०१

विश्वास-प्रस्तुतिः

अक्षय्य᳘ᳫं᳘ ह वै᳘ सुकृतं᳘ चातुर्मास्ययाजि᳘नो भवति॥
संव्वत्सरᳫँ᳭ हि ज᳘यति ते᳘नास्याक्षय्यं᳘ भवति तं वै᳘ त्रेधा᳘ व्विभ᳘ज्य य᳘जति त्रेधा᳘ व्विभ᳘ज्य प्र᳘जयति स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वं वा᳘ ऽअक्षय्य᳘मेते᳘नो हास्याक्षय्य᳘ᳫँ᳘ सुकृतं᳘ भवत्यृतु᳘रु है᳘वैत᳘द्भूत्वा᳘ देवान᳘प्येत्यक्षय्य᳘मु वै᳘ देवा᳘नामेते᳘नो है᳘वास्याक्षय्य᳘ᳫँ᳘ सुकृतं᳘ भवत्येतन्नु तद्य᳘स्माच्चातुर्मास्यैर्य᳘जते॥

मूलम् - श्रीधरादि

अक्षय्य᳘ᳫं᳘ ह वै᳘ सुकृतं᳘ चातुर्मास्ययाजि᳘नो भवति॥
संव्वत्सरᳫँ᳭ हि ज᳘यति ते᳘नास्याक्षय्यं᳘ भवति तं वै᳘ त्रेधा᳘ व्विभ᳘ज्य य᳘जति त्रेधा᳘ व्विभ᳘ज्य प्र᳘जयति स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वं वा᳘ ऽअक्षय्य᳘मेते᳘नो हास्याक्षय्य᳘ᳫँ᳘ सुकृतं᳘ भवत्यृतु᳘रु है᳘वैत᳘द्भूत्वा᳘ देवान᳘प्येत्यक्षय्य᳘मु वै᳘ देवा᳘नामेते᳘नो है᳘वास्याक्षय्य᳘ᳫँ᳘ सुकृतं᳘ भवत्येतन्नु तद्य᳘स्माच्चातुर्मास्यैर्य᳘जते॥

मूलम् - Weber

अक्षय्य᳘ᳫं᳘ ह वै᳘ सुकृतं᳘ चातुर्मास्ययाजि᳘नो भवति॥
संवत्सरᳫं हि ज᳘यति ते᳘नास्याक्षय्य᳘म् भवति तं वै᳘ त्रेधा᳘ विभ᳘ज्य यजति त्रेधा᳘ विभ᳘ज्य प्र᳘जयति स᳘र्वं वै᳘ संवत्सरः स᳘र्वं वा᳘ अक्षय्य᳘मेते᳘नो हास्याक्षय्य᳘ᳫं᳘ सुकृत᳘म् भवत्यृतु᳘रु हैॗवैत᳘द्भूत्वा᳘ देवान᳘प्येत्यक्षय्य᳘मु वै᳘देवा᳘नामेते᳘नो हैॗवास्याक्षय्य᳘ᳫं᳘ सुकृत᳘म् भवत्येतन्नु तद्य᳘स्माच्चातुर्मास्यैर्य᳘जते॥

मूलम् - विस्वरम्

अथ शुनासीरीयपर्व ।

अक्षय्यं ह वै सुकृतं चातुर्मास्ययाजिनो भवति । संवत्सरं हि जयति । तेनास्याक्षय्यं भवति । तं वै त्रेधा विभज्य यजति । त्रेधा विभज्य प्रजयति । सर्वे वै सम्वत्सरः । सर्वे वा अक्षय्यम् । एतेनो हास्याक्षय्यं सुकृतं भवति । ऋतुरु हैवैतद्भूत्वा देवानप्येति । अक्षय्यमु वै देवानाम् । एतेनो हैवास्याक्षय्यं सुकृतं भवति । एतन्नु तद्- यस्माच्चातुर्मास्यैर्यजते ॥ १ ॥

सायणः

अथ 1 शुनासीरीयं विधित्सुस्तस्य शुनासीर्यस्य चतुर्थपर्वणः संवत्सरसल्लक्षणफलसाधनत्वं प्रतिपादयिष्यंस्तावदुपोद्घातत्वेन चातुर्मास्यानामक्षय्यफलसाधनत्वमाह- अक्षय्यं ह वा इति । चतुर्षु-चतुर्षु मासेषु क्रियन्त प्रति चातुर्मास्यानि प्रागुक्तानि वैश्वदेवादीनि, तैरिष्टवांश्चातुर्मास्ययाजी । “करणे यजः”- (पा. सू. ३ । २ । ८५) इति भूतकाले यजतेर्णिनिः । तस्य ‘चातुर्मास्ययाजिनः’ ‘सुकृतं’ यागजनितफलसाधनधर्मापरपर्यायमपूर्वम् ‘अक्षय्यम्’ क्षेतुमशक्यम्; न कदाचिदपि भोगेन क्षपयितुं शक्यते । “क्षय्यजय्यौ शक्यार्थे”- (पा. सू. ६ । १ । ८१) इति । “क्षि क्षये” (धा. पा. अ. प. २३६) इति अस्मान्निपातितः । अक्षय्यत्वमुपपादयति-संवत्सरं हीति । ‘हि’ यस्मादुदीरितैस्त्रिभिर्वैश्वदेवादिभिः पर्वभिः संवत्सरपरिमितकालं ‘जयति’ ‘तेन’ संवत्सरजयेन तदतिरिक्तस्य कालस्याभावात् ‘अस्य’ सार्वकालिकस्य चातुर्मास्ययाजिनः सुकृतमक्षय्यं भवतीत्यर्थः । “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” इति (आप. श्रौ. सू. ८ । १ । १) ।

संवत्सरं कथमेतेन जयत इति तदाह- तं वा इति । ‘तं’ संवत्सरं त्रिधा ‘विभज्य’ चतुर्षु-चतुर्षु मासेषु वैश्वदेवादिभिः ‘यजते’, अतस्तं संवत्सरं त्रेधा ‘विभज्य’ एव ‘प्रजयति’ प्रकर्षेण लभते । अस्तु संवत्सरस्य जयः, एतावता कथं फलस्याक्षय्यत्वसिद्धिरिति, तदाह- सर्वे वा इति । भूतवर्त्तमानभविष्यत्कालत्रयावच्छिन्नं सर्वं वस्तु संवत्सरमध्य एवान्तर्भूतम्, संवत्सरस्तु कृत्स्नव्यापितया अनादिरनन्त इति तज्जय्यं फलमपि अक्षय्यं भवतीत्यर्थः । प्रकारान्तरेणाध्यक्षय्यत्वं प्रतिपादयति- ऋतुरु हैवैतदिति । ‘एतत्’ एतेन चातुर्मास्ययजनेन वसन्ताद्यृत्वात्मक एव ‘भूत्वा’ ‘देवानप्येति’ चातुर्मास्ययाजी अपि गच्छति, देवानाञ्च सुकृलमक्षय्यमेव भवति । अतः ‘एतेन’ देवत्वप्रापणेन ‘अस्य’ यजमानस्य ‘सुकृतम्’ अपि ‘अक्षय्यम्’ एव ‘भवति’ ॥ १ ॥

Eggeling
  1. Verily, imperishable is the righteousness of him that offers the Seasonal sacrifices; for such a one gains the year, and hence there is no cessation for him. He gains it (the year) in three divisions, he conquers it in three divisions. The year means the whole, and the whole is imperishable (without end): hence his righteousness is indeed imperishable. Moreover, he thereby becomes a Season, and as such goes to the gods; but there is no perishableness in the gods, and hence there is imperishable righteousness for him. This, then, is why he offers the Seasonal sacrifices.

