०१

विश्वास-प्रस्तुतिः

द᳘क्षिणेनाहवनी᳘यं प्राची᳘नग्रीवे कृष्णाजिने ऽउ᳘पस्तृणाति॥
त᳘योरेनम᳘धि दीक्षयति य᳘दि द्वे भ᳘वतस्त᳘दन᳘योर्लोक᳘यो रूपं त᳘देनमन᳘योर्लोक᳘योर᳘धि दीक्षयति॥

मूलम् - श्रीधरादि

द᳘क्षिणेनाहवनी᳘यं प्राची᳘नग्रीवे कृष्णाजिने ऽउ᳘पस्तृणाति॥
त᳘योरेनम᳘धि दीक्षयति य᳘दि द्वे भ᳘वतस्त᳘दन᳘योर्लोक᳘यो रूपं त᳘देनमन᳘योर्लोक᳘योर᳘धि दीक्षयति॥

मूलम् - Weber

द᳘क्षिणेनाहवनी᳘यम् प्राची᳘नग्रीवे कृष्णाजिने उ᳘पस्तृणाति॥
त᳘योरेनम᳘धि दीक्षयति य᳘दि द्वे भ᳘वतस्तदन᳘योर्लोक᳘यो रूपं त᳘देनमन᳘योर्लोक᳘योर᳘धि दीक्षयति॥

मूलम् - विस्वरम्

अथ कृष्णाजिनदीक्षा ।

दक्षिणेनाहवनीयं प्राचीनग्रीवे कृष्णाजिने उपस्तृणाति । तयोरेनमधिदीक्षयति । यदि द्वे भवतः- तदनयोर्लोकयो रूपम् । तदेनमनयोर्लोकयोरधिदीक्षयति ॥ १ ॥

सायणः

यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

दीक्षाहुतीर्विधायाथ कृष्णाजिनदीक्षामाह- दक्षिणेनाहवनीयमिति । आहवनीयस्य दक्षिणे देशे द्वे कृष्णाजिने आस्तीर्य ‘तयोरधि’ ‘एनं’ यजमानं ‘दीक्षयति’ तद्गतं द्वित्वं प्रशंसति- यदि द्वे भवत इति ॥ १ ॥

Eggeling
  1. South of the Āhavanīya he spreads two black antelope skins on the ground, with the neck parts towards the east: thereon he consecrates him. If there are two (skins), they are an image of these two worlds (heaven and earth), and thus he consecrates him on these two worlds.

०२

विश्वास-प्रस्तुतिः

सं᳘बद्धान्ते भवतः॥
सं᳘बद्धान्ताविव᳘ हीमौ᳘ लोकौ᳘ तर्द्मसमुते᳘ पश्चाद्भवतस्त᳘दिमा᳘वेव᳘[[!!]] लोकौ᳘ मिथुनीकृ᳘त्य त᳘योरेनम᳘धि दीक्षयति॥

मूलम् - श्रीधरादि

सं᳘बद्धान्ते भवतः॥
सं᳘बद्धान्ताविव᳘ हीमौ᳘ लोकौ᳘ तर्द्मसमुते᳘ पश्चाद्भवतस्त᳘दिमा᳘वेव᳘[[!!]] लोकौ᳘ मिथुनीकृ᳘त्य त᳘योरेनम᳘धि दीक्षयति॥

मूलम् - Weber

स᳘म्बद्धान्ते भवतः॥
स᳘म्बद्धान्ताविवॗ हीमौ लोकौ᳘ तर्द्मसमुते पश्चा᳘द्भवतस्त᳘दिमा᳘वेव᳘ लोकौ᳘ मिथुनीकृ᳘त्य त᳘योरेनम᳘धि दीक्षयति॥

मूलम् - विस्वरम्

संबद्धान्ते भवतः । संबद्धान्ताविव हीमौ लोकौ । तर्द्मसमुते पश्चाद्भवतः । तदिमावेव लोकौ मिथुनीकृत्य तयोरेनमधिंदीक्षयति ॥ २ ॥

सायणः

सम्बद्धान्ते भवत इति । ते च परस्परं सम्बद्धपर्यन्तप्रदेशे भवतः । आस्तरणप्रकारं कात्यायन आह- “आहवनीयं दक्षिणेन कृष्णाजिने मांससंहिते स्यूतान्ते तर्द्मसु पश्चादासञ्जनवती निदधाति"- (का. श्रौ. सू ७ । ८३) इति । तर्द्मसमुते इति । यथोभयोर्मांसप्रदेशयोः सम्बन्धो भवति, यथा च तर्द्दनप्रदेशेषु पश्चाद्भागे ‘उते’ परस्परं स्यूते भवतः, तथैकस्योपर्यपरमास्तृणुयात् । तथा ऽऽपस्तम्बो ऽपि- “अन्तर्मांसाभ्यां बहिर्लोमभ्याम्”- (आप. श्रौ. सू. १० । ८ । १२) इति ॥ २ ॥

Eggeling
  1. They are joined (fitted) together along their edge 1, for these two worlds are also, as it were, joined together at their edge. At the hind part they are fastened together through holes: thus, after uniting (mithunīkr̥tya) these two worlds, he consecrates him thereon.

०३

विश्वास-प्रस्तुतिः

य᳘द्यु ऽए᳘कं भ᳘वति॥
त᳘देषां᳘ लोका᳘नाᳫँ᳭रूपं त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति या᳘नि शुक्ला᳘नि ता᳘नि दिवो᳘ रूपं या᳘नि कृष्णा᳘नि ता᳘न्यस्यै य᳘दि वेतर᳘था या᳘न्येव᳘ कृष्णा᳘नि ता᳘नि दिवो᳘ रूपं या᳘नि शुक्ला᳘नि ता᳘न्यस्यै या᳘न्येव᳘ बभ्रूणीव[[!!]] ह᳘रीणि ता᳘न्यन्त᳘रिक्षस्य रूपं त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति॥

मूलम् - श्रीधरादि

य᳘द्यु ऽए᳘कं भ᳘वति॥
त᳘देषां᳘ लोका᳘नाᳫँ᳭रूपं त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति या᳘नि शुक्ला᳘नि ता᳘नि दिवो᳘ रूपं या᳘नि कृष्णा᳘नि ता᳘न्यस्यै य᳘दि वेतर᳘था या᳘न्येव᳘ कृष्णा᳘नि ता᳘नि दिवो᳘ रूपं या᳘नि शुक्ला᳘नि ता᳘न्यस्यै या᳘न्येव᳘ बभ्रूणीव[[!!]] ह᳘रीणि ता᳘न्यन्त᳘रिक्षस्य रूपं त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति॥

मूलम् - Weber

य᳘द्यु ए᳘क भवति॥
त᳘देषां᳘ लोका᳘नां रूपं त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति यानि शुक्ला᳘नि तानि दिवो रूपं या᳘नि कृष्णा᳘नि ता᳘न्यस्यै य᳘दि वेतर᳘था या᳘न्येव᳘ कृष्णा᳘नि ता᳘नि दिवो᳘ रूपंया᳘नि शुक्ला᳘नि ता᳘न्यस्यै या᳘न्येव᳘ बभ्रू᳘णीव ह᳘रीणि ता᳘न्यन्त᳘रिक्षस्य रूपं त᳘देनमेषु᳘ लोकेष्व᳘धि दीक्षयति॥

मूलम् - विस्वरम्

यद्यु एकं भवति- तदेषां लोकानां रूपम् । तदेनमेषु लोकेष्वधिदीक्षयति । यानि शुक्लानि तानि दिवो रूपम् । यानि कृष्णानि तान्यस्यै । यदि वेतरथा- यान्येव कृष्णानि- तानि दिवो रूपम् । यानि शुक्लानि तान्यस्यै । यान्येव बभ्रूणीव हरीणि- तान्यन्तरिक्षस्य रूपम् । तदेनमेषु लोकेष्वधिदीक्षयति ॥ ३ ॥

सायणः

एककृष्णाजिनपक्षमुक्त्वा प्रशंसति- यद्यु एकमिति । ‘तत्’ ‘एकम्’ एव कृष्णाजिनं लोकत्रयात्मकम्; अत एकेनापि दीक्षयेत् । ‘दिवः’ द्योतमानत्वेन शुक्लरोमांशस्तद्रूपं भवति । पृथिव्याः श्यामत्वात् कृष्णानां तद्रूपत्वम् । यदि वेतरथेति । भूलोकस्वर्लोकयोर्मनुष्यैः परिदृश्यमानापरिदृश्यमानत्वमपेक्ष्य वैपरीत्योपन्यासः । यान्येवेति । ‘यान्येव’ लोमानि ‘बभ्रूणि’ बभ्रुवर्णानि, ‘हरीणि’ हरितवर्णानि च दृश्यन्ते ‘तानि अन्तरिक्षस्य रूपम्;’ “नीलं नभः” इति लोकप्रसिद्धेः ॥ ३ ॥

Eggeling
  1. But if there be only one (skin), then it is an image of these (three) worlds; then he consecrates him on these (three) worlds. Those (hairs) which are white are an image of the sky; those which are black are (an image) of this (earth);–or, if he likes, conversely: those which are black are an image of the sky, and those which are white are (an image) of this (earth). Those which are of a brownish yellow colour 2, are an image of the atmosphere. Thus he consecrates him on these (three) worlds.

०४

विश्वास-प्रस्तुतिः

(त्य) अन्तक᳘मु त᳘र्हि पश्चात्प्र᳘त्यस्येत्॥
(त्त᳘) त᳘दिमा᳘नेव᳘ लोका᳘न्मिथुनीकृ᳘त्य ते᳘ष्वेनम᳘धिदीक्षयति॥

मूलम् - श्रीधरादि

(त्य) अन्तक᳘मु त᳘र्हि पश्चात्प्र᳘त्यस्येत्॥
(त्त᳘) त᳘दिमा᳘नेव᳘ लोका᳘न्मिथुनीकृ᳘त्य ते᳘ष्वेनम᳘धिदीक्षयति॥

मूलम् - Weber

अन्तक᳘मु त᳘र्हि पश्चात्प्र᳘त्यस्येत्॥
त᳘दिमा᳘नेव᳘ लोका᳘न्मिथुनीकृ᳘त्य ते᳘ष्वेनम᳘धि दीक्षयति॥

मूलम् - विस्वरम्

अन्तकमु तर्हि पश्चात्प्रत्यस्येत् । तदिमानेव लोकान्मिथुनीकृत्य तेष्वेनमधिदीक्षयति ॥ ४ ॥

सायणः

अन्तकमु तर्हीति । ‘तर्हि’ तस्मिन्नेककृष्णाजिनपक्षे ‘अन्तकमु’ अन्तप्रदेशमेव ‘पश्चाद्-भागे’ ‘प्रत्यस्येत्’ सङ्कोचयेत्, सन्धिप्रदेशेन द्विगुणीकुर्यादित्यर्थः । तथा च सूत्रम्- “एकं चेत्पश्चात् पादद्विगुणम्”- (का. श्रौ. सू. ७ । ८४) इति ॥ ४ ॥

Eggeling
  1. And let him, in that case, turn in the hind end (of the skin) 3: thus, after uniting these worlds with each other, he consecrates him thereon.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ जघ᳘नेन कृष्णाजिने᳘ पश्चात्॥ (त्प्रा᳘) प्रा᳘ङ् जान्वाक्न उ᳘पविशति स य᳘त्र शुक्ला᳘नां च कृष्णा᳘नां च संधिर्भ᳘वति त᳘देव᳘मनिमृ᳘श्य जपत्यृक्साम᳘योः शि᳘ल्पे स्थ ऽइ᳘ति यद्वै प्र᳘तिरूपं तच्छि᳘ल्पमृचां᳘ च सा᳘म्नां च प्र᳘तिरूपे स्थ इ᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ जघ᳘नेन कृष्णाजिने᳘ पश्चात्॥ (त्प्रा᳘) प्रा᳘ङ् जान्वाक्न उ᳘पविशति स य᳘त्र शुक्ला᳘नां च कृष्णा᳘नां च संधिर्भ᳘वति त᳘देव᳘मनिमृ᳘श्य जपत्यृक्साम᳘योः शि᳘ल्पे स्थ ऽइ᳘ति यद्वै प्र᳘तिरूपं तच्छि᳘ल्पमृचां᳘ च सा᳘म्नां च प्र᳘तिरूपे स्थ इ᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ जघ᳘नेन कृष्णाजिने᳘ पश्चात् प्रा᳘ङ् जान्वाक्न उ᳘पविशति स य᳘त्र शुक्ला᳘नां च कृष्णा᳘नां च संधिर्भ᳘वति त᳘देव᳘मनिमृ᳘श्य जपत्यृक्साम᳘योः शि᳘ल्पे स्थ इ᳘ति यद्वै प्र᳘तिरूपं तछि᳘ल्पमृचां᳘ च सा᳘म्नां च प्र᳘तिरूपे स्थ इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ जघनेन कृष्णाजिने पश्चात् प्राङ् जान्वाक्न उपविशति । स यत्र शुक्लानां च कृष्णानां च सन्धिर्भवति- तदेवमभिमृश्य जपति- “ऋक्सामयोः शिल्पे स्थः"- (वा. सं. ४ । ९) इति । यद्वै प्रतिरूपम्- तच्छिल्पम् । ऋचां च साम्नां च प्रतिरूपे स्थः- इत्येवैतदाह ॥ ५ ॥

सायणः

कृष्णाजिनदीक्षार्थमुपवेशनप्रकारमाह- अथ जघनेनेति । कृष्णाजिनयोः पश्चाद्भागेन स्वयमपि पश्चात् प्राङ्मुखो दक्षिणजान्वाक्नः उपविशेत् । ‘जान्वाक्नः’ सङ्कुचितजानुकः, आरुह्योपविशेदित्यर्थः । “दक्षिणं जान्वाच्यास्ते पश्चादेनयोः” (का. श्रौ. सू. ७ । ८५) इति सूत्रम् । आसीनः तत्सन्धिस्थानमित्यर्थः । (का. श्रौ. सू. ७ । ८६) 4एवमभिमृश्य जपतीति । एवमित्यभिमर्शनप्रकारस्याभिनयः ॥

मन्त्रस्थं शिल्पपदं व्याचष्टे- यद्वा इति । ‘प्रतिरूपम्’ प्रतिकृतिः । ‘वै-’ शब्देन लोकप्रसिद्धिरुच्यते । लौकिका हि हरितुरगादिप्रतिरूपं शिल्पमित्याहुः । शुक्लकृष्णयोरेवर्क्सामप्रतिरूपत्वं तैत्तिरीयके उक्तम्- “एष वा ऋचो वर्णो यच्छुक्लं कृष्णाजिनस्यैष साम्नो यत् कृष्णम्-" (तै. सं. ६ । १ । ३ । १) इति 5 ॥ ५ ॥

Eggeling
  1. He then squats down behind the two skins, with his face towards the east and with bent (right) knee; and while touching them thus 6 at a place

where the white and black (hair) join, he mutters (Vāj. S. IV, 9), ‘Ye are the images of the R̥c and Sāman;’–an image doubtless is what is conformable 7: ‘Ye are conformable to, the r̥cs and sāmans’ he thereby means to say.

०६

विश्वास-प्रस्तुतिः

ते᳘ व्वामा᳘रभ इ᳘ति॥
ग᳘र्भो वा᳘ ऽएष᳘ भवति यो दी᳘क्षते स छ᳘न्दाᳫँ᳭सि प्र᳘विशति त᳘स्मा᳘न्न्यक्नाङ्गुलिरिव[[!!]] भवति᳘ न्यक्नाङ्गुलय[[!!]] ऽइव हि ग᳘र्भाः॥

मूलम् - श्रीधरादि

ते᳘ व्वामा᳘रभ इ᳘ति॥
ग᳘र्भो वा᳘ ऽएष᳘ भवति यो दी᳘क्षते स छ᳘न्दाᳫँ᳭सि प्र᳘विशति त᳘स्मा᳘न्न्यक्नाङ्गुलिरिव[[!!]] भवति᳘ न्यक्नाङ्गुलय[[!!]] ऽइव हि ग᳘र्भाः॥

मूलम् - Weber

ते᳘ वामा᳘रभ इ᳘ति॥
ग᳘र्भो वा᳘ एष᳘ भवति यो दी᳘क्षते स छ᳘न्दांसि प्र᳘विशति त᳘स्मान्न्व᳘क्नाङ्गुलिरिव भवति न्य᳘क्नाङ्गुलय इव हि ग᳘र्भाः॥

मूलम् - विस्वरम्

“ते वामारभे”- (वा. सं. ४ । ९) इति । गर्भो वा एष भवति- यो दीक्षते । स च्छन्दांसि प्रविशति । तस्मान्न्यक्नाङ्गुलिरिव भवति । न्यक्नाङ्गुलय इव हि गर्भाः ॥ ६ ॥

सायणः

द्वितीयं भागं व्याचष्टे- ते वामिति । गर्भो वा एष भवति इति । ‘वै-’ शब्देनात्र श्रुत्यन्तरप्रसिद्धिरुच्यते । तथा चैतरेयकम्- “पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति यं दीक्षयन्ति"- इति (ऐ. ब्रा. १ । १ । ३) । ‘छन्दांसि’ गायत्र्यादीनि । ‘न्यक्नाङ्गुलिः’ मुष्टीकरणेन सङ्कुचिताङ्गुलिः । उक्तलक्षणमुपवेशनं प्रसिद्धगर्भसामान्येन द्रढयति- न्यक्नाङ्गुलय इव हीति ॥ ६ ॥

Eggeling
  1. ‘I touch you.’ Now, he who is consecrated becomes an embryo, and enters into the metres: hence he has his hands closed, since embryos have their hands closed.

