०१
विश्वास-प्रस्तुतिः
अपः᳘ प्रणी᳘य॥
(या) आग्नावैष्णवमे᳘कादशकपा᳘लं पुरोडा᳘शं नि᳘र्व्वपत्यग्निर्वै स᳘र्व्वा देव᳘ता ऽअग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वत्यग्निर्वै᳘ यज्ञ᳘स्यावरा᳘र्ध्यो व्वि᳘ष्णुः परा᳘र्ध्यस्तत्स᳘र्व्वाश्चै᳘वैत᳘द्देव᳘ताः[[!!]] परिगृ᳘ह्य स᳘र्व्वं च यज्ञं᳘ परिगृ᳘ह्य दीक्षा ऽइ᳘ति त᳘स्मादाग्नावैष्णव ऽए᳘कादशकपालः पुरोडा᳘शो भवति॥
मूलम् - श्रीधरादि
अपः᳘ प्रणी᳘य॥
(या) आग्नावैष्णवमे᳘कादशकपा᳘लं पुरोडा᳘शं नि᳘र्व्वपत्यग्निर्वै स᳘र्व्वा देव᳘ता ऽअग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वत्यग्निर्वै᳘ यज्ञ᳘स्यावरा᳘र्ध्यो व्वि᳘ष्णुः परा᳘र्ध्यस्तत्स᳘र्व्वाश्चै᳘वैत᳘द्देव᳘ताः[[!!]] परिगृ᳘ह्य स᳘र्व्वं च यज्ञं᳘ परिगृ᳘ह्य दीक्षा ऽइ᳘ति त᳘स्मादाग्नावैष्णव ऽए᳘कादशकपालः पुरोडा᳘शो भवति॥
मूलम् - Weber
अपः᳘ प्रणी᳘य॥
आग्नावैष्णवमे᳘कादशकपालम् पुरोडा᳘शं नि᳘र्वपत्यग्निर्वै स᳘र्वा देव᳘ता अग्नौ हि स᳘र्वाभ्यो देव᳘ताभ्यो जु᳘ह्वत्यग्निर्वै᳘ यज्ञ᳘स्यावराॗर्ध्यो 1 वि᳘ष्णुः परार्ध्य᳘स्तत्स᳘र्वाश्चैॗवैत᳘द्देव᳘ताः परिगृ᳘ह्य स᳘र्वं च यज्ञ᳘म् परिगृ᳘ह्य दीक्षा इ᳘ति त᳘स्मादाग्नावैष्णव ए᳘कादशकपालः पुरोडा᳘शो भवति॥
मूलम् - विस्वरम्
अपः प्रणीय, आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपति । अग्निर्वै सर्वा देवताः । अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति । अग्निर्वै यज्ञस्यावरार्ध्यः, विष्णुः परार्ध्यः । तत् सर्वाश्चैवैतद्देवताः परिगृह्य, सर्वं च यज्ञं परिगृह्य, दीक्षै इति । तस्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति ॥ १॥
सायणः
अपःप्रणयनानन्तरं 2 दीक्षाङ्गभूतायाः आग्नावैष्णवेष्टेः प्रयोगं विधत्ते- अपः प्रणीयाग्नावैष्णवमिति । ‘निर्वपति’ निर्वपेयुरिति विधिः । तत्र जातमग्निं प्रशंसति- अग्निर्वा इति । अग्निरवरार्ध्यः अवरार्द्धे पूर्वार्द्धे भव: आदिम इत्यर्थः । ‘विष्णुः परार्द्ध्यः’ निहितः, परो ऽस्ति “परावराधम-“ (पा. सू. ४ । ३ । ५) इत्यादिना यत् । “एते वै यज्ञस्यान्ते तन्वौ” इत्येतरेयकम् (ऐ. ब्रा. १ । १ । १ ।) “अग्निर्मुखं प्रथमो देवतानां सङ्गतानामुत्तमो विष्णुरासीत्” (आश्व. सू. ४ । २ । ३ ।) (तै. ब्रा. २ । ४ । ३ । ३ ।) इति । यष्टव्यदेवतानामाद्यन्तत्वाभिधानादुक्तरूपत्वम् । अथवा आज्यशस्त्रे “भूरग्निर्ज्योतिः-“ (ऐ. ब्रा. २ । ५ । ५) इति, अन्तिमे मरुत्वतीयशस्त्रे “विष्णोर्नुकम्”- (ऋ. सं. १० । १५४ । १ ।) इति, यज्ञस्याद्यन्तयोरग्नेर्विष्णोश्चाभिधानादवरार्ध्यपराध्यत्वं द्रष्टव्यम् । यद्वा दीक्षणीयेष्टावाग्नावैष्णवीयाग्निसम्भवादुदवसानीयेष्ट्यवसाने वैष्णवपूर्णाहुतेर्वाजसनेयिभिराम्नातत्वात्तयोरिष्ट्योश्च यज्ञस्याद्यन्तत्वादुक्तविधत्वमग्नाविष्ण्वोः । तस्मादिति । प्रतिपादितार्थोपसंहारः ॥ १ ॥
Eggeling
- Having brought water forward 3, he takes out (the material for) a cake on eleven potsherds for Agni and Vishṇu; for Agni is all the deities, since it is in Agni that offering is made to all the deities. Moreover Agni is the lower half, and Vishṇu is the upper half of the sacrifice: ‘I will become consecrated after encompassing all the deities, after encompassing the entire sacrifice,’ thus he thinks, and hence there is a cake on eleven potsherds for Agni and Vishṇu.
०२
विश्वास-प्रस्तुतिः
तद्धै᳘के॥
(क ऽ) आदित्ये᳘भ्यश्चरुं नि᳘र्व्वपन्ति त᳘दस्ति प᳘र्युदितमिवाष्टौ᳘ पुत्रा᳘सो ऽअ᳘दितेर्ये᳘ जाता᳘स्त᳘न्वस्प᳘रि[[!!]]॥ देवाँ २॥ ऽउ᳘प प्रै᳘त्सप्त᳘भिः प᳘रामार्ताण्डमास्यदि᳘ति[[!!]]॥
मूलम् - श्रीधरादि
तद्धै᳘के॥
(क ऽ) आदित्ये᳘भ्यश्चरुं नि᳘र्व्वपन्ति त᳘दस्ति प᳘र्युदितमिवाष्टौ᳘ पुत्रा᳘सो ऽअ᳘दितेर्ये᳘ जाता᳘स्त᳘न्वस्प᳘रि[[!!]]॥ देवाँ २॥ ऽउ᳘प प्रै᳘त्सप्त᳘भिः प᳘रामार्ताण्डमास्यदि᳘ति[[!!]]॥
मूलम् - Weber
तद्धै᳘के॥
आदित्ये᳘भ्यश्चरुं नि᳘र्वपन्ति त᳘दस्ति प᳘र्युदितमिवाष्टौ᳘ पुत्रा᳘सो अ᳘दितेर्ये᳘ जाता᳘स्तन्व᳘स्प᳘रि देवां उ᳘प प्रै᳘त्सप्त᳘भिः प᳘रा मार्ताण्ड᳘मास्यदि᳘ति॥
मूलम् - विस्वरम्
तद्धैके- आदित्येभ्यश्चरुं निर्वपन्ति । तदस्ति पर्युदितमिव । “अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि । देवा २ँ ॥ उप प्रैत्सप्तभिः परामार्ताण्डमास्यत्-“ इति ॥ २ ॥
सायणः
अत्रादित्यचरुमपि 2 स्वसमृद्धिफलकामस्य विधत्ते- तद्धैक इति । ‘आदित्येभ्यः’ अदितेः पुत्रेभ्यः धात्रर्यमादिभ्यः सप्तभ्यः केवलर्द्धिकामाः ‘निर्वपन्ति’ । ‘तत्’ तत्र ‘पर्युदितमिव’ परिवादश्च ‘अस्ति’ । तं परिवादं मन्त्रोदाहरणेन प्रदर्शयति- अष्टौ पुत्रासः (ऋ. सं. १० । ७२ । ८) इति । अयमर्थ:- ‘अदितेः’ देवमातुः ‘तन्वः’ तनोः ‘परि’ परितः उत्पन्नाः, ‘अष्टौ पुत्रासः’ अष्टौ पुत्राः, धात्रादिविवस्वदन्ताः । तेषु मध्ये ‘सप्तभिः’ पुत्रैः सह देवान्, उपप्रैत् उपागात्, ‘मार्ताण्डं’ मृताण्डसम्बन्धिनमष्टमम् ‘आस्यत्’ परितत्याजेति ॥ २ ॥
Eggeling
- Some then offer a rice-pap to the Ādityas. This is referred to (in the passage, Rig-veda X, 72, 8), ‘There are eight sons of Aditi who were born from her body; with seven she went to the gods, but Mārtāṇḍa 4 she cast off.’
०३
विश्वास-प्रस्तुतिः
(त्य) अष्टौ᳘ ह वै᳘ पुत्रा अ᳘दितेः॥
(र्यां᳘) या᳘स्त्वेत᳘द्देवा᳘ ऽआदित्या इ᳘त्याच᳘क्षते सप्त᳘ हैव ते᳘ ऽविकृतᳫँ᳭ हाष्टमं᳘ जनयां᳘चकार मार्ताण्ड᳘ᳫँ᳘ संदेघो᳘ है᳘वास या᳘वाने᳘वोर्ध्वस्ता᳘वां᳘स्तिर्यङ् पु᳘रुषसंमित ऽइ᳘त्यु है᳘क ऽआहुः॥
मूलम् - श्रीधरादि
(त्य) अष्टौ᳘ ह वै᳘ पुत्रा अ᳘दितेः॥
(र्यां᳘) या᳘स्त्वेत᳘द्देवा᳘ ऽआदित्या इ᳘त्याच᳘क्षते सप्त᳘ हैव ते᳘ ऽविकृतᳫँ᳭ हाष्टमं᳘ जनयां᳘चकार मार्ताण्ड᳘ᳫँ᳘ संदेघो᳘ है᳘वास या᳘वाने᳘वोर्ध्वस्ता᳘वां᳘स्तिर्यङ् पु᳘रुषसंमित ऽइ᳘त्यु है᳘क ऽआहुः॥
मूलम् - Weber
अष्टौ ह वै᳘ पुत्रा अ᳘दितेः॥
याॗᳫंॗस्त्वेत᳘द्देवा᳘ आदित्या इ᳘त्याच᳘क्षते सप्त᳘ हैव ते᳘ ऽविकृतᳫं हाष्टमं᳘ जनयां᳘ चकार मार्ताण्ड᳘ᳫं᳘ संदेघो᳘ 5 हैॗवास या᳘वानेॗवोर्ध्वस्ता᳘वा᳘ᳫं᳘स्तिर्यङ् पु᳘रुषसम्मित इ᳘त्यु है᳘क आहुः॥
मूलम् - विस्वरम्
अष्टौ वै पुत्रा अदितेः- यांस्त्वेतद्देवा आदित्या इत्याचक्षते । सप्त हैव ते अविकृतं हाष्टमं जनयाञ्चकार मार्ताण्डम् । सन्देघो हैवास । यावानेवोर्ध्वस्तावांस्तिर्यङ् । पुरुषसंमित इत्यु हैक आहुः ॥ ३ ॥
सायणः
एतद् व्याचष्टे- अष्टौ ह वै पुत्रा इति । ‘सप्त हैव’ विवस्वद्व्यतिरिक्ताः । ‘अविकृतम्’ करचरणादिविकाररहितम् । ‘मार्तण्डं’ 6 जनयाञ्चकार’ जनयामासुः । व्यत्ययेनैकवचनम् । ‘सन्देघः’ सन्देहः, सम्यगुपचितदेहः, सर्वतः सम एवासीत् । केचित् पुरुषवदूर्ध्वत्वमात्रविशिष्टो ऽभूत् ‘इत्याहुः’ ॥ ३ ॥
Eggeling
०४
विश्वास-प्रस्तुतिः
(स्त᳘ ऽ) त᳘ ऽउ हैत᳘ ऽऊचुः॥
(र्दे) देवा᳘ ऽआदित्या य᳘दस्मानन्व᳘जनि मा त᳘दमु᳘येव भूद्ध᳘न्तेमं᳘ व्विकर᳘वामे᳘ति तं व्वि᳘चक्रुर्य᳘था ऽयं पु᳘रुषो व्वि᳘कृतस्त᳘स्य या᳘नि माᳫँ᳭सा᳘नि संकृ᳘त्य संन्यासुस्त᳘तो हस्ती स᳘मभवत्त᳘स्मादाहुर्न᳘ हस्ति᳘नं प्र᳘तिगृह्णीयात्पु᳘रुषाजानो हि᳘ हस्ती᳘ति य᳘मु ह त᳘द्विचक्रुः स व्वि᳘वस्वानादित्यस्त᳘स्येमाः᳘ प्रजाः॥
मूलम् - श्रीधरादि
(स्त᳘ ऽ) त᳘ ऽउ हैत᳘ ऽऊचुः॥
(र्दे) देवा᳘ ऽआदित्या य᳘दस्मानन्व᳘जनि मा त᳘दमु᳘येव भूद्ध᳘न्तेमं᳘ व्विकर᳘वामे᳘ति तं व्वि᳘चक्रुर्य᳘था ऽयं पु᳘रुषो व्वि᳘कृतस्त᳘स्य या᳘नि माᳫँ᳭सा᳘नि संकृ᳘त्य संन्यासुस्त᳘तो हस्ती स᳘मभवत्त᳘स्मादाहुर्न᳘ हस्ति᳘नं प्र᳘तिगृह्णीयात्पु᳘रुषाजानो हि᳘ हस्ती᳘ति य᳘मु ह त᳘द्विचक्रुः स व्वि᳘वस्वानादित्यस्त᳘स्येमाः᳘ प्रजाः॥
मूलम् - Weber
त᳘ उ हैत᳘ ऊचुः॥
देवा᳘ आदित्या य᳘दस्मानन्व᳘जनिमा त᳘दमुॗयेव भूद्ध᳘न्तेमं᳘ विकर᳘वामे᳘ति तं वि᳘चक्रुर्य᳘थायम् पु᳘रुषो वि᳘कृतस्त᳘स्य या᳘नि मा᳘ᳫं᳘सा᳘नि संकृ᳘त्य संन्यासुस्त᳘तो हस्ती स᳘मभवत्त᳘स्मादाहुर्न᳘ हस्ति᳘नम् प्र᳘तिगृह्णीयात्पु᳘रुषाजानो हि᳘ हस्ती᳘ति य᳘मु ह त᳘द्विचक्रुः स वि᳘वस्वानादित्यस्त᳘स्येमाः᳘ प्रजाः॥
मूलम् - विस्वरम्
त उ हैत ऊचु:- ‘देवा आदित्या यदस्मानन्वजनि मा तदमुयेव भूत्, हन्तेमं विकरवाम’ इति । तं विचक्रुः- यथा ऽयं पुरुषो विकृतः । तस्य यानि मांसानि संकृत्य संन्यासुः- ततो हस्ती समभवत् । तस्मादाहु:- न हस्तिनं प्रतिगृह्णीयात् । पुरुषाजानो हि हस्तीति । यमु ह तद्विचक्रुः, स विवस्वानादित्यः । तस्येमाः प्रजाः ॥ ४ ॥
सायणः
त उ हैत इति । अथ ‘ते’ सप्त पुत्राः, ‘अस्मान्’ पूर्वमुत्पन्नान् पादच्छिन्नान् न पश्येत्, किन्तु विकृतं करवामेत्युक्त्वा यथा मनुष्यो विकृतः, तथा ऽकुर्वन् । विकरणाय च्छिन्नं मांसजातं ‘हस्ती’ सम्बभूव तस्याप्यविस्पष्टावयवत्वात् । अत एव ‘पुरुषाजानः’ पुरुषप्रकृतिकः, अनुष्ठानशेषेणोत्पन्नत्वाद्धस्तिनः प्रतिग्रहं न कुर्यात् । स च तैः विकारं गमितो विवस्वत्संज्ञो ऽभूत् । ततः सर्वाः ‘इमाः प्रजाः’ उत्पन्ना इति ॥ ४ ॥
Eggeling
- The gods, sons of Aditi, then spake, ‘That
which was born after us 9 must not be lost: come, let us fashion it.’ They accordingly fashioned it as this man is fashioned. The flesh which was cut off him, and thrown down in a lump, became the elephant: hence they say that one must not accept an elephant (as a gift) 10, since the elephant has sprung from man. Now he whom they thus fashioned was Vivasvat, the Āditya (or the sun); and of him (came) these creatures.
