०१
विश्वास-प्रस्तुतिः
तद्य᳘दाहुः॥
साकमेधैर्व्वै᳘ देवा᳘ वृत्रमघ्नंस्तै᳘र्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तामि᳘ति स᳘र्व्वैर्ह᳘ त्वे᳘व᳘ देवा᳘श्चातुर्मास्यै᳘र्व्वृत्र᳘मघ्नन्त्स᳘र्व्वैर्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्ताम्॥
मूलम् - श्रीधरादि
तद्य᳘दाहुः॥
साकमेधैर्व्वै᳘ देवा᳘ वृत्रमघ्नंस्तै᳘र्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तामि᳘ति स᳘र्व्वैर्ह᳘ त्वे᳘व᳘ देवा᳘श्चातुर्मास्यै᳘र्व्वृत्र᳘मघ्नन्त्स᳘र्व्वैर्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्ताम्॥
मूलम् - Weber
तद्य᳘दाहुः᳟॥
साकमेधैर्वै᳘ देवा᳘ वृत्रमघ्नंस्तै᳘र्वेव 1 व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तामि᳘ति स᳘र्वैर्ह त्वे᳘व᳘ देवा᳘श्चातुर्मास्यै᳘र्वृत्र᳘मघ्नन्त्स᳘र्वैर्वेव व्य᳘यन्तॗ येय᳘मेषां वि᳘जितिस्ताम्॥
मूलम् - विस्वरम्
अथ सर्वशेषः । तद्यदाहुः । साकमेधैर्वै देवा वृत्रमघ्नन्, तैर्वेव व्यजयन्त येयमेषां विजितिः- ताम्- इति । सर्वैर्ह त्वेव देवाश्चातुर्मास्यैर्वृत्रमघ्नन् । सर्वैर्वेव व्यजयन्त- येयमेषां विजितिः- ताम् ॥ १ ॥
सायणः
वैश्वदेवादिषु सर्वेषु परिवर्त्तनं सेतिकर्त्तव्यताकं विधित्सुस्तेषां सर्वेषां वृत्रवधहेतुत्वं विजयहेतुत्वं च समानमिति प्रतिपादयति- तद्यदाहुरिति । ‘तत्’ तत्र उक्तविषये साकमेधानामेव वृत्रवधहेतुत्वं जयहेतुत्वञ्चेति ‘यद्’ ‘आहुः’ कथयन्ति, तन्न; तथा ‘सर्वैरेव’ हि ‘चातुर्मास्यैः’ चतुर्षु-चतुर्षु मासेषु प्रयुज्यमानैर्वैश्वदेवादिभिर्वृत्रहननं विजयञ्च प्राप्तवन्तो ‘देवाः’ इत्यर्थः ॥ १ ॥
Eggeling
- Now when it is said, that the gods, by means of the Sākamedha -offerings, slew Vr̥tra and gained that supreme authority which they now wield,–it is rather by means of all the Seasonal sacrifices that the gods slew Vr̥tra; it is by all of them that they gained that supreme authority which they now wield.