०७

विश्वास-प्रस्तुतिः

स यदा᳘ह॥
ते᳘ व्वामा᳘रभ ऽइ᳘ति ते᳘ वां प्र᳘विशामी᳘त्ये᳘वैत᳘दाह ते᳘ मा पात᳘मा ऽस्य᳘ यज्ञ᳘स्योदृच[[!!]] ऽइ᳘ति ते[[!!]] मा गोपायत᳘ मा ऽस्य᳘ यज्ञ᳘स्य सᳫँ᳭स्था᳘या इ᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

स यदा᳘ह॥
ते᳘ व्वामा᳘रभ ऽइ᳘ति ते᳘ वां प्र᳘विशामी᳘त्ये᳘वैत᳘दाह ते᳘ मा पात᳘मा ऽस्य᳘ यज्ञ᳘स्योदृच[[!!]] ऽइ᳘ति ते[[!!]] मा गोपायत᳘ मा ऽस्य᳘ यज्ञ᳘स्य सᳫँ᳭स्था᳘या इ᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स यदा᳘ह॥
ते᳘ वामा᳘रभ इ᳘ति ते᳘ वाम् प्र᳘विशामी᳘त्येॗवैत᳘दाह ते᳘ मा पातॗमास्य᳘ यज्ञ᳘स्योदृ᳘च इ᳘ति ते᳘ मा गोपायतॗमास्य यज्ञ᳘स्य संस्था᳘या इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

स यदाह- ते वामारभ इति । ते वां प्रविशामीत्येवैतदाह- “ते मा पातमा ऽस्य यज्ञस्योदृचः”- (वा. सं. ४ । ९) इति । ते मा गोपायतम्- आस्य यज्ञस्य संस्थाया इत्येवैतदाह ॥ ७ ॥

सायणः

स यदाहेति । उदृक्- शब्दार्थमाह- आस्य यज्ञस्येति । संस्थाया इत्यर्थः । उत्तमा ऋक् ‘उदृक्’ तेन समाप्तिर्लक्ष्यत इति ह्यसकृदुक्तम् (श. प. कां. ३ । १ । १ । १२ भाष्ये का. ३ । १ । ३ । २३ भाष्ये) ॥ ७ ॥

Eggeling
  1. And when he says, ‘I touch you,’ he means to say, ‘I enter into you.’ ‘Do ye guard me up to the goal of this sacrifice!’ whereby he says, ‘Do ye protect me until the completion of this sacrifice!’

०८

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ दक्षिणे᳘न[[!!]] जा᳘नुना᳘ ऽऽरोहति॥
श᳘र्मासि श᳘र्म मे यच्छे᳘ति च᳘र्म वा᳘ ऽएतत्कृ᳘ष्ण᳘स्य त᳘दस्य त᳘न्मानुषᳫँ᳭ श᳘र्म देवत्रा त᳘स्मादाह श᳘र्मासि श᳘र्म मे यच्छे᳘ति न᳘मस्ते ऽअस्तु[[!!]] मा᳘ मा हिᳫँ᳭सीरि᳘ति श्रे᳘याᳫं᳭सं वा᳘ ऽएष उपा᳘धिरोहति यो᳘ यज्ञं᳘ यज्ञो हि᳘ कृष्णाजिनं त᳘स्मा ऽए᳘वैत᳘द्यज्ञा᳘य नि᳘ह्नुते त᳘थो हैनमेष᳘ यज्ञो न᳘ हिनस्ति त᳘स्मादाह न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘ति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ दक्षिणे᳘न[[!!]] जा᳘नुना᳘ ऽऽरोहति॥
श᳘र्मासि श᳘र्म मे यच्छे᳘ति च᳘र्म वा᳘ ऽएतत्कृ᳘ष्ण᳘स्य त᳘दस्य त᳘न्मानुषᳫँ᳭ श᳘र्म देवत्रा त᳘स्मादाह श᳘र्मासि श᳘र्म मे यच्छे᳘ति न᳘मस्ते ऽअस्तु[[!!]] मा᳘ मा हिᳫँ᳭सीरि᳘ति श्रे᳘याᳫं᳭सं वा᳘ ऽएष उपा᳘धिरोहति यो᳘ यज्ञं᳘ यज्ञो हि᳘ कृष्णाजिनं त᳘स्मा ऽए᳘वैत᳘द्यज्ञा᳘य नि᳘ह्नुते त᳘थो हैनमेष᳘ यज्ञो न᳘ हिनस्ति त᳘स्मादाह न᳘मस्ते ऽअस्तु मा᳘ मा हिᳫँ᳭सीरि᳘ति॥

मूलम् - Weber

अ᳘थ द᳘क्षिणेन जा᳘नुना᳘रोहति॥
श᳘र्मासि श᳘र्म मे यछे᳘ति च᳘र्म वा᳘ एतत्कृ᳘ष्णस्य त᳘दस्य त᳘न्मानुषं श᳘र्म देवत्रा त᳘स्मादाह श᳘र्मासि श᳘र्म मे यछे᳘ति न᳘मस्ते अ᳘स्तु मा᳘ मा हिंसीरि᳘ति श्रे᳘यांसं वा᳘ एष उपा᳘धिरोहति यो᳘ यज्ञं᳘ यज्ञो हि᳘ कृष्णाजिनं त᳘स्मा एॗवैत᳘द्यज्ञा᳘य नि᳘ह्नुते त᳘थो हैनमेष᳘ यज्ञो न᳘ हिनस्ति त᳘स्मादाह न᳘मस्ते अस्तु मा᳘ मा हिंसीरि᳘ति॥

मूलम् - विस्वरम्

अथ दक्षिणेन जानुना ऽऽरोहति- “शर्मासि शर्म मे यच्छ"- (वा. सं. ४ । ९) इति । चर्म वा एतत् कृष्णस्य । तदस्य तन्मानुषम् । शर्म देवत्रा । तस्मादाह- शर्मासि शर्म मे यच्छेति । “नमस्ते अस्तु मा मा हिंसीः”- (वा. सं. ४ । ९) इति । श्रेयांसं वा एष उपाधिरोहति- यो यज्ञम् । यज्ञो हि कृष्णाजिनम् । तस्मा एवैतद्यज्ञाय निह्नुते । तथो हैनमेष यज्ञो न हिनस्ति । तस्मादाह- नमस्ते अस्तु मा मा हिंसीरिति ॥ ८ ॥

सायणः

अनन्तरं कृष्णाजिनारोहणं विधत्ते- अथ दक्षिणेनेति । चर्म वा इत्यादि । मनुष्येषु यत् ‘चर्म-’ इति प्रसिद्धम्, ‘एतद्’ ‘देवत्रा’ देवेषु सुखहेतुत्वात् ‘शर्म’- शब्दाभिधेयम्; अतो वैदिकेन स्वरूपेण शर्मासीति कृष्णाजिनस्य स्तुतिः । हिंसापरिहारप्रसक्तिं दर्शयति- श्रेयांसमित्यादिना । यज्ञाख्यश्रेयो ऽतिक्रमणापराधप्रार्थनं युक्तमित्यर्थः ॥ ८ ॥

Eggeling
  1. He then kneels down with his right knee (on the skin), with the text, ‘Thou art a refuge: afford me refuge!’ for the skin (carma) of the black deer it is indeed among men, but among the gods it is a refuge (śarma): therefore he says, ‘Thou art a refuge: afford me refuge.’ ‘Homage be to thee: injure me not!’ Now he who raises himself upon the sacrifice 7 doubtless raises himself to one that is his better; for the black deer skin is a (means of) sacrifice. Hereby, now, he propitiates that sacrifice, and thus that sacrifice does not injure him: for this reason he says, ‘Homage be to thee: injure me not!’

०९

विश्वास-प्रस्तुतिः

स वै᳘ जघनार्ध᳘ ऽइहैवा᳘ग्र ऽआसीत॥
(ता᳘) अ᳘थ य᳘दग्र ऽएव म᳘ध्य ऽउपविशेद्य᳘ ऽएनं त᳘त्रानुष्ठ्याह᳘रेद्द्र᳘प्स्य᳘ति वा प्र᳘ वा पतिष्यती᳘ति त᳘था हैव᳘ स्यात्त᳘स्माज्जघनार्ध᳘ ऽइवैवा᳘ग्र ऽआसीत॥

मूलम् - श्रीधरादि

स वै᳘ जघनार्ध᳘ ऽइहैवा᳘ग्र ऽआसीत॥
(ता᳘) अ᳘थ य᳘दग्र ऽएव म᳘ध्य ऽउपविशेद्य᳘ ऽएनं त᳘त्रानुष्ठ्याह᳘रेद्द्र᳘प्स्य᳘ति वा प्र᳘ वा पतिष्यती᳘ति त᳘था हैव᳘ स्यात्त᳘स्माज्जघनार्ध᳘ ऽइवैवा᳘ग्र ऽआसीत॥

मूलम् - Weber

स वै᳘ जघनार्ध᳘ इवैवा᳘ग्र आसीत॥
अ᳘थ य᳘दग्र एव म᳘ध्य उपविशेद्य᳘ एनं त᳘त्रानुष्ठ्या ह᳘रेद्द्र᳘प्स्य᳘ति वा प्र᳘ वा पतिष्यती᳘ति त᳘था हैव᳘ स्यात्त᳘स्माज्जघनार्ध᳘ इवैवा᳘ग्र आसीत॥

मूलम् - विस्वरम्

स वै जघनार्द्ध इवैवाग्र आसीत । अथ यदग्र एव मध्य उपविशेत्- य एनं तत्रानुष्ठ्याहरेत् । द्रप्स्यति वा प्र वा पतिष्यतीति । तथा हैव स्यात्तस्माज्जघनार्ध इवैवाग्र आसीत ॥ ९ ॥

सायणः

स जघनार्द्ध इति । ‘सः’ आरूढः ‘जघनार्द्धे’ कृष्णाजिनस्य पश्चाद्भागे एव ‘अग्रे’ प्रथमं ‘आसीत’ । (का. श्रौ. सू. ७ । ८७) 8 । विपक्षे बाधमाह- अथ यदग्र इति । ‘यः’ ‘एवम्’ मध्यप्रदेशमारूढं ब्रूयात् अन्यः ‘द्रप्स्यति’ दृप्तः कुत्सितगतिर्भविष्यति ततः पतिष्यति चेति ॥ ९ ॥

Eggeling
  1. He must indeed sit down first on the hind part (of the skin). Were he, on the other hand, to sit down at once in the middle (of the skin), and were

any one there to curse him, saying, ‘He shall either become demented or fall down headlong!’ then that would indeed come to pass. Let him therefore first sit down on the hind part (of the skin).

१०

विश्वास-प्रस्तुतिः

(ता᳘) अ᳘थ मे᳘खलां प᳘रिहरते॥
(ते᳘ ऽङ्गि) अ᳘ङ्गिरसो ह वै᳘ दीक्षिता᳘ न बल्य᳘मविन्दंस्ते[[!!]] नान्य᳘द्व्रताद᳘शनम᳘वाकल्पयंस्त᳘ ऽएतामू᳘र्जमपश्यन्त्स᳘माप्तिं तां᳘ मध्यत᳘[[!!]] ऽआत्म᳘न ऊ᳘र्जमदधत स᳘माप्तिं त᳘या स᳘माप्नुवंस्त᳘थो ऽए᳘वैष᳘ ऽएतां᳘ मध्यत᳘ ऽआत्म᳘न ऊ᳘र्जं धत्ते स᳘माप्तिं त᳘या स᳘माप्नोति॥

मूलम् - श्रीधरादि

(ता᳘) अ᳘थ मे᳘खलां प᳘रिहरते॥
(ते᳘ ऽङ्गि) अ᳘ङ्गिरसो ह वै᳘ दीक्षिता᳘ न बल्य᳘मविन्दंस्ते[[!!]] 8 नान्य᳘द्व्रताद᳘शनम᳘वाकल्पयंस्त᳘ ऽएतामू᳘र्जमपश्यन्त्स᳘माप्तिं तां᳘ मध्यत᳘[[!!]] ऽआत्म᳘न ऊ᳘र्जमदधत स᳘माप्तिं त᳘या स᳘माप्नुवंस्त᳘थो ऽए᳘वैष᳘ ऽएतां᳘ मध्यत᳘ ऽआत्म᳘न ऊ᳘र्जं धत्ते स᳘माप्तिं त᳘या स᳘माप्नोति॥

मूलम् - Weber

अ᳘थ मे᳘खलाम् प᳘रिहरते॥
अ᳘ङ्गिरसो ह वै᳘ दीक्षिता᳘नबल्य᳘मविन्दत्तेॗ 9 नान्य᳘द्व्रताद᳘शनम᳘वाकल्पयंस्त᳘ एतामू᳘र्जमपश्यन्त्स᳘माप्तिं ता᳘म् मध्य᳘त आत्म᳘न ऊ᳘र्जमदधत स᳘माप्तिं त᳘या स᳘माप्नुवंस्त᳘थो एॗवैष᳘ एता᳘म् मध्यत᳘ आत्म᳘न ऊ᳘र्जंधत्ते स᳘माप्तिं त᳘या स᳘माप्नोति॥

मूलम् - विस्वरम्

अथ मेखलां परिहरते । अङ्गिरसो ह वै दीक्षिता न बल्यमविन्दन् । ते नान्यद्व्रतादशनमवाकल्पयन् । त एतामूर्जमपश्यन्- समाप्तिम् । तां मध्यत आत्मन ऊर्जमदधत- समाप्तिं, तया समाप्नुवन् । तथो एवैष एतां मध्यत आत्मन ऊर्जं धत्ते- समाप्तिम्, तया समाप्नोति ॥ १० ॥

सायणः

अथ मेखलादीक्षामाह- अथ मेखलामिति । ‘परिहरति’ मध्ये परितो वेष्टयेदित्यर्थः । पुरावृत्तान्ताभिधानेन तां मेखलां प्रशंसति- अङ्गिरस इति । ‘बल्यं’ बलार्हं बलकरं वस्तु ‘नाविन्दन्’ दौर्बल्ये कारणमाह- व्रतात् तत्साधनात् पयसः ‘अन्यत्’ अशनं ‘नावाकल्पयन्’ यतः, अत इत्यर्थः । ‘ते’ ‘एताम्’ ‘ऊर्जम्’ । ‘ऊर्क्’ बलं तत्साधनत्वान्मेखला ऊर्गित्युच्यते । ऊर्गिति विशिनष्टि- समाप्तिमिति । सम्यगाप्यायते बलमनयेति समाप्तिर्मेखला ॥ १० ॥

Eggeling
  1. He then girds himself with the zone. For once upon a time when the Aṅgiras were consecrated, they were seized with weakness, for they had prepared no other food but fast-milk. They then perceived this (source of) strength (viz. the zone), and this (source of) strength they put in (or round) the middle of their body as a (means of attaining) completion: and thereby they attained completion. And so does he now put that (source of) strength in the middle of his body and thereby attain completion.

