०१
विश्वास-प्रस्तुतिः
स᳘र्व्वाणि ह वै᳘ दीक्षा᳘या य᳘जूᳫंष्यौद्ग्रभणानि॥
(न्यु᳘) उ᳘द्गृभ्णीते वा᳘ ऽए᳘षो ऽस्मा᳘ल्लोका᳘द्देवलोक᳘मभि यो दी᳘क्षत ऽएतै᳘रेव तद्य᳘जुर्भिरु᳘द्गृभ्णीते त᳘स्मादाहुः स᳘र्व्वाणि दीक्षा᳘या य᳘जूᳫंष्यौद्ग्रभणानी᳘ति त᳘त ऽएता᳘न्यवान्तरामा᳘चक्षत ऽऔद्ग्रभणानीत्या᳘हुतयो᳘ ह्येता ऽआ᳘हुतिर्हि᳘ य᳘ज्ञः᳘ परो᳘ ऽक्षं वै य᳘जुर्जपत्य᳘थैष᳘ प्रत्य᳘क्षं यज्ञो यदा᳘हुतिस्त᳘देते᳘न यज्ञेनोद्गृभ्णीते ऽस्मा᳘ल्लोका᳘द्देवलोक᳘मभि॥
मूलम् - श्रीधरादि
स᳘र्व्वाणि ह वै᳘ दीक्षा᳘या य᳘जूᳫंष्यौद्ग्रभणानि॥
(न्यु᳘) उ᳘द्गृभ्णीते वा᳘ ऽए᳘षो ऽस्मा᳘ल्लोका᳘द्देवलोक᳘मभि यो दी᳘क्षत ऽएतै᳘रेव तद्य᳘जुर्भिरु᳘द्गृभ्णीते त᳘स्मादाहुः स᳘र्व्वाणि दीक्षा᳘या य᳘जूᳫंष्यौद्ग्रभणानी᳘ति त᳘त ऽएता᳘न्यवान्तरामा᳘चक्षत ऽऔद्ग्रभणानीत्या᳘हुतयो᳘ ह्येता ऽआ᳘हुतिर्हि᳘ य᳘ज्ञः᳘ परो᳘ ऽक्षं वै य᳘जुर्जपत्य᳘थैष᳘ प्रत्य᳘क्षं यज्ञो यदा᳘हुतिस्त᳘देते᳘न यज्ञेनोद्गृभ्णीते ऽस्मा᳘ल्लोका᳘द्देवलोक᳘मभि॥
मूलम् - Weber
स᳘र्वाणि ह वै᳘ दीक्षा᳘या य᳘जूंष्यौद्ग्रभणानि॥
उ᳘द्गृभ्णीते 1 वा᳘ एॗषो ऽस्मा᳘ल्लोका᳘द्देवलोक᳘मभि यो दी᳘क्षत एतै᳘रेव तद्य᳘जुर्भिरु᳘द्गृभ्णीते त᳘स्मादाहुः स᳘र्वाणि दीक्षा᳘या य᳘जूंष्यौद्ग्रभणानी᳘ति त᳘त एता᳘न्यवान्तरामा᳘चक्षत औद्ग्रभणानीत्या᳘हुतयोॗ ह्येता आ᳘हुतिर्हि᳘ यज्ञः᳘ परो᳘ ऽक्षं वै य᳘जुर्जपत्य᳘थैष᳘ प्रत्य᳘क्षं यज्ञो यदा᳘हुतिस्त᳘देते᳘न यज्ञेनोद्गृभ्णीते ऽस्मा᳘ल्लोका᳘द्देवलोक᳘मभि॥
मूलम् - विस्वरम्
अथ औद्ग्रभणहोमः । दीक्षाहुतिः ।
सर्वाणि ह वै दीक्षाया यजूंष्यौद्ग्रभणानि । उद्गृभ्णीते वा ऽएषो ऽस्माल्लोकाद्देवलोकमभि- यो दीक्षते । एतैरेव तद् यजुर्भिरुद्गृभ्णीते । तस्मादाहु:- सर्वाणि दीक्षाया यजूंष्यौद्ग्रभणानीति । तत एतान्यवान्तरामाचक्षते- औद्ग्रभणानीति । आहुतयो ह्येताः । आहुतिर्हि यज्ञः । परोक्षं वै यजुर्जपति- अथैव प्रत्यक्षं यज्ञो- यदाहुतिः । तदेतेन यज्ञेनोद्गृभ्णीते- अस्माल्लोकाद्देवलोकमभि ॥ १ ॥
सायणः
अथ दीक्षाहुतीर्विधातुमाह- सर्वाणि ह वा इति । यजुस्सम्बन्धाद्दीक्षासम्बन्धीनि ‘यजूंषि’ औद्ग्रभणानि । तदुद्ग्रभणत्वमेव कुत इति तद्दर्शयति- उद्गृभ्णीते वा इति । ‘तत्’ तदा ‘एतैः’ एव दीक्षाङ्गभूतैः सर्वैः ‘यजुर्भिः’ एवातो ‘दीक्षायाः’ प्रकरण उक्तानि ‘सर्वाणि’ अपि ‘यजूंषि’ ‘औद्ग्रभणानि’ औद्ग्रहणानीति (का. श्रौ. सू. ७ । ७९) । “हग्रहोर्भः”- (पा. ८ । २ । ३२ सू. वा. १) इति भत्वम् । ‘ततः’ तेषु यजुःषु मध्ये ‘एतानि’ एव दीक्षाहुतिसाधनानि आकूत्यादीनि ‘औद्ग्रभणानि’ उद्ग्रभणे ऽत्यन्तं सन्निहितानीत्यर्थः । तत् कथमिति, उच्यते- आहुतयो हीति । तावता श्रैष्ठ्ये किमायातमिति तत्राह- आहुतिर्हीति । जप्यानां होम्यानां च तारतम्यमाह- परोक्षं वा इति ॥ १ ॥
Eggeling
- All formulas of the consecration are audgrabhaṇa (elevatory), since he who is consecrated elevates himself (ud-grabh) from this world to the world of the gods. He elevates himself by means of these same formulas, and therefore they say that all formulas of the consecration are ‘audgrabhaṇa.’ Now they also (specially) designate these intermediate ones as ‘audgrabhaṇa,’ because these are libations 2, and a libation is a sacrifice. For the muttering of a sacrificial formula is an occult (form of sacrifice), but a libation is a direct (form of) sacrifice: hence it is by this same sacrifice that he elevates himself from this world to the world of the gods.
०२
विश्वास-प्रस्तुतिः
त᳘तो या᳘नि त्री᳘णि स्रुवे᳘ण जुहो᳘ति॥
ता᳘न्याधीतयजूᳫँ᳭षीत्या᳘चक्षते सम्प᳘द ऽएव का᳘माय चतुर्थ᳘ᳫँ᳘ हूयते᳘ ऽथ य᳘त्पञ्चम᳘ᳫं᳘ स्रुचा᳘ जुहो᳘ति त᳘देव᳘ प्रत्य᳘क्षमौद्ग्रभण᳘मनुष्टु᳘भा हि त᳘ज्जुहो᳘ति व्वाग्घ्यनुष्टुब्वाग्घि᳘[[!!]] यज्ञः᳘॥
मूलम् - श्रीधरादि
त᳘तो या᳘नि त्री᳘णि स्रुवे᳘ण जुहो᳘ति॥
ता᳘न्याधीतयजूᳫँ᳭षीत्या᳘चक्षते सम्प᳘द ऽएव का᳘माय चतुर्थ᳘ᳫँ᳘ हूयते᳘ ऽथ य᳘त्पञ्चम᳘ᳫं᳘ स्रुचा᳘ जुहो᳘ति त᳘देव᳘ प्रत्य᳘क्षमौद्ग्रभण᳘मनुष्टु᳘भा हि त᳘ज्जुहो᳘ति व्वाग्घ्यनुष्टुब्वाग्घि᳘[[!!]] यज्ञः᳘॥
मूलम् - Weber
त᳘तो या᳘नि त्री᳘णि स्रुवे᳘ण जुहो᳘ति॥
ता᳘न्याधीतयजूंषीत्या᳘चक्षते सम्प᳘द एव का᳘माय चतुर्थ᳘ᳫं᳘ हूयते᳘ ऽथ य᳘त्पञ्चम᳘ᳫं᳘ स्रुचा᳘ जुहो᳘ति त᳘देव᳘ प्रत्य᳘क्षमौद्ग्रभण᳘मनुष्टु᳘भा हि त᳘ज्जुहो᳘ति वाग्घ्य᳘नुष्टुब्वाग्घि᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
ततो यानि त्रीणि स्रुवेण जुहोति- तान्याधीतयजूंषीत्याचक्षते । सम्पद ऽएव कामाय चतुर्थं हूयते । अथ यत्पञ्चमं स्रुचा जुहोति- तदेव प्रत्यक्षमौद्ग्रभणम् । अनुष्टुभा हि तज्जुहोति । वाग्घ्यनुष्टुप् । वाग्घि यज्ञः ॥ २ ॥
सायणः
एतासामप्युद्ग्रहणसाधनतां विभज्य दर्शयन् प्रशंसति- ततो यानीति । ‘यानि’ आदितः ‘त्रीणि’ यजूंषि ‘स्रुवेण जुहोति’, ‘तानि’ ‘आधीत-यजूंषि’ आधानलिङ्गकानि; तन्मन्त्रेष्वाधानव्यापारलिङ्गदर्शनात् । ‘सम्पदे कामाय’ । सम्पद्यत इति ‘सम्पत्’ काम्यत इति ‘कामः’, सम्पाद्याय स्वर्गफलाय चेत्यर्थः । अयमभिप्रायः- यथा लोके किञ्चित् फलं सिषाधयिषुरादौ तज्ज्ञात्वा पश्चात् कामयित्वा तत्साधनमनुष्ठायान्ते तल्लभते; एवं त्रिभिः स्वर्गफलमाध्याय चतुर्थेन तत्साधनमनुष्ठाय पञ्चमेन तदुद्गृहीतवान् भवतीति । अथ चतुर्थस्य होमसाधनानभिधानेनापि पञ्चमस्य विशेषितत्वात् चतुर्थमपि स्रुवेणैवेति वेदितव्यम् । पञ्चमस्य साक्षादुद्ग्रहणसाधनत्वं तन्मन्त्रस्यानुष्टुप्त्वे सिद्धमित्याह- अनुष्टुभा हीति । ‘अनुष्टुभा’ वाचा, मन्त्रेण साध्यत्वात् ‘वाग् यज्ञः’ । “अनुष्टुप्चतुरुत्तराणि छन्दांस्युदपादयत्”- इति सामब्राह्मणे ऽभिधानाद् वाचो ऽनुष्टुप्त्वम् ॥ २ ॥
Eggeling
- And again, the three libations which he makes with the dipping-spoon (sruva) are said to be ‘ādhītayajus 3.’ The fourth libation is made for the sake of completeness; while the fifth, which is made with the offering-spoon (sruc, viz. the juhū), is the real audgrabhaṇa-libation: for he makes it with an
anushṭubh verse, and the anushṭubh is speech, and the sacrifice also is speech.
