०१
विश्वास-प्रस्तुतिः
देवय᳘जनं जोषयन्ते॥
स य᳘देव व्व᳘र्षिष्ठᳫं स्यात्त᳘ज्जोषयेरन्य᳘दन्यद्भू᳘मे᳘र्नाभिश᳘यीता᳘तो वै᳘ देवा दि᳘वमुपो᳘दक्रामन्देवान्वा᳘ ऽएष᳘ ऽउपो᳘त्क्रामति यो दी᳘क्षते स स᳘देवे देवय᳘जने यजते स य᳘द्धान्यद्भू᳘मेरभिश᳘यीता᳘वरतर ऽइव हेष्ट्वा᳘ स्यात्त᳘स्माद्य᳘देव व्व᳘र्षिष्ठᳫं स्यात्त᳘ज्जोषयेरन्॥
मूलम् - श्रीधरादि
देवय᳘जनं जोषयन्ते॥
स य᳘देव व्व᳘र्षिष्ठᳫं स्यात्त᳘ज्जोषयेरन्य᳘दन्यद्भू᳘मे᳘र्नाभिश᳘यीता᳘तो वै᳘ देवा दि᳘वमुपो᳘दक्रामन्देवान्वा᳘ ऽएष᳘ ऽउपो᳘त्क्रामति यो दी᳘क्षते स स᳘देवे देवय᳘जने यजते स य᳘द्धान्यद्भू᳘मेरभिश᳘यीता᳘वरतर ऽइव हेष्ट्वा᳘ स्यात्त᳘स्माद्य᳘देव व्व᳘र्षिष्ठᳫं स्यात्त᳘ज्जोषयेरन्॥
मूलम् - Weber
देवय᳘जनं जोषयन्ते॥
स य᳘देव व᳘र्षिष्ठᳫं स्यात्त᳘ज्जोषयेरन्य᳘दन्यद्भू᳘मेरा᳘भिश᳘यीता᳘तो 1 वै᳘ देवा दि᳘वमुपो᳘दक्रामन्देवान्वा᳘ एष᳘ उपो᳘त्क्रामति यो दी᳘क्षते स स᳘देवे देवय᳘जने यजते स य᳘द्धान्यद्भू᳘मेरभिश᳘यीता᳘वरतर इव हेष्ठ्वा᳘ स्यात्त᳘स्माद्य᳘देव व᳘र्षिष्ठᳫं स्यात्त᳘ज्जोषयेरन्॥
मूलम् - विस्वरम्
अथ ज्योतिष्टोमयागाधिकारः । तत्रादावग्निष्टोमे देवयजनम् । देवयजनं जोषयन्ते । स यदेव वर्षिष्ठं स्यात्- तज्जोषयेरन् । यद्भूमेर्नाभिशयीत । अतो वै देवा दिवमुपोदक्रामन् । देवान्वा एष उपोत्क्रामति- यो दीक्षते । स सदेवे देवजने यजते । स यद्धान्यद्भूमेरभिशयीत- अवरतर इव हेष्ट्वा स्यात् । तस्माद्यदेव वर्षिष्ठं स्यात्- तज्जोषयेरन् ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्म्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
आधानपुनराधाने अग्निहोत्रं ततः परम् । चातुर्मास्यानि च पशुर्द्वितीये काण्ड ईरितम् ॥ २ ॥
अथ तृतीयचतुर्थाभ्यामेकाहाहीनसत्रलक्षणसकलसोमयागप्रकृतिभूतो ऽग्निष्टोमो ऽभिधीयते । तत्र तृतीयकाण्डस्य प्रथमाध्याये शालानिर्माणप्रभृति दीक्षाहुतिपर्यन्तं प्रतिपाद्यते । तत्रादौ शालानिर्माणार्थं देवयजनपरिग्रहं विधत्ते- देवयजनं जोषयन्त इति । देवा इज्यन्ते ऽत्रेति ‘देवयजनम्’ । अधिकरणे ल्युट् (पा. सू. ३ । ३ । ११३) प्राचीनवंशसदोहविर्द्धानादिनिर्माणपर्याप्तं देवयजनस्थानम् । तत् ‘जोषयन्ते’ सेवन्ते (धा. पा. चु. ३०१) स्वार्थिको णिच् । परिगृह्णीयुर्यजमानपुरुषाः । तस्य विशेषमाह- स यदेव वर्षिष्ठं स्यात् तज्जोषयेरन्निति । ‘सः’ इति प्रसिद्धौ यच्छन्दविशेषणमेतत् । प्रसिद्धं ‘यद्’ देवयजनम्, ‘तत्’ ‘वर्षिष्ठम्’ अतिशयेन वृद्धम्, उच्छ्रितम्, जोषयितव्यमित्यर्थः । वर्षिष्ठमित्येतत् स्पष्टयति- यदन्यदित्यादिना । ‘यत्’ यस्या उपरि गृहीताया: ‘भूमेः’ ‘अन्यत्’ परिसरस्थलं ‘नाभिशयीत’ अतिशयीत, अतिशयितमुच्छ्रितं न च तद् वर्षिष्ठमित्यर्थः । उक्तलक्षणं देवयजनं प्रशंसति- अतो वा इति । ‘अतः’ अस्माद् यदित्युक्तलक्षणात् ‘देवाः’ ‘दिवम्’ ‘उपोत्क्रामन्’ उत्क्रान्ताः, प्राप्ताः । उत्क्रामन्तु नाम, ततः किमु १ इत्यत आह- देवान्वा इति । यस्मात् ‘एषः’ दीक्षितो ऽपि ‘देवान्’ उपोत्क्रामति, तस्माद् यादृशेन देवयजनेन देवा दिवं गताः, तादृशं कुर्वन् ‘स:’ दीक्षित: ‘सदेवे’ एव ‘देवयजने’ ‘यजते’ इष्टवान् भवति । अनेवंविधस्य परिग्रहे दोषमाह- स यद्धेति । निम्ने देवयजने ‘इष्ट्वा’ स्वयमेव ‘अवरतर इव’ अत्यन्तं नीच एव ‘स्यात्’ । तस्मादित्युपसंहारः । अत्र कात्यायनः सौमिकमृत्विग्वरणमभिधायाह- “देवयजनं जोषयन्ते, उच्चतमम्” (का. श्रौ. सू. १० । १० । ११) इति ॥ १ ॥
Eggeling
- They choose a place of worship. Let them choose (the place) which lies highest, and above which no other part of the ground rises 2; for it was from thence that the gods ascended to heaven, and he who is consecrated indeed ascends to the gods. He thus sacrifices on a place of worship frequented by the gods; but were any other part of the ground to rise above it, he would indeed be lowered while sacrificing: let them therefore choose (the place) which lies highest.
