्षिणादिक्प्राप्तेः सोमस्य पितृदेवत्यत्वं युक्तम् ॥ १७ ॥
Eggeling
- Through Soma they recognised the southern region: hence, after the Soma has been bought, they drive it round on the south side; and hence they say that Soma is sacred to the Fathers; for through him they recognised the southern region, and to him belongs the southern region.
१८
विश्वास-प्रस्तुतिः
(क्प्र) प्रती᳘चीमेव दि᳘शम्॥
(ᳫं᳭) सवित्रा प्रा᳘जानन्नेष व्वै᳘ सविता य᳘ एष त᳘पति त᳘स्मादेष᳘ प्रत्य᳘ङ्ङेति प्रती᳘ची᳘ᳫं᳘ ह्येते᳘न दि᳘शं प्रा᳘जानन्प्रती᳘ची᳘ ह्येत᳘स्य दि᳘क्॥
मूलम् - श्रीधरादि
(क्प्र) प्रती᳘चीमेव दि᳘शम्॥
(ᳫं᳭) सवित्रा प्रा᳘जानन्नेष व्वै᳘ सविता य᳘ एष त᳘पति त᳘स्मादेष᳘ प्रत्य᳘ङ्ङेति प्रती᳘ची᳘ᳫं᳘ ह्येते᳘न दि᳘शं प्रा᳘जानन्प्रती᳘ची᳘ ह्येत᳘स्य दि᳘क्॥
मूलम् - Weber
प्रती᳘चीमेव दि᳘शम्॥
सवित्रा प्रा᳘जानन्नेष वै᳘ सविता य᳘ एष त᳘पति त᳘स्मादेष᳘ प्रत्य᳘ङ्ङेति प्रती᳘चीॗᳫंॗ ह्येते᳘न दि᳘शम् प्राजानन्प्रती᳘चीॗ ह्येत᳘स्य दि᳘क्॥
मूलम् - विस्वरम्
प्रतीचीमेव दिशं सवित्रा प्राजानन् । एष वै सविता- य एष तपति । तस्मादेष प्रत्यङ्ङेति । प्रतीचीं ह्येतेन दिशं प्राजानन् । प्रतीची ह्येतस्य दिक् ॥ १८ ॥
सायणः
अथ चतुर्थदेवतया प्रज्ञातां दिशमुपन्यस्यति- प्रतीचीमेवेति । ‘एषः’ सूर्यः ‘प्रत्यङ्ङेति’ प्रत्यङ्मुखो गच्छति । स्पष्टमन्यत् ॥ १८ ॥
Eggeling
- Through Savitr̥ they recognised the western region, for Savitr̥ is yonder burning (sun): wherefore he goes towards the west, for through him they recognised the western region, and to him belongs the western region.
१९
विश्वास-प्रस्तुतिः
(गू) ऊर्ध्वा᳘मेव दि᳘शम्॥
(म᳘) अ᳘दित्या प्रा᳘जानन्नियं वा ऽअ᳘दितिस्त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऽऊर्ध्वा व्व᳘नस्प᳘तय ऊर्ध्वा᳘ᳫं᳘ ह्येत᳘या दि᳘शं प्रा᳘जानन्नूर्ध्वा᳘ ह्येत᳘स्यै दिक्[[!!]]॥
मूलम् - श्रीधरादि
(गू) ऊर्ध्वा᳘मेव दि᳘शम्॥
(म᳘) अ᳘दित्या प्रा᳘जानन्नियं वा ऽअ᳘दितिस्त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऽऊर्ध्वा व्व᳘नस्प᳘तय ऊर्ध्वा᳘ᳫं᳘ ह्येत᳘या दि᳘शं प्रा᳘जानन्नूर्ध्वा᳘ ह्येत᳘स्यै दिक्[[!!]]॥
मूलम् - Weber
ऊर्ध्वा᳘मेव दि᳘शम्॥
अ᳘दित्या प्रा᳘जानन्नियं वा अ᳘दितिस्त᳘स्मादस्या᳘मूर्ध्वा ओ᳘षधयो जा᳘यन्त ऊर्ध्वा व᳘नस्प᳘तय ऊर्ध्वाॗᳫंॗ ह्येत᳘या दि᳘शम् प्रा᳘जानन्नूर्ध्वाॗ ह्येत᳘स्यै दि᳘क्॥
मूलम् - विस्वरम्