०३
विश्वास-प्रस्तुतिः
(ज्ञो᳘) यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥
मूलम् - श्रीधरादि
(ज्ञो᳘) यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म॥
मूलम् - Weber
यज्ञे᳘न वै᳘ देवाः᳟॥
इमां जि᳘तिं जिग्युॗर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इद᳘म् मनुॗष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिॗरो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो नाम॥
मूलम् - विस्वरम्
यज्ञेन वै देवाः इमां जितिं जिग्युः- यैषामियं जितिः । ते होचुः- कथं न इदं मनुष्यै नभ्यारोह्यं स्यादिति । ते यज्ञस्य रसं धीत्वा- यथा मधु मधुकृतो निर्द्धयेयुः- विदुह्य यज्ञं, यूपेन यापयित्वा- तिरो ऽभवन् । अथ यदेनेनायोपयन्- तस्माद् यूपो नाम ॥ ३ ॥
सायणः
अथ पुरातनवृत्तान्तप्रदर्शनमुखेनैतेषां स्वर्गीद्ग्रहणे साधनतामुपपादयति- यज्ञेन वा इति । एतत् प्रथमकाण्डे पञ्चमप्रपाठकादावाग्नेयपुरोडाशार्थवादे (श. प. का. १ अ. ६. ब्रा. २ कं. १) व्याख्यातम् ॥ ३ ॥
Eggeling
- By means of the sacrifice the gods obtained that supreme authority which they now wield. They spake, ‘How may this (world) of ours be unattainable by men!’ They then sipped the sap of the sacrifice, as bees would suck out honey; and having drained the sacrifice and effaced its traces by means of the sacrificial stake, they disappeared: and because they effaced (scattered, yopaya) therewith, therefore it is called yūpa (stake).
०४
विश्वास-प्रस्तुतिः
तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्यथा ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा᳘ ऽएष᳘ यज्ञᳫँ᳭ स᳘म्भरति य᳘देता᳘नि जुहो᳘ति॥
मूलम् - श्रीधरादि
तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫँ᳭ स᳘मभरन्यथा ऽयं᳘ यज्ञः स᳘म्भृत ऽएवं वा᳘ ऽएष᳘ यज्ञᳫँ᳭ स᳘म्भरति य᳘देता᳘नि जुहो᳘ति॥
मूलम् - Weber
तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥
ते᳘ यज्ञᳫं स᳘मभरन्य᳘थायं᳘ यज्ञः स᳘म्भृत एवं वा᳘ एष᳘ यज्ञᳫं स᳘म्भरति य᳘देतानि जुहोति॥
मूलम् - विस्वरम्
तद्वा ऋषीणामनुश्रुतमास । ते यज्ञं समभरन् । यथा ऽयं यज्ञः सम्भृतः- एवं वा एष यज्ञं सम्भरति- यदेतानि जुहोति ॥ ४ ॥
सायणः
तद्वा इति । यथा ऽयमिति । येन प्रकारेण देवानुष्ठितप्रकारं जानद्भिर्ऋषिभिः ‘अयं यज्ञः’ औद्ग्रभणहोमेन सम्भृतः; ‘एवम्’ एतेषामनुष्ठानेन ‘एषः’ यजमानो ऽपि ‘यज्ञं’ सम्भृतवान् भवति ॥ ४ ॥
Eggeling
- Now this was heard by the R̥shis. They collected the sacrifice, just as this sacrifice is collected (prepared) 4; for even so does he now collect the sacrifice, when he offers those (audgrabhaṇa) libations.
०५
विश्वास-प्रस्तुतिः
ता᳘नि वै प᳘ञ्च जुहोति॥
संव्वत्सर᳘संमितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्च जुहोति॥
मूलम् - श्रीधरादि
ता᳘नि वै प᳘ञ्च जुहोति॥
संव्वत्सर᳘संमितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्च जुहोति॥
मूलम् - Weber
ता᳘नि वै प᳘ञ्च जुहोति॥
संवत्सर᳘सम्मितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऋत᳘वः संवत्सर᳘स्य तम् पञ्च᳘भिराप्नोति त᳘स्मात्प᳘ञ्च जुहोति॥
मूलम् - विस्वरम्
तानि वै पञ्च जुहोति । संवत्सरसंमितो वै यज्ञः । पञ्च वा ऋतवः संवत्सरस्य । तं पञ्चभिराप्नोति । तस्मात्पञ्च जुहोति ॥ ५ ॥
सायणः
तद्गतपञ्चसङ्ख्यां प्रशंसति- तानि वै पञ्चेति । (का. श्रौ. सू. ७ । ७९) 5 ॥ ५ ॥
Eggeling
- He offers five libations, because the sacrifice is commensurate to the year, and there are five seasons in the year: thus he gains it (the year) in five (divisions), and therefore he makes five libations.
०६
विश्वास-प्रस्तुतिः
(त्य) अथा᳘तो हो᳘मस्यैव[[!!]]॥
(वा᳘) आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहेत्या वा ऽअ᳘ग्रे कुवते य᳘जेये᳘ति तद्य᳘देवा᳘त्र यज्ञ᳘स्य त᳘दे᳘वैत᳘त्संभृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
(त्य) अथा᳘तो हो᳘मस्यैव[[!!]]॥
(वा᳘) आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहेत्या वा ऽअ᳘ग्रे कुवते य᳘जेये᳘ति तद्य᳘देवा᳘त्र यज्ञ᳘स्य त᳘दे᳘वैत᳘त्संभृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - Weber
अथा᳘तो हो᳘मस्यैव᳟॥
आ᳘कुत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहेत्या वा अ᳘ग्रे कुवते य᳘जेये᳘ति तद्य᳘देवा᳘त्र यज्ञ᳘स्य त᳘देॗवैत᳘त्सम्भृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
अथातो होमस्यैव । “आकूत्यै प्रयुजे ऽग्नये स्वाहा”- (वा. सं. ४ । ७) इति । आ वा अग्रे कुवते- यजेयेति । तद् यदेवात्र यज्ञस्य- तदेवैतत् संभृत्यात्मन् कुरुते ॥ ६ ॥
सायणः
अथातो होमस्यैवेति । मन्त्रा व्याख्यायन्त इति शेषः । ‘अग्रे’ यागानुष्ठानात् पूर्वम् ‘आकुवते’ खलु । ‘कुवन’ 5- शब्देन तत्प्राग्भावी मनोव्यापारो लक्ष्यते । ‘यजेय’- इति संकल्पयतीत्यर्थः । अतो ‘यज्ञस्य’ देवकर्तव्यमङ्गजातं सर्वं ‘सम्भृत्य’ संकल्प्यात्मनैकीकृत्य स्वात्मनि ‘कुरुते’ स्थापयति ॥ ६ ॥
Eggeling
- Now then of the oblation (Vāj. S. IV, 7): ‘To the Purpose, to the Impulse, to Agni, hail!’ At the outset he indeed purposes to sacrifice. What part of the sacrifice (is contained) in this (first libation), that he now collects and makes his own.