०२
विश्वास-प्रस्तुतिः
(रंस्त) तद्व᳘र्ष्म स᳘त्सम᳘ᳫं᳘ स्यात्॥
(त्स) समᳫँ᳭ सद᳘विभ्रᳫंशि स्याद᳘विभ्रᳫं᳭शिसत्प्रा᳘क्प्रवणᳫं स्यात्प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दक्प्रवणमु᳘दीची हि᳘ मनु᳘ष्याणां दि᳘ग्दक्षिणतः᳘ प्रत्यु᳘च्छ्रितमिव स्यादेषा वै दि᳘क् पितॄणाᳫं᳭ स य᳘द्दक्षिणा᳘प्रवणᳫं᳭ स्या᳘त्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लोक᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्दक्षिणतः᳘ प्रत्यु᳘च्छ्रितमिव स्यात्॥
मूलम् - श्रीधरादि
(रंस्त) तद्व᳘र्ष्म स᳘त्सम᳘ᳫं᳘ स्यात्॥
(त्स) समᳫँ᳭ सद᳘विभ्रᳫंशि स्याद᳘विभ्रᳫं᳭शिसत्प्रा᳘क्प्रवणᳫं स्यात्प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दक्प्रवणमु᳘दीची हि᳘ मनु᳘ष्याणां दि᳘ग्दक्षिणतः᳘ प्रत्यु᳘च्छ्रितमिव स्यादेषा वै दि᳘क् पितॄणाᳫं᳭ स य᳘द्दक्षिणा᳘प्रवणᳫं᳭ स्या᳘त्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लोक᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्दक्षिणतः᳘ प्रत्यु᳘च्छ्रितमिव स्यात्॥
मूलम् - Weber
तद्व᳘र्ष्म स᳘त्सम᳘ᳫं᳘ स्यात्॥
समᳫं सद᳘विभ्रंशि स्याद᳘विभ्रंशि सत्प्रा᳘क्प्रवणᳫं स्यात्प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो उ᳘दक्प्रवणमु᳘दीची हि᳘ मनुॗष्याणां दि᳘ग्दक्षिणतः᳘ प्रत्यु᳘छ्रितमिव स्यादेषा वै दि᳘क् पितॄणाᳫं स य᳘द्दक्षिणा᳘प्रवणᳫं स्या᳘त्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लोक᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति त᳘स्माद्दक्षिणतः᳘ प्रत्यु᳘छ्रितमिव स्यात्॥
मूलम् - विस्वरम्
तद्वर्ष्म सत् समं स्यात् । समं सद्- अविभ्रंशि स्यात् । अविभ्रंशि सत् प्राक्प्रवणं स्यात् । प्राची हि देवानां दिक् । अथो उदक्प्रवणम् । उदीची हि मनुष्याणां दिक् । दक्षिणतः प्रत्युच्छ्रितमिव स्यात् । एषा वै दिक् पितॄणाम् । स यद्दक्षिणाप्रवणं स्यात्- क्षिप्रे ह यजमानो ऽमुं लोकमियात् । अथो ह यजमानो ज्योग्जीवति । तस्माद्दक्षिणतः प्रत्युच्छ्रितमिव स्यात् ॥ २ ॥
सायणः
अन्यानपि धर्मविशेषानाह- तद्वर्ष्मेति । ‘वर्ष्म’ उन्नतम् ‘सत्,’ ‘तत्’ देवयजनं ‘समं स्यात्’; विषमस्य विसदृशदर्शनात् तदभावाय तत् समं कर्तव्यमित्यर्थः । समत्वेन ‘अविभ्रंशि’ अपि स्थलं प्राचीनप्रवणम् उदीचीनप्रवणं वा भवेत्; यष्टव्यत्वेन देवानाम्, यष्टृत्वेन मनुष्याणां च देवयजनसम्बन्धसम्भवादुभयसम्बन्धिन्योर्दिशोरन्यतरस्याः प्रवणत्वाभिधानमित्यभिप्रायः । उदक्प्रवणत्वे यदर्थसिद्धं दक्षिणोन्नतत्वम्, तदाह- दक्षिणतः प्रत्युच्छ्रितमिवेति । विपक्षबाधमुखेन दक्षिणप्रवणत्वं निषेधति- एषा वा इति । ‘क्षिप्रे’ अचिरेणैव कालेन ‘अमुं’ परलोकम् । ‘तथो ह’ पूर्वोत्तरप्रवणत्वपक्षे ज्योक् चिरकालम् (आप. श्रौ. सू. १० । २० । १) 3 ॥ २ ॥
Eggeling
- While being high, that place should be even; and being even, it should be firm; and being firm, it should incline towards the east, since the east is the quarter of the gods; or else it should incline
towards the north, since the north is the quarter of men. It should rise somewhat towards the south, that being the quarter of the Fathers. Were it to incline towards the south, the sacrifice would quickly go to yonder world; but in this way the sacrificer lives long: let it therefore rise somewhat towards the south.
०३
विश्वास-प्रस्तुतिः
(न्न᳘) न᳘ पुर᳘स्ताद्देवयजनमात्रम᳘तिरिच्येत॥
द्विष᳘न्तᳫँ᳭ हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते का᳘मᳫँ᳭ ह दक्षिणतः स्यादेव᳘मुत्तरत᳘[[!!]] एत᳘द्ध᳘ त्वेव स᳘मृद्धं देवय᳘जनं य᳘स्य देवयजनमात्रं᳘ पश्चा᳘त्परिशिष्य᳘ते क्षिप्रे है᳘वैनमु᳘त्तरा देवयज्यो᳘पनमती᳘ति नु᳘ देवय᳘जनस्य[[!!]]॥
मूलम् - श्रीधरादि
(न्न᳘) न᳘ पुर᳘स्ताद्देवयजनमात्रम᳘तिरिच्येत॥
द्विष᳘न्तᳫँ᳭ हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते का᳘मᳫँ᳭ ह दक्षिणतः स्यादेव᳘मुत्तरत᳘[[!!]] एत᳘द्ध᳘ त्वेव स᳘मृद्धं देवय᳘जनं य᳘स्य देवयजनमात्रं᳘ पश्चा᳘त्परिशिष्य᳘ते क्षिप्रे है᳘वैनमु᳘त्तरा देवयज्यो᳘पनमती᳘ति नु᳘ देवय᳘जनस्य[[!!]]॥
मूलम् - Weber
न᳘ पुर᳘स्ताद्देवयजनमात्रम᳘तिरिच्येत॥
द्विष᳘न्तᳫं हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते का᳘मᳫं ह दक्षिणतः स्यादेव᳘मुत्तर᳘त एत᳘द्धॗ त्वेव स᳘मृद्धं देवय᳘जनं य᳘स्य देवयजनमात्र᳘म् पश्चात्परिशिष्य᳘ते क्षिप्रे हैॗवैनमु᳘त्तरा देवयज्यो᳘पनमती᳘ति नु᳘ देवयज᳘नस्य॥
मूलम् - विस्वरम्
न पुरस्ताद्देवयजनमात्रमतिरिच्येत- द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते । कामं ह दक्षिणतः स्यात्, एवमुत्तरतः । एतद्ध त्वेव समृद्धं देवयजनम्- यस्य देवयजनमात्रं पश्चात्परिशिष्यते । क्षिप्रं हैवैनमुत्तरा देवयज्योपनमति । इति नु देवयजनस्य ॥ ३ ॥
सायणः
अथ देवयजनप्राग्देशे देवयजनानन्तरपरिमितप्रदेशस्याधिक्यं निषेधति- न पुरस्तादिति । स देशातिरेको यजमानभ्रातृव्यातिरेकाय भवति । तथा चापस्तम्बः- “न प्राचीनं देवयजनाद्देवयजनमात्रमुर्च्छिषेत्”- (आप. श्रौ. सू. १० । २० । १०) इति । दक्षिणोत्तरयोरतिरेकस्त्वैच्छिक इत्याह- कामं हेति । पश्चाद्भागे पुनरन्यस्य देवयजनस्य पर्याप्तप्रदेशोपेतं देवयजनं समृद्धिकरमित्याह- एतद्ध त्वेव समृद्धमिति । प्रतिपाद्यमर्थं निगमयति- इति नु देवयजनस्येति । कॢप्तिरिति शेषः । अत्र कात्यायनः- “सममव्यतिभ्रंशि अभितो देवयजनमात्रदेशं पुरस्ताद्वर्जम्, प्राक्प्रवणमुदग्वा” (का. श्रौ. सू. अ. ७ । ११-१३) इति ॥ ३ ॥
Eggeling
- Let not the measure of the sacrificial ground be exceeded on the east side, since such an excess would be in favour of his spiteful enemy. It may be so in the south, and also in the north; but that place of worship alone is thoroughly efficient where the measure of the sacrificial ground is exceeded in the west; for to him (who possesses such a one) the higher 4 worship of the gods readily inclines. So much as to the place of worship.
