०१

विश्वास-प्रस्तुतिः

व्वा᳘चं यच्छति॥
स᳘ व्वाचंयम᳘ ऽआस्त᳘ ऽआस्तमयात्तद्यद्वा᳘चं य᳘च्छति॥

मूलम् - श्रीधरादि

व्वा᳘चं यच्छति॥
स᳘ व्वाचंयम᳘ ऽआस्त᳘ ऽआस्तमयात्तद्यद्वा᳘चं य᳘च्छति॥

मूलम् - Weber

वा᳘चं यछति॥
स᳘ वाचंयम᳘ आस्तॗ आस्तमयात्तद्यद्वा᳘चं यछति॥

मूलम् - विस्वरम्

अथ दीक्षितधर्माः ।

वाचं यच्छति । स वाचंयम आस्ते- आस्तमयात् । तद्यद्वाचं यच्छति ॥ १ ॥

सायणः

गृहीतस्य वचसां विसर्गकालविधानाय पुनरनुवदति- वाचं यच्छतीति । (का. श्रौ. सू. ७ । १०६) ॥ १ ॥

Eggeling
  1. He maintains silence; and silently he remains seated till sunset. The reason why he maintains silence is this:

०२

विश्वास-प्रस्तुतिः

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्यᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यूपेन[[!!]] योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥

मूलम् - श्रीधरादि

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्यᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यूपेन[[!!]] योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥

मूलम् - Weber

यज्ञे᳘न वै᳘ देवाः᳟॥
इमां जि᳘तिं जिग्युॗर्यैषामियं जि᳘तिस्ते होचुः कथं᳘ न इद᳘म् मनुॗष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य रसं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिॗरो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥

मूलम् - विस्वरम्

यज्ञेन वै देवा इमां जितिं जिग्युः- यैषामियं जितिः । ते होचुः- कथं न इदं मनुष्यैरनभ्यारोह्यं स्यादिति । ते यज्ञस्य रसं धीत्वा- यथा मधु मधुकृतो निर्धयेयुः- विदुह्य यज्ञं यूपेन योपयित्वा । तिरो ऽभवन् । अथ यदेनेनायोपयन्- तस्माद्यूपो नाम ॥ २ ॥

सायणः

वाग्यमनं प्रशंसितुमाख्यायिकामाह- यज्ञेन वै देवा इत्यादिना (श. प. ब्रा. १ । ६ । २ । १) । एतत्प्राग् व्याख्यातम् ॥ २ ॥ ३ ॥

Eggeling
  1. By means of the sacrifice the gods gained that supreme authority which they now wield. They spake, ‘How can this (world) of ours be made unattainable to men?’ They sipped the sap of the sacrifice, even as bees would suck out honey; and having drained the sacrifice and scattered it by means of the sacrificial post, they disappeared: and because they scattered (yopaya, viz. the sacrifice) therewith, therefore it is called yūpa (post) 1.

०३

विश्वास-प्रस्तुतिः

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा᳘ ऽएष᳘ यज्ञᳫँ᳭ स᳘म्भरति यो दी᳘क्षते व्वाग्वै᳘ यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा᳘ ऽएष᳘ यज्ञᳫँ᳭ स᳘म्भरति यो दी᳘क्षते व्वाग्वै᳘ यज्ञः[[!!]]॥

मूलम् - Weber

तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫं स᳘मभरन्य᳘थायं᳘ यज्ञः स᳘म्भृत एवं वा᳘ एष᳘ यज्ञᳫं स᳘म्भरति यो दी᳘क्षते वाग्वै᳘ यज्ञः᳟॥

मूलम् - विस्वरम्

तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन् । यथा ऽयं यज्ञः सम्भृतः- एवं वा एष यज्ञं सम्भरति यो दीक्षते । वाग्वै यज्ञः ॥ ३ ॥

सायणः

[व्याख्यानं द्वितीये]

Eggeling
  1. Now this was heard by the R̥shis. They collected the sacrifice. As that sacrifice was collected (prepared) 2, so does he who is consecrated collect the sacrifice (by keeping his speech within him),–for the sacrifice is speech.

०४

विश्वास-प्रस्तुतिः

(स्ता) ताम᳘स्तमिते व्वा᳘चं व्वि᳘सृजते॥
संवत्सरो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्य᳘ज्ञो ऽहोरात्रे वै᳘ संव्वत्सर᳘ ऽएते᳘ ह्येनं परिप्ल᳘वमाने कुरुतः सो᳘ ऽहन्नदीक्षिष्ट स रा᳘त्रिं प्रा᳘पत्स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैत᳘दाप्त्वा व्वा᳘चं व्वि᳘सृजते॥

मूलम् - श्रीधरादि

(स्ता) ताम᳘स्तमिते व्वा᳘चं व्वि᳘सृजते॥
संवत्सरो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्य᳘ज्ञो ऽहोरात्रे वै᳘ संव्वत्सर᳘ ऽएते᳘ ह्येनं परिप्ल᳘वमाने कुरुतः सो᳘ ऽहन्नदीक्षिष्ट स रा᳘त्रिं प्रा᳘पत्स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैत᳘दाप्त्वा व्वा᳘चं व्वि᳘सृजते॥

मूलम् - Weber

ताम᳘स्तमिते वा᳘चं वि᳘सृजते॥
संवत्सरो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यॗज्ञो ऽहोरात्रे वै᳘ संवत्सर᳘ एतेॗ ह्येनम् परिप्ल᳘वमाने कुरुतः सो᳘ ऽहन्नदीक्षिष्ट स रा᳘त्रिम् प्रा᳘पत्स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैत᳘दाप्त्वा वा᳘चं विसृजते॥

मूलम् - विस्वरम्

तामस्तमिते वाचं विसृजते । संवेत्सरा वै प्रजापतिः । प्रजापतिर्यज्ञः । अहोरात्रे वै संवत्सरः । एते ह्येनं परिप्लवमाने कुरुतः । सो ऽहन्नदीक्षिष्ट, स रात्रिं प्रापत् । स यावानेव यज्ञो, यावत्यस्य मात्रातावन्तमेवैतदाप्त्वा वाचं विसृजते ॥ ४ ॥

सायणः

वाग्विमोकं विधत्तं- तामस्तमिते वाचमिति (का. श्रौ. सू. ७ । १०७) । अस्तमयानन्तरभावित्वं वाग्विमोकस्य प्रशंसति- संवत्सरो वा इति । ‘एते’ एव ‘अहोरात्रे’ ‘परिप्लवमाने’ पुनः पुनरावर्तमाने ‘एनं’ संवत्सरं ‘कुरुतः’ निष्पादयतः । ‘सः’ उक्तलक्षणः ‘प्रजापतिः’ पुरा स्वयज्ञसमये ‘अहन्’ अहनि ‘अदीक्षिष्ट’ लुङ् (पा. सू. ३ । ३ । ११०) दीक्षितवान् । कृतदीक्षः ‘सः’ प्रजापतिः, ‘रात्रिम्‘ ‘प्रापत्’ प्राप्तवान् । दीक्षितोपलक्षितां वाचं रात्रिपर्यन्तमन्ववर्तयदित्यर्थः । अतस्तावत्पर्यन्तं वाग्यमनं कुर्वन् दीक्षितो ‘यावान्’ ‘यज्ञः’ संवत्सर-प्रजापत्यात्मको ऽस्ति, ‘अस्य’ च ‘यावती’ ‘मात्रा’ परिमितिरस्ति, ‘तावन्तं’ सकलमपि ‘एतत्’ एतेन नियमेन ‘आप्त्वा’ ‘वाचं’ विसृष्टवान् भवति ॥ ४ ॥

Eggeling
  1. When the sun has set, he breaks silence. Now Prajāpati is the year, since the sacrifice is Prajāpati; and the year is day and night, since these two revolving produce it. He has been consecrated during the day, and he has gained the night: as great as the sacrifice is, as great as is its extent, to that extent has he gained it before he breaks silence.

०५

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
न᳘क्षत्रं दृष्ट्वा व्वा᳘चं व्वि᳘सर्जयन्त्य᳘त्रानुष्ठ्या᳘ ऽस्तमितो भवती᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्क्व[[!!]] ते᳘ स्युर्य᳘न्मेघः स्यात्त᳘स्माद्य᳘त्रै᳘वानुष्ठ्या᳘ ऽस्तमितं म᳘न्येत त᳘देव व्वा᳘चं व्वि᳘सर्जयेत्॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
न᳘क्षत्रं दृष्ट्वा व्वा᳘चं व्वि᳘सर्जयन्त्य᳘त्रानुष्ठ्या᳘ ऽस्तमितो भवती᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्क्व[[!!]] ते᳘ स्युर्य᳘न्मेघः स्यात्त᳘स्माद्य᳘त्रै᳘वानुष्ठ्या᳘ ऽस्तमितं म᳘न्येत त᳘देव व्वा᳘चं व्वि᳘सर्जयेत्॥

मूलम् - Weber

तद्धै᳘के॥
न᳘क्षत्रं दृष्ट्वा वा᳘चं वि᳘सर्जयन्त्य᳘त्रानुष्ट्या᳘स्तमितो भवती᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यात्क्व᳘ ते᳘ स्युर्य᳘न्मेघः स्यात्त᳘स्माद्य᳘त्रैॗवानुष्ट्या᳘स्तमितम् म᳘न्येत त᳘देव वा᳘चं वि᳘सर्जयेत्॥

मूलम् - विस्वरम्

तद्धैके- नक्षत्रं दृष्ट्वा वाचं विसर्जयन्ति- अत्रानुष्ठ्या ऽस्तमितो भवतीति वदन्तः । तदु तथा न कुर्यात्- क्व ते स्युः- यन्मेघः स्यात् । तस्माद्यत्रैवानुष्ठ्यास्तमितं मन्येत- तदेवं वाचं विसर्जयेत् ॥ ५ ॥

सायणः

वाग्विमोके केषाञ्चित्पक्षमाह- तद्धैक इति (आ. श्रौ. सू. १० । १६ । १) । ‘अत्र’ नक्षत्रदर्शनकाले । ‘अनुष्ठ्या’ सम्यगित्यर्थः । सर्वैः प्रज्ञातत्वेन सूर्यः ‘अस्तमितो भवतीति’ ‘वदन्तः’ । तमिमं पक्षं दूषयति- तदु तथेति । ‘ते’ तथा ऽनुष्ठातारो यदि ‘मेघः’ नक्षत्राच्छादकः ‘स्यात्,’ तर्हि ‘क्व स्युः’ कुत्र वाग्विसर्गकर्तारो भवेयुः । ‘तस्माद्’ ‘यत्र’ काले ‘अस्तमितम्’ ‘अनुष्ठ्या’ सम्यक् प्रज्ञातं ‘मन्येत’ तदैव परित्यजेत्; न नक्षत्रोदये वाग्विसर्गः ॥ ५ ॥

Eggeling
  1. Some, however, make him break his silence on seeing the (first) start 3, arguing that then the sun has actually set. But let him not do so, for what would become of them if it were cloudy? Let him therefore break silence as soon as he thinks the sun has set.

०६

विश्वास-प्रस्तुतिः

(द) अ᳘नेनो है᳘के व्वा᳘चं व्वि᳘सर्जयन्ति॥
भूर्भु᳘वः᳘ स्वरि᳘ति यज्ञमा᳘प्याययामो यज्ञᳫँ᳭सं᳘दध्म इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यान्न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति य᳘ एते᳘न व्वा᳘चं व्विसर्ज᳘यति॥

मूलम् - श्रीधरादि

(द) अ᳘नेनो है᳘के व्वा᳘चं व्वि᳘सर्जयन्ति॥
भूर्भु᳘वः᳘ स्वरि᳘ति यज्ञमा᳘प्याययामो यज्ञᳫँ᳭सं᳘दध्म इ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यान्न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति य᳘ एते᳘न व्वा᳘चं व्विसर्ज᳘यति॥

मूलम् - Weber

अ᳘नेनो है᳘के वा᳘चं वि᳘सर्जयनि॥
भूर्भु᳘वः स्वरि᳘ति यज्ञमा᳘प्याययामो यज्ञᳫं सं᳘दध्म इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यान्न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति य᳘ एते᳘न वा᳘चं विसर्ज᳘यति॥

मूलम् - विस्वरम्

अनेनो हैके वाचं विसर्जयन्ति- भूर्भुवः स्वः- इति । यज्ञमाप्याययामः, यज्ञं संदध्मः- इति वदन्तः । तदु तथा न कुर्यात् । न ह स यज्ञमाप्याययति, न संदधाति- य एतेन वाचं विसर्जयति ॥ ६ ॥

सायणः

मन्त्रविषये केषाञ्चित् पक्षमनूद्य निराचष्टे- अनेनो हैक इति (‘भूर्भुवः स्वरिति वा का. श्रौ. सू. ७ । १०९) । यज्ञाप्यायनसन्धानयोस्तन्मन्त्रे स्फुटमप्रतिभानात् ‘न ह’ इत्युक्तम् ॥ ६ ॥

Eggeling
  1. Now, some make him break silence by the formula, ‘Earth! ether! sky!’ arguing that thereby they strengthen the sacrifice, they heal, the sacrifice. But let him not do so; for he who breaks silence with that (formula) does not strengthen the sacrifice, does not heal the sacrifice.

०७

विश्वास-प्रस्तुतिः

(त्य) अने᳘नैव व्वा᳘चं व्वि᳘सर्जयेत्॥
(द्व्र) व्व्रतं कृणुत व्व्रतं᳘ कृणुताग्निर्ब्र᳘ह्माग्नि᳘र्यज्ञो व्व᳘नस्प᳘तिर्यज्ञि᳘य ऽइ᳘त्येष᳘ ह्यस्या᳘त्र यज्ञो भ᳘वत्येत᳘द्धविर्य᳘था पु᳘रा ऽग्निहोत्रं त᳘द्यज्ञे᳘नै᳘वैत᳘द्यज्ञ᳘ᳫँ᳘ सम्भृ᳘त्य यज्ञे᳘ यज्ञं प्र᳘तिष्ठापयति यज्ञे᳘न यज्ञᳫँ᳭सं᳘तनोति सं᳘तत᳘ᳫं᳘[[!!]] ह्ये᳘वास्यैत᳘द्व्रतं भ᳘वत्या᳘ सुत्या᳘यै त्रिष्कृ᳘त्व ऽआह त्रिवृद्धि᳘ यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

(त्य) अने᳘नैव व्वा᳘चं व्वि᳘सर्जयेत्॥
(द्व्र) व्व्रतं कृणुत व्व्रतं᳘ कृणुताग्निर्ब्र᳘ह्माग्नि᳘र्यज्ञो व्व᳘नस्प᳘तिर्यज्ञि᳘य ऽइ᳘त्येष᳘ ह्यस्या᳘त्र यज्ञो भ᳘वत्येत᳘द्धविर्य᳘था पु᳘रा ऽग्निहोत्रं त᳘द्यज्ञे᳘नै᳘वैत᳘द्यज्ञ᳘ᳫँ᳘ सम्भृ᳘त्य यज्ञे᳘ यज्ञं प्र᳘तिष्ठापयति यज्ञे᳘न यज्ञᳫँ᳭सं᳘तनोति सं᳘तत᳘ᳫं᳘[[!!]] ह्ये᳘वास्यैत᳘द्व्रतं भ᳘वत्या᳘ सुत्या᳘यै त्रिष्कृ᳘त्व ऽआह त्रिवृद्धि᳘ यज्ञः[[!!]]॥

मूलम् - Weber

अने᳘नैव वा᳘चं वि᳘सर्जयेत्॥
व्र᳘तं कृणुत व्रतं᳘ कृणुताग्निर्ब्र᳘ह्माग्नि᳘र्यज्ञो व᳘नस्प᳘तिर्यज्ञि᳘य इ᳘त्येष ह्य᳘स्या᳘त्र यज्ञो भ᳘वत्येत᳘द्धविर्य᳘था पुॗराग्निहोत्रं त᳘द्यज्ञे᳘नैॗवैत᳘द्यज्ञ᳘ᳫं᳘ सम्भृ᳘त्य यज्ञे᳘ यज्ञम् प्र᳘तिष्ठापयति यज्ञे᳘न यज्ञᳫं सं᳘तनोति सं᳘तॗतᳫं ह्येॗवास्यैत᳘द्व्रतम् भ᳘वत्या᳘ सुत्या᳘यै त्रिष्कृ᳘त्व आह त्रिवृद्धि᳘ यज्ञः᳟॥