०७
विश्वास-प्रस्तुतिः
मेधा᳘यै म᳘नसे ऽग्न᳘ये स्वाहे᳘ति॥
मेध᳘या वै म᳘नसा ऽभि᳘गच्छति य᳘जेये᳘ति तद्य᳘देवा᳘त्र यज्ञ᳘स्य त᳘दे᳘वैत᳘त्सम्भृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
मेधा᳘यै म᳘नसे ऽग्न᳘ये स्वाहे᳘ति॥
मेध᳘या वै म᳘नसा ऽभि᳘गच्छति य᳘जेये᳘ति तद्य᳘देवा᳘त्र यज्ञ᳘स्य त᳘दे᳘वैत᳘त्सम्भृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - Weber
मेधा᳘यै म᳘नसे ऽग्न᳘ये स्वाहे᳘ति॥
मेध᳘या वै म᳘नसाभि᳘गछति य᳘जेये᳘ति तद्य᳘देवा᳘त्र यज्ञ᳘स्य त᳘देॗवैत᳘त्सम्भृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
“मेधायै मनसे ऽग्नये स्वाहा"- (वा. सं. ४ । ७) इति । मेधया वै मनसा ऽभिगच्छति- यजेयेति । तद् यदेवात्र यज्ञस्य- तदेवैतत् सम्भृत्यात्मन्- कुरुते ॥ ७ ॥
सायणः
द्वितीयमन्त्रस्य तात्पर्यमाह- मेधायै मनस इति । मेधयेति । सङ्कल्पितस्यार्थस्य धारयित्री बुद्धिर्मेधा तया, ‘मनसा’ च साधनेन उभाभ्याम् ‘अभिगच्छति’ । यथा कश्चित् प्रथममिदं सम्यगिति सङ्कल्प्य तत्साधनप्रकारविशेषमवबुद्ध्यते, तद्वदित्यर्थः ॥ ७ ॥
Eggeling
- ‘To Wisdom, to Thought, to Agni, hail!’ with wisdom and thought he indeed conceives that he may sacrifice. What part of the sacrifice (is contained) in this (second libation), that he now collects and makes his own.
०८
विश्वास-प्रस्तुतिः
दीक्षा᳘यै त᳘पसे ऽग्न᳘ये स्वाहेति[[!!]]॥
(त्य᳘) अ᳘न्वे᳘वैत᳘दुच्य᳘ते नेत्तु᳘ हूयते॥
मूलम् - श्रीधरादि
दीक्षा᳘यै त᳘पसे ऽग्न᳘ये स्वाहेति[[!!]]॥
(त्य᳘) अ᳘न्वे᳘वैत᳘दुच्य᳘ते नेत्तु᳘ हूयते॥
मूलम् - Weber
दीक्षा᳘यै त᳘पसे ऽग्न᳘ये स्वाहे᳘ति॥
अ᳘न्वेॗवैतदुच्य᳘ते नेत्तु᳘ हूयते॥
मूलम् - विस्वरम्
“दीक्षायै तपसे ऽग्नये स्वाहा”- (वा. सं. ४ । ७) इति । अन्वेवैतदुच्यते, नेत्तु हूयते ॥ ८ ॥
सायणः
तृतीयस्य मन्त्रस्यापि होमसाधनत्वप्रसक्तौ जप्यतामाह- दीक्षाया इति । ‘अनु उच्यते एव’- इति, एवकारतात्पर्यार्थमाह- नेत्त्विति । अत एव कात्यायनः- “तृतीयं जपत्येव”- (का. श्रौ. सू. ७ । ८०) इत्युक्तवान् ॥ ८ ॥
Eggeling
- ‘To Initiation, to Penance, to Agni, hail!’ This is merely uttered, but no libation is made.
०९
विश्वास-प्रस्तुतिः
स᳘रस्वत्यै पू᳘ष्णे ऽग्न᳘ये स्वाहे᳘ति॥
व्वाग्वै स᳘रस्वती व्वा᳘ग्यज्ञः᳘ पश᳘वो वै᳘ पूषा पुष्टिर्व्वै᳘[[!!]] पूषा पु᳘ष्टिः पश᳘वः पश᳘वो हि᳘ यज्ञस्तद्य᳘देवा᳘त्र यज्ञस्य[[!!]] त᳘दे᳘वैत᳘त्सम्भृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - श्रीधरादि
स᳘रस्वत्यै पू᳘ष्णे ऽग्न᳘ये स्वाहे᳘ति॥
व्वाग्वै स᳘रस्वती व्वा᳘ग्यज्ञः᳘ पश᳘वो वै᳘ पूषा पुष्टिर्व्वै᳘[[!!]] पूषा पु᳘ष्टिः पश᳘वः पश᳘वो हि᳘ यज्ञस्तद्य᳘देवा᳘त्र यज्ञस्य[[!!]] त᳘दे᳘वैत᳘त्सम्भृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - Weber
स᳘रस्वत्यै पू᳘ष्णे ऽग्न᳘ये स्वाहे᳘ति॥
वाग्वै स᳘रस्वती वा᳘ग्यज्ञः᳘ पश᳘वो वै᳘ पूषा पु᳘ष्टिर्वै᳘ पूषा पु᳘ष्टिः पश᳘वः पश᳘वो हि᳘ यज्ञस्तद्य᳘देवा᳘त्र यज्ञ᳘स्य त᳘देॗवैत᳘त्सम्भृ᳘त्यात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
“सरस्वत्यै पूष्णे ऽग्नये स्वाहा"- (वा. सं. ४ । ७) इति । वाग्वै सरस्वती । वाग्यज्ञः । पशवो वै पूषा । पुष्टिर्वै पूषा । पुष्टिः पशवः । पशवो हि यज्ञः । तद् यदेवात्र यज्ञस्य- तदेवैतत्सम्भृत्यात्मन्कुरुते ॥ ९ ॥
सायणः
होमे तृतीयं मन्त्रं व्याचष्टे- सरस्वत्या इति । पशवो वा इति । पशूनां पूषत्वम्, पूषगतपुष्टिधर्मसद्भावात्; पूष्णो ऽपि पोषकत्वम् “पोषाँ अपुत्र्यत्”- (तै. सं. ७ । १ । ९ । १ । श. प. का. १४ । ४ । २ । २५ । निरु. १२ । २ । ५ । श. प. ५ । २ । ५ । ७) इत्यादिश्रुतेः सिद्धम् । पशुगतक्षीरादिसाध्यत्वात् ‘पशवो यज्ञः’ ॥ ९ ॥
Eggeling
- ‘To Sarasvatī, to Pūshan, to Agni, hail!’ Now Sarasvatī is speech, and the sacrifice also is speech. And Pūshan represents cattle, because Pūshan means prosperity (pushṭi), and cattle also means prosperity, since the sacrifice means cattle. What part of the sacrifice (is contained) in this (third libation), that he now collects and makes his own.
१०
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र᳘) अ᳘नद्धेवैता ऽआ᳘हुतयो हूयन्ते᳘ ऽप्रतिष्ठिता ऽअदे᳘वकास्त᳘त्र ने᳘न्द्रो न सो᳘मो᳘ नाग्निरिति[[!!]]॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र᳘) अ᳘नद्धेवैता ऽआ᳘हुतयो हूयन्ते᳘ ऽप्रतिष्ठिता ऽअदे᳘वकास्त᳘त्र ने᳘न्द्रो न सो᳘मो᳘ नाग्निरिति[[!!]]॥
मूलम् - Weber
त᳘दाहुः॥
अ᳘नद्धेवैता आ᳘हुतयो हूयन्ते᳘ ऽप्रतिष्ठिता अदे᳘वकास्त᳘त्र ने᳘न्द्रो न सो᳘मोॗ नाग्निरि᳘ति॥
मूलम् - विस्वरम्
तदाहु:- अनद्धेवैता आहुतयो हूयन्ते- अप्रतिष्ठिता, अदेवकाः । तत्र नेन्द्रो, न सोमो नाग्निरिति ॥ १० ॥
सायणः
उक्तमन्त्रत्रये ऽपि ‘अग्नये’ यदस्ति, तत्राग्नेः कः प्रसङ्ग इति तद्दर्शयितुमाह- तदाहुरिति । ’ अनद्धेव अप्रत्यक्षमिव ‘एताः’ तिस्रः आहुतयः ‘हूयन्ते’ । अस्तु को दोष इति तत्राह- अप्रतिष्ठिता इति । किमर्थमप्रतिष्ठिततेति, तत्राह- अदेवका इति । यद्यपि सन्त्याकृत्याद्याः, तथापि तासां देवतात्वेन प्रसिद्ध्यभावादिन्द्रादिना भवितव्यमिति प्रदर्शयति- तत्र नेन्द्र इत्यादि ॥ १० ॥
Eggeling
- As to this they say, ‘These (three) libations are offered indefinitely; they are unestablished, without a god: therein is neither Indra, nor Soma, nor Agni.’