११

विश्वास-प्रस्तुतिः

सा वै᳘ शाणी᳘ भवति॥
मृद्व्य᳘सदि᳘ति᳘ न्वेव᳘ शाणी य᳘त्र वै᳘ प्रजा᳘पतिर᳘जायत ग᳘र्भो भू᳘त्वैत᳘स्माद्यज्ञात्त᳘स्य यन्ने᳘दिष्ठमु᳘ल्बमा᳘सीत्ते᳘ शणास्त᳘स्मात्ते पू᳘तयो व्वान्ति य᳘द्वस्य जराय्वा᳘सीत्त᳘द्दीक्षितव᳘सनम᳘न्तरं वा ऽउ᳘ल्बं जरा᳘यु᳘णो भवति त᳘स्मादेषा᳘ ऽन्तरा व्वा᳘ससो भवति स य᳘थैवा᳘तः प्रजा᳘पतिर᳘जायत ग᳘र्भो भू᳘त्वैत᳘स्माद्यज्ञा᳘देव᳘मे᳘वैषो᳘ ऽतो जायते ग᳘र्भो भू᳘त्वैत᳘स्माद्यज्ञात्[[!!]]॥

मूलम् - श्रीधरादि

सा वै᳘ शाणी᳘ भवति॥
मृद्व्य᳘सदि᳘ति᳘ न्वेव᳘ शाणी य᳘त्र वै᳘ प्रजा᳘पतिर᳘जायत ग᳘र्भो भू᳘त्वैत᳘स्माद्यज्ञात्त᳘स्य यन्ने᳘दिष्ठमु᳘ल्बमा᳘सीत्ते᳘ शणास्त᳘स्मात्ते पू᳘तयो व्वान्ति य᳘द्वस्य जराय्वा᳘सीत्त᳘द्दीक्षितव᳘सनम᳘न्तरं वा ऽउ᳘ल्बं जरा᳘यु᳘णो भवति त᳘स्मादेषा᳘ ऽन्तरा व्वा᳘ससो भवति स य᳘थैवा᳘तः प्रजा᳘पतिर᳘जायत ग᳘र्भो भू᳘त्वैत᳘स्माद्यज्ञा᳘देव᳘मे᳘वैषो᳘ ऽतो जायते ग᳘र्भो भू᳘त्वैत᳘स्माद्यज्ञात्[[!!]]॥

मूलम् - Weber

सा वै᳘ शाणी᳘ भवति॥
मृद्व्य᳘सदि᳘तिॗ न्वेव᳘ शाणी य᳘त्र वै᳘ प्रजा᳘पतिर᳘जायत ग᳘र्भो भूॗत्वैत᳘स्माद्यज्ञात्त᳘स्य यन्ने᳘दिष्ठमु᳘ल्बमा᳘सीत्ते᳘ शणास्त᳘स्मात्ते पू᳘तयो वान्ति य᳘द्वस्य जराय्वा᳘सीत्त᳘द्दीक्षितव᳘सनम᳘न्तरं वा उल्बं जरा᳘युणो भवति त᳘स्मादेषा᳘न्तरा वा᳘ससो भवति स य᳘थैवा᳘तः प्रजा᳘पतिर᳘जायत गर्भो भू᳘त्वैत᳘स्माद्यज्ञा᳘देव᳘मेॗवैषो᳘ ऽतो जायते ग᳘र्भो भूॗत्वैत᳘स्माद्यज्ञा᳘त्॥

मूलम् - विस्वरम्

सा वै शाणी भवति- मृद्व्यसदिति न्वेव शाणी । यत्र वै प्रजापतिरजायत- गर्भो भूत्वैतस्माद्यज्ञात् । तस्य यन्नेदिष्टमुल्यमासीत्- ते शणाः । तस्मात्ते पूतयो वान्ति- यस्य जराय्वासीत्- तद्दीक्षितवसनम् । अन्तरं वा उल्लं जरायुणो भवति । तस्मादेषा ऽन्तरा वाससो भवति । स यथैवातः प्रजापतिरजायत- गर्भो भूत्वैतस्माद्यज्ञात- एवमेवैषो ऽतो जायते- गर्भो भूत्वैतस्माद्यज्ञात् ॥ ११ ॥

सायणः

तस्या उपादानद्रव्यमाह- सा वै शाणीति । ‘सा’ समाप्तिः ‘शाणी’ शणमयी भवेत् । ‘मृद्वी’ सुखसंस्पर्शा ‘असत्’ भवेत् । ‘इति न्वेव’ अनेन खल्वभिप्रायेण, गर्भाणां मार्दवस्यापेक्षितत्वादित्यर्थः । शणवाससोरुत्पत्तिमाह- यत्र वा इति । ‘यत्र’ यस्मिन् काले ‘प्रजापतिः’ यज्ञसकाशादुत्पन्नः; ‘तस्य’ प्रजापतेगर्भभूतस्य ‘नेदिष्ठम्’ अत्यन्तसन्निहितं ‘यदुल्बमासीत्’ ‘ते’ ‘शणाः’ अभवन् । ‘तस्मात्’ गर्भमालिन्यसम्भवात् ‘ते’ शणाः पूतयो ‘वान्ति’ दुर्गन्धा भवन्ति । उल्बं नाम पटसदृशं गर्भस्यान्तर्वेष्टनम् । “स उल्बावृतो गर्भो भवति”- (ऐ. ब्रा. १ । १ । ३ । नि. ६ । ६ । ७) इत्येतदारण्यकम् । प्रतिनिर्द्देशे बहुवचनं शणापेक्षम् । जरायुर्बहिर्वेष्टनम् । प्रजापतेः सम्बन्धि तत् दीक्षितेन धार्यं वस्त्रमभूत् । उभे अपि गर्भरूपप्रजापतिवद्दीक्षितस्यापि गर्भत्वाद्धार्ये अभूताम् । मेखलाया वसनादान्तरत्वं विधत्ते- अन्तरं वेति । स यथैवेत्यादि । स्पष्टम् ॥ ११॥

Eggeling
  1. It is made of hemp. Hempen it is in order to be soft. Now when Prajāpati, having become an embryo, sprung forth from that sacrifice, that which was nearest to him, the amnion, became hempen threads: hence they smell putrid. And that which was the outer membrane (and placenta) became the garment of the consecrated. Now the amnion lies under the outer membrane, and hence that (zone) is worn under the garment. And in like manner as Prajāpati, having become an embryo, sprung forth from that sacrifice, so does he become an embryo and spring forth from that sacrifice.

१२

विश्वास-प्रस्तुतिः

(त्सा) सा वै᳘ त्रिवृ᳘द्भवति॥
त्रिवृद्ध्य᳘न्नं पश᳘वो ह्य᳘न्नं पिता᳘ माता यज्जा᳘यते त᳘त्तृती᳘यं त᳘स्मात्त्रिवृ᳘द्भवति॥

मूलम् - श्रीधरादि

(त्सा) सा वै᳘ त्रिवृ᳘द्भवति॥
त्रिवृद्ध्य᳘न्नं पश᳘वो ह्य᳘न्नं पिता᳘ माता यज्जा᳘यते त᳘त्तृती᳘यं त᳘स्मात्त्रिवृ᳘द्भवति॥

मूलम् - Weber

सा वै᳘ त्रिवृ᳘द्भवति॥
त्रिवृद्ध्य᳘न्नम् पश᳘वो ह्य᳘न्नम् पिता᳘ माता यज्जा᳘यते तत्तृती᳘यं त᳘स्मात्त्रिवृ᳘द्भवति॥

मूलम् - विस्वरम्

सा वै त्रिवृद्भवति । त्रिवृद्ध्यन्नम् । पशवो ह्यन्नम् । पिता, माता, यज्जायते- तत् तृतीयम् । तस्मात्त्रिवृद्भवति ॥ १२ ॥

सायणः

सा वा इत्यादि । अजाव्यादिरूपमन्नं पितृमातृपुत्रात्मना ‘त्रिवृद् भवति’ यतः अतस्तदात्मकत्वान्मेखला ऽपि त्रिगुणा कर्तव्या ॥ १२ ॥

Eggeling
  1. It (the cord) is a triple one, because food is threefold, food being cattle. (Moreover) the father and mother (are two), and that which is born is a third: hence it is a triple (cord).

१३

विश्वास-प्रस्तुतिः

मुञ्जवल्शेना᳘न्वस्ता भवति॥
व्व᳘ज्रो वै᳘ शरो᳘ व्विरक्ष᳘स्तायै स्तुकास᳘र्गᳫँ᳭ सृष्टा᳘ भवति सा य᳘त्प्रसलवि᳘ सृष्टा स्याद्य᳘थेद᳘मन्या र᳘ज्जवो मानुषी᳘ स्याद्य᳘द्वपसलवि᳘ सृष्टा स्या᳘त्पितृदेव᳘त्या स्यात्त᳘स्मात्स्तुकास᳘र्गᳫँ᳭सृष्टा᳘ भवति॥

मूलम् - श्रीधरादि

मुञ्जवल्शेना᳘न्वस्ता भवति॥
व्व᳘ज्रो वै᳘ शरो᳘ व्विरक्ष᳘स्तायै स्तुकास᳘र्गᳫँ᳭ सृष्टा᳘ भवति सा य᳘त्प्रसलवि᳘ सृष्टा स्याद्य᳘थेद᳘मन्या र᳘ज्जवो मानुषी᳘ स्याद्य᳘द्वपसलवि᳘ सृष्टा स्या᳘त्पितृदेव᳘त्या स्यात्त᳘स्मात्स्तुकास᳘र्गᳫँ᳭सृष्टा᳘ भवति॥

मूलम् - Weber

मुञ्जवल्शेना᳘न्वस्ता भवति॥
व᳘ज्रो वै᳘ शरो᳘ विरक्षस्तायै स्तुकास᳘र्गᳫं सृष्टा᳘ भवति सा य᳘त्प्रसलवि᳘ सृष्टा स्याद्य᳘थेद᳘मन्या र᳘ज्जवो मानुषी᳘ स्याद्य᳘द्वपसलवि᳘ सृष्टा स्या᳘त्पितृदेवॗत्या स्यात्त᳘स्मात्स्तुकास᳘र्गᳫं सृष्टा᳘ भवति॥

मूलम् - विस्वरम्

मुञ्जवल्शेनान्वस्ता भवति । वज्रो वै शरः । विरक्षस्तायै । स्तुकासर्गं सृष्टा भवति । सा यत् प्रसलवि सृष्टा स्यात् । यथेदमन्या रज्जवो मानुषी स्यात् । यद्वपसलवि सृष्टा स्यात्- पितृदेवत्या स्यात् । तस्मात्स्तुकासर्गं सृष्टा भवति ॥ १३ ॥

सायणः

तस्या मुञ्जशाखामिश्रितत्वं विधत्ते- मुञ्जवल्शेनान्वस्ता इति । शरस्य वज्रावयवत्वाद् रक्षोविवासकत्वम् । तथा च तैत्तिरीयकम्- “इन्द्रो वृत्राय वज्रं प्राहरत् स त्रेधा व्यभवत्” (तै. सं. ५ । २ । ६ । २) इत्युपक्रम्य “ये ऽन्तःशरा आशीर्यन्त ताः शर्करा अभवन्, तच्छर्कराणां शर्करत्वं वज्रो वै शर्कराः- (तै. सं. ५ । २ । ६ । २) इति *। मेखलायाः केशवेणीवन्निर्माणं विधत्ते- स्तुकासर्गं सृष्टा भवतीति । ‘स्तुका’ केशवेणी, सा यथा सृज्यते, तथा सृष्टा निर्मिता भवेत् । उक्तप्रकारं प्रशंसितुं प्रकारान्तरयोर्दोषमाह- सा प्रसलवीति । ‘सा’ मेखला ‘यत्’ यदि ‘प्रसलवि सृष्टा’ दक्षिणपाणेर्व्यापारेण निर्मिता स्यात्, तदा ‘यथा’ येन प्रकारेण ‘अन्याः’ लौकिक्यः, गवादिबन्धनरज्जवो मानुष्या भवन्ति । एवमियमपि मानुष्येव भवेत् । ‘यत्’ यदि ‘अपसलवि सृष्टा’ सव्यपाणिनोपरि व्यापृतेन निर्मिता स्यात्, तदा ‘पितृदेवत्या स्यात्’ तस्मात् स्तुकासर्गं सृष्टेत्युपसंहारः ॥ १३ ॥

*शतपथे हविर्यज्ञकांडे १ । अ. २ । ४ । १ । इंद्रो ह यत्र वृत्राय व्वज्रं प्रजहार । स प्रहृतश्चतुर्द्धा ऽभवत् । तस्य स्फ्यस्तृतीयं वा यावद्वा यूपस्तृतीयं वा यावद्वा । रथस्तृतीयं वा यावद्वा । अथ यत्र प्राहरत्तच्छकलो ऽशीर्यत । स पतित्वा शरो ऽभवत् । तस्माच्छरो नाम यदशीर्यत । एवमु स चतुर्द्धा व्वज्रो ऽभवत् । १ ।

Eggeling
  1. It is intertwined with a shoot of reed (muñja) grass, for the sake of chasing away the evil spirits, the reed being a thunderbolt. It is plaited after

the manner of a braid of hair. For were it to be twisted 10 sunwise (from left to right) as any other cords, it would be human; and were it twisted contrary to the course of the sun, it would be sacred to the Fathers: hence it is plaited after the manner of a braid of hair.

१४

विश्वास-प्रस्तुतिः

तां प᳘रिहरते॥
(त ऽ) ऊ᳘र्गस्याङ्गिरसीत्य᳘ङ्गिरसो᳘ ह्येतामू᳘र्जम᳘पश्यन्नू᳘र्णम्रदा ऊ᳘र्जं म᳘यि धेही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - श्रीधरादि

तां प᳘रिहरते॥
(त ऽ) ऊ᳘र्गस्याङ्गिरसीत्य᳘ङ्गिरसो᳘ ह्येतामू᳘र्जम᳘पश्यन्नू᳘र्णम्रदा ऊ᳘र्जं म᳘यि धेही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - Weber

ताम् प᳘रिहरते॥
ऊ᳘र्गस्याङ्गिरसीत्य᳘ङ्गिरसोॗ ह्येतामू᳘र्जम᳘पश्यन्नू᳘र्णम्रदा ऊ᳘र्जम् म᳘यि धेही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - विस्वरम्

तां परिहरते । “ऊर्गस्याङ्गिरसी”- (वा. सं. ४ । १०) इति अङ्गिरसो ह्येतामूर्जमपश्यन् । ऊर्णम्रदा ऊर्जं मयि धेहि”- (वा. सं. ४ । १०) इति । नात्र तिरोहितमिवास्ति ॥ १४ ॥

सायणः

बन्धनमन्त्रं विधाय व्याचष्टे- तां परिहरत इति । अङ्गिरसो ह्येतामूर्जमिति । अत्र ‘हि’- शब्देन श्रुत्यन्तरे प्रसिद्धिराविष्क्रियते । तथा च तैत्तिरीयकम्- “अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त”- (तै. सं. ५ । ४ । २ । ३) इत्यादि । अत्र कात्यायनः- “मेखलां बध्नीते वेणीं त्रिवृतं शणमुञ्जमिश्रामन्तरां वासस ऊर्गसीति"- (का. श्रौ. सू. ७ । ८८) इति ॥ १४ ॥

Eggeling
  1. He girds himself with it, with the text (Vāj. S. IV, 10), ‘Thou art the strength of the Aṅgiras,’–for the Aṅgiras perceived this (source of) strength; ‘soft as wool, bestow thou strength on me!’ there is nothing obscure in this.

१५

विश्वास-प्रस्तुतिः

(स्त्य᳘) अ᳘थ नीवीमु᳘द्गूहते॥
सो᳘मस्य नीवि᳘रसीत्य᳘दीक्षितस्य वा[[!!]] ऽअस्यैषा᳘ ऽग्रे नीवि᳘र्भवत्यथा᳘त्र दीक्षित᳘स्य सो᳘मस्य त᳘स्मादाह सो᳘मस्य नीवि᳘रसीति[[!!]]॥

मूलम् - श्रीधरादि

(स्त्य᳘) अ᳘थ नीवीमु᳘द्गूहते॥
सो᳘मस्य नीवि᳘रसीत्य᳘दीक्षितस्य वा[[!!]] ऽअस्यैषा᳘ ऽग्रे नीवि᳘र्भवत्यथा᳘त्र दीक्षित᳘स्य सो᳘मस्य त᳘स्मादाह सो᳘मस्य नीवि᳘रसीति[[!!]]॥

मूलम् - Weber

अ᳘थ नीविमु᳘द्गूहते॥
सो᳘मस्य नीवि᳘रसीत्य᳘दीक्षितस्य वा᳘ अस्यैषा᳘ग्रे नीवि᳘र्भवत्यथा᳘त्र दीक्षित᳘स्य सो᳘मस्य त᳘स्मादाह सो᳘मस्य नीवि᳘रसी᳘ति॥

मूलम् - विस्वरम्

अथ नीविमुद्गूहते- “सोमस्य नीविरसि"- (वा. सं० ४ । १०) इति । अदीक्षितस्य वा अस्यैषा ऽग्रे नीविर्भवति, अथात्र दीक्षितस्य सोमस्य । तस्मादाह- सोमस्य नीविरसीति ॥ १५ ॥

सायणः

वस्त्रान्तस्य समन्त्रकमुद्गूहनमाह- अथ नीविमिति (नीविं कुरुते सोमस्य नीविरिति का. श्रौ. सू. ७ । ८९) । ‘अग्रे’ सोमयागात् पूर्वम् । अदीक्षितस्य । इदानीं तु ‘दीक्षितस्य’ ‘सोमस्य’ सोमयागकर्तृत्वाद् दीक्षितोपचारेण सोम इत्याचक्षते ॥ १५ ॥

Eggeling
  1. He then tucks up the end of his (nether) garment, with the text, ‘Thou art Soma’s tuck.’ For heretofore it was the tuck of him, the unconsecrated; but now that he is consecrated, it is that of Soma 11: therefore he says, ‘Thou art Soma’s tuck.’

१६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रो᳘र्णुते॥
ग᳘र्भो वा᳘ ऽएष᳘ भवति यो दी᳘क्षते प्रा᳘वृता वै ग᳘र्भा ऽउ᳘ल्बेनेव जरा᳘युणेव त᳘स्माद्वै प्रो᳘र्णुते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रो᳘र्णुते॥
ग᳘र्भो वा᳘ ऽएष᳘ भवति यो दी᳘क्षते प्रा᳘वृता वै ग᳘र्भा ऽउ᳘ल्बेनेव जरा᳘युणेव त᳘स्माद्वै प्रो᳘र्णुते॥

मूलम् - Weber

अ᳘थ प्रो᳘र्णुते॥
ग᳘र्भो वा᳘ एष᳘ भवति यो दी᳘क्षते प्रा᳘वृता वै ग᳘र्भो उ᳘ल्बेनेव जरा᳘युणेव त᳘स्माद्वै प्रो᳘र्णुते॥

मूलम् - विस्वरम्

अथ प्रोर्णुते । गर्भो वा एष भवति- यो दीक्षते । प्रावृता वै गर्भाः- उल्बेनेव, जरायुणेव । तस्माद्वै प्रोर्णुते ॥ १६ ॥

सायणः

वाससा आच्छादनं विधत्ते- अथ प्रोर्णुत इति । ऊर्णुते आच्छादयति ॥ १६ ॥

Eggeling
  1. He then wraps up (his head) 12. For he who is consecrated becomes an embryo; and embryos are enveloped both by the amnion and the outer membrane: therefore he covers (his head).