०४
विश्वास-प्रस्तुतिः
त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) व्वार्ष्ण्या᳘य देवय᳘जनं जो᳘षयितुमैम त᳘त्सात्यय᳘ज्ञो ऽब्रवीत्स᳘र्व्वा वा᳘ ऽइयं᳘ पृथिवी᳘ देवी᳘ देवय᳘जनं य᳘त्र वा᳘ ऽअस्यै᳘ क्वच य᳘जुषैव᳘ परिगृ᳘ह्य याजयेदि᳘ति[[!!]]॥
मूलम् - श्रीधरादि
त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) व्वार्ष्ण्या᳘य देवय᳘जनं जो᳘षयितुमैम त᳘त्सात्यय᳘ज्ञो ऽब्रवीत्स᳘र्व्वा वा᳘ ऽइयं᳘ पृथिवी᳘ देवी᳘ देवय᳘जनं य᳘त्र वा᳘ ऽअस्यै᳘ क्वच य᳘जुषैव᳘ परिगृ᳘ह्य याजयेदि᳘ति[[!!]]॥
मूलम् - Weber
त᳘दु होवाच या᳘ज्ञवल्क्यः॥
वार्ष्ण्या᳘य देवय᳘जनं जो᳘षयितुमैम त᳘त्सात्ययॗज्ञो ऽब्रवीत्स᳘र्वा वा᳘ इय᳘म् पृथिवी᳘ देवी᳘ देवय᳘जनं य᳘त्र वा᳘ अस्यै क्व᳘ च य᳘जुषैव᳘ परिगृ᳘ह्य याज᳘येदि᳘ति 5 ॥
मूलम् - विस्वरम्
तदु होवाच याज्ञवल्क्यः वार्ष्णाय । देवयजनं जोषयितुमैम । तत् सात्ययज्ञो ऽब्रवीत्- ‘सर्वा वा इयं पृथिवी देवी देवयजनम्, यत्र वा अस्यै क्व च यजुषैव परिगृह्य याजयेत्’- इति ॥ ४ ॥
सायणः
अथर्षीणामाख्यानमुखेन देवयजनस्य पक्षान्तरमाह- तदु होवाचेति । वार्ष्णमृषिं 6 ‘याज्ञवल्क्य उवाच’ । यदा वयं देवयजनपरिग्रहाय गताः, तदानीं ‘सात्ययज्ञः’ आह । “एतावती वै पृथिवी, यावती वेदिः-” इत्यादिश्रुतेः (तै. सं. २ । ५ । ४ । ३) वेद्युपलक्षितदेवयजनस्य देवतात्मकसमस्तपृथिवीरूपत्वम्, अतो ‘यत्र क्व च’ मन्त्रेण परिग्रहे सति तदुक्तलक्षणमेव भवेदित्यर्थः ॥ ४ ॥
Eggeling
- Now Yājñavalkya spake,–‘We went to choose a place of worship for Vārshṇya 7. Sātyayajña then said, “Verily, this whole earth is divine: on whatever part thereof one may sacrifice (for any
one), after enclosing (and consecrating) it with a sacrificial formula, there is a place of worship.”
०५
विश्वास-प्रस्तुतिः
(त्यृ) ऋत्वि᳘जो हैव᳘ देवय᳘जनम्॥
ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचाना᳘ व्विद्वा᳘ᳫँ᳘सो याज᳘यन्ति᳘ सैवा᳘ह्वलैत᳘न्नेदिष्ठतमा᳘मिव मन्यामह ऽइ᳘ति॥
मूलम् - श्रीधरादि
(त्यृ) ऋत्वि᳘जो हैव᳘ देवय᳘जनम्॥
ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचाना᳘ व्विद्वा᳘ᳫँ᳘सो याज᳘यन्ति᳘ सैवा᳘ह्वलैत᳘न्नेदिष्ठतमा᳘मिव मन्यामह ऽइ᳘ति॥
मूलम् - Weber
ऋत्वि᳘जो हैव᳘ देवय᳘जनम्॥
ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचाना᳘ विद्वा᳘ᳫं᳘सो याज᳘यन्तिॗ सैवा᳘ह्वलैत᳘न्नेदिष्ठमा᳘मिव 8 मन्यामह इ᳘ति॥
मूलम् - विस्वरम्
‘ऋत्विजो हैव देवयजनम्- ये ब्राह्मणाः शुश्रुवांसो ऽनूचाना विद्वांसो याजयन्ति- सैवाह्वला, एतन्नेदिष्ठतमामिव मन्यामहे-’ इति ॥ ५ ॥
सायणः
याज्ञवल्क्यस्तु वक्ष्यमाणलक्षणैर्ऋत्विग्भिः परिग्रह एवोक्तलक्षणदेवयजनपरिग्रह इत्याह-ऋत्विजो हैवेति । ‘शुश्रुवांसः’ श्रुतशास्त्राः । ‘अनूचानाः’ साङ्गप्रवचनाध्येतारः । ‘अह्वला ’ दोषरहिताः । अर्थाद्यजुषा परिगृह्णीयात् । ऋत्विजो ऽपि श्रुताध्ययनादिसम्पन्ना भवेयुरित्ययमर्थो ऽप्युक्तो भवति 6 ॥ ५ ॥
Eggeling
- ‘It is, however, the officiating priests that constitute the place (or medium) of worship: wheresoever wise and learned Brāhmans, versed in sacred lore, perform the sacrifice, there no failure takes place: that (place of worship) we consider the nearest (to the gods) 9.’