११
विश्वास-प्रस्तुतिः
(त्या᳘) आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहे᳘ति॥
ना᳘त ऽए᳘कं च᳘नाग्निर्वा᳘ ऽअ᳘द्धेवाग्निः प्र᳘तिष्ठितः स य᳘दग्नौ᳘ जुहो᳘ति ते᳘नै᳘वैता᳘ ऽअ᳘द्धेव ते᳘न प्र᳘तिष्ठितास्त᳘स्मादु स᳘र्व्वास्वे᳘वाग्न᳘ये स्वाहे᳘ति जुहोति त᳘त ऽएता᳘न्याधीतयजूᳫँ᳭षीत्या᳘चक्षते॥
मूलम् - श्रीधरादि
(त्या᳘) आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहे᳘ति॥
ना᳘त ऽए᳘कं च᳘नाग्निर्वा᳘ ऽअ᳘द्धेवाग्निः प्र᳘तिष्ठितः स य᳘दग्नौ᳘ जुहो᳘ति ते᳘नै᳘वैता᳘ ऽअ᳘द्धेव ते᳘न प्र᳘तिष्ठितास्त᳘स्मादु स᳘र्व्वास्वे᳘वाग्न᳘ये स्वाहे᳘ति जुहोति त᳘त ऽएता᳘न्याधीतयजूᳫँ᳭षीत्या᳘चक्षते॥
मूलम् - Weber
आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहे᳘ति॥
ना᳘त ए᳘कं चॗनाग्निर्वा᳘ अॗद्धेवाग्निः प्र᳘तिष्ठितः स य᳘दग्नौ᳘ जुहो᳘ति ते᳘नैॗवैता᳘ अॗद्धेव ते᳘न प्र᳘तिष्ठितास्त᳘स्मादु स᳘र्वास्वेॗवाग्न᳘ये स्वाहे᳘ति जुहोति त᳘त एता᳘न्याधीतयजूंषीत्या᳘चक्षते॥
मूलम् - विस्वरम्
आकूत्यै प्रयुजे ऽग्नये स्वाहेति । नात एकं चन । अग्निर्वा । अद्धेवाग्निः प्रतिष्ठितः । स यदग्नौ जुहोति- तेनैवैता अद्धेव । तेन प्रतिष्ठिताः । तस्मादु सर्वास्वेव- अग्नये स्वाहेति- जुहोति । तत एतान्याधीतयजूंषीत्याचक्षते ॥ ११ ॥
सायणः
तत्र प्रसिद्धदेवतानामभावं दर्शयितुमनुवदति- आकूत्या इति । नात एकञ्चनेति । ‘अतः’ अस्माद् आकूत्या इत्येवमादिकाद् वाक्यादेकमपि इन्द्रादिकं देवं नोपलभामहे । इति वदतो ऽयमभिप्रायः- तेषु मन्त्रेषु आकूतिमेधादेः प्रशंसितत्वेनाग्निमतिविहायायमाक्षेप इति । अनद्धात्वपरिहारमाह- अग्निर्वा इति । ‘सः’ यजमानः ‘यत्’ यस्मात् ‘अग्नौ’ प्रत्यक्षेण ‘जुहोति’ अत एव ‘अग्निः अद्धा इव’ प्रत्यक्षमिव, अत एव ‘प्रतिष्ठितः’ च, ‘तेन’ खलु, ‘एताः’ तिस्रो ऽपि ‘अद्धेव’ ‘प्रतिष्ठिताः’ च । तत एतानीति । यत उक्तरीत्या ऽग्न्यादिप्राधान्यम्, तत इत्यर्थः । इत्थमग्निं प्रशस्यावशिष्टाकूतिप्रयुगग्निदेवतात्रयमाध्यानसम्बन्धेन प्रशंसति- तत एतान्याधीतयजूंषीति- इति ॥ ११ ॥
Eggeling
- ‘To the Purpose, to the Impulse, to Agni, hail!’–not any one (god we obtain) from this 6! But Agni surely is definite, Agni is established: when he offers in Agni (the fire), surely those (libations) are thereby made definite, are thereby established: for this reason he offers at all libations with, ‘To Agni, hail!’ Moreover, these libations are called ‘ādhītayajūṁshi.’
१२
विश्वास-प्रस्तुतिः
(त᳘ ऽ) आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहे᳘ति॥
(त्या) आत्म᳘ना वा ऽअ᳘ग्र ऽआ᳘कुवते य᳘जेये᳘ति त᳘मात्म᳘न ऽएव प्र᳘युङ्क्ते य᳘त्तनुते ते᳘ ऽअस्यैते᳘ ऽआत्म᳘न्देव᳘ते ऽआ᳘धीते भवत आ᳘कूतिश्च प्रयु᳘क्च॥
मूलम् - श्रीधरादि
(त᳘ ऽ) आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहे᳘ति॥
(त्या) आत्म᳘ना वा ऽअ᳘ग्र ऽआ᳘कुवते य᳘जेये᳘ति त᳘मात्म᳘न ऽएव प्र᳘युङ्क्ते य᳘त्तनुते ते᳘ ऽअस्यैते᳘ ऽआत्म᳘न्देव᳘ते ऽआ᳘धीते भवत आ᳘कूतिश्च प्रयु᳘क्च॥
मूलम् - Weber
आ᳘कूत्यै प्रयु᳘जे ऽग्न᳘ये स्वाहे᳘ति॥
आत्म᳘ना वा अ᳘ग्र आ᳘कुवते य᳘जेये᳘ति त᳘मात्म᳘न एव प्र᳘युङ्क्ते य᳘त्तनुते ते᳘ अस्यैते᳘ आत्म᳘न्देव᳘ते आ᳘धीते भवत आ᳘कूतिश्च प्रयु᳘क्च॥
मूलम् - विस्वरम्
आकूत्यै प्रयुजे ऽग्नये स्वाहेति । आत्मना वा अग्र आकुवते यजेयेति । तमात्मन एव प्रयुङ्क्ते- यत्तनुते । ते अस्यैते आत्मन्देवते आधीते भवतः- आकूतिश्च प्रयुक्च ॥ १२ ॥
सायणः
आकूत्यै प्रयुज इति । ‘अग्रे’ प्रथमम् ‘आत्मना’ बुद्ध्यैव ‘यजेयेति’ । ‘आ कुवते’ सङ्कल्पयन्ति । ‘तम्’ तत्सङ्कल्पितम् ‘आत्मन एव’ विस्तीर्य ‘प्रयुङ्क्ते’ (भवतः) । प्रयुज्यत इति ‘प्रयुक्’ । उभयोरपि बुद्धिविषयभावादुभे अपि ‘देवते’ आकूतिप्रयुजौ, ‘अस्य’ यजमानस्य ‘आत्मन्’ आत्मनि ‘आधीते’ आध्यानेन विषयीकृते भवतः । आधीतप्रतिपादकत्वात् ‘आधीतयजूंषि’- इत्युच्यन्ते । एवमुत्तरवाक्यान्यपि योज्यानि ॥ १२ ॥ १३ ॥
Eggeling
- ‘To the Purpose, to the Impulse, to Agni, hail!’ he says; for by his own mind he purposes to sacrifice, and from his own mind he impels it (the sacrifice) when he performs it: these two deities the Purpose and the Impulse–are meditated upon (ādhīta) in his mind.
१३
विश्वास-प्रस्तुतिः
मेधा᳘यै म᳘नसे ऽग्न᳘ये स्वाहे᳘ति॥
मेध᳘या वै म᳘नसा ऽभि᳘गच्छति य᳘जेये᳘ति ते᳘ ऽअस्यैते᳘ ऽआत्म᳘न्देव᳘ते ऽआ᳘धीते भवतो मेधा᳘ च म᳘नश्च॥
मूलम् - श्रीधरादि
मेधा᳘यै म᳘नसे ऽग्न᳘ये स्वाहे᳘ति॥
मेध᳘या वै म᳘नसा ऽभि᳘गच्छति य᳘जेये᳘ति ते᳘ ऽअस्यैते᳘ ऽआत्म᳘न्देव᳘ते ऽआ᳘धीते भवतो मेधा᳘ च म᳘नश्च॥
मूलम् - Weber
मेधा᳘यै म᳘नसे ऽग्न᳘ये स्वाहे᳘ति॥
मेध᳘या वै म᳘नसाभि᳘गछति य᳘जेये᳘ति ते᳘ अस्यैते᳘ आत्म᳘न्देव᳘ते आ᳘धीते भवतो मेधा᳘ च म᳘नश्च॥
मूलम् - विस्वरम्
मेधायै मनसे ऽग्नये स्वाहेति । मेधया वै मनसा ऽभिगच्छति- यजेयेति । ते अस्यैते आत्मन्देवते आधीते भवतो- मेधा च मनश्च ॥ १३ ॥
सायणः
[व्याख्यानं द्वादशे]
Eggeling
- ‘To Wisdom, to Thought, to Agni, hail!’ he says; for with wisdom and thought he indeed conceives that he may sacrifice: these two deities–
Wisdom and Thought–are meditated upon in his mind.
