०१

विश्वास-प्रस्तुतिः

अपराह्णे᳘ दीक्षेत॥
पुरा᳘ केशश्मश्रोर्व्व᳘पनाद्य᳘त्काम᳘येत[[!!]] त᳘दश्नीयाद्य᳘द्वा सम्प᳘द्येत व्रत᳘ᳫं᳘ ह्ये᳘वास्यातो᳘ ऽशनं भ᳘वति य᳘द्यु ना᳘शिशिषेद᳘पि का᳘मं᳘ नाश्नीयात्॥ [शतम् १४००]॥

मूलम् - श्रीधरादि

अपराह्णे᳘ दीक्षेत॥
पुरा᳘ केशश्मश्रोर्व्व᳘पनाद्य᳘त्काम᳘येत[[!!]] त᳘दश्नीयाद्य᳘द्वा सम्प᳘द्येत व्रत᳘ᳫं᳘ ह्ये᳘वास्यातो᳘ ऽशनं भ᳘वति य᳘द्यु ना᳘शिशिषेद᳘पि का᳘मं᳘ नाश्नीयात्॥ [शतम् १४००]॥

मूलम् - Weber

अपराह्णे᳘ दीक्षेत॥
पुरा᳘ केशश्मश्रो᳘र्व᳘पनाद्य᳘त्काम᳘येत त᳘दश्नीयाद्य᳘द्वा सम्प᳘द्येत व्रॗतᳫं ह्येॗवास्यातो᳘ ऽशनम् भ᳘वति य᳘द्यु ना᳘शिशिषेद᳘पि काॗमं नाश्नीयात्॥

मूलम् - विस्वरम्

अथ तत्रादौ दीक्षासंस्काराः । अपराह्णे दीक्षेत । पुरा केशश्मश्रोर्वपनाद्- यत्कामयेत- तदश्नीयाद् । यद्वा सम्पद्येत । व्रतं ह्येवास्यातो ऽशनं भवति । यद्यु नाशिशिषेद्- अपि कामं नाश्नीयात् ॥ १ ॥

सायणः

अथ दीक्षाकालं 1 विधत्ते- अपराह्ण इति । ‘अपराह्णे अह्नस्तृतीये भागे’ (आप. श्रौ. सू. १० । १२ । २ ।)। अथ दीक्षिताशनविषये सर्वान्नमभ्यनुजानाति- यत्कामयेतेत्यादिना । यथेष्टभोजने उपपत्तिमाह- व्रतं ह्येवास्यात इति । ‘अतः’ अस्मादुक्तभोजनादूर्ध्वकाले ‘व्रतम्’ ‘एव’ खलु केवलं पयःपानमेव; अत इदानीं यथेष्टं भुञ्जीत । तथा चापस्तम्बः “तथाशितः स्याद्यथा ततो दीक्षासु कनीयः- कनीयो व्रतमुपेयात्” (आप. श्रौ. सू. १०. ६. ७-१०) इति । इच्छया ऽशनाभावपक्षमप्याह- यदीति । कात्यायनः- “अन्नमुपहरन्त्यस्मै हविष्यममांसम् ०-० अपराह्णे ऽश्नातीष्टमुपपन्नं वा न वेति” (का. श्रौ. सू. ७ । ३२ । ३३ । ३४) ॥ १ ॥

Eggeling
  1. Let him perform the rite of consecration (dīkshā) 2 in the afternoon. Previously to the shaving

of his hair and beard he may eat of what he likes, or whatever comes to hand; for hereafter his food consists of fast-milk (vrata) only. But, if he does not care to eat, he need not eat anything.

०२

विश्वास-प्रस्तुतिः

(द) अथो᳘त्तरेण शा᳘लां प᳘रिश्रयन्ति॥
त᳘दुदकुम्भ᳘मुपनि᳘दधति त᳘न्नापित उ᳘पतिष्ठते त᳘त्केशश्मश्रु᳘ च व्व᳘पते नखा᳘नि च नि᳘कृन्तते᳘ ऽस्ति वै पु᳘रुषस्यामेध्यं य᳘त्रास्या᳘पो᳘ नोपति᳘ष्ठन्ते केशश्मश्रौ᳘ च वा᳘ ऽअस्य नखे᳘षु चा᳘पो नो᳘पतिष्ठन्ते तद्य᳘त्केशश्मश्रु᳘ च व्व᳘पते नखा᳘नि च निकृन्त᳘ते मे᳘ध्यो भूत्वा᳘ दीक्षा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(द) अथो᳘त्तरेण शा᳘लां प᳘रिश्रयन्ति॥
त᳘दुदकुम्भ᳘मुपनि᳘दधति त᳘न्नापित उ᳘पतिष्ठते त᳘त्केशश्मश्रु᳘ च व्व᳘पते नखा᳘नि च नि᳘कृन्तते᳘ ऽस्ति वै पु᳘रुषस्यामेध्यं य᳘त्रास्या᳘पो᳘ नोपति᳘ष्ठन्ते केशश्मश्रौ᳘ च वा᳘ ऽअस्य नखे᳘षु चा᳘पो नो᳘पतिष्ठन्ते तद्य᳘त्केशश्मश्रु᳘ च व्व᳘पते नखा᳘नि च निकृन्त᳘ते मे᳘ध्यो भूत्वा᳘ दीक्षा ऽइ᳘ति॥

मूलम् - Weber

अथो᳘त्तरेण शा᳘लाम् प᳘रिश्रयन्ति॥
त᳘दुदकुम्भ᳘मुपनि᳘दधाति त᳘न्नापित उ᳘पतिष्ठते त᳘त्केशश्मश्रु᳘ च व᳘पते नखा᳘नि च नि᳘कृन्तते ऽस्ति वै पु᳘रुषस्यामेध्यं य᳘त्रास्या᳘पोॗ नोपति᳘ष्ठन्ते केशश्मश्रौ᳘ च वा᳘ अस्य नखे᳘षु चा᳘पो नो᳘पतिष्ठन्ते तद्य᳘त्केशश्मश्रु᳘ च व᳘पते नखा᳘नि च निकृन्त᳘ते मे᳘ध्यो भूत्वा᳘ दीक्षा इ᳘ति॥

मूलम् - विस्वरम्

अथोत्तरेण शालां परिश्रयन्ति । तदुदकुम्भमुपनिदधति । तन्नापित उपतिष्ठते । तत्केशश्मश्रु च वपते, नखानि च निकृन्तते । अस्ति वै पुरुषस्यामेध्यं- यत्रास्यापो नोपतिष्ठन्ते । केशश्मश्रौ च वा अस्य नखेषु चापो नोपतिष्ठन्ते- तद्यत् केशश्मश्रु च वपते, नखानि च निकृन्तते- ‘मेध्यो भूत्वा दीक्षै’ इति ॥ २ ॥

सायणः

शालाया उत्तरभागे क्षौरार्थं परिश्रयणं विधत्ते- अथोत्तरेणेति । तत्रास्मिन्नुदकुम्भपरिवृते देशे ‘नापितः’ निवसेत् । तत्र केशश्मश्रुवपनं नखनिकर्तनं च कुर्यात् । तत्रोदकुम्भस्थापनप्रयोजनमाह- अस्ति वा इति । अमेध्यानां केशनखानां निरवशेषेण सुखच्छेदनाय उदकुम्भसन्निधानेन भवितव्यमित्यर्थः (आ. श्रौ. सू. १० । ५ । ६) ॥ २ ॥

Eggeling
  1. Thereupon they enclose a place 3 north of the hall, and place a vessel of water in it. Beside this the barber takes up his position. He (the sacrificer) then shaves his hair and beard, and cuts his nails. For impure, indeed, is that part of man where water does not reach him. Now at the hair and beard, and at the nails the water does not reach him: hence when he shaves his hair and beard, and cuts his nails, he does so in order that he may be consecrated after becoming pure.

०३

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
स᳘र्व्व ऽएव᳘ व्वपन्ते स᳘र्व्व ऽएव मे᳘ध्या भूत्वा᳘ दीक्षिष्यामह ऽइ᳘ति त᳘दु त᳘था न᳘ कुर्याद्यद्वै᳘ केशश्मश्रु᳘ च व्व᳘पते नखा᳘नि च निकृन्त᳘ते त᳘देव मे᳘ध्यो भवति त᳘स्मादु केशश्मश्रु᳘ चैव व्व᳘पेत नखा᳘नि च नि᳘कृन्तेत॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
स᳘र्व्व ऽएव᳘ व्वपन्ते स᳘र्व्व ऽएव मे᳘ध्या भूत्वा᳘ दीक्षिष्यामह ऽइ᳘ति त᳘दु त᳘था न᳘ कुर्याद्यद्वै᳘ केशश्मश्रु᳘ च व्व᳘पते नखा᳘नि च निकृन्त᳘ते त᳘देव मे᳘ध्यो भवति त᳘स्मादु केशश्मश्रु᳘ चैव व्व᳘पेत नखा᳘नि च नि᳘कृन्तेत॥

मूलम् - Weber

तद्धै᳘के॥
स᳘र्व एव᳘ वपन्ते स᳘र्व एव मे᳘ध्या भूत्वा᳘ दीक्षिष्यामह इ᳘ति त᳘दु त᳘था न᳘ कुर्याद्यद्वै᳘ केशश्मश्रु᳘ च व᳘पते नखा᳘नि च निकृन्त᳘ते त᳘देव मे᳘ध्यो भवति त᳘स्मादु केशश्मश्रु᳘ चैव व᳘पेत नखा᳘नि च नि᳘कृन्तेत॥

मूलम् - विस्वरम्

तद्धैके- सर्व एव वपन्ते- ‘सर्व एव मेध्या भूत्वा दीक्षिष्यामहे’ इति । तदु तथा न कुर्यात् । यद्वै केशश्मश्रु च वपते, नखानि च निकृन्तते- तदेव मेध्यो भवति । तस्मादु केशश्मश्रु चैव वपेत, नखानि च निकृन्तेत ॥ ३ ॥

सायणः

सर्वाङ्गवपनमुपन्यस्य निराचष्टे- तद्धैके सर्व एवेति । सर्वस्मिन्नपि देहे केशश्मश्रुनखेष्वेव प्राचुर्येण मृतत्वसम्भवात्तज्जीवनेनैव सर्वमपि मेध्यं भवतीत्यभिप्रायः । अत्र सूत्रम्- “उत्तरे परिवृत उदकुम्भवत्यप्सु दीक्षा, नापित उपतिष्ठति" -इति (का. श्रौ. सू. ७ । ३५ । ३६) ॥ ३॥

Eggeling
  1. Now some shave themselves all over, in order that they may be consecrated after becoming pure all over; but let him not do this. For even by shaving the hair of his head and his beard, and by cutting his nails, he becomes pure: let him therefore shave only the hair of his head and his beard, and cut his nails.