०२
विश्वास-प्रस्तुतिः
(न्ते᳘) ते᳘ होचुः॥
के᳘न रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स हाग्नि᳘रुवाच म᳘या रा᳘ज्ञा मया᳘ ऽनीकेने᳘ति᳘ ते ऽग्नि᳘ना रा᳘ज्ञा ऽग्निना᳘ ऽनीकेन चतु᳘रो मासः प्रा᳘जयँस्तान्ब्र᳘ह्मणा च त्रय्या᳘ च व्विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - श्रीधरादि
(न्ते᳘) ते᳘ होचुः॥
के᳘न रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स हाग्नि᳘रुवाच म᳘या रा᳘ज्ञा मया᳘ ऽनीकेने᳘ति᳘ ते ऽग्नि᳘ना रा᳘ज्ञा ऽग्निना᳘ ऽनीकेन चतु᳘रो मासः प्रा᳘जयँस्तान्ब्र᳘ह्मणा च त्रय्या᳘ च व्विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - Weber
ते᳘ होचुः॥
के᳘न रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स हाग्नि᳘रुवाच म᳘या रा᳘ज्ञा मया᳘नीकेने᳘तिॗ ते ऽग्नि᳘ना रा᳘ज्ञाग्निना᳘नीकेन चतु᳘रो मासः प्रा᳘जयंस्तान्ब्र᳘ह्मणा च त्रय्या᳘ च विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - विस्वरम्
ते होचुः- ‘केन राज्ञा केनानीकेन योत्स्यामः’ इति । स हाग्निरुवाच- ‘मया राज्ञा, मया ऽनीकेन’ इति । ते ऽग्निना राज्ञा, अग्निना ऽनीकेन चतुरो मासः प्राजयन् । तान् ब्रह्मणा च त्रय्या च विद्यया पर्यगृह्णन् ॥ २ ॥
सायणः
तत्र वैश्वदेवेन जितमर्थमाख्यायिकया दर्शयति- ते होचुरिति ! ‘ते’ देवाः खलु प्रजापतिं पितरमभिलक्ष्य परस्परं वाचम् ‘ऊचुः’ । केनानीकेनेति । अनीकं सेनामुखम्, अत्र सेनान्यां वर्तते । तेन सेनान्येत्यर्थः चतुरो मास इति । “पद्दन्न०” (पा. सू. ६ । १ । ६३) इत्यादिना मासशब्दस्य मास्-इत्ययमादेशः । तान् ब्रह्मणा चेति । ‘तान्’ विजितान् मासान् ‘ब्रह्मणा’ “अग्निर्हि ब्रह्म-” इत्यग्रे विवरिष्यते । अतो ब्रह्मणा अग्निना, ‘त्रय्या’ वेदत्रयरूपया ‘विद्यया च’ देवाः ‘पर्यगृह्णन्’ परितो ऽधारयन् ॥ २ ॥
Eggeling
- They spake, ‘With what king, with what leader 2 shall we fight?’ Agni spake, ‘With me for your king, with me for your leader!’ With Agni for their king, with Agni for their leader, they gained four months; and with the Brahman (sacerdotium) and the threefold science they encompassed them.
०३
विश्वास-प्रस्तुतिः
(ह्णंस्ते᳘) ते᳘ होचुः॥
के᳘नैव रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स᳘ ह व्व᳘रुण उवाच म᳘या रा᳘ज्ञा मया᳘ ऽनीकेने᳘ति ते व्व᳘रुणेनैव रा᳘ज्ञा व्व᳘रुणेना᳘नीकेना᳘परांश्चतु᳘रो मासः प्रा᳘जयंस्तान्ब्र᳘ह्मणा चैव᳘ त्रय्या᳘ च व्विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - श्रीधरादि
(ह्णंस्ते᳘) ते᳘ होचुः॥
के᳘नैव रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स᳘ ह व्व᳘रुण उवाच म᳘या रा᳘ज्ञा मया᳘ ऽनीकेने᳘ति ते व्व᳘रुणेनैव रा᳘ज्ञा व्व᳘रुणेना᳘नीकेना᳘परांश्चतु᳘रो मासः प्रा᳘जयंस्तान्ब्र᳘ह्मणा चैव᳘ त्रय्या᳘ च व्विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - Weber
ते᳘ होचुः॥
के᳘नैव रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स᳘ ह व᳘रुण उवाच म᳘या रा᳘ज्ञा मया᳘नीकेने᳘ति ते व᳘रुणेनैव रा᳘ज्ञा व᳘रुणेना᳘नीकेना᳘परांश्चतु᳘रो मासः प्रा᳘जयंस्तान्ब्र᳘ह्मणा चैव᳘ त्रय्या᳘ च विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - विस्वरम्
ते होचुः- ‘केनैव राज्ञा केनानीकेन योत्स्यामः’ इति । स ह वरुण उवाच- ‘मया राज्ञा, मया ऽनीकेन’ इति । ते वरुणेनैव राज्ञा वरुणेनानीकेनापरांश्चतुरो मासः प्राजयन् । तान् ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन् ॥ ३ ॥
सायणः
एवं वैश्वदेवस्याभिप्रमुखत्वमुक्त्वा वरुणप्रघासेषु वरुणस्य प्रामुख्यमेतैर्विजितत्वञ्चाह- ते होचुरिति । अपरांश्चतुर इति । आषाढादीनित्यर्थः । अन्यत् 3 पूर्ववत् । अथ साकमेधेष्विन्द्रस्य प्राधान्यं तैर्विजितत्वं चाह- ते होचुरिति । अपरांश्चतुर इति । ‘अपरान्’ कार्त्तिकादीनित्यर्थः । अन्यत्पूर्ववत् ॥ ३ ॥ ४ ॥
Eggeling
- They spake, ‘With what king, with what leader shall we fight?’ Varuṇa spake, ‘With me for your king, with me for your leader!’ With Varuṇa for their king, with Varuṇa for their leader, they gained other four months; and with the Brahman and the threefold science they encompassed them.