१४
विश्वास-प्रस्तुतिः
स᳘रस्वत्यै पू᳘ष्णे ऽग्न᳘ये स्वाहे᳘ति॥
व्वाग्वै स᳘रस्वती व्वा᳘ग्य᳘ज्ञः सा ऽस्यै᳘षा ऽऽत्म᳘न्देवता᳘ ऽऽधीता भवति व्वा᳘क्पश᳘वो वै᳘ पूषा पु᳘ष्टिर्व्वै᳘ पूषा पु᳘ष्टिः पश᳘वः पश᳘वो हि᳘ यज्ञ᳘स्ते ऽस्यैत᳘ ऽआत्म᳘न्पश᳘व आ᳘धीता भवन्ति तद्य᳘दस्यैता᳘ ऽआत्म᳘न्देव᳘ता ऽआ᳘धीता भ᳘वन्ति त᳘स्मादाधीतयजू᳘ᳫं᳘षि नाम[[!!]]॥
मूलम् - श्रीधरादि
स᳘रस्वत्यै पू᳘ष्णे ऽग्न᳘ये स्वाहे᳘ति॥
व्वाग्वै स᳘रस्वती व्वा᳘ग्य᳘ज्ञः सा ऽस्यै᳘षा ऽऽत्म᳘न्देवता᳘ ऽऽधीता भवति व्वा᳘क्पश᳘वो वै᳘ पूषा पु᳘ष्टिर्व्वै᳘ पूषा पु᳘ष्टिः पश᳘वः पश᳘वो हि᳘ यज्ञ᳘स्ते ऽस्यैत᳘ ऽआत्म᳘न्पश᳘व आ᳘धीता भवन्ति तद्य᳘दस्यैता᳘ ऽआत्म᳘न्देव᳘ता ऽआ᳘धीता भ᳘वन्ति त᳘स्मादाधीतयजू᳘ᳫं᳘षि नाम[[!!]]॥
मूलम् - Weber
स᳘रस्वत्यै पूॗष्णे ऽग्न᳘ये स्वाहे᳘ति॥
वाग्वै स᳘रस्वती वा᳘ग्यॗज्ञः सास्यैॗषात्म᳘न्देवता᳘धीता भवति वा᳘क्पश᳘वो वै᳘ पूषा पु᳘ष्टिर्वै᳘ पूषा पु᳘ष्टिः पश᳘वः पश᳘वो हि᳘ यज्ञॗस्ते ऽस्यैत᳘ आत्म᳘न्पश᳘व आ᳘धीता भवन्ति तद्य᳘दस्यैता᳘ आत्म᳘न्देव᳘ता आ᳘धीता भ᳘वन्ति त᳘स्मादाधीतयजूं᳘षि ना᳘म॥
मूलम् - विस्वरम्
सरस्वत्यै पूष्णे ऽग्नये स्वाहेति । वाग्वै सरस्वती । वाग्यज्ञः । सा ऽस्यैषा ऽऽत्मन्देवता ऽऽधीता भवति- वाक् । पशवो वै पूषा । पुष्टिर्वै पूषा पुष्टिः पशवः । पशवो हि यज्ञः । ते ऽस्यैत आत्मन्पशव आधीता भवन्ति । तद्यदस्यैता आत्मन्देवता आधीता भवन्ति- तस्मादाधीतयजूंषि नाम ॥ १४ ॥
सायणः
सरस्वत्यै पूष्ण इति । अत्र ‘पूषन्’ शब्दवाच्यानां पशूनां बहुत्वात्पृथङ्निर्द्दिश्यते । पशवो वा इत्यादि । प्राग् व्याख्यातम् ॥ १४ ॥
Eggeling
- ‘To Sarasvatī, to Pūshan, to Agni, hail!’ he says; for Sarasvatī is speech, and the sacrifice also is speech: this deity–Speech–is meditated upon in his mind. Pūshan, on the other hand, means cattle, for Pūshan means prosperity (pushṭi), and cattle means prosperity, since the sacrifice means cattle: hence cattle-are meditated upon in his mind. And because these deities are meditated upon (ā-dhīta) in his mind, therefore (these libations) are called ādhītayajūṁshi.
१५
विश्वास-प्रस्तुतिः
(मा᳘) अ᳘थ चतुर्थीं᳘ जुहोति॥
(त्या᳘) आ᳘पो देवीर्बृहतीर्व्विश्वशम्भुवो द्या᳘वापृथिवी ऽउ᳘रो ऽअन्तरिक्ष॥ बृ᳘हस्प᳘तये हवि᳘षा व्विधेम स्वाहे᳘त्येषा᳘ ह ने᳘दीयो यज्ञ᳘स्यापाᳫं हि᳘ कीर्त᳘यत्या᳘पो हि᳘ यज्ञो द्या᳘वापृथिवी ऽउ᳘रो ऽअन्तरिक्षे᳘ति लोका᳘नाᳫं᳭ हि᳘ कीर्त᳘यति बृ᳘हस्प᳘तये हवि᳘षा व्विधेम स्वाहे᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्म यज्ञ᳘ एते᳘नो हैषा ने᳘दीयो यज्ञस्य[[!!]]॥
मूलम् - श्रीधरादि
(मा᳘) अ᳘थ चतुर्थीं᳘ जुहोति॥
(त्या᳘) आ᳘पो देवीर्बृहतीर्व्विश्वशम्भुवो द्या᳘वापृथिवी ऽउ᳘रो ऽअन्तरिक्ष॥ बृ᳘हस्प᳘तये हवि᳘षा व्विधेम स्वाहे᳘त्येषा᳘ ह ने᳘दीयो यज्ञ᳘स्यापाᳫं हि᳘ कीर्त᳘यत्या᳘पो हि᳘ यज्ञो द्या᳘वापृथिवी ऽउ᳘रो ऽअन्तरिक्षे᳘ति लोका᳘नाᳫं᳭ हि᳘ कीर्त᳘यति बृ᳘हस्प᳘तये हवि᳘षा व्विधेम स्वाहे᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्म यज्ञ᳘ एते᳘नो हैषा ने᳘दीयो यज्ञस्य[[!!]]॥
मूलम् - Weber
अ᳘थ चतुर्थी᳘ जुहोति॥
आ᳘पो देवीर्बृहतीर्विश्वशम्भुवो द्या᳘वापृथिवी उ᳘रो अन्तरिक्ष बृ᳘हस्प᳘तये हवि᳘षा विधेम स्वाहे᳘त्येषा᳘ ह ने᳘दीयो यज्ञ᳘स्यापाᳫं हि᳘ कीर्तयत्यापो हि᳘ यज्ञो द्या᳘वापृथिवी उ᳘रो अन्तरिक्षे᳘ति लोका᳘नाᳫं हि᳘ कीर्त᳘यति बृ᳘हस्प᳘तये हवि᳘षा विधेम स्वाहे᳘ति ब्र᳘ह्म वै बृ᳘हस्प᳘तिर्ब्र᳘ह्म यज्ञ᳘ एते᳘नो हैषा ने᳘दीयो यज्ञ᳘स्य॥
मूलम् - विस्वरम्
अथ चतुर्थी जुहोति- “आपोदेवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उरो ऽअन्तरिक्ष ॥ बृहस्पतये हविषा विधेम स्वाहा"- (वा. सं. ४ । ७) इति । एषा ह नेदीयो यज्ञस्य । अपां हि कीर्तयति । आपो हि यज्ञः । द्यावापृथिवी उरो अन्तरिक्षेति । लोकानां हि कीर्तयति । बृहस्पतये हविषा विधेम स्वाहेति । ब्रह्म वै बृहस्पतिः । ब्रह्म यज्ञः । एतेनो हैषा नेदीयो यज्ञस्य ॥ १५ ॥
सायणः
इत्थमाधीतत्वसमानधर्मसम्भवादाहुतित्रयं पृथग्विधाय, प्रशस्य च चतुर्थीमाहुतिं तन्मन्त्रं च विधत्ते- अथ चतुर्थीमित्यादि । मन्त्रवाक्यानि क्रमेणोदाहृत्य व्याचष्टे- एषा हेति । ‘एषा’ ऋगित्यर्थः । ‘यज्ञस्य’ ‘नेदीयः’ अत्यन्तं सन्निहितम् । कथम् ? यस्मात् ‘एषा अपां कीर्तयति’ तस्मान्नेदीयः । तत्कीर्तनेन यज्ञं प्रति कथं नेदीयस्त्वमिति तत्राह- आपो हीति । अभिषवसंयवनादिसाधनत्वादपां यज्ञत्वम् । स्पष्टमन्यत् ॥
उक्ताहुतिचतुष्टयस्याज्यस्थाल्याः स्रुवेण होमः । तथा च सूत्रम्- “औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाहुत्यै प्रतिमन्त्रम्” (का. श्रौ. सू. ७ । ७९) इति ॥ १५ ॥
Eggeling
- He then offers the fourth libation, with the text, ‘Ye divine, vast, all-soothing Waters! Heaven and Earth, wide Ether! let us render homage unto Br̥haspati with offering, hail!’ This (libation) truly is nearer to the sacrifice, since he praises the waters, and water is sacrifice. ‘Heaven and Earth! wide Ether!’ he says, because he thereby praises the worlds. ‘Let us render homage unto Br̥haspati, with offering, hail!’ he says; for Br̥haspati is the Brahman, and the sacrifice also is the Brahman: for this reason also this (libation) is nearer to the sacrifice.