०२

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ य᳘स्माच्छुनासी᳘र्येण य᳘जेत॥
या वै᳘ देवा᳘नाᳫँ᳭ श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां[[!!]] त᳘च्छुनम᳘थ यः᳘ संव्वत्सर᳘स्य प्र᳘जितस्य र᳘स आ᳘सीत्तत्सी᳘रᳫँ᳭ सा या᳘ चैव᳘ देवा᳘नाᳫँ᳭ श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां य᳘ उ च संव्वत्सर᳘स्य प्र᳘जितस्य र᳘स आ᳘सीत्त᳘मे᳘वैत᳘दुभ᳘यं परिगृ᳘ह्यात्म᳘न्कुरुते त᳘स्माच्छुनासी᳘र्येण यजते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ य᳘स्माच्छुनासी᳘र्येण य᳘जेत॥
या वै᳘ देवा᳘नाᳫँ᳭ श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां[[!!]] त᳘च्छुनम᳘थ यः᳘ संव्वत्सर᳘स्य प्र᳘जितस्य र᳘स आ᳘सीत्तत्सी᳘रᳫँ᳭ सा या᳘ चैव᳘ देवा᳘नाᳫँ᳭ श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां य᳘ उ च संव्वत्सर᳘स्य प्र᳘जितस्य र᳘स आ᳘सीत्त᳘मे᳘वैत᳘दुभ᳘यं परिगृ᳘ह्यात्म᳘न्कुरुते त᳘स्माच्छुनासी᳘र्येण यजते॥

मूलम् - Weber

अ᳘थ य᳘स्माछुनासीॗर्येण य᳘जेते॥
या वै᳘ देवा᳘नां श्रीरा᳘सीत्साकमेधैरीजाना᳘नां 2 विजिग्या᳘नानां त᳘छुनम᳘थ यः᳘ संवत्सर᳘स्य प्र᳘जितस्य र᳘स आ᳘सीत्तत्सी᳘रᳫं सा या᳘ चैव᳘ देवा᳘नां श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां विजिग्याना᳘नां य᳘ उ च संवत्सर᳘स्य प्र᳘जितस्य र᳘स आ᳘सीत्त᳘मेॗवैत᳘दुभ᳘यम् परिगृ᳘ह्यात्म᳘न् कुरुते त᳘स्माछुनासीॗर्येण यजते॥

मूलम् - विस्वरम्

अथ यस्माच्छुनासीर्येण यजेत । या वै देवानां श्रीरासीत्- साकमेधैरीजानानां विजिग्यानानाम्- तच्छुनम् । अथ यः संवत्सरस्य प्रजितस्य रस आसीत्- तत्सीरम् । सा या चैव देवानां श्रीरासीत्- साकमेधैरीजानानां विजिग्यानानाम्, य उ च संवत्सरस्य प्रजितस्य रस आसीत्- तमेवैतदुभयं परिगृह्यात्मन् कुरुते । तस्माच्छुनासीर्येण यजते ॥ २ ॥

सायणः

इत्थं वैश्वदेवादीनां त्रयाणां फलमुपपाद्य शुनासीर्य्ययागस्य श्र्यादिकं फलं दर्शयति- अथ यस्मादिति । ‘यस्मात्’ फलात् हेतोः यजमानः ‘शुनासीर्येण’ पर्वणा ‘यजते’, तस्मात् तत्फलमुच्यत इत्यर्थः । या वै देवानामित्यादि । ‘साकमेधैः’ प्रागुक्तैर्यागैः ‘ईजानानाम्’ इष्टवतां ‘विजिग्यानानां’ वृत्रासुरं जितवतां देवानां ‘या’ ‘श्रीः’ सम्पत् ‘आसीत्’, ‘तत्’ ‘शुनम्’ सुखनामैतत् (निघ. ३ । ६ । ११) सुखहेतुत्वात् शुनमित्युच्यत इत्यर्थः । ‘अथ’ वैश्वदेवादिभिस्त्रिभिस्त्रिभिश्चातुर्मास्यैः ‘प्रजितस्य’ ‘संवत्सरस्य’ ‘यो रस आसीत्’ सुखहेतुः सारभूतों ऽशो ऽभवत्, तत् ‘सीरम्’ इत्युच्यते । या चैव देवानामित्यादिः, उक्तार्थानुवादः । तमेवैतदुभयमिति । यदेतत् शुनं सीरं चोक्तम्, ‘एतदुभयम्’ एतेन शुनासीर्य्ययागेन ‘परिगृह्य’ यजमानः ‘आत्मन्’ स्वात्मनि ‘कुरुते’ धारयति । इत्थं प्रवृत्तिहेतुफलमुपपाद्य तत्साधनभूतं यागं विधत्ते- तस्मादिति । उक्तलक्षणौ शुनासीरौ अधिदैववाय्वादिरूपेणावस्थितौ । सा ऽस्य देवतेत्यर्थे शुनासीरशब्दाद् यत् । तद्धविर्योगाद् वक्ष्यमाणं हविस्समुदायसाध्यं कृत्स्नं कर्मानेन व्यपदिश्यते । यस्मादुक्तफलसाधनत्वम्, तस्माच्छुनासीरीयाख्येनानेन चतुर्थेन पर्वणा यजेतेत्यर्थः ॥ २ ॥

Eggeling
  1. Then as to why he should perform the Śunāsīrya offering. The prosperity (śrī) that accrued to the gods on performing the Sākamedha offerings, and gaining the victory (over Vr̥tra), is śuna; and the essence (rasa) that belonged to the year gained by them is sīra 3. Now that same prosperity which

accrued to the gods on performing the Sākamedha offerings, and that same essence which belonged to the year gained by them,–both these he takes possession of and makes his own: that is why he performs the Śunāsīrya.

०३

विश्वास-प्रस्तुतिः

त᳘स्यावृत्॥
(न्नो᳘) नो᳘पकिरन्त्युत्तरवेदिं न᳘ गृह्णन्ति पृषदाज्यं न᳘ मन्थन्त्यग्निं प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजा ऽए᳘कᳫँ᳭ समिष्टयजुः॥

मूलम् - श्रीधरादि

त᳘स्यावृत्॥
(न्नो᳘) नो᳘पकिरन्त्युत्तरवेदिं न᳘ गृह्णन्ति पृषदाज्यं न᳘ मन्थन्त्यग्निं प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजा ऽए᳘कᳫँ᳭ समिष्टयजुः॥

मूलम् - Weber

त᳘स्यावृत्॥
नो᳘पकिरन्त्युत्तरवेदिं न᳘ गृह्णन्ति पृषदाज्यं न᳘ मन्थन्त्यग्निम् प᳘ञ्च प्रयाजा भ᳘वन्ति त्र᳘यो ऽनुयाजा ए᳘कᳫं समिष्टयजुः॥

मूलम् - विस्वरम्

तस्यावृत् । नोपकिरन्त्युत्तरवेदिम् । न गृह्णन्ति पृषदाज्यम् । न मन्थन्त्यग्निम् | पञ्च प्रयाजा भवन्ति । त्रयो ऽनुयाजाः । एकं समिष्टयजुः ॥ ३ ॥

सायणः

प्रयोगक्रमं वक्तुं प्रतिजानीते- तस्यावृदिति । ‘तस्य’ शुनासीर्यस्य ‘आवृत्’ क्रिया उच्यत इति शेषः । पूर्वेषु पर्वस्विव प्रसक्तमुत्तरवेदिनिर्वपणादिकं निषेधति- नोपकिरन्तीत्यादिना । प्रयाजानुयाजादयो ऽपि प्रकृतिवदेवेत्याह- पञ्चेति 4 ॥ ३ ॥

Eggeling
  1. The mode of its performance (is as follows): They prepare no uttaravedi; they do not use clotted butter; nor do they churn the fire 5. There are five fore-offerings, three after-offerings, and one Samishṭayajus.