०४
विश्वास-प्रस्तुतिः
(ह्णंस्ते᳘) ते᳘ होचुः॥
के᳘नैव रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स हे᳘न्द्र उवाच म᳘या रा᳘ज्ञा मया᳘ ऽनीकेने᳘ति त ऽइ᳘न्द्रेणैव राज्ञे᳘न्द्रेणा᳘नीकेना᳘परांश्चतु᳘रो मासः प्रा᳘जयंस्तान्ब्र᳘ह्मणा चैव᳘ त्रय्या᳘ च व्विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - श्रीधरादि
(ह्णंस्ते᳘) ते᳘ होचुः॥
के᳘नैव रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स हे᳘न्द्र उवाच म᳘या रा᳘ज्ञा मया᳘ ऽनीकेने᳘ति त ऽइ᳘न्द्रेणैव राज्ञे᳘न्द्रेणा᳘नीकेना᳘परांश्चतु᳘रो मासः प्रा᳘जयंस्तान्ब्र᳘ह्मणा चैव᳘ त्रय्या᳘ च व्विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - Weber
ते᳘ होचुः॥
के᳘नैव रा᳘ज्ञा केना᳘नीकेन योत्स्याम इ᳘ति स हे᳘न्द्र उवाच म᳘या रा᳘ज्ञा मया᳘नीकेने᳘ति त इ᳘न्द्रेणैव राज्ञे᳘न्द्रेणा᳘नीकेना᳘परांश्चतु᳘रो मासः प्रा᳘जयंस्तान्ब्र᳘ह्मणा चैव᳘ त्रय्या᳘ च विद्य᳘या प᳘र्यगृह्णन्॥
मूलम् - विस्वरम्
ते होचुः- ‘केनैव राज्ञा केनानीकेन योत्स्याम’ इति । स हेन्द्र उवाच- ‘मया राज्ञा मया ऽनीकेन’ इति । त इन्द्रेणैव राज्ञा, इन्द्रेणानीकेनापरांश्चतुरो मासः प्राजयन् । तान् ब्रह्मणा चैव त्रय्या च विद्यया पर्यगृह्णन् ॥ ४ ॥
सायणः
[व्याख्यानं तृतीये]
Eggeling
- They spake, ‘With what king, with what leader shall we fight?’ Indra spake, ‘With me for your king, with me for your leader!’ With Indra for their king, with Indra for their leader, they gained other four months; and with the Brahman and the threefold science they encompassed them.