०५
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
राध्न᳘वान्मे स᳘ प्रजा᳘यां य᳘ एत᳘मादित्ये᳘भ्यश्चरुं᳘ निर्व्व᳘पादि᳘ति राध्नो᳘ति हैव य᳘ एत᳘मादित्ये᳘भ्यश्चरुं᳘ निर्व्व᳘पत्ययं᳘[[!!]] त्वे᳘वाग्नावैष्णवः प्र᳘ज्ञातः॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
राध्न᳘वान्मे स᳘ प्रजा᳘यां य᳘ एत᳘मादित्ये᳘भ्यश्चरुं᳘ निर्व्व᳘पादि᳘ति राध्नो᳘ति हैव य᳘ एत᳘मादित्ये᳘भ्यश्चरुं᳘ निर्व्व᳘पत्ययं᳘[[!!]] त्वे᳘वाग्नावैष्णवः प्र᳘ज्ञातः॥
मूलम् - Weber
स᳘ होवाच॥
राध्न᳘वान्मे 11 स᳘ प्रजा᳘यां य᳘ एत᳘मादित्ये᳘भ्यश्चरुं᳘ निर्व᳘पादि᳘ति राध्नो᳘ति हैव य᳘ एत᳘मादित्ये᳘भ्यश्चरुं᳘ निर्व᳘पत्यॗयं त्वेॗवाग्नावैष्णवः प्र᳘ज्ञातः॥
मूलम् - विस्वरम्
स होवाच- ‘राध्नवान्मे स प्रजायां, य एतमादित्येभ्यश्चरुं निर्वपाद्’ इति । राध्नोति हैव- य एतमादित्येभ्यश्चरुं निर्वपति । अयं त्वेवाग्नावैष्णवः प्रज्ञातः ॥ ५ ॥
सायणः
उपोद्घातमुक्त्वोपोद्घातिकमर्थमाह- स होवाचेति । ‘स:’ विवस्वान्, ‘मे’ मम ‘प्रजायां’ प्रजासु मध्ये ‘यः’ कश्चित् ‘आदित्येभ्यः’ ‘चरुं’ ‘निर्वपात्’ निर्वपेत्, ‘सः’ तु ‘राध्नवान्’ भूयात् ‘इति’ ‘उवाच’ । अत एतस्यादित्यचरोर्निर्वापयिता स्वयमपि ‘राध्नोति’ । देवैः संवर्धितेन विवस्वता समृद्धियुतेन दत्तत्वादयमपि चरुः समृद्धिफलक इत्यर्थः । अत एव समृद्धिफलत्वेन काम्यत्वादित्यभिप्रायः । अथाग्नावैष्णवस्योक्तचरुवैलक्षण्यमाह- अयं त्वेवेति । ‘प्रज्ञातः’ सर्वैः प्रसिद्धः ॥ ५ ॥
Eggeling
- He spake, ‘Among my offspring he shall be successful who shall offer that rice-pap to the Ādityas.’ Accordingly he alone succeeds who offers that rice-pap to the Ādityas. Only that (cake) to Agni and Vishṇu is, however, generally approved.
०६
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘स्य सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
(न्त्यु) उपाᳫंशु᳘ देव᳘ते यजति प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजाः सं᳘याजयन्ति प᳘त्नीः सर्व्वत्वा᳘यैव᳘ समिष्टयजु᳘रेव न᳘ जुहोति ने᳘दिदं᳘ दीक्षितव᳘सनं परिधा᳘य पुरा᳘ यज्ञ᳘स्य सᳫंस्था᳘या ऽअ᳘न्तं ग᳘च्छानीत्य᳘न्तो हि᳘ यज्ञ᳘स्य समिष्टयजुः॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘स्य सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
(न्त्यु) उपाᳫंशु᳘ देव᳘ते यजति प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजाः सं᳘याजयन्ति प᳘त्नीः सर्व्वत्वा᳘यैव᳘ समिष्टयजु᳘रेव न᳘ जुहोति ने᳘दिदं᳘ दीक्षितव᳘सनं परिधा᳘य पुरा᳘ यज्ञ᳘स्य सᳫंस्था᳘या ऽअ᳘न्तं ग᳘च्छानीत्य᳘न्तो हि᳘ यज्ञ᳘स्य समिष्टयजुः॥
मूलम् - Weber
त᳘स्य सप्त᳘दश सामिधे᳘न्यो भवन्ति॥
उपांशु᳘ देव᳘ते यजति पञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजाः सं᳘याजयन्ति प᳘त्नीः सर्वत्वा᳘यैव᳘ समिष्टयजु᳘रेव न᳘ जुहोति ने᳘दिदं᳘ दीक्षितव᳘सनम् परिधा᳘य पुरा᳘ यज्ञ᳘स्य संस्था᳘या अ᳘न्तं ग᳘छानीत्या᳘न्तो हि᳘ यज्ञ᳘स्य समिष्टयजुः॥
मूलम् - विस्वरम्
तस्य सप्तदश सामिधेन्यो भवन्ति । उपांशु देवते यजति । पञ्च प्रयाजा भवन्ति । त्रयो ऽनुयाजाः । संयाजयन्ति पत्नीः सर्वत्वायैव । समिष्टयजुरेव न जुहोति । नेदिदं दीक्षितवसनं परिधाय पुरा यज्ञस्य संस्थाया अन्तं गच्छानीति । अन्तो हि यज्ञस्य समिष्टयजुः ॥ ६ ॥
सायणः
तस्या इष्टेश्चोदकतः सामिधेनीपाञ्चदश्ये प्राप्त आह- तस्य सप्तदशेति (आप० श्रौ० सू० १० । ४ । ५) 12 । ‘देवते’ प्रधानसम्बन्धिन्यौ अग्नाविष्णू ‘उपांशु’ यजेत् (का० श्रौ० सू० ७ । ५८-६० । आप० श्रौ ० सू० १० । ४ । ९ । ११) प्रयाजानुयाजयोरपि सामिधेनीवद् वैशेषिकसंख्याप्रसक्तावाह- पञ्च प्रयाजा इति । दीक्षणीयेष्टेरवधिमाह- संयाजयन्ति पत्नीरिति । इष्टेरवैकल्याय पत्नीसंयाजमेव कुर्यात्; तदुत्तरं तु ‘समिष्टयजुर्न’ जुहुयात् (का० श्रौ० सू० ७ । ५६ । ५७ । आप० श्रौ० सू० १० । ४ । ७) । तदपि किं न क्रियत इति तत्रोपपत्तिमाह- नेदिति । दीक्षाकाले धृतस्य वसनस्य यज्ञसमाप्तिपर्यन्तं धारणं कर्तव्यम्; मध्य एव समिष्टयजुषि हुते सति यज्ञस्य समाप्तेस्तदानीमेव वसनस्य त्यागः कर्तव्यो भवेत्; तस्मिन् हुते सति सोमयागसमाप्तेर्धारणं संभवेत् । अतः पुरा कृत्स्नस्य यज्ञस्य समापनादन्तं नैव प्राप्नवानीत्यभिप्रायेण समिष्टयजुर्न जुहुयात् । ननु समिष्टयजुषो ऽत्र कथं यज्ञाङ्गत्वम्; यस्मिन् हुते यज्ञः समाप्येतेति, तत्राह- अन्तो हीति । अस्य सम्यगिष्टे एव यज्ञस्यावसानत्वादित्यभिप्रायः ॥ ६ ॥
Eggeling
- There are seventeen kindling-verses for it 13. In a low voice he offers to the two deities. There are five fore-offerings and three after-offerings. For the sake of completeness they perform the patnīsaṁyājas 14; but he offers no samishṭayajus, lest, having put on that garment of the consecrated, he should reach the end of the sacrifice before its completion; for the samishṭayajus is the end of the sacrifice.
०७
विश्वास-प्रस्तुतिः
(र) अथा᳘ग्रेण शा᳘लां ति᳘ष्ठन्न᳘भ्यङ्क्ते[[!!]]॥
(ङ्क्ते᳘ ऽ) अ᳘रुर्वै पु᳘रुषो᳘ ऽवच्छितो᳘ ऽनरुरे᳘वैत᳘द्भवति य᳘द᳘भ्यङ्क्ते ग᳘वि वै पु᳘रुषस्य त्वर्ग्गोर्व्वा ऽएतन्न᳘वनीतं भवति स्व᳘यै᳘वैनमेत᳘त्त्वचा स᳘मर्धयति त᳘स्माद्वा᳘ ऽअ᳘भ्यङ्क्ते[[!!]]॥
मूलम् - श्रीधरादि
(र) अथा᳘ग्रेण शा᳘लां ति᳘ष्ठन्न᳘भ्यङ्क्ते[[!!]]॥
(ङ्क्ते᳘ ऽ) अ᳘रुर्वै पु᳘रुषो᳘ ऽवच्छितो᳘ ऽनरुरे᳘वैत᳘द्भवति य᳘द᳘भ्यङ्क्ते ग᳘वि वै पु᳘रुषस्य त्वर्ग्गोर्व्वा ऽएतन्न᳘वनीतं भवति स्व᳘यै᳘वैनमेत᳘त्त्वचा स᳘मर्धयति त᳘स्माद्वा᳘ ऽअ᳘भ्यङ्क्ते[[!!]]॥
मूलम् - Weber
अथा᳘ग्रेण शा᳘लां ति᳘ष्ठन्नभ्य᳘ङ्क्ते॥
अ᳘रुर्वै पु᳘रुषो᳘ ऽवाछितो᳘ ऽनरुरेॗवैत᳘द्भवति य᳘दभ्यङ्क्ते 15 ग᳘वि वै पु᳘रुषस्य त्वग्गोर्वा᳘ एतन्न᳘वनीतम् भवति स्व᳘यैॗवैनमेत᳘त्त्वचा स᳘मर्धयति त᳘स्माद्वा᳘ अभ्य᳘ङ्क्ते॥
मूलम् - विस्वरम्
अथाग्रेण शालां तिष्ठन्नभ्यङ्क्ते । अरुर्वै पुरुषो ऽवच्छितः अनरुरेवैतद्भवति- यदभ्यङ्क्ते । गवि वै पुरुषस्य त्वक् । गोर्वा एतन्नवनीतं भवति । स्वयैवैनमेतत्त्वचा समर्धयति । तस्माद्वा अभ्यङ्क्ते ॥ ७ ॥
सायणः
अथ दीक्षितस्य स्वधर्मकमभ्यङ्गं विधत्ते- अथाग्रेणेति । शालायाः पुरोदेशे तिष्ठन् सर्वाङ्गे नवनीताभ्यञ्जनं कुर्यादिति विशिष्टविधिः (का. श्रौ. सू. ७ । ६१) । अभ्यङ्गप्रयोजनमाह- अरुर्वा इति । ‘अवच्छितः’ 16 त्वचा निर्मुक्तः ‘पुरुषः’ ‘अरुर्वै’ व्रणात्मकः खलु, तदेतेनाभ्यङ्गेन परिहरति । एतदेव विस्पष्टमुपपादयति- गवि वा इति । पुरुषत्वचो गवि धारणं वासःपरिधानार्थवादे स्पष्टमुक्तम् (श. प. कां. ३. अ. १. ब्रा. २ कं. १५-१९) । गोर्नवनीतोत्पत्तिः सुप्रसिद्धा । अतो गोसम्बन्धिनवनीतधारणेन स्वकीयत्वचैव समृद्धो भवति । अत एव स्वत्वचः पुनः प्राप्तेरव्रणत्वमस्याभ्यङ्गाय नवनीतं द्रव्यं भवेदित्युक्तं भवति ॥ ७ ॥
Eggeling
- He (the sacrificer) then gets himself anointed (with fresh butter), while standing east of the hall. For, having been flayed, man is sore; and by getting himself anointed, he becomes healed of his soreness: for man’s skin is on the cow, and that fresh butter
also comes from the cow. He (the Adhvaryu) thus supplies him with his own skin, and for this reason he gets himself anointed.