०४

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थैता᳘न्येव प᳘ञ्च हवी᳘ᳫँ᳘षि भवन्ति॥
(न्त्ये) एतैर्व्वै᳘ हवि᳘र्भिः प्रजा᳘पतिः प्रजा᳘ ऽअसृजतैतै᳘रुभय᳘तो व्वरुणपाशा᳘त्प्रजाः प्रा᳘मुञ्चदेतैर्व्वै᳘ देवा᳘ व्वृत्र᳘मघ्नन्नेतै᳘र्व्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽएवैष[[!!]] ए᳘तैर्या᳘ चैव᳘ देवा᳘नाᳫँ᳭ श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां य᳘ उ च संव्वत्सर᳘स्य प्र᳘जितस्य र᳘स ऽआ᳘सीत्त᳘मे᳘वैत᳘दुभ᳘यं परिगृ᳘ह्यात्म᳘न्कुरुते त᳘स्माद्वा᳘ ऽएता᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि भवन्ति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थैता᳘न्येव प᳘ञ्च हवी᳘ᳫँ᳘षि भवन्ति॥
(न्त्ये) एतैर्व्वै᳘ हवि᳘र्भिः प्रजा᳘पतिः प्रजा᳘ ऽअसृजतैतै᳘रुभय᳘तो व्वरुणपाशा᳘त्प्रजाः प्रा᳘मुञ्चदेतैर्व्वै᳘ देवा᳘ व्वृत्र᳘मघ्नन्नेतै᳘र्व्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽएवैष[[!!]] ए᳘तैर्या᳘ चैव᳘ देवा᳘नाᳫँ᳭ श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां य᳘ उ च संव्वत्सर᳘स्य प्र᳘जितस्य र᳘स ऽआ᳘सीत्त᳘मे᳘वैत᳘दुभ᳘यं परिगृ᳘ह्यात्म᳘न्कुरुते त᳘स्माद्वा᳘ ऽएता᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि भवन्ति॥

मूलम् - Weber

अ᳘थैता᳘न्येव प᳘ञ्च हवीं᳘षि भवन्ति॥
एतैर्वै᳘ 6 हवि᳘र्भिः प्रजा᳘पतिः प्रजा᳘ असृजतैतै᳘रुभय᳘तो वरुणपाशा᳘त्प्रजाः प्रा᳘मुञ्चदेतैर्वै᳘ 7 देवा᳘ वृत्र᳘मघ्नन्नेतै᳘र्वेव व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तां त᳘थो एॗवैष᳘ एतैर्या᳘ चैव᳘ देवा᳘नां श्रीरा᳘सीत्साकमेधै᳘रीजाना᳘नां विजिग्याना᳘नां य᳘ उ च संवत्सर᳘स्य प्र᳘जितस्य र᳘स आसीत्त᳘मेॗवैत᳘दुभ᳘यम् परिगृ᳘ह्यात्म᳘न् कुरुते त᳘स्माद्वा᳘ एता᳘नि प᳘ञ्च हवीं᳘षि भवन्ति॥

मूलम् - विस्वरम्

अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजत । एतैरुभयतो वरुणपाशात् प्रजाः प्रामुञ्चत् । एतैर्वै देवा वृत्रमघ्नन् । एतैर्वेव व्यजयन्त- येयमेषां विजितिः- ताम् । तथो एवैष एतैः- या चैव देवानां श्रीरासीत्- साकमेधैरीजानानां विजिग्यानानाम्, य उ च संवत्सरस्य प्रजितस्य रस आसीत्- तमेवैतदुभयं परिगृह्यात्मन् कुरुते । तस्माद् वा एतानि पञ्च हवींषि भवन्ति ॥ ४ ॥

सायणः

पञ्च हवींषि विधत्ते- अथैतान्येवेति । वैश्वदेवादिषु पर्वस्वनुष्ठितानि ‘एतानि’ आग्नेयादीनि पञ्च हवींष्यत्रापि कर्त्तव्यानि भवन्तीत्यर्थः । क्लृप्तफलत्वेनैतानि प्रशंसति- एतैर्वा इति । वैश्वदेवेष्वनुष्ठितैः ‘एतैर्हविर्भिः’ खलु पुरा ‘प्रजापतिः’ ‘प्रजाः’ सृष्टवान् । वरुणप्रघासेष्वनुष्ठितैरेव ताः ‘प्रजाः’ ‘उभयतो वरुणपाशात्’ ऊर्ध्वाधःकायस्थितात् ‘प्रामुञ्चत्’ प्रमुक्तवान् । तथा साकमेधेष्वनुष्ठितैरेव पञ्चभिर्हविर्भिः ‘देवाः’ ‘वृत्रम्’ असुरम् ‘अघ्नन्,’ हत्वा च ‘एतैः’ एव ‘व्यजयन्त’ विजयं प्राप्तवन्तः । यथैवैतानि कृत्स्नाभिलषितफलसाधनानि, ‘तथो’ तथैव खलु ‘एषः’ यजमानः ‘एतैः’ शुनासीर्याख्ये चतुर्थे पर्वणि अनुष्ठीयमानैः, आग्नेयादिभिः पञ्चभिर्हविर्भिः शुनासीरीयं यदेतदनुक्रान्तम्, ‘तदुभयं’ फलम् ‘आत्मन्’ आत्मनि ‘परिगृह्य’ स्वाधीनं ‘कुरुते’ । तस्मादिति प्रतिपादितार्थनिगमनम् ॥ ४ ॥

Eggeling
  1. Then, in the first place, there are those five (regular) oblations 8. By means of these oblations, indeed, Prajāpati produced creatures; with them he delivered the creatures both ways from Varuṇa’s noose; with them the gods slew Vr̥tra and gained that victory which was gained by them. And so does he, by means of them, obtain and make his own, both that prosperity which accrued to the gods from performing the Sākamedha offerings, and that essence of the year which was gained by them. This is why those five oblations are (offered).

०५

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थ शुनासी᳘र्यो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
स ब᳘न्धुः शुनासी᳘र्यस्य[[!!]] यं पू᳘र्व्वम᳘वोचाम॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थ शुनासी᳘र्यो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
स ब᳘न्धुः शुनासी᳘र्यस्य[[!!]] यं पू᳘र्व्वम᳘वोचाम॥

मूलम् - Weber

अ᳘थ शुनासीॗर्यो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
स ब᳘न्धुः शुनासीर्य᳘स्य यम् पू᳘र्वम᳘वोचाम॥

मूलम् - विस्वरम्

अथ शुनासीर्यो द्वादशकपालः पुरोडाशो (१) भवति । स बन्धुः शुनासीर्यस्य यं पूर्वमवोचाम ॥ ५ ॥

सायणः

षष्ठं हविर्विधत्ते- अथ शुनासीर्य इति । शुनासीरौ वाय्वादित्यौ देवते अस्य स शुनासीर्यः । ‘शुनो वायुः’ ‘सीर आदित्यः’- इति हि यास्कः 9 । द्विवचनेन कात्यायनो ऽपीममर्थमसूचयत्- “शुनासीराभ्यां द्वादशकपालः” 10 इति । उक्तं वाक्यशेषमत्राप्यतिदिशति- स बन्धुरिति । कृत्स्नस्य पर्वणः फलप्रतिपादनसमये ‘यं पूर्वं’ वाक्यशेषं “या वै देवानाम्”- इत्यादिकम् ‘अवोचाम’ उक्तवन्तः, स एव अस्यापि ‘शुनासीर्यस्य’ हविषः स्तावकः, उक्तविधयोरेव वाय्वादित्यरूपेणावस्थितत्वादिति भावः ॥ ५ ॥

Eggeling
  1. Then follows a Śunāsīrya 11 cake on twelve

potsherds. The import of this Śunāsīrya oblation is what we have stated before.

०६

विश्वास-प्रस्तुतिः

(मा᳘) अ᳘थ व्वाय᳘व्यं प᳘यो भवति॥
प᳘यो ह वै᳘ प्रजा᳘ जाता᳘ अभिस᳘ञ्जानते व्विजिग्यानं᳘ मा प्रजाः᳘ श्रियै य᳘शसे ऽन्ना᳘द्यायाभिस᳘ञ्जानान्ता ऽइ᳘ति त᳘स्मात्प᳘यो भवति॥

मूलम् - श्रीधरादि

(मा᳘) अ᳘थ व्वाय᳘व्यं प᳘यो भवति॥
प᳘यो ह वै᳘ प्रजा᳘ जाता᳘ अभिस᳘ञ्जानते व्विजिग्यानं᳘ मा प्रजाः᳘ श्रियै य᳘शसे ऽन्ना᳘द्यायाभिस᳘ञ्जानान्ता ऽइ᳘ति त᳘स्मात्प᳘यो भवति॥

मूलम् - Weber

अ᳘थ वायव्य᳘म् प᳘यो भवति॥
प᳘यो ह वै᳘ प्रजा᳘ जाता᳘ अभिसं᳘जानते विजिग्यान᳘म् 12 मा प्रजाः᳘ श्रियै य᳘शसे ऽन्ना᳘द्यायाभिसं᳘जानान्ता इ᳘ति त᳘स्मात्प᳘यो भवति॥