ऊर्ध्वामेव दिशमदित्या प्राजानन् । इयं वा अदितिः । तस्मादस्यामूर्ध्वा ओषधयो जायन्ते । ऊर्ध्वा वनस्पतयः । ऊर्ध्वां ह्येतया दिशं प्राजानन् । ऊर्ध्वा ह्येतस्यै दिक् ॥ १९ ॥
सायणः
अथ पञ्चमदेवतया प्रज्ञातां दिशमुपन्यस्यति- ऊर्ध्वामेवेति । यस्माद् भूम्यामुत्पन्नाः ओषधिवनस्पतयः ऊर्ध्वमुखा एव वर्द्धन्ते, तस्माददित्यभिधानाया भूम्याः सकाशादूर्ध्वदिक्परिज्ञानं युक्तमित्यर्थः । इत्थं पञ्चदिग्व्यामोहपरिहारोपन्यासमुखेन प्रायणीयेष्टौ पञ्च देवता यष्टव्या इत्युक्तम् ॥ १९ ॥
Eggeling
- Through Aditi they recognised the upper region, for Aditi is this (earth): wherefore the plants and trees grow upwards on her; for through her they recognised the upper region, and to her belongs the upper region.
२०
विश्वास-प्रस्तुतिः
(क्छि᳘) शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्य᳘म्॥
बाहू᳘ प्रायणीयोदयनीया᳘वभि᳘तो वै शि᳘रो बाहू᳘ भवतस्त᳘स्मादभि᳘त ऽआतिथ्य᳘मेते᳘ हवि᳘षी भवतः प्रायणी᳘यश्चोदयनी᳘यश्च॥
मूलम् - श्रीधरादि
(क्छि᳘) शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्य᳘म्॥
बाहू᳘ प्रायणीयोदयनीया᳘वभि᳘तो वै शि᳘रो बाहू᳘ भवतस्त᳘स्मादभि᳘त ऽआतिथ्य᳘मेते᳘ हवि᳘षी भवतः प्रायणी᳘यश्चोदयनी᳘यश्च॥
मूलम् - Weber
शि᳘रो वै᳘ यज्ञ᳘स्यातिथ्य᳘म्॥
बाहू᳘ प्रायणीयोदयनीया᳘वभि᳘तो वै शि᳘रो बाहू᳘ भवतस्त᳘स्मादभि᳘त आतिथ्य᳘मेते᳘ हवि᳘षी भवतः प्रायणी᳘यश्चोदयनी᳘यश्च॥
मूलम् - विस्वरम्
शिरो वै यज्ञस्यातिथ्यम् । बाहू प्रायणीयोदयनीयौ । अभितो वै शिरो बाहू भवतः । तस्मादभित आतिथ्यमेते हविषी भवतः- प्रायणीयश्चोदयनीयश्च ॥ २० ॥
सायणः
अथातिथ्यायाः प्राक् प्रायणीयः कर्तव्य इत्यभिधातुं प्रायणीयोदयनीययोर्बाहुद्वयरूपतामातिथ्यायाः शिरोरूपताञ्चाह- शिरो वै यज्ञस्येति । आतिथ्यमध्ये ऽनुष्ठेयत्वेन प्राधान्याच्छिरस्त्वव्यवहारः । ‘एते हविषी’ एतौ यागावित्यर्थः; यागस्य हविःप्रधानत्वात् । लोके शिरस उभयतो बाह्वोर्दर्शनात्, आतिथ्यस्य शिरस्त्वाभिधानात्, बाहुस्थानीययोरनुष्ठानं युक्तम् (श. प. ब्रा. ३ । ५ । ३) ॥ २० ॥
Eggeling
- The hospitable reception 15 (of King Soma) verily is the head of the sacrifice, and the opening and closing oblations are its arms. But the arms are on both sides of the head, and hence those two oblations, the Prāyaṇīya and Udayanīya, are made on both sides of (before and after) the reception.