०८
विश्वास-प्रस्तुतिः
तद्वै न᳘वनीतं भवति॥
घृतं व्वै᳘ देवा᳘नां फाण्टं᳘ मनु᳘ष्याणाम᳘थैतन्ना᳘हैव᳘ घृतं᳘[[!!]] नो फाण्टᳫं᳭ स्या᳘देव᳘ घृतᳫं᳭ स्या᳘त्फाण्ट᳘मयातयाम᳘तायै त᳘देनम᳘यातयाम्नैवा᳘यातयामानं करोति॥
मूलम् - श्रीधरादि
तद्वै न᳘वनीतं भवति॥
घृतं व्वै᳘ देवा᳘नां फाण्टं᳘ मनु᳘ष्याणाम᳘थैतन्ना᳘हैव᳘ घृतं᳘[[!!]] नो फाण्टᳫं᳭ स्या᳘देव᳘ घृतᳫं᳭ स्या᳘त्फाण्ट᳘मयातयाम᳘तायै त᳘देनम᳘यातयाम्नैवा᳘यातयामानं करोति॥
मूलम् - Weber
तद्वै न᳘वनीतम् भवति॥
घृतं वै देवा᳘नाम् फाण्ट᳘म् मनुॗष्याणाम᳘थैतन्ना᳘हैव᳘ घृॗतं नो फाण्टᳫं स्या᳘देव᳘ घृतᳫं स्या᳘त्फाण्ट᳘मयातयाम᳘तायै त᳘देनम᳘यातयाम्नैवा᳘यातयामानं करोति॥
मूलम् - विस्वरम्
तद्वै नवनीतं भवति । घृतं वै देवानाम्, फाण्टं मनुष्याणाम् । अथैतन्नाहैव घृतम्, नो फाण्टम् । स्यादेव घृतम्, स्यात्फाण्टमयातयामतायै । तदेनमयातयाम्नैवायातयामानं करोति ॥ ८ ॥
सायणः
नवनीताभ्यङ्गं प्रशंसति- तद्वै नवनीतमिति । एतदस्य योग्यमित्याह- घृतं वै देवानामिति । नवनीतभावात्प्रागवस्थापन्नं द्रव्यं ‘फाण्टम्’, यस्मान्नवनीतं फाण्टघृतयोरन्तरालवर्तित्वात् तदन्यत्तदन्यच्च भवति तस्मान्मनुष्यदेवताभ्यामन्यस्यानन्यस्य च दीक्षितस्य तद्युक्तमित्यर्थः । अत एव पूर्वोत्तरभावात् प्रच्यवाप्रच्यवादयातयामवता तेनाभ्यञ्जनेनाध्वर्युर्दीक्षितमपि ‘अयातयामानं करोति’ ॥ ८ ॥
Eggeling
- It is fresh butter,–for melted butter (ghee) belongs to the gods, and creamy butter 17 to men. Here, on the other hand, it is neither ghee nor creamy butter; it should rather be both ghee and creamy butter, for the sake of unimpaired vigour: by means of that which is of unimpaired vigour he accordingly makes him of unimpaired vigour.
०९
विश्वास-प्रस्तुतिः
त᳘म᳘भ्यनक्ति[[!!]]॥
शीर्षतो᳘ ऽग्र ऽआ पा᳘दाभ्यामनुलोमं᳘ मही᳘नां प᳘यो ऽसी᳘ति म᳘ह्य[[!!]] इ᳘ति ह वा᳘ एता᳘सामे᳘कं नाम यद्ग᳘वां ता᳘सां वा᳘ ऽएतत्प᳘यो भवति त᳘स्मादाह मही᳘नां प᳘यो ऽसी᳘ति व्वर्चोदा᳘ असि व्व᳘र्चो मे देही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - श्रीधरादि
त᳘म᳘भ्यनक्ति[[!!]]॥
शीर्षतो᳘ ऽग्र ऽआ पा᳘दाभ्यामनुलोमं᳘ मही᳘नां प᳘यो ऽसी᳘ति म᳘ह्य[[!!]] इ᳘ति ह वा᳘ एता᳘सामे᳘कं नाम यद्ग᳘वां ता᳘सां वा᳘ ऽएतत्प᳘यो भवति त᳘स्मादाह मही᳘नां प᳘यो ऽसी᳘ति व्वर्चोदा᳘ असि व्व᳘र्चो मे देही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - Weber
त᳘मभ्य᳘नक्ति॥
शीर्षतो᳘ ऽग्र आ पा᳘दाभ्यामनुलोम᳘म् मही᳘नाम् प᳘यो ऽसी᳘ति मह्य᳘ इति ह वा᳘ एता᳘सामे᳘कं नाम यद्ग᳘वां ता᳘सां वा᳘ एतत्प᳘यो भवति त᳘स्मादाह मही᳘नाम् प᳘यो ऽसी᳘ति वर्चोदा᳘ असि व᳘र्चो मे देही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - विस्वरम्
तमभ्यनक्ति- शीर्षतो ऽग्ने आपादाभ्यामनुलोमम् । “महीनां पयो ऽसि” (वा. सं. ४ । ३) इति । मह्य इति ह वा एतासामेकं नाम- यद्गवाम् । तासां वा एतत्पयो भवति । तस्मादाह- महीनां पयो ऽसीति । “वर्चोदा असि वर्चो मे देहि” (वा. सं. ४ । ३) इति । नात्र तिरोहितमिवास्ति ॥ ९ ॥
सायणः
अभ्यङ्गस्योपक्रमोपसंहारौ विधत्ते- तमभ्यनक्तीति (का. श्रौ. सू. ७ । ६१) 16 । अधोमुखावस्थानादवरोहाभ्यङ्गे सति आनुलोम्यं स्यात् । तत्र मन्त्रमाह- महीनामिति । मन्त्रस्य पूर्वभागं व्याचष्टे मह्य 18 इतीति । “इडे रन्ते”- इत्युपक्रम्य “महि विश्रुति”- इत्यन्तानि अघ्निये नामानीति तैत्तिरीयकश्रुतेर्गवां महीति नाम (तै. सं. ७ । १ । ६ । ८) स्पष्टमन्यत् ॥ ९ ॥
Eggeling
- He anoints him from the head down to the feet in accordance with the tendency of the hair, with the text (Vāj. S. IV, 3), ‘Thou art the sap of the great ones.’ The ‘great ones,’ doubtless, is one of the names of those cows, and their sap indeed it is: therefore he says, ’thou art the sap of the great ones.’ ‘Thou art life-giving: give me light!’ There is nothing obscure in this.
१०
विश्वास-प्रस्तुतिः
(स्त्य) अथा᳘क्ष्यावा᳘नक्ति॥
(क्त्य᳘) अ᳘रुर्वै पु᳘रुषस्या᳘क्षि प्रशान्ममे᳘ति ह स्माह या᳘ज्ञवल्क्योदुरक्ष᳘ ऽइव हास पू᳘यो है᳘वास्य दूषी᳘का ते᳘ ऽए᳘वैतद᳘नरुष्करोति य᳘द᳘क्ष्यावान᳘क्ति॥
मूलम् - श्रीधरादि
(स्त्य) अथा᳘क्ष्यावा᳘नक्ति॥
(क्त्य᳘) अ᳘रुर्वै पु᳘रुषस्या᳘क्षि प्रशान्ममे᳘ति ह स्माह या᳘ज्ञवल्क्योदुरक्ष᳘ ऽइव हास पू᳘यो है᳘वास्य दूषी᳘का ते᳘ ऽए᳘वैतद᳘नरुष्करोति य᳘द᳘क्ष्यावान᳘क्ति॥
मूलम् - Weber
अथा᳘क्ष्यावा᳘नक्ति॥
अ᳘रुर्वै पु᳘रुषस्या᳘क्षि प्रशान्ममे᳘ति ह स्माह या᳘ज्ञवल्क्यो दुरक्ष᳘ इव हास पू᳘यो हैॗवास्य दूषी᳘का ते᳘ एॗवैतद᳘नरुष्करोति यद᳘क्ष्यावान᳘क्ति 19 ॥
मूलम् - विस्वरम्
अथाक्ष्यावानक्ति । अरुर्वै पुरुषस्याक्षि, प्रशान्ममेति ह स्माह याज्ञवल्क्यो दुरक्ष इव हास पूयो हैवास्य दूषीका । ते एवैतदनरुष्करोति- यदक्ष्यावानक्ति ॥ १० ॥
सायणः
अक्ष्णोरञ्जनं विधत्ते- अथाक्ष्यावानक्तीति (का. श्रौ. सू. ७ । ६२ । आप श्रौ. सू. १० । ७ । १ ।) । इतरावयवसंस्पर्शासहिष्णुत्वात् ‘अक्षि’ ‘अरुः’ व्रणो भवति । ‘मम’ ‘प्रशान्’ प्रशाम्येदित्यञ्जनं कर्तव्यमिति । ‘याज्ञवल्क्यः’ ‘आह’ ब्रूते इति । अक्ष्णोर्दूषणरूपतां सम्पादयति- “दुरक्ष” इत्यादिना । नेत्रमालिन्यमेवारुः, तत्परिहारायाञ्जनमिति । ‘दूषीका’ 20 नेत्रयोर्मलम्, सा ‘अस्य’ पुरुषस्याक्ष्णोर्भूय एवेत्यक्षेर्दुरक्षत्वमेव, ततो ऽनेन तन्नाशयतीत्यर्थः ॥ १० ॥
Eggeling
- Thereupon he anoints the eyes. ‘Sore, indeed, is the eye of man; mine is sound,’ so spake Yājñavalkya. Dim-eyed, indeed, he was (heretofore); and the secretion of his eyes was matter. He now makes his eyes sound by anointing them.
११
विश्वास-प्रस्तुतिः
य᳘त्र वै᳘ देवाः᳘॥
(ऽ) असुररक्षसा᳘नि जघ्नुस्त᳘च्छु᳘ष्णो दानवः᳘ प्रत्य᳘ङ् पतित्वा᳘ मनु᳘ष्याणाम᳘क्षीणि प्र᳘विवेश स᳘ एष᳘ कनी᳘नकः कुमारक᳘ ऽइव प᳘रिभासते त᳘स्मा ऽए᳘वैत᳘द्यज्ञ᳘मुपप्रय᳘न्त्सर्व्व᳘तो ऽश्मपुरां प᳘रिदधात्यश्मा ह्या᳘ञ्जनम्॥
मूलम् - श्रीधरादि
य᳘त्र वै᳘ देवाः᳘॥
(ऽ) असुररक्षसा᳘नि जघ्नुस्त᳘च्छु᳘ष्णो दानवः᳘ प्रत्य᳘ङ् पतित्वा᳘ मनु᳘ष्याणाम᳘क्षीणि प्र᳘विवेश स᳘ एष᳘ कनी᳘नकः कुमारक᳘ ऽइव प᳘रिभासते त᳘स्मा ऽए᳘वैत᳘द्यज्ञ᳘मुपप्रय᳘न्त्सर्व्व᳘तो ऽश्मपुरां प᳘रिदधात्यश्मा ह्या᳘ञ्जनम्॥
मूलम् - Weber
य᳘त्र वै᳘ देवाः᳟॥
असुररक्षसा᳘नि जघ्नुस्तछु᳘ष्णो दानवः᳘ प्रत्य᳘ङ् पतित्वा᳘ मनुॗष्याणाम᳘क्षीणि प्र᳘विवेश स᳘ एष᳘ कनी᳘नकः कुमारक इव प᳘रिभासते त᳘स्मा एॗवैत᳘द्यज्ञ᳘मुपप्रय᳘न्त्सर्व᳘तो ऽश्मपुराम् प᳘रिदधात्यश्मा ह्या᳘ञ्जनम्॥
मूलम् - विस्वरम्
यत्र वै देवा असुररक्षसानि जघ्नुः- तच्छ्रुष्णो दानवः प्रत्यङ्पतित्वा मनुष्याणामक्षीणि प्रविवेश । स एष कनीनकः कुमारक इव परिभासते । तस्मा एवैतद्यज्ञमुपप्रयन् सर्वतो ऽश्मपुरां परिदधाति । अश्मा ह्याञ्जनम् ॥ ११ ॥
सायणः
अञ्जनं प्रकारान्तरेण प्रशंसति- यत्र वा इति । असुरवधसमये ‘शुष्णः,’ ‘प्रत्यङ्’ गत्वा, तद्भयात् पुरुषाणामक्षिमध्यं प्रविश्य, कनीनिकारूपेण ‘कुमारकः’ सन् वर्तते । ‘तस्मै’ तस्य ‘यज्ञम्’ उपगच्छन् ‘सर्वतः’ अश्मपुरोरक्षार्थं कृतवान् भवति । अश्मशब्दार्थमाह- अश्मा ह्याञ्जनमिति । तद्धिकारत्वात् ॥ ११ ॥
Eggeling
- Now, when the gods slew the Asura-Rakshas, Śushṇa 21, the Dānava, falling backward entered into the eyes of men: he is that pupil of the eye, and
looks like a young lad 22. Against him he (the sacrificer), now that he enters on the sacrifice, raises a rampart of stone all round himself, for the ointment is (produced from) stone.