मूलम् - विस्वरम्

अनेनैव वाचं विसर्जयेत्- “व्रतं कृणुत, व्रतं कृणुताग्निर्ब्रह्मा ऽग्निर्यज्ञो वनस्पतिर्यज्ञियः"- (वा. सं. ४ । ११) इति । एष ह्यस्यात्र यज्ञो भवति, एतद्धविः- यथा पुरा ऽग्निहोत्रम् । तद् यज्ञेनैवैतद्यज्ञं सम्भृत्य, यज्ञे यज्ञं प्रतिष्ठापयति । यज्ञेन यज्ञं संतनोति । संततं ह्येवास्यैतद्व्रतं भवति- आसुत्यायै । त्रिष्कृत्व आह । त्रिवृद्धि यज्ञः ॥ ७ ॥

सायणः

अतः स्वाभिप्रेतमाह- अनेनैवेति । अत्र व्रतं कृणुतेत्यत्व व्रतग्रहणार्थत्वं सामर्थ्यादवसेयम् । वीप्सया तत्तु द्विर्ब्रूयादित्यर्थः सूचितः। अग्निर्ब्रह्मेत्यादिः पृथङ्मन्त्रो वाग्विसर्जनार्थः । तथा च सूत्रम्- “अग्निमभ्यावृत्य व्रतं कृणुतेति वाग्विसर्जनं त्रिरुक्त्वा ऽग्निर्ब्रह्मेति च सकृदिति"- (का. श्रौ. सू. ७ । १०८) इति । व्रतकरणं प्रशंसति- एष हीति। ‘एषः’ व्रताख्यः पदार्थः ‘अत्र’ दीक्षाकाले ‘यज्ञो भवति’ । तथा ‘एतत्’ एव व्रतं ‘हविः’ अपि भवति । ‘यथा’ ‘पुरा’ दीक्षादिवसात्पूर्वम् ‘अग्निहोत्रम्’ एवमिदमप्याग्निहोत्रप्रत्याम्नाय एवेत्यर्थः । यथाहापस्तम्बः- “न त्वेव न व्रतयेदग्निहोत्रस्याविच्छेदाय”- (आ. सू. १० । १६ । ११) इति । अत एतद्व्रताख्येन ‘यज्ञेन’ प्रवर्तमानेन चिकीर्षितं ज्योतिष्टोमं ‘यज्ञम्’ व्रताख्यं ‘सम्भृत्य’ एकीकृत्य तत्रैव प्रतिष्ठाप्य च तं ज्योतिष्टोममेतेन विस्तारितवान् भवति । अत एतन्मन्त्रे ऽभिगतयज्ञसन्धानसम्भवादयं पक्ष एव श्रेयानित्यर्थः । विहितव्रतं सुत्यादिवसपर्यन्तं कर्तव्यमित्याह- सन्ततमिति ॥ ७ ॥

Eggeling
  1. Let him rather break silence with this one (Vāj. S. IV, 11), ‘Prepare ye the fast-food! prepare ye the fast-food! [prepare ye the fast-food!] Agni is the Brahman, Agni is the sacrifice; the tree is meet for the sacrifice.’ For this indeed is his sacrifice, this is his havis-offering at this (rite of consecration), even as the Agnihotra was heretofore 4. In thus preparing the (Soma) sacrifice by means of the sacrifice, he establishes the sacrifice

in the sacrifice, and carries on the sacrifice by means of the sacrifice; for (the partaking of) that fast-food is indeed carried on by him till the pressing of the Soma. Thrice he pronounces (the first words 5), for threefold is the sacrifice.

०८

विश्वास-प्रस्तुतिः

(ज्ञो᳘ ऽथा) अ᳘थाग्नि᳘मभ्यावृ᳘त्य व्वा᳘चं व्वि᳘सृजते॥
न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति यो᳘ ऽतो ऽन्ये᳘न व्वा᳘चं व्विसृज᳘ते स᳘ प्रथमं᳘ व्याह᳘रन्त्सत्यं᳘ व्वा᳘चो ऽभिव्या᳘हरति॥

मूलम् - श्रीधरादि

(ज्ञो᳘ ऽथा) अ᳘थाग्नि᳘मभ्यावृ᳘त्य व्वा᳘चं व्वि᳘सृजते॥
न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति यो᳘ ऽतो ऽन्ये᳘न व्वा᳘चं व्विसृज᳘ते स᳘ प्रथमं᳘ व्याह᳘रन्त्सत्यं᳘ व्वा᳘चो ऽभिव्या᳘हरति॥

मूलम् - Weber

अ᳘थाग्नि᳘मभ्यावृ᳘त्य वा᳘चं वि᳘सृजते॥
न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति यो᳘ ऽतो ऽन्ये᳘न वा᳘चं विसृज᳘ते स᳘ प्रथमं᳘ व्याह᳘रन्त्सत्यं᳘ वाॗचो ऽभिव्या᳘हरति॥

मूलम् - विस्वरम्

अथाग्निमभ्यावृत्य वाचं विसृजते । न ह स यज्ञमाप्याययति, न संदधाति- यो ऽतो ऽन्येन वाचं विसृजते । स प्रथमं व्याहरन्- सत्यं वाचो ऽभिव्याहरति ॥ ८ ॥

सायणः

वाग्विमोको ऽयभिमुखं कर्तव्य इत्याह- अथाग्निमिति (का. श्रौ. सू. ७ । १०८) । उक्तमर्थं व्यतिरेकेण प्रशंसति- न हेति । ‘अतो ऽन्येन’ भूभुर्वः स्वरित्यनेन । मन्त्रपदानि व्याचष्टे- स प्रथममिति । वाग्व्यवहारस्यादावग्निर्ब्रह्मेति ब्रुवन् सत्यमेवोक्तवान् भवति; “सत्यं ब्रह्म” इति श्रुतेः (बृ. आ. उ. ५ । ४ । १) ॥ ८ ॥

Eggeling
  1. Moreover, he breaks silence, after turning round towards the fire. He, on the other hand, who breaks silence with any other (formula) but this 6, does not strengthen the sacrifice, does not heal the sacrifice. In pronouncing the first (part of the formula) 7 he utters the truth of speech 8.

०९

विश्वास-प्रस्तुतिः

(त्य) अग्निर्ब्रह्मे᳘ति॥
(त्य) अग्नि᳘र्ह्येव ब्र᳘ह्मा ऽग्नि᳘र्यज्ञ ऽइ᳘त्यग्नि᳘र्ह्येव᳘ यज्ञो व्व᳘नस्प᳘तिर्यज्ञि᳘य ऽइ᳘ति व्व᳘नस्प᳘तयो हि᳘ यज्ञि᳘या न हि᳘ मनु᳘ष्या य᳘जेरन्यद्वनस्प᳘तयो[[!!]] न स्युस्त᳘स्मादाह व्व᳘नस्प᳘तिर्यज्ञि᳘य इ᳘ति॥

मूलम् - श्रीधरादि

(त्य) अग्निर्ब्रह्मे᳘ति॥
(त्य) अग्नि᳘र्ह्येव ब्र᳘ह्मा ऽग्नि᳘र्यज्ञ ऽइ᳘त्यग्नि᳘र्ह्येव᳘ यज्ञो व्व᳘नस्प᳘तिर्यज्ञि᳘य ऽइ᳘ति व्व᳘नस्प᳘तयो हि᳘ यज्ञि᳘या न हि᳘ मनु᳘ष्या य᳘जेरन्यद्वनस्प᳘तयो[[!!]] न स्युस्त᳘स्मादाह व्व᳘नस्प᳘तिर्यज्ञि᳘य इ᳘ति॥

मूलम् - Weber

अग्निर्ब्रह्मे᳘ति॥
अग्निॗर्ह्येव ब्र᳘ह्माग्नि᳘र्यज्ञ इ᳘त्यग्निॗर्ह्येव᳘ यज्ञो व᳘नस्प᳘तिर्यज्ञि᳘य इ᳘ति व᳘नस्प᳘तयो हि᳘ यज्ञि᳘या न हि᳘ मनुॗष्या य᳘जेरन्यद्व᳘नस्प᳘तयो न स्युस्त᳘स्मादाह व᳘नस्प᳘तिर्यज्ञि᳘य इ᳘ति॥

मूलम् - विस्वरम्

अग्निर्ब्रह्मेति । अग्निर्ह्येव ब्रह्म । अग्निर्यज्ञ इति । अग्निर्ह्येव यज्ञः । वनस्पतिर्यज्ञिय इति । वनस्पतयो हि यज्ञियाः । नहि मनुष्या यजेरन्- यद्वनस्पतयो न स्युः । तस्मादाह वनस्पतिर्यज्ञिय इति ॥ ९ ॥

सायणः

अग्निरिति । वनस्पतेर्यज्ञार्हत्वं श्रुतिरेवोपपादयति- न हि मनुष्या इति ॥ ९ ॥

Eggeling
  1. ‘Agni is the Brahman’ (neut.), he says, for Agni is indeed the Brahman (sacerdotium);–‘Agni is the sacrifice,’ for Agni is indeed the sacrifice;–’the tree is meet for the sacrifice,’ for trees 9 are indeed meet for the sacrifice, since men could not sacrifice, if there were no trees: therefore he says, ’the tree is meet for the sacrifice.’

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्मै व्व्रत᳘ᳫं᳘ श्रपयन्ति॥
देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति शृतं वै᳘ देवा᳘नाᳫँ᳭ हविर्ना᳘शृतं त᳘स्माच्छ्रपयन्ति त᳘देष᳘ ऽएव᳘ व्व्रतयति᳘ नाग्नौ᳘ जुहो᳘ति त᳘द्यदेष᳘[[!!]] एव᳘ व्व्रत᳘यति᳘ नाग्नौ᳘ जुहो᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्मै व्व्रत᳘ᳫं᳘ श्रपयन्ति॥
देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति शृतं वै᳘ देवा᳘नाᳫँ᳭ हविर्ना᳘शृतं त᳘स्माच्छ्रपयन्ति त᳘देष᳘ ऽएव᳘ व्व्रतयति᳘ नाग्नौ᳘ जुहो᳘ति त᳘द्यदेष᳘[[!!]] एव᳘ व्व्रत᳘यति᳘ नाग्नौ᳘ जुहो᳘ति॥

मूलम् - Weber

अ᳘थास्मै व्रतं᳘ श्रपयन्ति॥
देवान्वा᳘ एष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति शृतं वै᳘ देवा᳘नाᳫं हविर्ना᳘शृतं त᳘स्माछ्रपयन्ति त᳘देष᳘ एव᳘ व्रतयतिॗ नाग्नौ जुहोति तद्य᳘देष᳘ एव᳘ व्रत᳘यतिॗ नाग्नौ जुहो᳘ति॥

मूलम् - विस्वरम्

अथास्मै व्रतं श्रपयन्ति । देवान्वा एष उपावर्तते- यो दीक्षते । स देवतानामेको भवति । शृतं वै देवानां हविः- नाशृतम् । तस्माच्छ्रपयन्ति । तदेष एव व्रतयति, नाग्नौ जुहोति । तद्यदेष एव व्रतयति, नाग्नौ जुहोति ॥ १० ॥

सायणः

अथास्मा इति । शृतं वा इत्यादि । ‘शृतम्’ पक्वम् । ‘वै’ शब्देन श्रुत्यन्तरप्रसिद्धिरभिधीयते । तथा च तैत्तिरीयकम्- “यः शृतः स सदेवस्तस्मादविदहता शृतंकृत्यः सदैवत्वाय"- (तै. सं. २ । ६ । ३ । ४) इति ‘तत्’ शृतं क्षीरम् ‘एषः’ दीक्षित एव पिबति 10 (का. श्रौ. सू. ७ । ११३) 11 एवकारव्युदसनीयमाह- नाग्नाविति ॥ १० ॥

Eggeling
  1. Thereupon they cook the fast-food for him. For he who is consecrated draws nigh to the gods and becomes one of the deities. But the sacrificial food of the gods must be cooked, and not uncooked: hence they cook it, and he partakes of that fast-milk

(vrata) and does not offer it in the fire. The reason why he eats the fast-food and does not offer it in the fire is this:

११

विश्वास-प्रस्तुतिः

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्यᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदुह्य[[!!]] यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥

मूलम् - श्रीधरादि

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्यᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदुह्य[[!!]] यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥

मूलम् - Weber

यज्ञे᳘न वै᳘ देवाः᳟॥
इमां जि᳘तिं जिग्युॗर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इद᳘म् मनुॗष्यैरनभ्यारोह्यᳫं स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिॗरो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥

मूलम् - विस्वरम्

यज्ञेन वै देवाः इमां जितिं जिग्युः- येषामियं जितिः । ते होचुः- कथं न इदं मनुष्यैरनभ्यारोह्यं स्यादिति । ते यज्ञस्य रसं धीत्वा- यथा मधु मधुकृतो निर्धयेयुः । विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन् । अथ यदेनेनायोपयन्- तस्माद्यूपो नाम ॥ ११ ॥

सायणः

आत्मन्येव होमं पुरातनवृत्तान्ताभिधानेन प्रशंसति- यज्ञेन वा इति । (श. प. ब्रा. १ । ६ । २ । १ भाष्ये) गतम् । देवैराच्छादितस्यापि पयोव्रतस्य तदवगच्छद्भिः पूर्वोक्तर्षिभिः सम्भृतत्वादनेनापि सम्भर्तव्यमित्यर्थः ॥ ११ ॥

Eggeling
  1. By means of the sacrifice the gods gained that supreme authority which they now wield. They spake, ‘How can this (world) of ours be made unattainable to men?’ They sipped the sap of the sacrifice, even as bees would suck out honey; and having drained the sacrifice and scattered it by means of the sacrificial post, they disappeared. And because they scattered (yopaya) therewith, therefore it is called yūpa (post).

१२

विश्वास-प्रस्तुतिः

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएष वा ऽअ᳘त्र यज्ञो᳘ भवति यो दी᳘क्षत ऽएष᳘ ह्येनं तनुत᳘ ऽएष᳘ ऽएनं जन᳘यति तद्य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं त᳘दे᳘वैतत्पु᳘नरा᳘प्याययति य᳘देष᳘ ऽएव᳘ व्व्रत᳘यति᳘ नाग्नौ᳘ जुहो᳘ति न हा᳘प्याययेद्य᳘दग्नौ᳘ जुहुयाज्जु᳘ह्वदु हैव म᳘न्येत ना᳘जुह्वत्॥

मूलम् - श्रीधरादि

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएष वा ऽअ᳘त्र यज्ञो᳘ भवति यो दी᳘क्षत ऽएष᳘ ह्येनं तनुत᳘ ऽएष᳘ ऽएनं जन᳘यति तद्य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं त᳘दे᳘वैतत्पु᳘नरा᳘प्याययति य᳘देष᳘ ऽएव᳘ व्व्रत᳘यति᳘ नाग्नौ᳘ जुहो᳘ति न हा᳘प्याययेद्य᳘दग्नौ᳘ जुहुयाज्जु᳘ह्वदु हैव म᳘न्येत ना᳘जुह्वत्॥

मूलम् - Weber

तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫं स᳘मभरन्य᳘थायं᳘ यज्ञः स᳘म्भृत एष वा अ᳘त्र यज्ञो᳘ भवति यो दी᳘क्षत एषॗ ह्येनं तनुत᳘ एष᳘ एनं जन᳘यति तद्य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं त᳘देॗवैतत्पु᳘नरा᳘प्याययति य᳘देष᳘ एव᳘ व्र᳘तयतिॗ नाग्नौ जुहो᳘ति न हा᳘प्याययेद्य᳘दग्नौ᳘ जुहुयाज्जु᳘ह्वदु हैव म᳘न्येत ना᳘जुह्वत्॥

मूलम् - विस्वरम्

तद्रा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन्- यथा ऽयं यज्ञः सम्भृतः । एष वा अत्र यज्ञो भवति- यो दीक्षते । एष ह्येनं तनुते । एष एनं जनयति । तद् यदेवात्र यज्ञस्य निर्धीतम्, यद्विदुग्धं- तदेवैतत् पुनराप्याययति । यदेष एव व्रतयति, नाग्नौ जुहोति । न हाप्याययेद्- यदग्नौ जुहुयात् । जुह्वदु हैव मन्येत- नाजुह्वत् ॥ १२ ॥

सायणः

तद्वा ऋषीणामिति । ननु सर्वमपि हविरग्नावेव हूयते, किमिदं पीयत इत्याशङ्क्य दीक्षितस्याप्यग्नित्वमुपपादयति- एष वा अत्रेति । ‘यज्ञ’- शब्देनात्राग्निरभिधीयते यज्ञोत्पादकत्वाभिधानात् । अतः स्वात्माग्नौ होमेन ‘यज्ञस्य’ ज्योतिष्टोमस्य ‘यत्’ ‘निर्धीतम्’ निष्पीतम् अनुष्ठानेन विफलम् ‘यत्’ च ‘विदुग्धं’ विपरीतानुष्ठानेन विपरीतफलमङ्गम्, ‘तत्’ ‘पुनः’ आप्यायितवान् भवति । व्यतिरेके दोषमाह- न हेति । जुह्वदु हैव मन्येतेति । उक्तम् ॥ १२ ॥

Eggeling
  1. Now this was heard by the R̥shis. They collected the sacrifice. As that sacrifice was collected, so does he who is consecrated now become the sacrifice, for it is he that carries it on, that produces it. And whatever (sap) of the sacrifice was sucked out and drained, that he now restores again by sipping the fast-milk and not offering it in the fire; for, assuredly, were he to offer it in the fire, he would not replenish (the sacrifice). But let him, nevertheless, think (that he does so) sacrificing and not the reverse.