२१
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य᳘) य᳘देव᳘ प्रायणी᳘ये क्रिये᳘त त᳘दुदयनी᳘ये क्रियेत य᳘देव᳘ प्रायणी᳘यस्य बर्हिर्भ᳘वति त᳘दुदयनी᳘यस्य बर्हि᳘र्भवती᳘ति त᳘दपोद्धृ᳘त्य नि᳘दधाति ता᳘ᳫँ᳘ स्थालीᳫँ᳭ स᳘क्षामकर्षां प्रमृ᳘ज्य मे᳘क्षणं नि᳘दधाति य᳘ ऽएव᳘ प्रायणी᳘यस्य ऽर्त्वि᳘जो भ᳘वन्ति त᳘ ऽउदयनी᳘यस्य ऽर्त्वि᳘जो भवन्ति तद्य᳘देत᳘त्समानं᳘ यज्ञे᳘ क्रिय᳘ते ते᳘न बाहू᳘ सदृ᳘शौ ते᳘न स᳘रूपौ॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य᳘) य᳘देव᳘ प्रायणी᳘ये क्रिये᳘त त᳘दुदयनी᳘ये क्रियेत य᳘देव᳘ प्रायणी᳘यस्य बर्हिर्भ᳘वति त᳘दुदयनी᳘यस्य बर्हि᳘र्भवती᳘ति त᳘दपोद्धृ᳘त्य नि᳘दधाति ता᳘ᳫँ᳘ स्थालीᳫँ᳭ स᳘क्षामकर्षां प्रमृ᳘ज्य मे᳘क्षणं नि᳘दधाति य᳘ ऽएव᳘ प्रायणी᳘यस्य ऽर्त्वि᳘जो भ᳘वन्ति त᳘ ऽउदयनी᳘यस्य ऽर्त्वि᳘जो भवन्ति तद्य᳘देत᳘त्समानं᳘ यज्ञे᳘ क्रिय᳘ते ते᳘न बाहू᳘ सदृ᳘शौ ते᳘न स᳘रूपौ॥
मूलम् - Weber
त᳘दाहुः॥
य᳘देव᳘ प्रायणी᳘ये क्रिये᳘त त᳘दुदयनी᳘ये क्रियेत य᳘देव᳘ प्रायणी᳘यस्य बर्हिर्भ᳘वति त᳘दुदयनी᳘यस्य बर्हि᳘र्भवती᳘ति त᳘दपोद्धृ᳘त्य नि᳘दधाति 16 ता᳘ᳫं᳘ स्थालीᳫं स᳘क्षामकर्षाम् प्रमृ᳘ज्य मे᳘क्षणं नि᳘दधाति य᳘ एव᳘ प्रायणी᳘यस्यर्त्वि᳘जो भ᳘वन्ति त᳘ उदयनी᳘यस्यर्त्वि᳘जो भवन्ति तद्य᳘देत᳘त्समानं᳘ यज्ञे᳘ क्रिय᳘ते ते᳘न बाहू᳘ सदृ᳘शौ ते᳘न स᳘रूपौ॥
मूलम् - विस्वरम्
तदाहु:- यदेव प्रायणीये क्रियेत- तद् उदयनीये क्रियेत । यदेव प्रायणीयस्य बर्हिर्भवति- तदुदयनीयस्य बर्हिर्भवतीति । तदपोद्धृत्य निदधाति । तां स्थालीं सक्षामकर्षां प्रमृज्य मेक्षणं निदधाति । य एव प्रायणीयस्यर्त्विजो भवन्ति- त उदयनीयस्यर्त्विजो भवन्ति । तद् यदेतत्समानं यज्ञे क्रियते- तेन बाहू सदृशौ- तेन सरूपौ ॥ २१ ॥
सायणः
उक्तबाहुत्वमुपजीव्य प्रायणीयोदयनीययोरेकरूपतामाह- तदाहुरिति । सङ्ग्रहेणोक्तं यच्छब्दार्थं विशदयति- यदेवेति । मध्ये कर्मान्तरव्यवधानात् कथं तस्य बर्हिषो ऽवस्थानमित्याशङ्क्य तदुपायं दर्शयति- तदपोद्धृत्येति । प्रहरणमकृत्वा बर्हिरुद्धृत्योपरि प्रज्ञातं निदध्यात् । बर्हिर्वत् स्थालीमेक्षणयोरप्युदयनीयार्थमवस्थानमाह- तां स्थालीमिति । या प्रायणीयचरुस्थाली ‘तां’ ‘सक्षामकर्षाम्’, अग्निसंयोगेनान्तरीषद्दग्धश्चरुः ‘क्षामः,’ तस्य ‘कर्षो’ लेपः, तत्सहितामित्यर्थः । “क्षायो मः”- (पा. सू. ८ । २ । ५३) इति निष्ठातकारस्य मत्वम् । ‘मेक्षणम्’ चरुनिष्पादनसाधनं काष्ठम् (श. प. ब्रा. २ । ४ । २ । १३) । तत् ‘प्रमृज्य’ चरुणा लेपयित्वा स्थाल्या सह विदध्यादित्यर्थः । ऋत्विगैक्यं च विधत्ते- य एव प्रायणीयस्येति । इदानीन्तनमपि बाह्वोः स्वरूपत्वं प्रायणीयोदयनीययोरैक्यरूपनिबन्धनमित्याह- तद्यदेतदिति । सादृश्यमेकदेशेनापि भवतीति तद् विशेष्यते- संरूपाविति ॥ २१ ॥
Eggeling
- Now, they say that whatever is done at the Prāyaṇīya should be done at the Udayanīya 17, and the barhis (grass-covering of the altar), which is used at the Prāyaṇīya, is also used at the Udayanīya: he lays it aside, after removing it (from the altar). The pot (in which the rice-pap was cooked) he puts aside with the parched remains of dough, and (so he does) the pot-ladle after wiping it. And the priests who officiate during the Prāyaṇīya, officiate also at the Udayanīya. And because of this identical performance at the sacrifice the two arms are alike and of the same shape.
२२
विश्वास-प्रस्तुतिः
त᳘दु त᳘था न᳘ कुर्यात्॥
(त्का᳘) का᳘ममे᳘वैत᳘द्बर्हि᳘रनुप्रह᳘रेदेवं मे᳘क्षणं नि᳘र्णिज्य[[!!]] स्थालीं नि᳘दध्याद्य᳘ ऽएव᳘ प्रायणी᳘यस्य ऽर्त्वि᳘जो भ᳘वन्ति त᳘ ऽउदयनी᳘यस्य ऽर्त्वि᳘जो भवन्ति य᳘द्यु ते᳘ व्विप्रे᳘ताः स्युर᳘प्यन्य᳘ ऽएव᳘ स्युः स यद्वै᳘ समानी᳘र्देव᳘ता य᳘जति समाना᳘नि हवी᳘ᳫं᳘षि भ᳘वन्ति ते᳘नैव᳘ बाहू᳘ सदृ᳘शौ ते᳘न स᳘रूपौ॥
मूलम् - श्रीधरादि
त᳘दु त᳘था न᳘ कुर्यात्॥
(त्का᳘) का᳘ममे᳘वैत᳘द्बर्हि᳘रनुप्रह᳘रेदेवं मे᳘क्षणं नि᳘र्णिज्य[[!!]] स्थालीं नि᳘दध्याद्य᳘ ऽएव᳘ प्रायणी᳘यस्य ऽर्त्वि᳘जो भ᳘वन्ति त᳘ ऽउदयनी᳘यस्य ऽर्त्वि᳘जो भवन्ति य᳘द्यु ते᳘ व्विप्रे᳘ताः स्युर᳘प्यन्य᳘ ऽएव᳘ स्युः स यद्वै᳘ समानी᳘र्देव᳘ता य᳘जति समाना᳘नि हवी᳘ᳫं᳘षि भ᳘वन्ति ते᳘नैव᳘ बाहू᳘ सदृ᳘शौ ते᳘न स᳘रूपौ॥
मूलम् - Weber
त᳘दु त᳘था न᳘ कुर्यात्॥