०५
विश्वास-प्रस्तुतिः
(न्स) स य᳘द्वैश्वदेवे᳘न य᳘जते॥
(ते ऽग्नि᳘) अग्नि᳘नै᳘वैतद्रा᳘ज्ञा ऽग्निना᳘ ऽनीकेन चतु᳘रो मासः प्र᳘जयति त᳘त्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरः सा या᳘ त्र्येनी शलली सा᳘ त्रय्यै᳘ व्विद्या᳘यै रू᳘पं लोहः᳘ क्षुरो ब्र᳘ह्मणो रूप᳘मग्निर्हि ब्र᳘ह्म लो᳘हित इव᳘ ह्य᳘ग्निस्त᳘स्माल्लोहः᳘ क्षुरो᳘ भवति ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चै᳘वैनमेत᳘त्त्रय्या᳘ च व्विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - श्रीधरादि
(न्स) स य᳘द्वैश्वदेवे᳘न य᳘जते॥
(ते ऽग्नि᳘) अग्नि᳘नै᳘वैतद्रा᳘ज्ञा ऽग्निना᳘ ऽनीकेन चतु᳘रो मासः प्र᳘जयति त᳘त्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरः सा या᳘ त्र्येनी शलली सा᳘ त्रय्यै᳘ व्विद्या᳘यै रू᳘पं लोहः᳘ क्षुरो ब्र᳘ह्मणो रूप᳘मग्निर्हि ब्र᳘ह्म लो᳘हित इव᳘ ह्य᳘ग्निस्त᳘स्माल्लोहः᳘ क्षुरो᳘ भवति ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चै᳘वैनमेत᳘त्त्रय्या᳘ च व्विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - Weber
स य᳘द्वैश्वदेवे᳘न य᳘जते॥
अग्नि᳘नैॗवैतद्रा᳘ज्ञाग्निना᳘नीकेन चतु᳘रो मासः प्र᳘जयति तत्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरः सा याॗ त्र्येनी शलली सा᳘ त्रय्यै᳘ विद्या᳘यै रू᳘पं लोहः᳘ क्षुरो ब्र᳘ह्मणो रूप᳘मग्निर्हि ब्र᳘ह्म लो᳘हित इव ह्य᳘ग्निस्त᳘स्माल्लोहः᳘ क्षुरो᳘ भवति ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चैॗवैनमेत᳘त्त्रय्या᳘ च विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - विस्वरम्
स यद्वैश्वदेवेन यजते- अग्निनैवैतद्राज्ञा ऽग्निना ऽनीकेन चतुरो मासः प्रजयति । तत् त्र्येनी शलली भवति । लोहः क्षुरः । सा या त्र्येनी शलली- सा त्रय्यै विद्यायै रूपम् । लोहः क्षुरो ब्रह्मणो रूपम् । अग्नि र्हि ब्रह्म । लोहित इव ह्यग्निः । तस्माल्लोहः क्षुरो भवति । तेन परिवर्तयते । तद् ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति ॥ ५ ॥
सायणः
इत्थं प्रतिकृत्युपन्यासेन वैश्वदेवादिषु त्रिषु पर्वसु प्रतिपादितमर्थं यजमाने ऽपि क्रमेण योजयति-स यद् वैश्वदेवेनेत्यादिना । “ब्रह्मणा च त्रय्या च विद्यया पर्यगृह्णन्”- इति यदुक्तम्, तस्य प्रतिकृतिमाह- त्र्येनीति । त्रिषु स्थानेषु ‘एतः’ श्वेतवर्णो यस्याः सा त्र्येनी । “वर्णादनुदात्तात्”- (पा. सू. ४ । १ । ३९) इति एतशब्दात् ङीप्, तकारस्य नकारादेशश्च । श्वाविन्नायकस्य मृगस्य लोम ‘शलली’ 4 । उक्तलक्षणा सा वक्ष्यमाणपरिवर्तनहेतुत्वेन स्वीकार्या । तत्र शलल्यास्त्रयीप्रतिरूपत्वमाह- सा येति । ‘सा’ पूर्वोक्ता ‘या’ ‘त्र्येनी शलली’, सा त्रित्वसङ्ख्याविशिष्टगुणोपेतत्वात् त्रय्या विद्यायाः स्वरूपम् । यो ऽयं ‘लोहः’ लोहितवर्णस्ताम्रमयः ‘क्षुरः’, स ‘ब्रह्मणो रूपम्’ । कथं ब्रह्मणो लोहितवर्णत्वमिति तदाह-अग्निर्हीति । स च ब्रह्मशब्दवाच्यो ऽग्निर्लोहितवर्णः ‘इव’ हि भवति; ‘तस्मात्’ लोहितवर्णः ‘क्षुरः’ ब्रह्मणः प्रतिरूपमित्यर्थः । तेनेत्यादि । ‘तेन’ क्षुरेण, तया शलल्या च ‘परिवर्तयते’ शलल्या केशान् विभज्य क्षुरेण परितो वापयेदित्यर्थः । ब्रह्मणा चैवेति । ‘एनं’ यजमानम् ‘एतत्’ एतेन शललीलोहक्षुरकृतेन परिवर्त्तनेन, अग्निरूपेण तेन ‘ब्रह्मणा’ क्षुरनिदानभूतेन, ‘त्रय्या’ वेदत्रयरूपया ‘विद्यया’ च सर्वतोमुखत्वसम्पादनद्वारा अनया ‘परिगृह्णाति’ परितः सर्वासु दिक्षु धारयतीत्यर्थः ॥ ५ ॥