१३

विश्वास-प्रस्तुतिः

(दि) इमे वै᳘ प्राणाः[[!!]]॥
(०) म᳘नोजाता मनोयु᳘जो द᳘क्षक्रतवो व्वा᳘गे᳘वाग्निः᳘ प्राणोदानौ᳘ मित्राव᳘रुणौ च᳘क्षुरादित्यः श्रो᳘त्रं व्वि᳘श्वे देवा᳘ ऽएता᳘सु है᳘वास्यैत᳘द्देव᳘तासु हुतं᳘ भवति॥

मूलम् - श्रीधरादि

(दि) इमे वै᳘ प्राणाः[[!!]]॥
(०) म᳘नोजाता मनोयु᳘जो द᳘क्षक्रतवो व्वा᳘गे᳘वाग्निः᳘ प्राणोदानौ᳘ मित्राव᳘रुणौ च᳘क्षुरादित्यः श्रो᳘त्रं व्वि᳘श्वे देवा᳘ ऽएता᳘सु है᳘वास्यैत᳘द्देव᳘तासु हुतं᳘ भवति॥

मूलम् - Weber

इमे वै᳘ प्राणाः᳟॥
मनोजाता मनोयु᳘जो द᳘क्षक्रतवो वा᳘गेॗवाग्निः᳘ प्राणोदानौ᳘ मित्राव᳘रुणौ च᳘क्षुरादित्यः श्रो᳘त्रं वि᳘श्वे देवा᳘ एता᳘सु हैॗवास्यैत᳘द्देव᳘तासु हुत᳘म् भवति॥

मूलम् - विस्वरम्

इमे वै प्राणाः- मनोजाता मनोयुजो दक्षक्रतवः । वागेवाग्निः । प्राणोदानौ मित्रावरुणौ । चक्षुरादित्यः । श्रोत्रं विश्वेदेवाः । एतासु हैवास्यैतद्देवतासु हुतं भवति ॥ १३ ॥

सायणः

देवताप्रीणनाभावात् कथं तादृशी मतिरुत्पद्यत इत्यत आह- इमे वा इति । वागादीनां मुख्यप्राणप्रवेशेन प्राणशब्दव्यवहारस्य ‘इमे प्राणाः’ वागादयः ‘मनोजाताः’ मनसः सकाशादुत्पन्नाः, मनोव्यतिरेकण इतस्ततः प्रवृत्त्यभावात् । ‘मनोयुजः’ च स्वस्वव्यापारेषु मनसः कर्तृत्वात् । त एवं ‘दक्षक्रतवः’ दक्षाः प्रवृद्धाः स्वस्वोचिताः क्रतवः कर्माणि येषां ते तथोक्ताः । तेषां देवता विभज्य योजयति- वागेवाग्निरित्यादिना । “अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुतेः (ऐ. २. आर. ४. अ. २. खं) इन्द्रिय-तदभिमानिदेवतयोरभेदव्यवहारः । यस्मात् ‘एतासु’ ‘देवतासु’ प्रीणयति, तस्मादेतासु निमित्तभूतासु स्वात्मनि ‘हुतं भवति’ । यद्वा अग्नौ चेदेकस्मिन्नेव हुतं भवेत्, आत्मनि तु तत्तदिन्द्रियदेवतासु सर्वास्वपि हुतं भवतीति व्याख्येयम् । तस्माज्जुह्वन्मन्येत इत्यर्थः ॥ १३ ॥

Eggeling
  1. For, verily, these vital airs are born of the mind, endowed with mind 12, of intelligent power 13: Agni is speech; Mitra and Varuṇa are the out-breathing and the in-breathing; Āditya (the sun) is the eye; and the All-gods are the ear,–it is unto these deities that offering is thereby made by him.

१४

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
प्रथमे᳘ व्रत᳘ ऽउभौ᳘ व्रीहियवावा᳘वपन्त्युभा᳘भ्याᳫँ᳭ र᳘साभ्यां य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं तत्पु᳘नरा᳘प्याययाम इ᳘ति व्व᳘दन्तो य᳘द्यु व्व्रतदु᳘घा न᳘ दुहीत य᳘स्यैवा᳘तः काम᳘येत त᳘स्य व्व्रतं᳘ कुर्यादेत᳘दु᳘ ह्ये᳘वास्यैता᳘ ऽउभौ᳘ व्व्रीहियवा᳘वन्वा᳘रब्धौ भ᳘वत ऽइ᳘ति त᳘दु त᳘था न᳘ कुर्यान्न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति य᳘ उभौ᳘ व्व्रीहियवा᳘वाव᳘पति त᳘स्मादन्यतर᳘मेवा᳘वपेद्धविर्व्वा᳘ ऽअस्यैता᳘ ऽउभौ᳘ व्व्रीहियवौ᳘ भवतः स य᳘दे᳘वास्यैतौ᳘ हविर्भ᳘वतस्त᳘दे᳘वास्यैता᳘वन्वा᳘रब्धौ भवतो य᳘द्यु व्व्रतदु᳘घा न᳘ दुहीत य᳘स्यैवा᳘तः काम᳘येत त᳘स्य व्व्रतं᳘ कुर्यात्॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
प्रथमे᳘ व्रत᳘ ऽउभौ᳘ व्रीहियवावा᳘वपन्त्युभा᳘भ्याᳫँ᳭ र᳘साभ्यां य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं तत्पु᳘नरा᳘प्याययाम इ᳘ति व्व᳘दन्तो य᳘द्यु व्व्रतदु᳘घा न᳘ दुहीत य᳘स्यैवा᳘तः काम᳘येत त᳘स्य व्व्रतं᳘ कुर्यादेत᳘दु᳘ ह्ये᳘वास्यैता᳘ ऽउभौ᳘ व्व्रीहियवा᳘वन्वा᳘रब्धौ भ᳘वत ऽइ᳘ति त᳘दु त᳘था न᳘ कुर्यान्न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति य᳘ उभौ᳘ व्व्रीहियवा᳘वाव᳘पति त᳘स्मादन्यतर᳘मेवा᳘वपेद्धविर्व्वा᳘ ऽअस्यैता᳘ ऽउभौ᳘ व्व्रीहियवौ᳘ भवतः स य᳘दे᳘वास्यैतौ᳘ हविर्भ᳘वतस्त᳘दे᳘वास्यैता᳘वन्वा᳘रब्धौ भवतो य᳘द्यु व्व्रतदु᳘घा न᳘ दुहीत य᳘स्यैवा᳘तः काम᳘येत त᳘स्य व्व्रतं᳘ कुर्यात्॥

मूलम् - Weber

तद्धै᳘के॥
प्रथमे᳘ व्रत᳘ उभौ᳘ व्रीहियवावा᳘वपन्त्युभा᳘भ्यां र᳘साभ्यां य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं तत्पु᳘नरा᳘प्याययाम इ᳘ति व᳘दन्तो य᳘द्यु व्रतदु᳘घा न᳘ दुहीत य᳘स्यैवा᳘तः काम᳘येत त᳘स्य व्रतं᳘ कुर्यादेत᳘दुॗ ह्येॗवास्यैता᳘ उभौ व्रीहियवा᳘वन्वा᳘रब्धौ भ᳘वत इ᳘ति त᳘दु त᳘था न᳘ कुर्यान्न᳘ ह स᳘ यज्ञमा᳘प्याययति न सं᳘दधाति य᳘ उभौ᳘ व्रीहियवा᳘वाव᳘पति त᳘स्मादन्यतर᳘मेवा᳘वपेद्धविर्वा᳘ अस्यैता᳘ उभौ᳘ व्रीहियवौ᳘ भवतः स य᳘देॗवास्यैतौ᳘ हविर्भ᳘वतस्त᳘देॗवास्यैता᳘वन्वा᳘रब्धौ भवतो य᳘द्यु व्रतदु᳘घा न᳘ दुहीत य᳘स्यैवा᳘तः काम᳘येत त᳘स्य व्रतं᳘ कुर्यात्॥

मूलम् - विस्वरम्

तद्धैके- प्रथमे व्रत उभौ व्रीहियवावावपन्ति । उभाभ्यां रसाभ्याम्- यदेवात्र यज्ञस्य निर्धीतम् यद्विदुग्धम्- तत्पुनराप्याययाम- इति वदन्तः । यद्यु व्रतदुघा न दुहीत- यस्यैवातः कामयेत- तस्य व्रतं कुर्यात् । एतदु ह्येवास्यैता उभौ व्रीहियवावन्वारब्धौ भवत इति । तदु तथा न कुर्यात् । न ह स यज्ञमाप्याययति, न सन्दधाति- य उभौ व्रीहियवावावपति । तस्मादन्यतरमेवावपेत् । हविर्वा अस्यैता उभौ व्रीहियवौ भवतः । स यदेवास्यैतौ हविर्भवतः- तदेवास्यैतावन्वारब्धौ भवतः । यद्यु व्रतदुघा न दुहीत- यस्यैवातः कामयेत- तस्य व्रतं कुर्यात् ॥ १४ ॥

सायणः

प्रथमदिवस (देय) व्रतविषयकमेकेषाञ्चित्पक्षमाह- तद्धैक इति । ‘प्रथमे व्रते’ प्रथमव्रतार्हे क्षीरे निर्द्धीतविदुग्धयोरप्यङ्गयोराप्यायनायोभयोरपि समाधानायोभयावापे सत्युभे अपि हविषी अन्वारब्धे भवत इति तेषामभिप्रायः । तन्निषेधति- तद्विति । उभयावापस्याप्रयोजकतामाह- न हेति । तर्हि किं कुर्यादिति तत्राह- तस्मादन्यतरमिति । अन्यतरावापपक्षे उभयान्वारम्भः कथं सिद्धयतीति तत्राह- हविर्वा अस्येति । दर्शपूर्णमासयोर्व्रीहियवयोरुभयोरपि हविष्करणात् तत्रैवान्वारब्धौ भवतो न नूतने । अतो ऽप्रयोजकत्वादुभयोरेवावापो ऽनपेक्षित इत्यर्थः 14 । व्रतधुदुग्धाभावे किं कुर्यादित्यत आह- यद्यु इति । यतो व्रीहियवावन्वारब्धौ ‘अतः’ अनयोर्व्रीहियवयोर्मध्ये ‘यस्यैव’ व्रतं ‘कामयेत’ ‘तस्य’ एतद् ‘व्रतं’ कुर्यात् 15 ॥ १४ ॥

Eggeling
  1. Now, some add both rice and barley to the first (day’s) fast-milk, arguing,–“By means of these two substances (rasa) we restore what part of the sacrifice was sucked out and drained; and, should

the vrata-cow yield no milk, he may prepare his fast-food of whichever of these (cereals) he pleases; and thus both the rice and the barley are ’taken hold of’ by him.” But let him not do this; for he who adds both rice and barley (to the milk) neither replenishes the sacrifice nor heals it. Let him therefore add only the one or the other (cereal). Both the rice and barley doubtless form his (havis) material for offering (at the New and Full-moon Sacrifice), and when they do so become his material for offering, then they are also ’taken hold of 16’ by him. Should the vrata, cow yield no milk, let him prepare the fast-food of whichever of them he pleases.

१५

विश्वास-प्रस्तुतिः

(त्त) तद्धै᳘के॥
प्रथमे᳘ व्व्रते सर्व्वौषध᳘ᳫँ᳘ सर्व्वसुरभ्या᳘वपन्ति य᳘दि दीक्षितमा᳘र्तिर्व्विन्देद्ये᳘नैवा᳘तः काम᳘येत ते᳘न भिषज्येद्य᳘था व्व्रते᳘न भिषज्येदि᳘ति त᳘दु त᳘था न᳘ कुर्यान्मानुष᳘ᳫँ᳘ ह ते᳘ यज्ञे᳘ कुर्व्वन्ति᳘ व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति य᳘दि दीक्षितमा᳘र्तिर्व्विन्देद्ये᳘नैवा᳘तः काम᳘येत ते᳘न भिषज्येत्स᳘माप्ति᳘र्ह्येव पुण्या[[!!]]॥

मूलम् - श्रीधरादि

(त्त) तद्धै᳘के॥
प्रथमे᳘ व्व्रते सर्व्वौषध᳘ᳫँ᳘ सर्व्वसुरभ्या᳘वपन्ति य᳘दि दीक्षितमा᳘र्तिर्व्विन्देद्ये᳘नैवा᳘तः काम᳘येत ते᳘न भिषज्येद्य᳘था व्व्रते᳘न भिषज्येदि᳘ति त᳘दु त᳘था न᳘ कुर्यान्मानुष᳘ᳫँ᳘ ह ते᳘ यज्ञे᳘ कुर्व्वन्ति᳘ व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति य᳘दि दीक्षितमा᳘र्तिर्व्विन्देद्ये᳘नैवा᳘तः काम᳘येत ते᳘न भिषज्येत्स᳘माप्ति᳘र्ह्येव पुण्या[[!!]]॥

मूलम् - Weber

तद्धै᳘के॥
प्रथमे᳘ व्रते सर्वौषध᳘ᳫं᳘ सर्वसुरभ्या᳘वपन्ति य᳘दि दीक्षितमा᳘र्तिर्विन्देद्ये᳘नैवा᳘तः काम᳘येत ते᳘न भिषज्येद्य᳘था व्रते᳘न भिषज्येदि᳘ति त᳘दु त᳘था न᳘ कुर्यान्मानुष᳘ᳫं᳘ ह ते᳘ यज्ञे᳘ कुर्वन्ति व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं नेॗद्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति य᳘दि दीक्षितमा᳘र्तिर्विन्देद्ये᳘नैवा᳘तः काम᳘येत ते᳘न भिषज्येत्स᳘माप्तिॗर्ह्येव पु᳘ण्या॥

मूलम् - विस्वरम्

तद्धैके- प्रथमे व्रते सर्वौषधं सर्वसुरभ्यावपन्ति । यदि दीक्षितमार्त्तिर्विन्देत्- येनैवातः कामयेत- तेन भिषज्येत्- यथा व्रतेन भिपज्येदिति । तदु तथा न कुर्यात् । मानुषं ह ते यज्ञे कुर्वन्ति । व्यृद्धं वै तद् यज्ञस्य- यन्मानुषम् । नेद्व्यृद्धं यज्ञे करवाणीति । यदि दीक्षितमार्तिर्विन्देद्- येनैवातः कामयेत- तेन भिषज्येत् । समाप्तिर्ह्येव पुण्या ॥ १५ ॥

सायणः

प्रथमव्रतविषय एवेतरेषां पक्षमाह- तद्धैक इति । क्वचित्तु प्रथमव्रत एव यत् ‘सर्वौषधम्’ व्रीहियवप्रियंगुगोधूमादिकं यच्च ‘सुरभि’ सुगन्धि पिप्पल्यादि, तत् सर्वम् ‘आवपन्ति’ । तथा सत्युत्तरत्र दीक्षितस्यार्तौ सत्यां यादृशाया आर्तेर्यदौषधमिति आर्त्यार्तः कामयेत, तत् क्षीरे प्रक्षिप्य पाकं कृत्वा प्रयच्छेत् । तथा सति प्रथमव्रते सर्वौषधस्यान्वारब्धत्वाद् व्रताविरोधेनैव चिकित्सा कृता भवतीति तेषामभिप्रायः 14 । तन्निराचष्टे- तद्विति । तथा सति यथा मनुष्या औषधं क्षीरे प्रक्षिप्य प्रयच्छन्ति, तद्वदेतत्स्यात् । तच्च यज्ञविरुद्धम् । अतो यद्यस्य प्रतिक्रियां कामयेत, केवलं तदेव प्रयच्छेत् यस्मात् ‘समाप्तिः’ यागसम्पूर्तिः ‘पुण्या’ इष्टा, तस्मादन्वारब्धेनाप्यौषधेन भिषज्येदित्यर्थः । अनेनैवार्त्यभावे ऽपि सर्वौषधपक्षो निरस्तः आर्तेरेवोपेक्षितत्वात्, सर्वप्रक्षेपाभावे ऽपि तत्सम्भवात् । अत्र सूत्रम्- “प्रथमे व्रते व्रीहियवयोरन्यतरमात्रपत्युभावेके, एकतरव्रतमदोहे 15, सर्वौषधं सर्वसुरभि चैके” इति । आवपेदिति शेषः ॥ १५ ॥

Eggeling
  1. Some, again, add to the first (day’s) fast-food (vrata) all manner of vegetables and fragrant (seasoning), arguing,–‘If disease were to befall him, he might cure it by whatever thereof he pleases, as if he cured it by the fast-milk 17.’ But let him not

do this, lest he should do what is inauspicious to the sacrifice; for those people do at the sacrifice what is a human act, and inauspicious to the sacrifice assuredly is that which is human. If any disease were to befall him who is consecrated, let him cure it wherewith he pleases; for completion is proper 18.