१७

विश्वास-प्रस्तुतिः

स प्रो᳘र्णुते॥
व्वि᳘ष्णोः श᳘र्मासि श᳘र्म य᳘जमानस्ये᳘त्युभ᳘यं वा᳘ ऽएषो᳘ ऽत्र भवति यो दी᳘क्षते व्वि᳘ष्णुश्च य᳘जमानश्च यद᳘ह दी᳘क्षते तद्वि᳘ष्णुर्भवति यद्य᳘जते तद्य᳘जमानस्त᳘स्मादाह व्वि᳘ष्णोः श᳘र्मासि श᳘र्म य᳘जमानस्ये᳘ति॥

मूलम् - श्रीधरादि

स प्रो᳘र्णुते॥
व्वि᳘ष्णोः श᳘र्मासि श᳘र्म य᳘जमानस्ये᳘त्युभ᳘यं वा᳘ ऽएषो᳘ ऽत्र भवति यो दी᳘क्षते व्वि᳘ष्णुश्च य᳘जमानश्च यद᳘ह दी᳘क्षते तद्वि᳘ष्णुर्भवति यद्य᳘जते तद्य᳘जमानस्त᳘स्मादाह व्वि᳘ष्णोः श᳘र्मासि श᳘र्म य᳘जमानस्ये᳘ति॥

मूलम् - Weber

स प्रो᳘र्णुते॥
वि᳘ष्णोः श᳘र्मासि श᳘र्म य᳘जमानस्ये᳘त्युभ᳘यं वा᳘ एषो᳘ ऽत्र भवति यो दी᳘क्षते वि᳘ष्णुश्च य᳘जमानश्च यद᳘ह दी᳘क्षते तद्वि᳘ष्णुर्भवति यद्य᳘जते तद्य᳘जमानस्त᳘स्मादाह वि᳘ष्णोः श᳘र्मासि श᳘र्म य᳘जमानस्ये᳘ति॥

मूलम् - विस्वरम्

स प्रोर्णुते- “विष्णोः शर्मासि शर्म यजमानस्य”- (वा० सं० ४ । १०) इति । उभयं वा एषो ऽत्र भवति- यो दीक्षते- विष्णुश्च यजमानश्च । यदह दीक्षते तद्विष्णुर्भवति । यद्यजते तद्यजमानः । तस्मादाह- विष्णोः शर्मासि शर्म यजमानस्येति ॥ १७ ॥

सायणः

स प्रोर्णुत इति । आच्छाद्यप्रदेशविशेषः सूत्रे स्पष्टमुक्तः- “शिरः प्रोर्णुते विष्णोः शर्मासीति"- (का. श्रौ. सू. ७ । ९०) इति । विष्णुशब्दः पुरुषोत्तमे प्रसिद्धः । अथाभिमतमर्थमाह- उभयं वा एष इति दीक्षणीयेष्टौ आग्नावैष्णवे हविषि विष्णुर्देवतेति तत्संस्कारसंस्कृतो यजमानो ऽपि विष्णुरित्यभिप्रायः ॥ १७ ॥

Eggeling
  1. He covers himself, with the text, ‘Thou art Vishṇu’s refuge, the refuge of the sacrificer.’ He who is consecrated indeed becomes both Vishṇu and a sacrificer; for when he is consecrated, he is Vishṇu; and when he sacrifices, he is the sacrificer: therefore he says, ‘Thou art Vishṇu’s refuge, the refuge of the sacrificer.’

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ कृष्णविषाणा᳘ᳫं᳘ सिचि᳘ बध्नीते॥
देवा᳘श्च वा ऽअ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितुर्दायमुपेयुर्मन[[!!]] एव᳘ देवा᳘ ऽउपा᳘यन्वा᳘चम᳘सुरा यज्ञ᳘मेव त᳘द्देवा᳘ उपा᳘यन्वा᳘चम᳘सुरा अमू᳘मेव᳘ देवा᳘ ऽउपा᳘यन्निमाम᳘सुराः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ कृष्णविषाणा᳘ᳫं᳘ सिचि᳘ बध्नीते॥
देवा᳘श्च वा ऽअ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितुर्दायमुपेयुर्मन[[!!]] एव᳘ देवा᳘ ऽउपा᳘यन्वा᳘चम᳘सुरा यज्ञ᳘मेव त᳘द्देवा᳘ उपा᳘यन्वा᳘चम᳘सुरा अमू᳘मेव᳘ देवा᳘ ऽउपा᳘यन्निमाम᳘सुराः॥

मूलम् - Weber

अ᳘थ कृष्णविषाणा᳘ᳫं᳘ सिचि᳘ बध्नीते॥
देवा᳘श्च वा अ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितु᳘र्दायमु᳘पेयुर्म᳘न एव᳘ देवा᳘ उपा᳘यन्वा᳘चम᳘सुरा यज्ञ᳘मेव त᳘द्देवा᳘ उपा᳘यन्वा᳘चम᳘सुरा अमू᳘मेव देवा᳘ उपा᳘यन्निमाम᳘सुराः॥

मूलम् - विस्वरम्

अथ कृष्णविषाणां सिचि बध्नीते । देवाश्च वा असुराश्चोभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुः । मन एव देवा उपायन्, वाचमसुराः । यज्ञमेव तद्देवा उपायन्, वाचमसुराः । अमूमेव देवा उपायन्, इमामसुराः ॥ १८ ॥

सायणः

वस्त्रान्ते कृष्णविषाणाबन्धनमाह- अथ कृष्णविषाणामिति 13 । सिचि सिग् वस्त्रान्तस्तत्र बध्नीयात् । कृष्णविषाणोत्पत्त्यर्थमाख्यायिकामाह- देवाश्च वा असुराश्चेत्यादिना । ‘प्राजापत्याः’ प्रजापतेः पुत्राः ‘पितुर्दायं’ पैतृकं धनम् । इन्द्रियेषु मध्ये ‘मन एव देवाः’ प्राप्ताः, ‘वाचम्’ वागिन्द्रियम् ‘असुराः’ तथा यज्ञमेव ‘देवाः’ उपगताः ‘वाचम्’ इन्द्रियरूपाम् ‘असुराः’ ‘अमूम्’ दिवमेव ‘देवाः’ इमाम् । पृथिवीम् ‘असुराः’ ॥ १८ ॥

Eggeling
  1. Thereupon he ties a black deer’s horn to the

end (of his garment 14). Now the gods and the Asuras, both of them sprung from Prajāpati, entered upon their father Prajāpati’s inheritance: the gods came in for the Mind and the Asuras for Speech. Thereby the gods came in for the sacrifice and Asuras for speech; the gods for yonder (heaven) and the Asuras for this (earth).

१९

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ देवा᳘ यज्ञ᳘मब्रुवन्॥
(न्यो᳘) यो᳘षा वा᳘ ऽइयं व्वागु᳘पमन्त्रयस्व ह्वयिष्य᳘ते वै त्वे᳘ति स्वयं᳘ वा है᳘वैक्षत यो᳘षा वा᳘ ऽइयं व्वागु᳘पमन्त्रयै ह्वयिष्य᳘ते वै मे᳘ति तामु᳘पामन्त्रयत सा᳘ हास्मा ऽआरका᳘दिवैवा᳘ग्र ऽआसूयत्त᳘स्मादु स्त्री᳘ पुᳫँ᳭सो᳘पमन्त्रिता ऽऽरका᳘दिवैवा᳘ग्रे ऽसूयति स᳘ होवाचारका᳘दिव वै᳘ म ऽआसूयीदि᳘ति॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ देवा᳘ यज्ञ᳘मब्रुवन्॥
(न्यो᳘) यो᳘षा वा᳘ ऽइयं व्वागु᳘पमन्त्रयस्व ह्वयिष्य᳘ते वै त्वे᳘ति स्वयं᳘ वा है᳘वैक्षत यो᳘षा वा᳘ ऽइयं व्वागु᳘पमन्त्रयै ह्वयिष्य᳘ते वै मे᳘ति तामु᳘पामन्त्रयत सा᳘ हास्मा ऽआरका᳘दिवैवा᳘ग्र ऽआसूयत्त᳘स्मादु स्त्री᳘ पुᳫँ᳭सो᳘पमन्त्रिता ऽऽरका᳘दिवैवा᳘ग्रे ऽसूयति स᳘ होवाचारका᳘दिव वै᳘ म ऽआसूयीदि᳘ति॥

मूलम् - Weber

ते᳘ देवा᳘ यज्ञ᳘मब्रुवन्॥
यो᳘षा वा᳘ इयं वागु᳘पमन्त्रयस्व ह्वयिष्य᳘ते वै त्वे᳘ति स्वयं᳘ वा हैॗवैक्षत यो᳘षा वा᳘ इयं वागु᳘पमन्त्रयै ह्वयिष्य᳘ते वै मे᳘ति तामु᳘पामन्त्रयत सा᳘ हास्मा आरका᳘दिवैवा᳘ग्र आसूयत्त᳘स्मादु स्त्री᳘ पुंसो᳘पमन्त्रितारका᳘दिवैवा᳘ग्रे ऽसूयति स᳘ होवाचारका᳘दिव वै᳘ म आसूयीदिति॥

मूलम् - विस्वरम्

ते देवा यज्ञमब्रुवन्- ‘योषा वा इयं वाक् । उपमन्त्रयस्व । ‘ह्वयिष्यते वै त्वा’ इति । स्वयं वा हैवैक्षत । योषा वा इयं वाक् । उपमन्त्रयै । ह्वयिष्यते वै मेति । तामुपामन्त्रयत । सा हास्मा आरकादिवैवाग्र आसूयत् । तस्मादु स्त्री पुंसोपमन्त्रिता- आरकादिवैवाग्रे ऽसूयति । स होवाच- आरकादिव वै म आसूयीत्- इति ॥ १९ ॥

सायणः

ते देवाः इति । एवं सति देवा वाचो ऽपि स्वाधीनत्वकरणाय ‘यज्ञम्’ ‘एवम्’ अब्रुवन्- यज्ञ ! ‘इयं वाक्’ ‘योषा’ स्त्री, त्वं तु पुमान्; तस्मात् ताम् ‘उपामन्त्रयस्व’ सम्भोगार्थं सङ्केतेनाह्वय । सापि ‘त्वा’ त्वां ह्वयिष्यते आकारयिष्यति ‘इति’ अब्रुवन् । तत्तद्वृत्तान्तं जानती श्रुतिब्रूते- न केवलं तेषां वचनमेव, किन्तु ‘स्वयं वा ह एव’ वाशब्दश्चार्थे, यज्ञः स्वयमपि ‘ऐक्षत’ विचारितवान् । ईक्षणप्रकारमनुवदति- योषेति । ‘मा’ मामपि ‘ह्वयिष्यते’ अतः ‘उपमन्त्रयै’ अहमिति । उपमन्त्रिता ‘सा’ ‘अग्रे’ प्रथमवारम् ‘आरकात्’ आरमेव आरकम् 15 । ते न च आरकाग्रेण व्यथिता इवेत्यर्थः । आसूयत् आरकाग्रनुन्नो बलीवर्दादिरिवासूयामकरोदित्यर्थः । तस्माद्विति लोकदृष्टान्तकथनं स्पष्टम् । जातं वृत्तान्तं देवेभ्यो निवेदयति- स होवाचेति ॥ १९ ॥

Eggeling
  1. The gods said to Yajña (m., the sacrifice), ‘That Vāc (f., speech) is a woman: beckon her, and she will certainly call thee to her.’ Or it may be, he himself thought, ‘That Vāc is a woman: I will beckon her and she will certainly call me to her.’ He accordingly beckoned her. She, however, at first disdained him from the distance: and hence a woman, when beckoned by a man, at first disdains him from the distance. He said, ‘She has disdained me from the distance.’

२०

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
उ᳘पैव᳘ भगवो मन्त्रयस्व ह्वयिष्य᳘ते वै त्वे᳘ति तामु᳘पामन्त्रयत सा᳘ हास्मै नि᳘पलाशमिवोवाद त᳘स्मादु स्त्री[[!!]] पुᳫंसो᳘पमन्त्रिता नि᳘पलाशमिवैव᳘ वदति स᳘ होवाच नि᳘पलाशमिव वै᳘ मे ऽवादीदि᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
उ᳘पैव᳘ भगवो मन्त्रयस्व ह्वयिष्य᳘ते वै त्वे᳘ति तामु᳘पामन्त्रयत सा᳘ हास्मै नि᳘पलाशमिवोवाद त᳘स्मादु स्त्री[[!!]] पुᳫंसो᳘पमन्त्रिता नि᳘पलाशमिवैव᳘ वदति स᳘ होवाच नि᳘पलाशमिव वै᳘ मे ऽवादीदि᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
उ᳘पैव᳘ भगवो मन्त्रयस्व ह्वयिष्य᳘ते वै त्वे᳘ति तामु᳘पामन्त्रयत सा᳘ हास्मै नि᳘पलाशमिवोवाद त᳘स्मादु स्त्री᳘ पुंसो᳘पमन्त्रिता नि᳘पलाशमिवैव᳘ वदति स᳘ होवाच नि᳘पलाशमिव वै᳘ मे ऽवादीदि᳘ति॥

मूलम् - विस्वरम्

ते होचुः- उपैव भगवो मन्त्रयस्व, ह्वयिष्यति वै त्वा- इति । तामुपामन्त्रयत । सा हास्मै निपलाशमिवोवाद । तस्मादु स्त्री पुंसोपमन्त्रिता निपलाशमिवैव वदति । स होवाच- निपलाशमिव वै मे ऽवादीदिति ॥ २० ॥

सायणः

ते होचुरिति । अथ पुनर्देवैर्याच्यमानो यज्ञः ‘तामुपामन्त्रयत’ । ‘सा’ अपि ‘निपलाशमिव’ निपतितपर्णं वृक्षादिकमिव, तद्यथा केवलं कम्पते, एवं शिरश्चालनेन ‘उवाच’ इत्यर्थः । अथवा पलाशनिपतनमिव ओष्ठचालनेनेत्यर्थः। तस्मादित्यादि । पूर्ववत् ॥ २० ॥ २१ ॥

Eggeling
  1. They said, ‘Do but beckon her, reverend sir, and she will certainly call thee to her.’ He beckoned her; but she only replied to him, as it were, by shaking her head: and hence a woman, when beckoned by a man, only replies to him, as it were, by shaking her head. He said, ‘She has only replied to me by shaking her head.’

२१

विश्वास-प्रस्तुतिः

ते होचुः॥
(रु᳘) उ᳘पैव᳘ भगवो मन्त्रयस्व ह्वयि᳘ष्यते वै त्वे᳘ति तामु᳘पामन्त्रयत सा᳘ हैनं जुहुवे त᳘स्मादु स्त्री पु᳘माᳫँ᳭सᳫं ह्व᳘यत ऽए᳘वोत्तमᳫँ᳭ स᳘ होवाचा᳘ह्वत[[!!]] वै मे᳘ति॥

मूलम् - श्रीधरादि

ते होचुः॥
(रु᳘) उ᳘पैव᳘ भगवो मन्त्रयस्व ह्वयि᳘ष्यते वै त्वे᳘ति तामु᳘पामन्त्रयत सा᳘ हैनं जुहुवे त᳘स्मादु स्त्री पु᳘माᳫँ᳭सᳫं ह्व᳘यत ऽए᳘वोत्तमᳫँ᳭ स᳘ होवाचा᳘ह्वत[[!!]] वै मे᳘ति॥

मूलम् - Weber

ते होचुः॥
उ᳘पैव᳘ भगवो मन्त्रयस्व ह्वयि᳘ष्यते वै त्वे᳘ति तामु᳘पामन्त्रयत सा᳘ हैनं जुहुव त᳘स्मादु स्त्री पुमांसᳫं ह्व᳘यत एॗवोत्तमᳫं स᳘ होवा᳘चाह्वत वै मे᳘ति॥

मूलम् - विस्वरम्

ते होचुः- उपैव भगवो मन्त्रयस्व । ह्वयिष्यते वै त्वा- इति । तामुपामन्त्रयत । सा हैनं जुहुवे । तस्मादु स्त्री पुमांसं ह्वयत एवोत्तमम् । स होवाच- आह्वत वै मेति ॥ २१ ॥

सायणः

[व्याख्यानं विंशतितमे]

Eggeling
  1. They said, ‘Do but beckon her, reverend sir, and she will certainly call thee to her.’ He beckoned her, and she called him to her; and hence a woman at last calls the man to her. He said, ‘She has indeed called me.’