का᳘ममेॗवैत᳘द्बर्हि᳘रनुप्रह᳘रेदेवम् मे᳘क्षणं निर्णि᳘ज्य स्थालीं नि᳘दध्याद्य᳘ एव᳘ प्रायणी᳘यस्यर्त्वि᳘जो भ᳘वन्ति त᳘ उदयनी᳘यस्यर्त्वि᳘जो भवन्ति य᳘द्यु ते᳘ विप्रे᳘ताः स्युर᳘प्यन्य᳘ एव᳘ स्युः स यद्वै᳘ समानी᳘र्देव᳘ता य᳘जति समाना᳘नि हवीं᳘षि भ᳘वन्ति ते᳘नैव᳘ बाहू᳘ सदृ᳘शौ ते᳘न स᳘रूपौ॥
मूलम् - विस्वरम्
तदु तथा न कुर्यात् । काममेवैतद्बर्हिरनुप्रहरेत् । एवं मेक्षणं निर्णिज्य स्थालीं निदध्यात् । य एव प्रायणीयस्यर्त्विजो भवन्ति- त उदनीयस्यर्त्विजो भवन्ति । यद्यु ते विप्रेताः स्युः- अप्यन्य एव स्युः । स यद्वै समानीर्देवता यजति- समानानि हवींषि भवन्ति । तेनैव बाहू सदृशौ- तेन सरूपौ ॥ २२॥
सायणः
उक्तो बर्हिराद्यैकरूप्यपक्षो न नियत इत्याह- तदु तथेति । एवं मेक्षणमिति । बर्हिर्वदग्नौ प्रहरेदित्यर्थः । ‘स्थालीं’ ‘निर्णिज्य’ क्षामकर्षमपि प्रगमय्य ऋत्विजामेव च नियममङ्गीकृत्य, तेषामपि केनचिन्निमित्तेन विगमे सति तदेकत्वमपि नियमेन भवितव्यमित्याह- य एव प्रायणीयस्येति । ‘विप्रेताः स्युः’ विविधदेशं प्राप्ता भवेयुः । तर्ह्येकरूपत्वं किन्निबन्धनमित्याह- स यदिति । ‘यद्वै’ यदेव बर्हिर्यागस्य स्वरूपम् । अतस्तयोरैकरूप्यमेव नियमेन भवितव्यमित्यर्थः । ‘तेनैव-’ इति एवकारेण पूर्वोक्तं बर्हिराद्यैकरूप्यं व्यावर्त्यते । तेनैव द्रव्यदेवतैक्येन कारणेनैवेदानीमपि मनुष्याणां ‘बाहू सरूपौ’ भवत इत्यथः । तथा च कात्यायनो ऽपि- “चरुमेक्षणबर्हिनिदधात्युदयनीयायै, सलेपं चरुं प्रमृष्टं मेक्षणं, प्रक्षालयति वा चरुम्, अनुप्रहरतीतरे, त एवर्त्विजो, विप्रेतेष्वन्ये ऽपि” (का. श्रौ. सू. ७ । १४२-१४७) इति । ‘इतरे’ बर्हिर्मेक्षणे ॥ २२ ॥
Eggeling
- But let him not do it in this way. Let him rather 18 (at the proper time) throw both the barhis and the pot-ladle after (the prastara, into the fire 19), and let him put the pot aside after rinsing it. The priests who officiate during the Prāyaṇīya, officiate also at the Udayanīya; but should they (in the
mean time) have departed this life, others may officiate instead. It is because he offers to the same deities, and the same oblations, that the two arms are alike and of the same shape.