Eggeling
- And, accordingly, when he performs the Vaiśvadeva, he thereby gains four months, with Agni for his king, with Agni for his leader. Then (in shaving) are used a porcupine’s quill spotted in three places, and a copper razor; that three-spotted porcupine’s quill resembles the threefold science, and the copper razor resembles the Brahman; for the Brahman is fire, and fire is of reddish (lohita) colour: hence a copper (loha) razor is used. Therewith he has (his head) shaved all round 5; and thus he (the Adhvaryu) encompasses him with the Brahman and the threefold science.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘द्वरुणप्रघासैर्य᳘जते॥
व्व᳘रुणेनै᳘वैतद्रा᳘ज्ञा व्व᳘रुणेना᳘नीकेना᳘परांश्चतु᳘रो मासः प्र᳘जयति त᳘त्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरस्ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चै᳘वैनमेत᳘त्त्रय्या᳘ च व्विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘द्वरुणप्रघासैर्य᳘जते॥
व्व᳘रुणेनै᳘वैतद्रा᳘ज्ञा व्व᳘रुणेना᳘नीकेना᳘परांश्चतु᳘रो मासः प्र᳘जयति त᳘त्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरस्ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चै᳘वैनमेत᳘त्त्रय्या᳘ च व्विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - Weber
अ᳘थ य᳘द्वरुणप्रघासैर्य᳘जते॥
व᳘रुणेनैवैतद्रा᳘ज्ञा व᳘रुणेना᳘नीकेना᳘परांश्चतु᳘रो मासः प्र᳘जयति तॗत्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरस्ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चैॗवैनमेत᳘त्त्रय्या᳘ च विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - विस्वरम्
अथ यद्वरुणप्रघासैर्यजते । वरुणेनैवैतद्राज्ञा वरुणेनानीकेनापरांश्चतुरो मासः प्रजयति । तत् त्र्येनी शलली भवति । लोहः क्षुरः । तेन परिवर्तयते । तद् ब्रह्मणा चैवैनमेतत् त्रय्या च विद्यया परिगृह्णाति ॥ ६ ॥
सायणः
वरुणप्रघासयागस्य वरुणप्रधानकत्वात्तेन जेतव्यं फलमनुक्रामति- अथ यद् वरुणप्रघासैरिति । त्र्येनी शललीत्यादि उक्तार्थम् 4 ॥ ६ ॥
Eggeling
- And when he performs the Varuṇapraghāsa offerings, he thereby gains other four months, with Varuṇa for his king, with Varuṇa for his leader. Then a three-spotted quill of a porcupine and a copper razor are used, wherewith he has himself shaved all round; and thus he (the priest) encompasses him with the Brahman and the threefold science.