१६
विश्वास-प्रस्तुतिः
(स्या᳘) अ᳘थ यां᳘ पञ्चमी᳘ᳫं᳘ स्रुचा᳘ जुहो᳘ति॥
सा᳘ हैव[[!!]] प्रत्य᳘क्षं य᳘ज्ञो ऽनुष्टु᳘भा हि तां᳘ जुहोति[[!!]] व्वा᳘ग्घ्यनुष्टुब्वाग्घि᳘[[!!]] यज्ञः[[!!]]॥
मूलम् - श्रीधरादि
(स्या᳘) अ᳘थ यां᳘ पञ्चमी᳘ᳫं᳘ स्रुचा᳘ जुहो᳘ति॥
सा᳘ हैव[[!!]] प्रत्य᳘क्षं य᳘ज्ञो ऽनुष्टु᳘भा हि तां᳘ जुहोति[[!!]] व्वा᳘ग्घ्यनुष्टुब्वाग्घि᳘[[!!]] यज्ञः[[!!]]॥
मूलम् - Weber
अ᳘थ या᳘म् पञ्चमी᳘ᳫं᳘ स्रुचा᳘ जुहो᳘ति॥
सा᳘ हैव᳘ प्रत्य᳘क्षं यॗज्ञो ऽनुष्टु᳘भा हि तां᳘ जुहो᳘ति वाग्घ्य᳘नुष्टुब्वाग्घि᳘ यज्ञः᳟॥
मूलम् - विस्वरम्
अथ यां पञ्चमीं स्रुचा जुहोति । सा हैव प्रत्यक्षं यज्ञः । अनुष्टुभा हि तां जुहोति । वाग्घ्यनुष्टुप् वाग्घि यज्ञः ॥ १६ ॥
सायणः
अथ यां पञ्चमीमिति । स्पष्टम् ॥ १६ ॥
Eggeling
- But the fifth libation which he makes with the offering-spoon (sruc), doubtless is the veritable sacrifice; for he offers it with an anushṭubh (verse), and the anushṭubh is speech and so is the sacrifice.
१७
विश्वास-प्रस्तुतिः
(ज्ञो᳘ ऽथ) अ᳘थ य᳘द्ध्रुवायामा᳘ज्यं[[!!]] प᳘रिशिष्टं भ᳘वति॥
त᳘ज्जुह्वामा᳘नयति त्रिः᳘ स्रुवे᳘णाज्यविला᳘पन्या ऽअ᳘धि जुह्वां᳘ गृह्णाति य᳘त्तृती᳘यं गृह्णा᳘ति त᳘त्स्रुव᳘मभि᳘पूरय᳘ति॥
मूलम् - श्रीधरादि
(ज्ञो᳘ ऽथ) अ᳘थ य᳘द्ध्रुवायामा᳘ज्यं[[!!]] प᳘रिशिष्टं भ᳘वति॥
त᳘ज्जुह्वामा᳘नयति त्रिः᳘ स्रुवे᳘णाज्यविला᳘पन्या ऽअ᳘धि जुह्वां᳘ गृह्णाति य᳘त्तृती᳘यं गृह्णा᳘ति त᳘त्स्रुव᳘मभि᳘पूरय᳘ति॥
मूलम् - Weber
अ᳘थ य᳘द्ध्रुवा᳘यामा᳘ज्यम् प᳘रिशिष्टम् भवति॥
त᳘ज्जुह्वामा᳘नयति त्रिः᳘ स्रुवे᳘णाज्यविला᳘पन्या अ᳘धि जुह्वां᳘ गृह्णाति य᳘त्तृती᳘यं गृह्णा᳘ति त᳘त्स्रुव᳘मभि᳘पूरयति॥
मूलम् - विस्वरम्
अथ यद् ध्रुवायामाज्यं परिशिष्टं भवति- तज्जुह्वामानयति । त्रिः स्रुवेणाज्यविलापन्या अधिजुह्वां गृह्णाति । यत्तृतीयं गृह्णाति- तत्स्रुवमभिपूरयति ॥ १७ ॥
सायणः
पञ्चमस्य द्रव्यमाह- अथ यद् ध्रुवायामाज्यं परिशिष्टमित्यादिना । अयमर्थः । दीक्षणीयेष्टेः सम्बन्धि ‘यदाज्यम्’ ‘ध्रुवायाम्’ अवशिष्टम्, ‘तत्’ पञ्चमाहुत्यर्थं ‘जुह्वाम्’ अवनयेत् । एतदेकमवत्तम् । अथाज्यस्थाल्याः सकाशात् ‘स्रुवेण’ जुह्वामुपरि ‘त्रिः’ निनयति 7 । एवं चतुरवत्तं भवति । तत्र ‘यत्’ ‘तृतीयम्’, ‘तत्’ ‘आज्यविलापन्या अधि’ जुह्वा उपरि उत्तानं स्रुवं निधाय यथा पूर्णं भवति तथा स्रुवस्याभित आज्येन पूरयेत् । तथा च सूत्रम्- “जुह्वां ध्रौवमासिच्य द्विश्च स्थाल्याः स्रुवेण तृतीयं स्रुवमभिपूरयति विश्वो देवस्येति"- (का. श्रौ. सू. ७ । ८१) इति ॥ १७ ॥
Eggeling
- In the first place he pours the butter, which remains in the dhruvā, into the juhū. He then ladles with the sruva three times butter from the melting-pot into the juhū: with what he takes the third time he fills the sruva 8.
१८
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
व्वि᳘श्वो देव᳘स्य नेतुर्म्म᳘र्तो व्वुरीत सख्यम्[[!!]]॥ वि᳘श्वो राय᳘ इषुध्यति द्युम्नं᳘ वृणीत पुष्य᳘से स्वाहे᳘ति᳘॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
व्वि᳘श्वो देव᳘स्य नेतुर्म्म᳘र्तो व्वुरीत सख्यम्[[!!]]॥ वि᳘श्वो राय᳘ इषुध्यति द्युम्नं᳘ वृणीत पुष्य᳘से स्वाहे᳘ति᳘॥
मूलम् - Weber
स᳘ जुहोति॥
वि᳘श्वो देव᳘स्य नेतुर्म᳘र्तो वुरीत सख्य᳘म् वि᳘श्वो राय᳘ इषुध्यति द्युम्नं᳘ वृणीत पुष्य᳘से स्वाहे᳘ति॥
मूलम् - विस्वरम्
स जुहोति- “विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् । विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे स्वाहा"- (वा. सं. ४ । ८) इति ॥ १८ ॥
सायणः
पञ्चमस्य मन्त्रमाह- स जुहोति विश्वो देवस्येति । (का. श्रौ. सू. ७ । ८१) ॥ १८॥
Eggeling
- He offers, with the text (Vāj. S. IV, 8; Rig-veda V, 50, I), ‘May every mortal espouse the friendship of the divine guide! every one prayeth for wealth: let him choose glory, that he may prosper, hail!’