२३
विश्वास-प्रस्तुतिः
स वै प᳘ञ्च प्रायणी᳘ये देव᳘ता य᳘जति॥
प᳘ञ्चोदयनी᳘ये त᳘स्मात्प᳘ञ्चेत्था᳘दङ्गु᳘ल᳘यः प᳘ञ्चेत्थात्त᳘च्छं᳘य्वन्तं भवति न प᳘त्नीः सं᳘याजयन्ति पूर्व्वार्धं वा ऽअ᳘न्वात्म᳘नो बाहू᳘ पूर्व्वार्ध᳘मे᳘वैत᳘द्यज्ञ᳘स्याभिसं᳘स्करोति त᳘स्माच्छं᳘य्वन्तं भवति न प᳘त्नीः सं᳘याजयन्ति॥
मूलम् - श्रीधरादि
स वै प᳘ञ्च प्रायणी᳘ये देव᳘ता य᳘जति॥
प᳘ञ्चोदयनी᳘ये त᳘स्मात्प᳘ञ्चेत्था᳘दङ्गु᳘ल᳘यः प᳘ञ्चेत्थात्त᳘च्छं᳘य्वन्तं भवति न प᳘त्नीः सं᳘याजयन्ति पूर्व्वार्धं वा ऽअ᳘न्वात्म᳘नो बाहू᳘ पूर्व्वार्ध᳘मे᳘वैत᳘द्यज्ञ᳘स्याभिसं᳘स्करोति त᳘स्माच्छं᳘य्वन्तं भवति न प᳘त्नीः सं᳘याजयन्ति॥
मूलम् - Weber
स वै प᳘ञ्च प्रायणी᳘ये देव᳘ता य᳘जति॥
प᳘ञ्चोदयनी᳘ये त᳘स्मात्प᳘ञ्चेत्था᳘दङ्गु᳘लयः प᳘ञ्चेत्थात्त᳘छम्य्व᳘न्तम् भवति न प᳘त्नीः सं᳘याजयन्ति पूर्वार्धं वा अ᳘न्वात्म᳘नो बाहू᳘ पूर्व्:र्ध᳘मेॗवैत᳘द्यज्ञ᳘स्याभिस᳘ᳫं᳘स्करोति 20 त᳘स्माछम्य्व᳘न्तम् भवति न प᳘त्नीः सं᳘याजयन्ति॥
मूलम् - विस्वरम्
स वै पञ्च प्रायणीये देवता यजति, पञ्चोदयनीये । तस्मात्- पञ्चेत्थादङ्गुलयः, पञ्चेत्थात् । तच्छंय्वन्तं भवति । न पत्नीः संयाजयन्ति । पूर्वार्धं वा अन्वात्मनो बाहू । पूर्वार्धमेवैतद्यज्ञस्याभिसंस्करोति । तस्माच्छंय्वन्तं भवति । न पत्नीः संयाजयन्ति ॥ २३ ॥
सायणः
देवतैक्याभिधानप्रसङ्गेन पञ्चसङ्ख्यां प्रशंसति- स वा इति । ‘सः’ अध्वर्युः । ‘तस्मात्’ देवतान पञ्चत्वाद्धेतोः ‘इत्था’ इत्थम् अनेन इदानीं परिदृश्यमानेन प्रकारेण । ‘पञ्चाङ्गुलयः’ लभ्यन्ते । हस्तद्वयमभिनीय प्रदर्शनीयं द्विरभिधानम् । प्रकृतिभूतदर्शपूर्णमासेष्टिवत् साकल्येनानुष्ठानप्रसक्तौ तत् प्रतिषेधति- तच्छंय्वन्तं भवतीति । अन्तग्रहणन सिद्धावुपरितनाङ्गनिषेधो नित्यानुवादतया पुनर्निषिद्ध्यते- न पत्नीः संयाजयन्तीति । प्रायणीयोदयनीययोर्बाहुत्वनिरूपणादप्युत्तराङ्गजातं न कर्तव्यमित्याह- पूर्वार्द्धं वा अन्वात्मनो बाहू इति । ‘आत्मनः’ शरीरस्य ‘पूर्वार्द्धमनु’ ‘बाहू’ वर्तेते न सर्वाङ्गे, अतः ‘एतत्’ एतेन तदुभयत्र शंय्वन्तानुष्ठानेन यज्ञस्य ‘पूर्वार्द्धमेव’ संस्कृतं भवति 21 ॥ २३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे द्वितीयाध्याये तृतीयं ब्राह्मणम् ॥ (३ । २ । ३) ॥
Eggeling
- To five deities he offers at the Prāyaṇīya, and to five at the Udayanīya: hence there are five fingers here and five there. This (Prāyaṇīya offering) ends with the Śamyu. They perform no Patnīsaṁyājas 22. For the arms are on the fore-part of the body, and the fore-part of the sacrifice he perfects by this (opening ceremony). This is why it ends with the Śamyu, and why no Patnīsaṁyājas are performed.