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्साकमेधैर्य᳘जते॥
(त ऽ) इ᳘न्द्रेणै᳘वैतद्राज्ञे᳘न्द्रेणा᳘नीकेना᳘परांश्चतु᳘रो मासः प्र᳘जयति त᳘त्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरस्ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चै᳘वैनमेत᳘त्त्रय्या᳘ च व्विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्साकमेधैर्य᳘जते॥
(त ऽ) इ᳘न्द्रेणै᳘वैतद्राज्ञे᳘न्द्रेणा᳘नीकेना᳘परांश्चतु᳘रो मासः प्र᳘जयति त᳘त्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरस्ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चै᳘वैनमेत᳘त्त्रय्या᳘ च व्विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - Weber
अ᳘थ य᳘त्साकमेधैर्य᳘जते॥
इ᳘न्द्रेणैॗवैतद्राज्ञे᳘न्द्रेणा᳘नीकेना᳘परांश्चतु᳘रो मासः प्र᳘जयति तॗत्त्र्येनी शलली᳘ भवति लोहः᳘ क्षुरस्ते᳘न प᳘रिवर्तयते तद्ब्र᳘ह्मणा चैॗवैनमेत᳘त्त्रय्या᳘ च विद्य᳘या प᳘रिगृह्णाति॥
मूलम् - विस्वरम्
अथ यत्साकमेधैर्यजते । इन्द्रेणैवैतद्राज्ञेन्द्रेणानीकेनापरांश्चतुरो मासः प्रजयति । तत् त्र्येनी शलली भवति । लोहः क्षुरः । तेन परिवर्तयते । तद् ब्रह्मणा चैवैनमेतत्त्रय्या च विद्यया परिगृह्णाति ॥ ७ ॥
सायणः
साकमेधयागस्येन्द्रप्रधानकत्वात् तेन जेतव्यं फलमनुक्रामति- अथ यत् साकमेधैरिति 4 ॥ ७ ॥
Eggeling
- And when he performs the Sākamedha offerings, he thereby gains other four months, with Indra for his king, with Indra for his leader. Then a three-spotted quill of a porcupine and a copper razor are used, wherewith he has himself shaved; and thus he (the priest) encompasses him with the Brahman and the threefold science.
०८
विश्वास-प्रस्तुतिः
स य᳘द्वैश्वदेवे᳘न य᳘जते॥
(ते ऽग्नि᳘) अग्नि᳘रेव त᳘र्हि भवत्यग्ने᳘रेव सा᳘युज्यᳫँ᳭ सलोक᳘तां जयत्य᳘थ य᳘द्वरुणप्रघासेर्य᳘जते व्व᳘रुण एव त᳘र्हि भवति व्व᳘रुणस्यैव सा᳘युज्यᳫँ᳭सलोक᳘तां जयत्य᳘थ य᳘त्साकमेधैर्य᳘जत ऽइ᳘न्द्र एव त᳘र्हि भवती᳘न्द्रस्यैव सा᳘युज्यᳫँ᳭सलोक᳘तां जयति॥
मूलम् - श्रीधरादि
स य᳘द्वैश्वदेवे᳘न य᳘जते॥
(ते ऽग्नि᳘) अग्नि᳘रेव त᳘र्हि भवत्यग्ने᳘रेव सा᳘युज्यᳫँ᳭ सलोक᳘तां जयत्य᳘थ य᳘द्वरुणप्रघासेर्य᳘जते व्व᳘रुण एव त᳘र्हि भवति व्व᳘रुणस्यैव सा᳘युज्यᳫँ᳭सलोक᳘तां जयत्य᳘थ य᳘त्साकमेधैर्य᳘जत ऽइ᳘न्द्र एव त᳘र्हि भवती᳘न्द्रस्यैव सा᳘युज्यᳫँ᳭सलोक᳘तां जयति॥
मूलम् - Weber
स य᳘द्वैश्वदेवे᳘न य᳘जते॥
अग्नि᳘रेव त᳘र्हि भवत्यग्ने᳘रेव सा᳘युज्यᳫं सलोक᳘तां जयत्य᳘थ य᳘त्साकमेधैर्य᳘जत इ᳘न्द्र एव त᳘र्हि भवती᳘न्द्रस्यैव सा᳘युज्यᳫं सलोक᳘तां जयति॥
मूलम् - विस्वरम्