०४

विश्वास-प्रस्तुतिः

स वै᳘ नखा᳘न्येवा᳘ग्रे नि᳘कृन्तते॥
दक्षिण᳘स्यैवा᳘ग्रे सव्य᳘स्य वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देव᳘त्रा ऽङ्गु᳘ष्ठयोरेवा᳘ग्रे कनि᳘ष्ठिकयोर्व्वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥

मूलम् - श्रीधरादि

स वै᳘ नखा᳘न्येवा᳘ग्रे नि᳘कृन्तते॥
दक्षिण᳘स्यैवा᳘ग्रे सव्य᳘स्य वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देव᳘त्रा ऽङ्गु᳘ष्ठयोरेवा᳘ग्रे कनि᳘ष्ठिकयोर्व्वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥

मूलम् - Weber

स वै᳘ नखा᳘न्येवा᳘ग्रे नि᳘कृन्तते॥
दक्षिण᳘स्यैवा᳘ग्रे सव्य᳘स्य वा अ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवॗत्राङ्गु᳘ष्ठयोरेवा᳘ग्रे कनि᳘ष्ठिकयोर्वा अ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥

मूलम् - विस्वरम्

स वै नखान्येवाग्रे निकृन्तते दक्षिणस्यैवाग्रे, सव्यस्य वा अग्रे मानुषे । अथैवं देवत्रा । अंगुष्ठयोरेवाग्रे, कनिष्ठिकयोर्वा अग्रे मानुषे । अथैवं देवत्रा ॥ ४ ॥

सायणः

मानुषत्वव्यावृत्त्युपन्यासमुखेन नखानामेव, तत्रापि याम्यपाणिपादस्यैव तत्राप्यंगुष्ठयोरेवेति त्रयाणां प्राथम्यमाह- स वै नखान्येवेत्यादिना । ‘देवत्रा’ देवेषु, देवसम्बन्धिकर्मणि एवं कर्तव्यमित्यर्थः (का. श्रौ. सू. ७ । ३६ । ५ । ३६) ॥ ४ ॥

Eggeling
  1. In the first place he cuts his nails, first of the right hand–for in human (practice) those of the left hand (are cut) first, but with the gods in this manner. First (he cuts those) of the thumbs–for in human (practice) those of the little fingers (are cut) first, but with the gods in this manner.

०५

विश्वास-प्रस्तुतिः

स द᳘क्षिणमेवा᳘ग्रे गोदा᳘नं व्वि᳘तारयति॥
सव्यं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥

मूलम् - श्रीधरादि

स द᳘क्षिणमेवा᳘ग्रे गोदा᳘नं व्वि᳘तारयति॥
सव्यं वा ऽअ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥

मूलम् - Weber

स द᳘क्षिणमेवा᳘ग्रे गोदा᳘नं वि᳘तारयति॥
सव्यं वा अ᳘ग्रे मानुषे᳘ ऽथैवं᳘ देवत्रा॥

मूलम् - विस्वरम्

स दक्षिणमेवाग्रे गोदानं वितारयति । सव्यं वा अग्रे मानुषे । अथैवं देवत्रा ॥ ५ ॥

सायणः

वपने दक्षिणस्य भागस्य प्राथम्यमाह- स दक्षिणमेवेति । ‘गोदानं’ 4 नाम कर्णस्योपरिप्रदेशः तं- ‘वितारयति’ विभजेत् । यस्य चाग्रे वपनम्, तस्यैव चोन्दनप्राथम्यं युक्तम् 5 ॥ ५ ॥

Eggeling
  1. He first passes (the comb) through his right whisker–for in human (practice they comb) first the left whisker, but with the gods in this manner.

०६

विश्वास-प्रस्तुतिः

स द᳘क्षिणमेवा᳘ग्रे गोदा᳘नम᳘भ्युनत्ति॥
(त्ती) इमा ऽआ᳘पः श᳘मु मे सन्तु देवीरि᳘ति स यदा᳘हेमा आ᳘पः श᳘मु मे सन्तु देवीरि᳘ति व्व᳘ज्रो वा ऽआ᳘पो व्व᳘ज्रो हि वा ऽआ᳘पस्त᳘स्माद्ये᳘नैता य᳘न्ति निम्नं᳘ कुर्व्वन्ति य᳘त्रोपति᳘ष्ठन्ते नि᳘र्दहन्ति तत्त᳘देत᳘मे᳘वैतद्व᳘ज्रᳫँ᳭ शमयति त᳘थो हैनमेष व्व᳘ज्रः शान्तो न᳘ हिनस्ति त᳘स्मादाहेमा ऽआ᳘पः श᳘मु मे सन्तु देवीरिति॥

मूलम् - श्रीधरादि

स द᳘क्षिणमेवा᳘ग्रे गोदा᳘नम᳘भ्युनत्ति॥
(त्ती) इमा ऽआ᳘पः श᳘मु मे सन्तु देवीरि᳘ति स यदा᳘हेमा आ᳘पः श᳘मु मे सन्तु देवीरि᳘ति व्व᳘ज्रो वा ऽआ᳘पो व्व᳘ज्रो हि वा ऽआ᳘पस्त᳘स्माद्ये᳘नैता य᳘न्ति निम्नं᳘ कुर्व्वन्ति य᳘त्रोपति᳘ष्ठन्ते नि᳘र्दहन्ति तत्त᳘देत᳘मे᳘वैतद्व᳘ज्रᳫँ᳭ शमयति त᳘थो हैनमेष व्व᳘ज्रः शान्तो न᳘ हिनस्ति त᳘स्मादाहेमा ऽआ᳘पः श᳘मु मे सन्तु देवीरिति॥

मूलम् - Weber

स द᳘क्षिणमेवा᳘ग्रे गोदा᳘नमॗभ्युनत्ति॥
इमा आ᳘पः श᳘मु मे सन्तु देवीरि᳘ति स यदा᳘हेमा आ᳘पः श᳘मु मे सन्तु देवीरि᳘ति व᳘ज्रो वा आ᳘पो व᳘ज्रो हि वा आ᳘पस्त᳘स्माद्ये᳘नैता य᳘न्ति निम्नं᳘ कुर्वन्ति य᳘त्रोपति᳘ष्ठन्ते नि᳘र्दहन्ति तत्त᳘देत᳘मेॗवैतद्व᳘ज्रं शमयति त᳘थो हैनमेष व᳘ज्रः शान्तो न᳘ हिनस्ति त᳘स्मादाहेमा आ᳘पः श᳘मु मे सन्तु देवीरिति॥

मूलम् - विस्वरम्

स दक्षिणमेवाग्रे गोदानमभ्युनत्ति- “इमा आपः शमु मे सन्तु देवीः"- (वा. सं. ४ । १ ।) इति । स यदाह- इमा आपः शमु मे सन्तु देवीरिति । वज्रो वा आपः । वज्रो हि वा आपः तस्माद्- येनैता यन्ति निम्नं कुर्वन्ति, यत्रोपतिष्ठन्ते निर्दहन्ति । तत्तदेतमेवैतद् वज्रं शमयति । तथो हैनमेष वज्रः शान्तो न हिनस्ति । तस्मादाह- इमा आपः शमु मे सन्तु देवीरिति ॥ ६ ॥

सायणः

समन्त्रकं वपनमाह- इमा आप इति । ‘आपः शं सन्तु’- इति शान्तिप्रार्थनायाः क्रौर्यप्रसङ्गं दर्शयति- वज्रो वा आप इति । एतत्प्राग्व्याख्यातम् (श. प. १ । १ । १ । १७) ॥ ६ ॥

Eggeling
  1. His right whisker he moistens first, with the text, ‘May these divine waters be propitious

unto me! The reason why he says, ‘May these divine waters be propitious unto me,’ is this: the waters are a thunderbolt, for the waters are indeed a thunderbolt; hence wherever these waters flow they produce a hollow, and whatever they come near that they destroy (lit. burn up). Hereby, then, he appeases that same thunderbolt; and thus appeased, that thunderbolt does not injure him. This is why he says, ‘May these divine waters be propitious unto me!’

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ दर्भतरुणक᳘मन्त᳘र्दधाति॥
ओ᳘षधे त्रा᳘यस्वे᳘ति व्वज्रो[[!!]] वै᳘ क्षुरस्त᳘थो हैनमेष व्व᳘ज्रः क्षुरो न᳘ हिनस्त्य᳘थ क्षुरे᳘णाभिनि᳘दधाति स्व᳘धिते᳘ मैनᳫँ᳭ हिᳫँ᳭सीरि᳘ति व्व᳘ज्रो वै᳘ क्षुरस्त᳘थो हैनमेष व्व᳘ज्रः क्षुरो न᳘ हिनस्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ दर्भतरुणक᳘मन्त᳘र्दधाति॥
ओ᳘षधे त्रा᳘यस्वे᳘ति व्वज्रो[[!!]] वै᳘ क्षुरस्त᳘थो हैनमेष व्व᳘ज्रः क्षुरो न᳘ हिनस्त्य᳘थ क्षुरे᳘णाभिनि᳘दधाति स्व᳘धिते᳘ मैनᳫँ᳭ हिᳫँ᳭सीरि᳘ति व्व᳘ज्रो वै᳘ क्षुरस्त᳘थो हैनमेष व्व᳘ज्रः क्षुरो न᳘ हिनस्ति॥

मूलम् - Weber

अ᳘थ दर्भतरुणक᳘मन्त᳘र्दधाति॥
ओ᳘षधे त्रा᳘यस्वे᳘ति व᳘ज्रो वै᳘ क्षुरस्त᳘थो हैनमेष व᳘ज्रः क्षुरो न᳘ हिनस्त्य᳘थ क्षुरे᳘णाभिनि᳘दधाति स्व᳘धितेॗ मैनᳫं हिंसीरि᳘ति व᳘ज्रो वै᳘ क्षुरस्त᳘थो हैनमेष व᳘ज्रः क्षुरो न᳘ हिनस्ति॥

मूलम् - विस्वरम्

अथ दर्भतरुणकमन्तर्दधाति- “ओषधे त्रायस्व” (वा. सं. ४ । १) इति । वज्रो वै क्षुरः । तथो हैनमेष वज्रः क्षुरो न हिनस्ति । अथ क्षुरेणाभिनिदधाति । “स्वधिते मैनं हिंसी:” (वा. सं. ४ । १) इति । वज्रो वै क्षुरः, तथो हैनमेष वज्रः क्षुरो न हिनस्ति ॥ ७ ॥

सायणः

क्षुरविदारणपरिहाराय केशानामुपरि दर्भस्थापनं समन्त्रमाह- अथेति । दर्भतरुणकमित्यादि । दर्भपाणिरित्यर्थः (७ । ३८) । क्षुरस्य हिंसकत्वात् ततः पालनप्रार्थना । तत्र समन्त्रकं क्षुरनिधानमाह- अथ क्षुरेणेति (७ । ३९) ॥ ७ ॥

Eggeling
  1. Thereupon he lays a stalk of sacrificial grass on (the hair of the whisker), with the text, ‘O plant, protect me!’ For the razor is a thunderbolt, and thus that thunderbolt, the razor, does not injure him. Thereto he applies the razor, with the text, ‘O knife, injure him not!’ for the razor is a thunderbolt, and thus that thunderbolt, the razor, does not injure him.