१६

विश्वास-प्रस्तुतिः

(ण्या᳘ ऽ) अ᳘थास्मै व्व्रतं प्र᳘यच्छति॥
(त्य) अतिनी᳘य मानुषं᳘ काल᳘ᳫँ᳘सा᳘यं दुग्ध᳘मपररात्रे᳘ प्रातर्दुग्ध᳘मपराह्णे व्या᳘कृत्या ऽएव दै᳘वं चै᳘वैत᳘न्मानुषं᳘ च व्या᳘करोति॥

मूलम् - श्रीधरादि

(ण्या᳘ ऽ) अ᳘थास्मै व्व्रतं प्र᳘यच्छति॥
(त्य) अतिनी᳘य मानुषं᳘ काल᳘ᳫँ᳘सा᳘यं दुग्ध᳘मपररात्रे᳘ प्रातर्दुग्ध᳘मपराह्णे व्या᳘कृत्या ऽएव दै᳘वं चै᳘वैत᳘न्मानुषं᳘ च व्या᳘करोति॥

मूलम् - Weber

अ᳘थास्मै व्रतम् प्र᳘यछति॥
अतिनी᳘य मानुषं᳘ काल᳘ᳫं᳘ सायंदुग्ध᳘मपररात्रे᳘ प्रातर्दुग्ध᳘मपराह्णे व्या᳘कृत्या एव दै᳘वं चैॗवैत᳘न्मानुषं᳘ च व्या᳘करोति॥

मूलम् - विस्वरम्

अथास्मै व्रतं प्रयच्छति- अतिनीय मानुषं कालम् । सायं दुग्धमपररात्रे, प्रातर्दुग्धमपराह्णे व्याकृत्या एव दैवं चैवैतन्मानुषं च व्याकरोति ॥ १६ ॥

सायणः

अथास्मा इत्यादि । मानुषकालातिक्रान्तौ कौ कालाविति, तौ दर्शयति- सायन्दुग्धगित्यादिना 19व्याकृत्या एवेति । ‘व्याकृतिः’ व्याकरणम्, देवमानुषयोर्विभाग इति यावत् ॥ १६ ॥

Eggeling
  1. He (the Adhvaryu) hands the fast-food to him, after letting the ordinary (meal-)time pass,–viz. the evening-milk in the latter part of the night, and the morning-milk in the afternoon,–for the sake of distinction: he thereby distinguishes the divine from the human.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थास्मै व्व्रतं᳘ प्रदास्य᳘न्नप ऽउ᳘पस्पर्शयति॥
दै᳘वीं धि᳘यं मनामहे सुमृडीका᳘मभि᳘ष्टये व्वर्चोधां᳘ यज्ञ᳘वाहसᳫँ᳭सुतीर्था᳘ नो ऽअसद्व᳘श ऽइ᳘ति मानुषा᳘य वा᳘ ऽएष᳘ पुरा᳘ ऽशनाया᳘वनेनिक्ते ऽथा᳘त्र दै᳘व्यै धिये त᳘स्मादाह दै᳘वीं धि᳘यं मनामहे सुमृडीका᳘मभि᳘ष्टये व्वर्चोधां᳘ यज्ञ᳘वाहसᳫँ᳭सुतीर्था᳘ नो ऽअसद्व᳘श ऽइ᳘ति स या᳘वत्कि᳘यच्च व्व्रतं[[!!]] व्व्रतयिष्यन्नप᳘[[!!]] ऽउपस्पृशे᳘देते᳘नैवो᳘पस्पृशेत्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थास्मै व्व्रतं᳘ प्रदास्य᳘न्नप ऽउ᳘पस्पर्शयति॥
दै᳘वीं धि᳘यं मनामहे सुमृडीका᳘मभि᳘ष्टये व्वर्चोधां᳘ यज्ञ᳘वाहसᳫँ᳭सुतीर्था᳘ नो ऽअसद्व᳘श ऽइ᳘ति मानुषा᳘य वा᳘ ऽएष᳘ पुरा᳘ ऽशनाया᳘वनेनिक्ते ऽथा᳘त्र दै᳘व्यै धिये त᳘स्मादाह दै᳘वीं धि᳘यं मनामहे सुमृडीका᳘मभि᳘ष्टये व्वर्चोधां᳘ यज्ञ᳘वाहसᳫँ᳭सुतीर्था᳘ नो ऽअसद्व᳘श ऽइ᳘ति स या᳘वत्कि᳘यच्च व्व्रतं[[!!]] व्व्रतयिष्यन्नप᳘[[!!]] ऽउपस्पृशे᳘देते᳘नैवो᳘पस्पृशेत्॥

मूलम् - Weber

अ᳘थास्मै व्रत᳘म् प्रदास्य᳘न्नप उ᳘पस्पर्शयति॥
दै᳘वीं धि᳘यम् मनामहे सुमृडीका᳘मभि᳘ष्टये वर्चोधां᳘ यज्ञ᳘वाहसᳫं सुतीर्था᳘ नो असद्व᳘श इ᳘ति मानुषा᳘य वा᳘ एष᳘ पुरा᳘शनाया᳘वनेनिक्ते ऽथा᳘त्र दै᳘व्यै धिये त᳘स्मादाह दै᳘वीं धि᳘यम् मनामहे सुमृडीका᳘मभि᳘ष्टये वर्चोधां᳘ यज्ञ᳘वाहसᳫं सुतीर्था᳘ नो असद्व᳘श इ᳘ति स या᳘वत्कि᳘यच्च व्रतं᳘ व्रतयिष्य᳘न्नप᳘ उपस्पृशे᳘देते᳘नैवो᳘पस्पृशेत्॥

मूलम् - विस्वरम्

अथास्मै व्रतं प्रदास्यन्नप उपस्पर्शयति- “दैवीं धियं मनामहे, सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वशे"- (वा. सं. ४ । ११) इति । मानुषाय वा एष पुरा ऽशनायावनेनिक्ते । अथात्र दैव्यै धिये । तस्मादाह- दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसं सुतीर्था नो असद्वश इति । स यावत्कियच्च व्रतं व्रतयिष्यन्नप उपस्पृशेत् । एतेनैवोपस्पृशेत् ॥ १७ ॥

सायणः

अध्वर्युकारयितृकं यजमानकर्तृकमुदकोपस्पर्शनं विधत्ते- अथास्मै व्रतं प्रदास्यन्निति 19 । लौकिकाशनाय हस्तावनेजनव्यापृतये मन्त्रेणावनेजनं युक्तम्, तत्रापि पयोव्रतस्य दीक्षितविषयत्वेन देवाशनत्वात् “दैवीं धियम्” इति मन्त्रो युज्यत इत्यर्थः । प्रकरणात् पयोव्रत एव हस्तप्रक्षालने ऽयं मन्त्र इति प्राप्तौ सर्वव्रतावनेजनसाधारणतामाह- स यावदिति ॥ १७ ॥

Eggeling
  1. And when he is about to hand the fast-food to him he makes him touch water 20, with the text, ‘For protection we direct our thoughts to divine devotion, the source of supreme mercy 21, the bestower of glory and the bearer of sacrifices 22: may it prosper our ways, according to our desire!’ Heretofore, indeed, it was for a human meal that he cleansed himself, but now it is for the sake of divine devotion: therefore he says, ‘For the sake of assistance we turn our thoughts to divine devotion, the source of supreme mercy, the bestower of glory, the bearer of sacrifices: may it

prosper our ways, according to our desire!’ Whenever, being about to take the fast-food, he touches water, let him touch it with this same (formula).

१८

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ व्व्रतं᳘ व्रतयति॥
ये᳘ देवा म᳘नोजाता मनोयु᳘जो द᳘क्षक्रतवस्ते᳘ नो ऽवन्तु ते᳘ नः पान्तु ते᳘भ्यः स्वाहे᳘ति तद्यथा[[!!]] व्व᳘षट्कृतᳫँ᳭हुत᳘मेव᳘मस्यैत᳘द्भवति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ व्व्रतं᳘ व्रतयति॥
ये᳘ देवा म᳘नोजाता मनोयु᳘जो द᳘क्षक्रतवस्ते᳘ नो ऽवन्तु ते᳘ नः पान्तु ते᳘भ्यः स्वाहे᳘ति तद्यथा[[!!]] व्व᳘षट्कृतᳫँ᳭हुत᳘मेव᳘मस्यैत᳘द्भवति॥

मूलम् - Weber

अ᳘थ व्रतं᳘ व्रतयति॥
ये᳘ देवा म᳘नोजाता मनोयु᳘जो द᳘क्षक्रतवस्ते᳘ नो ऽवन्तु ते᳘ नः पान्तु ते᳘भ्यः स्वाहे᳘ति तद्य᳘था व᳘षट्कृतᳫं हुत᳘मेव᳘मस्यैत᳘द्भवति॥

मूलम् - विस्वरम्

अथ व्रतं व्रतयति- “ये देवा मनोजाता मनोयुजो दक्षक्रतवस्ते। नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहा” (वा. सं. ४ । ११)- इति । तद्यथा वषट्कृतं हुतम्- एवमस्यैतद् भवति ॥ १८ ॥

सायणः

समन्त्रकं व्रतपानं विधत्ते- अथ व्रतं व्रतयतीति 19 । मनोजातादयो व्याख्याताः 23 । यथा अन्यत्र यागे वषट्कारेण दत्तं हविर्हुतं भवति, एवमस्य समन्त्रकं व्रतं स्वाहाकृतत्वाद्भुतमेव भवतीत्यर्थः ॥ १८ ॥

Eggeling
  1. Thereupon he drinks the fast-food, with the text, ‘May the gods favour us, they who are born of the mind, and endowed with mind 24, and of intelligent power! may they protect us! Hail to them!’ Thus that (fast-food) comes to be for him (by means of the Svāhā) as an oblation consecrated by the Vashaṭ.

१९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्व्रतं᳘ व्व्रतयित्वा ना᳘भिमु᳘पस्पृशते॥
श्वात्राः᳘ पीता᳘ भवत यूय᳘मापो ऽअस्मा᳘कमन्त᳘रुद᳘रे सुशे᳘वाः। ता᳘ ऽअस्म᳘भ्यमयक्ष्मा᳘ ऽअ᳘नमी᳘वा ऽअ᳘नागसः स्व᳘दन्तु देवी᳘रमृ᳘ता ऽऋतावृ᳘धा ऽइ᳘ति देवान्वा᳘ ऽएष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवत्य᳘नुत्सिक्तं वै᳘ देवा᳘नाᳫं᳭हविर᳘थैत᳘द्व्रतप्रदो᳘ मिथ्या᳘ करोति व्व्रत᳘मुपोत्सिञ्च᳘न्व्रतं प्र᳘मीणाति त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थोहास्यैतन्न᳘ मिथ्या᳘ कृतं भ᳘वति न᳘ व्व्रतं प्र᳘मीणाति त᳘स्मादाह श्वात्राः᳘ पीता᳘ भवत यूय᳘मापो ऽअस्मा᳘कमन्त᳘रुद᳘रे सुशे᳘वाः। ता᳘ ऽअस्म᳘भ्यमयक्ष्मा᳘ ऽअनमीवा ऽअ᳘नागसः स्व᳘दन्तु देवी᳘रमृ᳘ता ऽऋतावृ᳘ध ऽइ᳘ति स या᳘वत्कि᳘यच्च व्व्रतं᳘ व्व्रतयित्वा ना᳘भिमुपस्पृशे᳘देते᳘नैवो᳘पस्पृशेत्कस्त᳘द्वेद य᳘द्व्रतप्रदो᳘ व्व्रत᳘मुपोत्सिञ्चेत्[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्व्रतं᳘ व्व्रतयित्वा ना᳘भिमु᳘पस्पृशते॥
श्वात्राः᳘ पीता᳘ भवत यूय᳘मापो ऽअस्मा᳘कमन्त᳘रुद᳘रे सुशे᳘वाः। ता᳘ ऽअस्म᳘भ्यमयक्ष्मा᳘ ऽअ᳘नमी᳘वा ऽअ᳘नागसः स्व᳘दन्तु देवी᳘रमृ᳘ता ऽऋतावृ᳘धा ऽइ᳘ति देवान्वा᳘ ऽएष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवत्य᳘नुत्सिक्तं वै᳘ देवा᳘नाᳫं᳭हविर᳘थैत᳘द्व्रतप्रदो᳘ मिथ्या᳘ करोति व्व्रत᳘मुपोत्सिञ्च᳘न्व्रतं प्र᳘मीणाति त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थोहास्यैतन्न᳘ मिथ्या᳘ कृतं भ᳘वति न᳘ व्व्रतं प्र᳘मीणाति त᳘स्मादाह श्वात्राः᳘ पीता᳘ भवत यूय᳘मापो ऽअस्मा᳘कमन्त᳘रुद᳘रे सुशे᳘वाः। ता᳘ ऽअस्म᳘भ्यमयक्ष्मा᳘ ऽअनमीवा ऽअ᳘नागसः स्व᳘दन्तु देवी᳘रमृ᳘ता ऽऋतावृ᳘ध ऽइ᳘ति स या᳘वत्कि᳘यच्च व्व्रतं᳘ व्व्रतयित्वा ना᳘भिमुपस्पृशे᳘देते᳘नैवो᳘पस्पृशेत्कस्त᳘द्वेद य᳘द्व्रतप्रदो᳘ व्व्रत᳘मुपोत्सिञ्चेत्[[!!]]॥

मूलम् - Weber

अ᳘थ व्रतं᳘ व्रतयित्वा ना᳘भिमु᳘पस्पृशते॥
श्वात्राः᳘ पीता᳘ भवत यूय᳘मापो अस्मा᳘कमन्त᳘रुद᳘रे सुशे᳘वाः ता᳘ अस्म᳘भ्यमयक्ष्मा᳘ अनमीवा अ᳘नागसः स्व᳘दन्तु देवी᳘रमृ᳘ता ऋतावृ᳘धा इति देवान्वा᳘ एष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवत्य᳘नुत्सिक्तं वै᳘ देवा᳘नाᳫं हविर᳘थैत᳘द्व्रतप्रदो᳘ मिथ्य करोति व्रत᳘मुपोत्सिञ्च᳘न्व्रतम् प्र᳘मीणाति त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थो हास्यैतन्न᳘ मिथ्या᳘कृतम् भ᳘वति न᳘ व्रतम् प्र᳘मीणाति त᳘स्मादाह श्वात्राः᳘ पीता᳘ भवत यूय᳘मापो अस्मा᳘कमन्त᳘रुद᳘रे सुशे᳘वाः ता᳘ अस्म᳘भ्यमयक्ष्मा᳘ अनमीवा अ᳘नागसः स्व᳘दन्तु देवी᳘रमृ᳘ता ऋतावृ᳘ध इ᳘ति स या᳘वत्कि᳘यच्च व्रतं᳘ व्रतयित्वा ना᳘भिमुपस्पृशे᳘देते᳘नैवो᳘पस्पृशेत्कस्त᳘द्वेद य᳘द्व्र२तप्रदो᳘ व्रत᳘मुपोत्सिञ्चे᳘त्॥

मूलम् - विस्वरम्

अथ व्रतं व्रतयित्वा नाभिमुपस्पृशति- “श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः । ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधः"- (वा. सं. ४ । १२) इति । देवान्वा एष उपावर्तते यो- दीक्षते । स देवतानामेको भवति । अनुत्सिक्तं वै देवानां हविः । अथैतद् व्रतप्रदो मिथ्या करोति । व्रतमुपोत्सिञ्चन्व्रतं प्रमीणाति । तस्यो हैषा प्रायश्चित्तिः । तथो हास्यैतन्न मिथ्या कृतं भवति, न व्रतं प्रमीणाति । तस्मादाह- श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः । ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृध इति । स यावत्किञ्च व्रतं व्रतयित्वा नाभिमुपस्पृशेत् । एतेनैवोपस्पृशेत् । कस्तद्वेद- यद् व्रतप्रदो व्रतमुपोत्सिञ्चेत् ॥ १९ ॥

सायणः

अथ व्रतं व्रतयित्वेति 25 । समन्त्रकनाभ्युपस्पर्शनस्य प्रयोजनमाह- देवान्वा इत्यादिना । देवार्थस्य हविषः स्कन्दनायोग्यत्वाद् दीक्षितस्यापि देवत्वाद् व्रतप्रदाने ऽप्यध्वर्योः प्रमादात् स्कन्दनादेः सम्भवाद् यज्ञदोषः सम्भाव्येत, तस्यायं मन्त्रः प्रायश्चित्तमित्यर्थः । अस्मिन्मन्त्रे पयसामितस्ततः पतनराहित्येन शीघ्रपीतत्वस्योदरान्तः प्रवेशस्य च प्रार्थनात उदकोपस्पर्शनमन्त्रवन्नाभ्युपस्पर्शनमन्त्रस्यापि सर्वव्रतसाधारण्यमाह- स यावत्कियदिति । नाभ्युपस्पर्शनात्मकप्रायश्चित्तस्य सर्वत्र कर्तव्यत्वे कारणमाह- कस्तदिति । ‘उपोत्सिञ्चेत्’ सर्वतो विकिरेत् ॥ १९ ॥

Eggeling
  1. Having drank the fast-food, he touches his navel 26, with the text (Vāj. S. IV, 12), ‘Ye waters that have been drank, may ye become palatable and auspicious within us! may they prove agreeable to us, freeing us from disease and weakness and sin,–they the divine, the immortal, the holy!’ Now, he who is consecrated draws nigh to the gods and becomes one of the deities; but the sacrificial food of the gods is not increased (with other material): hence, if in handing the fast-food (to the consecrated) he increases it (with other milk), he commits a fault and breaks the fast. This (formula), however, is the atonement for that (transgression), and thus that fault is not committed by him, and he does not break the fast (or vow): therefore he says, ‘Ye waters . . . !’ Whenever, after drinking the fast-food, he touches his navel, let him touch it with this (formula); for who

knows whether (or not) he who hands the fast-food (to the consecrated) increases it (with other milk) 27!