मूलम् - विस्वरम्

अथ वायव्यं पयो (२) भवति । पयो ह वै प्रजा जाता अभिसञ्जानते । ‘विजिग्यानं मा प्रजाः श्रियै’ ‘यशसे, अन्नाद्याय, अभिसञ्जानान्तै’- इति । तस्मात् पयो भवति ॥ ६ ॥

सायणः

सप्तमं हविर्विधत्ते- अथ वायव्यमिति 9 । वायुर्देवता अस्य तद् ‘वायव्यम्’ । “वाय्वृतुपित्रुषसो यत्”- (पा. सू. ४ । २ । ३१) इति यत् । पयसस्तावदत्रानुकूल्यं दर्शयति- पयो ह वा इति । ‘जाताः’ सर्वाः ‘प्रजाः’ ‘पयः’ खलु ‘अभि’ लक्ष्य ‘सञ्जानते’ सञ्जानाना भवन्ति । अतः पयसः सम्पत्तिहेतुत्वाद् ‘विजिग्यानं’ साकमेधैर्विजितवन्तम् ‘एनं’ यजमानं ‘श्रियै’ सम्पदे, ‘यशसे’ कीर्त्यै ‘अन्नाद्याय’ अन्नादनसामर्थ्याय च सर्वाः ‘प्रजाः’ ‘अभिसञ्जानान्तै’ अभिसञ्जानीरन्, अनुमन्यन्तामिति; अनेनाभिप्रायेण पयसः करणमित्यर्थः ॥ ६ ॥

Eggeling
  1. After that there is an (oblation of) milk 13 to Vāyu. Now it is to milk that living beings readily take, when they are born: ‘May the creatures readily take to me–now that I have gained the victory (by means of the Sākamedha offerings)–for my prosperity, glory, and support!’ so he thinks, and hence that (oblation of) milk.

०७

विश्वास-प्रस्तुतिः

तद्य᳘द्वायव्यं᳘ भ᳘वति॥
(त्य) अयं वै᳘ व्वायु᳘र्यो ऽयं प᳘वत ऽएष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं प्र᳘प्याययति य᳘दिदं कि᳘ञ्च व्व᳘र्षति व्वृष्टादो᳘षधयो जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वा ऽपः᳘ पीत्वा त᳘त एत᳘दद्भ्यो᳘ ऽधि प᳘यः स᳘म्भवत्येष हि वा᳘ ऽएत᳘ज्जन᳘यति त᳘स्माद्वाय᳘व्यं[[!!]] भवति॥

मूलम् - श्रीधरादि

तद्य᳘द्वायव्यं᳘ भ᳘वति॥
(त्य) अयं वै᳘ व्वायु᳘र्यो ऽयं प᳘वत ऽएष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं प्र᳘प्याययति य᳘दिदं कि᳘ञ्च व्व᳘र्षति व्वृष्टादो᳘षधयो जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वा ऽपः᳘ पीत्वा त᳘त एत᳘दद्भ्यो᳘ ऽधि प᳘यः स᳘म्भवत्येष हि वा᳘ ऽएत᳘ज्जन᳘यति त᳘स्माद्वाय᳘व्यं[[!!]] भवति॥

मूलम् - Weber

तद्य᳘द्वायव्य᳘म् भ᳘वति॥
अयं वै᳘ वायुॗर्यो ऽयम् प᳘वत एष वा᳘ इदᳫं स᳘र्वम् प्र᳘प्याययति य᳘दिदं किं᳘ च व᳘र्षति वृष्टादो᳘षधयो जायन्त ओषधीर्जॗग्ध्वापः᳘ पीत्वा त᳘त एत᳘दद्भ्यो᳘ ऽधि प᳘यः स᳘म्भवत्येष हि वा᳘ एत᳘ज्जन᳘यति त᳘स्माद्वायव्य᳘म् भवति॥

मूलम् - विस्वरम्

तद् यद्वायव्यं भवति । अयं वै वायुः- यो ऽयं पवते । एष वा इदं सर्वं प्रप्याययति- यदिदं किञ्च वर्षति । वृष्टादोषधयो जायन्ते । ओषधीर्जग्ध्वा ऽपः पीत्वा तत एतद्भ्यो ऽधि पयः सम्भवति । एष हि वा एतज्जनयति । तस्माद् वायव्यं भवति ॥ ७ ॥

सायणः

तस्य वायुदेवत्यत्वमनूद्य स्तौति- तद्यदिति । एष वा इत्यादि । ‘यदिदं किञ्च’ भूम्यां स्थितं स्थावरादिकं ‘वर्षति’ पर्जन्यवृष्ट्या सिञ्चति, इदं सर्वम् ‘एषः’ खलु पवमानः ‘प्रप्याययति’ प्रवर्द्धयति रसभरितं करोति “ओप्यायी वृद्धौ”- (धा. पा. भ्वा. आ. ४७९) इति धातुः । तस्माद् वृष्टात् पवमानेन प्रप्यायितात् ‘ओषधयो जायन्ते’, ताश्च ‘ओषधीः’ ‘जग्ध्वा’ भक्षयित्वा “अदो जग्धिर्ल्यप्ति किति”- (पा. सू. २ । ४ । ३६) इत्यदेर्जग्ध्यादेशः । ओषधिभक्षणानन्तरम् ‘अपः पीत्वा’ पशवः पयो दुहन्ति । ‘एतदद्भ्यः’ सकाशात् ‘पयः’ ‘सम्भवति’ उत्पद्यते तस्मात् परम्परया ‘एष हि’ पवमानः ‘एतत्’ पयो ‘जनयति’ उत्पादयति । तस्मादस्य वायुर्देवतेत्येतद्युक्तमित्यर्थः ॥ ७ ॥

Eggeling
  1. Then as to why it is (offered) to Vāyu. Now Vāyu, indeed, is yonder blowing (wind); it is he that makes swell whatever rain falls here. But it is by the rain that plants grow; and on the plants being eaten and the water drunk, milk is produced out of that water. Hence it is he (Vāyu) that produces it; and for this reason it is (offered) to Vāyu.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सौर्य ए᳘ककपालः पुरोडा᳘शो भवति॥ (त्ये) एष वै सू᳘र्यो य᳘ एष त᳘पत्येष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमभि᳘गोपायति साधु᳘ना त्वदसाधु᳘ना त्वदेष[[!!]] इदᳫँ᳭ स᳘र्व्वं व्वि᳘दधाति साधौ᳘ त्वदसाधौ᳘ त्वदेष᳘ मा व्विजिग्यानं᳘ प्रीतः᳘ साधु᳘ना त्वदभि᳘गोपायत्साधौ᳘ त्वद्वि᳘दधदि᳘ति त᳘स्मात्सौर्य ए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सौर्य ए᳘ककपालः पुरोडा᳘शो भवति॥ (त्ये) एष वै सू᳘र्यो य᳘ एष त᳘पत्येष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वमभि᳘गोपायति साधु᳘ना त्वदसाधु᳘ना त्वदेष[[!!]] इदᳫँ᳭ स᳘र्व्वं व्वि᳘दधाति साधौ᳘ त्वदसाधौ᳘ त्वदेष᳘ मा व्विजिग्यानं᳘ प्रीतः᳘ साधु᳘ना त्वदभि᳘गोपायत्साधौ᳘ त्वद्वि᳘दधदि᳘ति त᳘स्मात्सौर्य ए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

अ᳘थ सौर्य ए᳘ककपालः पुरोडा᳘शो भवति एष वै सू᳘र्यो य᳘ एष त᳘पत्येष वा᳘ इदᳫं स᳘र्वमभि᳘गोपायति साधु᳘ना त्वदसाधु᳘ना त्वदेष᳘ इदᳫं स᳘र्वं वि᳘दधाति साधौ᳘ त्वदसाधौ᳘ त्वदेष᳘ मा विजिग्यान᳘म् प्रीतः᳘ साधु᳘ना त्वदभि᳘गोपायत्साधौ᳘ त्वद्वि᳘दधदि᳘ति त᳘स्मात्सौर्य 14 ए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