०८

विश्वास-प्रस्तुतिः

प्रच्छि᳘द्योदपात्रे प्रा᳘स्यति॥
तूष्णी᳘मेवो᳘त्तरं गोदा᳘नमभ्युन᳘त्ति तूष्णीं᳘ दर्भतरुणक᳘मन्त᳘र्दधाति तूष्णीं᳘ क्षुरे᳘णाभिनिधा᳘य प्रच्छि᳘द्योदपात्रे प्रा᳘स्यति॥

मूलम् - श्रीधरादि

प्रच्छि᳘द्योदपात्रे प्रा᳘स्यति॥
तूष्णी᳘मेवो᳘त्तरं गोदा᳘नमभ्युन᳘त्ति तूष्णीं᳘ दर्भतरुणक᳘मन्त᳘र्दधाति तूष्णीं᳘ क्षुरे᳘णाभिनिधा᳘य प्रच्छि᳘द्योदपात्रे प्रा᳘स्यति॥

मूलम् - Weber

प्रछि᳘द्योदपात्रे प्रा᳘स्यति॥
तूष्णीमेवो᳘त्तरं गोदा᳘नमभ्युन᳘त्ति तूष्णीं᳘ दर्भतरुणक᳘मन्तर्दधाति तूष्णीं᳘ क्षुरे᳘णाभिनिधा᳘य प्रछि᳘द्योदपात्रे प्रा᳘स्यति॥

मूलम् - विस्वरम्

प्रच्छिद्योदपात्रे प्रास्यति । तुष्णीमेवोत्तरं गोदानमभ्युनत्ति । तुष्णीं दर्भतरुणकमन्तर्दधाति । तुष्णीं क्षुरेणाभिनिधाय प्रच्छिद्योदपात्रे प्रास्यति ॥ ८ ॥

सायणः

प्रच्छिद्येति स्पष्टम् (७ । ४०) । उत्तरं गोदानोन्दनादिकममन्त्रकमित्याह- तूष्णीमेवेति (७ । ४१) ॥ ८ ॥

Eggeling
  1. Having cut off (part of the stalk and hair), he throws it into the vessel of water. Silently he moistens the left whisker; silently he lays the stalk of grass on it; and having silently applied the razor thereto and cut through (it and the hair), he throws them into the vessel of water.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ नापिता᳘य क्षुरं᳘ प्र᳘यच्छति॥
स᳘ केशश्मश्रु᳘ व्वपति स᳘ यदा᳘ केशश्मश्रु व्व᳘पति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ नापिता᳘य क्षुरं᳘ प्र᳘यच्छति॥
स᳘ केशश्मश्रु᳘ व्वपति स᳘ यदा᳘ केशश्मश्रु व्व᳘पति॥

मूलम् - Weber

अ᳘थ नापिता᳘य क्षुरम् प्र᳘यछति॥
स᳘ केशश्मश्रु᳘ वपति स᳘ यदा᳘ केशश्मश्रु व᳘पति॥

मूलम् - विस्वरम्

अथ नापिताय क्षुरं प्रयच्छति । स केशश्मश्रु वपति स यदा केशश्मश्रु वपति ॥ ९ ॥

सायणः

अथ नापितायेति । स्पष्टम् (७ । ४०-४३) ॥ ९ ॥

Eggeling
  1. He then hands the razor to the barber, and the latter shaves off the hair and beard. When he has shaved the hair and beard 6,–

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ स्नाति॥
(त्य) अमेध्यो वै पु᳘रुषो यद᳘नृतं व्व᳘दति ते᳘न पू᳘तिरन्तरतो मे᳘ध्या वा ऽआ᳘पो मे᳘ध्यो भूत्वा᳘ दीक्षा ऽइ᳘ति पवि᳘त्रं वा ऽआ᳘पः पवि᳘त्रपूतो दीक्षा ऽइ᳘ति त᳘स्माद्वै᳘ स्नाति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ स्नाति॥
(त्य) अमेध्यो वै पु᳘रुषो यद᳘नृतं व्व᳘दति ते᳘न पू᳘तिरन्तरतो मे᳘ध्या वा ऽआ᳘पो मे᳘ध्यो भूत्वा᳘ दीक्षा ऽइ᳘ति पवि᳘त्रं वा ऽआ᳘पः पवि᳘त्रपूतो दीक्षा ऽइ᳘ति त᳘स्माद्वै᳘ स्नाति॥

मूलम् - Weber

अ᳘थ स्नाति॥
अमेध्यो वै पु᳘रुषो यद᳘नृतं व᳘दति ते᳘न पू᳘तिरन्तरतो मे᳘ध्या वा आ᳘पो मे᳘ध्यो भूत्वा᳘ दीक्षा इ᳘ति पवि᳘त्रं वा आ᳘पः पवि᳘त्रपूतो दीक्षा इ᳘ति त᳘स्माद्वै᳘ स्नाति॥

मूलम् - विस्वरम्

अथ स्नाति । अमेध्यो वै पुरुषो- यदनृतं वदति । तेन पूतिरन्तरतः । मेध्या वा आपः । ‘मेध्यो भूत्वा दीक्षै’- इति । पवित्रं वा आपः । ‘पवित्रपूतो दीक्षै’ इति । तस्माद्वै स्नाति ॥ १० ॥

सायणः

स्नानं विधाय प्रशंसति- अथ स्नातीति । एतद्व्रतोपायनार्थवादवाक्यवद् व्याख्येयम् ॥ १० ॥

Eggeling
  1. He bathes. For impure, indeed, is man: he is foul 7 within, in that he speaks untruth;–and water is pure: he thinks, ‘May I be consecrated, after becoming pure;’–and water is cleansing: he thinks, ‘May I become consecrated after being cleansed!’ This is the reason why he bathes.

११

विश्वास-प्रस्तुतिः

स᳘ स्नाति॥
(त्या᳘) आ᳘पो ऽअस्मा᳘न्मात᳘रः शुन्धयन्त्वि᳘त्येतद्ध्या᳘ह शुन्धयन्त्वि᳘ति घृते᳘न नो घृत᳘प्वः[[!!]] पुनन्त्वि᳘ति तद्वै[[!!]] सपूतं यं᳘ घृते᳘न पुनंस्त᳘स्मादाह घृते᳘न नो घृत᳘प्वः[[!!]] पुनन्त्वि᳘ति वि᳘श्वᳫँ᳭ हि᳘ रिप्रं᳘ प्रव᳘हन्ति देवीरि᳘ति यद्वै व्वि᳘श्वᳫँ᳭ स᳘र्व्वं तद्य᳘दमेध्य᳘ᳫँ᳭ रिप्रं तत्स᳘र्व्व᳘ᳫं᳘ ह्यस्मादमेध्यं᳘ प्रव᳘हन्ति त᳘स्मादाह व्वि᳘श्वᳫं᳭ हि᳘ रिप्रं᳘ प्रव᳘हन्ति देवीरिति॥

मूलम् - श्रीधरादि

स᳘ स्नाति॥
(त्या᳘) आ᳘पो ऽअस्मा᳘न्मात᳘रः शुन्धयन्त्वि᳘त्येतद्ध्या᳘ह शुन्धयन्त्वि᳘ति घृते᳘न नो घृत᳘प्वः[[!!]] पुनन्त्वि᳘ति तद्वै[[!!]] सपूतं यं᳘ घृते᳘न पुनंस्त᳘स्मादाह घृते᳘न नो घृत᳘प्वः[[!!]] पुनन्त्वि᳘ति वि᳘श्वᳫँ᳭ हि᳘ रिप्रं᳘ प्रव᳘हन्ति देवीरि᳘ति यद्वै व्वि᳘श्वᳫँ᳭ स᳘र्व्वं तद्य᳘दमेध्य᳘ᳫँ᳭ रिप्रं तत्स᳘र्व्व᳘ᳫं᳘ ह्यस्मादमेध्यं᳘ प्रव᳘हन्ति त᳘स्मादाह व्वि᳘श्वᳫं᳭ हि᳘ रिप्रं᳘ प्रव᳘हन्ति देवीरिति॥

मूलम् - Weber

स᳘ स्नाति॥
आ᳘पो अस्मा᳘न्मात᳘रः शुन्धयन्त्वि᳘ति घृते᳘न नो घृतप्वः᳘ पुनन्त्व् इ᳘ति त᳘द् वै᳘ सपूतं यं᳘ घृतेना᳘पुनंस्त᳘स्मादाह 8 घृते᳘न नो घृतप्वः᳘ पुनन्त्वि᳘ति वि᳘श्वᳫं हि᳘ रिप्र᳘म् प्रव᳘हन्ति देवीरि᳘ति यद्वै वि᳘श्वᳫं स᳘र्वं तद्य᳘दमेध्यं᳘ रिप्रं तत्स᳘र्वᳫं ह्य᳘स्मादमेध्य᳘म् प्रव᳘हन्ति त᳘स्मादाह वि᳘श्वᳫं हि᳘ रिप्र᳘म् प्रव᳘हन्ति देवीरिति॥

मूलम् - विस्वरम्

स स्नाति- “आपो अस्मान्मातरः शुन्धयन्तु” (वा. सं. ४ । २) इति । एतद्ध्याह शुन्धयन्त्विति “घृतेन नो घृतप्वः पुनन्तु”- (वा. सं. ४ । २) इति । तद्वै सुपूतं- यं घृतेनपुनंस्तस्मादाह घृतेन नो घृतप्वः पुनन्त्विति । “विश्वं हि रिप्रं प्रवहन्ति देवीः” (वा. सं. ४ । २) इति । यद्वै विश्वं- सर्वं तत् । यदमेध्यं रिप्रं तत् । सर्वं- ह्यस्मादमेध्यं प्रवहन्ति । तस्मादाह- विश्वं हि रिप्रं प्रवहन्ति देवीरिति ॥ ११ ॥

सायणः

स्नानमन्त्रमाह- स स्नातीत्यादिना । आपो अस्मानिति (७ । ४४) । ‘मातर:’ ओषधिवनस्पत्यादिसकलनिर्मात्र्यः ‘यं घृतेन’ पावयन्ति, तस्यैव सुपूतत्वाद् घृतेन पुनन्त्विति प्रार्थनं युक्तमित्यर्थः । तृतीयपादस्य तात्पर्यमाह- विश्वं हीति । “रपो रिप्रमिति । पापनामनी भवतः” इति निरुक्तम् ४ । ३ । ५ । ‘यद् विश्वं’ तत् सर्वमुच्यते, ‘यदमेध्यम्’ ‘तत् रिप्रम्’ अतो देहगतं मालिन्यमात्मगतं पापं सर्वं द्योतमाना आपः ‘अस्माद्’ यजमानात् अपगमयन्ति यतः, अत एवमाह मन्त्र इत्यर्थः ॥ ११ ॥

Eggeling
  1. He bathes, with the text (Vāj. S. IV, 2; Rig-veda X, 17, 10), ‘May the waters, the mothers, cleanse us!’ whereby he says, ‘May they cleanse 9!’ ‘May the purifiers of ghee purify us with (heavenly) ghee!’ For he, indeed, is thoroughly purified whom they have purified with ghee 10: accordingly he says, ‘May the purifiers of ghee purify us with ghee!’–‘For they, the divine, take away all taint;’ now ‘all’ means ’every,’ and ’taint’ means what is impure; for they do take away from him every impurity: therefore he says, ‘For they, the divine, take away all taint.’