२०

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ य᳘त्र मेक्ष्यन्भ᳘वति॥
त᳘त्कृष्णविषाण᳘या लोष्टं᳘ वा किं᳘चिद्वो᳘पहन्तीयं᳘ ते यज्ञि᳘या तनूरि᳘तीयं वै᳘ पृथिवी᳘ देवी᳘ देवय᳘जनी सा᳘ दीक्षिते᳘न[[!!]] नाभिमि᳘ह्या त᳘स्या ऽएत᳘दुद्गृ᳘ह्यैव᳘ यज्ञि᳘यां तनूम᳘थायज्ञियᳫँ᳭ श᳘रीरमभि᳘मेहत्यपो᳘ मुञ्चामि न᳘ प्रजामि᳘त्युभ᳘यं वा ऽअ᳘त ऽएत्या᳘पश्च रे᳘तश्च स᳘ ऽएत᳘दप᳘ ऽएव᳘ मुञ्च᳘ति न᳘ प्रजा᳘मᳫँ᳭होमु᳘चः स्वा᳘हाकृता ऽइत्य᳘ᳫँ᳭हस ऽइव᳘ ह्येता᳘ मुञ्च᳘न्ति य᳘दुद᳘रे गुष्ठितं भ᳘वति त᳘स्मादाहाᳫँ᳭होमु᳘च ऽइ᳘ति स्वा᳘हाकृताः पृथिवीमा᳘विशतेत्या᳘हुतयो[[!!]] भूत्वा᳘ शान्ताः᳘ पृथिवीमा᳘विशते᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ य᳘त्र मेक्ष्यन्भ᳘वति॥
त᳘त्कृष्णविषाण᳘या लोष्टं᳘ वा किं᳘चिद्वो᳘पहन्तीयं᳘ ते यज्ञि᳘या तनूरि᳘तीयं वै᳘ पृथिवी᳘ देवी᳘ देवय᳘जनी सा᳘ दीक्षिते᳘न[[!!]] नाभिमि᳘ह्या त᳘स्या ऽएत᳘दुद्गृ᳘ह्यैव᳘ यज्ञि᳘यां तनूम᳘थायज्ञियᳫँ᳭ श᳘रीरमभि᳘मेहत्यपो᳘ मुञ्चामि न᳘ प्रजामि᳘त्युभ᳘यं वा ऽअ᳘त ऽएत्या᳘पश्च रे᳘तश्च स᳘ ऽएत᳘दप᳘ ऽएव᳘ मुञ्च᳘ति न᳘ प्रजा᳘मᳫँ᳭होमु᳘चः स्वा᳘हाकृता ऽइत्य᳘ᳫँ᳭हस ऽइव᳘ ह्येता᳘ मुञ्च᳘न्ति य᳘दुद᳘रे गुष्ठितं भ᳘वति त᳘स्मादाहाᳫँ᳭होमु᳘च ऽइ᳘ति स्वा᳘हाकृताः पृथिवीमा᳘विशतेत्या᳘हुतयो[[!!]] भूत्वा᳘ शान्ताः᳘ पृथिवीमा᳘विशते᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ य᳘त्र मेक्ष्यन्भ᳘वति॥
त᳘त्कृष्णविषाण᳘या लोष्टं᳘ वा किं᳘चिद्वो᳘पहन्तीयं᳘ ते यज्ञि᳘या तनूरि᳘तीयं वै᳘ पृथिवी᳘ देवो᳘ देवय᳘जनी सा᳘ दीक्षिते᳘नॗ नाभिमि᳘ह्या त᳘स्या एत᳘दुद्गृ᳘ह्यैव᳘ यज्ञि᳘यां तनूम᳘थायज्ञियं श᳘रीरमभिमेहत्यपो᳘ मुञ्चामि न᳘ प्रजामि᳘त्युभ᳘यं वा अ᳘त एत्या᳘पश्च रे᳘तश्च स᳘ एत᳘दप᳘ एव᳘ मुञ्च᳘ति न᳘ प्रजा᳘मंहोमु᳘चः स्वा᳘हाकृता इत्य᳘ᳫं᳘हस इवॗ ह्येता᳘ मुञ्च᳘न्ति य᳘दुद᳘रे गुष्टितम् भ᳘वति त᳘स्मादाहांहोमु᳘च इ᳘ति स्वा᳘हाकृताम् पृथिवीमा᳘विशतेत्याहु᳘तयो भूत्वा᳘ शान्ताः᳘ पृथिवीमा᳘विशते᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ यत्र मेक्ष्यन्भवति- तत् कृष्णविषाणया लोष्टं वा, किंचिद्वोपहन्ति । “इयं ते यज्ञिया तनूः" (वा. सं. ४ । १३) इति । इयं वै पृथिवी देवी देवयजनी । सा दीक्षितेन नाभिमिह्या । तस्या एतदुद्गृह्यैव याज्ञियां तनूम्- अथायज्ञियं शरीरमभिमेहति । “अपो मुञ्चामि न प्रजाम्”- (वा. सं. ४ । १३) इति । उभयं वा ऽअत एति अपश्च रेतश्च । स एतदप एव मुञ्चति, न प्रजाम् । “अंहोमुचः स्वाहाकृताः”- (वा. सं. ४ । १३) इति । अंहस इव ह्येता मुञ्चन्ति- यदुदरे गुष्ठितं भवति तस्मादाह- अंहोमुच इति । “स्वाहाकृताः पृथिवीमाविशत”- (वा. सं. ४ । १ ३) इति । आहुतयो भृत्वा शान्ताः पृथिवीमाविशतेत्येवैतदाह ॥ २० ॥

सायणः

दीक्षितस्य मूत्रोत्सर्गे विशेषमाह- अथ यत्रेति । ‘यत्र’ यस्मिन् प्रदेशे ‘मेक्ष्यन्’ मूत्रसेकं करिष्यन् ‘भवति’ । ‘किञ्चिद्वा’ लोष्टाभावे तत्सम्बन्धि मृदादिकं वा ‘कृष्णविषाणया’ ‘उपहन्ति’ उपाददीतेत्यर्थः । “लोष्टं वा 28 किञ्चिद्वा” इति सूत्रात् । तत्र मन्त्रमाह- इयं त इति । व्याचष्टे- इयं वा इति । पृथिव्या देवयजनार्हत्वं कृतवान् भवतीत्यर्थः । मेहनमन्त्रमाह- अपो मुञ्चामीति । ‘अतः’ अस्मान्मूत्रद्वारात् अव्रेतसोरुभयोरपि निर्गमसम्भवादप एव मुञ्चामि न प्रजोत्पादकं रेत इति मन्त्रेणोच्यत इत्यर्थः । अतो ऽनेन मूत्रं कुर्यादिति विधिरुन्नेयः । तथा च कात्यायनः- “अपो मुञ्चामीति मेहति” इति (का. श्रौ. सू. ४ । १२५) । द्वितीयभागं व्याचष्टे- अंहोमुच इति देहान्तर्गतेन पापेन सहैवैता मूत्ररूपा अपो मुञ्चन्ति खलु सूत्रयितारः तस्मादंहोमुच इति पठेत् । “स्वाहाकृताः” - इत्यस्य तात्पर्याभिधानं स्पष्टम् ॥ २० ॥

Eggeling
  1. When he intends to pass urine, he takes up a clod of earth or some other object by means of the deer’s horn, with the text (Vāj. S. IV, 13), ‘This (O Earth) is thy covering meet for worship.’ For this earth truly is divine, and serves as a place for the worship of the gods: it must not be defiled by him who is consecrated. Having lifted up this its sacrificially pure covering 29, he now relieves himself on its impure body, with the formula, ‘I discharge not offspring, but waters,’–for so indeed he does 30; ‘delivering from trouble, and consecrated by Svāhā,’–for they do indeed deliver from trouble what is pressed together inside: therefore he says, ‘delivering from trouble,’–‘consecrated by Svāhā, enter ye the earth!’ whereby he means to say, ‘Having become offerings, do ye enter the earth, appeased!’

२१

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ पु᳘नर्लोष्टं᳘ न्यस्यति[[!!]]॥
पृथिव्या स᳘म्भवे᳘तीयं वै᳘ पृथिवी᳘ देवी᳘ देवय᳘जनी सा᳘ दीक्षिते᳘न᳘ नाभिमि᳘ह्या त᳘स्या एत᳘दुद्गृ᳘ह्यैव᳘ यज्ञि᳘यां तनूम᳘थायज्ञियᳫँ᳭ श᳘रीरमभ्यमिक्षत्ता᳘मे᳘वास्यामेतत्पु᳘नर्यज्ञि᳘यां[[!!]] तनूं᳘ दधाति त᳘स्मादाह पृथिव्या स᳘म्भवेति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ पु᳘नर्लोष्टं᳘ न्यस्यति[[!!]]॥
पृथिव्या स᳘म्भवे᳘तीयं वै᳘ पृथिवी᳘ देवी᳘ देवय᳘जनी सा᳘ दीक्षिते᳘न᳘ नाभिमि᳘ह्या त᳘स्या एत᳘दुद्गृ᳘ह्यैव᳘ यज्ञि᳘यां तनूम᳘थायज्ञियᳫँ᳭ श᳘रीरमभ्यमिक्षत्ता᳘मे᳘वास्यामेतत्पु᳘नर्यज्ञि᳘यां[[!!]] तनूं᳘ दधाति त᳘स्मादाह पृथिव्या स᳘म्भवेति॥

मूलम् - Weber

अ᳘थ पु᳘नर्लोष्टं न्य᳘स्यति॥
पृथिव्या स᳘म्भवे᳘तीयं वै᳘ पृथिवी᳘ देवी᳘ देवय᳘जनी सा᳘ दीक्षिते᳘नॗ नाभिमि᳘ह्या त᳘स्या एत᳘दुद्गृ᳘ह्यैव᳘ यज्ञि᳘यां तनूम᳘थायज्ञियं श᳘रीरमभ्य᳘मिक्षत्ता᳘मेॗवास्यामेतत्पु᳘नर्यज्ञि᳘यां तनूं᳘ दधाति त᳘स्मादाह पृथिव्या स᳘म्भवेति॥

मूलम् - विस्वरम्

अथ पुनर्लोष्टं न्यस्यति- “पृथिव्या सम्भव”- (वा. सं. ४ । १३) इति । इयं वै पृथिवी देवी देवयजनी । सा दीक्षितेन नाभिमिह्या । तस्या एतदुद्गृह्यैव यज्ञियां तनुम्- अथायज्ञियं शररिमभ्यमिक्षत्- तामेवास्यामेतत्पुनर्यज्ञियां तनूं दधाति । तस्मादाह- पृथिव्या सम्भवेति ॥ २१ ॥

सायणः

अथ पुनरिति । स्वीकृतस्य लोष्टस्य पुनः प्रक्षेपमन्त्रब्राह्मणं पूर्ववद् व्याख्येयम् । हे स्वीकृतलोष्ट ! त्वं ‘पृथिव्या’ ‘सम्भव’ सङ्गतो भवेत्यर्थः । एतन्मन्त्रपाठेन या पूर्वं यज्ञिया तनूः स्वीकृता, सा पुनः- स्थापिता 28 भवति ॥ २१ ॥

Eggeling
  1. Thereupon he throws the clod of earth down again, with the text, ‘Unite with the earth!’ for truly this earth is divine, and serves as a place for the worship of the gods: it must not be defiled by him who is consecrated. Having lifted up this its

sacrificially pure covering, he has relieved himself on its impure body, and now restores to it this its pure covering: therefore he says, ‘Unite with the earth!’

२२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाग्न᳘ये परिदा᳘य स्वपिति॥
देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्त्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति न वै᳘ देवाः᳘ स्वपन्त्य᳘नवरुद्धो वा᳘ ऽएतस्या᳘स्वप्नो भवत्यग्निर्व्वै᳘ देवा᳘नां व्रत᳘पतिस्त᳘स्मा ऽए᳘वैत᳘त्परिदा᳘य स्वपित्य᳘ग्ने त्वᳫँ᳭ सु᳘ जागृहि व्वयᳫँ᳭सु᳘ मन्दिषीमहीत्य᳘ग्ने त्वं᳘ जागृहि व्वय᳘ᳫं᳘ स्वप्स्याम ऽइ᳘त्ये᳘वैत᳘दाह र᳘क्षाणो ऽअ᳘प्रयुच्छन्नि᳘ति गोपाय नो᳘ ऽप्रमत्त इ᳘त्ये᳘वैत᳘दाह प्रबु᳘धे नः पु᳘नस्कृधी᳘ति य᳘थेतः᳘ सुप्त्वा᳘ स्वस्ति᳘ प्रबु᳘ध्यामहा ऽएवं[[!!]] नः कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाग्न᳘ये परिदा᳘य स्वपिति॥
देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्त्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति न वै᳘ देवाः᳘ स्वपन्त्य᳘नवरुद्धो वा᳘ ऽएतस्या᳘स्वप्नो भवत्यग्निर्व्वै᳘ देवा᳘नां व्रत᳘पतिस्त᳘स्मा ऽए᳘वैत᳘त्परिदा᳘य स्वपित्य᳘ग्ने त्वᳫँ᳭ सु᳘ जागृहि व्वयᳫँ᳭सु᳘ मन्दिषीमहीत्य᳘ग्ने त्वं᳘ जागृहि व्वय᳘ᳫं᳘ स्वप्स्याम ऽइ᳘त्ये᳘वैत᳘दाह र᳘क्षाणो ऽअ᳘प्रयुच्छन्नि᳘ति गोपाय नो᳘ ऽप्रमत्त इ᳘त्ये᳘वैत᳘दाह प्रबु᳘धे नः पु᳘नस्कृधी᳘ति य᳘थेतः᳘ सुप्त्वा᳘ स्वस्ति᳘ प्रबु᳘ध्यामहा ऽएवं[[!!]] नः कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थाग्न᳘ये परिदा᳘य स्वपिति॥
देवान्वा᳘ एष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति न वै᳘ देवाः᳘ स्वपन्त्य᳘नवरुद्धो वा᳘ एतस्या᳘स्वप्नो भवत्यग्निर्वै᳘ देवा᳘नां व्रत᳘पतिस्त᳘स्मा एॗवैत᳘त्परिदा᳘य स्वपित्य᳘ग्ने त्वᳫं सु᳘ जागृहि वयᳫं सु᳘ मन्दिषीमहीत्य᳘ग्ने त्वं᳘ जागृहि वय᳘ᳫं᳘ स्वप्स्याम इ᳘त्येॗवैत᳘दाह र᳘क्षा णो अ᳘प्रयुछन्नि᳘ति गोपाय नो᳘ ऽप्रमत्त इ᳘त्येॗवैत᳘दाह प्रबु᳘धे नः पु᳘नस्कृधी᳘ति य᳘थेतः᳘ सुप्त्वा᳘ स्वस्ति᳘ प्रबु᳘ध्यामहा एवं᳘ नः कुर्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथाग्नये परिदाय स्वपिति । देवान्वा एष उपावर्तते- यो दीक्षते । स देवानामेको भवति । न वै देवाः स्वपन्ति । अनवरुद्धो वा एतस्यास्वप्नो भवति । अग्निर्वै देवानां व्रतपतिः । तस्मा एवैतत्परिदाय स्वपिति । “अग्ने त्वं सुजागृहि, वयं सु मन्दिषीमहि”- (वा. सं. ४ । १४) इति । अग्ने त्वं जागृहि, वयं स्वप्स्याम- इत्येवैतदाह । “रक्षाणो अप्रयुच्छन्”- (वा. सं. ४ । १४) इति । गोपाय नो ऽप्रमत्तः- इत्येवैतदाह । “प्रबुधे नः पुनस्कृधि”- (वा. सं. ४ । १४) इति । यथेतः सुप्त्वा स्वस्ति प्रबुध्यामहै- एवं नः कुरु- इत्येवैतदाह ॥ २२ ॥