१२
विश्वास-प्रस्तुतिः
त्रैककुदं᳘ भवति॥
य᳘त्र वा ऽइ᳘न्द्रो व्वृत्रम᳘हंस्त᳘स्य यदक्ष्या᳘सीत्तं᳘ गिरिं᳘ त्रिककुदमकरोत्तद्य᳘त्त्रैककुदं[[!!]] भ᳘वति च᳘क्षुष्ये᳘वैतच्च᳘क्षुर्दधाति त᳘स्मात्त्रैककुदं᳘ भवति य᳘दि त्रैककुदं न᳘ व्विन्देदप्य᳘त्रैककुदमेव᳘ स्यात्समानी᳘ ह्येवा᳘ञ्जनस्य बन्धु᳘ता॥
मूलम् - श्रीधरादि
त्रैककुदं᳘ भवति॥
य᳘त्र वा ऽइ᳘न्द्रो व्वृत्रम᳘हंस्त᳘स्य यदक्ष्या᳘सीत्तं᳘ गिरिं᳘ त्रिककुदमकरोत्तद्य᳘त्त्रैककुदं[[!!]] भ᳘वति च᳘क्षुष्ये᳘वैतच्च᳘क्षुर्दधाति त᳘स्मात्त्रैककुदं᳘ भवति य᳘दि त्रैककुदं न᳘ व्विन्देदप्य᳘त्रैककुदमेव᳘ स्यात्समानी᳘ ह्येवा᳘ञ्जनस्य बन्धु᳘ता॥
मूलम् - Weber
त्रैककुद᳘म् भवति॥
य᳘त्र वा इ᳘न्द्रो वृत्रम᳘हंस्त᳘स्य यदक्ष्या᳘सीत्तं᳘ गिरिं᳘ त्रिककु᳘दमकरोत्तद्य᳘त्त्रैककुदम् भ᳘वति च᳘क्षुष्येॗवैतच्च᳘क्षुर्दधाति त᳘स्मात्त्रैककुद᳘म् भवति य᳘दि त्रैककुदं न᳘ विन्देदप्य᳘त्रैककुदमेव᳘ स्यात्समानीॗ ह्येवा᳘ञ्जनस्य बन्धु᳘ता॥
मूलम् - विस्वरम्
त्रैककुदं भवति । यत्र वा इन्द्रो वृत्रमहन्- तस्य यदक्ष्यासीत् । तं गिरिं त्रिककुदमकरोत् । तद् यत्त्रैककुदं भवति- चक्षुष्येवैतच्चक्षुर्दधाति । तस्मात्त्रैककुदं भवति । यदि त्रैककुदं न विन्देद् अप्यत्रैककुदमेव स्यात् । समानी ह्येवाञ्जनस्य बन्धुता ॥ १२ ॥
सायणः
अञ्जनं विशिनष्टि- त्रैककुदमिति । त्रिककुत्पर्वतः तत्सम्बन्धि त्रैकुकुदम् 23 । शिष्टं स्पष्टम् । तदभावे 24 त्रैककुदादन्यदपि ग्राह्यम् । ‘अंजनस्य’ बन्धुता बन्धु ब्राह्मणम्, तद्भावो बन्धुता । सा ‘समानी’ “अरुर्वै पुरुषस्याक्षि” इत्यादिकं 25 ब्राह्मणं त्रैककुदात्रैककुदयोः समानमित्यर्थः । (का० श्रौ० सू० ७ । ६२ आप० श्रौ० सू० १० । ७ । २ ।) 26 ॥ १२ ॥
Eggeling
- It is such as comes from mount Trikakud; for when Indra slew Vr̥tra he transformed that eye of his (Vr̥tra’s) into the mount Trikakud 27. The reason, then, why (ointment) from mount Trikakud (is used), is that he thereby puts eye into eye. Should he be unable to obtain any Traikakuda ointment, any other than Traikakuda may be used; for one and the same, indeed, is the significance of the ointment.
१३
विश्वास-प्रस्तुतिः
शरेषीकया᳘ ऽऽनक्ति॥
व्व᳘ज्रो वै᳘ शरो᳘ विरक्ष᳘स्तायै स᳘तूला भवत्यमूलं वा᳘ ऽइद᳘मुभय᳘तः प᳘रिच्छिन्नᳫँ᳭ र᳘क्षो ऽन्त᳘रिक्षम᳘नुचरति य᳘था ऽयं पु᳘रुषो ऽमूल᳘ ऽउभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रति तद्यत्स᳘तूला भ᳘वति व्विरक्ष᳘स्तायै॥
मूलम् - श्रीधरादि
शरेषीकया᳘ ऽऽनक्ति॥
व्व᳘ज्रो वै᳘ शरो᳘ विरक्ष᳘स्तायै स᳘तूला भवत्यमूलं वा᳘ ऽइद᳘मुभय᳘तः प᳘रिच्छिन्नᳫँ᳭ र᳘क्षो ऽन्त᳘रिक्षम᳘नुचरति य᳘था ऽयं पु᳘रुषो ऽमूल᳘ ऽउभय᳘तः प᳘रिच्छिन्नो ऽन्त᳘रिक्षमनुच᳘रति तद्यत्स᳘तूला भ᳘वति व्विरक्ष᳘स्तायै॥
मूलम् - Weber
शरेषीकया᳘नक्ति॥
व᳘ज्रो वै᳘ शरो᳘ विरक्ष᳘स्तायै स᳘तूला भवत्यमूलं वा᳘ इद᳘मुभय᳘तः प᳘रिछिन्नं र᳘क्षो ऽन्त᳘रिक्षम᳘नुचरति य᳘थायम् पु᳘रुषो ऽमूल᳘ उभय᳘तः प᳘रिछिन्नो ऽन्त᳘रिक्षमनुच᳘रति तद्यत्स᳘तूला भ᳘वति विरक्ष᳘स्तायै॥
मूलम् - विस्वरम्
शरेषीकया ऽऽनक्ति । वज्रो वै शरः । विरक्षस्तायै । सतूला भवति । अमूलं वा इदमुभयतः परिच्छिन्नं रक्षो ऽन्तरिक्षमनुचरति । यथा ऽयं पुरुषो ऽमूल उभयतः । परिच्छिन्नो ऽन्तरिक्षमनुचरति । तद्यत्सतूला भवति- विरक्षस्तायै ॥ १३ ॥
सायणः
तत्साधनं विधत्ते- शरेषीकयेति । शरस्तृणविशेषः, तस्य मध्यशलाका ‘इषीका’ 23 । ‘विरक्षस्तायै’ विरक्षस्ता विगतराक्षसभावस्तस्मै तत्परिहाराय । सा ऽपि ‘सतूला’ कर्तव्या । सतूलत्वस्य प्रयोजनमाह- अमूलमिति । ‘उभयतः’ मूले अग्रे च, दिवि पृथिव्यां चेत्यर्थः । ‘परिच्छिन्नम्’ इदं ‘रक्षः’ राक्षसजातिः, अमूलं सत् ‘अन्तरिक्षमनुचरति’ खलु; एवम् ‘उभयतः’ परिधिभ्यः ‘परिच्छिन्नः,’ ‘अमूलः’ सन् ‘पुरुषः’ अपि ‘अन्तरिक्षमनुचरति’ । तस्मात् पुरुषसमानदेशवति रक्षोनिर्हरणाय शरेषीका ‘सतूला’ कर्तव्या (का० श्रौ० सू० ७ । ६६) 24 ॥ १३ ॥
Eggeling
- He anoints (the eyes) with a reed-stalk, for the reed is a thunderbolt. It is one with a tuft, in order to chase away the evil spirits 28. For rootless,
indeed, and unfettered on both sides, the Rakshas roams along the air; even as man here roams along the air 29, rootless and unfettered on both sides: the reason, then, why it is (a reed-stalk) with a tuft, is to chase away the evil spirits.
१४
विश्वास-प्रस्तुतिः
स द᳘क्षिणमेवा᳘ग्र ऽआ᳘नक्ति॥
सव्यं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥
मूलम् - श्रीधरादि
स द᳘क्षिणमेवा᳘ग्र ऽआ᳘नक्ति॥
सव्यं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥
मूलम् - Weber
स द᳘क्षिणमेवा᳘ग्र आ᳘नक्ति॥
सव्यं वा अ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥
मूलम् - विस्वरम्
स दक्षिणमेवाग्र आनक्ति । सव्यं वा अग्रे मानुषे । अथैवं देवत्रा ॥ १४ ॥
सायणः
स दक्षिणमिति । ‘देवत्रा’ देवेषु । एवं दक्षिणप्राथम्यमित्यर्थः ॥ १४ ॥
Eggeling
- The right eye he anoints first; for in human practice the left (eye is anointed) first, but with the gods (it is done) thus.
१५
विश्वास-प्रस्तुतिः
स आ᳘नक्ति॥
व्वृत्र᳘स्यासि कनी᳘नक इ᳘ति व्वृत्र᳘स्य᳘ ह्येष᳘ कनी᳘नकश्चक्षुर्दा᳘ ऽअसि च᳘क्षुर्मे देही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - श्रीधरादि
स आ᳘नक्ति॥
व्वृत्र᳘स्यासि कनी᳘नक इ᳘ति व्वृत्र᳘स्य᳘ ह्येष᳘ कनी᳘नकश्चक्षुर्दा᳘ ऽअसि च᳘क्षुर्मे देही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - Weber
स आ᳘नक्ति॥
वृत्र᳘स्यासि कनी᳘नक इ᳘ति वृत्र᳘स्यॗ ह्येष᳘ कनी᳘नकश्चक्षुर्दा᳘ असि च᳘क्षुर्मे देही᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥
मूलम् - विस्वरम्
स आनक्ति- “वृत्रस्यासि कनीनक”- (वा. सं . ४-३) इति । वृत्रस्य ह्येष कनीनकः । “चक्षुर्दा असि चक्षुर्मे देहि”- (वा. सं. ४ । ३) इति नात्र तिरोहितमिवास्ति ॥ १५ ॥
सायणः
स आनक्तीति । तत्र मन्त्रमाह- वृत्रस्येति । ‘कनीनकः’ अक्षिमध्यकार्ष्ण्यम् । ‘वृत्रस्य ह्येष कनीनकः’ । तथा चान्यत्र- “इन्द्रो वृत्रमहन्, तस्य कनीनिका परापतत्, तदाञ्जनमभवत्” इति- (तै. सं. ६ । १ । १ । ५) ॥ १५ ॥
Eggeling
- He anoints it with the text, ‘Thou art the eye-ball of Vr̥tra,’–for Vr̥tra’s eye-ball it indeed is;–‘Eye-giving thou art: give me the eye!’ in this there is nothing obscure.
१६
विश्वास-प्रस्तुतिः
स द᳘क्षिणᳫँ᳭ सकृद्य᳘जुषा ऽऽन᳘क्ति॥
सकृ᳘त्तूष्णीमथो᳘त्तरᳫँ᳭ सकृद्य᳘जुषा ऽऽन᳘क्ति द्वि᳘स्तूष्णीं तदु᳘त्तरमे᳘वैत᳘दुत्तरा᳘वत्करोति॥
मूलम् - श्रीधरादि
स द᳘क्षिणᳫँ᳭ सकृद्य᳘जुषा ऽऽन᳘क्ति॥
सकृ᳘त्तूष्णीमथो᳘त्तरᳫँ᳭ सकृद्य᳘जुषा ऽऽन᳘क्ति द्वि᳘स्तूष्णीं तदु᳘त्तरमे᳘वैत᳘दुत्तरा᳘वत्करोति॥
मूलम् - Weber
स द᳘क्षिणᳫं सकृद्य᳘जुषान᳘क्ति॥
सकृ᳘त्तूष्णीमथो᳘त्तरᳫं सकृद्य᳘जुषान᳘क्ति द्वि᳘स्तूष्णीं तदु᳘त्तरमेॗवैत᳘दुत्तरा᳘वत्करोति॥
मूलम् - विस्वरम्
स दक्षिणं सकृद्यजुषा ऽऽनक्ति, सकृत्तूष्णीम् । अथोत्तरं सकृद्यजुषा ऽऽनक्ति, द्विस्तूष्णीम् । तदुत्तरमेवैतत्- उत्तरावत्करोति ॥ १६ ॥
सायणः
स दक्षिणमिति । ‘यजुषा’ उक्तमन्त्रेण । उत्तरस्याक्ष्णो दक्षिणाक्षितो ऽपि एकधाराधिक्यकरणेन ‘उत्तरं’ चक्षुः ‘उत्तरावत्’ उत्कर्षवत् कृतवान् भवति ॥ १६ ॥
Eggeling
- The right eye he anoints once with the sacrificial formula, once silently; and the left one he anoints once with the formula, twice silently: thus he makes the left (or upper) one superior 30.