१२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रा᳘ङिवो᳘दङ्ङु᳘त्क्रामति॥
(त्यु) उदि᳘दाभ्यः शु᳘चिरा᳘ पूत᳘ एमीत्यु᳘द्ध्याभ्यः शु᳘चिः पूत एति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रा᳘ङिवो᳘दङ्ङु᳘त्क्रामति॥
(त्यु) उदि᳘दाभ्यः शु᳘चिरा᳘ पूत᳘ एमीत्यु᳘द्ध्याभ्यः शु᳘चिः पूत एति॥

मूलम् - Weber

अ᳘थ प्रा᳘ङिवो᳘दङ्ङु᳘त्क्रामति॥
उदि᳘दाभ्यः शु᳘चिरा᳘ पूत᳘ एमीत्युॗद्ध्याभ्यः शु᳘चिः पूत एति॥

मूलम् - विस्वरम्

अथ प्राङिवोदङ्ङुत्क्रामति- “उदिदाभ्यः शुचिरापूत एमि”- (वा. सं. ४ । २) इति । उद्ध्याभ्यः शुचिः पूत एति ॥ १२ ॥

सायणः

उदिदाभ्य इति चरमपादस्य पृथग् विनियोगमाह- अथ प्राङिवोदङ्ङुत्क्रामतीति । ‘आभ्यः’ अद्भयः सकाशात् शुद्ध एव सन् उद्गच्छामीति तस्यार्थः 11 ॥ १२ ॥

Eggeling
  1. He steps out (from the water) towards the north-east 12, with the text, ‘Cleansed and pure

I go forth from them;’ for cleansed and pure he indeed goes forth from them.

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वा᳘सः प᳘रिधत्ते॥
सर्व्वत्वा᳘यैव स्वा᳘मे᳘वास्मिन्नेतत्त्व᳘चं दधाति या᳘ ह वा᳘ ऽइयं गोस्त्वक्पु᳘रुषे हैषा᳘ ऽग्र ऽआस॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वा᳘सः प᳘रिधत्ते॥
सर्व्वत्वा᳘यैव स्वा᳘मे᳘वास्मिन्नेतत्त्व᳘चं दधाति या᳘ ह वा᳘ ऽइयं गोस्त्वक्पु᳘रुषे हैषा᳘ ऽग्र ऽआस॥

मूलम् - Weber

अ᳘थ वा᳘सः प᳘रिधत्ते॥
सर्वत्वा᳘यैव स्वा᳘मेॗवास्मिन्नेतत्त्व᳘चं दधाति या᳘ ह वा᳘ इयं गोस्त्वक्पु᳘रुषे हैषा᳘ग्र आस॥

मूलम् - विस्वरम्

अथ वासः परिधत्ते सर्वत्वायैव । स्वामेवास्मिन्नेतत्त्वचं दधाति । या ह वा इयं गोस्त्वक्- पुरुषे हैषा ऽग्र आस ॥ १३ ॥

सायणः

वासःपरिधानं विधाय प्रशंसति- अथ वास इति (का. श्रौ. सू. ७ । ४५) । ‘परिधानम्’ उपसंव्यानम्, तद्धारणं सर्वस्यैव दीक्षितस्य ‘सर्वत्वायैव’ न त्वतिरिक्तः कश्चिद्विशेषो ऽस्तीत्येवकारेणाह । अतो वासोधारणेन ‘त्वचमेव’ धृतवान् भवति यस्मात् तत एतद्धारणवतः सर्वत्वमित्यर्थः 11 । उपरितनग्रन्थः सर्वो ऽप्येतस्यैवोपपादकः । इदानीं गव्याश्रिता ‘इयं’ त्वक् ‘अग्रे’ पुरा ‘पुरुषे’ ‘आस’ स्थिता ॥ १३ ॥

Eggeling
  1. He then puts on a (linen) garment, for completeness’ sake: it is indeed his own skin he thereby puts on himself. Now that same skin which belongs to the cow was originally on man.

१४

विश्वास-प्रस्तुतिः

ते᳘ देवा᳘ अब्रुवन्॥
(न्गौ) गौर्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं बिभर्ति ह᳘न्त᳘ येयं पु᳘रुषे त्वग्ग᳘व्येतां द᳘धाम त᳘यैषा व्व᳘र्षन्तं त᳘या हिमं त᳘या घृ᳘णिं तितिक्षिष्यत ऽइ᳘ति᳘॥

मूलम् - श्रीधरादि

ते᳘ देवा᳘ अब्रुवन्॥
(न्गौ) गौर्वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं बिभर्ति ह᳘न्त᳘ येयं पु᳘रुषे त्वग्ग᳘व्येतां द᳘धाम त᳘यैषा व्व᳘र्षन्तं त᳘या हिमं त᳘या घृ᳘णिं तितिक्षिष्यत ऽइ᳘ति᳘॥

मूलम् - Weber

ते᳘ देवा᳘ अब्रुवन्॥
गौर्वा᳘ इदᳫं स᳘र्वं बिभर्ति ह᳘न्तॗ येयम् पु᳘रुषे त्वग्ग᳘व्येतां द᳘धाम त᳘यैषा व᳘र्षन्तं त᳘या हिमं त᳘या घृ᳘णिं तितिक्षिष्यत इ᳘ति॥

मूलम् - विस्वरम्

ते देवा अब्रुवन्- गौर्वा इदं सर्वं बिभर्ति । हन्त येयं पुरुषे त्वक्- गव्येतां दधाम । तयैषा वर्षान्तम् । तया हिमम् । तया घृणिम्, तितिक्षिष्यत इति ॥ १४ ॥

सायणः

ते देवा इति । ‘देवाः’ किमर्थमियं त्वक् पुरुषे वर्तते, गोस्तु बहूपकारवती; अतस्तां त्वचं तत आदाय गविस्थापयामो वृष्टिहिमादिकं परिहरत्विति पुरुषाद् गवि अधारयन् ॥ १४ ॥ १५ ॥

Eggeling
  1. The gods spake, ‘Verily, the cow supports everything here (on earth); come, let us put on the cow that skin which is now on man: therewith she will be able to endure rain and cold and heat.’

१५

विश्वास-प्रस्तुतिः

ते ऽवच्छा᳘य पु᳘रुषम्॥
ग᳘व्येतां त्व᳘चमदधुस्त᳘यैषा व्व᳘र्षन्तं त᳘या हिमं त᳘या घृ᳘णिं तितिक्षते॥

मूलम् - श्रीधरादि

ते ऽवच्छा᳘य पु᳘रुषम्॥
ग᳘व्येतां त्व᳘चमदधुस्त᳘यैषा व्व᳘र्षन्तं त᳘या हिमं त᳘या घृ᳘णिं तितिक्षते॥

मूलम् - Weber

ते ऽवछा᳘य पु᳘रुषम्॥
ग᳘व्येतां त्व᳘चमदधुस्त᳘यैषा व᳘र्षन्तं त᳘या हिमं त᳘या घृ᳘णिं तितिक्षते॥

मूलम् - विस्वरम्

ते ऽवच्छाय पुरुषं गव्येतां त्वचमदधुः । तयैषा वर्षन्तम्, तथा हिमम्, तया घृणिम्, तितिक्षते ॥ १५ ॥

सायणः

[व्याख्यानं चतुर्दशे]

Eggeling
  1. Accordingly, having flayed man, they put that skin on the cow, and therewith she now endures rain and cold and heat.

१६

विश्वास-प्रस्तुतिः

(ते᳘ ऽव) अ᳘वच्छितो हि वै पु᳘रुषः॥
(स्त᳘) त᳘स्मादस्य य᳘त्रैव᳘ क्व[[!!]] च कुशो᳘ वा य᳘द्वा विकृन्त᳘ति त᳘त एव लो᳘हितमु᳘त्पतति त᳘स्मिन्नेतां त्व᳘चमदधुर्व्वा᳘स एव त᳘स्मा᳘न्नान्यः पु᳘रुषाद्वा᳘सो बिभर्त्येता᳘ᳫं᳘ ह्यस्मिँस्त्व᳘चम᳘दधुस्त᳘स्मादु[[!!]] सुवा᳘सा एव᳘ बुभूषेत्स्व᳘या त्वचा स᳘मृध्या ऽइ᳘ति त᳘स्माद᳘प्यश्लील᳘ᳫँ᳭ सुवा᳘ससं दिदृक्षन्ते स्व᳘या हि᳘ त्वचा स᳘मृद्धो भ᳘वति᳘॥

मूलम् - श्रीधरादि

(ते᳘ ऽव) अ᳘वच्छितो हि वै पु᳘रुषः॥
(स्त᳘) त᳘स्मादस्य य᳘त्रैव᳘ क्व[[!!]] च कुशो᳘ वा य᳘द्वा विकृन्त᳘ति त᳘त एव लो᳘हितमु᳘त्पतति त᳘स्मिन्नेतां त्व᳘चमदधुर्व्वा᳘स एव त᳘स्मा᳘न्नान्यः पु᳘रुषाद्वा᳘सो बिभर्त्येता᳘ᳫं᳘ ह्यस्मिँस्त्व᳘चम᳘दधुस्त᳘स्मादु[[!!]] सुवा᳘सा एव᳘ बुभूषेत्स्व᳘या त्वचा स᳘मृध्या ऽइ᳘ति त᳘स्माद᳘प्यश्लील᳘ᳫँ᳭ सुवा᳘ससं दिदृक्षन्ते स्व᳘या हि᳘ त्वचा स᳘मृद्धो भ᳘वति᳘॥