अथ सौर्य एककपालः पुरोडाशो (३) भवति । एष वै सूर्यो- य एष तपति । एष वा इदं सर्वमभिगोपायति- साधुना त्वद्, असाधुना त्वत् । एष इदं सर्वं विदधाति- साधौ त्वद् असाधौ त्वत् । एष मा विजिग्यानं प्रीतः- साधुना त्वदभिगोपायत्, साधौ त्वद्विदधद्- इति । तस्मात्सौर्य एककपालः पुरोडाशो भवति ॥ ८ ॥

सायणः

अष्टमं हविर्विधत्ते- अथ सौर्य 15 इति । अस्य हविषः सूर्यो ऽभिगोप्तेत्याह- एष वै सूर्य इत्यादिना । साधुना त्वदित्यादि । ‘साधुना’ शोभनेन कर्मणा ‘त्वत्’ एकं पुण्यकृतं जनम् ‘एषः’ सूर्यः ‘अभिगोपायति’ अभिरक्षति । तथा ‘असाधुना’ अशोभनेन कर्मणा ‘त्वत्’ एकं पापिजनम् ‘अभिगोपायति’ । न केवलं रक्षणमात्रं शोभनात्मकम् । ‘इदं सर्वं’ जगत्, एष एव सूर्यो ‘विदधाति’ करोति; विदधानः सः ‘त्वत्’ एकं ‘साधौ’ पुण्ये कर्मणि स्थापयति, ‘त्वत्’ एकम् अन्यत् ‘असाधौ’ पापकर्मणि स्थापयति । एषः खलु हिरण्यगर्भरूपः स परमात्मा । अस्य हि साध्वसाधुकर्मणः कारयितृत्वमन्यत्र चाम्नायते- “एष ह्येव साधुकर्म कारयति, तेषामेभ्यो लोकेभ्य उर्ध्वं निनीषते; एष ह्यसाधु कर्म कारयति तेषामेभ्यो लोकेभ्यो ऽधोनिनीषते”- इति (कौ. ब्रा. उ. ३ । ९) ॥

एष मेत्यादि । यो ऽयमुक्तविधः सूर्यः ‘एषः’ अनेन हविषा ‘प्रीतः’ सन् ‘विजिग्यानं’ साकमेधैः विजितवन्तं ‘मा’ मां ‘साधुना’ कर्मणा ‘अभिगोपायत्’ अभिरक्षतु, तथा तस्मिन् ‘साधौ’ शोभने कर्मणि मां ‘विदधात्’ विदधातु, प्रेरयतु ‘इति’ अनेनाभिप्रायेण यजमानः सौर्यं हविः कुर्यात् । ‘त्वम्’- इति, एतदत्र क्रियाविशेषणत्वेन योज्यम् ॥ ८ ॥

Eggeling
  1. Then follows a cake on one potsherd for Sūrya. Now Sūrya, indeed, is yonder scorching (sun); it is he that governs all this (world), now by means of a good, now by a bad (king) 16; he assigns its place to everything here, now under a good, now under a bad (king): ‘Now that I have obtained the victory, may he, in his pleasure, govern me through a good (king), may he assign to me a place under a good (king)!’ thus he thinks; and for this reason there is a cake on one potsherd for Sūrya.

०९

विश्वास-प्रस्तुतिः

तस्या᳘श्वः श्वेतो द᳘क्षिणा॥
त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति यद्य᳘श्वᳫं᳭ श्वेतं न᳘ विन्देद᳘पि गौ᳘रेव᳘ श्वेतः᳘ स्यात्त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति॥

मूलम् - श्रीधरादि

तस्या᳘श्वः श्वेतो द᳘क्षिणा॥
त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति यद्य᳘श्वᳫं᳭ श्वेतं न᳘ विन्देद᳘पि गौ᳘रेव᳘ श्वेतः᳘ स्यात्त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति॥

मूलम् - Weber

तस्या᳘श्वः श्वेतो द᳘क्षिणा॥
त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति यद्य᳘श्वं श्वेतं न᳘ विन्देद᳘पि गौ᳘रेव᳘ श्वेतः᳘ स्यात्त᳘देत᳘स्य रूपं᳘ क्रियते य᳘ एष त᳘पति॥

मूलम् - विस्वरम्

तस्याश्वः श्वेतो दक्षिणा । तदेतस्य रूपं क्रियते- य एष तपति । यद्यश्वं श्वेतं न विन्देद् अपि गौरेव श्वेतः स्यात् । तदेतस्य रूपं क्रियते य एष तपति ॥ ९ ॥

सायणः

तस्यैककपालस्य दक्षिणां विधत्ते- तस्याश्वः श्वेत इति । ‘तस्य’ सौर्यस्य हविषः श्वेतो ऽश्वविशेषो 17 ‘दक्षिणा’ शुनासीर्यस्य तु षड्भिरनडुद्भिर्युक्तं सीरं दक्षिणा । तदुक्तं सूत्रकारेण- “सीरं षड्योगं दक्षिणा ओष्टारौवा” (का. श्रौ. सू. ५ । २८८ । २८९) इति । तदेतस्येत्यादि । ‘एतस्य’ सूर्यस्य सितभास्वररूपत्वात् श्वेताश्वदानमेतदीयमुपकरणमित्यर्थः । तादृशाश्वालाभे तादृशो गौर्देय इत्याह- यद्यश्वमित्यादि ॥ ९ ॥

Eggeling
  1. The priests’ fee for this (oblation to Sūrya)

is a white horse 18; whereby it is made of the characteristic form of yonder scorching (sun). If he be unable to procure a white horse, it may be a white bull; whereby it is likewise made of the characteristic form of yonder scorching (sun).

१०

विश्वास-प्रस्तुतिः

स य᳘त्रैव᳘ साकमेधैर्य᳘जते॥
त᳘च्छुनासी᳘र्येण यजेत यद्वै त्रिः᳘ संव्वत्सर᳘स्य य᳘जते ते᳘नैव᳘ संव्वत्सर᳘माप्नोति त᳘स्माद्य᳘दैव᳘ कदा᳘ चैते᳘न यजेत॥

मूलम् - श्रीधरादि

स य᳘त्रैव᳘ साकमेधैर्य᳘जते॥
त᳘च्छुनासी᳘र्येण यजेत यद्वै त्रिः᳘ संव्वत्सर᳘स्य य᳘जते ते᳘नैव᳘ संव्वत्सर᳘माप्नोति त᳘स्माद्य᳘दैव᳘ कदा᳘ चैते᳘न यजेत॥

मूलम् - Weber

स य᳘त्रैव᳘ साकमेधैर्य᳘जते॥
त᳘छुनासीॗर्येण यजेत यद्वै त्रिः᳘ संवत्सर᳘स्य य᳘जते ते᳘नैव᳘ संवत्सर᳘माप्नोति त᳘स्माद्यॗदैव᳘ कदा᳘ चैते᳘न यजेत॥

मूलम् - विस्वरम्

स यत्रैव साकमेधैर्यजते- तत् शुनासीर्येण यजेत । यद्वै त्रिः संवत्सरस्य यजते- तेनैव संवत्सरमाप्नोति । तस्माद्यदैव कदाचैतेन यजेत ॥ १० ॥

सायणः

अथ शुनासीर्ययागस्य कालं विधत्ते- स यत्रैवेत्यादिना । ‘यत्र’ यस्मिन् ‘एव’ काले ‘साकमेधैर्यजते’ ‘तत्’ तदानीम्, तदनन्तरकाले एव स यजमानः शुनासीर्येण ‘यजेत’ । न तु शुनासीर्यस्यापि चातुर्मास्यत्वान्मासचतुष्टयस्य व्यवधानमपेक्षितमित्यत आह- यद्वा इति । चतुर्षु चतुर्षु मासेषु संवत्सरस्य मध्ये वैश्वदेववरुणप्रघाससाकमेधभेदेन ‘त्रिः’ त्रिवारं ‘यजते’ इति यत्, ‘तेनैव’ संवत्सरमाप्नोति । वैश्वदेवादयः प्रत्येकं चातुर्मास्ययुक्ता इति तदनुष्ठानेनैव तेषां द्वादशानामवाप्तत्वात् तत्समुदायरूपः संवत्सरो ऽपि यजमानस्य स्वायत्तो जात इत्यर्थः । उक्तमर्थं निगमयति- तस्मादिति । यस्मात् चतुर्थपर्वणः शुनासीर्य्यस्य संवत्सरातिरिक्तः प्रातिस्विकः कालो नास्ति तस्माद् यदा कदाचिदेव साकमेधानन्तरं यजेतेत्यर्थः । एतदेवानन्तर्य्यं सूत्रकृताप्युक्तम्- “शुनासीर्यमतः” (का. श्रौ. सू. ५ । २७७)- इति ॥ १० ॥

Eggeling
  1. He may offer the Śunāsīrya at the same time when he performs the Sākamedha offerings. By offering (Seasonal sacrifices) three times in the year, he indeed obtains the (whole) year: he may therefore offer (the Śunāsīrya) at any time 19.