१७
विश्वास-प्रस्तुतिः
तद्यत्प᳘ञ्चकृ᳘त्व आन᳘क्ति॥
संव्वत्सर᳘संमितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्पञ्चकृ᳘त्व ऽआ᳘नक्ति॥
मूलम् - श्रीधरादि
तद्यत्प᳘ञ्चकृ᳘त्व आन᳘क्ति॥
संव्वत्सर᳘संमितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऽऋत᳘वः संव्वत्सर᳘स्य तं᳘ पञ्च᳘भिराप्नोति त᳘स्मात्पञ्चकृ᳘त्व ऽआ᳘नक्ति॥
मूलम् - Weber
तद्यत्प᳘ञ्च कृ᳘त्व आन᳘क्ति॥
संवत्सर᳘सम्मितो वै᳘ यज्ञः प᳘ञ्च वा᳘ ऋत᳘वः संवत्सर᳘स्य त᳘म् पञ्च᳘भिराप्नोति त᳘स्मात्पञ्च कृ᳘त्व आ᳘नक्ति॥
मूलम् - विस्वरम्
तद्यत्पञ्चकृत्व आनक्ति । संवत्सरसंमितो वै यज्ञः । पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति । तस्मात्पञ्चकृत्व आनक्ति ॥ १७ ॥
सायणः
अक्ष्णोराञ्जनावृत्ती मिलित्वा प्रशंसति- तद्यत् पञ्चकृत्व इति । हेमन्तशिशिरयोरैक्यात् (ऐ. ब्रा. १ । १ । १) संवत्सरः पञ्चर्तुः । अत एव संख्याद्वारा संवत्सरमेवाप्नोति ॥ १७ ॥
Eggeling
- And the reason why he anoints five times, is that the sacrifice is of equal measure with the year, and five seasons there are in the year: he thus obtains possession of the latter in five (divisions), and therefore he anoints five times.
१८
विश्वास-प्रस्तुतिः
(क्त्य᳘) अ᳘थैनं दर्भपवित्रे᳘ण पावयति॥
(त्य) अमेध्यो वै पु᳘रुषो यद᳘नृतं व्व᳘दति ते᳘न पू᳘तिरन्तरतो मे᳘ध्या वै᳘ दर्भा मे᳘ध्यो भूत्वा᳘ दीक्षा ऽइ᳘ति पवि᳘त्रं व्वै᳘ दर्भाः᳘ पवित्र᳘पूतो दीक्षा इ᳘ति त᳘स्मादेनं दर्भपवित्रे᳘ण पावयति॥
मूलम् - श्रीधरादि
(क्त्य᳘) अ᳘थैनं दर्भपवित्रे᳘ण पावयति॥
(त्य) अमेध्यो वै पु᳘रुषो यद᳘नृतं व्व᳘दति ते᳘न पू᳘तिरन्तरतो मे᳘ध्या वै᳘ दर्भा मे᳘ध्यो भूत्वा᳘ दीक्षा ऽइ᳘ति पवि᳘त्रं व्वै᳘ दर्भाः᳘ पवित्र᳘पूतो दीक्षा इ᳘ति त᳘स्मादेनं दर्भपवित्रे᳘ण पावयति॥
मूलम् - Weber
अ᳘थैनं दर्भपवित्रे᳘ण पावयति॥
अमेध्यो वै पु᳘रुषो यद᳘नृतं व᳘दति ते᳘न पू᳘तिरन्तरतो मे᳘ध्या वै᳘ दर्भा मे᳘ध्यो भूत्वा᳘ दीक्षा इ᳘ति पवि᳘त्रं वै᳘ दर्भाः᳘ पवित्र᳘पूतो दीक्षा इ᳘ति त᳘स्मादेनं दर्भपवित्रे᳘ण पावयति॥
मूलम् - विस्वरम्
अथैनं दर्भपवित्रेण पावयति । अमेध्यो वै पुरुषो- यदनृतं वदति । तेन पूतिरन्तरतः । मेध्या वै दर्भाः- मेध्यो भूत्वा दीक्षा इति । पवित्रं वै दर्भाः- पवित्रपूतो दीक्षा इति । तस्मादेनं दर्भपवित्रेण पावयति ॥ १८ ॥
सायणः
तस्य दर्भैः पावनं विधत्ते- अथैनमिति । लोके ह्यपवित्रं पवित्रीक्रियते, को ऽस्यापवित्रत्वप्रसङ्ग इति तद्दर्शयति- अमेध्यो वा इति । दर्भैः पावनसामर्थ्येन वाक्यस्य पावने ऽर्थान्तरशुद्धिर्भवति । दर्भान् स्तौति- मेध्या वा इति । यज्ञार्हत्वं मेध्यत्वम्, अशुद्धानां शोधकत्वं पवित्रमिति विवेकः (निरु. ५ । २ । १) ॥ १८ ॥
Eggeling
- He then purifies him with a cleanser (pavitra, strainer) of sacred grass; for impure, indeed, is man:–he is foul within in that he speaks untruth;–and sacred grass is pure: ‘Having become pure, I shall be consecrated,’ thus he thinks;–and the stalks of sacred grass are a means of cleansing,–
‘Having become cleansed, I shall be consecrated,’ thus he thinks; and therefore he purifies him with a cleanser of sacred grass.
१९
विश्वास-प्रस्तुतिः
तद्वा ऽए᳘कᳫं᳭ स्यात्॥
(दे᳘) ए᳘को᳘ ह्ये᳘वायं प᳘वते त᳘देत᳘स्यैव᳘[[!!]] रूपे᳘ण त᳘स्मादे᳘कᳫं᳭ स्यात्॥
मूलम् - श्रीधरादि
तद्वा ऽए᳘कᳫं᳭ स्यात्॥
(दे᳘) ए᳘को᳘ ह्ये᳘वायं प᳘वते त᳘देत᳘स्यैव᳘[[!!]] रूपे᳘ण त᳘स्मादे᳘कᳫं᳭ स्यात्॥
मूलम् - Weber
तद्वा ए᳘कᳫं स्यात्॥
ए᳘कोॗ ह्येॗवायम् प᳘वते त᳘देत᳘स्यै᳘व रूपे᳘ण त᳘स्मादे᳘कᳫं स्यात्॥
मूलम् - विस्वरम्
तद्वा एकं स्यात्- एको ह्येवायं पवते । तदेतस्यैव रूपेण । तस्मादेकं स्यात् ॥ १९ ॥
सायणः
तद्वा एकमित्यादि । पावनसाधनदर्भेष्वेकादिपक्षा आक्षिप्याः । ‘अयं’ वायुः ‘एकः’ एव ‘पवते’ पवतिर्गतिकर्मा; (निघं. २ । १४ । १०८) अन्तरिक्षे गच्छति (निरु. ५ । २ । १) । ‘तस्मात्’ पवित्रमपि ‘एकं’ स्यात् ॥ १९ ॥
Eggeling
- It may consist of one (stalk of grass); for that blower (or purifier, the Wind) is one only, and in accordance with his nature is this (cleanser): hence it may consist of one (stalk).
२०
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थो ऽअ᳘पि त्री᳘णि स्युः॥
(रे᳘) ए᳘को᳘ ह्ये᳘वायं प᳘वते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टस्त्रेधा विहितः᳘ प्राण᳘ ऽउदानो᳘ व्यान ऽइ᳘ति त᳘देत᳘स्यैवा᳘नु मा᳘त्रां त᳘स्मात्त्री᳘णि स्युः॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थो ऽअ᳘पि त्री᳘णि स्युः॥
(रे᳘) ए᳘को᳘ ह्ये᳘वायं प᳘वते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टस्त्रेधा विहितः᳘ प्राण᳘ ऽउदानो᳘ व्यान ऽइ᳘ति त᳘देत᳘स्यैवा᳘नु मा᳘त्रां त᳘स्मात्त्री᳘णि स्युः॥
मूलम् - Weber
अ᳘थो अ᳘पि त्री᳘णि स्युः॥
ए᳘कोॗ ह्येॗवायम् प᳘वतेॗ सो ऽयम् पु᳘रुषे ऽन्तः प्र᳘विष्टस्त्रेधाविहितः᳘ प्राण᳘ उदानो᳘ व्यान इ᳘ति त᳘देत᳘स्यैवा᳘नु मा᳘त्रां त᳘स्मात्त्री᳘णि स्युः॥
मूलम् - विस्वरम्
अथ अपि त्रीणि स्युः । एको ह्येवायं पवते । सो ऽयं पुरुषे ऽन्तः प्रविष्टस्त्रेधा विहितः- प्राण उदानो व्यान इति । तदेतस्यैवानुमात्राम् । तस्मात्त्रीणि स्युः ॥ २० ॥
सायणः
अथो अपीति । ‘सः’ एव ‘अयं’ वायुः ‘एक एव’ पुरुषे पुरुषस्य ‘अन्तः प्रविष्टः’ प्राणादिभेदेन ‘त्रेधा’ विभक्तः, अथ ‘त्रीणि स्युः’ ॥ २० ॥
Eggeling
- Or there may be three (stalks); for one, indeed, is that blower, but on entering into man he becomes threefold, to wit, the out-breathing, the in-breathing, and the through-breathing 31, and in accordance with his measure is this (cleanser): hence there may be three (stalks).
२१
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थो ऽअ᳘पि सप्त᳘ स्युः॥
सप्त वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्त᳘स्मात्सप्त᳘ स्युस्त्रिःसप्ता᳘न्येव᳘ स्युरे᳘कविᳫँ᳭शतिरे᳘षैव᳘ संपत्॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थो ऽअ᳘पि सप्त᳘ स्युः॥
सप्त वा᳘ ऽइमे᳘ शीर्ष᳘न्प्राणास्त᳘स्मात्सप्त᳘ स्युस्त्रिःसप्ता᳘न्येव᳘ स्युरे᳘कविᳫँ᳭शतिरे᳘षैव᳘ संपत्॥
मूलम् - Weber
अ᳘थो अ᳘पि सप्त᳘ स्युः॥
सप्त वा᳘ इमे᳘ शीर्ष᳘न्प्राणास्त᳘स्मात्सप्त᳘ स्युस्त्रिःसप्ता᳘न्येव᳘ स्युरे᳘कविंशतिरेॗषैव᳘ सम्पत्॥
मूलम् - विस्वरम्
अयो अपि सप्त स्युः । सप्त वा इमे शीर्षन्प्राणाः । तस्मात्सप्त स्युः । त्रिःसप्तान्येव स्युः । एकविंशतिः, एषैव संपत् ॥ २१ ॥
सायणः
अथो अपि सप्तेति । ‘शीर्षन्’ शिरसि भवाः, मुखादिच्छिद्रगताः, ‘एकविंशतिः स्युः’ इति । तत्र त्रिः-सप्तान्येव इति सप्तसंख्याया एवावृत्तौ ‘एषैव’ सप्तसङ्ख्याया उक्तिः ‘सम्पद्’ इत्यर्थः । यद्वा ‘एषैव’ पुरुषरूपैव ‘सम्पत्’ इत्यर्थः । “दश हस्त्या अंगुलयो दश पद्या आत्मैकविंशः”- इति श्रुत्यन्तरात् (तै. सं. ६ । १ । १ । ८) ॥ २१ ॥
Eggeling
- Or there may be seven (stalks 32); for there are seven vital airs of the head: hence there may be seven (stalks). There may even be thrice seven,–one and twenty: such indeed is perfection.