मूलम् - Weber

अ᳘वछितो हि वै पु᳘रुषः॥
त᳘स्मादस्य य᳘त्रैव क्व᳘ च कुशो᳘ वा य᳘द्वा विकृन्त᳘ति त᳘त एव लो᳘हितमु᳘त्पतति त᳘स्मिन्नेतां त्व᳘चमदधुर्वा᳘स एव त᳘स्माॗन्नान्यः पु᳘रुषाद्वा᳘सो बिभर्त्येताᳫं ह्य᳘स्मिंस्त्व᳘चम᳘दधुस्त᳘स्मादु सुवा᳘सा एव᳘ बुभूषेत्स्व᳘या त्वचा स᳘मृध्या इ᳘ति त᳘स्माद᳘प्यश्लील᳘ᳫं᳘ सुवा᳘ससं दिदृक्षन्ते स्व᳘या हि᳘ त्वचा स᳘मृद्धो भ᳘वति॥

मूलम् - विस्वरम्

अवच्छितो हि वै पुरुषः । तस्मादस्य यत्रैव क्वच कुशो वा यद्वा विकृन्तति तत एव लोहितमुत्पतति । तस्मिन्नेतां त्वचमदधुः- वास एव । तस्मान्नान्यः पुरुषाद्वासो बिभर्ति । एतां ह्यस्मिंस्त्वचमदधुः । तस्मादु सुवासा एव बुभूषेत्- स्वया त्वचा समृध्यै इति । तस्मादप्यश्लीलं सुवाससं दिदृक्षन्ते । स्वया हि त्वचा समृद्धो भवति ॥ १६ ॥

सायणः

अवच्छित इति । पुरुषादपगमे लिङ्गमाह- तस्मादस्येति । कुशाद्युपघाते सति रक्तस्रावदर्शनाद् देवैस्त्वचो विकर्तनं सिद्धमित्यर्थः । तदा पुरुषाणां निस्त्वक्त्वपरिहाराय वस्त्रमकल्पयन् । तस्मात्तेषामेवासाधारणमभूत् । भृतेन च सम्भूषितो भवति । तथा च लौकिका आहु:- ‘वस्त्रं पुरुषस्यालङ्कारः’ इति लोके निन्दितमपि सुवाससं समाजादौ सम्यक् पश्यन्ति ॥ १६ ॥

Eggeling
  1. For man was indeed flayed; and hence where-ever a stalk of grass or some other object cuts him, the blood trickles out. They then put that skin, the garment, on him; and for this reason none but man wears a garment, it having been put on him as his skin. Hence also one should take care to be properly clad, so that he may be completely endued with his own skin. Hence also people like to see even an ugly person properly clad, since he is endued with his own skin.

१७

विश्वास-प्रस्तुतिः

नो हा᳘न्ते गो᳘र्नग्नः᳘ स्यात्॥
(द्वे᳘) व्वे᳘द ह गौ᳘रह᳘मस्य त्व᳘चं बिभर्मी᳘ति सा बि᳘भ्यती त्रसति त्व᳘चं म ऽआ᳘दास्यत ऽइ᳘ति त᳘स्मादु गा᳘वः सुवा᳘ससमु᳘पैव नि᳘श्रयन्ते॥

मूलम् - श्रीधरादि

नो हा᳘न्ते गो᳘र्नग्नः᳘ स्यात्॥
(द्वे᳘) व्वे᳘द ह गौ᳘रह᳘मस्य त्व᳘चं बिभर्मी᳘ति सा बि᳘भ्यती त्रसति त्व᳘चं म ऽआ᳘दास्यत ऽइ᳘ति त᳘स्मादु गा᳘वः सुवा᳘ससमु᳘पैव नि᳘श्रयन्ते॥

मूलम् - Weber

नो हा᳘न्ते गो᳘र्नग्नः᳘ स्यात्॥
वे᳘द ह गौ᳘रह᳘मस्य त्व᳘चम् बिभर्मी᳘ति सा बि᳘भ्यती त्रसति त्व᳘चम् म आ᳘दास्यत इ᳘ति त᳘स्मादु गा᳘वः सुवा᳘ससमु᳘पैव नि᳘श्रयन्ते॥

मूलम् - विस्वरम्

नो हान्ते गोर्नग्नः स्यात् । वेद ह गौः अहमस्य त्वचं बिभर्मीति । ‘सा बिभ्यती त्रसति त्वचं म आदास्यते’ इति । तस्मादु गावः सुवाससमुपैव निश्रयन्ते ॥ १७ ॥

सायणः

पुरुषस्य त्वचो गवि स्थापनं यदस्ति, तत्किमर्थमिति प्रसङ्गात् कञ्चित् कञ्चित् पुरुषार्थनियममाह- नो हान्त इति । कदाचिदपि गोसमीपे विवासा न भवेत् । यस्मात्तु सा ‘अस्य त्वचं’ धारयामीति जानीतेत्यतो ‘न नग्नः स्यात्’ । जानातु नाम का हानिरित्यत आह- सा बिभ्यतीति । पुनस्त्वगपच्छेदभयात् ‘त्रसति’ भीत्या कम्पते । तस्मादिति । स्पष्टम् ॥ १७ ॥

Eggeling
  1. Let him, then, not be naked in the presence of a cow. For the cow knows that she wears his skin, and runs away for fear lest he should take the skin from her. Hence also cows draw fondly near to one who is properly clad.

१८

विश्वास-प्रस्तुतिः

त᳘स्य वा᳘ ऽएत᳘स्य व्वा᳘ससः॥
(सो ऽग्नेः᳘) अग्नेः᳘ पर्यासो भ᳘वति व्वायो᳘रनुच्छादो᳘ नीविः᳘ पितॄणा᳘ᳫँ᳘ सर्पा᳘णां प्रघातो वि᳘श्वेषां देवा᳘नां त᳘न्तव आरोका न᳘क्षत्राणामेवᳫँ᳭ हि वा᳘ ऽएतत्स᳘र्व्वे देवा᳘ अन्वा᳘यत्तास्त᳘स्माद्दीक्षितव᳘सनं भवति॥

मूलम् - श्रीधरादि

त᳘स्य वा᳘ ऽएत᳘स्य व्वा᳘ससः॥
(सो ऽग्नेः᳘) अग्नेः᳘ पर्यासो भ᳘वति व्वायो᳘रनुच्छादो᳘ नीविः᳘ पितॄणा᳘ᳫँ᳘ सर्पा᳘णां प्रघातो वि᳘श्वेषां देवा᳘नां त᳘न्तव आरोका न᳘क्षत्राणामेवᳫँ᳭ हि वा᳘ ऽएतत्स᳘र्व्वे देवा᳘ अन्वा᳘यत्तास्त᳘स्माद्दीक्षितव᳘सनं भवति॥

मूलम् - Weber

त᳘स्य वा एत᳘स्य वा᳘ससः॥
अग्नेः᳘ पर्यासो भ᳘वति वायो᳘रनुछादो᳘ नीविः᳘ पितॄणा᳘ᳫं᳘ सर्पा᳘णाम् प्रघातो वि᳘श्वेषां देवा᳘नां त᳘न्तव आरोका न᳘क्षत्राणामेवᳫं हि वा᳘ एतत्स᳘र्वे देवा᳘ अन्वा᳘यत्तास्त᳘स्माद्दीक्षितव᳘सनम् भवति॥

मूलम् - विस्वरम्

तस्य वा एतस्य वाससः । अग्नेः पर्यासो भवति, वायोरनुच्छादः, नीविः पितॄणाम्, सर्पाणां प्रघातः, विश्वेषां देवानां तन्तवः, आरोका नक्षत्राणाम् । एवं हि वा एतत्सर्वे देवा अन्वायत्ताः तस्माद्दीक्षितवसनं भवति ॥ १८ ॥

सायणः

विहितं वस्त्रं सर्वदेवतात्मकत्वेन प्रशंसति- तस्य वा इति । ‘तस्य’ वस्त्रस्य, परितः तिर्यक् अस्यत इति ‘पर्यासः’ तिर्यक्तन्तुसन्दर्भः । सः ‘अग्नेर्भवति’ अग्निदेवताको भवति, सो ऽभिमन्यत इत्यर्थः । ‘अनुच्छादः’ अनुलोममाच्छाद्यत इति । सः ‘वायोः’ भवति । ‘नीविः’ आद्यन्तप्रदेशः । स ‘पितॄणाम्’ । ‘प्रघातः’ 13 सर्वहननस्थानं निबिडीभूतप्रदेशः । सः ‘सर्पाणाम्’ । ‘तन्तवः’ स्वरूपेण, ‘विश्वेषां देवानाम्’ । ‘आरोकाः’ मध्यच्छिद्राणि 14 । तत् ‘नक्षत्राणाम्’ । ‘तस्मात्’ सकलदेवत्यत्वात् ‘दीक्षितवसनम्’ अवश्यं भवितव्यम् ॥ १८ ॥

Eggeling
  1. Now the woof of this cloth belongs to Agni, and the warp to Vāyu 15, the thrum to the Fathers,

the fore-edge 16 to the snakes, the threads to the All-gods, and the meshes to the asterisms. For thus indeed all the deities are concerned therein; and hence it is the garment of the consecrated.