०६
विश्वास-प्रस्तुतिः
तच्छा᳘लां वा व्वि᳘मितं वा प्राची᳘नवᳫँ᳭शं मिन्वन्ति॥
प्रा᳘ची हि᳘ देवा᳘नां दि᳘क्पुर᳘स्ताद्वै᳘ देवाः᳘ प्रत्य᳘ञ्चो मनु᳘ष्यानुपा᳘वृत्तास्त᳘स्मात्तेभ्यः प्राङ्ति᳘ष्ठञ्जुहोति॥
मूलम् - श्रीधरादि
तच्छा᳘लां वा व्वि᳘मितं वा प्राची᳘नवᳫँ᳭शं मिन्वन्ति॥
प्रा᳘ची हि᳘ देवा᳘नां दि᳘क्पुर᳘स्ताद्वै᳘ देवाः᳘ प्रत्य᳘ञ्चो मनु᳘ष्यानुपा᳘वृत्तास्त᳘स्मात्तेभ्यः प्राङ्ति᳘ष्ठञ्जुहोति॥
मूलम् - Weber
तछा᳘लो वा 10 वि᳘मितं वा प्राची᳘नवंशम् मिन्वन्ति॥
प्रा᳘ची हि᳘ देवा᳘नां दि᳘क् पुर᳘स्ताद्वै᳘ देवाः᳘ प्रत्य᳘ञ्चो मनुॗष्यानुपा᳘वृत्तास्तस्मात्ते᳘भ्यः प्राङ्ति᳘ष्ठञ्जुहोति॥
मूलम् - विस्वरम्
तच्छालां वा विमितं वा प्राचीनवंशं मिन्वन्ति । प्राची हि देवानां दिक् । पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानुपावृत्ताः । तस्मात्तेभ्यः प्राङ्तिष्ठन् जुहोति ॥ ६ ॥
सायणः
यथोक्तदेवयजने यत्कर्तव्यं गृहं तत् ‘प्राचीनवंशं’ कर्तव्यमित्याह- तच्छालां वेति । ‘शाला’ दीर्घचतुरस्रं गृहम् । विमितं सर्वतः समपरिमाणम् अनयोरन्यतरत् 6 ‘प्राग्वंशम्’ प्रागग्रवंशं मिनुयात् । प्राग्दिशः प्रशंसार्थमर्थवादमाह- प्राची हीति । यस्मात् प्रत्यग्दिग्गतानृत्विग्यजमानान् प्रति पुरोदेशाद्धविर्भोजनाः देवाः प्रत्यङ्मुखोपावृत्ताः, ‘तस्मात्’ ‘तेभ्यः’ देवेभ्यः ‘प्राङ् तिष्ठन् जुहोति’ । तस्मात्प्राचीनवंशत्वमुपपद्यते । (का. श्रौ. सू. ७ । १५-१८) ॥ ६ ॥
Eggeling
- On this (ground) they erect either a hall or a shed, with the top-beams running from west to east 11; for the east is the quarter of the gods, and from the east westwards the gods approach men: that is why one offers to them while standing with his face towards the east.
०७
विश्वास-प्रस्तुतिः
त᳘स्मादु ह न᳘ प्रतीची᳘नशिराः शयीत॥
ने᳘द्देवा᳘नभिप्रसा᳘र्य श᳘या ऽइ᳘ति या द᳘क्षिणा दिक्सा᳘ पितॄणां या᳘ प्रती᳘ची सा᳘ सर्पा᳘णां य᳘तो देवा᳘ उच्चक्रमुः᳘ सैषा᳘ ऽहीना यो᳘दीची दिक्सा᳘ मनु᳘ष्याणां त᳘स्मान्मानुष᳘ ऽउदीची᳘नवᳫँ᳭शामेव शा᳘लां व्वा वि᳘मितं व्वा मिन्वन्त्यु᳘दीची हि᳘ मनु᳘ष्याणां दि᳘ग्दीक्षित᳘स्यैव᳘ प्राची᳘नवᳫँ᳭शा ना᳘दीक्षितस्य॥
मूलम् - श्रीधरादि
त᳘स्मादु ह न᳘ प्रतीची᳘नशिराः शयीत॥
ने᳘द्देवा᳘नभिप्रसा᳘र्य श᳘या ऽइ᳘ति या द᳘क्षिणा दिक्सा᳘ पितॄणां या᳘ प्रती᳘ची सा᳘ सर्पा᳘णां य᳘तो देवा᳘ उच्चक्रमुः᳘ सैषा᳘ ऽहीना यो᳘दीची दिक्सा᳘ मनु᳘ष्याणां त᳘स्मान्मानुष᳘ ऽउदीची᳘नवᳫँ᳭शामेव शा᳘लां व्वा वि᳘मितं व्वा मिन्वन्त्यु᳘दीची हि᳘ मनु᳘ष्याणां दि᳘ग्दीक्षित᳘स्यैव᳘ प्राची᳘नवᳫँ᳭शा ना᳘दीक्षितस्य॥
मूलम् - Weber
त᳘स्मादु ह न᳘ प्रतीची᳘नशिराः शयीत॥
ने᳘द्देवा᳘नभिप्रसा᳘र्य श᳘या इ᳘ति या द᳘क्षिणा दिक् सा᳘ पितॄणां या᳘ प्रती᳘ची सा᳘सर्पा᳘णां य᳘तो देवा᳘ उच्चक्रमुःॗ सैषा᳘हीना यो᳘दीची दिक् सा᳘ मनुॗष्याणां त᳘स्मान्मानुष᳘ उदीची᳘नवंशामेव शा᳘लां वा वि᳘मितं वा मिन्वन्त्यु᳘दीची हि᳘ मनुॗष्याणां दि᳘ग्दीक्षित᳘स्यैव᳘ प्राची᳘नवंशा ना᳘दीक्षितस्य॥
मूलम् - विस्वरम्
तस्मादु ह न प्रतीचीनशिराः शयीत । ‘नेद्देवानभिप्रसार्य शयै’- इति । या दक्षिणा दिक्- सा पितॄणाम् । या प्रतीची- सा सर्पाणाम्- यतो देवा उच्चक्रमुः- सैषा ऽहीना । योदीची दिक्- सा मनुष्याणाम् । तस्मान्मानुष उदीचीनवंशामेव शालां वा विमितं वा मिन्वन्ति । उदीची हि मनुष्याणां दिक् । दीक्षितस्यैव प्राचीनवंशाः नादीक्षितस्य ॥ ७ ॥
सायणः
प्रासङ्गिकं दीक्षितस्य शयने कञ्चिन्नियममाह- तस्मादु हेति । ‘अभिप्रसार्य’ पादावित्यर्थः । प्राग्दिक्प्रशंसार्थं दिग्विभागरूपमर्थवादमाह- या दक्षिणेति । ‘यतो’ ‘देवाः’ यजमानादीन् प्रति ‘उपचक्रमुः’ ‘सा’ प्राची ‘अहीना’ समृद्धा । उदीच्या मनुष्यसम्बन्धित्वं तेषामुदग्वंशालानिर्माणात् प्रसिद्धमित्याह- तस्मान्मानुष इति । (का. श्रौ. सू. ७ । १९) ‘मानुषे’ मनुष्यार्हे कर्मणि । ‘दीक्षितस्य’ प्राग्वंशत्वमेव, अन्येषां तु उदीचीनवशत्वमिति व्यवस्था ॥ ७ ॥
Eggeling
- For this reason one mug not sleep with his
head towards the west, lest he should sleep stretching (his legs) towards the gods. The southern quarter belongs to the Fathers; and the western one to the snakes; and that faultless one is the one where the gods ascended (to heaven); and the northern quarter belongs to men. Hence in human (practice) a hall or shed is constructed with the top-beams running from south to north, because the north is the quarter of men. It is only for a consecrated, not for an unconsecrated person that it is (constructed) with the top-beams running from west to east.