२२
विश्वास-प्रस्तुतिः
(त्त᳘ᳫँ᳘) त᳘ᳫँ᳘ सप्त᳘भिः सप्तभिः पावयति॥
चित्प᳘तिर्मा पुनात्वि᳘ति प्रजा᳘पतिर्व्वै᳘ चित्प᳘तिः प्रजा᳘पतिर्मा पुनात्वि᳘त्ये᳘वैत᳘दाह व्वाक्प᳘तिर्मा पुनात्वि᳘ति प्रजा᳘पतिर्व्वै᳘ व्वाक्प᳘तिः प्रजा᳘पतिर्मा पुनात्वि᳘त्ये᳘वैत᳘दाह देवो᳘ मा सविता᳘ पुनात्वि᳘ति तद्वै सु᳘पूतं यं᳘ देवः᳘ सविता᳘ पुनात्त᳘स्मादाह देवो᳘ मा सविता᳘ पुनात्वित्य᳘च्छिद्रेण पवि᳘त्रेणे᳘ति यो वा᳘ ऽअयं प᳘वत ऽएषो᳘ ऽच्छिद्रं पवि᳘त्रमेते᳘नैत᳘दाह सू᳘र्यस्य रश्मि᳘भिरि᳘त्येते वै᳘ पविता᳘रो यत्सू᳘र्यस्य रश्म᳘यस्त᳘स्मादाह सू᳘र्यस्य रश्मि᳘भिरि᳘ति॥
मूलम् - श्रीधरादि
(त्त᳘ᳫँ᳘) त᳘ᳫँ᳘ सप्त᳘भिः सप्तभिः पावयति॥
चित्प᳘तिर्मा पुनात्वि᳘ति प्रजा᳘पतिर्व्वै᳘ चित्प᳘तिः प्रजा᳘पतिर्मा पुनात्वि᳘त्ये᳘वैत᳘दाह व्वाक्प᳘तिर्मा पुनात्वि᳘ति प्रजा᳘पतिर्व्वै᳘ व्वाक्प᳘तिः प्रजा᳘पतिर्मा पुनात्वि᳘त्ये᳘वैत᳘दाह देवो᳘ मा सविता᳘ पुनात्वि᳘ति तद्वै सु᳘पूतं यं᳘ देवः᳘ सविता᳘ पुनात्त᳘स्मादाह देवो᳘ मा सविता᳘ पुनात्वित्य᳘च्छिद्रेण पवि᳘त्रेणे᳘ति यो वा᳘ ऽअयं प᳘वत ऽएषो᳘ ऽच्छिद्रं पवि᳘त्रमेते᳘नैत᳘दाह सू᳘र्यस्य रश्मि᳘भिरि᳘त्येते वै᳘ पविता᳘रो यत्सू᳘र्यस्य रश्म᳘यस्त᳘स्मादाह सू᳘र्यस्य रश्मि᳘भिरि᳘ति॥
मूलम् - Weber
त᳘ᳫं᳘ सप्त᳘भिः सप्तभिः पावयति॥
चित्प᳘तिर्मा पुनात्वि᳘ति प्रजा᳘पतिर्वै᳘ चित्प᳘तिः प्रजा᳘पतिर्मा पुनात्वि᳘त्येॗवैत᳘दाह वाक्प᳘तिर्मा पुनात्वि᳘ति प्रजा᳘पतिर्वै᳘ वाक्प᳘तिः प्रजा᳘पतिर्मा पुनात्वि᳘त्येॗवैत᳘दाह देवो᳘ मा सविता᳘ पुनात्वि᳘ति तद्वै सु᳘पूतं यं᳘ देवः᳘ सविता᳘पुनात्त᳘स्मादाह देवो᳘ मा सविता᳘ पुनात्वित्य᳘छिद्रेण पवि᳘त्रेणेति यो वा᳘ अयम् प᳘वत एषो᳘ ऽछिद्रम् पवि᳘त्रमेते᳘नैत᳘दाह सू᳘र्यस्य रश्मि᳘भिरि᳘त्येते वै᳘ पविता᳘रो यत्सू᳘र्यस्य रश्म᳘यस्त᳘स्मादाह सू᳘र्यस्य रश्मि᳘भिरि᳘ति॥
मूलम् - विस्वरम्
तं सप्तभिः सप्तभिः पावयति । “चित्पतिर्मा पुनातु”- (वा. सं. ४ । ४) इति । प्रजापतिर्वै चित्पतिः । प्रजापतिर्मा पुनातु- इत्येवैतदाह । “वाक्पतिर्मा पुनातु”- (वा. सं. ४ । ४) इति । प्रजापतिर्वै वाक्पतिः । प्रजापतिर्मा पुनातु- इत्येवैतदाह । “देवो मा सविता पुनातु”- (वा. सं. ४ । ४) इति । तद्वै सुपूतं- यं देवः सविता पुनात् । तस्मादाह- देवो मा सविता पुनात्विति । “अच्छिद्रेण पवित्रेण”- (वा. सं. ४ । ४) इति । यो वा अयं पवते- एषो ऽच्छिद्रं पवित्रम्, एतेनैतदाह । “सूर्यस्य रश्मिभिः”- (वा. सं. ४ । ४) इति । एते वै पवितारो- यत् सूर्यस्य रश्मयः । तस्मादाह- सूर्यस्य रश्मिभिरिति ॥ २२ ॥
सायणः
तं सप्तभिरिति । एकविंशतिपक्षे एकविंशतिं दर्भान् त्रेधा विभज्य ‘सप्तभिः-सप्तभिः’ “चित्पतिर्मा,” “वाक्पतिर्मा,” “देवो मा” इति त्रिषु मन्त्रेषु, एकैकेन मन्त्रेण पावयेत् । “अच्छिद्रेण पवित्रेण”- इति मन्त्रशेषः सर्वत्रानुषज्यते । तत्राप्ययं विभागः- सप्तभिः प्रथममन्त्रेण नाभित आरभ्योर्ध्वमुन्मृज्यात्, पुनश्च सप्तभिर्द्वितीयमन्त्रेणाप्येवम्, अवशिष्टैः सप्तभिस्तृतीयेन मन्त्रेण नाभेरध आरभ्यावमृज्यात् । तथा च कात्यायनः- “सप्तभिः सप्तभिः प्रतिमन्त्रमच्छिद्रेणेति सर्वत्र द्विरुपरि नाभ्युन्मृज्य प्रदक्षिणं सकृदर्वाङ्, एकेन त्रिभिः सप्तभिरेकविंशतिभिर्वा-“ (का. श्रौ. सू. ७ । ६७ । ६८) इति 33 । आपस्तम्बस्तु चित्पतिस्त्वेति पावकस्य, चित्पतिर्मेति पाव्यमानस्य 34 च विभज्योभयमप्युक्तवान् (आप. श्रौ. सू. १० । ७ । ५-१४) सर्वशेषभूतस्याच्छिद्रेणेत्यस्यार्थमाह- अच्छिद्रेणेति 35 । सर्वदा सर्वत्र पवनात् ‘एषः’ वायुः ‘अच्छिद्रं पवित्रम्’ ॥ २२ ॥
Eggeling
- He purifies him with seven (stalks) each time, with the text (Vāj. S. IV, 4), ‘May the Lord of thought purify me!’ The lord of thought doubtless is Prajāpati 36: he thereby means to say, ‘May Prajāpati purify me!’ ‘May the lord of speech purify me!’ The lord of speech doubtless is Prajāpati 37: he thereby means to say, ‘May Prajāpati purify me!’ ‘May the divine Savitr̥ purify me,’–for well purified indeed is he whom the divine
Savitr̥ has purified 38; therefore he says, ‘May the divine Savitr̥ purify me!’–‘with a flawless cleanser;’ for that blower (the wind) is indeed a flawless cleanser: ‘with that one,’ he means to say; ‘with the rays of the sun;’ for they, the rays of the sun, are indeed purifiers; therefore he says, ‘with the rays of the sun.’
२३
विश्वास-प्रस्तुतिः
त᳘स्य ते पवित्रपत ऽइ᳘ति॥
पवि᳘त्रपतिर्हि भ᳘वति पवि᳘त्रपूतस्ये᳘ति पवि᳘त्रपूतो हि भ᳘वति य᳘त्कामः पुने त᳘च्छकेयमि᳘ति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
त᳘स्य ते पवित्रपत ऽइ᳘ति॥
पवि᳘त्रपतिर्हि भ᳘वति पवि᳘त्रपूतस्ये᳘ति पवि᳘त्रपूतो हि भ᳘वति य᳘त्कामः पुने त᳘च्छकेयमि᳘ति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
त᳘स्य ते पवित्रपत इ᳘ति॥
पवि᳘त्रपतिर्हि भ᳘वति पवि᳘त्रपूतस्ये᳘ति पवि᳘त्रपूतो हि भ᳘वति य᳘त्कामः पुने त᳘छकेयमि᳘ति यज्ञ᳘स्योदृ᳘चं गछानी᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
“तस्य ते पवित्रपते”- (वा. सं. ४ । ४) इति । पवित्रपतिर्हि भवति । “पवित्रपूतस्य”- इति । पवित्रपूतो हि भवति । “यत्कामः पुने तच्छकेयम्”- (वा. सं. ४ । ४) इति । यज्ञस्योदृचं गच्छानीत्येवैतदाह ॥ २३ ॥
सायणः
मन्त्रशेषं व्याचष्टे- तस्य त इति । पवित्राणि रश्मयः; 33 शोधकत्वात् (निरु. ५ । २ । १) । अग्निः पवित्रपतिः 34 (निरु. ५ । २ । १) तत्पाठात्स्वरूपमपि ‘पवित्रपतिर्भवति’ खलु । स्पष्टमन्यत् । ‘उदृचं’ उपरिभाविनी ऋक् उदृक् । अनेन च समाप्तिर्लक्ष्यते । तेन यज्ञस्यान्तं प्राप्तवानीत्यर्थः । अमुमर्थम् ‘एतत्’ एतेन “तच्छकेयम्”- इति अनेन, मन्त्रः ‘आह’ इत्यर्थः ॥ २३ ॥
Eggeling
- ‘O Lord of the pavitra’ (means of purification),–for he (who is consecrated) is indeed the lord of the pavitra,–‘of thee, purified by the pavitra,–for he is indeed purified by the pavitra;–‘with whatsoever desire I purify myself, may I be able to effect it!’ whereby he says, ‘May I reach the end of the sacrifice!’
२४
विश्वास-प्रस्तुतिः
(हा) अ᳘थाशि᳘षामारम्भं᳘ व्वाचयति॥
(त्या᳘) आ᳘ वो देवास ईमहे व्वामं᳘ प्रय᳘त्यध्वरे[[!!]]॥ आ᳘ वो देवास आशि᳘षो यज्ञि᳘यासो हवामह ऽइ᳘ति त᳘दस्मै स्वाः᳘ सती᳘र्ऋत्वि᳘ज ऽआशि᳘ष ऽआ᳘शासते॥
मूलम् - श्रीधरादि
(हा) अ᳘थाशि᳘षामारम्भं᳘ व्वाचयति॥
(त्या᳘) आ᳘ वो देवास ईमहे व्वामं᳘ प्रय᳘त्यध्वरे[[!!]]॥ आ᳘ वो देवास आशि᳘षो यज्ञि᳘यासो हवामह ऽइ᳘ति त᳘दस्मै स्वाः᳘ सती᳘र्ऋत्वि᳘ज ऽआशि᳘ष ऽआ᳘शासते॥
मूलम् - Weber
अ᳘थाशि᳘षामारम्भं वाचयति॥
आ᳘ वो देवास ईमहे वाम᳘म् प्रयत्य᳘ध्वरे आ᳘ वो देवास आशि᳘षो यज्ञि᳘यासो हवामह इ᳘ति त᳘दस्मै स्वाः᳘ सती᳘रृत्वि᳘ज आशि᳘ष आ᳘शासते॥
मूलम् - विस्वरम्
अथाशिषामारम्भं वाचयति । आ वो देवास ईमहे वामं प्रयत्यध्वरे । आ वो देवास आशिषो यज्ञियासो हवामहे”- (वा. सं. ४ । ५) इति । तदस्मै स्वाः सतीर्ऋत्विज आशिष आशासते ॥ २४ ॥
सायणः
अथाशिषामिति । “आ वो देवासः” इति मन्त्रस्य ‘आशिषामारम्भः’- इति नाम; भाव्याशिषामस्यारम्भरूपत्वात् । मन्त्रपाठस्य प्रयोजनमाह- तदस्मा इति । ‘तत्’ तेन आशिषामारम्भवाचनेन सर्वासामाशिषामादावेव यजमानेन परिगृहीतत्वात् ‘स्वाः’ स्वकीया एव ‘सतीः’ ता एव ‘आशिषः’ ‘ऋत्विजः’ तन्मन्त्रेषु यजमानार्थमाशासते (का. श्रौ. सू. ७ । ७०) ॥ २४ ॥
Eggeling
- He then makes him pronounce the beginning of the benedictions (Vāj. S. IV, 5), ‘We approach you, O gods, for desirable goods, at the opening of the sacrifice; we call on you, O gods, for holy 39 blessings.’ Thereby the officiating priests invoke on him those blessings which are their own.