सायणः

दीक्षितस्य स्वापकाले अग्नये परिदानमाह- अथाग्नय इति । ‘परिदानं’ रक्षणार्थं दानम् । परिदाने प्रसक्तिं दर्शयति- देवान्वा इत्यादिना । अत्र “अग्ने त्वम्”- इत्येतन्मन्त्रपाठ एव परिदानम् । पूर्वार्द्धस्य तात्पर्यमाह- अग्ने त्वमिति । हे ‘अग्ने !’ ‘त्वं’ ‘सुजागृहि’ निद्राणस्य मम भयपरिहाराय सुष्ठु विनिद्रो भवेत्यर्थः । ‘मन्दिषीमहि’- इत्यस्य तात्पर्याभिधानं ‘स्वप्स्यामः’ - इति । स्वापविघाते सति मोदस्यैवाभावादेवं प्रार्थ्यते । ‘अप्रयुच्छन्’- इत्यस्य तात्पर्याभिधानम्- ‘अप्रमत्तः’- इति । “युच्छ प्रमादे”- (धा. पा. भ्वा. प. २१४) । यथेत इति । ‘इतः’ अस्मात् स्थानात् स्वापानन्तरं ‘स्वस्ति’ क्षेमेण ज्वरशिरोव्यथादिराहित्येन यथा ‘प्रबुद्ध्यामहे’ तथा ‘कुर्विति’ मन्त्रभागः ‘आह’ इत्यर्थः 31 ॥ २२ ॥

Eggeling
  1. He then gives himself up to Agni (the fire) for protection and lies down to sleep. For he who is consecrated draws nigh to the gods and becomes one of the deities; but the gods do not sleep, while to him sleeplessness is not vouchsafed; and Agni being Lord of vows to the gods, it is to him that he now commits himself and lies down to sleep, with the text (Vāj. S. IV, 14), ‘O Agni, be thou a good waker: may we thoroughly refresh ourselves!’ whereby he says, ‘O Agni, wake thou: we are going to sleep!’–‘Guard us unremittingly!’ whereby he means to say, ‘protect us heedfully!’–‘Make us awake again!’ whereby he means to say, ‘Order so that, having rested here, we may awake safely.’

२३

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ य᳘त्र सुप्त्वा॥
पु᳘न᳘र्नावद्रास्यन्भ᳘वति। त᳘द्वाचयति पु᳘नर्म᳘नः पु᳘नरा᳘युर्म ऽआ᳘गन्पु᳘नः प्राणः पु᳘नरात्मा᳘ म ऽआ᳘गन्पु᳘नश्च᳘क्षुः पु᳘नः श्रो᳘त्रं म ऽआ᳘गन्नि᳘ति स᳘र्व्वे ह वा᳘ ऽएते स्व᳘पतो᳘ ऽपक्रामन्ति प्राण᳘ एव न तै᳘रे᳘वैत᳘त्सुप्त्वा पु᳘नः सं᳘गच्छते त᳘स्मादाह पु᳘नर्म᳘नः पु᳘नरा᳘युर्म ऽआ᳘गन्पु᳘नः प्राणः पु᳘नरात्मा᳘ म ऽआ᳘गन्पु᳘नश्च᳘क्षुः पु᳘नः श्रो᳘त्रं म ऽआ᳘गन्॥ व्वैश्वानरो ऽअ᳘दब्धस्तनूपा᳘ ऽअग्नि᳘र्नः पातु दुरिता᳘दवद्यादि᳘ति तद्य᳘देवा᳘त्र स्व᳘प्नेन वा ये᳘न वा मिथ्या᳘कर्म त᳘स्मान्नः स᳘र्व्वस्मादग्नि᳘र्गोपायत्वि᳘त्ये᳘वैत᳘दाह त᳘स्मादाह व्वैश्वानरो ऽअ᳘दब्धस्तनूपा᳘ अग्नि᳘र्नः पातु दुरिता᳘दवद्यादिति[[!!]]॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ य᳘त्र सुप्त्वा॥
पु᳘न᳘र्नावद्रास्यन्भ᳘वति। त᳘द्वाचयति पु᳘नर्म᳘नः पु᳘नरा᳘युर्म ऽआ᳘गन्पु᳘नः प्राणः पु᳘नरात्मा᳘ म ऽआ᳘गन्पु᳘नश्च᳘क्षुः पु᳘नः श्रो᳘त्रं म ऽआ᳘गन्नि᳘ति स᳘र्व्वे ह वा᳘ ऽएते स्व᳘पतो᳘ ऽपक्रामन्ति प्राण᳘ एव न तै᳘रे᳘वैत᳘त्सुप्त्वा पु᳘नः सं᳘गच्छते त᳘स्मादाह पु᳘नर्म᳘नः पु᳘नरा᳘युर्म ऽआ᳘गन्पु᳘नः प्राणः पु᳘नरात्मा᳘ म ऽआ᳘गन्पु᳘नश्च᳘क्षुः पु᳘नः श्रो᳘त्रं म ऽआ᳘गन्॥ व्वैश्वानरो ऽअ᳘दब्धस्तनूपा᳘ ऽअग्नि᳘र्नः पातु दुरिता᳘दवद्यादि᳘ति तद्य᳘देवा᳘त्र स्व᳘प्नेन वा ये᳘न वा मिथ्या᳘कर्म त᳘स्मान्नः स᳘र्व्वस्मादग्नि᳘र्गोपायत्वि᳘त्ये᳘वैत᳘दाह त᳘स्मादाह व्वैश्वानरो ऽअ᳘दब्धस्तनूपा᳘ अग्नि᳘र्नः पातु दुरिता᳘दवद्यादिति[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘त्र सुप्त्वा॥
पु᳘नर्नावद्रास्यन्भ᳘वति त᳘द्वाचयति पु᳘नर्म᳘नः पु᳘नरा᳘युर्म आ᳘गन्पु᳘नः प्राणः पु᳘नरात्मा᳘ म आ᳘गन्पु᳘नश्च᳘क्षुः पु᳘नः श्रो᳘त्रम् म आ᳘गन्नि᳘ति स᳘र्वे ह वा᳘ एते स्व᳘पतो᳘ ऽपक्रामन्ति प्राण᳘ एव न तै᳘रेॗवैत᳘त्सुप्त्वा पु᳘नः सं᳘गछते त᳘स्मादाह पु᳘नर्म᳘नः पु᳘नरा᳘युर्म आ᳘गन्पु᳘नः प्राणः पु᳘नरात्मा᳘ म आ᳘गन्पु᳘नश्च᳘क्षुः पु᳘नः श्रो᳘त्रम् म आ᳘गन् वैश्वानरो अ᳘दब्धस्तनूपा᳘ अग्नि᳘र्नः पातु दुरिता᳘दवद्यादि᳘ति तद्य᳘देवा᳘त्र स्व᳘प्नेन वा ये᳘न वा मिथ्या᳘कर्म त᳘स्मान्नः स᳘र्वस्मादग्नि᳘र्गोपायत्वि᳘त्येॗवैत᳘दाह त᳘स्मादाह वैश्वानरो अ᳘दब्धस्तनूपा᳘ अग्नि᳘र्नः पातु दुरिता᳘दवद्यादि᳘ति॥

मूलम् - विस्वरम्

अथ यत्र सुप्त्वा पुनर्नावद्रास्यन् भवति- तद्वाचयति- “पुनर्मन: पुनरायुर्म ऽआगन्, पुनः प्राणः पुनरात्मा म ऽआगन्, पुनश्चक्षुः पुनः श्रोत्रं म ऽआगन्”- (वा. सं. ४ । १५) इति । सर्वे ह वा एते स्वपतो ऽपक्रामन्ति, प्राण एव न । तैरेवैतत्सुप्त्वा पुनः संगच्छते । तस्मादाह- पुनर्मनः पुनरायुर्म आगन्, पुनः प्राणः पुनरात्मा म ऽआगन्, पुनश्चक्षुः पुनः श्रोत्रं म ऽआगन् । “वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यात्”- (वा. सं. ४ । १५ ।) इति । तद् यदेवात्र स्वप्नेन वा येन वा मिथ्या ऽकर्म तस्मान्नः सर्वस्मादग्निर्गोपायतु- इत्येवैतदाह । तस्मादाह- वैश्वानरो अदब्धस्तनूपा अग्निर्नः पातु दुरितादवद्यादिति ॥ २३ ॥

सायणः

दीक्षितस्य स्वापानन्तरं प्रबोधे सति पुनर्निद्राया अप्राप्तौ तदा समन्त्रकं जपं विधत्ते- अथ यत्रेति । ‘यत्र’ यस्मिन् काले ‘तत्’ तदा मनआदेः पुनःप्राप्तिसमर्थनाय । तदवगमनप्रसक्तिं दर्शयति- सर्वे ह वा इति । ‘प्राण एव’ ‘न’ अपक्रामतीति शेषः । प्राणस्याप्यपगमे सर्वात्मना मृतिप्रसङ्गात् प्राणस्यानपगमाभिधानम् । ‘प्राणः’ घ्राणेन्द्रियम् । ‘आत्मा’ बुद्धिः । द्विर्तायभागस्य तात्पर्यमाह- वैश्वानर इति । ‘स्वप्नेन वा’ साधनेन ‘येन वा’ अन्येन्द्रियद्वारा मलनिर्गमनादिनिमित्तेन ‘मिथ्या’ अशास्त्रीयम्, ‘अकर्म’ कृतवन्तः स्म । स्पष्टमन्यत् 32 ॥ २३ ॥

Eggeling
  1. And when he has slept and does not wish to fall asleep again, (the Adhvaryu) makes him mutter the text (Vāj. S. IV, 15), ‘Thought and life have come back to me, breath and soul have come back to me, eye and ear have come back to me;’ for all these depart from him when he sleeps; the breath alone does not; and after he has slept he again unites with them: therefore he says, ‘Thought and life have come back to me . . .’–‘May Agni Vaiśvānara, the unassailable preserver of lives, preserve us from mishap and shame!’ whereby he means to say, ‘May Agni save us from whatever mistake (may be committed) on this occasion, either by sleep or otherwise:’ this is why he says, ‘May Agni Vaiśvānara, the unassailable preserver of lives, preserve us from mishap and shame!’

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्दीक्षितः᳘॥
(तो ऽ) अव्व्रत्यं᳘ वा व्याह᳘रति क्रु᳘ध्यति वा त᳘न्मिथ्या᳘ करोति व्व्रतं प्र᳘मीणात्य᳘क्रोधो᳘ ह्येव᳘ दीक्षित᳘स्याग्नि᳘र्व्वै᳘ देवा᳘नां व्व्रत᳘पतिस्त᳘मे᳘वैतदु᳘पधावति त्व᳘मग्ने व्व्रतपा᳘ असि देव ऽआ म᳘र्त्येष्वा[[!!]]॥ त्वं᳘ यज्ञेष्वी᳘ड्य ऽइ᳘ति त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थो हास्यैतन्न᳘ मिथ्या᳘कृतं भ᳘वति न᳘ व्व्रतं प्र᳘मीणाति त᳘स्मादाह त्व᳘मग्ने व्व्रतपा᳘ असि देव ऽआ म᳘र्त्येष्वा᳘। त्वं᳘ यज्ञेष्वी᳘ड्य इति[[!!]]॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्दीक्षितः᳘॥
(तो ऽ) अव्व्रत्यं᳘ वा व्याह᳘रति क्रु᳘ध्यति वा त᳘न्मिथ्या᳘ करोति व्व्रतं प्र᳘मीणात्य᳘क्रोधो᳘ ह्येव᳘ दीक्षित᳘स्याग्नि᳘र्व्वै᳘ देवा᳘नां व्व्रत᳘पतिस्त᳘मे᳘वैतदु᳘पधावति त्व᳘मग्ने व्व्रतपा᳘ असि देव ऽआ म᳘र्त्येष्वा[[!!]]॥ त्वं᳘ यज्ञेष्वी᳘ड्य ऽइ᳘ति त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थो हास्यैतन्न᳘ मिथ्या᳘कृतं भ᳘वति न᳘ व्व्रतं प्र᳘मीणाति त᳘स्मादाह त्व᳘मग्ने व्व्रतपा᳘ असि देव ऽआ म᳘र्त्येष्वा᳘। त्वं᳘ यज्ञेष्वी᳘ड्य इति[[!!]]॥

मूलम् - Weber

अ᳘थ य᳘द्दीक्षितः᳟॥
अव्रत्यं᳘ वा व्याह᳘रति क्रु᳘ध्यति वा त᳘न्मिथ्या᳘करोति व्रतम् प्र᳘मीणात्य᳘क्रोधोॗ ह्येव᳘ दीक्षित᳘स्याग्नि᳘र्वै᳘ देवा᳘नां व्रत᳘पतिस्त᳘मेॗवैतदु᳘पधावति त्व᳘मग्ने व्रतपा᳘ असि देव आ म᳘र्त्येष्वा᳘ त्वां᳘ यज्ञष्वी᳘ड्य इ᳘ति त᳘स्यो हैषा प्रा᳘यश्चित्तिस्त᳘थो हास्यैतन्न᳘ मिथ्या᳘कृतम् भ᳘वति न᳘ व्रतम् प्र᳘मीणाति त᳘स्मादाह त्व᳘मग्ने व्रतपा᳘ असि देव आ म᳘र्त्येष्वा᳘ त्वं᳘ यज्ञष्वी᳘ड्य इ᳘ति॥

मूलम् - विस्वरम्

अथ यद्दीक्षितः- अव्रत्यं वा व्याहरति, क्रुध्यति वा तन्मिथ्या करोति । व्रतं प्रमीणाति । अक्रोधो ह्येव दीक्षितस्य । अग्निर्वै देवानां व्रतपतिः । तमेवैतदुपधावति- “त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः” (वा. सं. ४ । १६) इति । तस्यो हैषा प्रायश्चित्तिः । तथो हास्यैतन्न मिथ्या कृतं भवति, न व्रतं प्रमीणाति । तस्मादाह- त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्य इति ॥ २४ ॥

सायणः

अथ यदित्यादि । ‘अव्रत्यं’ व्रतं दीक्षा व्रतविरोधि व्यर्थं वचनमभिवदेत्, क्रोधं करोति ‘वा,’ ‘तत्’ तेनोभयेन ‘मिथ्या’ यज्ञविरोध्येव ‘करोति’ । तावता को दोष इत्यत आह- ‘व्रतं प्रमीणाति’ हिनस्ति । क्रोधस्य दीक्षितेन वर्ज्यतामाह- अक्रोधो हीति । अग्निर्वा इत्यादि । व्रतहिंसासमाधानाय- ‘एतत्’ एतेन “त्वमग्ने व्रतपाः”- इत्यनेन साक्षाद् व्रतपतिम् ‘तमेव’ अग्निमेव ‘उपधावति’ रक्षणाय प्राप्तवान् भवति । अत्र सूत्रम्- “त्वमग्न इत्याह क्रुद्ध्वा अव्रत्यं वा व्याहृत्य-” इति 32 ॥ २४ ॥

Eggeling
  1. For, when he who is consecrated utters anything

that is foreign to the vow, or when he becomes angry, he commits a fault and breaks his vow, since suppression of anger behoves him who is consecrated. Now, Agni is the Lord of vows among the gods,–it is to him therefore that he resorts (Vāj. S. IV, 16; Rig-veda VIII, II, 7): ‘Thou, O Agni, art the divine guardian of vows among men, to whom praise is due at the sacrifices.’ This, then, is his atonement for that (transgression); and thus that fault is not committed by him, and he does not break his vow: therefore he says, ‘Thou, O Agni, art the divine guardian of vows among men, to whom praise is due at the sacrifices.’