२२

विश्वास-प्रस्तुतिः

ते᳘ देवा᳘ ईक्षां᳘ चक्रिरे॥
यो᳘षा वा᳘ ऽइयं व्वाग्य᳘देनं न᳘ युवि᳘ते᳘हैव᳘ मा ति᳘ष्ठन्तमभ्येही᳘ति ब्रूहि तां तु᳘ न आ᳘गतां प्रतिप्र᳘ब्रूतादि᳘ति सा᳘ हैनं त᳘देव ति᳘ष्ठन्तमभ्ये᳘याय त᳘स्मादु स्त्री पु᳘माᳫं᳭सᳫं᳭सᳫं᳭स्कृते ति᳘ष्ठन्तमभ्यै᳘ति ता᳘ᳫं᳘ हैभ्य आ᳘गतां प्रतिप्रो᳘वाचेयं वा᳘ ऽआ᳘गादि᳘ति॥

मूलम् - श्रीधरादि

ते᳘ देवा᳘ ईक्षां᳘ चक्रिरे॥
यो᳘षा वा᳘ ऽइयं व्वाग्य᳘देनं न᳘ युवि᳘ते᳘हैव᳘ मा ति᳘ष्ठन्तमभ्येही᳘ति ब्रूहि तां तु᳘ न आ᳘गतां प्रतिप्र᳘ब्रूतादि᳘ति सा᳘ हैनं त᳘देव ति᳘ष्ठन्तमभ्ये᳘याय त᳘स्मादु स्त्री पु᳘माᳫं᳭सᳫं᳭सᳫं᳭स्कृते ति᳘ष्ठन्तमभ्यै᳘ति ता᳘ᳫं᳘ हैभ्य आ᳘गतां प्रतिप्रो᳘वाचेयं वा᳘ ऽआ᳘गादि᳘ति॥

मूलम् - Weber

ते᳘ देवा᳘ ईक्षां᳘ चक्रिरे॥
यो᳘षा वा᳘ इयं वाग्य᳘देनं न᳘ युविॗतेॗहैव᳘ मा ति᳘ष्ठन्तमभ्येही᳘ति ब्रूहि ताम् तु᳘ न आ᳘गताम् प्रतिप्र᳘ब्रूतादि᳘ति सा᳘ हैनं त᳘देव ति᳘ष्ठन्तमभ्ये᳘याय त᳘स्मादु स्त्री पु᳘मांसᳫं संस्कृते 16 ति᳘ष्ठन्तमभ्यै᳘ति ता᳘ᳫं᳘ हैभ्य आ᳘गताम् प्रतिप्रो᳘वाचेयं वा᳘ आ᳘गादि᳘ति॥

मूलम् - विस्वरम्

ते देवा ईक्षांचक्रिरे- योषा वा इयं वाक् । यदेनं न युविता- इहैव मा तिष्ठन्तमभ्येहि- इति ब्रूहि । तां तु न आगतां प्रतिप्रब्रूतादिति । सा हैनं तदेव तिष्ठन्तमभ्येयाय । तस्मादु स्त्री पुमांसं संस्कृते तिष्ठन्तमभ्यैति । तां हैभ्य आगतां प्रतिप्रोवाच- इयं वा आगादिति ॥ २२ ॥

सायणः

ते देवा इति । तृतीयवारे त्वाहूतवती । आह्वानवृत्तान्तं ज्ञातवन्तो ‘देवाः हि ईक्षाञ्चक्रिरे’ कथम् ? ‘इयं वाक् योषा’ खलु । अस्तु नामेत्यत आह ‘यत्’ यस्मात् ‘एनं’ यज्ञम् ‘न युविता’ न मिलितवती, अतो न विश्वसितव्येत्यर्थः । एवमीक्षित्वा हे यज्ञ ! तवान्तिके कथं गच्छामि । किन्तु हे वाक् ! त्वं ‘इह’ स्थाने ‘तिष्ठन्तं’ ‘मा’ माम् अभिगच्छ ‘इति ब्रूहि’ इत्यब्रुवन् । तथा तामागतां वाचं ‘नः‘ अस्माकं ‘प्रतिप्रब्रूतात्’ निवेदयतु ‘इति’ च अब्रुवन् । साप्याकारिता ‘तदेव’ तत्र सङ्केतप्रदेशे तिष्ठन्तमेव यज्ञमभिगता । अथ स यज्ञो वागागतेति देवेभ्यः प्रोवाच ॥ २२ ॥

Eggeling
  1. The gods reflected, ‘That Vāc being a woman, we must take care lest she should allure him 17.–Say to her, “Come hither to me where I stand!” and report to us her having come.’ She then went up to where he was standing. Hence a woman goes to a man who stays in a well-trimmed (house). He reported to them her having come, saying, ‘She has indeed come.’

२३

विश्वास-प्रस्तुतिः

तां᳘ देवाः॥
(ऽ) अ᳘सुरेभ्यो ऽन्त᳘रायंस्ता᳘ᳫं᳘ स्वीकृ᳘त्याग्ना᳘वेव᳘ परिगृ᳘ह्य सर्व्वहु᳘तमजुहवुरा᳘हुतिर्हि᳘ देवा᳘नाᳫं स या᳘मे᳘वामू᳘मनुष्टुभा᳘ ऽजुहवुस्त᳘दे᳘वैनां त᳘द्देवाः᳘ स्व्यकुर्वत[[!!]] ते᳘ ऽसुरा आ᳘त्तवचसो हे ऽल᳘वो हे ऽल᳘व ऽइ᳘ति व्व᳘दन्तः प᳘राबभूवुः॥

मूलम् - श्रीधरादि

तां᳘ देवाः॥
(ऽ) अ᳘सुरेभ्यो ऽन्त᳘रायंस्ता᳘ᳫं᳘ स्वीकृ᳘त्याग्ना᳘वेव᳘ परिगृ᳘ह्य सर्व्वहु᳘तमजुहवुरा᳘हुतिर्हि᳘ देवा᳘नाᳫं स या᳘मे᳘वामू᳘मनुष्टुभा᳘ ऽजुहवुस्त᳘दे᳘वैनां त᳘द्देवाः᳘ स्व्यकुर्वत[[!!]] ते᳘ ऽसुरा आ᳘त्तवचसो हे ऽल᳘वो हे ऽल᳘व ऽइ᳘ति व्व᳘दन्तः प᳘राबभूवुः॥

मूलम् - Weber

तां᳘ देवाः᳟॥
अ᳘सुरेभ्यो ऽन्तरायंस्ता᳘ᳫं᳘ स्वीकृ᳘त्याग्ना᳘वेव᳘ परिगृ᳘ह्य सर्वहु᳘तमजुहवुरा᳘हुतिर्हि᳘ देवा᳘नाᳫं स या᳘मेॗवामू᳘मनुष्टुभा᳘जुहवुस्त᳘देॗवैनां त᳘द्देवाः स्व्य᳘कुर्वत ते᳘ ऽसुरा आ᳘त्तवचसो हे ऽल᳘वो हे ऽल᳘व इ᳘ति व᳘दन्तः प᳘राबभूवुः॥

मूलम् - विस्वरम्

तां देवा असुरेभ्यो ऽन्तरायन् । तां स्वीकृत्याग्नावेव परिगृह्य- सर्वहुतमजुहवुः । आहुतिर्हि देवानाम् । स- यामेवामूमनुष्टुभा ऽजुहवुः- तदेवैनां तद्देवाः स्व्यकुर्वत । ते ऽसुरा आत्तवचसो- हेलवो हेलव इति वदन्तः पराबभूवुः ॥ २३ ॥

सायणः

तां देवा इति । ‘तां’ वाचं ‘देवाः’ ‘असुरेभ्यः’ ‘अन्तरायन्’ तया वर्जितानकुर्वन् । ‘स्वीकृत्य’ चाग्निमुखमन्तरेण स्वभोगायोगात् ‘अग्नावेव’ ‘ताम्’ वाचम् ‘अनुष्टुभा’ “विश्वो देवस्य नेतुः”- इत्येतया कृत्वा यथा पुनरसुराणां निराशा भवति तथा सर्वतः ‘अजुहवुः’ । केवला किं न स्वीकृतेत्यत आह- आहुतिर्हीति । आहुतिरूपेणाग्नौ दत्तमेव देवानां प्रियमित्यर्थः । अथ ‘ते असुराः’ ‘आत्तवचसः’ 18 देवैः स्वीकृतवचसः “हे अरयः हे अरयः”- इत्युच्चारयितुमशक्ताः “हे ऽलवः 19 हे ऽलवः” ‘इति वदन्तः’ पराभूताः ॥ २३ ॥

Eggeling
  1. The gods then cut her off from the Asuras; and having gained possession of her and enveloped her completely in fire, they offered her up as a holocaust, it being an offering of the gods 20. And in that they offered her with an anushṭubh verse, thereby they made her their own; and the Asuras, being deprived of speech, were undone, crying, ‘He ’lavaḥ! he ’lavaḥ 21!

२४

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘त्रैताम᳘पि व्वा᳘चमूदुः॥
(रु) उपजिज्ञा᳘स्याᳫँ᳭ स᳘ म्लेच्छस्त᳘स्मान्न᳘ ब्राह्मणो᳘ म्लेच्छेदसु᳘र्या हैषा व्वा᳘गेव᳘मे᳘वैष᳘ द्विषता᳘ᳫं᳘ सप᳘त्नानामा᳘दत्ते व्वा᳘चं᳘ ते ऽस्या᳘त्तवचसः प᳘राभवन्ति य᳘ एव᳘मेतद्वे᳘द᳘॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘त्रैताम᳘पि व्वा᳘चमूदुः॥
(रु) उपजिज्ञा᳘स्याᳫँ᳭ स᳘ म्लेच्छस्त᳘स्मान्न᳘ ब्राह्मणो᳘ म्लेच्छेदसु᳘र्या हैषा व्वा᳘गेव᳘मे᳘वैष᳘ द्विषता᳘ᳫं᳘ सप᳘त्नानामा᳘दत्ते व्वा᳘चं᳘ ते ऽस्या᳘त्तवचसः प᳘राभवन्ति य᳘ एव᳘मेतद्वे᳘द᳘॥

मूलम् - Weber

त᳘त्रैताम᳘पि वा᳘चमूदुः॥
उपजिज्ञाॗस्याᳫं स᳘ म्लेछस्त᳘स्मान्न᳘ ब्राह्मणो᳘ म्लेछेदसुॗर्या हैषा वा न᳘तेॗवैष᳘ द्विषता᳘ᳫं᳘ सप᳘त्नानामा᳘दत्ते वाॗचं ते ऽस्या᳘त्तवचसः प᳘राभवन्ति य᳘ एव᳘मेतद्वे᳘द॥

मूलम् - विस्वरम्

तत्रैतामपि वाचमूदुरुपजिज्ञास्याम् । स म्लेच्छः । तस्मान्न ब्राह्मणो म्लेच्छेत् । असुर्या हैषा वाक् । एवमेवैष द्विषतां सपत्नानामादत्ते वाचम् । ते ऽस्यात्तवचसः पराभवन्ति- य एवमेतद्वेद ॥ २४ ॥

सायणः

प्रसङ्गात् कञ्चिद् वाग्विषयं नियममाह- तत्रेति । ‘उपजिज्ञास्यां’ ज्ञातव्यां सन्दिग्धां वाचम् ‘ऊचुः’ उक्तवन्तो ऽसुराः । ‘स म्लेच्छः’ सन्दिग्धार्थस्यापभ्रंशरूपस्य वचसो भाषणं यत्, तन्म्लेच्छमित्यर्थः । यद्वा य ईदृशीं वाचं वदति स म्लेच्छः । ‘तस्मात् न म्लेच्छेत्’ म्लेच्छो न भवेत्, तदीयामपार्थिकां भाषां न ब्रूयादित्यर्थः । ‘असुर्या’ असुरेष्वाहिता । उक्तार्थपरिज्ञानं प्रशंसति- एवमेवैष इति । ‘अस्य’ सपत्नाः, अनेन ज्ञात्रा अपहृतवचसः सन्तः ‘पराभवन्ति’ ॥ २४ ॥

Eggeling
  1. Such was the unintelligible speech which they then uttered,–and he (who speaks thus) is a Mleccha (barbarian). Hence let no Brahman speak barbarous language, since such is the speech of the Asuras. Thus alone he deprives his spiteful enemies of speech; and whosoever knows this, his enemies, being deprived of speech, are undone.

२५

विश्वास-प्रस्तुतिः

सो ऽयं᳘ यज्ञो᳘ व्वा᳘चमभि᳘दध्यौ॥
मिथु᳘न्येनया स्यामि᳘ति ताᳫँ᳭ सं᳘बभूव॥

मूलम् - श्रीधरादि

सो ऽयं᳘ यज्ञो᳘ व्वा᳘चमभि᳘दध्यौ॥
मिथु᳘न्येनया स्यामि᳘ति ताᳫँ᳭ सं᳘बभूव॥

मूलम् - Weber

सो ऽयं᳘ यज्ञो वा᳘चमभि᳘दध्यौ॥
मिथुॗन्येनया स्यामि᳘ति ताᳫं सं᳘बभूव॥

मूलम् - विस्वरम्

सो ऽयं यज्ञो वाचमभिदध्यौ- मिथुन्येनया स्यामिति । तां संबभूव ॥ २५ ॥

सायणः

यदर्थमाख्यायिका प्रपञ्चिता, तमर्थं विधातुमाह- सो ऽयं यज्ञ इति । अभिध्यानप्रकारः प्रदर्श्यते- मिथुनीति । ‘सम्बभूव’ सङ्गतो ऽभूत् ॥ २५ ॥

Eggeling
  1. That Yajña (sacrifice) lusted after Vāc (speech 22), thinking, ‘May I pair with her!’ He united with her.

२६

विश्वास-प्रस्तुतिः

(वे᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षां᳘चक्रे॥
महद्वा᳘ ऽइतो᳘ ऽभ्वं जनिष्यते यज्ञ᳘स्य च मिथुना᳘द्वाच᳘श्च य᳘न्मा त᳘न्नाभिभ᳘वेदि᳘ति स ऽइ᳘न्द्र एव ग᳘र्भो भू᳘त्वैत᳘न्मिथुनं प्र᳘विवेश॥

मूलम् - श्रीधरादि

(वे᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षां᳘चक्रे॥
महद्वा᳘ ऽइतो᳘ ऽभ्वं जनिष्यते यज्ञ᳘स्य च मिथुना᳘द्वाच᳘श्च य᳘न्मा त᳘न्नाभिभ᳘वेदि᳘ति स ऽइ᳘न्द्र एव ग᳘र्भो भू᳘त्वैत᳘न्मिथुनं प्र᳘विवेश॥

मूलम् - Weber

इ᳘न्द्रो ह वा᳘ ईक्षां᳘ चक्रे॥
महद्वा᳘ इतो᳘ ऽभ्वं जनिष्यते यज्ञ᳘स्य च मिथुना᳘द्वाच᳘श्च य᳘न्मा तॗन्नाभिभ᳘वेदि᳘ति स इ᳘न्द्र एव ग᳘र्भो भूॗत्वैत᳘न्मिथुनम् प्र᳘विवेश॥

मूलम् - विस्वरम्

इन्द्रो ह वा ईक्षाञ्चक्रे- महद्वा इतो ऽभ्वं जनिष्यते- यज्ञस्य च मिथुनात्, वाचश्च- यन्मा तन्नाभिभवेदिति । स इन्द्र एव गर्भो भूत्वैतन्मिथुनं प्रविवेश ॥ २६ ॥

सायणः

इन्द्रो ह वा इति । ‘इतः’ अस्मात् ‘मिथुनात्’ ‘अभ्वम्’ अपत्यं यज्ञवाचोर्मिथुनात् ‘यत्’ ‘जनिष्यते’ ‘तत्’ तस्मात् ‘मा’ मां ‘नाभिभवेत्’ इति । एवमीक्षित्वा अन्योत्पत्तिभयात् ‘सः इन्द्रः एव’ वाग्योन्यां स्वयं ‘गर्भो’ भूत्वा प्रविष्टः ॥ २६ ॥

Eggeling
  1. Indra then thought within himself, ‘Surely a great monster will spring from this union of Yajña and Vāc: [I must take care] lest it should get the better of me.’ Indra himself then became an embryo and entered into that union.

२७

विश्वास-प्रस्तुतिः

स᳘ ह संव्वत्सरे जा᳘यमान ईक्षां᳘चक्रे॥
महा᳘वीर्या वा᳘ ऽइयं यो᳘निर्या माम᳘दीधरत यद्वै᳘ मेतो᳘ मह᳘देवा᳘भ्वं᳘ नानुप्रजा᳘येत य᳘न्मा त᳘न्नाभिभ᳘वेदि᳘ति॥

मूलम् - श्रीधरादि

स᳘ ह संव्वत्सरे जा᳘यमान ईक्षां᳘चक्रे॥
महा᳘वीर्या वा᳘ ऽइयं यो᳘निर्या माम᳘दीधरत यद्वै᳘ मेतो᳘ मह᳘देवा᳘भ्वं᳘ नानुप्रजा᳘येत य᳘न्मा त᳘न्नाभिभ᳘वेदि᳘ति॥

मूलम् - Weber

स᳘ ह संवत्सरे जा᳘यमान ईक्षां᳘ चक्रे॥
महा᳘वीर्या वा᳘ इयं यो᳘निर्या माम᳘दीधरत यद्वै᳘ मेतो᳘ मह᳘देवाॗभ्वं नानुप्रजा᳘येत य᳘न्मा तॗन्नाभिभ᳘वेदि᳘ति॥

मूलम् - विस्वरम्

स ह संवत्सरे जायमान ईक्षाञ्चक्रे । महावीर्या वा इयं योनिः या मामदीधरत । यद्वै मेतो महदेवाभ्वं, नानुप्रजायेत, यन्मा तन्नाभिभवेदिति ॥ २७ ॥

सायणः

स ह संवत्सर इति । तत्र संवत्सरमुषित्वा अजायत । मामदीधरतेति । स्वसामर्थ्याविष्करणम्, तच्च योनेर्बहुवीर्यत्वप्रशंसनायोपयुज्यते । एतस्मान्मिथुनान्मामनु अन्यन्महत् ‘अभ्वं’ अपत्यं नोत्पद्येत तद्यद्युत्पद्येत तन्मामभिभवेदिति विचार्य ॥ २७ ॥

Eggeling
  1. Now when he was born after a year’s time, he thought within himself, ‘Verily of great vigour is this womb which has contained me: [I must take care] that no great monster shall be born from it after me, lest it should get the better of me!’