०८
विश्वास-प्रस्तुतिः
तां वा᳘ ऽएतां प᳘रिश्रयन्ति॥
ने᳘दभिव᳘र्षादि᳘ति᳘ न्वेव᳘ व्वर्षा᳘ देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति तिरं᳘ ऽइव वै᳘ देवा᳘ मनु᳘ष्येभ्यस्तिर᳘ ऽइवैतद्यत्प᳘रिश्रितं त᳘स्मात्प᳘रिश्रयन्ति॥
मूलम् - श्रीधरादि
तां वा᳘ ऽएतां प᳘रिश्रयन्ति॥
ने᳘दभिव᳘र्षादि᳘ति᳘ न्वेव᳘ व्वर्षा᳘ देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति तिरं᳘ ऽइव वै᳘ देवा᳘ मनु᳘ष्येभ्यस्तिर᳘ ऽइवैतद्यत्प᳘रिश्रितं त᳘स्मात्प᳘रिश्रयन्ति॥
मूलम् - Weber
तां वा᳘ एताम् प᳘रिश्रयन्ति॥
ने᳘दभिव᳘र्षादि᳘तिॗ न्वेव᳘ वर्षा᳘ देवान्वा᳘ एष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति तिर᳘ इव वै᳘ देवा᳘ मनुॗष्येभ्यस्तिर᳘ इवैतद्यत्प᳘रिश्रितं त᳘स्मात्प᳘रिश्रयन्ति॥
मूलम् - विस्वरम्
तां वा एतां परिश्रयन्ति । ‘नेदभिवर्षाद्’ इति । न्वेव वर्षा । देवान्वा एष उपावर्तते- यो दीक्षते । स देवतानामेको भवति । तिर इव वै देवा मनुष्येभ्यः । तिर इवैतद् यत्परिश्रितम् । तस्मात्परिश्रयन्ति ॥ ८ ॥
सायणः
सर्वतः परिश्रयणं विधत्ते- तां वा एतामिति । वृष्ट्यादिपरिहाराय परिश्रयणं कर्तव्यम्, दीक्षितस्य भाविगत्या देवानां मध्य एकत्वान्मनुष्येभ्यः सकाशाद्देवानां तिरोधानापेक्षणात्परिश्रितत्वस्य च निगूढत्वेनान्तर्हितरूपत्वादीक्षितस्येतरेभ्यो व्यवधानाय च परिश्रयणं कर्तव्यमिति परिश्रयणस्तुतिः । (आप. श्रौ. सू. १० । ५ । १) ॥ ८ ॥
Eggeling
- They enclose it on every side, lest it should rain upon (the sacrificer, while being consecrated): this, at least, is (the reason for doing so in) the rainy season 12. He who is consecrated, truly draws nigh to the gods, and becomes one of the deities. Now the gods are secreted from men, and secret also is what is enclosed on every side: this is why they enclose it on every side.
०९
विश्वास-प्रस्तुतिः
तन्न स᳘र्व्व ऽइवाभिप्र᳘पद्येत॥ ब्राह्मणो᳘ वैव᳘ राज᳘न्यो वा वै᳘श्यो वा ते हि᳘ यज्ञि᳘याः॥
मूलम् - श्रीधरादि
तन्न स᳘र्व्व ऽइवाभिप्र᳘पद्येत॥ ब्राह्मणो᳘ वैव᳘ राज᳘न्यो वा वै᳘श्यो वा ते हि᳘ यज्ञि᳘याः॥
मूलम् - Weber
तन्न स᳘र्व इवाभिप्र᳘पद्येत ब्राह्मणो᳘ वैव᳘ राजॗन्यो वा वै᳘श्यो वा ते हि᳘ यज्ञि᳘याः॥
मूलम् - विस्वरम्
तन्न सर्व इवाभिप्रपद्येत । ब्राह्मणो वैव राजन्यो वा वैश्यो वा । ते हि यज्ञियाः ॥ ९ ॥
सायणः
तत्रात्रैवर्णिकानां शूद्रादीनामभिप्राप्तिं निषेधति- तन्न सर्व इवाभिप्रपद्येतेति ॥ ९ ॥
Eggeling
- Not every one may enter it, but only a Brahman, or a Rājanya, or a Vaiśya, for these are able to sacrifice.