११

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
रा᳘त्रीरापिपयिषन्ति स य᳘दि रा᳘त्रीरा᳘पिपयिषेद्य᳘ददः᳘ पुर᳘स्तात्फाल्गुन्यै᳘ पौर्णमास्या ऽउ᳘द्दृष्टं त᳘च्छुनासी᳘र्येण यजेत॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
रा᳘त्रीरापिपयिषन्ति स य᳘दि रा᳘त्रीरा᳘पिपयिषेद्य᳘ददः᳘ पुर᳘स्तात्फाल्गुन्यै᳘ पौर्णमास्या ऽउ᳘द्दृष्टं त᳘च्छुनासी᳘र्येण यजेत॥

मूलम् - Weber

तद्धै᳘के॥
रा᳘त्रीरापिपयिषन्ति स य᳘दि रा᳘त्रीरा᳘पिपयिषेद्य᳘ददः᳘ पुर᳘स्तात्फाल्गुन्यै᳘ पौर्णमास्या उ᳘द्दृष्टं त᳘छुनासीॗर्येण यजेत॥

मूलम् - विस्वरम्

तद्धैके रात्रीरापिपयिषन्ति । स यदि रात्रीरापिपायेषेद्- यददः पुरस्तात् फाल्गुन्यै पौर्णमास्या उद्दृष्टं- तच्छुनासीर्येण यजेत ॥ ११ ॥

सायणः

सोमेन यक्ष्यमाणस्य पक्षान्तरमाह- तद्धैक इति । ‘तत्’ तत्र खलु शुनासीर्यानुष्ठाने ‘एके’ शाखिनः ‘रात्रीः आपिपयिषन्ति’ अनेन च यागेन कतिचिद् रात्रीः आप्तुमिच्छन्ति । अत एवोक्तमापस्तम्बेन- “ततो द्व्यहे त्र्यहे चतुरहे ऽर्द्धमासे मासे चतुर्षु वा मासेषु शुनासीरीयेण यजते”- (आ. श्रौ. सू. ८ । २। १) इति । तेषां मते सोमेन यक्ष्यमाणस्य शुनासीर्यकाल उच्यत इत्यर्थ. । यदि हि ‘रात्रीः’ आपिपयिषेत्’ आप्तुमिच्छेत्, तदा आगामिनीभ्यां फल्गुनीभ्यां युक्ता पौर्णमासी फाल्गुनी; षष्ठ्यर्थे चतुर्थी; ‘फाल्गुन्यै’ फाल्गुन्याः पौर्णमास्याः ‘पुरस्तात्’ यत्, ‘अदः’- इति विप्रकृष्टे, ‘उत्’ ऊर्द्ध्वं चन्द्रमाः अस्मिन् दृश्यते इति उद्दृष्टं शुक्लपक्षः, ‘तत्’ तत्र प्रतिपदाद्यन्यतमस्यां तिथौ शुनासीर्येण यजेत 20 ॥ ११ ॥

Eggeling
  1. Here now some wish to take possession of the nights; and should he wish to take possession of the nights, let him offer the Śunāsīrya (on the day) when, previously to the full-moon of Phālguna, (the new moon) becomes visible in yonder sky.

१२

विश्वास-प्रस्तुतिः

(ता᳘) अ᳘थ दीक्षेत॥ तं ना᳘नीजानं पु᳘नः फाल्गुनी᳘ पौर्णमा᳘स्यभिपर्ये᳘यात्पुनःप्रयाग᳘रूप[[!!]] इव ह स य᳘देनम᳘नीजानं पु᳘नः फाल्गुनी᳘ पौर्णमा᳘स्यभिपर्ये᳘यात्त᳘स्मादेनं[[!!]] ना᳘नीजानं पु᳘नः फाल्गुनी᳘ पौर्णमा᳘स्यभिपर्ये᳘यादि᳘ति[[!!]] नूत्सृज᳘मानस्य॥

मूलम् - श्रीधरादि

(ता᳘) अ᳘थ दीक्षेत॥ तं ना᳘नीजानं पु᳘नः फाल्गुनी᳘ पौर्णमा᳘स्यभिपर्ये᳘यात्पुनःप्रयाग᳘रूप[[!!]] इव ह स य᳘देनम᳘नीजानं पु᳘नः फाल्गुनी᳘ पौर्णमा᳘स्यभिपर्ये᳘यात्त᳘स्मादेनं[[!!]] ना᳘नीजानं पु᳘नः फाल्गुनी᳘ पौर्णमा᳘स्यभिपर्ये᳘यादि᳘ति[[!!]] नूत्सृज᳘मानस्य॥

मूलम् - Weber

अ᳘थ दीक्षेत तं ना᳘नीजानम् 21 पु᳘नः फाल्गुनी᳘ पौर्णमास्य᳘भिपर्ये᳘यात्पुनःप्रयाग᳘रूप इव ह स य᳘देनम᳘नीजानम् पु᳘नः फाल्गुनी᳘ पौर्णमास्य᳘भिपर्ये᳘यात्त᳘स्मादेनं ना᳘नीजानम् पु᳘नः फाल्गुनी᳘ पौर्णमास्य᳘भिपर्ये᳘यादि᳘तिॗ नूत्सृज᳘मानस्य॥

मूलम् - विस्वरम्

अथ दीक्षेत । तं नानीजानं पुनः फाल्गुनी पौर्णमास्याभिपर्येयात् । पुनःप्रयोगरूप इव ह सः- पदेनमनीजानं पुनः फाल्गुनी पौर्णमास्यभिपर्येयात् । तस्मादेनं नानीजानं पुनः फाल्गुनी पौर्णमास्याभिपर्येयात् । इरि नूत्सृजमानस्य ॥ १२ ॥

सायणः

अथ दीक्षेतेति । ‘अथ’ अनन्तरमेव सोमयागार्थं ‘दीक्षेत’ कालविलम्बो न कार्य इत्यर्थः । दैवान्मानुषाद्वा विघ्नाद् विलम्बे ऽपि तस्यावधिमाह- तं नानीजानमिति । इमामेव श्रुतिमभिप्रेत्यापस्तम्बो ऽप्याह- “चातुर्मास्यैरिष्ट्वा सोमेन पशुना वा यजते, फाल्गुन्या उद्दृष्टे सोमाय दीक्षते, तं ततो नानीजानमपरा फाल्गुनी पर्यवेयात्” (आप. श्रौ. सू. ८ । २१ । २-४) इति । तदत्यये दोषमाह- पुनरिति । अनीजानम् ‘एनम्’ यजमानम् ‘पुनः’ फाल्गुनी पौर्णमासी न अतिक्रामेद् इति यत्, स ‘पुनः प्रयोगरूप इव ह’ भवति चातुर्मास्यानां पुनः प्रयोगस्य एतस्मिन् काले कर्त्तव्यत्वात्, तस्य चानाचरितत्वात् पुनः प्रयोगाङ्गभूतो ऽयं कालो भवेदित्यर्थः । प्रतिपादितं प्रतिषेधं निगमयति- तस्मादिति । अयञ्च पक्षो ऽधिकारिविशेषस्यैवेति निगमयति- इति न्विति । द्विविधौ हि चातुर्मास्ययाजिनौ सकृदनुष्ठायोत्सृजमानः पुनःप्रयुञ्जानश्च । तत्र ‘उत्सृजमानस्य’ खलु अयमुक्तः पक्ष इत्यर्थः ॥ १२ ॥

Eggeling
  1. Let him then get consecrated (for the Soma-sacrifice), lest the Phālguna full-moon again pass by without his offering (Soma). For were the Phālguna full-moon again to pass by without his having

offered (Soma), he would certainly have to begin anew (to perform the Seasonal offerings): hence the Phālguna full-moon should not again pass by without his offering Soma. Such (is the rule) for him who discontinues (the Seasonal offerings).