१९
विश्वास-प्रस्तुतिः
सैषा᳘ देव᳘ताभिः पङ्क्तिर्भवति[[!!]]॥
व्वि᳘श्वो देवस्ये᳘ति व्वै᳘श्वदेवं᳘ नेतुरि᳘ति सावित्रं म᳘र्तो व्वुरीते᳘ति मैत्रं᳘ द्युम्नं᳘ व्वृणीते᳘ति बार्हस्पत्यं᳘ द्युम्नᳫँ᳭ हि बृ᳘हस्प᳘तिः पुष्य᳘स ऽइ᳘ति पौष्ण᳘म्॥
मूलम् - श्रीधरादि
सैषा᳘ देव᳘ताभिः पङ्क्तिर्भवति[[!!]]॥
व्वि᳘श्वो देवस्ये᳘ति व्वै᳘श्वदेवं᳘ नेतुरि᳘ति सावित्रं म᳘र्तो व्वुरीते᳘ति मैत्रं᳘ द्युम्नं᳘ व्वृणीते᳘ति बार्हस्पत्यं᳘ द्युम्नᳫँ᳭ हि बृ᳘हस्प᳘तिः पुष्य᳘स ऽइ᳘ति पौष्ण᳘म्॥
मूलम् - Weber
सैषा᳘ देव᳘ताभिः पङ्क्ति᳘र्भवति॥
वि᳘श्वो देवस्ये᳘ति वैश्वदेवं᳘ नेतुरि᳘ति सावित्रम् म᳘र्तो वुरीते᳘ति मैत्रं᳘ द्युम्नं᳘ वृणीते᳘ति बार्हस्पत्यं᳘ द्युम्नᳫं हि बृ᳘हस्प᳘तिः पुष्य᳘स इ᳘ति पौष्ण᳘म्॥
मूलम् - विस्वरम्
सैषा देवताभिः पङ्क्तिर्भवति । विश्वो देवस्येति वैश्वदेवम् (१) । नेतुरिति सावित्रम् (२ ।) मर्त्तो वुरीतेति मैत्रम् (३) । द्युम्नं वृणीतेति बार्हस्पत्यम् (४) । द्युम्नं हि बृहस्पतिः । पुष्यसे इति पौष्णम् (५) ॥ १९ ॥
सायणः
तं प्रशंसति- सैषा देवताभिरिति । “पञ्चाक्षरा पङ्क्तिः” (तै. ब्रा. २ । ७ । १० । २)- इति श्रुतेः पञ्चसङ्ख्यासम्बन्धात् ‘एषा’ ‘पङ्क्तिर्भवति’ । तद्योजयति- विश्वो देवस्य इति । विश्वदेवशब्दश्रवणात् ‘इदं’ मन्त्रवाक्यं ‘वैश्वदेवं’ । नयनस्य सवितृव्यापारत्वात् ‘नेतृ’- शब्दश्रवणात् ‘सावित्रम्’ । ‘मर्तो वुरीत’ इत्येतेन मनुष्यैर्वरणीयत्वाभिधानात् ‘मैत्रम्’; मित्रस्य हि वरणीयत्वं प्रसिद्धम् । मैत्रत्वं बार्हस्पत्यमन्त्रेषु ‘द्रविणं धेहि चित्रम्’- इति द्युम्नसमानार्थस्य द्रविणस्य दाने बृहस्पतिसम्बन्धश्रवणात् द्युम्नं वृणीत- इत्यनेन बार्हस्पत्यम् । ‘पुष्यसे’- इति पोषणधर्मश्रवणत्- ‘पौष्णम्’ इति ॥ १९ ॥
Eggeling
- Now this (verse and libation) consists of five parts in respect of deities 9: ‘viśvo devasya’ refers to the Viśve Devāḥ; ’netur’ to Savitr̥; ‘marto vurīta’ to Mitra; ‘dyumnaṁ vr̥ṇīta’ to Br̥haspati, since Br̥haspati means dyumna (glory); and ‘pushyase’ (for prospering) refers to Pūshan.
२०
विश्वास-प्रस्तुतिः
(ᳫँ᳘) सैषा᳘ देव᳘ताभिः पङ्क्ति᳘र्भवति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘स्यैतमे᳘वैत᳘या ऽऽप्नोति[[!!]] य᳘द्देव᳘ताभिः पङ्क्तिर्भ᳘वति॥
मूलम् - श्रीधरादि
(ᳫँ᳘) सैषा᳘ देव᳘ताभिः पङ्क्ति᳘र्भवति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘स्यैतमे᳘वैत᳘या ऽऽप्नोति[[!!]] य᳘द्देव᳘ताभिः पङ्क्तिर्भ᳘वति॥
मूलम् - Weber
सैषा᳘ देव᳘ताभिः पङ्क्ति᳘र्भवति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संवत्सर᳘स्यैत᳘मेॗवैत᳘याप्नोति य᳘द्देव᳘ताभिः पङ्क्तिर्भ᳘वति॥
मूलम् - विस्वरम्
सैषा देवताभिः पङ्क्तिर्भवति । पाङ्क्तो यज्ञः । पाङ्क्तः पशुः । पञ्चर्तवः संवत्सरस्य । एतमेवैतया ऽऽप्नोति- यद्देवताभिः पङ्क्तिर्भवति ॥ २० ॥
सायणः
सैषेति । देवताभिः पङ्क्तित्वं भवति । ततः किमित्यत आह- पाङ्क्तो यज्ञ इत्यादिना ॥ २० ॥
Eggeling
- This (libation), then, consists of five parts, in respect of deities;–fivefold is the sacrifice, fivefold the animal victim, and five seasons there are in the year: the latter he accordingly gains by this (libation) consisting of five parts in respect of deities.
२१
विश्वास-प्रस्तुतिः
तां वा᳘ ऽअनुष्टु᳘भा जुहोति॥
व्वाग्वा᳘ ऽअनुष्टुब्वा᳘ग्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति॥
मूलम् - श्रीधरादि
तां वा᳘ ऽअनुष्टु᳘भा जुहोति॥
व्वाग्वा᳘ ऽअनुष्टुब्वा᳘ग्यज्ञस्त᳘द्यज्ञं᳘ प्रत्य᳘क्षमाप्नोति॥
मूलम् - Weber
तां वा᳘ अनुष्टु᳘भा जुहोति॥
वाग्वा᳘ अनुष्टुब्वा᳘ग्यज्ञस्त᳘द्यज्ञ᳘म् प्रत्य᳘क्षमाप्नोति॥
मूलम् - विस्वरम्
तां वा अनुष्टुभा जुहोति । वाग्वा अनुष्टुब् । वाग्यज्ञः । तद्यज्ञं प्रत्यक्षमाप्नोति ॥ २१ ॥
सायणः
अथ छन्दोद्वारा प्रशंसति- तां वा अनुष्टुभेति ॥ २१ ॥
Eggeling
- He offers this libation with an anushṭubh verse, because the anushṭubh is speech, and the sacrifice is speech; so that he thereby obtains the real sacrifice.
२२
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(रे) एता᳘मेवै᳘कां जुहुयाद्य᳘स्मै का᳘माये᳘तरा हूय᳘न्त ऽएत᳘यैव तं का᳘ममाप्नोती᳘ति तां वै यद्ये᳘कां जुहुया᳘त्पूर्णां᳘ जुहुयात्स᳘र्व्वं वै[[!!]] पूर्णᳫँ᳭ स᳘र्व्वमे᳘वैनयैत᳘दाप्नोत्य᳘थ य᳘त्स्रुव᳘मभिपूर᳘यति स्रु᳘चं त᳘दभि᳘पूरयति तां᳘ पूर्णां᳘ जुहोत्य᳘न्वै᳘वैत᳘दुच्य᳘ते स᳘र्व्वा᳘स्त्वेव᳘ हूयन्ते॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(रे) एता᳘मेवै᳘कां जुहुयाद्य᳘स्मै का᳘माये᳘तरा हूय᳘न्त ऽएत᳘यैव तं का᳘ममाप्नोती᳘ति तां वै यद्ये᳘कां जुहुया᳘त्पूर्णां᳘ जुहुयात्स᳘र्व्वं वै[[!!]] पूर्णᳫँ᳭ स᳘र्व्वमे᳘वैनयैत᳘दाप्नोत्य᳘थ य᳘त्स्रुव᳘मभिपूर᳘यति स्रु᳘चं त᳘दभि᳘पूरयति तां᳘ पूर्णां᳘ जुहोत्य᳘न्वै᳘वैत᳘दुच्य᳘ते स᳘र्व्वा᳘स्त्वेव᳘ हूयन्ते॥
मूलम् - Weber
त᳘दाहुः॥
एता᳘मेवै᳘कां जुहुयाद्य᳘स्मै का᳘माये᳘तरा हूय᳘न्त एत᳘यैव तं का᳘ममाप्नोती᳘ति तां वै यद्ये᳘कां जुहुया᳘त्पूर्णां᳘ जुहुयात्स᳘र्वं वै᳘ पूर्णᳫं स᳘र्वमेॗवैनयैत᳘दाप्नोत्य᳘थ य᳘त्स्रुव᳘मभिपूर᳘यति स्रु᳘चं त᳘दभि᳘पूरयति ता᳘म् पूर्णां᳘ जुहोत्य᳘न्वैॗवैत᳘दुच्य᳘ते स᳘र्वाॗस्त्वेव᳘ हूयन्ते॥
मूलम् - विस्वरम्
तदाहु:- एतामेवैकां जुहुयात्। यस्मै कामायेतरा हूयन्ते- एतयैव तं काममाप्नोतीति । तां वै यद्येकां जुहुयात्- पूर्णां जुहुयात् । सर्वं वै पूर्णम् । सर्वमेवैनयैतदाप्नोति । अथ यत् स्रुवमभिपूरयति- स्रुचं तदभिपूरयति । तां पूर्णां जुहोति । अन्वेवैतदुच्यते । सर्वास्त्वेव हूयन्ते ॥ २२ ॥
सायणः
इत्थं पञ्चानामाहुतीनां समुच्चयपक्षमुक्त्वा पञ्चमीमेवैकां जुहुयादिति केषाञ्चित् पक्षमाह- तदाहुरिति । इतराभ्यो यत् फलं तस्यैकयैव सिद्धेरकामे ‘एतामेव’ ‘जुहुयात्’ तत्रापि पूर्णां कृत्वा ‘जुहुयात्’ पूर्णाहुतिं कुर्यादित्यर्थः । यत् ‘पूर्णम्’ तदन्यूनत्वेन ‘सर्वम्’ अतस्तेन सर्वं फलमाप्नोति । ‘यत्’ यदा पूर्णाहुतिसमये ‘स्रुवम्’ अभिपूरयेत्, ‘तत्’ तदा, स्रुवेणैव होममकृत्वा आज्येन ‘स्रुचम्’ अभिपूरयेत् । तथा कृत्वा ‘ताम्’ आहुतिं पूर्णाहुतिं कृत्वा जुहुयात् । तथा च सूत्रम्- “एतामेव वा पूर्णां जुहुयात्"- (का. श्रौ. सू. ७ । ८२) इति ॥ २२ ॥
Eggeling
- As to this they say, ‘Let him offer only this one: for whatever object the others are offered, that object he gains even by this one.’ And, indeed 10, if
he offers only this one, he would offer a full-offering; and the full means everything: hence he gains everything by this (oblation). And by filling the dipping-spoon (sruva), he fills the offering-spoon (juhū), and the latter he offers full. This, however, is a mere statement (of others’ views) 11, but all (five) libations are offered.