१०
विश्वास-प्रस्तुतिः
स वै न स᳘र्व्वेणेव सं᳘वदेत॥
देवान्वा᳘ ऽएष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति न वै᳘ देवाः स᳘र्व्वेणेव सं᳘वदन्ते ब्राह्मणे᳘न वैव᳘ राज᳘न्येन वा व्वै᳘श्येन वा ते हि᳘ यज्ञि᳘यास्त᳘स्माद्य᳘द्येनᳫँ᳭ शूद्रे᳘ण संवादो᳘ व्विन्दे᳘देते᳘षामेवै᳘कं ब्रूयादिममि᳘ति व्वि᳘चक्ष्वेममि᳘ति व्वि᳘चक्ष्वे᳘त्येष᳘ ऽउ त᳘त्र दीक्षित᳘स्योपचारः॥
मूलम् - श्रीधरादि
स वै न स᳘र्व्वेणेव सं᳘वदेत॥
देवान्वा᳘ ऽएष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति न वै᳘ देवाः स᳘र्व्वेणेव सं᳘वदन्ते ब्राह्मणे᳘न वैव᳘ राज᳘न्येन वा व्वै᳘श्येन वा ते हि᳘ यज्ञि᳘यास्त᳘स्माद्य᳘द्येनᳫँ᳭ शूद्रे᳘ण संवादो᳘ व्विन्दे᳘देते᳘षामेवै᳘कं ब्रूयादिममि᳘ति व्वि᳘चक्ष्वेममि᳘ति व्वि᳘चक्ष्वे᳘त्येष᳘ ऽउ त᳘त्र दीक्षित᳘स्योपचारः॥
मूलम् - Weber
स वै न स᳘र्वेणेव सं᳘वदेत॥
देवान्वा᳘ एष᳘ उपा᳘वर्तते यो दी᳘क्षते स᳘ देव᳘तानामे᳘को भवति न वै᳘ देवा᳘ स᳘र्वेणेव सं᳘वदन्ते ब्राह्मणे᳘न वैव᳘ राजॗन्येन वा वै᳘श्येन वा ते हि᳘ यज्ञि᳘यास्त᳘स्माद्य᳘द्येनं शूद्रे᳘ण संवादो᳘ विन्दे᳘देते᳘षामेवै᳘कम् ब्रूयादिममि᳘ति विचक्ष्वेममि᳘ति वि᳘चक्ष्वे᳘त्येष᳘ उ त᳘त्र दीक्षितस्योपचारः॥
मूलम् - विस्वरम्
स वै न सर्वेणेव संवदेत । देवान् वा एष उपावर्तते- यो दीक्षते । स देवतानामेको भवति । न वै देवाः सर्वेणेव संवदन्ते । ब्राह्मणेन वैव राजन्येन वा वैश्येन वा । ते हि यज्ञियाः । तस्माद्यद्येनं शूद्रेण संवादो विन्देद्- एतेषामेवैकं ब्रूयाद्- ‘इममिति विचक्ष्व- इममिति विचक्ष्व’- इति । एष उ तत्र दीक्षितस्योपचारः ॥ १० ॥
सायणः
दीक्षितस्य सर्वैः सह वाग्व्यवहारं निधषेति- स वै नेति । सर्वशब्दस्य सङ्कोचमाह- ब्राह्मणेन वैवेति । ‘तस्माद्’ ब्राह्मणादिवर्णत्रयस्य यज्ञार्हत्वाद् । ‘यदि’ ‘शूद्रेण’ सह ‘संवादो’ ‘विन्देत्’ लब्धश्चेत् ‘एतेषां’ त्रैवर्णिकानां मध्ये ‘एकम्,’ ‘इमम्’ शूद्रम् ‘इति’ एवं मयेदानीमुक्तप्रकारेण ‘विचक्ष्व’ ब्रूहीति ‘स्वयं’ ‘ब्रूयात्’ वीप्सया सर्वो ऽपि वचनप्रकारः परिगृह्यते । ‘एषः’ ‘उपचारः’ व्यवहारः (का. श्रौ. सू. ७ । ९८) ॥ १० ॥
Eggeling
- Let him not commune with every one; for he who is consecrated draws nigh to the gods, and becomes one of the deities. Now the gods do not commune with every one, but only with a Brahman, or a. Rājanya, or a Vaiśya; for these are able to sacrifice. Should there be occasion for him to converse with a Śūdra, let him say to one of those, ‘Tell this one so and so! tell this one so and so!’
This is the rule of conduct for the consecrated in such a case.
११
विश्वास-प्रस्तुतिः
(रो᳘ ऽथा) अ᳘थार᳘णी पाणौ᳘ कृत्वा॥
शा᳘लामध्य᳘वस्यति स᳘ पूर्व्वा᳘र्घ्यᳫं᳭ स्थूणाराज᳘मभिप᳘द्यैतद्य᳘जुरा᳘हेद᳘मगन्म देवय᳘जनं पृथिव्या य᳘त्र देवा᳘सो ऽअ᳘जुषन्त व्वि᳘श्व ऽइ᳘ति त᳘दस्य व्वि᳘श्वैश्च देवैर्जु᳘ष्टं भ᳘वति ये᳘ चेमे᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳭सो ऽनूचाना यद᳘हास्य ते᳘ ऽक्षिभ्यामी᳘क्षन्ते ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳭सस्तद᳘हास्य तैर्जु᳘ष्टं भवति॥
मूलम् - श्रीधरादि
(रो᳘ ऽथा) अ᳘थार᳘णी पाणौ᳘ कृत्वा॥
शा᳘लामध्य᳘वस्यति स᳘ पूर्व्वा᳘र्घ्यᳫं᳭ स्थूणाराज᳘मभिप᳘द्यैतद्य᳘जुरा᳘हेद᳘मगन्म देवय᳘जनं पृथिव्या य᳘त्र देवा᳘सो ऽअ᳘जुषन्त व्वि᳘श्व ऽइ᳘ति त᳘दस्य व्वि᳘श्वैश्च देवैर्जु᳘ष्टं भ᳘वति ये᳘ चेमे᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳭सो ऽनूचाना यद᳘हास्य ते᳘ ऽक्षिभ्यामी᳘क्षन्ते ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳭सस्तद᳘हास्य तैर्जु᳘ष्टं भवति॥
मूलम् - Weber
अ᳘थार᳘णी पाणौ᳘ कृत्वा॥
शा᳘लामध्यवस्यति स᳘ पूर्वार्ध्य᳘ᳫं᳘ स्थूणाराज᳘मभिप᳘द्यैतद्य᳘जुरा᳘हैद᳘मगन्म देवय᳘जनम् पृथिव्या य᳘त्र देवा᳘सो अ᳘जुषन्त वि᳘श्व इ᳘ति त᳘दस्य वि᳘श्वैश्च देवैर्जु᳘ष्टम् भ᳘वति ये᳘ चेमे᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचाना यद᳘हास्य ते᳘ ऽक्षिभ्यामी᳘क्षन्ते ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सस्तद᳘हास्य तैर्जु᳘ष्टम् भवति॥
मूलम् - विस्वरम्
अथारणी पाणौ कृत्वा, शालामध्यवस्यति । स पूर्वार्घ्यं स्थूणाराजमभिपद्य, एतद्यजुराह- **“पदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्वे” **- (वा. सं. ४ । १) इति । तदस्य विश्वैश्च देवैर्जुष्टं भवति, ये चेमे ब्राह्मणाः शुश्रुवांसोनूचाना:- पदहास्य ते ऽक्षिभ्यामीक्षन्ते । ब्राह्मणाः शुश्रुवांसः- तदहास्य तैर्जुष्टं भवति ॥ ११ ॥
सायणः
समन्त्रकं शालाप्रवेशं विधत्ते- अथारणी पाणौ कृत्वेति । ‘अध्यवस्यति’ शालां प्रविश्य मन्त्रेणैतद् देवयजनमिति निश्चिनुयादित्यर्थः । अध्यवसानप्रकारमाह- स पूर्वार्घ्यमिति । ‘स्थूणाराजः’ मध्ये 13 स्थितः उन्नतस्तम्भः, तस्य ‘पूर्वार्घ्यम्’ ‘अभिपद्य’ गृहीत्वा “एदमगन्म”- इति ‘यजुः’ ब्रूयात् (आप. श्रौ. सू. १०. ३. ४)। अत्र कात्यायनः- “समारोह्याग्नी शालास्तम्भं पूर्वार्द्ध्यं 14 गृहीत्वा ऽरणिपाणिराहेदमगन्मेति”- (का. श्रौ. सू. ७ । ३०) इति । मन्त्रस्य द्वितीयं पादं देवशब्दतात्पर्याभिधानेन व्याचष्टे- तदस्य विश्वैरिति । श्रुताध्ययनवद्भिर्ब्राह्मणैः । ‘अक्षिभ्यां’ ‘यत्’ ‘ईक्षन्ते’ ‘तत्’ ‘तैः’ ‘विश्वैर्देवैः’ ‘जुष्टम्’ इत्यर्थः ॥ ११ ॥
Eggeling
- In the first place, having taken the two churning-sticks in his hand, he approves of the hall. Taking hold of the chief post of the front (east) side, he pronounces this sacrificial formula (Vāj. S. IV, 1), ‘We have come to this place of worship on earth, wherein all the gods delighted.’ Thereby that (place of worship) of his becomes acceptable to all the gods, as well as to the learned Brāhmans versed in sacred lore; and that (place of worship) of his, which those Brāhmans versed in sacred lore see with their eyes, becomes acceptable to them.