२८

विश्वास-प्रस्तुतिः

तां᳘ प्रतिपरामृ᳘श्यावेष्ट्या᳘च्छिनत्॥
(त्तां᳘) तां᳘ यज्ञ᳘स्य शीर्षन्प्र᳘त्यदधाद्यज्ञो हि कृ᳘ष्णः स यः स᳘ यज्ञस्त᳘त्कृष्णाजिनं᳘ योषा यो᳘निः सा᳘ कृष्णविषाणा᳘ ऽथ य᳘देनामि᳘न्द्र ऽआवेष्ट्या᳘च्छिनत्त᳘स्मादा᳘वेष्टितेव स य᳘थैवा᳘त ऽइन्द्रो᳘ ऽजायत ग᳘र्भो भू᳘त्वैत᳘स्मान्मिथुना᳘देव᳘मे᳘वैषो᳘ ऽतो जायते ग᳘र्भो भू᳘त्वैत᳘स्मान्मिथुनात्॥

मूलम् - श्रीधरादि

तां᳘ प्रतिपरामृ᳘श्यावेष्ट्या᳘च्छिनत्॥
(त्तां᳘) तां᳘ यज्ञ᳘स्य शीर्षन्प्र᳘त्यदधाद्यज्ञो हि कृ᳘ष्णः स यः स᳘ यज्ञस्त᳘त्कृष्णाजिनं᳘ योषा यो᳘निः सा᳘ कृष्णविषाणा᳘ ऽथ य᳘देनामि᳘न्द्र ऽआवेष्ट्या᳘च्छिनत्त᳘स्मादा᳘वेष्टितेव स य᳘थैवा᳘त ऽइन्द्रो᳘ ऽजायत ग᳘र्भो भू᳘त्वैत᳘स्मान्मिथुना᳘देव᳘मे᳘वैषो᳘ ऽतो जायते ग᳘र्भो भू᳘त्वैत᳘स्मान्मिथुनात्॥

मूलम् - Weber

ता᳘म् प्रतिपरामृ᳘श्यवेष्ट्या᳘छिनत्॥
तां᳘ यज्ञ᳘स्य शीर्षन्प्र᳘त्यदधाद्यज्ञो हि कृ᳘ष्णः स यः स यज्ञस्त᳘त्कृष्णाजिनं यो सा यो᳘निः सा᳘ कृष्णविषाणा᳘थ य᳘देनामि᳘न्द्र आवेष्ट्या᳘छिनत्त᳘स्मादा᳘वेष्टितेव स य᳘थैवा᳘त इन्द्रो᳘ ऽजायत ग᳘र्भो भूॗत्वैत᳘स्मान्मिथुना᳘देव᳘मेॗवैषो᳘ ऽतो जायते ग᳘र्भो भूॗत्वैत᳘स्मान्मिथुना᳘त्॥

मूलम् - विस्वरम्

तां प्रतिपरामृश्यावेष्ट्याच्छिनत् । तां यज्ञस्य शीर्षन्प्रत्यदधात् । यज्ञो हि कृष्णः । स यः स यज्ञः- तत्कृष्णाजिनम् । योषा योनिः सा कृष्णविषाणा । अथ यदेनामिन्द्र आवेष्ट्याच्छिनत् । तस्मादावेष्टितेव । स यथैवात इन्द्रो ऽजायत गर्भो भूत्वैतस्मान्मिथुनाद्- एवमेवैषो ऽतो जायते गर्भो भूत्वैतस्मान्मिथुनात् ॥ २८ ॥

सायणः

तां परामृश्येति । प्रतिपरामृश्येति । ‘प्रतिपरामृश्य’ योनिदेशे किमुत्पादकमिति विचार्य ‘ताम्’ ‘आवेष्ट्य’ हस्तेनावेष्टनं कृत्वा ऽऽच्छिद्य ‘अदधात्’ यज्ञशिरसि स्थापितवान् । यज्ञशब्दार्थमाह- यज्ञो हि कृष्ण इति । ‘हि’- शब्देन “यज्ञो देवेभ्यो निलायत कृष्णो रूपं कृत्वा”- इत्यादि श्रुतिप्रसिद्धिरभिधीयते । अतः प्रसिद्धो ‘यः’ ‘कृष्णः’ मृगो ऽस्ति, ‘स’ एव निदानेन ‘यज्ञः’, ‘तत्’ एव यजमानेन धार्यं ‘कृष्णाजिनम्’ तस्या वाचो ‘योनिः’ । ‘सा कृष्णविषाणा’ या ऽन्या । कृष्णविषाणाधारणे 23 लिङ्गं दर्शयति- यदेनामिति । उक्तार्थज्ञं प्रशंसति- स यथैवात इति ॥ २८ ॥

Eggeling
  1. Having seized and pressed it tightly, he tore it off and put it on the head of Yajña (sacrifice 24);for the black (antelope) is the sacrifice: the black deer skin is the same as that sacrifice, and the black deer’s horn is the same as that womb. And because it was by pressing it tightly together that Indra tore out (the womb), therefore it (the horn) is bound tightly (to the end of the garment); and as Indra,

having become an embryo, sprang from that union, so is he (the sacrificer), after becoming an embryo, born from that union (of the skin and the horn).

२९

विश्वास-प्रस्तुतिः

(त्तां) तां वा᳘ ऽउत्ताना᳘मिव बध्नाति॥
(त्यु) उत्ता᳘नेव वै यो᳘निर्ग᳘र्भं बिभर्त्य᳘थ द᳘क्षिणां भ्रु᳘वमुप᳘र्युपरि लला᳘टमु᳘पस्पृशती᳘न्द्रस्य यो᳘निरसीती᳘न्द्रस्य᳘ ह्येषा यो᳘निर᳘तो वा᳘ ह्येनां प्रविश᳘न्प्रविशत्य᳘तो वा जा᳘यमानो जायते त᳘स्मादाहे᳘न्द्रस्य यो᳘निरसीति[[!!]]॥ [शतम् १५००]

मूलम् - श्रीधरादि

(त्तां) तां वा᳘ ऽउत्ताना᳘मिव बध्नाति॥
(त्यु) उत्ता᳘नेव वै यो᳘निर्ग᳘र्भं बिभर्त्य᳘थ द᳘क्षिणां भ्रु᳘वमुप᳘र्युपरि लला᳘टमु᳘पस्पृशती᳘न्द्रस्य यो᳘निरसीती᳘न्द्रस्य᳘ ह्येषा यो᳘निर᳘तो वा᳘ ह्येनां प्रविश᳘न्प्रविशत्य᳘तो वा जा᳘यमानो जायते त᳘स्मादाहे᳘न्द्रस्य यो᳘निरसीति[[!!]]॥ [शतम् १५००]

मूलम् - Weber

तां वा᳘ उत्ताना᳘मिव बध्नाति॥
उत्ताॗनेव वै यो᳘निर्ग᳘र्भम् बिभर्त्य᳘थ द᳘क्षिणाम् भ्रु᳘वमुप᳘र्युपरि लला᳘टमु᳘पस्पृशती᳘न्द्रस्य यो᳘निरसीती᳘न्द्रस्यॗ ह्येषा यो᳘निर᳘तो वा ह्येनाम् प्रविश᳘न्प्रविशत्य᳘तो वा जा᳘यमानो जायते त᳘स्मादाहे᳘न्द्रस्य यो᳘निरसी᳘ति॥

मूलम् - विस्वरम्

तां वा उत्तानामिव बध्नाति । उत्तानेव वै योनिर्गर्भं बिभर्ति । अथ दक्षिणां भ्रुवमुपर्युपरि ललाटमुपस्पृशति । “इन्द्रस्य योनिरसि” (वा. सं. ४ । १०) इति । इन्द्रस्य ह्येषा योनिः । अतो वा ह्येनां प्रविशन्प्रविशति । अतो वा जायमानो जायते । तस्मादाह- इन्द्रस्य योनिरसीति ॥ २९ ॥

सायणः

तस्या बन्धने ऊर्द्ध्वमुखत्वं विधत्ते- तां वा इति । योनिर्यद्यधोमुखं गर्भं बिभृयात्, तदा पतेदेव, अत उत्तानभरणं सिद्धम्; तत्साधर्म्यात् ‘ताम्’ ‘उत्तानाम्’ बध्नीयात् । बन्धनप्रकारमाह- ‘दक्षिणां भ्रुवम्’ आरभ्य ललाटस्येषदुपरिप्रदेशं स्पृशेत् । अत्र सूत्रम्- “कृष्णविषाणां त्रिवलिं पञ्चवलिं वोत्तानां दशायां बध्नीते, तया कण्डूयनम्, उपस्पृशत्येनया दक्षिणस्या भ्रुव उपरीन्द्रस्य योनिरिति”- (का. श्रौ. सू. ७ । ९१-९२-९३) इति । मन्त्रं व्याचष्टे- इन्द्रस्येति । ‘अतो हि’ अस्या योनेः सकाशात् खलु ‘प्रविशति’ गर्भरूपेणेन्द्रः । अतो गर्भप्रवेशनिर्गमयोः साधनत्वादिन्द्रस्य योनित्वं सिद्धम् ॥ २९ ॥

Eggeling
  1. He ties it (to the end of the garment) with the open part upwards, for it is in this way that the womb bears the embryo. He then touches with it his forehead close over the right eyebrow, with the text, ‘Thou art Indra’s womb,’–for it is indeed Indra’s womb, since in entering it he enters thereby 25, and in being born he is born therefrom: therefore he says, ‘Thou art Indra’s womb.’

३०

विश्वास-प्रस्तुतिः

(त्य) अथो᳘ल्लिखति॥
सुसस्याः᳘ कृषी᳘स्कृधी᳘ति यज्ञ᳘मे᳘वैत᳘ज्जनयति यदा वै᳘ सुष᳘मं भ᳘वत्यथा᳘लं यज्ञा᳘य भवति य᳘दो दुःष᳘मं भ᳘वति न त᳘र्ह्यात्म᳘ने च ना᳘लं भवति त᳘द्यज्ञ᳘मे᳘वैत᳘ज्जनयति॥

मूलम् - श्रीधरादि

(त्य) अथो᳘ल्लिखति॥
सुसस्याः᳘ कृषी᳘स्कृधी᳘ति यज्ञ᳘मे᳘वैत᳘ज्जनयति यदा वै᳘ सुष᳘मं भ᳘वत्यथा᳘लं यज्ञा᳘य भवति य᳘दो दुःष᳘मं भ᳘वति न त᳘र्ह्यात्म᳘ने च ना᳘लं भवति त᳘द्यज्ञ᳘मे᳘वैत᳘ज्जनयति॥

मूलम् - Weber

अथो᳘ल्लिखति॥
सुसस्याः᳘ कृषी᳘स्कृधी᳘ति यज्ञ᳘मेॗवैत᳘ज्जनयति यदा वै᳘ सुष᳘मम् भ᳘वत्यथा᳘लं यज्ञा᳘य भवति यॗदो दुःष᳘मम् भ᳘वति न त᳘र्ह्यात्म᳘ने चना᳘लम् भवति त᳘द्यज्ञ᳘मेवैत᳘ज्जनयति॥

मूलम् - विस्वरम्

अथोल्लिखति- “सुसस्याः कृषीस्कृधि” (वा. सं. ४ । १०) इति । यज्ञमेवैतज्जनयति । यदा वै सुषमं भवति- अथालं यज्ञाय भवति । यदो दुःषमं भवति- न तर्ह्यात्मने च नालं भवति । तद्यज्ञमेवैतज्जनयति ॥ ३० ॥

सायणः

तथा भूमेरुपरि समन्त्रकमुल्लेखनं विधत्ते- अथोल्लिखतीति । (का. श्रौ. सू. ७ । ९४) 26 ‘कृषीः’ कृष्टस्थलीः समृद्धसस्याः ‘कृधीति’ मन्त्रार्थः । कृषीस्कृधि- इत्यत्र कस्कादित्वात् षत्वम् (पा. सू. ८ । ३ । ४८) ‘एतत्’ एतेनोल्लेखनेन । स्पष्टमन्यत् । यदा वा इति । ‘यदा’ खलु सुषमं कृष्यादिसम्पत्त्या ‘सुषमं’ सुखप्रदः संवत्सरो ‘भवति’ तदैव यज्ञो ऽनुष्ठानाय प्रभवति; यदा उक्तवैपरीत्येन ‘दुःषमं’ दुःखहेतुः संवत्सरो भवति तदा ‘आत्मने’ स्वशरीररक्षणायापि न प्रभवति, का कथा यज्ञस्येति ॥ ३० ॥

Eggeling
  1. Thereupon he draws (with the horn) the (’easterly’) line, with the text, ‘Make the crops full-eared!’ Thereby he produces the sacrifice; for when there is a good year, then there is abundant (material) for sacrifice; but when there is a bad year, then there is not even enough for himself: hence he thereby produces the sacrifice.

३१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ न᳘ दीक्षितः᳘॥
काष्ठे᳘न वा नखे᳘न वा कण्डूयेत ग᳘र्भो वा᳘ ऽएष᳘ भवति यो दी᳘क्षते यो वै ग᳘र्भस्य काष्ठे᳘न वा नखे᳘न वा कण्डूयेद᳘पास्यन्म्रित्येत्त᳘तो दीक्षितः᳘ पामनो भ᳘वितोर्दीक्षितं वा ऽअ᳘नु रे᳘ताᳫंसि त᳘तो रे᳘ताᳫंसि पामना᳘नि ज᳘नितोः स्वा वै यो᳘नी रे᳘तो न᳘ हिनस्त्येषा वा᳘ ऽएत᳘स्य स्वा यो᳘निर्भवति य᳘त्कृष्णविषाणा त᳘थो हैनमेषा न᳘ हिनस्ति त᳘स्माद्दीक्षितः᳘ कृष्णविषाण᳘यैव᳘ कण्डूये᳘त᳘ नान्ये᳘न कृष्णविषाणा᳘याः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ न᳘ दीक्षितः᳘॥
काष्ठे᳘न वा नखे᳘न वा कण्डूयेत ग᳘र्भो वा᳘ ऽएष᳘ भवति यो दी᳘क्षते यो वै ग᳘र्भस्य काष्ठे᳘न वा नखे᳘न वा कण्डूयेद᳘पास्यन्म्रित्येत्त᳘तो दीक्षितः᳘ पामनो भ᳘वितोर्दीक्षितं वा ऽअ᳘नु रे᳘ताᳫंसि त᳘तो रे᳘ताᳫंसि पामना᳘नि ज᳘नितोः स्वा वै यो᳘नी रे᳘तो न᳘ हिनस्त्येषा वा᳘ ऽएत᳘स्य स्वा यो᳘निर्भवति य᳘त्कृष्णविषाणा त᳘थो हैनमेषा न᳘ हिनस्ति त᳘स्माद्दीक्षितः᳘ कृष्णविषाण᳘यैव᳘ कण्डूये᳘त᳘ नान्ये᳘न कृष्णविषाणा᳘याः॥

मूलम् - Weber

अ᳘थ न᳘ दीक्षितः᳟॥
काष्ठे᳘न वा नखे᳘न वा कण्डूयेत ग᳘र्भो वा᳘ एष᳘ भवति यो दी᳘क्षते यो वै ग᳘र्भस्य काष्ठे᳘न वा नखे᳘न वा कण्डूयेद᳘पास्यन्म्रित्येत्त᳘तो 27 दीक्षितः᳘ पामनो भ᳘वितोर्दीक्षितं वा अ᳘नु रे᳘तांसि त᳘तो रे᳘तांसि पामना᳘नि ज᳘नितोः स्वा वै यो᳘नी रे᳘तो न᳘ हिनस्त्येषा वा᳘ एत᳘स्य स्वा यो᳘निर्भवति य᳘त्कृष्णविषाणा त᳘थो हैनमेषा न᳘ हिनस्ति त᳘स्माद्दीक्षितः कृष्णविषाण᳘यैव᳘ कण्डूये᳘तॗ नान्ये᳘न कृष्णविषाणा᳘याः॥

मूलम् - विस्वरम्

अथ न दीक्षितः काष्ठेन वा नखेन वा कण्डूयेत । गर्भो वा एष भवति- यो दीक्षते । यो वै गर्भस्य काष्ठेन वा नखेन वा कण्डूयेद्- अपास्यन्म्रित्येत् । ततो दीक्षितः पामनो भवितोः । दीक्षितं वा अनु रेतांसि । ततो रेतांसि पामनानि जनितोः । स्वा वै योनी रेतो न हिनस्ति । एषा वा एतस्य स्वा योनिर्भवति- यत्कृष्णविषाणा । तथो हैनमेषा न हिनस्ति । तस्माद्दीक्षितः कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषाणायाः ॥ ३१ ॥

सायणः

कृष्णविषाणया कण्डूयनप्रशंसनार्थं साधनान्तरं निन्दति- अथ न दीक्षित इति । ‘यः’ कश्चिद् ‘गर्भस्य’ इति कर्मणि षष्ठी । गर्भं काष्ठादिना विकर्षेत्, तदा स ‘गर्भः’ अपगच्छन् मृतिं प्राप्नुयात् ततो ऽन्यस्य साधनस्य दुष्टत्वात्तेन विकर्षमाणः ‘दीक्षितः पामनो भवितोः’ । ‘पामा’ 28 विचर्चिका, मत्वर्थीयो नः (पा. सू. ५ । २ । १००) तद्वान् भवितुं समर्थो भवतीत्यर्थः । न केवलं दीक्षितः स्वयमेव पामनो भवति किन्तु तदुत्पन्नाः पुत्रा अपि तादृशा भवन्तीत्याह- दीक्षितं वा अन्विति । विपक्षे दोषमुक्त्वा स्वपक्षे तदभावं दर्शयितुमाह- स्वा वा इति । कृष्णविषाणाया योनित्वात्, दीक्षितस्य गर्भत्वात्, हिंसाभावाय ‘कृष्णविषाणयैव’ कण्डूयेत इति विधिः (का. श्रौ. सू. ७ । ९२) ॥ ३१ ॥

Eggeling
  1. And let not the consecrated henceforth scratch himself either with a chip of wood or with his nail. For he who is consecrated becomes an embryo; and were any one to scratch an embryo either with a chip of wood or his nail, thereby expelling it, it would die 29. Thereafter the consecrated would be liable to be affected with the itch; and–offspring (retas) coming after the consecrated–that offspring would then also be liable to be born with the itch. Now his

own womb 30 does not injure its offspring, and that black deer’s horn being indeed his own womb, that (horn) does not injure him; and therefore the consecrated should scratch himself with the black deer’s horn and with nothing but the black deer’s horn.