स यद्वैश्वदेवेन यजते- अग्निरेव तर्हि भवति । अग्निरेव सायुज्यं सलोकतां जयति । अथ यद् वरुणप्रघासैर्यजते- वरुण एव तर्हि भवति । वरुणस्यैव सायुज्यं सलोकतां जयति । अथ यत्साकमेधैर्यजते- इन्द्र एव तर्हि भवति । इन्द्रस्यैव सायुज्यं सलोकतां जयति ॥ ८ ॥
सायणः
इत्थं वैश्वदेवादिभिस्त्रिभिः पर्वभिर्द्वादशमासात्मकसंवत्सरस्वरूपावाप्तिं फलत्वेन प्रतिपाद्य 4, अग्न्यादिदेवतासायुज्यमपि तेषां फलत्वेन क्रमेणाचष्टे- स यदिति । अग्निरेव तर्हीति । ‘तर्हि’ तस्मिन् वैश्वदेवे यागे ऽनुष्ठिते ‘सः’ यजमानः ‘अग्निः’ अग्न्यात्मक ‘एव भवति’ । ‘अग्नेरेव सायुज्यम्’- इति, अस्यैव विवरणम् । प्रथममग्नेः सालोक्यं जयति, पश्चात् सायुज्यमिति योजनाक्रमः । “वरुण एव तर्हि”- इत्यादावप्येवं योज्यम् ॥ ८ ॥
Eggeling
- And when he performs the Vaiśvadeva, then he becomes Agni, and attains to union with Agni and to co-existence in his world. And when he performs the Varuṇapraghāsa offerings, then he becomes Varuṇa, and attains to union with Varuṇa
and to co-existence in his world. And when he performs the Sākamedha offerings, then he becomes Indra, and attains to union with Indra and to coexistence in his world 6.
०९
विश्वास-प्रस्तुतिः
स य᳘स्मिन्हर्ता᳘वमुं᳘ लोकमे᳘ति॥
स᳘ एनमृतुः प᳘रस्मा ऽऋत᳘वे प्र᳘यच्छति प᳘र उ प᳘रस्मा ऽऋत᳘वे प्र᳘यच्छति स᳘ परममेव[[!!]] स्था᳘नं परमां ग᳘तिं गच्छति चातुर्मास्ययाजी त᳘दाहुर्न᳘ चातुर्मास्ययाजि᳘नम᳘नुविन्दन्ति परम᳘ᳫं᳘[[!!]] ह्येव ख᳘लु स स्था᳘नं परमां ग᳘तिं ग᳘च्छती᳘ति॥
मूलम् - श्रीधरादि
स य᳘स्मिन्हर्ता᳘वमुं᳘ लोकमे᳘ति॥
स᳘ एनमृतुः प᳘रस्मा ऽऋत᳘वे प्र᳘यच्छति प᳘र उ प᳘रस्मा ऽऋत᳘वे प्र᳘यच्छति स᳘ परममेव[[!!]] स्था᳘नं परमां ग᳘तिं गच्छति चातुर्मास्ययाजी त᳘दाहुर्न᳘ चातुर्मास्ययाजि᳘नम᳘नुविन्दन्ति परम᳘ᳫं᳘[[!!]] ह्येव ख᳘लु स स्था᳘नं परमां ग᳘तिं ग᳘च्छती᳘ति॥
मूलम् - Weber
स य᳘स्मिन्हर्ता᳘वमुं᳘ लोकमे᳘ति॥
स᳘ एनमृतुः प᳘रस्मा ऋत᳘वे प्र᳘यछति प᳘र उ प᳘रस्मा ऋत᳘वे प्र᳘यछति स᳘ परम᳘मेव स्था᳘नम् परमां ग᳘तिं गछति चातुर्मास्ययाजी त᳘दाहुर्न चातुर्मास्ययाजि᳘नम᳘नुविन्दन्ति परॗमᳫं ह्येव ख᳘लु 7 स स्था᳘नम् परमांग᳘तिं ग᳘छती᳘ति॥
मूलम् - विस्वरम्
स यस्मिन् ह ऋतावसुं लोकमेति । स एनमृतुः परस्मा ऋतवे प्रयच्छति । पर उ परस्मा ऋतवे प्रयच्छति । स परममेव स्थानं, परमां गतिं गच्छति- चातुर्मास्ययाजी । तदाहुः- न चातुर्मास्यवाजिनमनुविन्दन्ति- परमं ह्येव खलु स स्थानं परमां गतिं गच्छतीति ॥ ९ ॥ इति चातुर्मास्ययागाधिकारः ।
सायणः