-
‘अवशितासु दीक्षास्वनुष्ठेयां’ इति ‘दीक्षणीयासु’ इति च क्व. पा. । ↩︎
-
दीक्षन्ति प्रायणीयमदित्यै चरुं निर्वपति । ↩︎
-
अत्रैतरेयकमिति पाठः । “स्वर्गं वा” इत्येतस्य तत्रैव दृष्टत्वात् । ↩︎
-
तै. ब्रा. १. अष्ट. ६. अ० १० अ० ५ कं. । ↩︎
-
‘हविर्भाक्त्वकल्पनात्’- इ० क्व० पा० । ↩︎
-
48:1 At IV, 5, 1, 2, the name prāyaṇīya is derived from pra-i, to go forth, because by means of this offering they, as it were, go forth to buy the Soma. Similarly, udayanīya is explained as the offering he performs after coming out (ud-i) from the bath. In Ait. Br. I, 7, on the other hand, the name prāyaṇīya is explained as that by means of which sacrificers go forward (pra-i) to the heavenly world. In the Soma sacrifice, the Prāyaṇīyā and Udayanīyā may be said to correspond to the Fore-offerings and After-offerings (prayāja and anuyāja) of the New and Full-moon Sacrifice; though, of course, the Fore- and After-offerings form part of the prāyaṇīyā and udayanīyā, as ishṭis. But they are peculiar in this respect, that offering is made at both to the very same deities, and that the invitatory prayers (anuvākyā) of the prāyaṇīyeshṭi form the offering-prayers (yājyā) of the udayanīyeshṭi, and vice versā. For these formulas, see Āśval. Śrautas. IV, 3; Haug, Ait. Br. Transl. p. 16. The offering formula of the oblation to Aditi at the Prāyaṇīyā (and invitatory formula at the Udayanīyā), strange to say, is not a R̥k-verse, but one from the Atharvan (VII, 6, 2). ↩︎
-
पथ्यास्वस्त्योरभेदज्ञापनार्थं चतस्रग्रहणमिति कर्कः । ↩︎
-
चशब्दाददि चोदनेति कर्कः । ↩︎
-
49:1 I.e. ‘welfare on the road, or a happy journey,’ a genius of well-being and prosperity. ↩︎
-
पथ्यादीनां प्रधानत्वे ऽपि तदंगत्वं- तथाच- दीक्षांते प्रायणीयमदित्यै चरुं निर्वपतीति ७ । १४० सूत्रे- चरुग्रहणं न कर्तव्यम् । अदित्यै चरुरन्यत्रापि इत्युक्तत्वात् । कर्त्तव्यं वा । चरोः प्रायणीयज्ञापनार्थम् । अदित्यै चरुं प्रायणीयं निर्वपतीति वचनात् । एवं च पथ्यादीनां तदंगत्वादंतराये सति अप्रयोक्तृत्वं- इति कर्कभाष्यात् । ततश्चादित्यचरोरंतराये प्रयोक्तृत्वम् । न पथ्यादीनामंतराये- इति फलितो ऽर्थः । ↩︎
-
उत्तरा वाक् Sây. ↩︎
-
50:1 Atra,? ’there.’ In the St. Petersb. Dict. uttarāhi is here taken in the sense of ‘in the north,’ instead of ‘higher.’ See also part i, pref. p. xlii, note 1; Weber, Ind. Stud. I, p. 191. ↩︎
-
50:2 That is, from the Gārhapatya to the Āhavanīya fire-place. ↩︎
-
‘संप्रदर्श्य’- इ० क्व० पा० । ↩︎
-
51:1 See III, 4, 1. ↩︎
-
नि᳘दधति ता᳘ᳫ᳘ A. ↩︎
-
51:2 See p. 48, note 1. For the Udayanīya, see IV, 5, 1. ↩︎
-
51:3 Or, perhaps, ’let him, if he chooses (kāmam) . . .;’ see Kāty. VII, 5, 16-19; cf. also note on III, 2, 4, 14. ↩︎
-
51:4 See I, 8, 3, 19; 9, 2, 29. ↩︎
-
सं᳘स्करोति AB. ↩︎
-
‘शय्वंतं भवति’ ७ । १४८ । अंतवचने पूर्वप्राप्तेः १४९ । अविशेषश्रुतेः १५० । उत्तरं वा प्रकृत्यनुग्रहानुयाजप्रतिषेधाभ्याम् १५१ । ग्रहणादप्रवृत्तिः १५२ । संत्वराश्रुतेश्च १५३ । नित्यानुवादो ऽनुयाजप्रतिषेधः । का. श्रौ. सू. ७ । १५४ ॥ ↩︎
-
52:1 For the Śamyuvāka, see I, 9, 1, 24; for the Patnīsaṁyājas, I, 9, 2: 1 seq. ↩︎