१९

विश्वास-प्रस्तुतिः

तद्वा ऽअ᳘हतᳫं᳭ स्यात्॥
(द) अयातयाम᳘तायै तद्वै निष्पेष्टवै᳘ ब्रूयाद्य᳘दे᳘वास्या᳘त्रामेध्य᳘मा कृण᳘त्ति वा व्व᳘यति वा त᳘दस्य मे᳘ध्यम᳘सदि᳘ति य᳘द्यु ऽअ᳘हतᳫं᳭ स्या᳘दद्भि᳘र᳘भ्युक्षेन्मे᳘ध्यमसदित्य᳘थो य᳘दिद᳘ᳫं᳘ स्नातव᳘स्यं नि᳘हितम᳘पल्पूलनकृतं भ᳘वति ते᳘नो हा᳘पि दीक्षेत॥

मूलम् - श्रीधरादि

तद्वा ऽअ᳘हतᳫं᳭ स्यात्॥
(द) अयातयाम᳘तायै तद्वै निष्पेष्टवै᳘ ब्रूयाद्य᳘दे᳘वास्या᳘त्रामेध्य᳘मा कृण᳘त्ति वा व्व᳘यति वा त᳘दस्य मे᳘ध्यम᳘सदि᳘ति य᳘द्यु ऽअ᳘हतᳫं᳭ स्या᳘दद्भि᳘र᳘भ्युक्षेन्मे᳘ध्यमसदित्य᳘थो य᳘दिद᳘ᳫं᳘ स्नातव᳘स्यं नि᳘हितम᳘पल्पूलनकृतं भ᳘वति ते᳘नो हा᳘पि दीक्षेत॥

मूलम् - Weber

तद्वा अ᳘हतᳫं स्यात्॥
अयातयाम᳘तायै तद्वै निष्पेष्टवै᳘ ब्रूयाद्य᳘देॗवास्या᳘त्रामेध्या᳘ कृण᳘त्ति वा व᳘यति वा त᳘दस्य मे᳘ध्यम᳘सदि᳘ति 17 य᳘द्यु अ᳘हतᳫं स्या᳘दद्भि᳘रॗभ्युक्षेन्मे᳘ध्यमसदित्य᳘थो य᳘दिद᳘ᳫं᳘ स्नातव᳘स्यं नि᳘हितम᳘पल्पूलनकृतम् भवति ते᳘नो हा᳘पि दीक्षेत॥

मूलम् - विस्वरम्

तद्वा अहतं स्यात्- अयातयामतायै । तद् वै निष्पेष्टवै ब्रूयात् यदेवास्यात्रामेध्या कृणत्ति वा वयति वा तदस्य मेध्यमसदिति । यद्यु अहतं स्याद्- अद्भिरभ्युक्षेत्- मेध्यमसदिति । अथो यदिदं स्नातवस्थं निहितं अपल्यूलनकृतं भवति- तेनो हापि दीक्षेत ॥ १९ ॥

सायणः

तस्य वस्त्रस्य नूतनत्वं विधत्ते- तद्वा अहतमिति । ‘अयातयामतायै’ अशिथिलत्वाय ‘तत्’ ‘अहतम्’ वस्त्रं ‘निष्पेष्टवै’ क्षालयितुमन्यं ‘ब्रूयात्’ । ‘अस्य’ वस्त्रस्य ‘यत्’ ‘अमेध्यम्’ ‘आकृणत्ति’ आकृणोति, आश्लिष्टं करोति निर्माणकाले, सहैव ‘वयति’ च । ‘अहतं’ चेत् अभ्युक्षणमेव कर्तव्यम् 18 । तत्प्रयोजनं ‘मेध्यमसदिति’ मेध्यार्हं भवेदिति क्षालनम् ॥

पक्षान्तरमाह- अथो यदिदमिति । स्नातेन पुरुषेणाच्छाद्यम् धार्यम्, ‘अपल्यूलनकृतं’ क्षारद्रव्यसहितेनाधौतेम्; (७ । ४७) प्रतिदिनं प्रक्षाल्य यदेव धार्यते, तदित्यर्थः । तेन वा दीक्षेत ॥ १९ ॥

उत्तरीयं च वासः काण्वपाठात् । तथाच श्रुतिः । “तस्मादेतद्दीक्षणीयं तदहत ँ स्यादित्याहुस्तदुभयं निष्पेष्टवै ब्रूयात्” इति ॥ हरिस्वामिनस्तु एकं वासः परिधानीयमेवाहुः । तथाहि । तदेकमेव । सर्वत्रैकत्वदर्शनात् । उपादेयगतस्यैकत्वस्याविवक्षाकारणाभावात् । “तस्य वा एतस्य वाससः” “नेदिदं दीक्षितवसनं परिधाय” “अंतरं दीक्षितवसनात् ।” अथैनं परिधापयंतीति, इति हि सर्वत्रैकमेव दृश्यते । तथा- दंपत्योर्द्वे वाससी दर्शयति । “तावन्ये वाससी परिधापयेते” इति । तथाच “अथैनं वासांँसि परिधापयन्ति” इति बहुषु बहुवचनमेव दृश्यते । तेन विवक्षितमित्यवसीयते- तच्चाधोवासः स्यात् । नीवीदर्शनात् । अंतरं दीक्षितवसनादित्यादौ परिदधातेश्च तत्रैव रूढत्वादिति ॥ कर्काशयस्तु- उत्तरीयं सामर्थ्यपरिप्रापितमेवेति सूत्रकृता नोपनिबद्धं । तथा च- कृष्णविषाणां त्रिवलिं पंचवलिं वोत्तानां दशायां बध्नीते । ७।९१ इत्यस्मिन् सूत्रे कर्कः । सामर्थ्यपरिप्रापितत्वाच्चोत्तरे सिचि बध्नीत इति नोक्तमिति ॥

Eggeling
  1. Let it (if possible) be a new one 19, for the sake of unimpaired vigour. Let him (the Adhvaryu) tell (the Pratiprasthātr̥) to beat it, in order that whatsoever part of it an unclean woman has spun or woven may become clean. And if it be a new one, let him sprinkle it with water, so that it become clean. Or let him be consecrated in one which is laid aside to be worn (daily) after bathing, without being soaked (in some sharp cleansing substance) 20.

२०

विश्वास-प्रस्तुतिः

तत्प᳘रिधत्ते॥
दीक्षातप᳘सोस्तनू᳘रसीत्य᳘दीक्षितस्य वा᳘ ऽअस्यैषा᳘ ऽग्रे तनू᳘र्भवत्यथा᳘त्र दीक्षातप᳘सोस्त᳘स्मादाह दीक्षातप᳘सोस्तनू᳘रसी᳘ति तां᳘ त्वा शिवा᳘ᳫं᳘ शग्मां प᳘रिदध ऽइ᳘ति तां᳘ त्वा शिवा᳘ᳫँ᳘ साध्वीं᳘ प᳘रिदध ऽइ᳘त्ये᳘वैत᳘दाह भद्रं व्व᳘र्णं पु᳘ष्यन्नि᳘ति पापं वा᳘ ऽएषो᳘ ऽग्रे व्व᳘र्णं पु᳘ष्यति य᳘ममुम᳘दीक्षितो ऽथा᳘त्र भद्रं त᳘स्मादाह भद्रं व्व᳘र्णं पु᳘ष्यन्निति॥

मूलम् - श्रीधरादि

तत्प᳘रिधत्ते॥
दीक्षातप᳘सोस्तनू᳘रसीत्य᳘दीक्षितस्य वा᳘ ऽअस्यैषा᳘ ऽग्रे तनू᳘र्भवत्यथा᳘त्र दीक्षातप᳘सोस्त᳘स्मादाह दीक्षातप᳘सोस्तनू᳘रसी᳘ति तां᳘ त्वा शिवा᳘ᳫं᳘ शग्मां प᳘रिदध ऽइ᳘ति तां᳘ त्वा शिवा᳘ᳫँ᳘ साध्वीं᳘ प᳘रिदध ऽइ᳘त्ये᳘वैत᳘दाह भद्रं व्व᳘र्णं पु᳘ष्यन्नि᳘ति पापं वा᳘ ऽएषो᳘ ऽग्रे व्व᳘र्णं पु᳘ष्यति य᳘ममुम᳘दीक्षितो ऽथा᳘त्र भद्रं त᳘स्मादाह भद्रं व्व᳘र्णं पु᳘ष्यन्निति॥

मूलम् - Weber

तत्प᳘रिधत्ते॥
दीक्षातप᳘सोस्तनू᳘रसीत्य᳘दीक्षितस्य वा᳘अस्यैषा᳘ग्रे तनू᳘र्भवत्यथा᳘त्र दीक्षातप᳘सोस्त᳘स्मादाह दीक्षातप᳘सोस्तनू᳘रसीति तां᳘ त्वा शिवां᳘ शग्माम् प᳘रिदध इ᳘ति तां᳘ त्वा शिवा᳘ᳫं᳘ साध्वीम् प᳘रिदध इ᳘त्येॗवैत᳘दाह भद्रं व᳘र्णम् पु᳘ष्यन्नि᳘ति पापवा᳘ एषो᳘ ऽग्रे व᳘र्णम् पुष्यति य᳘ममुम᳘दीक्षितो ऽथा᳘त्र भद्रं त᳘स्मादाह भद्रं व᳘र्णम् पु᳘ष्यन्निति॥

मूलम् - विस्वरम्

तत्परिधत्ते- “दीक्षातपसोस्तनूरसि” (वा. सं. ४ । २) इति । अदीक्षितस्य वा अस्यैषा ऽग्रे तनूर्भवति- अथात्र दीक्षातपसोः । तस्मादाह- दीक्षातपसोस्तनूरसीति । “तां त्वा शिवां शग्मां परिदधे”- इति (वा. सं. ४ । २) । तां त्वां शिवां साध्वीं परिदध इत्येवैतदाह । “भद्रं वर्णं पुष्यन्”- (वा. सं. ४ । २) इति । पापं वा एषो ऽग्रे वर्णं पुष्यति- यममुमदीक्षितः- अथात्र भद्रम् । तस्मादाह- भद्रं वर्णं पुष्यन्निति ॥ २० ॥

सायणः

उक्तविधस्य वाससः समन्त्रकं परिधानं विधत्ते- तत् परिधत्त इति । दीक्षातपसोस्तनूरसीति । ‘आह’ मन्त्रभागः । द्वितीयभागे शग्मामिति तनूः संस्पृष्टत्वतनूः । ‘अग्रे’ प्राक् ‘अदीक्षितस्यैषा तनूः’ आसीत्, ‘अथ’ इदानीं तु दीक्षितदण्डकृष्णाजिनधारणनवनीताभ्यङ्गादिसाध्यः संस्कारः, तपो ऽशनवर्जनादिजन्यक्लेशसहनात्मकम्; तदुभयमनेन प्राप्तत्वाद् । दीक्षातपसोस्तनूरसि- इतिशब्दस्य तात्पर्यमाह- साध्वीमिति । वस्त्रस्य तनुत्वाभिधानात् स्त्रीलिङ्गता । तृतीयभागमनूद्य व्याचष्टे- भद्रं वर्णं पुष्यन्निति । भद्रत्वसमर्थनाय पूर्वत्राभद्रत्वं प्रसञ्जयति- पापं वा एष इति ॥ २० ॥

Eggeling
  1. He puts it round him, with the text, ‘Thou art the covering 21 of consecration and penance;’ heretofore, indeed, this was the covering of him as one unconsecrated, but now it is that of consecration and penance: hence he says, ’thou art the covering of consecration and penance.’ ‘I put thee on, the kindly and auspicious;’ whereby he means to say, ‘I put thee on, the kindly and pleasing one;’–

‘fostering a fair appearance;’ for evil indeed is that appearance which he has heretofore fostered while unconsecrated; but now (he fosters) a fair appearance: therefore he says, ‘fostering a fair appearance.’