अथ म्रियमाणस्य चातुर्मास्ययाजिनो मार्गं ब्रुवन् ब्रह्मलोकप्राप्तिपर्यन्तं फलमाह- स यस्मिन्निति । ‘सः’ खलु चातुर्मास्ययाजी ‘यस्मिन् ऋतौ’ ‘अमुं’ विप्रकृष्टं परं ‘लोकम्’ ‘एति’ म्रियते, ‘सः’ ऋतुः ‘एनं’ यजमानं स्वस्मात् ‘परस्मै ऋतवे’ ‘प्रयच्छति’ इत्यनेन क्रमेण कृत्स्नं संवत्सरं तदात्मकस्य प्रजापतेः संबन्धि परममुत्कृष्टं स्थानमवाप्नोति । प्राप्य च परमामुत्कृष्टां पुनरावृत्तिरहितां गतिं गच्छति । उक्ते ऽर्थे विद्वत्प्रसिद्धिं संवादयति- तदाहुरिति । यस्माच्चातुर्मास्ययाजी परमां गतिं प्राप्तवान् ‘तत्’ तस्मात् अभिज्ञाः ‘आहुः’ कथयन्ति । किमिति, तदुच्यते- ‘चातुर्मास्ययाजिनम्’ चातुर्मास्येनेष्टवन्तं यजमानम् अन्विष्यन्तो जनाः ब्रह्मलोकादर्वाचीनेषु लोकेषु ‘न विन्दन्ति’ न लभन्ते । ‘परमं ह्येव’ इति तत्र कारणाभिधानम् ॥ ९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे षष्ठाध्यायस्य चतुर्थं ब्राह्मणम् ॥ २ ॥ ६ ॥ ४ ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ २ ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजाः, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥ ३ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण चिरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे षष्ठो ऽध्यायः समाप्तः ॥ २ ॥ ६ ॥
अत्रादितः पंचदशाध्यायसंमितः काण्डद्वयात्मको हविर्यज्ञ (ऐष्टिकप्रकरण) प्रतिपादकः शतपथब्राह्मणान्तर्गतः पंचदशपथसंज्ञको ब्राह्मणभागः समाप्तः ।
इत्येकपादिकानाम द्वितीयं काण्डं समाप्तम् ॥ २ ॥
Eggeling
- And in whatever season he goes to yonder world, that season passes him on to the next season, and that season again passes him on to the next season,–he who performs the Seasonal sacrifices reaches the highest place, the supreme goal. Wherefore it is said, ‘They find not him that offereth the Seasonal offerings, for verily he goeth unto the highest place, to the supreme goal 8.’
-
स्तै᳘र्व्येव᳘ and र्वैर्व्येव᳘ A. ↩︎
-
449:1 Anīka (? ‘van-guard’), cf. V, 3, 1, 1 ‘senāyāḥ senānīr anīkam:’ II, 5, 3, 2. ↩︎
-
‘सामान्यं पूर्वेण’- इ० पा० । ↩︎
-
‘शल्यकमृगस्याङ्गरुहा सूचिः शलली’- इति (८ । ४ । १) आप. श्रौ. सू. व्याख्यायां रुद्रदत्तः ॥ ↩︎ ↩︎ ↩︎ ↩︎
-
450:1 See p. 448, note 1. ↩︎
-
451:1 The Kāṇva text adds: And when he performs the Śunāsīrīya, then he becomes Vāyu, and attains to union with Vāyu and to co-existence in his world. ↩︎
-
खलु A. ↩︎
-
451:2 The Kāṇva text has: In whatever season the performer of Seasonal offerings goes to yonder world, that season passes him on to the next season, and that next one to the next one,–him the seasons, by transmission, make thus attain to the highest station, to the highest world. Wherefore is it said, ‘They find not him that offereth the Seasonal offerings, for he conquereth the highest world, the highest conquest (paramaṁ hy eva lokam paramāṁ jitim jayatīti).’ ↩︎