१३

विश्वास-प्रस्तुतिः

(स्या᳘) अ᳘थ पु᳘नः प्रयुञ्जान᳘स्य॥
पूर्व्वेद्युः᳘ फाल्गुन्यै᳘ पौर्णमास्यै᳘ शुनासी᳘र्येण यजेता᳘थ प्रात᳘र्व्वैश्वदेवेना᳘थ पौर्णमासे᳘नैत᳘दु पु᳘नः प्रयुञ्जानस्य॥

मूलम् - श्रीधरादि

(स्या᳘) अ᳘थ पु᳘नः प्रयुञ्जान᳘स्य॥
पूर्व्वेद्युः᳘ फाल्गुन्यै᳘ पौर्णमास्यै᳘ शुनासी᳘र्येण यजेता᳘थ प्रात᳘र्व्वैश्वदेवेना᳘थ पौर्णमासे᳘नैत᳘दु पु᳘नः प्रयुञ्जानस्य॥

मूलम् - Weber

अ᳘थ पु᳘नः प्रयुञ्जान᳘स्य॥
पूर्वेद्युः᳘ फाल्गुन्यै᳘ पौर्णमास्यै᳘ शुनासीॗर्येण यजेता᳘थ प्रातर्वैश्वदेवेना᳘थ पौर्णमासे᳘नैत᳘दु पु᳘नः प्रयुञ्जानस्य॥

मूलम् - विस्वरम्

अथ पुनः प्रयुञ्जानस्य । पूर्वेद्युः फाल्गुन्यै पौर्णमास्यै शुनासीर्येण यजेत- अथ प्रातर्वैश्वदेवेन- अथ पौर्णमासेन एतदु । पुनः प्रयुञ्जानस्य ॥ १३ ॥

सायणः

कस्तर्हि तानि पुनः प्रयुञ्जानस्य 20 पक्ष इति दर्शयति- अथ पुनरिति (आप. श्रौ. सू. ८ । २१ । ६) । चातुर्मास्यानि सकृत् संयुज्य अनन्तरमेव यस्तानि पुनरारभते तस्य पुनरारभमाणस्य ‘फाल्गुन्यै पौर्णमास्यै’ षष्ठ्यर्थे चतुर्थी, तस्याः ‘पूर्वेद्युः’ पूर्वदिवसे चतुर्दश्यां शुनासीर्येण यजेत, ’ ‘अथ’ अनन्तरमेव ‘प्रातः’ काले पौर्णमास्यां वैश्वदेवेन ‘यजेत’ तदनन्तरम् नित्येन पौर्णमासयागेनेत्ययं प्रयोगक्रमः । तदुक्तं कात्यायनेन “फाल्गुन्युपवसथे शुनासीरीयम्, प्रातर्वैश्वदेवम्”- (का. श्रौ. सू. ५ । २९४) । एतदु पुनरिति । प्रतिज्ञातार्थनिगमनम् ॥ १३॥

Eggeling
  1. And in the case of one who recommences (the Seasonal offerings),–let him perform the Śunāsīrya on the day preceding the Phālguna full-moon, and on the following day the Vaiśvadeva, and after that the Full-moon offering. This, then, (is the rule) for him who recommences (the Seasonal offerings).

१४

विश्वास-प्रस्तुतिः

(स्या᳘) अथा᳘तः॥
परिव᳘र्तनस्यैव᳘ सर्व्व᳘तोमुखो वा ऽअ᳘सावादित्य᳘ एष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं नि᳘र्द्धयति य᳘दिदं कि᳘ञ्च शु᳘ष्यति ते᳘नैष᳘ सर्व्व᳘तोमुखस्ते᳘नान्नादः᳘॥

मूलम् - श्रीधरादि

(स्या᳘) अथा᳘तः॥
परिव᳘र्तनस्यैव᳘ सर्व्व᳘तोमुखो वा ऽअ᳘सावादित्य᳘ एष वा᳘ ऽइदᳫँ᳭ स᳘र्व्वं नि᳘र्द्धयति य᳘दिदं कि᳘ञ्च शु᳘ष्यति ते᳘नैष᳘ सर्व्व᳘तोमुखस्ते᳘नान्नादः᳘॥

मूलम् - Weber

अथा᳘तः॥
परिव᳘र्तनस्यैव᳘ सर्व᳘तोमुखो वा अ᳘सावादित्य᳘ एष वा᳘ इदᳫं स᳘र्वं नि᳘र्धयति य᳘दिदं किं᳘ च शु᳘ष्यति ते᳘नैष सर्व᳘तोमुखस्ते᳘नान्नादः᳟॥

मूलम् - विस्वरम्

अथातः परिवर्तनस्यैव | सर्वतोमुखो वा असावादित्यः । एष वा इदं सर्वं निर्द्धयति यदिदं किञ्च शुष्यति । तेनैष सर्वतोमुखः । तेनान्नादः ॥ १४ ॥

सायणः

चातुर्मास्याङ्गभूतं वपनं मीमांस्यते- अथात इत्यादिना । अत इति वक्ष्यमाणार्थपरामर्शः । ‘अतः’ अस्माद्वक्ष्यमाणाद्धेतोः परिवर्त्तनस्य परितः केशश्मश्र्वादीनां वर्त्तनस्य वपनस्य विचारो ऽधिक्रियत इत्यर्थः । एतत् 22 परिवर्तनं विधातुमन्नादत्वेनादित्यमग्निं च स्तौति- सर्वतोमुखो वा असावादित्य इत्यादिना । सर्वतः सर्वासु दिक्षु मुखं रसादानसामर्थ्यं यस्य स तथोक्तः । सर्वतोमुखत्वमुपपादयति- एष वा इति । ‘निर्द्धयति’ रसं निष्कृष्य पिबति । अत एतत् सर्वं घर्मकाले ‘शुष्यति’ शोषणं प्राप्नोति, सर्वं जगद्व्याप्य स्थितस्य सूर्यस्य स्वकिरणेनेत्यर्थः ॥ १४ ॥

Eggeling
  1. Then as to (the Sacrificer) shaving his head all round 23. Now yonder sun, indeed, faces every quarter; it drinks up whatever (moisture) it dries up here: hence this (Sacrificer) thereby faces every quarter and becomes a consumer of food.

१५

विश्वास-प्रस्तुतिः

सर्व्वतोमुखो ऽय᳘मग्निः॥
(र्य᳘) य᳘तो᳘ ह्येव कु᳘तश्चाग्ना᳘वभ्याद᳘धति त᳘त एव प्र᳘दहति ते᳘नैष᳘ सर्व्व᳘तोमुखस्ते᳘नान्नादः॥

मूलम् - श्रीधरादि

सर्व्वतोमुखो ऽय᳘मग्निः॥
(र्य᳘) य᳘तो᳘ ह्येव कु᳘तश्चाग्ना᳘वभ्याद᳘धति त᳘त एव प्र᳘दहति ते᳘नैष᳘ सर्व्व᳘तोमुखस्ते᳘नान्नादः॥

मूलम् - Weber

सर्व᳘तोमुखो ऽय᳘मग्निः॥
य᳘तोॗ ह्येव कु᳘तश्चाग्ना᳘वभ्याद᳘धति त᳘त एव प्र᳘दहति ते᳘नैष᳘ सर्व᳘तोमुखस्ते᳘नान्नादः॥

मूलम् - विस्वरम्

सर्वतोमुखो ऽयमग्निः । यतो ह्येव कृतश्चाग्नावभ्यादधति- तत एव प्रदहति । तेनैष सर्वतोमुखः । तेनान्नादः ॥ १५ ॥

सायणः

सर्वतोमुखो ऽयमग्निरिति । अत्रापि तथैव योजना । यतो ह्येवेति । यतः कुतश्चिदपि दिग्भागादित्यर्थः । ‘अभ्यादधति’ अभिप्रक्षिपति । तत एवेति । तस्मिन्नपि दिग्भागे इत्यर्थः ॥ १५ ॥

Eggeling
  1. This fire also faces every quarter, since it burns all they put into it from whatsoever quarter: hence this (Sacrificer) thereby faces every quarter and becomes a consumer of food.