२१

विश्वास-प्रस्तुतिः

(त्य᳓) अ᳓थैनᳫँ᳭ शा᳓लां प्र᳓पादयति॥
स᳓ धेन्वै᳓ चानडु᳓हश्च᳓ नाश्नीयाद् -
धेन्व्-अनडुहौ᳓ वा᳓ ऽइदᳫँ᳭ स᳓र्व्वं बिभृतस्
ते᳓ देवा᳓ अब्रुवन् -
“धेन्वनडुहौ᳓ वा᳓ ऽइदᳫँ᳭ स᳓र्व्वं बिभृतो,
ह᳓न्त य᳓द् अन्ये᳓षां व᳓यसां वी᳓र्यं त᳓द् धेन्व्-अनडुह᳓योर् द᳓धामे᳓“ति।
स᳓ य᳓द् अन्ये᳓षां व्व᳓यसां व्वी᳓र्यम् आ᳓सीत्
त᳓द् धेन्व्-अनडुह᳓योर् अदधुस्
त᳓स्माद् धेनु᳓श् चै᳓वानड्वां᳓श् च भू᳓यिष्ठं भुङ्क्तस्,
त᳓द् धैत᳓त् सर्व्वा᳓श्यम् इव
यो᳓ धेन्व्-अनडुह᳓योर् अश्नीयाद्,
अ᳓न्त-गतिर् इव -
तᳫँ᳭᳓ “हा᳓द्भुतम् अभि᳓जनितोर्”,
“जाया᳓यै ग᳓र्भं नि᳓रवधीद्” इ᳓ति,
“पाप᳓म् अकद्” इ᳓ति,
पापी᳓ कीर्ति᳓स्
त᳓स्माद् धेन्व्-अनडुह᳓यर् नाो᳓श्नीयात्।

त᳓दु होवाच या᳓ज्ञवल्क्यो - “ऽश्ना᳓म्य् एवा᳙ह᳓म् अᳫँ᳭सलं᳓ चे᳓द् भ᳓वती᳓“ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैनᳫँ᳭ शा᳘लां प्र᳘पादयति॥
स᳘ धेन्वै᳘ चानडु᳘हश्च᳘ नाश्नीयाद्धेन्वनडुहौ वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं बिभृतस्ते᳘ देवा᳘ अब्रुवन्धेन्वनडुहौ वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं बिभृतो ह᳘न्त य᳘दन्ये᳘षां व्व᳘यसां व्वी᳘र्यं[[!!]] त᳘द्धेन्वनडुह᳘योर्द᳘धामे᳘ति स य᳘दन्ये᳘षां व्व᳘यसां व्वी᳘र्यमा᳘सीत्त᳘द्धेन्वनडुह᳘योरदधुस्त᳘स्माद्धेनु᳘श्चै᳘वानड्वां᳘श्च[[!!]] भू᳘यिष्ठं भुङ्क्तस्त᳘द्धैतत्सर्व्वा᳘श्यमिव[[!!]] यो᳘ धेन्वनडुह᳘योरश्नीयाद᳘न्तगतिरिव तᳫँ᳭ हा᳘द्भुतमभि᳘जनितोर्जाया᳘यै ग᳘र्भं नि᳘रवधीदिति[[!!]] पाप᳘मकदि᳘ति पापी᳘ कीर्तिस्त᳘स्माद्धेन्वनडुह᳘यो᳘र्नाश्नीयात्त᳘दु[[!!]] होवाच या᳘ज्ञवल्क्यो ऽश्ना᳘म्ये᳘वाह᳘मᳫँ᳭सलं चेद्भ᳘वती᳘ति॥

मूलम् - Weber

अ᳘थैनं शा᳘लाम् प्र᳘पादयति॥
स᳘ धेन्वै᳘ चानडु᳘हश्चॗ नाश्नीयाद्धेन्वनडुहौ वा᳘ इदᳫं स᳘र्वम् बिभृतस्ते᳘ देवा᳘ अब्रुवन्धेन्वनडुहौ वा᳘ इदᳫं स᳘र्वम् बिभृतो ह᳘न्त य᳘दन्ये᳘षां व᳘यसां वीर्यं᳘ त᳘द्धेन्वनडुह᳘योर्द᳘धामे᳘ति स य᳘दन्ये᳘षां व᳘यसां वीर्य᳘मा᳘सीत्त᳘द्धेन्वनडुह᳘योरदधुस्त᳘स्माद्धेनु᳘श्चैॗवानड्वां᳘श्च भू᳘यिष्ठम् भुङ्क्तस्त᳘द्धैत᳘त्सर्वा᳘श्यमिव यो᳘ धेन्वनडुह᳘योरश्नीयाद᳘न्तगतिरिव तᳫं हा᳘द्भुतमभि᳘जनितोर्जाया᳘यै गर्भं नि᳘रबधीदि᳘ति 22 पप᳘मकदि᳘ति पापी᳘ कीर्तिस्त᳘स्माद्धेन्वनडुह᳘योर्नाॗश्नीयात्त᳘दु होवाच या᳘ज्ञवल्क्यो ऽश्ना᳘म्येॗवाह᳘मंसलं चेद्भ᳘वती᳘ति॥

मूलम् - विस्वरम्

अथैनं शालां प्रपादयति । स धेन्वै चानडुहश्च नाश्नीयात् । धेन्वनडुहौ वा इदं सर्वं बिभृतः । ते देवा अब्रुवन्- धेन्वनडुहौ वा इदं सर्वं बिभृतः । हन्त यदन्येषां वयसां वीर्यम्- तद्धेन्वनडुहयोर्दधामेति । स यदन्येषां वयसां वीर्यमासीत्- तद् धेन्वनडुहयोरदधुः । तस्माद्धेनुश्चैवानड्वांश्च भूयिष्ठं भुङ्क्तः । तद्धैतत्सर्वाश्यमिव- यो धेन्वनडुहयोरश्नीयाद् अन्तगतिरिव । तं हाद्भुतमभिजनितो जायायै गर्भं निरवधीदिति पापमकदिति । पापी कीर्तिः । तस्माद्धेन्वनडुयोर्नाश्नीयात् तदु होवाच याज्ञवल्क्यः- अश्नाम्येवाहमंसलं चेद्भवतीति ॥ २१ ॥

सायणः

अथ क्षौरानन्तरं स्नातस्य भृतवाससः शालाप्रवेशं विधत्ते- अथैनमिति ।
‘प्रपादयति’ गमयेदध्वर्युः (का. श्रौ. सू. 23 ७ । ७५) ।

अस्याप्य् अशन-कालत्वाद्
अत्राशने कञ्चिन्नियममाह- स धेन्वै वेति ।
धेनोः क्षीरादिकम्, अनडुहः सम्बन्धि कर्षणसाध्यमित्यर्थः ।
तदुभयं ‘नाश्नीयात्’ धेन्वनडुहयोः सर्वजगदुपकारकत्वात् तदीयाशनप्रतिषेध इत्यर्थः ।

एतदेवोपपादयति- ते देवा इत्यादिना ।
अनयोः सर्वोपकारकत्वं विज्ञाय देवैः ‘वयसाम्’ ‘अन्येषां’ च पशूनां ‘वीर्यं’, सारमादाय धेन्वनडुहयोः स्थापितत्वात् तदश्नतः सर्वाशनं भवति ।
तस्य च जायायाः गर्भसम्भवे सति तत् सर्वाशनं तं रेतोरूपेण परिणतं ‘गर्भं’ हिंस्यात् । तत् पापकीर्तिः स्यात् । तदुभयोरन्नं ‘नाश्नीयात्’ ।

तत्र याज्ञवल्क्यपक्षमाह- तदु होवाचेति । चेदिति यस्मादर्थे ।
यस्माद् उभयाशने शरीरम् ‘असलं 24 भवति’ ।
तस्मात् ‘अश्नाम्य् अहं’ तयोर् अन्नम् अश्नीयाम् एवेत्यर्थः ।

एकहायन-प्रभृत्य् आपञ्च-हायना गावो वयांसि;
तथैवापस्तम्बेनाभिधानात् 25

अत्र कात्यायनः- “धेन्वनडुहयोर्नाश्नीयात्, पुरुषधर्मो वा सम्भवात्, अंसलभोजनं वा” का. श्रौ. सू. ७ । ५१-५३-इति ॥ २१ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे प्रथमाध्याये द्वितीयं ब्राह्मणम् ॥ (३-१-२) ॥

Eggeling
  1. He (the Adhvaryu) then makes him enter the hall.

Let him not eat (the flesh) of either the cow or the ox; for the cow and the ox doubtless support everything here on earth. The gods spake,

‘Verily, the cow and the ox support everything here: come, let us bestow on the cow and the ox whatever vigour belongs to other species 26!’

Accordingly they bestowed on the cow and the ox whatever vigour belonged to other species (of animals); and therefore the cow and the ox eat most. Hence, were one to eat (the flesh) of an ox or a cow, there would be, as it were, an eating of everything, or, as it were, a going on to the end (or, to destruction). Such a one indeed would be likely to be born (again) as a strange being, (as one of whom there is) evil report, such as ‘he has expelled an embryo from a woman,’ ‘he has committed a sin 27;’ let him therefore not eat (the flesh) of the cow and the ox. Nevertheless Yājñavalkya said, ‘I, for one, eat it, provided that it is tender.’

सिद्धार्थः - En

That last line is poorly translated, in my opinion. The word, “aMsala” is translated as “tender”. However, what Yajñavalkya meant was that it would be suitable for him to consume it during the Dīkșā (the original context of the above) — if the cow’s flesh was aMsala (filled with strength i.e. fat) and therefore medhya (sacrificially pure) by virtue of its being filled with fat (medas; there is a wordplay involving medas/fat & medhya/pure, in a style typical of Brāhmaņa texts’ approach: The object of word X stands in for the object of word Y, by virtue of X and Y being similar-sounding words).

Medas-medhya is not a stretch at all. I was just restating something that is already found in the Veda. See this part of the Śatapatha which expressly links medas (fat) with medha (pure) and contrasts amsala with kRSa (lean).

मे᳓दो वै मे᳓धस्, त᳓द् एनं मे᳓धम् उ᳓पनयति,
य᳓द्य् उ ऽअंसलो᳓ भ᳓वति
स्वयम्-उपेत᳓ एव᳓ त᳓र्हि मे᳓धं भवति॥

Although the prohibition on beef is worded in a generic way (for reasons I have explained in my earlier thread), you have to appreciate that the particular passage is dealing with Dīkșā (initiation) and a Dīkșita’s (initiate’s) conduct. So, a generally-worded prohibition on wanton eating of beef is being imported into the Dīkșā’s context.

See the passage structure: It starts off with a Dīkșā-specific prohibition. Then, it goes off into a generally-worded prohibition. The final part with Yajñavalkya in my opinion circles back to the Dīkșā context, where if a meat is Medhya, it is fit for consumption during even the Dīkșā.