२५
विश्वास-प्रस्तुतिः
(ते᳘ ऽथा) अ᳘थाङ्गु᳘लीर्न्य᳘चति॥
स्वा᳘हा यज्ञं म᳘नस ऽइ᳘ति द्वे स्वा᳘होरो᳘रन्त᳘रिक्षादि᳘ति द्वे स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति द्वे स्वा᳘हा व्वा᳘तादा᳘रभ ऽइ᳘ति मुष्टी᳘करोति न वै᳘ यज्ञः᳘ प्रत्य᳘क्षमिवार᳘भे य᳘था ऽयं᳘ दण्डो᳘ वा व्वा᳘सो वा परो ऽक्षं वै᳘ देवाः परो᳘ ऽक्षं यज्ञः॥
मूलम् - श्रीधरादि
(ते᳘ ऽथा) अ᳘थाङ्गु᳘लीर्न्य᳘चति॥
स्वा᳘हा यज्ञं म᳘नस ऽइ᳘ति द्वे स्वा᳘होरो᳘रन्त᳘रिक्षादि᳘ति द्वे स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति द्वे स्वा᳘हा व्वा᳘तादा᳘रभ ऽइ᳘ति मुष्टी᳘करोति न वै᳘ यज्ञः᳘ प्रत्य᳘क्षमिवार᳘भे य᳘था ऽयं᳘ दण्डो᳘ वा व्वा᳘सो वा परो ऽक्षं वै᳘ देवाः परो᳘ ऽक्षं यज्ञः॥
मूलम् - Weber
अ᳘थाङ्गु᳘लीर्न्य᳘चति॥
स्वाहा यज्ञम् म᳘नस इ᳘ति द्वे स्वा᳘होरो᳘रन्त᳘रिक्षादि᳘ति द्वे स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति द्वे स्वा᳘हा वा᳘तादा᳘रभ इ᳘ति मुष्टी᳘करोति न वै᳘ यज्ञः᳘ प्रत्य᳘क्षमिवार᳘भे य᳘थायं᳘ दण्डो᳘ वा वा᳘सो वा परो ऽक्षं वै᳘ देवाः परो᳘ ऽक्षं यज्ञः॥
मूलम् - विस्वरम्
अथांगुलीर्न्यचति । “स्वाहा यज्ञं मनसः”- (वा. सं. ४ । ६) इति द्वे; “स्वाहोरोरन्तरिक्षात्”- (वा. सं. ४ । ६ ।) इति द्वे; “स्वाहा द्यावापृथिवीभ्याम्”- (वा. सं. ४ । ६) इति द्वे; “स्वाहा वातादारभे”- (वा. सं. ४ । ६) इति मुष्टीकरोति । न वै यज्ञः प्रत्यक्षमिवारभे । यथा ऽयं दण्डो वा वासो वा । परो ऽक्षं वै देवाः । परो ऽक्षं यज्ञः ॥ २५ ॥
सायणः
अथाङ्गुलीरिति । ‘न्यचति’ सङ्कोचयतीत्यर्थः । तत्प्रकारमाह- स्वाहेत्यादिना । एकैकेन मन्त्रेण हस्तद्वये ऽपि कनिष्ठिकादिक्रमेण द्वे-द्वे अंगुली न्यञ्चतीत्यर्थः । एवं करद्वयांगुलिन्यञ्चनक्रमेणोत्तमेन मन्त्रेण पाणी मुष्टीकुर्यात् (का. श्रौ. सू. ७ । ७१) 40 “उत्तानेन मुष्टी कृत्वा”- (का. श्रौ. सू. ७ । ७३) इति सूत्रम् । तत्प्रयोजनमाह- न वै यज्ञ इति । यज्ञस्य वासोदण्डादिवद्धस्ते धारयितुमशक्यत्वात्; अत एव परोक्षान्मन्त्रेण मुष्टिबन्धनमेव प्रत्यक्षधारणमित्यर्थः ॥ २५ ॥
Eggeling
- He (the sacrificer) then bends his fingers inwards, viz. the two (little fingers), with the text (Vāj. S. IV, 6), ‘Hail, from the mind (I take hold of) the sacrifice!’–the two (nameless or ring fingers) with, ‘Hail, from the wide ether!’–the two (middle fingers) with, ‘Hail, from the sky and earth!’–with, ‘Hail, from the wind, I take hold (of the sacrifice)!’ he clenches both fists 41. Not visibly
indeed is the sacrifice to be taken hold of, as is either this staff or the garment,–but invisible indeed are the gods, invisible is the sacrifice.
२६
विश्वास-प्रस्तुतिः
स यदा᳘ह॥
स्वा᳘हा यज्ञं म᳘नस ऽइ᳘ति तन्म᳘नस आ᳘रभते स्वा᳘होरो᳘रन्त᳘रिक्षादि᳘ति त᳘दन्त᳘रिक्षादा᳘रभते स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यामा᳘रभते य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि स्वा᳘हा व्वा᳘तादा᳘रभ ऽइ᳘ति व्वा᳘तो वै᳘ यज्ञस्त᳘द्यज्ञं᳘[[!!]] प्रत्य᳘क्षमा᳘रभते॥
मूलम् - श्रीधरादि
स यदा᳘ह॥
स्वा᳘हा यज्ञं म᳘नस ऽइ᳘ति तन्म᳘नस आ᳘रभते स्वा᳘होरो᳘रन्त᳘रिक्षादि᳘ति त᳘दन्त᳘रिक्षादा᳘रभते स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यामा᳘रभते य᳘योरिदᳫँ᳭ स᳘र्व्वम᳘धि स्वा᳘हा व्वा᳘तादा᳘रभ ऽइ᳘ति व्वा᳘तो वै᳘ यज्ञस्त᳘द्यज्ञं᳘[[!!]] प्रत्य᳘क्षमा᳘रभते॥
मूलम् - Weber
स यदा᳘ह॥
स्वा᳘हा यज्ञम् म᳘नस इ᳘ति तन्म᳘नस आ᳘रभते स्वा᳘होरो᳘रन्त᳘रिक्षादि᳘ति त᳘दन्त᳘रिक्षादा᳘रभते स्वा᳘हा द्या᳘वापृथिवी᳘भ्यामि᳘ति त᳘दाभ्यां द्या᳘वापृथिवी᳘भ्यामा᳘रभते य᳘योरिदᳫं स᳘र्वम᳘धि स्वा᳘हा वा᳘तादा᳘रभ इ᳘ति वा᳘तो वै᳘ यज्ञस्तद्यज्ञ᳘म् प्रत्य᳘क्षमा᳘रभते॥
मूलम् - विस्वरम्
स यदाह- स्वाहा यज्ञं मनस इति- तन्मनस आरभते । स्वाहोरोरन्तरिक्षादिति । तदन्तरिक्षादारभते- स्वाहा द्यावापृथिवीभ्यामिति- तदाभ्यां द्यावापृथिवीभ्यामारभते- ययोरिदं सर्वमधि । स्वाहा वातादारभे इति । वातो वै यज्ञः । तद् यज्ञं प्रत्यक्षमारभते ॥ २६ ॥
सायणः
स यदाहेत्यादि । मन्त्रस्य क्रमेण व्याख्यानम् । स्पष्टम् । वातादारभे- इति । वातेन प्राणेन व्याप्रियमाणत्वात् ’ वातो यज्ञः’ । ‘वै’- शब्देन “वातो यज्ञः प्रयुज्यताम्”- इत्यादिमन्त्रप्रसिद्धिर्द्योत्यते ॥ २६ ॥
Eggeling
- Now when he says, ‘Hail, from the mind (I take hold of) the sacrifice,’ he takes hold of it from the mind;–in saying, ‘From the wide ether,’ he takes hold of it from the ether;–in saying, ‘From heaven and earth,’ he takes hold of it from those two, heaven and earth, on which this entire universe rests;–and in saying, ‘From the wind I take hold of (the sacrifice)’–the wind being the sacrifice–he takes hold of the sacrifice directly.
२७
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ यत्स्वा᳘हा स्वाहे᳘ति करो᳘ति॥
यज्ञो वै᳘ स्वाहाकारो᳘ यज्ञ᳘मे᳘वैत᳘दात्म᳘न्धत्ते᳘ ऽत्रो ऽएव व्वा᳘चं यच्छति व्वाग्वै᳘ यज्ञो᳘ यज्ञ᳘मे᳘वैत᳘दात्म᳘न्धत्ते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ यत्स्वा᳘हा स्वाहे᳘ति करो᳘ति॥
यज्ञो वै᳘ स्वाहाकारो᳘ यज्ञ᳘मे᳘वैत᳘दात्म᳘न्धत्ते᳘ ऽत्रो ऽएव व्वा᳘चं यच्छति व्वाग्वै᳘ यज्ञो᳘ यज्ञ᳘मे᳘वैत᳘दात्म᳘न्धत्ते॥
मूलम् - Weber
अ᳘थ यत्स्वा᳘हा स्वाहे᳘ति करो᳘ति॥
यज्ञो वै᳘ स्वाहाकारो᳘ यज्ञ᳘मेॗवैत᳘दात्म᳘न्धत्ते᳘ ऽत्रो एव वा᳘चं यछति वाग्वै᳘ यज्ञो᳘ यज्ञ᳘मेॗवैत᳘दात्म᳘न्धत्ते॥
मूलम् - विस्वरम्
अथ यत्- ‘स्वाहा स्वाहा’ इति करोति । यज्ञो वै स्वाहाकारः । यज्ञमेवैतदात्मन्धत्ते । अत्रो एव वाचं यच्छति । वाग्वै यज्ञः । यज्ञमेवैतदात्मन्धत्ते ॥ २७ ॥
सायणः
अथ यत्स्वाहेति । हविस्त्यागस्य यज्ञत्वात्, स्वाहाकारेण च हविःप्रदानात्, स्वाहाकारस्य च यज्ञात्मकता । अनन्तरं वाग्यमनं विधत्ते- अथ वाचं यच्छतीति (का. श्रौ. सू. ७ । ७३) 42 । वाग्व्यवहारमन्त्ररूपेण यज्ञनिष्पत्तेः ‘वाक् यज्ञः’ । तस्याः बहिर्निर्गमनमकृत्वा आत्मनि नियमात् ‘यज्ञमेव’ आत्मनि धृतवान् भवति ॥ २७ ॥
Eggeling
२८
विश्वास-प्रस्तुतिः
(त्ते᳘ ऽथै) अ᳘थैनᳫंशा᳘लां प्र᳘पादयति॥
स᳘ जघ᳘नेनाहवनी᳘यमेत्य᳘ग्रेण गा᳘र्हपत्य᳘ᳫँ᳘[[!!]] सो ऽस्य संचरो᳘ भवत्या᳘सुत्या᳘यै तद्य᳘दस्यैष᳘ संचरो भ᳘वत्या᳘सुत्या᳘या ऽअग्निर्वै यो᳘निर्यज्ञ᳘स्य ग᳘र्भो दीक्षितो᳘ ऽन्तरेण वै यो᳘निं ग᳘र्भः सं᳘चरति स यत्स तत्रै᳘जति त्वत्प᳘रि त्वदा᳘वर्तते त᳘स्मादिमे ग᳘र्भा ऽए᳘जन्ति त्वत्प᳘रि त्वदा᳘वर्तन्ते त᳘स्मादस्यैष᳘ संचरो᳘ भवत्या᳘सुत्या᳘यै॥
मूलम् - श्रीधरादि
(त्ते᳘ ऽथै) अ᳘थैनᳫंशा᳘लां प्र᳘पादयति॥
स᳘ जघ᳘नेनाहवनी᳘यमेत्य᳘ग्रेण गा᳘र्हपत्य᳘ᳫँ᳘[[!!]] सो ऽस्य संचरो᳘ भवत्या᳘सुत्या᳘यै तद्य᳘दस्यैष᳘ संचरो भ᳘वत्या᳘सुत्या᳘या ऽअग्निर्वै यो᳘निर्यज्ञ᳘स्य ग᳘र्भो दीक्षितो᳘ ऽन्तरेण वै यो᳘निं ग᳘र्भः सं᳘चरति स यत्स तत्रै᳘जति त्वत्प᳘रि त्वदा᳘वर्तते त᳘स्मादिमे ग᳘र्भा ऽए᳘जन्ति त्वत्प᳘रि त्वदा᳘वर्तन्ते त᳘स्मादस्यैष᳘ संचरो᳘ भवत्या᳘सुत्या᳘यै॥
मूलम् - Weber
अ᳘थैनं शा᳘लाम् प्र᳘पादयति॥
स᳘ जघ᳘नेनाहवनी᳘यमेत्य᳘ग्रेण गा᳘र्हपॗत्यᳫं सो ऽस्य संचरो᳘ भवत्या᳘ सुत्या᳘यै तद्य᳘दस्यैष᳘ संचरो भ᳘वत्या᳘ सुत्या᳘या अग्निर्वै यो᳘निर्यज्ञ᳘स्य ग᳘र्भो दीक्षितो᳘ ऽन्तरेण वै यो᳘निं ग᳘र्भः सं᳘चरति स यत्स तत्रै᳘जति त्वत्प᳘रि त्वदा᳘वर्तते त᳘स्मादिमे ग᳘र्भा ए᳘जन्ति त्वत्प᳘रि त्वदा᳘वर्तन्ते त᳘स्मादस्यैष᳘ सचरो᳘ भवत्या᳘ सुत्या᳘यै॥
मूलम् - विस्वरम्
अथैनं शालां प्रपादयति । स जघनेनाहवनीयमेति- अग्रेण गार्हपत्यम् । सो ऽस्य सञ्चरो भवति- आसुत्यायै । तद् यदस्य सञ्चरो भवति- आसुत्यायै । अग्निर्वै योनिर्यज्ञस्य । गर्भो दीक्षितः । अन्तरेण वै योनिं गर्भः सञ्चरति । स यत् स तत्रैजति त्वत्, परि त्वदावर्तते । तस्मादिमे गर्भा एजन्ति त्वत्, परि त्वदावर्तन्ते । तस्मादस्यैष सञ्चरो भवति- आसुत्यायै ॥ २८ ॥
इति दीक्षासंस्काराः ।
सायणः
शालायाः फलोद्देशे यजमानस्याभ्यञ्जनादिकमुक्तम्, तस्य दीक्षाहुत्यर्थं शालाप्रवेशनं विधत्ते- अथैनमिति । (का. श्रौ. सू. ७ । ७५) 42 । प्रविष्टस्य तथा कर्मार्थं सञ्चरनिर्देशमाह- स जघनेनेति । ‘आहवनीयं जघनेन’ तत्पश्चाद्देशे, ‘गार्हपत्यमग्रेण’ तयोर्मध्यपथि कर्मार्थं गच्छति (का. श्रौ. सू. ७। ७५) । अयमेव ‘अस्य’ ‘सञ्चरो भवति’ (का. श्रौ. सू. ७ । ७६ । आप. श्रौ. सू. १० । ८ । २ ।) 45 । उक्तसञ्चरं प्रशंसति- अग्निर्वा इति । यस्मादुत्पद्यते स योनिः; आहुतिप्रदानात्मकस्य ‘यज्ञस्य’ ‘योनिः’ ‘अग्निः’ । मानुषदेहपरित्यागेन दीक्षासंस्कारेण देवदेहोत्पत्तेस्तत्संस्कृतो दीक्षितः ‘गर्भः’ । अतस्तत्र योनित्वेन संस्तुतयोरग्न्योरन्तराले 46 सञ्चारो युक्तः । उक्तमर्थमिदानीन्तनगर्भवर्णनेन द्रढयति- तस्मादिमे गर्भा इति । त्वच्छन्द एकशब्दपर्यायः; एकदेत्यर्थः । अथवा ऽव्ययमिदं चार्थे । ‘यत्’ यस्मात् ‘स:’ गर्भसंयुक्तो यजमानः ‘एजति त्वत्’ चलति च, ‘पर्यावर्त्तते त्वत्’ परिभ्रमति च; ‘तस्मात्’ इदानीन्तना गर्भा अप्येवं भवन्तीत्यर्थः ॥ २८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये तृतीयकाण्डे प्रथमाध्याये तृतीयं ब्राह्मणम् ॥ (३-१-३)
Eggeling
- He (the Adhvaryu) then makes him enter the hall. He walks along the back of the Āhavanīya and the front of the Gārhapatya 47,–this is his passage until the Soma pressing. The reason why this is his passage until the Soma pressing is this. The fire is the womb of the sacrifice, and the consecrated is an embryo; and the embryo moves about
within the womb. And since he (the sacrificer) moves about there (between the fires), and now turns round and now back, therefore these embryos move about, and now turn round and now back. Hence this is his passage till the Soma pressing.