१२
विश्वास-प्रस्तुतिः
यद्वा᳘ह॥
य᳘त्र देवा᳘सो ऽअ᳘जुषन्त व्वि᳘श्व ऽइ᳘ति त᳘दस्य व्वि᳘श्वैर्दे᳘वैर्जुष्टं[[!!]] भवत्यृक्सामा᳘भ्याᳫँ᳭ संत᳘रन्तो य᳘जुर्भिरि᳘त्यृक्सामा᳘भ्यां वै य᳘जुर्भिर्यज्ञ᳘स्योदृ᳘चं ग᳘च्छन्ति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह रायस्पो᳘षेण स᳘मिषा᳘ मदेमे᳘ति भूमा वै᳘ रायस्पो᳘षः श्रीर्वै᳘ भू᳘मा ऽऽशि᳘षमे᳘वैतदा᳘शास्ते स᳘मिषा᳘ मदेमेती᳘षं मदती᳘ति वै त᳘माहुर्यः श्रि᳘यमश्नुते[[!!]] यः᳘ परम᳘तां ग᳘च्छति त᳘स्मादाह स᳘मिषा᳘ मदेमे᳘ति॥
मूलम् - श्रीधरादि
यद्वा᳘ह॥
य᳘त्र देवा᳘सो ऽअ᳘जुषन्त व्वि᳘श्व ऽइ᳘ति त᳘दस्य व्वि᳘श्वैर्दे᳘वैर्जुष्टं[[!!]] भवत्यृक्सामा᳘भ्याᳫँ᳭ संत᳘रन्तो य᳘जुर्भिरि᳘त्यृक्सामा᳘भ्यां वै य᳘जुर्भिर्यज्ञ᳘स्योदृ᳘चं ग᳘च्छन्ति यज्ञ᳘स्योदृ᳘चं गच्छानी᳘त्ये᳘वैत᳘दाह रायस्पो᳘षेण स᳘मिषा᳘ मदेमे᳘ति भूमा वै᳘ रायस्पो᳘षः श्रीर्वै᳘ भू᳘मा ऽऽशि᳘षमे᳘वैतदा᳘शास्ते स᳘मिषा᳘ मदेमेती᳘षं मदती᳘ति वै त᳘माहुर्यः श्रि᳘यमश्नुते[[!!]] यः᳘ परम᳘तां ग᳘च्छति त᳘स्मादाह स᳘मिषा᳘ मदेमे᳘ति॥
मूलम् - Weber
यद्वा᳘ह॥
य᳘त्र देवा᳘सो अ᳘जुषन्त वि᳘श्व इ᳘ति त᳘दस्य वि᳘श्वैर्देवैर्जु᳘ष्टम् भवत्यृक्सामा᳘भ्याᳫं संत᳘रन्तो य᳘जुर्भिरि᳘त्यृक्सामा᳘भ्यां वै य᳘जुर्भिर्यज्ञ᳘स्योदृ᳘चं ग᳘छन्ति यज्ञ᳘स्योदृ᳘चं गछानी᳘त्येॗवैत᳘दाह रायस्पो᳘षेण स᳘मिषा᳘ मदेमे᳘ति भूमा वै᳘ रायस्पोषः श्रीर्वै᳘ भू᳘माशि᳘षमेॗवैतदा᳘शास्ते स᳘मिषा᳘ मदेमेती᳘षम् मदती᳘ति वै त᳘माहुर्यः श्रि᳘यमश्नु᳘ते यः᳘ परम᳘तां ग᳘छति त᳘स्मादाह स᳘मिषा᳘ मदेमे᳘ति॥
मूलम् - विस्वरम्
यद्वाह- यत्र देवासो अजुषन्त विश्वे- इति तदस्य विश्वैर्देवैर्जुष्टं भवति । “ऋक्सामाभ्यां सन्तरन्तो यजुर्भिः”- (वा० सं० ४ । १) इति । ऋक्सामाभ्यां वै यजुर्भिर्यज्ञस्योदृचं गच्छन्ति । ‘यज्ञस्योदृचं गच्छानि’ इत्येवैतदाह । “रायस्पोषेण समिषा मदेम"- (वा० सं० ४ । १) इति । भूमा वै रायस्पोषः । श्रीर्वै भूमा । आशिषमेवैतदाशास्ते । समिषा मदेम- इति । इषं मदतीति वै तमाहुः- यः श्रियमश्नुते, यः परमतां गच्छति । तस्मादाह- समिषा मदेमेति ॥ १२ ॥
सायणः
यद्वाहेति । तृतीयं पादं व्याचष्टे- ऋक्सामाभ्यामिति । ‘यजुर्भिः’ क्रियमाणं यज्ञस्वरूपम् ‘ऋक्सामाभ्यां’ स्तोत्रशस्त्राभ्यां ‘सन्तरन्तः’ पारं प्रापयन्तः इति मन्त्रभागस्यार्थः । यजुषा ऋक्सामाभ्यां च ये तरन्ति ते यज्ञस्योदृचमेव परिसमाप्तिं गच्छन्ति । अत एतेन यज्ञस्य ‘उद्यचं’ परिसमाप्तिं प्राप्नोमीत्युक्तवान् भवति । चतुर्थपादस्य प्रथमभागं व्याचष्टे- रायस्पोषेणेति । ‘भूमा’ बहुभाव एव ‘रायस्पोषो’ धनपुष्टिः, स च ‘भूमा’ साक्षात् ‘श्रीः’ एव तस्माद् ‘एतद्’ भागपाठे ‘आशिषम्’ एव आशास्ते । तद्द्वितीयभागस्य तात्पर्यमाह- समिषेति । लोके यः श्रियं परमतां च गच्छति, तम् ‘इषम्’ अन्नं ‘मदति’ मोदत इत्याहुः; अतो मन्त्रे समिषेति भागमाहेत्यर्थः ॥ १२ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये तृतीयकाण्डे प्रथमाध्याये प्रथमं ब्राह्मणम् ॥ ३-१-१ ॥
Eggeling
- And when he says, ‘Wherein all the gods delighted,’ thereby it becomes acceptable for him to all the gods. Crossing over by means of the r̥c and sāman, and by the yajus;’ by means of the r̥c and sāman, and the yajus, indeed, they reach the end of the sacrifice: ‘May I reach the end of the sacrifice!’ he thereby says. ‘May we rejoice in increase of substance and in sap!’ Increase of substance doubtless means abundance, and abundance means prosperity: he. thereby invokes a blessing. ‘May we rejoice in sap,’ he says, because people say of one who enjoys prosperity and attains to the highest distinction, that ‘he rejoices in sap;’ therefore he says, ‘May we rejoice in sap!’