३२

विश्वास-प्रस्तुतिः

(ऽ) अ᳘थास्मै दण्डं प्र᳘यच्छति॥
व्व᳘ज्रो वै᳘ दण्डो᳘ विरक्ष᳘स्तायै॥

मूलम् - श्रीधरादि

(ऽ) अ᳘थास्मै दण्डं प्र᳘यच्छति॥
व्व᳘ज्रो वै᳘ दण्डो᳘ विरक्ष᳘स्तायै॥

मूलम् - Weber

अ᳘थास्मै दण्डम् प्र᳘यछति॥
व᳘ज्रो वै᳘ दण्डो᳘ विरक्ष᳘स्तायै॥

मूलम् - विस्वरम्

अथास्मै दण्डं प्रयच्छति । वज्रो वै दण्डः । विरक्षस्तायै ॥ ३२ ॥

सायणः

अथ दण्डेन दीक्षां विधत्ते- अथास्मा इति । प्रहारसाधनत्वाद्दण्डस्य वज्रत्वम् ॥ ३२ ॥

Eggeling
  1. He (the Adhvaryu) then hands to him a staff, for driving away the evil spirits,–the staff being a thunderbolt.

३३

विश्वास-प्रस्तुतिः

(या ऽऔ᳘) औ᳘दुम्बरो भवति॥
(त्य᳘) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरो भवति॥

मूलम् - श्रीधरादि

(या ऽऔ᳘) औ᳘दुम्बरो भवति॥
(त्य᳘) अ᳘न्नं वा ऽऊ᳘र्गुदुम्ब᳘र ऊ᳘र्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरो भवति॥

मूलम् - Weber

औ᳘दुम्बरो भवति॥
अ᳘न्नं वा ऊ᳘र्गुदुम्ब᳘र ऊॗर्जो ऽन्ना᳘द्यस्या᳘वरुद्ध्यै त᳘स्मादौ᳘दुम्बरो भवति॥

मूलम् - विस्वरम्

औदुम्बरो भवति । अन्नं वा ऊर्क् । उदुम्बर ऊर्जः । अन्नाद्यस्यावरुध्यै । तस्मादौदुम्बरो भवति ॥ ३३ ॥

सायणः

औदुम्बरो भवतीति । ‘ऊर्क्’ बलकररसरूपम् ‘अन्नम्’ उदुम्बरस्योक्तरूपत्वं तैत्तिरीयक आम्नातम् “देवा वा ऊर्ज्जं व्यभजन्त तत उदुम्बर उदतिष्ठत्” इति (तै. ब्रा. १ । १ । ३ । १०) ॥ ३३ ॥

Eggeling
  1. It is of Udumbara wood (Ficus Glomerata), for him to obtain food and strength,–the Udumbara means food and strength: therefore it is of Udumbara wood.

३४

विश्वास-प्रस्तुतिः

मु᳘खसंमितो भवति॥
(त्ये) एता᳘वद्वै᳘ व्वी᳘र्यᳫँ᳭ स या᳘वदेव᳘ व्वी᳘र्यं ता᳘वांस्त᳘द्भवति य᳘न्मु᳘खसंमितः॥

मूलम् - श्रीधरादि

मु᳘खसंमितो भवति॥
(त्ये) एता᳘वद्वै᳘ व्वी᳘र्यᳫँ᳭ स या᳘वदेव᳘ व्वी᳘र्यं ता᳘वांस्त᳘द्भवति य᳘न्मु᳘खसंमितः॥

मूलम् - Weber

मु᳘खसम्मितो भवति॥
एता᳘वद्वै᳘ वीर्य᳘ᳫं᳘ स यावदेव᳘ वीर्यं᳘ ता᳘वांस्त᳘द्भवति यन्मु᳘खसम्मितः॥

मूलम् - विस्वरम्

मुखसंमितो भवति । एतावद्वै वीर्यम् । स यावदेव वीर्यं- तावांस्तद्भवति यन्मुखसंमितः ॥ ३४ ॥

सायणः

मुखसम्मित इत्यादि (का० श्रौ० सू० ७ । ९५ ।) 28 स्पष्टम् । मुखपर्यन्तम् । प्रत्यंगे वीर्यसम्भवात् ततो ऽधः कण्ठादिसम्मितं न कुर्यादित्यर्थः ॥ ३४ ॥

Eggeling
  1. It reaches up to his mouth,–for so far extends his strength: as great as his strength is, so great it (the staff) is when it reaches up to his mouth.

३५

विश्वास-प्रस्तुतिः

(स्त) तमु᳘च्छ्रयति॥
(त्यु᳘) उ᳘च्छ्रयस्व व्वनस्पत ऽऊर्ध्वो᳘ मा पाह्य᳘ᳫं᳘हस᳘ आस्य᳘ यज्ञ᳘स्योदृ᳘च ऽइ᳘त्यूर्ध्वो᳘ मा गोपा᳘यास्य[[!!]] यज्ञ᳘स्य सᳫं᳭स्था᳘या इ᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(स्त) तमु᳘च्छ्रयति॥
(त्यु᳘) उ᳘च्छ्रयस्व व्वनस्पत ऽऊर्ध्वो᳘ मा पाह्य᳘ᳫं᳘हस᳘ आस्य᳘ यज्ञ᳘स्योदृ᳘च ऽइ᳘त्यूर्ध्वो᳘ मा गोपा᳘यास्य[[!!]] यज्ञ᳘स्य सᳫं᳭स्था᳘या इ᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

तमु᳘छ्रयति॥
उ᳘छ्रयस्व वनस्पत ऊर्ध्वो᳘ मा पाह्य᳘ᳫं᳘हसॗ आस्य᳘ यज्ञ᳘स्योदृ᳘च इ᳘त्यूर्ध्वो᳘ मा गोपाॗयास्य᳘ यज्ञ᳘स्य संस्था᳘या इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

तमुच्छ्रयति- “उच्छ्रयस्व वनस्पत ऊर्ध्वो मा पाह्यंहसः । आस्य यज्ञस्योदृचः"- (वा. सं. ४ । १०) इति । ऊर्ध्वो मा गोपाय आस्य यज्ञस्य संस्थाया इत्येवैतदाह ॥ ३५ ॥

सायणः

दण्डस्योच्च्छ्रयणं समन्त्रकं विधत्ते- तमुच्छ्रयतीति (का० श्रौ० सू० ७ । ९६) 28 । उदृक्छब्दस्य समाप्तिवाचकत्वप्रकारो ऽसकृत् प्रदर्शितः श० प० ३ । १ । १ । १२ भाष्ये तथा श० प० ३ । १ । ३ । २३, भाष्ये ॥ ३५ ॥

Eggeling
  1. He makes it stand upright, with the text, ‘Stand up, O tree, erect; guard me from injury on to the goal of this sacrifice!’ whereby he means to say, ‘Standing erect, protect me till the completion of this sacrifice!’

३६

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘त्र है᳘के॥
(के ऽङ्गु᳘) अङ्गु᳘लीश्च न्य᳘चन्ति व्वा᳘चं च यच्छन्त्य᳘तो हि न किं᳘च न᳘ जपिष्यन्भ᳘वती᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्य᳘था प᳘राञ्चं धा᳘वन्तमनुलि᳘प्सेत[[!!]] तं नानुल᳘भेतैव᳘ᳫँ᳘ ह स᳘ यज्ञं ना᳘नु लभते त᳘स्मादमु᳘त्रै᳘वाङ्गु᳘लीर्न्य᳘चेदमु᳘त्र व्वा᳘चं यच्छेत्॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘त्र है᳘के॥
(के ऽङ्गु᳘) अङ्गु᳘लीश्च न्य᳘चन्ति व्वा᳘चं च यच्छन्त्य᳘तो हि न किं᳘च न᳘ जपिष्यन्भ᳘वती᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्याद्य᳘था प᳘राञ्चं धा᳘वन्तमनुलि᳘प्सेत[[!!]] तं नानुल᳘भेतैव᳘ᳫँ᳘ ह स᳘ यज्ञं ना᳘नु लभते त᳘स्मादमु᳘त्रै᳘वाङ्गु᳘लीर्न्य᳘चेदमु᳘त्र व्वा᳘चं यच्छेत्॥

मूलम् - Weber

अ᳘त्र है᳘के॥
अङ्गु᳘लिश्च न्य᳘चन्ति वा᳘चं च यछन्त्य᳘तो हि किं᳘ च न᳘ जपिष्यन्भ᳘वती᳘ति व᳘दन्तस्तदु त᳘था न᳘ कुर्याद्य᳘था प᳘राञ्चं धा᳘वन्तमनुलि᳘प्सेतॗ तं नानुल᳘भेतैव᳘ᳫं᳘ ह स᳘ यज्ञं ना᳘नुलभते त᳘स्मादमु᳘त्रैॗवाङ्गु᳘लीर्न्य᳘चेदमु᳘त्र वा᳘चं यछेत्॥

मूलम् - विस्वरम्

अत्र हैके अंगुलीश्च न्यचन्ति, वाचं च यच्छन्ति, अतो हि किंच जपिष्यन्भवतीति वदन्तः । तदु तथा न कुर्याद् । यथा पराञ्चं धावन्तमनुलिप्सेत- तं नानुलभेत- एवं ह स यज्ञं नानुलभते । तस्मादमुत्रैवांगुलीर्न्यचेद्, अमुत्र वाचं यच्छेत् ॥ ३६ ॥

सायणः

दर्भैः पावनान्तरं मुष्टीकरणवाग्यमावुक्तौ । स एव स्वाभिमतः कालः । स्वाभिमतत्वञ्चात्र ‘वाचं च यच्छन्ति’ इति चकारेणावगम्यते, दण्डदीक्षानन्तरं तयोः काल इतीमं केषाञ्चित् पक्षमुपन्यस्य तेषामभिप्रायमाविष्कृत्य स्वपक्षमुपसंहरति- अत्र हैक इत्यादिना । ‘अतो’ ह अस्माद्दण्डग्रहणकालादूर्ध्वकाले किञ्चिदपि ‘न जपिष्यन् भवति’ जप्यस्य च सर्वस्य पूर्वमेव निष्पन्नत्वादिति भावः । यथा पराञ्चमिति । तेषां पक्षे दोषप्रदर्शनं परावृत्तस्य पुनर्ग्रहणं दुर्घटमिति । ‘अमुत्रैव’ प्रागुक्ते (श. प. ३ कां. १ अ. ३ ब्रा २५-२७ कं) काले, दर्भपावनानन्तरमेव कर्तव्यमित्यर्थः ॥ ३६ ॥

Eggeling
  1. It is only now that some bend the fingers inward 31 and restrain their speech, because, they argue, only from now will he not have to mutter anything. But let him not do so; for in like manner as if one were to try to overtake some one who runs away, but could not overtake him, so does he not overtake the sacrifice. Let him therefore turn in his fingers and restrain his speech on that (former) occasion.

३७

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ य᳘द्दीक्षितः[[!!]]॥
(ऽ) ऋ᳘चं वा य᳘जुर्वा सा᳘म वा ऽभिव्याह᳘रत्यभिस्थिर᳘मभिस्थिरमे᳘वैत᳘द्यज्ञमा᳘रभते त᳘स्मादमु᳘त्रै᳘वाङ्गु᳘लीर्न्य᳘चेदमु᳘त्र व्वा᳘चं यच्छेत्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ य᳘द्दीक्षितः[[!!]]॥
(ऽ) ऋ᳘चं वा य᳘जुर्वा सा᳘म वा ऽभिव्याह᳘रत्यभिस्थिर᳘मभिस्थिरमे᳘वैत᳘द्यज्ञमा᳘रभते त᳘स्मादमु᳘त्रै᳘वाङ्गु᳘लीर्न्य᳘चेदमु᳘त्र व्वा᳘चं यच्छेत्॥

मूलम् - Weber

अ᳘थ य᳘द्दीक्षितः᳟॥
ऋ᳘चं वा य᳘जुर्वा सा᳘म वाभिव्याह᳘रत्यभिस्थिर᳘मभिस्थिरमेॗवैत᳘द्यज्ञमा᳘रभते त᳘स्मादमु᳘त्रैॗवाङ्गु᳘लीर्न्य᳘चेदमु᳘त्र वा᳘चं यछेत्॥

मूलम् - विस्वरम्

अथ यद्दीक्षितः ऋचं वा यजुर्वा साम वा व्याहरति- अभिस्थिरमभिस्थिरमेवैतद्यज्ञमारभते । तस्मादमुत्रैवांगुलीर्न्यचेदमुत्र वाचं यच्छेत् ॥ ३७ ॥

सायणः

स्वपक्षे गुणान्तरमाह- अथ यद्दीक्षित इति । चाञ्चल्यकारणस्य व्यर्थवचसो नियमितत्वेन ऋगादिमन्त्राभिव्याहरणसमयस्यैव स्थैर्योपादानान्मन्त्रोच्चारणकृतो न वाङ्नियमस्य भङ्ग इति प्रागेव कर्तव्यम् । कात्यायनस्तु दण्डधारणानन्तरं वाग्यमनमपि विकल्पेनोक्तवान् “अत्र 32 वा मुष्टिकरणवाग्यमने"- (का. श्रौ. सू. ७ । ९८) इति ॥ ३७ ॥

Eggeling
  1. And when the consecrated (after restraining his speech) utters either a r̥c, or a sāman, or a yajus 33,

he thereby takes a firmer and firmer hold of the sacrifice: let him therefore turn in his fingers and restrain his speech on that (former) occasion.

३८

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ यद्वा᳘चं य᳘च्छति॥
व्वाग्वै᳘ यज्ञो᳘ यज्ञ᳘मे᳘वैत᳘दात्म᳘न्धत्ते᳘ ऽथ य᳘द्वाचंयमो᳘ व्याह᳘रति त᳘स्मादु हैष व्वि᳘सृष्टो यज्ञः प᳘राङा᳘वर्तते त᳘त्रो व्वैष्णवीमृ᳘चं वा य᳘जुर्वा जपेद्यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञं पु᳘नरा᳘रभते त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ यद्वा᳘चं य᳘च्छति॥
व्वाग्वै᳘ यज्ञो᳘ यज्ञ᳘मे᳘वैत᳘दात्म᳘न्धत्ते᳘ ऽथ य᳘द्वाचंयमो᳘ व्याह᳘रति त᳘स्मादु हैष व्वि᳘सृष्टो यज्ञः प᳘राङा᳘वर्तते त᳘त्रो व्वैष्णवीमृ᳘चं वा य᳘जुर्वा जपेद्यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञं पु᳘नरा᳘रभते त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - Weber

अ᳘थ यद्वा᳘चं य᳘छति॥
वाग्वै᳘ यज्ञो᳘ यज्ञ᳘मेॗवैत᳘दात्म᳘न्धत्ते᳘ ऽथ य᳘द्वाचंयमो᳘ व्याह᳘रति त᳘स्मादु हैष वि᳘सृष्टो यज्ञः प᳘राङा᳘वर्तते त᳘त्रो वैष्णवीमृ᳘चं वा य᳘जुर्वा जपेद्यज्ञो वै वि᳘ष्णुस्त᳘द्यज्ञम् पु᳘नरा᳘रभते त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - विस्वरम्

अथ यद्वाचं यच्छति । वाग्वै यज्ञः । यज्ञमेवैतदात्मन्धत्ते । अथ यद्वाचंयमो व्याहरति । तस्मादु हैष विसृष्टो यज्ञः पराङावर्तते । तत्रो वैष्णवीमृचं वा यजुर्वा जपेत् । यज्ञो वै विष्णुः । तद्यज्ञं पुनरारभते । तस्यो हैषा प्रायश्चित्तिः ॥ ३८ ॥

सायणः

गृहीतवचसः पुनर्वाग्व्यवहारे प्रायश्चित्तमभिधातुं वाग्यमनस्य प्रयोजनमाह- अथ यदिति । ‘वैष्णवीमृचम्’ “इदं विष्णुर्विचक्रमे” (ऋ० सं० १ । २२ । १७ । वा. सं. ५ । १५ । १ ।) इत्येवमादिकाम् ॥ ३८ ॥

Eggeling
  1. And when he restrains his speech–speech being sacrifice–he thereby appropriates the sacrifice to himself 34. But when, from speech restrained, he utters any sound (foreign to the sacrifice), then that sacrifice, being set free, flies away. In that case, then, let him mutter either a r̥c or a yajus addressed to Vishṇu, for Vishṇu is the sacrifice: thereby he again gets hold of the sacrifice; and this is the atonement for that (transgression).