-
यज्ञस्यापरार्ध्यो Sây. ↩︎
-
‘अपःप्रणयनं’ इति कर्मनामधेयं; अन्यथा अपां प्रणयनमिति वाच्यं स्यात् । ↩︎ ↩︎
-
12:1 Viz. the so-called ‘praṇītāḥ,’ see part i, p. 9 note. The offering, described in the following paragraphs, is called the Dīkshaṇī-yeshṭi, ‘Consecration offering.’ As to the formulas used at the offering, see Ait. Br. I, 4 seq. ↩︎
-
12:2 The bird, Vishṇu, the sun. ↩︎
-
संदेहो Sây. ↩︎
-
‘मार्तण्डः’ ऋ. सं. २ । ३८ । ४ । १० । ७२ । ८, ९ । सा. प. ब्रा. २४ । १२ । ६ । महाभारत १ । ३ । १३ । पर्वसु- “न खल्वयं मृतो ऽण्डस्थ इति स्नेहादभाषत । अज्ञानात्कश्यपस्तस्मान्मार्तण्ड इति चोच्यते ॥” इति हरिवंशे । भागवतपुराणे ५ । २ । ४४ । मार्कण्डेयपुराणे ७७ । १ । १०१ । ९; १०५ । १९ । ↩︎
-
12:3 Or, the eighth she brought forth undeveloped, as a mārtāṇḍa (? either a bird, or, more probably, in accordance with Taitt. S. VI, 5, 6, 1, = vyr̥ddham āṇḍam, ‘an abortive egg’). See Rig-veda Sanhitā, translated by M. M., p. 239. ↩︎
-
12:4 Sandegha; the St. Petersburg Dict. takes it in the sense of ‘doubt, uncertainty,’ in this passage. ↩︎
-
13:1 Or, perhaps, after the manner of us (anu). ↩︎
-
13:2 Muir, O. S. T. IV, 15, reads ‘parigr̥hṇīyāt’ instead of ‘pratigr̥hṇīyāt,’ and translates, ’let no one catch an elephant, for an elephant partakes of the nature of man.’ ↩︎
-
राध्नुवात् Sây. ↩︎
-
कल्पभाष्यकृतां श्रुत्यनुगतः सिद्धांतः । कात्यायनः । प्राक् समिष्टयजुषः करोति । ७ । ५६ । समिष्टयजुर्वर्जं वा ७ । ५७ ॥ अत्र कर्कः । दीक्षिणीयां हि प्रकृत्य श्रूयते । तस्मात्तस्य यज्ञस्य समिष्टयजुःष्वन्नं जुह्वति ५६ । समिष्टयजुरेव वा न जुहोति । सर्व्वत्वायैव समिष्टयजुरेव न जुहोतीति वचनात् । अतश्च बर्हिर्होमादयः प्रवर्तेत एव । ध्रौवाज्यस्यौद्ग्रभणेषु विनियोग उक्तः । पंचमं जुह्वां ध्रौवमासिच्येति । तद्विनियोगोत्तरं बहिर्होमादय इति न्याय्यम् । इति ॥ ↩︎
-
13:3 For the ordinary eleven Sāmidhenīs (raised to the number of fifteen by repetitions of the first and last verses), see part i, p. 102, and for the two additional ones (dhāyyā), ib. p. 112 note. ↩︎
-
13:4 See part i, p. 256; for the Samishṭayajus, ib. p. 262. ↩︎
-
य᳘द᳘भ्यङ्क्ते A. यद᳘भ्यङ्क्ते B. ↩︎
-
अवपूर्वस्य “छो छेदने”- दि. प. इत्यस्य निष्ठायां रूपम् “शाच्छोरन्यतरस्याम्”- इति (पा. ७. ४. ४१ सू.) सिद्धम् ॥ ↩︎ ↩︎
-
14:1 Phāṇṭa, explained as the first particles of butter that appear in churning (?). The Kāṇva recension, on the other hand, reads ‘ājyaṁ nishpāṇṭam’ (!) instead. Cf. Taitt. S. VI, 1, 1, 4, Ghr̥taṁ devānām, mastu pitr̥ṇāṁ, nishpakvam (i.e. surabhi ghr̥tam, ‘well-seasoned butter,’ Sāy.) manushyāṇām; tad vai etat sarvadevatyaṁ yan navanītam; also Ait. Br. I, 3, ājyaṁ vai devānāṁ, surabhi ghr̥tam manushyāṇām, āyutam pitr̥ṇāṁ, navanītaṁ garbhāṇām; with Haug’s note, Transl. p. 8. ↩︎
-
वाजसनेयिसंहितायामपि- इडे रंते हव्ये काम्ये चंद्रे ज्योते ऽदिति सरस्वति महि व्विश्रुति । एता ते अघ्न्ये नामानि देवेभ्यो यां सुकृतं ब्रूतात् । ८ । ४३ । इति गोनामानि प्रसिद्धान्येव ॥ ↩︎
-
य᳘द᳘क्ष्याव AB. ↩︎
-
‘इषीका’ इति क्व. पा. मूले तु सर्वत्र दूषीका इत्येव । ↩︎
-
14:2 The Kāṇva text (MSS. O. W.) reads Śiśna. ↩︎
-
15:1 Sa esha kanīnakaḥ kumāraka iva paribhāsate. A play on the word kanīnaka, which has the double meaning of ‘youth’ and ‘pupil of the eye.’ The St. Petersburg Dict. assigns also to kumāraka the meaning of ‘ball of the eye’ in this (the only) passage. The Kāṇva recension reads, Sa esha kumāraka iva kanīnakāyām (? both ‘maiden’ and ‘pupil of the eye’). ↩︎
-
अत्रैव दशमकण्डिकायाम् । ↩︎
-
‘वृत्रस्येत्यक्ष्यावनक्ति त्रैककुदांजनेन’ ‘अभावे ऽन्यत्’ इति । ↩︎
-
15:2 ‘Indra slew Vr̥tra, his eye-ball fell away, it became collyrium.’ Taitt. S. VI, 1, 1, 5. ↩︎
-
15:3 Professor Delbrück, S. F. III, 27, takes it thus, ‘He brushes the eye with the end of a reed, for the reed is a thunderbolt capable of repelling mischief.’ But, if ‘virakshastāyai’ belonged to what precedes, it would probably have to be construed with ‘śareshikayā ’nakti,’ the clause with ‘vai,’ giving the reason, being inserted parenthetically; while, in an idiomatic rendering, it would have to be placed at the end: He anoints the eyes with a reed-stalk in order to chase away the evil spirits, the reed being a thunderbolt. This abstract dative of purpose is very common; it being generally construed with what precedes, as, for instance, I, 1, 4, 1; 3, 2, 8; 5, 3, 8; 15; III, 1, 2, 13; 19; ; and, with a parenthetic clause with ‘vai’ intervening, III, 2, 1, 13; IV, 5, 7, 7. Not less common is the analogous construction with a clause with ’ned’ (’lest such an event should happen’) instead of the dative of the abstract, cf. I, 2, 1, 8; 9; IV, 5, 9, 3. ↩︎
-
16:1 I now take this passage differently from my interpretation of I, 1, 2, 4 (‘and, in order that this man may move about the air, rootless and unfettered in both directions’). See also IV, 1, 1, 20. ↩︎
-
16:2 ‘Tad uttaram evaitad uttarāvat karoti;’ ‘uttarā́m évaitad úttaram karoti,’ Kāṇva recension. Cf. p. 2, note 1. ↩︎
-
17:1 See part i, p. 19, note 2. ↩︎
-
17:2 The Taitt. S. VI, 1, 1 allows the option between (one), 2, 3, 5, 6, 7, 9, and 21 stalks; while the Ait. Br. I, 3 mentions only the highest number. ↩︎
-
यद्यपि सायणभाष्ये “एकविंशतिभिर्वा” इति सर्वपुस्तकेषु वर्तते, तथापि चौखम्बा-संस्कृतग्रन्थमालामुद्रितसकर्कभाष्यकात्यायनश्रौतसूत्रे तु “सप्तभिर्वा” इति पर्य्यन्तमेवालेखि । ↩︎ ↩︎
-
काण्वीयायां श्रुतौ नवकृत्वः पावनं- तथा च श्रुतिः- तं नवकृत्वो नव वै प्राणाः प्राणा उ वै पवित्रं- तस्मान्नवकृत्वः पावयतीति । नवकृत्वः पावनस्य सूत्रमनुसृत्योपपत्तिः कर्कभाष्ये । चित्पतिर्म्मेत्यादिभिर्मेत्रैः साभ्यासमेकं पावनमुपरि नाभि । तथा द्वितीयम् । एवमेव सकृदवाङिति । एवं चाभ्यासापेक्षया नवकृत्वः पावयतीत्युपपन्नार्थं भवति । अभ्याससमुदायापेक्षया च द्विरुपरिनाभि सकृदवाङिति च सूत्रं नेयमिति । ↩︎ ↩︎
-
तथाहि- “अथैनमुत्तरेण बहिः प्राग्वंशात् दर्भपिञ्जुलैः पावयति=एकविंशत्या त्रेधा विभक्तया सप्तभिः सप्तभिर्द्विरूर्ध्वं नाभेरुन्मार्ष्टि सकृदर्वाक् । =चित्पतिस्त्वा पुनात्वित्येतैः प्रतिमन्त्रमच्छिद्रेण पवित्रेणेति सर्वत्रानुषजति । चित्पतिर्मा पुनातु वाक्पतिर्मा पुनातु देवो मा सविता पुनात्विति पाव्यमानो जपति" इत्यादि । ↩︎
-
17:3 The Kāṇva text adds, sa hi cittānām īshṭe, ‘for he rules over the thoughts.’ ↩︎
-
17:4 The Kāṇvas read, ayaṁ vāva vākpatir yo ’yam pavate, tad enam esha punāti, ’the lord of speech doubtless is that blower (purifier, the wind): hence it is he that purifies him.’ ↩︎
-
18:1 See p. 8, note 3. ↩︎
-
18:2 I take yajñiyāsaḥ as acc. pl. fem., as does Mahīdh. Perhaps it ought to be translated ‘for prayers proper at the sacrifice,’ whereby he makes sure that each priest uses his own proper prayers during the sacrifice. ↩︎
-
‘आवो देवास इति वाचयति’ । एवँ शेषं प्रतिमंत्रम् । का. श्रौ. सू. ७ । ७१ । ७२ । ↩︎
-
18:3 For the symbolic meaning of the closing of the hands, see III, 2, 1, 6; Ait. Br. I, 3, 20. ↩︎
-
19:1 That is, ‘svāhā’ in each formula. The Saṁhitā has twice ‘svāhā’ in the last formula (svāhā vātād ārabhe svāhā), to which this might refer, but neither recension of the Brāhmaṇa mentions the final ‘svāhā.’ ↩︎
-
19:2 Literally, ‘he takes within him’ (as the speech confined within him through silence). ↩︎
-
सो ऽस्य संचर आप्रसवात् । ↩︎
-
‘तस्य तयोरन्तराले’ इ० पा० । ↩︎
-
19:3 That is, he enters the hall by the front (east) door, then walks along the north side of the Āhavanīya and altar, and passes between the Gārhapatya and altar to his seat south of the Āhavanīya. The Pratiprasthātr̥ then silently anoints and purifies the Dīkshita’s wife and leads her into the hall, either by the front or back door. ↩︎