-
नातिशयीत Sây. ↩︎
-
1:1 Abhi-śī, ’to lie or rise above,’ with Sāy. Dr. Lindner takes bhūmeḥ as abl., and translates ‘whereon nothing but earth lies.’ The Kāṇva rec. has bhūmeḥ (gen.) likewise in the preceding clause ’tad yad eva varshishṭḥam bhūmes tad eva devayajanaṁ syād yatrānyad bhūmer nābhiśayīteto vai devā, &c.’ The gods evidently ascended to heaven from the highest spot of the earth, and so is the sacrificer to choose the highest available place. See Kāty. VII, 1, 11 scholl.; Lāṭy. S. I, 1, 17, ’na cāsya sthalataram (higher place) adūre syāt.’ ↩︎
-
दक्षिणत उन्नतमुदीचीनावनतं प्राक्प्रवणं प्रागुदक्प्रवणं वा देवयजनम् इति । ↩︎
-
2:1 Or ‘subsequent;’ a play on the word ‘uttara,’ which has the meanings ‘upper (superior), later, and left (north).’ Dr. Lindner takes it in the sense of ‘from the north.’ Possibly uttara also refers to the Soma-altars (uttara vedi and uttara-vedi) to be prepared later on (see III, 5, 1, 1 seq.) on the eastern part of the sacrificial ground. ↩︎
-
याजयेदि᳘ति. ↩︎
-
अब्रवीन्मे वर्क्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति । शतपथश्रुतिः । (का. १४ । ४ । १ । ८) वर्क्कुर्नामतः । वृष्णस्यापत्यं वार्ष्णः । इति नित्यानंदमुनिविरचिता मिताक्षरा । तदुह स्माहापि वर्क्कुर्वार्ष्णो माषान्मे पचतेति । शातपथी श्रुतिरेव । १ । १ । १ । १० । वृषा नाम कश्चित् । तस्य पुत्रो वार्ष्णः । तस्य नाम वर्क्कुरिति सायनाचार्याः ॥ ↩︎ ↩︎ ↩︎
-
2:2 The Kāṇva text reads,–Accordingly Yājñavalkya spake, ‘Vārshṇa intended to sacrifice (ayakshyata). Thus we went (ayama!) to look for a place of worship.’ He who is known as Sātyayajñi said, Verily, this whole earth is divine: a place of worship there is wheresoever one sacrifices on it, after enclosing it with a yajus.’ And thus indeed he thought, but the officiating priests doubtless constitute the (real) place (medium) of worship: where wise (priests) perform the sacrifice in due form, there alone no failure takes place. That (other definition) is not the characteristic of the place of worship. (Without final iti.) ↩︎
-
न्नेदिष्ठतमा᳘मिव ↩︎
-
3:1 That is to say, one who employs such skilled Brāhmans for his officiating priests (r̥tvij) may use sacrificial ground of any description. Kāty. VII, 1, 18. ↩︎
-
तछा᳘लां वा. ↩︎
-
3:2 Prācīna-vaṁśa (prāg-vaṁśa, K.). The ‘vaṁśas’ are the horizontal beams supported by the four corner-posts. In the first place two cross-beams are fastened on the corner-posts, to serve as the lintels of the eastern and western doors. Across them tie-beams are then laid, running from west to east, on which mats are spread by way of a roof or ceiling. The tern ‘prācīna-vaṁśa’ refers to these upper beams (upari-vaṁśa), and especially to the central beam (pr̥shṭḥa-vaṁśa or madhyavala) the ends of which rest on the middle of the lintels of the eastern and western doors; cf. Sāyaṇa on Taitt. S. I, 2, 1 (vol. i, pp. 279, 286); Kāty. VII, I, 20 scholl. Inside the Prācīna-vaṁśa there is the Āhavanīya fire immediately facing the east door; the Gārhapatya fire facing the west door; between the two the altar; and south of the latter the Dakshiṇāgni. The shed (vimita) is to be erected on the back (west) part of the sacrificial ground, after the roots have been dug up. It is described as a square structure of ten (or twelve) cubits, somewhat higher in front than at the back; with doors on each side (except, optionally, on the north). The śālā, or hall, is to measure twenty cubits by ten. Kāty. VII, 1, 19-24 comm. ↩︎
-
4:1 (?) Iti nv eva varshāḥ. The same particles occur III, 2, 1, 11. The Kāṇva text has,–’lest it should freeze in winter, lest it should pour in the rainy season, and lest there should be burning heat in summer.’ ↩︎
-
‘मध्योदितः’- इ० पा० । ↩︎
-
अत्र हरिस्वामिनः- पूर्वो भागः शालायाः पूर्वार्द्धः । पूर्वार्द्धे भवः पूर्वार्ध्यः । महती स्थूणास्थूणाराजः । तमभिपद्य प्राप्य हस्तेनालभ्य एतद्यजुराहेति इति ॥ काण्वानां श्रुतिरपि- अयाध्यवस्यति- सा या ऽसौ वर्षिष्ठा पूर्वार्द्धे शालास्थूणा भवति तामभिपद्य जपत्येदमगन्म देवयजनं पृथिव्या इति ॥ आपस्तंबो ऽपि । प्राग्वंशस्य मध्यमं स्थूणाराजमालभ्य जपतीति वाजसनेयकमिति ॥ अतः स्तम्भस्य पूर्वार्द्धमभिपद्येति व्याकृतमयुक्तमिति अवसेयम् ॥ ↩︎