२५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘द्दीक्षिता᳘याभिह᳘रन्ति॥
त᳘स्मिन्वाचयति रास्वे᳘यत्सोमा भू᳘यो भरे᳘ति सो᳘मो ह वा᳘ ऽअस्मा ऽएत᳘द्युते य᳘द्दीक्षिता᳘याभिह᳘रन्ति स यदा᳘ह रास्वे᳘ययत्सोमे᳘ति रा᳘स्व न ऽइ᳘यत्सोमे᳘त्ये᳘वैत᳘दाहा भू᳘यो भरेत्या᳘ नो भू᳘यो हरे᳘त्ये᳘वैत᳘दाह देवो᳘ नः सविता व्व᳘सोर्दाता व्व᳘स्वदादि᳘ति त᳘थो हास्मा ऽएतृ᳘त्सवितृ᳘प्रसूतमेव दा᳘नाय भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘द्दीक्षिता᳘याभिह᳘रन्ति॥
त᳘स्मिन्वाचयति रास्वे᳘यत्सोमा भू᳘यो भरे᳘ति सो᳘मो ह वा᳘ ऽअस्मा ऽएत᳘द्युते य᳘द्दीक्षिता᳘याभिह᳘रन्ति स यदा᳘ह रास्वे᳘ययत्सोमे᳘ति रा᳘स्व न ऽइ᳘यत्सोमे᳘त्ये᳘वैत᳘दाहा भू᳘यो भरेत्या᳘ नो भू᳘यो हरे᳘त्ये᳘वैत᳘दाह देवो᳘ नः सविता व्व᳘सोर्दाता व्व᳘स्वदादि᳘ति त᳘थो हास्मा ऽएतृ᳘त्सवितृ᳘प्रसूतमेव दा᳘नाय भवति॥

मूलम् - Weber

अ᳘थ य᳘द्दीक्षिता᳘याभिह᳘रन्ति॥
त᳘स्मिन्वाचयति रास्वे᳘यत्सोमा भू᳘यो भरे᳘ति सो᳘मो ह वा᳘ अस्मा एत᳘द्युते य᳘द्दीक्षिता᳘याभिह᳘रन्ति स यदा᳘ह रास्वे᳘ययत्सोमे᳘ति रा᳘स्व न इ᳘यत्सोमे᳘त्येॗवैत᳘दाहा भू᳘यो भरेत्या᳘ नो भू᳘यो हरे᳘त्येॗवैत᳘दाह देवो᳘ नः सविता व᳘सोर्दाता व᳘स्वदादि᳘ति त᳘थो हास्मा एत᳘त्सवितृ᳘प्रसूतमेव दा᳘नाय भवति॥

मूलम् - विस्वरम्

अथ यद्दीक्षितायाभिहरन्ति- तस्मिन् वाचयति- “रास्वेयत्सोमा भूयो भर”- (वा. सं. ४ । १६) इति । सोमो ह वा अस्मा एतद्युते- यद्दीक्षितायाभिहरन्ति । स यदाह- रास्वेयत्सोमेति । रास्व न इयत्सोमा- इत्येवैतदाह । आ भूयो भरेति । आ नो भूयो हरेत्येवैतदाह । “देवो नः सविता वसोर्दाता वस्वदात्-" (वा. सं ४ । १६) इति । तथोहास्मा एतत् सवितृप्रसूतमेव दानाय भवति ॥ २५ ॥

सायणः

दीक्षितस्य यज्ञार्थगवादिधनलाभे वाच्यं मन्त्रं विधत्ते- अथ यद् दीक्षितायेति 32 । ‘अभिहरन्ति’ धनं प्रयच्छन्ति । ‘वाचयति’ अध्वर्युः । दाने सोमसम्बन्धस्य कः प्रसङ्ग इति तत्राह- सोमो ह वा इति । ‘अस्मै दीक्षिताय’ ‘एतत्’ धनं खलु ‘युते’ मिश्रयति ‘इयत् तदिति’ प्रदेयं धनं हस्तेनापि (भि) नीयते । द्वितीयभागस्य तात्पर्यमाह- आ नो भूय इति । न केवलमियत्परिमितमेव किन्तु ततो ‘भूयः’ अन्यदपि ‘आहर’ इति, मन्त्रः ‘आह’ इत्यर्थः । देवो न इत्यादि । एतन्मन्त्रभागपाठेन सवित्रा ऽभ्यनुज्ञातत्वाल्लब्धं धनं दक्षिणार्हं भवतीत्यर्थः ॥ २५ ॥

Eggeling
  1. And whatever (gift) people offer to him 33, thereon he (the Adhvaryu) makes him pronounce the text, ‘Bestow this much, O Soma, bring more!’ for Soma indeed it is that appropriates for the consecrated whatever people offer to him: when he says, ‘Bestow this much, O Soma,’ he means to say, ‘Bestow this much on us, O Soma;’ and by ‘Bring more,’ he means to say, ‘Fetch more for us!’–‘The divine Savitr̥, the bestower of wealth, hath bestowed wealth on us;’ whereby that (gift) comes to be impelled by Savitr̥ with a view to (further) gifts.

२६

विश्वास-प्रस्तुतिः

पु᳘रास्तमया᳘दाह॥
दी᳘क्षित व्वा᳘चं यच्छे᳘ति ताम᳘स्तमिते व्वा᳘चं व्वि᳘सृजते पु᳘रोदया᳘दाह दी᳘क्षित व्वा᳘चं यच्छे᳘ति तामु᳘दिते व्वा᳘चं व्वि᳘सृजते सं᳘तत्या ऽएवा᳘हरे᳘वैतद्रा᳘त्र्या संतनोत्य᳘ह्ना रा᳘त्रि᳘म्॥

मूलम् - श्रीधरादि

पु᳘रास्तमया᳘दाह॥
दी᳘क्षित व्वा᳘चं यच्छे᳘ति ताम᳘स्तमिते व्वा᳘चं व्वि᳘सृजते पु᳘रोदया᳘दाह दी᳘क्षित व्वा᳘चं यच्छे᳘ति तामु᳘दिते व्वा᳘चं व्वि᳘सृजते सं᳘तत्या ऽएवा᳘हरे᳘वैतद्रा᳘त्र्या संतनोत्य᳘ह्ना रा᳘त्रि᳘म्॥

मूलम् - Weber

पु᳘रास्तमया᳘दाह॥
दी᳘क्षित वा᳘चं यछे᳘ति ताम᳘स्तमिते वा᳘चं वि᳘सृजते पुॗरोदया᳘दाह दी᳘क्षित वा᳘चं यछे᳘ति तामु᳘दिते वा᳘चं वि᳘सृजते सं᳘तत्या एवा᳘हरेॗवैतद्रा᳘त्र्या संतनोत्य᳘ह्ना रा᳘त्रिम्॥

मूलम् - विस्वरम्

पुरास्तमयादाह- दीक्षित वाचं यच्छेति । तामस्तमिते वाचं विसृजते । पुरोदयादाह- दीक्षितं वाचं यच्छेति । तामुदिते वाचं विसृजते- सन्तत्या एव । अहरेवैतत्- रात्र्या सन्तनोति, अह्ना रात्रिम् ॥ २६ ॥

सायणः

पुरास्तमयादित्यादि । अस्तमयोदयकालयोः प्रतिदिवसं वाग्यमनाय ततः प्रागेव “दीक्षित ! वाचं यच्छ”- इति सम्प्रैषमध्वर्युर्ब्रूयात् । अस्तमिते उदिते च तस्या वाचो विसर्जनमिति सान्तत्यप्रदर्शनम् 34- अहरेवैतदिति । (का. श्रौ. सू. ७ । ११०) 35 ॥ २६ ॥

Eggeling
  1. Before sunset he (the Adhvaryu) says, ‘Consecrated, restrain thy speech!’ and after sunset he releases speech. Before sunrise he says, ‘Consecrated, restrain thy speech!’ and after sunrise he releases

his speech,–for the sake of continuity: with the night he continues the day, and with the day the night.

२७

विश्वास-प्रस्तुतिः

(न्नै) नैनमन्य᳘त्र च᳘रन्तमभ्य᳘स्तमियात्॥
(न्न) न स्व᳘पन्तमभ्यु᳘दियात्स यदेनमन्य᳘त्र[[!!]] च᳘रन्तमभ्यस्तमियाद्रा᳘त्रेरेनं त᳘दन्त᳘रियाद्यत्स्व᳘पन्तमभ्युदियाद᳘ह्न ऽएनं त᳘दन्त᳘रियान्ना᳘त्र प्रा᳘यश्चित्तिरस्ति प्रतिगु᳘प्यमे᳘वैत᳘स्मान्न[[!!]] पु᳘रा ऽवभृथा᳘द᳘पो ऽभ्य᳘वेया᳘न्नैनमभि᳘वर्षेद᳘नवकॢप्तᳫँ᳭ह तद्य᳘त्पु᳘रा ऽवभृथा᳘द᳘पो ऽभ्यवेयाद्य᳘द्वैनमभिव᳘र्षेद᳘थ परिह्वा᳘लं व्वा᳘चं व्वदति न᳘ मानुषीं प्र᳘सृतां तद्य᳘त्परिह्वा᳘लं व्वा᳘चं व्व᳘दति न᳘ मानुषीं प्र᳘सृताम्॥

मूलम् - श्रीधरादि

(न्नै) नैनमन्य᳘त्र च᳘रन्तमभ्य᳘स्तमियात्॥
(न्न) न स्व᳘पन्तमभ्यु᳘दियात्स यदेनमन्य᳘त्र[[!!]] च᳘रन्तमभ्यस्तमियाद्रा᳘त्रेरेनं त᳘दन्त᳘रियाद्यत्स्व᳘पन्तमभ्युदियाद᳘ह्न ऽएनं त᳘दन्त᳘रियान्ना᳘त्र प्रा᳘यश्चित्तिरस्ति प्रतिगु᳘प्यमे᳘वैत᳘स्मान्न[[!!]] पु᳘रा ऽवभृथा᳘द᳘पो ऽभ्य᳘वेया᳘न्नैनमभि᳘वर्षेद᳘नवकॢप्तᳫँ᳭ह तद्य᳘त्पु᳘रा ऽवभृथा᳘द᳘पो ऽभ्यवेयाद्य᳘द्वैनमभिव᳘र्षेद᳘थ परिह्वा᳘लं व्वा᳘चं व्वदति न᳘ मानुषीं प्र᳘सृतां तद्य᳘त्परिह्वा᳘लं व्वा᳘चं व्व᳘दति न᳘ मानुषीं प्र᳘सृताम्॥

मूलम् - Weber

नैनमन्य᳘त्र च᳘रन्तमभ्य᳘स्तमियात्॥
न स्व᳘पन्तमभ्यु᳘दियात्स य᳘देनमन्य᳘त्र च᳘रन्तमभ्यस्तमियाद्रा᳘त्रेरेनं त᳘दन्त᳘रियाद्यत्स्व᳘पन्तमभ्युदियाद᳘ह्न एनं त᳘दन्त᳘रियान्ना᳘त्र प्रा᳘यश्चित्तिरस्ति प्रतिगु᳘प्यमेॗवैत᳘स्मात् 36 न᳘ पुॗरावभृथा᳘दॗपो ऽभ्य᳘वेयाॗन्नैनमभि᳘वर्षेद᳘नवकॢप्तᳫं ह तद्य᳘त्पुॗरावभृथा᳘दॗपो ऽभ्यवेयाद्य᳘द्वैनमभिव᳘र्षेद᳘थ परिह्वा᳘लं वा᳘चं वदति न᳘ मानुषीम् प्र᳘सृतां तद्य᳘त्परिह्वा᳘लं वा᳘चं व᳘दति न᳘ मानुषीम् प्र᳘सृताम्॥

मूलम् - विस्वरम्

नैनमन्यत्र चरन्तमभ्यस्तमियात् (१) । न स्वपन्तमभ्युदियात् (२) । स यदेनमन्यत्र चरन्तमभ्यस्तमियात्- रात्रेरेनं तदन्तरियात् । यत् स्वपन्तमभ्युदियाद्- अह्न एनं तदन्तरियात् । नात्र प्रायश्चित्तिरस्ति । प्रतिगुप्यमेवैतस्मात् । न पुरा ऽवभृथादपो ऽभ्यवेयात् (३) । नैनमभिवर्षेत् (४) । अनवक्लृप्तं ह तत्- यत्पुरा ऽवभृथादपो ऽभ्यवेयात् । यद्वैनमभिवर्षेत् । अथ परिह्वालं वाचं वदति (५) न मानुषीं प्रसृताम् । तद् यत्परिह्वालं वाचं वदति, न मानुषीं प्रसृताम् ॥ २७ ॥

सायणः

अस्तमयोदयकाले दीक्षितस्य स्वस्थानादन्यत्र सञ्चारं स्वापं च निषेधति- नैनमिति । विपक्षे बाधमाह 34- स यदिति । रात्रेरह्नश्च सायम्प्रातःकालयोरुभयोरुपक्रमरूपत्वादन्यत्र सञ्चारस्वापयोः करणे कृच्छ्रयोरपि तयोः सकाशादयमन्तरितो भवतीत्यर्थः । न प्रायश्चित्तिरस्तीति 37 । प्रायश्चित्तस्य निषेधेन सञ्चारस्वापयोर्निषेधस्यावश्यकत्वमुक्तं भवति । यस्मादेवं तस्मात्, ‘एतस्मात्’ सञ्चारस्वापात् ‘प्रतिगुप्यमेव’ रक्षणं कर्तव्यमेवेत्यर्थः । दीक्षितस्यावभृथपर्यन्तं जलावगाहनमभिमर्शणं च वर्जनीयमित्याह- न पुरा ऽवभृथादिति । यागान्ते ऽनुष्ठेयस्य अवभृथाभिषेकस्य दीक्षितताविमोचनार्थत्वात् ततः प्रागेव जलावसेचनस्य दीक्षाविघातकत्वात् ‘तत्’ अनवक्लृप्तम् । अविहितमित्यर्थः 38 । अभिवदनप्रस्तुते सत्यपि दैवीमेव वाचं वदेन्न मानुषीमित्याह- अथ परिह्वालमिति 39 । ‘परिह्वालम्’ परिणीतां संस्कृतामित्यर्थः । “ह्वल ह्वल-संचलने” (भ्वा. प. ८०७ । ८०८) । ‘प्रसृताम्’ सर्वत्र व्याप्ताम् । ‘मानुषीं’ केवलसर्वमनुष्यसाधारणीं तादृशीं न वदेत् । तथा चापस्तम्बः- “परिणयेन मानुषीं वाचं वदति” (आप. श्रौ. सू. १० । १२ । ९) इति ॥ २७ ॥

Eggeling
  1. Let not the sun set on him while abiding elsewhere (than the hall); nor let the sun rise on him while asleep. For were the sun to set on him while abiding elsewhere, he (the sun) would cut him off from the night; and were the sun to rise on him while asleep, he would cut him off from the day: there is no atonement for this, hence it must by all means be avoided. Prior to the purificatory bath he should not enter water, nor should it rain upon him; for it is improper that he should enter water, or that it should rain upon him, before the purificatory bath. Moreover, he speaks his speech falteringly, and not effusively after the manner of ordinary speech 40. The reason why he speaks his speech falteringly and not after the manner of ordinary speech is this:

२८

विश्वास-प्रस्तुतिः

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिरो᳘ ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो नाम॥

मूलम् - श्रीधरादि

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिरो᳘ ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो नाम॥

मूलम् - Weber

यज्ञे᳘न वै᳘ देवाः᳟॥
इमां जि᳘तिं जिग्युॗर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इद᳘म् मनुॗष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिरो᳘ ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो॥

मूलम् - विस्वरम्

यज्ञेन वै देवा इमां जितिं जिग्युः- यैषामियं जितिः । ते होचुः- कथं न इदं मनुष्यैरनभ्यारोह्यं स्यादिति । ते यज्ञस्य रसं धीत्वा- यथा मधु मधुकृतो निर्धयेयुः- विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन् । अथ यदेनेनायोपयन्- तस्माद्यूपो नाम ॥ २८ ॥

सायणः

एतदेव प्रशंसितुमुपोद्घातमाह- यज्ञेन वा इत्यादिना । एतदसकृद् गतम् (श. प. ब्रा. १ । ६ । २ । १ ।) कं. भाष्ये (श. प. ब्रा. २ । २ । २ । २, २८) ॥ २८ ॥

Eggeling
  1. By means of the sacrifice the gods gained that supreme authority which they now wield. They spake, ‘How can this (world) of ours be made unattainable to men?’ They sipped the sap of the sacrifice, even as bees would suck out honey; and having drained the sacrifice and scattered it by means of the sacrificial post, they disappeared. And because they scattered (yopaya) therewith, therefore it is called yūpa (post).