  1. दीक्षान्तकालम् इति पा. । इयमप्सुदीक्षेत्युच्यते- एतद्दीक्षाकालस्तु- अपराह्णे दीक्षेतेति प्रथमकंडिकायामुक्तः ॥ का. । नापित उपतिष्ठति, नखानि निकृतत्यंगुष्ठप्रभृतीनि, दक्षिणहस्तस्य प्रथममिति । ७ । ३६ । नापिते उपतिष्ठति समीपस्थे सति अध्वर्युर्नखानि निकृन्ततीत्यर्थः । ↩︎

  2. 5:1 The rite described in the following paragraphs is called apsudīkshā, or ‘consecration in water.’ ↩︎

  3. 6:1 It is to be square and covered in on all sides with mats, and with a door on the east side. Kāty. VII, I, 25 scholl. ↩︎

  4. गोदानञ्च दक्षिणं शिरःपार्श्वम् । गवि पृथिव्यां दीयत इति गोदानम् इति का. श्रौ. सूत्र ७ । ३७ भाष्ये कर्कः । ↩︎

  5. दक्षिणं गोदानं वितार्योनतीमा आप इति । ७-३७ । यूपवत्कुशतरुणं ३८ । क्षुरेण चाभिनिधाय ३९ । छित्त्वोदपात्रे प्रास्यति ४० । एवमुत्तरं तूष्णीं ४१ । नापिताय क्षुरं प्रयच्छति ४२ । तेन केशश्मश्रु वपति ४३ । आपो अस्मानिति स्नात्वा ४४ । वितारणं कंकतादिना केशोन्मोचनं । उनत्ति- उंदी क्लेदने- तिम्मयतीत्यर्थः । गोदानं च- दक्षिणं शिरसः पार्श्वम् । स्वपद्भिर्गवि पृथिव्यां दीयते यत्तद्गोदानम् । यूपवदिति- ओषधे त्रायस्वेति मंत्रातिदेशः। कुशतरुणं- सूक्ष्मं कुशाग्रं, दर्भतरुणमिति हरिस्वामिनः । चकारेण यूपवदित्यातिदेशः । तेन च स्वधिते मैनँ हिँ सीरिति मंत्रातिदेशः । केशाः शिरोगताः । तथाहामरसिंहः- ‘चिकुरः कुंतलो बालः कचः केशः शिरोरुहः’ इति । श्मश्रु मुखजरोमाणि । तथाहामरसिंहः- ‘तनूरुहं रोमलोमतद्वृद्धो श्मश्रु पुंमुखे’ इति । तानि च भ्रूचक्षुषां रोमाणि वर्जयित्वेति देवयाज्ञिकः । मुखलक्षणमायुर्वेदे- ‘औष्ठो च दंतमूलानि दंता जिह्वा च तालु च । गल्लो गल्लादिसकलं सप्तांगं मुखमुच्यते’ इति । दृष्टार्थत्वाच्चोदकुंभोदकेनैव स्नानमिति कर्कः । कर्कोक्तेनैवकारेण- स्थावराप्सु स्नाति शंखिनीष्ववकिनीषु लोमशे तीर्थे कुंडे हिरण्यमवधाय तस्मिन् स्नातीति वाजसनेयकमित्यापस्तम्बोक्तादिनिरासः । तथा देवयाज्ञिकोक्तं- उदकुंभनिधानमदृष्टार्थमितितु- दृष्टे फले संभवति नादृष्टपरिकल्पना- इति न्यायाननुगतमेव । एवमुदिदाभ्य इति मंत्रलिंगविरोधो न हि स्नानमंत्रगतः । मंत्रान्तरगतत्वाच्चेत्यपि बोध्यम् । एवं च कर्कप्रामाण्यात् स्नानार्थमुदकुंभोदकप्रतिष्ठापनविधानमेवेति सिद्धांतः ॥ ↩︎

  6. 7:1 The text has, when he shaves (vapati) the hair and beard [when he shaves himself (vapate), K.] he bathes.’ According to this it would seem that he does not bathe unless he shaves (?). See, however, Kāty. VII, 2, 22, where the shaving is said to be optional, but not so, according to the commentary, the bathing. There seems also to be some doubt as to where the bathing is to take place. While, according to Karka, the sacrificer is to bathe in the vessel of water in the tent; according to other authorities he is to do so in some tank, or other kind of bathing-place of standing water. Cf. Taitt. S. VI, 1, 1, tīrthe snāti; tīrtham eva samānānām bhavati. ↩︎

  7. 8:1 I now take pūti (with Dr. Lindner) in the sense of ‘foul, filthy, fetid,’ and would correct the passage (I, 1, 1, 1) accordingly. Professor Ludwig (Göttinger Gel. Anz. 1883, p. 49) proposes to take pūti in the sense of ‘pure,’ both here and in I, 1, 1, 1. ↩︎

  8. यं᳘ घृते᳘न पुनंस्त᳘स्मादाह A. ↩︎

  9. 8:2 The Kāṇva recension has the better reading, ‘For they, indeed, now cleanse him when he bathes.’ According to Taitt. S. VI, 1, 1, 3, he also sips (aśnāti) some water with the view of internal purification. ↩︎

  10. 8:3 Lit. ‘for that indeed is well purified, whom they purified (i.e. when they purify anybody) with ghee.’ The imperfect is rather strange. See also III, 1, 3, 22. The Kāṇvas read, ‘For that, indeed, is well purified what is purified (yad pūyate) with ghee.’ ↩︎

  11. उदिदाभ्य इत्युत्क्रामत्युत्तरपूर्वार्द्धम् । का. श्रौ. सू. ७ । ४४ । ↩︎ ↩︎

  12. 8:4 Prāṅ ivodaṅ = uttarapūrvārdham, Kāty. VII, 2, 15, i.e. ’towards the north with. a slight turn to the east.’ Dr. Lindner takes ‘udaṅ’ as meant to explain the preposition ‘ud.’ This, however, does not account for the ‘iva.’ ↩︎

  13. “प्रघातो दण्डेन शलाकोपघातेन वा प्रहारः” इति तै. सं. १ । २ । १; ६ । १ । १ सा. भा. । ↩︎

  14. “मध्ये च्छिद्राणि” इ० पा. । ↩︎

  15. 9:1 Agneḥ paryāso bhavati, vāyor anuchādo (?). The Black Yajus (T. S. VI, 1, 1) reads, agnes tūshādhānam (śalākopadhānaṁ tūshāḥ, (tatra tantūnām pūraṇaṁ tūshādhānam; Sāy.), vāyor vātapānam vāyunā śoshaṇaṁ vātapānam, S.). The warp (prācīnatāna) and woof (otu), on the other hand, are by the Black Yajus ascribed to the Ādityas and Viśve Devāḥ respectively. ↩︎

  16. 10:1 Praghāta, apparently the closely-woven part at both ends of the cloth from whence the loose threads of the nīvi, or unwoven fringe (thrum), come out. The Black Yajus ascribes it to the plants. ↩︎

  17. अमेध्यमाकृणात्ति Sây. मे᳘ध्यमसदिति. ↩︎

  18. कात्यायनः ‘क्षौमं वस्ते निष्पेष्टवै ब्रूयादहतं’ ७ । ४५ । चेदद्भिरभ्युक्ष्य । ७ । ४६ । स्नातवस्यंवा ऽमौत्रधौतं विचितकेशं प्रसारितदशं दीक्षातपसोरिति ४७ ॥ क्षौममातसं । (जवस) “अतसी स्यादुमाक्षुमे” त्यमरः । अहतमधौतमिति कर्कः । देवयाज्ञिकस्तु-वासस उपघातः परिधानेन रागेण वा भवति । अतो ऽहतमपरिहितमरक्तं चेत्याह । निष्पेष्टवै- ‘पिष्लृसंचूर्णने’ धातुः । तेन च हस्ताभ्यां संपेष्टव्यमिति प्रैषार्थः । ततश्च ब्राह्मणहस्तसंपर्कान्मेध्यताभवतीत्यभिप्रायः । अहतं चेदद्भिरभ्युक्ष्य वा परिधत्ते । इति वासोधावनाद्भिरभ्युक्षणयोर्विकल्पः । स्नातवस्यं- स्नातेन प्रत्यहं कृतस्नानेन वस्यं वसनीयं सदा परिधानीयं यद्वासस्तत्स्नातवस्यं । तदमौत्रधौतमरजकधौतं । विचितकेशं विचिताः निष्कासिताः केशा यस्मात्तद्विचितकेशं स्नातवस्यमहतं चेत्युभयमपि विचितकेशं प्रसारितदशमित्यभ्युपेतव्यम् । ↩︎

  19. 10:2 Literally, ‘unbeaten (ahata), unwashed.’ ↩︎

  20. 10:3 That is to say, if it be not a new garment, it should be one that has not been washed by a washerman (with mautra, &c.), but worn daily after bathing. ↩︎

  21. 10:4 Or, outward form, tanu. Its meaning sometimes comes very near to that of ‘skin,’ assigned to it by the lexicographers. Cf. III, 2, 2, 20; 4, 3, 9. ↩︎

  22. नि᳘रवंधीदि᳘ति A. ↩︎

  23. ‘वाग्यतं प्रवेशयत्याहवनीयगार्हपत्यावन्तरेण’ इति । ↩︎

  24. ‘अंसौ विद्येते यस्यासावंसलः । अंसौ च बाहुमूले, तौ तु सर्वस्यापि भवत इति विशेषणानुपपत्तिः, अतो ऽत्रांसाभ्यां बलं लक्ष्यते । “वत्सांसाभ्यां कामबले”- इति हि (पा. सू. ५ । २ । ९८) लच् प्रत्ययः । “बलवान् मांसलों ऽसलः” इति चामरः २ । ६ । ४४ । ↩︎

  25. “पष्ठौहीं त्वन्तर्वत्नीं दद्यात्; सा हि सर्वाणि वयांसि" इत्यादि (तै. ब्रा. ३ । ९२ । ५ । ९) सायण-भाष्यम् अप्य् आलोचनीयम् । ↩︎

  26. 11:1 Vayasām, cf. III, 3, 3, 3. The Kāṇva rec. has ‘yad anyeshāṁ vayasāṁ vīryaṁ yad anyeshām paśūnām.’ ↩︎

  27. 11:2 A different translation of this passage is proposed by Professor Delbrück (Synt. Forsch. III, p. 25); but the Kāṇva text (sā taṁ heśvaro ’dbhutam abhijanitor jāyāyā vā garbhaṁ niravadhīd yad yeti tad u hovāca) shows that we have here, as frequently, to supply īśvaraḥ to the infinitive in tos. The Kāṇva yad vā (‘or some such thing’) would also seem to indicate that we ought to translate:–(as of one of whom) there is evil report: ‘he has committed some such (iti) sin as the producing of abortion.’ ↩︎