३९

विश्वास-प्रस्तुतिः

(र) अथै᳘क उ᳘द्वदति॥
दीक्षि᳘तो ऽयं᳘ ब्राह्मणो᳘ दीक्षि᳘तो ऽयं᳘ ब्राह्मण इति[[!!]] नि᳘वेदितमे᳘वैनमेतत्स᳘न्तं देवे᳘भ्यो नि᳘वेदयत्ययं᳘ महावीर्यो[[!!]] यो᳘ यज्ञं प्रा᳘पदि᳘त्ययं᳘ युष्माकै᳘को ऽभूत्तं᳘ गोपायते᳘त्ये᳘वैत᳘दाह त्रिष्कृ᳘त्व ऽआह त्रिवृ᳘द्धि यज्ञः[[!!]]॥

मूलम् - श्रीधरादि

(र) अथै᳘क उ᳘द्वदति॥
दीक्षि᳘तो ऽयं᳘ ब्राह्मणो᳘ दीक्षि᳘तो ऽयं᳘ ब्राह्मण इति[[!!]] नि᳘वेदितमे᳘वैनमेतत्स᳘न्तं देवे᳘भ्यो नि᳘वेदयत्ययं᳘ महावीर्यो[[!!]] यो᳘ यज्ञं प्रा᳘पदि᳘त्ययं᳘ युष्माकै᳘को ऽभूत्तं᳘ गोपायते᳘त्ये᳘वैत᳘दाह त्रिष्कृ᳘त्व ऽआह त्रिवृ᳘द्धि यज्ञः[[!!]]॥

मूलम् - Weber

अथै᳘क उ᳘द्वदति॥
दीक्षिॗतो ऽय᳘म् ब्राह्मणो᳘ दीक्षिॗतो ऽय᳘म् ब्राह्मण इ᳘ति नि᳘वेदितमेॗवैनमेतत्स᳘न्तं देवे᳘भ्यो नि᳘वेदयत्यय᳘म् महा᳘वीर्यो यो᳘ यज्ञम् प्रा᳘पदि᳘त्ययं᳘ युष्माकै᳘को ऽभूत्तं᳘ गोपायते᳘त्येॗवैत᳘दाह त्रिष्कृ᳘त्व आह त्रिवृ᳘द्धि यज्ञः᳟॥

मूलम् - विस्वरम्

अथैक उद्वदति- दीक्षितो ऽयं ब्राह्मणो दीक्षितो ऽयं ब्राह्मण इति । निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयति । अयं महावीर्यो यो यज्ञं प्रापदिति । अयं युष्माकैको ऽभूत्- तं गोपायत इत्येवैतदाह । त्रिष्कृत्व आह । त्रिवृद्धि यज्ञः ॥ ३९ ॥

सायणः

अध्वर्युकर्तृकं दीक्षितावेदनं विधत्ते- अथैक उद्वदतीति । ‘एकः’ अध्वर्युः ‘उद्वदति’ उच्चैरावेदयति । ‘अयं ब्राह्मणः दीक्षितः’ दीक्षणीयेष्टिकृष्णाजिनादिदीक्षासंस्कारेण संस्कृतः ‘इति’ । ‘अयं महावीर्यः’ इत्येतत् पूर्वं व्याख्यातम् । सूत्रे तु अध्वर्युव्यतिरिक्तेन कर्त्रा आवेदनमुक्तम् । “अन्यो दीक्षितो ऽयं ब्राह्मण इत्याह त्रिरुच्चैः”- (का. श्रौ. सू. ७ । १०४) इति । “अन्यशब्दो ऽध्वर्युसन्निकर्षादाध्वर्यवसमाख्यानबलात् प्रतिप्रस्थातृपरः, उच्चैरित्यनेन चानुपांशुपक्षः सूचितः”- इति कर्कोपाध्यायेन व्याख्यातम् । तस्य चावेदनवाक्यस्य त्रिरावृत्तिं विधत्ते- त्रिष्कृत्व इति ॥ ३९ ॥

Eggeling
  1. Thereupon some one 35 calls out, ‘Consecrated is this Brāhman, consecrated is this Brāhman:’ him, being thus announced, he thereby announces to the gods: ‘Of great vigour is this one who has obtained the sacrifice; he has become one of yours: protect him!’ this is what he means to say. Thrice he says it, for threefold is the sacrifice.

४०

विश्वास-प्रस्तुतिः

(ज्ञो᳘ ऽ) अ᳘थ य᳘द्ब्राह्मण इत्याह[[!!]]॥
(हा᳘) अ᳘नद्धेव वा᳘ ऽअस्या᳘तः पुरा जा᳘नं भवती᳘दᳫं᳘ ह्याहू र᳘क्षाᳫंसि योषि᳘तम᳘नुसचन्ते त᳘दुत र᳘क्षाᳫंस्येव रे᳘त ऽआ᳘दधतीत्यथा᳘त्राद्धा᳘ जायते यो ब्र᳘ह्मणो यो᳘ यज्ञाज्जा᳘यते त᳘स्माद᳘पि राज᳘न्यं[[!!]] वा व्वै᳘श्यं वा ब्राह्मण इ᳘त्येव᳘ ब्रूयाद् ब्र᳘ह्मणो हि जा᳘यते यो᳘ यज्ञाज्जा᳘यते त᳘स्मादाहुर्न᳘ सवनकृ᳘तᳫं᳭ हन्यादेनस्वी᳘ हैव᳘ सवनकृते᳘ति॥

मूलम् - श्रीधरादि

(ज्ञो᳘ ऽ) अ᳘थ य᳘द्ब्राह्मण इत्याह[[!!]]॥
(हा᳘) अ᳘नद्धेव वा᳘ ऽअस्या᳘तः पुरा जा᳘नं भवती᳘दᳫं᳘ ह्याहू र᳘क्षाᳫंसि योषि᳘तम᳘नुसचन्ते त᳘दुत र᳘क्षाᳫंस्येव रे᳘त ऽआ᳘दधतीत्यथा᳘त्राद्धा᳘ जायते यो ब्र᳘ह्मणो यो᳘ यज्ञाज्जा᳘यते त᳘स्माद᳘पि राज᳘न्यं[[!!]] वा व्वै᳘श्यं वा ब्राह्मण इ᳘त्येव᳘ ब्रूयाद् ब्र᳘ह्मणो हि जा᳘यते यो᳘ यज्ञाज्जा᳘यते त᳘स्मादाहुर्न᳘ सवनकृ᳘तᳫं᳭ हन्यादेनस्वी᳘ हैव᳘ सवनकृते᳘ति॥

मूलम् - Weber

अ᳘थ य᳘द्ब्राह्मण इत्या᳘ह॥
अ᳘नद्धेव वा᳘ अस्या᳘ता पुरा जा᳘नम् भवतीॗदᳫं ह्याहू र᳘क्षांसि योषि᳘तम᳘नुसचन्ते त᳘दुत र᳘क्षांस्येव रे᳘त आ᳘दधतीत्यथा᳘त्राद्धा᳘ जायते यो ब्र᳘ह्मणो यो᳘ यज्ञाज्जा᳘यते त᳘स्माद᳘पि राजन्यं᳘ वा वै᳘श्यं वा ब्राह्मण इ᳘त्येव ब्रूयाद्ब्र᳘ह्मणो हि जा᳘यते यो᳘ यज्ञाज्जा᳘यते त᳘स्मादाहुर्न᳘ सवनकृ᳘तᳫं हन्यादेनस्वी᳘ हैव᳘ सवनकृते᳘ति॥

मूलम् - विस्वरम्

अथ यद् ब्राह्मण इत्याह । अनद्धेव वा अस्यातः पुरा जानं भवति । इदं ह्याहुः- रक्षांसि योषितमनुसचन्ते; तदुत रक्षांस्येव रेत आदधतीति । अथात्राद्धा जायते- यो ब्रह्मणो- यो यज्ञाज्जायते । तस्मादपि राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ब्रूयात् । ब्रह्मणो हि जायते- यो यज्ञाज्जायते । तस्मादाहुः- न सवनकृतं हन्यात्- एनस्वी हैव सवनकृतेति ॥ ४० ॥

सायणः

आवेदनवाक्यगतस्य ब्राह्मणपदस्य प्रयोजनमाह- अथ यद्ब्राह्मण इति । ‘अतः’ ‘अस्याः’ दीक्षायाः ‘पुरा’ ‘जानम्’ जन्म ‘अनद्धेव’ अविनिश्चितमिव ‘भवति’ अनद्धात्वे कारणमाह- इदं ह्याहुरिति । ‘इदं’ वक्ष्यमाणम् ‘आहुः’ अभिज्ञाः । यतो राक्षसाः स्त्रियम् अनुसचन्ते अनुसंश्रवयन्ति गर्भाधानसमये ‘रेतः’ च ‘आदधति,’ अतो योनितो जन्यते । ब्राह्मण इत्यस्य व्याख्यानं- यज्ञादिति । यज्ञशब्दाभिधेयाद्ब्रह्मणो जातत्वाद् ‘ब्राह्मण’- शब्दव्यवहारः । अत एव राजन्यवैश्ययोरपि दीक्षितयोः “दीक्षितो ऽयं ब्राह्मणः”- (का. श्रौ. सू. ७ । १०५) इत्येवं ब्रूयात् । यज्ञजन्मप्रशंसार्थं कञ्चिन्नियममाह- न सवनकृतमिति । ‘सवनकृतं’ ‘अभिषवकर्तारं यष्टारं त्रैवर्णिकेष्वन्यतममपीत्यर्थः । ‘सवनकृता’ सवनकृता निमित्तेन, तद्वधेनेत्यर्थः ॥ ४० ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे द्वितीयाध्याये प्रथमं ब्राह्मणम् ॥ (३-२-१)

Eggeling
  1. And as to his saying, ‘Brāhman,’ uncertain, as it were, is his origin heretofore 36; for the Rakshas, they say, pursue women here oil earth, and so the Rakshas implant their seed therein. But he, forsooth, is truly born, who is born of the Brahman (neut.), of the sacrifice: wherefore let him address even a Rājanya, or a Vaiśya, as Brāhman, since he who is born of the sacrifice is born of the Brahman (and hence a Brāhmaṇa). Wherefore they say, ‘Let no one slay a sacrificer of Soma; for by (slaying) a Soma-sacrificer he becomes guilty of a heinous sin 37!

  1. 26:1 The two skins are fitted together at the inner sides, and stretched along the ground by means of wooden pins driven into the ground and passed through holes all round the edge of the skins; the hairy sides of the latter remaining outside (above and below). At their hind parts they are tacked together by ‘means of a thong passed through the holes and tied together in a loop.’ ↩︎

  2. 26:2 Yāny eva babhrūṇiva harīṇi. The Kāṇva text reads, Yāny eva madhye babhrūṇi vā harīṇi vā, ’those in the centre (or between the black and white) which are either brown or yellow (grey). ↩︎

  3. 26:3 According to Kāty. VII, 3, 21 it would seem that the two hind feet, or one of them, should be doubled up (at the joint) and sewed under. According to the Sūtras of the Black Yajus, on the other hand, the right fore-foot is turned under. ↩︎

  4. शुक्ल सन्धिमालभते ऋक्सामयोरिति । ↩︎

  5. शतपथे हविर्यज्ञकांडे ऽपि । १ । १ । ४ । २ । अथ कृष्णाजिनमादत्ते इत्युपक्रम्य- तस्य यानि शुक्लानि च कृष्णानि च लोमानि । तान्यृचां च साम्नां च रूपम् । यानि शुक्लानि तानि साम्नाँरूपम् । यानि कृष्णानि तान्यृचाम् । यदि वेतरथा । यान्येव कृष्णानि तानि साम्नाँरूपम् । यानि शुक्लानि तान्यृचाम् । यान्येव वभ्रूणीव हरीणि तानि यजुषाँ रूपमिति ॥ ↩︎

  6. 26:4 According to the Sūtras of the Black Yajus, he is to touch at the same time the white hair with his thumb and the black with his fore-finger. Sāy. on Taitt. S. I, 2, 2 (vol. i, p. 297). ↩︎

  7. 27:1 Śreyāṁsaṁ vā esha upādhirohati yo manushyaḥ san yajñam upādhirohati. Kāṇva recension. ↩︎ ↩︎

  8. दक्षिणजानुना ऽऽरोहति- शर्मासीति तेनास्ते ऽपरे ऽन्ते । ↩︎ ↩︎

  9. दीक्षिता न बल्यमविन्दन् Sây. but see also ४,२,१.३,१. and ६, १, २९. ↩︎

  10. 29:1 Twisted and plaited is here expressed by the same term ‘sr̥shṭa.’ ↩︎

  11. 29:2 Literally, but now (it being that) of (him) the consecrated, (it is that) of Soma. ↩︎

  12. 29:3 With his upper garment, or, according to others, with a turban. Kay. VII, 3, 28 scholl. ↩︎

  13. कात्यायनः । कृष्णविषाणां त्रिवलिं पंचवलिं वोत्तानां दशायां बध्नीते इति ७ । ९१ । अत्र कर्कः । सामर्थ्यपरिप्रापित्वाच्चोत्तरसिचि बध्नीत इति नोक्तमिति । ततश्चोत्तरीयप्रांते दशायां कृष्णविषाणाबंधनमिति तात्पर्यम् । काण्वश्रुतिरपि । अथोत्तरसिचि कृष्णविषाणां बध्नीत इति । ↩︎

  14. 30:1 The Mādhyandinas tied the horn to the unwoven end (thrum, daśā) of the nether garment which was tucked through (par. 13) and then allowed to hang down in front. The Kāṇvas, on the other hand, tied it to the hem of the upper garment (uttarasice! Kāṇva text); cf. Kāty. VII, 3, 29 scholl. ↩︎

  15. आरकं-आरा चर्मप्रभेदिका इत्यमरः । चर्मखंडनार्थः शस्त्रभेदः- आरी-इति प्रसिद्धः । ↩︎

  16. संस्कृते AB. ↩︎

  17. 31:1 Yoshā vā iyaṁ vāg yad enaṁ na yuvitā. The St. Petersburg Dict. (s. v. yu) takes it differently, ‘That Vāc is indeed a woman, since she does not wish to draw him towards herself (i.e. since she does not want him to come near her).’ Sāyaṇa, on the other hand, explains it elliptically, ‘Since she has not joined him (no confidence can be placed in her).’ The Kāṇva text reads: Ta u ha devā bibhayāṁ cakrur yoshā vā iyam iti yad vā enam na yuvīteti. Perhaps in our passage also we should read ‘yuvīta’ (as proposed by Delbrück, Syntact. Forschungen III, p. 79), and translate, ‘Verily that Vāc is a woman: (it is to be feared) that she will [or, it is to be hoped that she will not] allure him [viz. so. that Yajña also would fall to the share of the Asuras];’ ‘Dass sie ihn nur nicht an sich fesselt!’ For similar elliptic constructions with yad and the optative, see paragraphs 26 and 27; and II, 2, 4, 3 [‘Dass er mich nur nicht auffrisst!’]; IV, 3, 5, 3 (‘Dass uns nur die Rakshas nichts zu Leide thun!’); IV, 6, 9, 1. One would expect an ‘iti’ here. ↩︎

  18. ‘आत्तवाचसः’- इति वैदिकपाठपुस्तके पाठः । ↩︎

  19. पातञ्जलिमहाभाष्ये पस्पशायां तु ‘हे ऽलयो- हे ऽलयः’ इति पाठो दृश्यते । ↩︎

  20. 31:2 And therefore requiring no priests’ portion &c. to be taken from it. ↩︎

  21. 31:3 According to Sāyaṇa, ‘He ’lavo’ stands for ‘He ’rayo (i.e. ho, the spiteful (enemies))!’ which the Asuras were unable to pronounce correctly. The Kāṇva text, however, reads, te hāttavāco ’surā hailo haila ity etāṁ ha vācaṁ vadantaḥ parābabhūvuḥ; (? i, e. He ilā, ‘ho, speech.’) A third version of this passage seems to be referred to in the Mahābhāshya (Kielh.), p. 2. ↩︎

  22. 32:1 Compare the corresponding legend about Yajña and Dakshiṇā (priests’ fee), Taitt. S. VI, 1, 3, 6. ↩︎

  23. ‘कृष्णविषाणाभावे’ इति क्व० पा० । ↩︎

  24. 32:2 ‘Yajñasya śīrshan;’ one would expect ‘kr̥shṇa(sāra)sya śīrshan.’ The Taitt. S. reads ’tām mr̥geshu ny adadhāt.’ ↩︎

  25. 33:1 In the Kāṇva text ‘ataḥ (therewith)’ refers to the head of the sacrificer,–sa yac chirasta upaspr̥śaty ato vā enām etad agre praviśan praviśaty ato vā agre jāyamāno jāyate tasmāc chirasta upaspriśati. ↩︎

  26. भूमौ चोल्लिखति सुसस्या इति । ↩︎

  27. द᳘पास्यं म्रित्त्ये AB. ↩︎

  28. कच्छ्वां तु पाम पामा विचर्चिकेत्यमरः । इति चतुष्कं-खर्जूविशेषस्य (ओलीखरूज) इति ख्यातस्य । ↩︎ ↩︎ ↩︎

  29. 33:2 Apāsyan mrityet = apagacchan mr̥tim prāpnuyāt, Sāy.–? apāsyet, ‘he would force it out and it would die.’ The Kāṇva text has merely ‘ayam mr̥tyet (!).’ ↩︎

  30. 34:1 That is, the womb from which he (the sacrificer) is born. ↩︎

  31. 34:2 II, 1, 3, 25. ↩︎

  32. ‘अथवा’ इ. पा. । ↩︎

  33. 34:3 Viz. in muttering the formulas mentioned above, III, 2, 1, 5 seq. ↩︎

  34. 35:1 Or, puts it in himself, encloses it within himself. ↩︎

  35. 35:2 That is, some one other than the Adhvaryu, viz. the Pratiprasthātr̥ or some other person, Kāty. VII, 4, 11 scholl. ↩︎

  36. 35:3 That is, inasmuch as he may be of Rakshas origin ↩︎

  37. 35:4 Viz. of the crime of Brāhmanicide (brahmahatyā). ↩︎