२९

विश्वास-प्रस्तुतिः

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा᳘ ऽएष᳘ यज्ञᳫँ᳭स᳘म्भरति यो दी᳘क्षते व्वाग्वै᳘ यज्ञस्तद्यदेवा᳘त्र[[!!]] यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं त᳘दे᳘वैतत्पु᳘नरा᳘प्याययति य᳘त्परिह्वा᳘लं व्वा᳘चं व्व᳘दति न᳘ मानुषीं प्र᳘सृतां न हाप्याययेद्यत्प्र᳘सृतां मानुषीं व्वा᳘चं व्व᳘देत्तस्मात्परिह्वा᳘लं[[!!]] व्वा᳘चं व्वदति न᳘ मानुषीं प्र᳘सृताम्॥

मूलम् - श्रीधरादि

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्य᳘था ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा᳘ ऽएष᳘ यज्ञᳫँ᳭स᳘म्भरति यो दी᳘क्षते व्वाग्वै᳘ यज्ञस्तद्यदेवा᳘त्र[[!!]] यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं त᳘दे᳘वैतत्पु᳘नरा᳘प्याययति य᳘त्परिह्वा᳘लं व्वा᳘चं व्व᳘दति न᳘ मानुषीं प्र᳘सृतां न हाप्याययेद्यत्प्र᳘सृतां मानुषीं व्वा᳘चं व्व᳘देत्तस्मात्परिह्वा᳘लं[[!!]] व्वा᳘चं व्वदति न᳘ मानुषीं प्र᳘सृताम्॥

मूलम् - Weber

तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫं स᳘मभरन्य᳘थायं᳘ यज्ञः स᳘म्भृत एवं वा᳘ एष᳘ यज्ञᳫं स᳘म्भरति 41 यो दी᳘क्षते वाग्वै᳘ यज्ञस्तद्य᳘देवा᳘त्र यज्ञ᳘स्य नि᳘र्धीतं यद्वि᳘दुग्धं त᳘देॗवैतत्पु᳘नरा᳘प्याययति य᳘त्परिह्वा᳘लं वा᳘चं व᳘दति न᳘ मानुषी प्र᳘सृतां न हाप्याययेद्यत्प्र᳘सृताम् मानुषीं वा᳘चं व᳘देत्त᳘स्मात्परिह्वा᳘लं वा᳘चं वदति न᳘ मानुषीम् प्र᳘सृताम्॥

मूलम् - विस्वरम्

तद्वा ऽऋषीणामनुश्रुतमास । ते यज्ञं समभरन् । यथा ऽयं यज्ञः सम्भृतः । एवं वा एष यज्ञं सम्भरति- यो दीक्षते । वाग्वै यज्ञः । तद्यदेवात्र यज्ञस्य निर्धीतम्, यद्विदुग्धम्- तदेवैतत्पुनराप्याययति- यत्परिह्वालं वाचं वदति, न मानुषीं प्रसृताम् । न हाप्याययेत्- यत्प्रसृतां मानुषीं वाचं वदेत् । तस्मात्परिह्वालं वाचं वदति, न मानुषीं प्रसृताम् ॥ २९ ॥

सायणः

तद्वा इति । औपोद्घातिकमाह- एवं वा इति । यज्ञाप्यायनरूपत्वेन प्रशस्तत्वात् परिह्वलवाग्व्यवहारः कर्तव्य इत्यर्थः ॥ २९ ॥

Eggeling
  1. Now this was heard by the R̥shis. They collected the sacrifice; and as that sacrifice was collected, so does he who is consecrated now collect the sacrifice (by keeping back his speech),–for the sacrifice is speech. And whatever part of the sacrifice

was then sucked out and drained, that he now restores again by speaking his speech falteringly and not effusively after the manner of ordinary speech. For were he to speak effusively after the manner of ordinary speech, he would not restore (the sap of the sacrifice): therefore he speaks his speech falteringly and not effusively after the manner of ordinary speech.

३०

विश्वास-प्रस्तुतिः

(ᳫं) स वै᳘ धीक्षते॥
व्वाचे हि धीक्षते[[!!]] यज्ञा᳘य हि धी᳘क्षते यज्ञो हि व्वा᳘ग्धीक्षितो᳘ ह वै ना᳘मैतद्य᳘द्दीक्षित इ᳘ति॥

मूलम् - श्रीधरादि

(ᳫं) स वै᳘ धीक्षते॥
व्वाचे हि धीक्षते[[!!]] यज्ञा᳘य हि धी᳘क्षते यज्ञो हि व्वा᳘ग्धीक्षितो᳘ ह वै ना᳘मैतद्य᳘द्दीक्षित इ᳘ति॥

मूलम् - Weber

स वै᳘ धीक्षते॥
वाचे हि धी᳘क्षते यज्ञा᳘य हि धी᳘क्षते यज्ञो हि वा᳘ग्धीक्षितो᳘ ह वै ना᳘मैतद्य᳘द्दीक्षित इ᳘ति॥

मूलम् - विस्वरम्

स वै धीक्षते । वाचे हि धीक्षते । यज्ञाय हि धीक्षते । यज्ञो हि वाक् । धीक्षितो ह वै नामैतत् यद्दीक्षित इति ॥ ३० ॥

इति दीक्षितधर्माः ॥

सायणः

वाचं यज्ञसाधनत्वेन प्रशंसति- स वै धीक्षत इति । प्रसङ्गाद्दीक्षितशब्दं निर्वक्ति- धीक्षितो ह वा इति । ‘यद्’ यस्मात् ‘दीक्षित इति नाम’ तादृशी दीक्षा वाक्साध्येति वाक्स्तुतिः ॥ ३० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे द्वितीयाध्याये द्वितीयं ब्राह्मणम् (३-२-२) ॥

Eggeling
  1. He verily anoints himself,–it is for speech that he anoints himself 42, since he anoints himself for the sacrifice, and the sacrifice is speech. Dhīkshita (the anointed) doubtless is the same as dīkshita (the consecrated).

  1. 36:1 Professor Whitney (American Journal of Philology, III, p. 402) proposes to take yopaya here in the sense of ’to set up an obstacle, to block or bar the way.’ He remarks, ‘How the setting up of a post should operate to “efface traces” cannot easily be made to appear.’ I am not aware that any one has supposed that it was by the ‘setting up’ of the post that the traces of the sacrifice were obliterated. From what follows–‘They collected the sacrifice ‘–it seems to me pretty clear that our author at any rate connects ‘yopaya’ with the root yu, to mix, stir about, and hence to efface the traces by mixing with the ground, or by scattering about. This causative was evidently no longer a living form, but resorted to for etymological purposes. ↩︎

  2. 36:2 Or, perhaps, They collected the sacrifice in the same way as this (present) sacrifice has been collected. See, however, the corresponding passage III, 2, 2, 29; 4, 3, 16. The Kāṇva text is clearer: Taṁ yathā yatharshayo yajñaṁ samabharaṁs tathāyaṁ yajñaḥ sambhr̥to yatho vai tad r̥shayo yajñam samabharann evam u vā esha etad yajñaṁ sambharati yo dīkshate. ↩︎

  3. 37:1 ‘After pointing out (some) stars [nakshatrāṇi darśayitvā],’ Kāṇva recension. Cf. Taitt. S. VI, 1, 4, 4, ‘when the stars have risen, he breaks silence with “Prepare the fast-food!”’ ↩︎

  4. 37:2 That is to say, the eating of the fast-food, consisting chiefly of milk, takes, as it were, the place of the Agnihotra, or evening and morning sacrifice, which he is not allowed to perform during the time of his consecration. ↩︎

  5. 38:1 Viz. the injunction ‘Prepare ye the fast-food!’ which is indeed read thrice in the Kāṇva text, where the arrangement of these paragraphs is much clearer. ↩︎

  6. 38:2 Thus Sāy. ‘ato ’nyena, bhūr bhuvaḥ suvar ityanena’ (MS. I. O. 657). Dr. Lindner makes ataḥ refer to Agni. The Kāṇva text begins the passage, corresponding to paragraphs 7 and 8: ‘So ’gnim īkshamāṇo visr̥jate vrataṁ kriṇuta (thrice) etad vā etasya havir esha yajño yad vratam.’ ↩︎

  7. 38:3 That is, the words ‘Agni is the Brahman.’ ↩︎

  8. 38:4 Viz. because ’the Brahman (neut.) is the truth (or essence, satyam),’ Sāy. ↩︎

  9. 38:5 Viz. trees from which sacrificial implements, fire-wood, the sacrificial stake, &c., are obtained. ↩︎

  10. ‘पिबेत्-’ इ. क्व. पा. । ↩︎

  11. तत्क्षीरव्रतौ भवतः । ↩︎

  12. 39:1 Manoyuj (?), ‘mind-yoked,’ i.e. having thoughts for their team. ↩︎

  13. 39:2 Cf. paragraph 18. ↩︎

  14. प्रथमे व्रते व्रीहियवयोरन्यतरमावपत्युभावेके । का. श्रौ. सू ७ । ११४ । ↩︎ ↩︎

  15. तद्व्रतमदोहे । का. श्रौ. सू. ७ । ११५ । ↩︎ ↩︎

  16. 40:1 Anvārabdha has here the usual sacrificial meaning of ’taken hold of (from behind),’ with perhaps something of that of ’taken (as medicine = einnehmen).’ Thus at the invocation of the Iḍā, the sacrificer has to touch (anv-ārabh) the iḍā from behind, thereby keeping up his connection, and identifying himself, with the sacrifice. Cf. part i, p. 228, note 1; and III, 2, 4, 15. Hence the author, making use of the term suggested by those he criticises, argues that as both kinds of material have already been used and therefore touched (anvārabdha) by him at the New and Full-moon Sacrifice (Sāyaṇa), they have therefore been taken possession of by him. It is possible, though scarcely likely, that the verb may have reference here to the anvārambhaṇīyā ishṭi,–or preliminary ceremony of the first performance of the New and Full-moon Sacrifice,–with which the present use of these cereals would, in that case, be identified, as that of the vrata-milk was with the Agnihotra (cf. paragraph 7 above). The Kāṇva text has the verb ā-rabh instead, yathā havishārabdhena bhishajyed ity evam etat. ↩︎

  17. 40:2 That is to say, though the restoration might be due to the medicinal properties of some of those ingredients, it could be ascribed to the milk. ↩︎

  18. 41:1 Sāyaṇa takes this to mean, that, as above all the consummation of the sacrifice is desirable, one should in case of disease cure it by any of those drugs without their being taken (anvārabdha) sacrificially, or as part of the sacrificial performance. ↩︎

  19. ‘व्व्रतं प्रयच्छत्यनुत्सिक्तमपररात्रे सायंदोहमपराह्णे प्रातर्द्दोहं । का. श्रौ. सू. ७ । ११९ । ↩︎ ↩︎ ↩︎

  20. 41:2 According to the Kāṇva text, the sacrificer first washes himself (nenikte) and then sips water (ācāmati); and having drunk the fast-milk, he touches water (apa upaspr̥śati). ↩︎

  21. 41:3 Or, perhaps, we meditate on the divine intelligence, the most merciful.’ ↩︎

  22. 41:4 Yajñavāhasam (‘bringing, or bearing, worship’); thus also Taitt. S. I, 2, 2. The Kāṇva text reads viśvadhāyasam, ‘all-nourishing, all-sustaining.’ ↩︎

  23. अस्मिन्नेव ब्राह्मणे त्रयोदशकण्डिकाभाष्ये । ↩︎

  24. 42:1 See p. 39, note 2. The Kāṇva text here again identifies the divinities referred to in the text with the vital airs. ↩︎

  25. श्वात्राः पीता इति नाभिमालभते । का. श्रौ. सू. ७ । १२२ ॥ ↩︎

  26. 42:2 Having eaten and touched water, he strokes his belly (udaram abhimr̥śate), Kāṇv. The Kāṇva text renders the meaning quite clear: Uta vai tīvraṁ vratam bhavati tat kshudrataram asad iti vopotsiñcaty, alpaṁ vā bhavati tad bhūyaskāmyopotsiñcati. ↩︎

  27. 43:1 No other fresh milk is to be added to that obtained by one milking of the vratadughā (fast-milk) cow (Kāty. VII, 4, 29); but the preceding formula is to be muttered in order to obviate any evil consequences arising from a possible secret breach of this rule, on the part of him who hands the milk to the sacrificer. Dr. Lindner takes upotsic in the sense of ’to spill,’ but I find no authority for this rendering, which neither the prep. upa, nor abhi (in the equivalent abhyutsic) would seem to admit of. ↩︎

  28. मेक्ष्यन् कृष्णविषाणया लोष्टं किंचिद्वा ऽऽदत्त इयं त इति । का. श्रौ. सू. ७ । १२४ । ↩︎ ↩︎

  29. 43:2 See p. 10, note 4. ↩︎

  30. 43:3 ‘Ubhayaṁ vā ata ety āpaś ca retaś ca; sa etad apa eva muñcati na prajām.’ ↩︎

  31. अग्ने त्वमित्युक्त्वा स्वपित्यधः प्राग्दक्षिणतः का. श्रौ. सू. ७ । १२७ । दक्षिणतोवितानस्य प्राक्शिराः स्वपितीति सूत्रार्थः । ↩︎

  32. अग्निमभ्यावृत्तं विबुधमस्वप्स्यन्तं पुनर्मन इति वाचयति । का. श्रौ. सू. ७ । १२८ । ↩︎ ↩︎ ↩︎

  33. 45:1 ‘And if they were to bring him either a garment or a cow, let him address it with the text–.’ Kāṇva text. According to some authorities the Dīkshita is to go about for twelve days begging his means of subsistence, and whatever he obtains he is to touch and consecrate by the above text. Kāty. VII, 5, 3, comm. ↩︎

  34. ‘स्वातन्त्र्यप्रदर्शनम्’ इति क्व. पा. । ↩︎ ↩︎

  35. अत ऊर्ध्वमामुष्टिविसर्गादनस्तमिते ऽनुदिते च त्रिराह दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति । ↩︎

  36. प्रतिगुह्य Sây. ↩︎

  37. शालासनास्वप्नौ संधिवेलयोः ७ । १३५ । ?? सुत्यासु १३६ । अप्रायश्चित्तमपराधे । का. श्रौ. सू. ७ । १३७ । ↩︎

  38. शूद्रसंप्रवेशसंभाषाप्रत्युत्थानाभिवादनोदकावायवर्षाणि व्वर्जयेत्प्रागवभृथात् ७ । १३२ । ↩︎

  39. परिह्वालं व्वदति ७। १३३ । व्विचक्षणचनसितवतीं व्वाचम् का. श्रौ. सू. ७ । १३४ । परिह्वालं मृदु-विचक्षणां संस्कृतां-चन इत्यन्ननाम-चनवतीं अश्नवतीं अविद्राणां । सितवतीं सत्यवतीं- वाचं- व्वदतीति कर्कः । ↩︎

  40. 46:1 Literally, ‘Falteringly (i.e. hesitatingly, cautiously) he speaks speech, not human effusive (speech).’ ↩︎

  41. स᳘म्भवति AB. ↩︎

  42. 47:1 Dhīkshate, apparently the desiderative of dih (Weber, in St. Petersb. Dict. s. v.) Cf. III, 1, 3, 7 seq. The construction (especially the first hi) is rather peculiar. This paragraph apparently is to supply further proof why he should be cautious in his speech, and the words ‘sa vai dhīkshate’ have to be taken parenthetically: ‘He speaks his speech cautiously . . . .; for (anointing himself as he does) he anoints himself for speech, &c.’ The Kāṇva text offers less difficulty: Atha yad dhīkshito nāma vāce vā esha etad dhīkshate, yajñāya hi dhīkshate, yajño hi vāk, tasmād dhīkshito nāma, dhīkshito ha vai nāmaitad yad dīkshita ity āhuḥ. Sāyaṇa’s comment (MS.) is not very satisfactory: Vācaṁ yajñasādhanatvena praśaṁsati; sa vai dhīkshita iti prasaṅgād dhīkshitaśabdaṁ nirvakti dhīkshito ha vā iti yasmād dīkshita iti nāma tādr̥śī dīkshā vāk sādhyeti vāk śrutiḥ. ↩︎