२३
विश्वास-प्रस्तुतिः
तां वा᳘ ऽअनुष्टु᳘भा जुहोति᳘॥
सै᳘षा ऽनुष्टुप्सत्ये᳘कत्रिᳫँ᳭शदक्षरा भवति द᳘श पा᳘ण्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा᳘ आ᳘त्मैकत्रिᳫँ᳭शो यस्मिन्नेते᳘[[!!]] प्राणाः प्र᳘तिष्ठिता ऽएता᳘वान्वै पु᳘रुषः पु᳘रुषो यज्ञः पु᳘रुषसंमितो यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनयैत᳘दाप्नोति य᳘दनुष्टुभै᳘कत्रिᳫँ᳭शदक्षरया जुहो᳘ति॥
मूलम् - श्रीधरादि
तां वा᳘ ऽअनुष्टु᳘भा जुहोति᳘॥
सै᳘षा ऽनुष्टुप्सत्ये᳘कत्रिᳫँ᳭शदक्षरा भवति द᳘श पा᳘ण्या ऽअङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा᳘ आ᳘त्मैकत्रिᳫँ᳭शो यस्मिन्नेते᳘[[!!]] प्राणाः प्र᳘तिष्ठिता ऽएता᳘वान्वै पु᳘रुषः पु᳘रुषो यज्ञः पु᳘रुषसंमितो यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमे᳘वैनयैत᳘दाप्नोति य᳘दनुष्टुभै᳘कत्रिᳫँ᳭शदक्षरया जुहो᳘ति॥
मूलम् - Weber
तां वा᳘ अनुष्टु᳘भा जुहोति᳟॥
सैॗषानुष्टु᳘प्सत्ये᳘कत्रिंशदक्षरा भवति द᳘श पाॗण्या अङ्गु᳘लयो द᳘श पा᳘द्या द᳘श प्राणा᳘ आॗत्मैकत्रिंशो य᳘स्मिन्नेते᳘ प्राणाः प्र᳘तिष्ठिता एता᳘वान्वै पु᳘रुषः पु᳘रुषो यज्ञः पु᳘रुषसम्मितो यज्ञः स या᳘वानेव᳘ यज्ञो या᳘वत्यस्य मा᳘त्रा ता᳘वन्तमेॗवैनयैत᳘दाप्नोति य᳘दनुष्टुभै᳘कत्रिंशदक्षरया जुहो᳘ति॥
मूलम् - विस्वरम्
तां वा अनुष्टुभा जुहोति । सैषा ऽनुष्टुप्सत्येकत्रिंशदक्षरा भवति । दश पाण्या अंगुलयः, दश पाद्याः, दश प्राणाः, आत्मैकत्रिंशः- यस्मिन्नेते प्राणाः प्रतिष्ठिताः । एतावान्वै पुरुषः । पुरुषो यज्ञः । पुरुषसंमितो यज्ञः । स यावानेव यज्ञो, यावत्यस्य मात्रा- तावन्तमेवैनयैतदाप्नोति- यदनुष्टुभैकत्रिंशदक्षरया जुहोति ॥ २३ ॥
इत्यौद्ग्रभणहोमः ।
सायणः
अक्षरसङ्ख्याद्वारा तं मन्त्रं प्रशंसति तं वा अनुष्टुभेति । दश प्राणाः इति । शीर्षगतसप्तच्छिद्रस्थाः सप्त प्राणाः, अवाञ्चौ द्वौ, इत्यसाधारणा नव; मुख्यप्राणस्त्वेकः; इति प्राणानां दशत्वम् । ‘आत्मा’ देहः । ‘एकत्रिंशः’ पुरुषः । ‘एतावान्’ एकत्रिंशदात्मकः । ‘पुरुषो यज्ञः’- इत्यस्योपपादनम्- पुरुषसम्मितो यज्ञ इति । यज्ञस्य पुरुषसम्मितत्वमुपरिष्टाद् वक्ष्यते (श. प. कां. ३ अ. ५ ब्रा. ३ कं. १-६) ‘यावानेव यज्ञः’ इत्यस्य विवरणं- यावत्यस्य मात्रेति । ‘अस्य’ यज्ञस्य ‘मात्रा’ । मीयत इति मात्रा, अवयवसमष्टिः, एकत्रिंशदात्मिका । अनया “विश्वो देवस्य”- (श. प. कां ३ अ. १ ब्रा ४ कं १८) इत्यनया ‘तावन्तमेव’ यज्ञम् ‘आप्नोति’ ॥ २३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे प्रथमाध्याये चतुर्थं त्राह्मणम् ॥ (३-१-४)
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजाः, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीर हरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाग्ये तृतीयकाण्डे प्रथमो ऽध्यायः समाप्तः ॥ १ ॥
Eggeling
- He offers this one with an anushṭubh verse. Being an anushṭubh verse, it consists of thirty-one syllables. Now there are ten fingers, ten toes, ten vital airs, and the thirty-first is the body wherein those vital airs are contained; for this much constitutes man, and the sacrifice is a man, the sacrifice is of the same proportion as a man [^egg_76]. Thus, whatever the extent of the sacrifice, whatever its measure, to that extent he takes possession of it by means of this (libation), when he offers it with an anushṭubh verse of thirty-one syllables.
-
उद्गृह्णीते Sây. ↩︎
-
20:1 While all the formulas of the Dīkshā are supposed to be of an ’elevatory (audgrabhaṇa)’ character, the designation ‘audgrabhaṇāni (yagūṁshi, or elevatory formulas)’ is specially applied to the five libations described in the succeeding paragraphs. The Kāṇva text reads,–atha yad etāny avāntarām audgrabhaṇānīty ākhyāyanta āhutayo hy etā āhutir by eva yajñaḥ paroksham iva hi tad yad yajur japaty etena hi tad yajñenodgr̥bhṇīte. ↩︎
-
20:2 I.e. yajus for some ‘meditated’ object. ↩︎
-
21:1 Sam-bhr̥; on the technical meaning of this verb (to equip, prepare) and the noun sambhāra, see part i, p. 276, note 1. ↩︎
-
औद्ग्रभणानि जुहोति स्थाल्याः स्रुवेणाकूत्या इति प्रतिमंत्रम् । ↩︎ ↩︎
-
22:1 This last sentence has probably to be taken ironically. In the Kāṇva text it seems to form part of the objection raised: Sa yat sarveshv agnaye svāheti juhoty anaddheva vā etā āhutayo hūyante ’pratishṭḥitā iva na hi kasyai cana devatkyai hūyante || ākutyai prayuja iti tan nāgnir nendro na somo, medhāyai manasa iti nāto ’nyatarac canaivam eva sarveshv, agnir uvā addhā . . . ↩︎
-
‘त्रिरानयति’ । इति क्व० पा० । ↩︎
-
23:1 The third time he holds the sruva over the juhū and pours ghee from the pot into the sruva, so as to fill it; after which he pours it from the sruva into the juhū. Kāty. VII, 3, 18 comm. ↩︎
-
24:1 The Taitt. S. (VI, 1, 2, 5) divides the couplet into its four pādas, which it assigns to Savitr̥, the Fathers, the Viśve Devāḥ, and Pūshan respectively. The various reading ‘viśve’ of the Black Yajus, instead of ‘viśvaḥ,’ is very remarkable. ↩︎
-
24:2 The author here states, in his own words, the reasons (by ‘vai’) which have led the teachers referred to to maintain that by offering this one oblation one gains all the objects in view. The Kāṇva text includes the entire passage regarding the fivefold division of the formula and oblation (pars. 19-21) in the argument of those teachers. For a detailed description of the pūrṇāhuti, or full-offering, see part i, p. 302, note 2. A similar view, that the full-offering renders other oblations unnecessary, is there given (II, 2, 1, 5). ↩︎
-
25:1 Saishā mīmāṁsaiva, ‘This, however, is mere speculation,’ Kāṇva recension. ↩︎