१६

विश्वास-प्रस्तुतिः

(दो᳘ ऽथा) अ᳘थाय᳘मन्य᳘तोमुखः पु᳘रुषः॥
स᳘ एत᳘त्सर्व्व᳘तोमुखो भ᳘वति य᳘त्परिवर्त᳘यते स᳘ एव᳘मे᳘वान्नादो᳘ भवति य᳘थैता᳘वेतद्य᳘ एवं᳘ विद्वा᳘न्परिवर्त᳘यते त᳘स्माद्वै परिवर्त᳘येत[[!!]]॥

मूलम् - श्रीधरादि

(दो᳘ ऽथा) अ᳘थाय᳘मन्य᳘तोमुखः पु᳘रुषः॥
स᳘ एत᳘त्सर्व्व᳘तोमुखो भ᳘वति य᳘त्परिवर्त᳘यते स᳘ एव᳘मे᳘वान्नादो᳘ भवति य᳘थैता᳘वेतद्य᳘ एवं᳘ विद्वा᳘न्परिवर्त᳘यते त᳘स्माद्वै परिवर्त᳘येत[[!!]]॥

मूलम् - Weber

अ᳘थाय᳘मन्य᳘तोमुखः पु᳘रुषः॥
स᳘ एत᳘त्सर्व᳘तोमुखो भ᳘वति य᳘त्परिवर्त᳘यते स᳘ एव᳘मेॗवान्नादो᳘ भवति य᳘थैता᳘वेतद्य᳘ एवं᳘ विद्वा᳘न्परिवर्तयते त᳘स्माद्वै प᳘रिवर्तयेत॥

मूलम् - विस्वरम्

अथायमन्यतोमुखः पुरुषः । स एतत् सर्वतोमुखो भवति यत् परिवर्तयते । स एवमेवान्नादो भवात- यथैतावेतद्- य एवं विद्वान् परिवर्तयते । तस्माद्वै परिवर्तयेत ॥ १६ ॥

सायणः

एवमग्न्यादित्ययोः सर्वतोमुखत्वेन अन्नादत्वं प्रतिपाद्य पुरुषस्य स्वाभाविकं तद्वैपरीत्यमाह- अथायमिति । ‘अथ’- शब्दस्त्वर्थे । ‘अयं’ तु ‘पुरुषः’ यजमानः ‘अन्यतोमुखः’ । अन्यशब्द एकशब्दपर्यायः । अन्यतः एकत्र स्थितमेव मुखं यस्य स तथोक्तः । तस्य सर्वतोमुखत्वसम्पत्तिमाह- स एतदिति । ‘यद्’ यस्मात् परितः शिरो वर्त्तयते, केशान् वापयति ‘एतत्’ एतेन अलोमकत्वसाम्यात् शिरसः प्रान्तदेशा अपि मुखमिव भवन्तीति स यजमानः सर्वतोमुखो भवति । इत्थं पुरुषस्य सर्वतोमुखत्वं प्रतिपाद्य प्रागुक्तं दृष्टान्तद्वयसिद्धमर्थं दार्ष्टान्तिके योजयति- स एवमेवेति । ‘यथा’ ‘एतौ’ आदित्यो ऽग्निश्च सर्वतोमुखत्वात् अन्नादौ ‘एवमेव’ यजमानो ऽपि ‘अन्नादः’ सर्वतोदिक्तः समत्तुं समर्थो भवति । तस्मादिति, उपपादितस्य परिवर्त्तनस्य विधानम् ॥ १६ ॥

Eggeling
  1. This man, on the other hand, faces but one quarter; but by shaving his head all round he comes to face every quarter; and whosoever, knowing this, has his head shaved all round, becomes just such a consumer of food as those two: let him therefore have his head shaved all round.

१७

विश्वास-प्रस्तुतिः

त᳘दु होवाचा᳘सुरिः॥
किन्नु त᳘त्र मुखस्य यद᳘पि स᳘र्व्वाण्येव लो᳘मानि व्व᳘पेत यद्वै त्रिः᳘ संव्वत्सर᳘स्य य᳘जते ते᳘नैव᳘ सर्व्वतोमुखस्ते᳘नान्नादस्त᳘स्मान्ना᳘द्रियेत प᳘रिवर्तयितुमि᳘ति॥

मूलम् - श्रीधरादि

त᳘दु होवाचा᳘सुरिः॥
किन्नु त᳘त्र मुखस्य यद᳘पि स᳘र्व्वाण्येव लो᳘मानि व्व᳘पेत यद्वै त्रिः᳘ संव्वत्सर᳘स्य य᳘जते ते᳘नैव᳘ सर्व्वतोमुखस्ते᳘नान्नादस्त᳘स्मान्ना᳘द्रियेत प᳘रिवर्तयितुमि᳘ति॥

मूलम् - Weber

त᳘दु होवाचा᳘सुरिः॥
किं नु त᳘त्र मुखस्य यद᳘पि स᳘र्वाण्येव लो᳘मानि व᳘पेत यद्वै त्रिः᳘ संवत्सर᳘स्य य᳘जते ते᳘नैव᳘ सर्व᳘तोमुखस्ते᳘नान्नादस्त᳘स्मान्ना᳘द्रियेत प᳘रिवर्तयितुमि᳘ति॥

मूलम् - विस्वरम्

तदु होवाचासुरिः । किन्नु तत्र मुखस्य । यदपि सर्वाण्येव लोमानि वपेत । यद्वै- त्रिः संवत्सरस्य यजते । तेनैव सर्वतोमुखः, तेनान्नादः । तस्मान्नाद्रियेत परिवर्तयितुमिति ॥ १७ ॥

इति शुनासीरीययागश्चातुर्मास्ये चतुर्थं पर्व ॥

सायणः

प्रकारान्तरेण सर्वतोमुखत्वं प्रतिपादयन् परिवर्त्तनं न कर्तव्यमिति पक्षान्तरमाह- तदु होवाचेति । ‘तत्’ तत्र; तस्मिन् परिवर्तनविषये ‘आसुरिः’ नाम महर्षिः आह स्म । ‘यदपि’ यदि नाम ‘सर्वाण्येव लोमानि’ परितो ‘वपेत,’ तथापि तत्तन्मुण्डिते देशे ‘मुखस्य’ सम्बन्धि किं नामावयवजातं निष्पन्नं भवति ? न ह्यलोमकत्वमात्रेण मुखमिति व्यवहर्तुं शक्यते, किन्तु बहुश्रोत्राद्यवयवमत्तयैव; अतो नैतेन परिवर्त्तनेन सर्वतोमुखत्वं लभ्यत इत्यर्थः । कथं तार्हि सर्वतोमुखत्वं पुरुषस्य ? तत्राह- त्रिः संवत्सरस्येति । ‘संवत्सरस्य’ मध्ये वैश्वदेवादिभेदेन ‘त्रिः यजते,’ ‘तेनैव’ अयं यजमानः ‘सर्वतोमुखः;’ कृत्स्नस्य संवत्सरस्य यागेन प्राप्तत्वात् । तेनैवेति । अन्नादहेतुभूतं सर्वतोमुखत्वं प्रकारान्तरेणैव सिध्यति । तस्मादिति । ‘तस्मात्’ परिवर्त्तनं ‘न आद्रियेत’ इत्यासुरेर्मतस्य निगमनम् ॥ १७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे षष्ठाध्यायस्य तृतीयं ब्राह्मणम् ॥ ३ ॥

Eggeling
  1. And on this point Āsuri said, ‘What in the world has it to do with his face, even if he were to shave off all the hair of his head! It is by offering

thrice in the year that he comes to face all the quarters and becomes a consumer of food: let him therefore not trouble himself about shaving his head.’


  1. शुनासरियिमतः । का. श्रौ. सू ५।२७७ । यदेच्छेत् । का. श्रौ. सू. ५ । २७८ । ↩︎

  2. श्रीरा᳘सीशाकमे A. ↩︎

  3. 444:2 The author identifies sīra (plough) with sāra, ’essence, sap;’ and takes śuna, ploughshare (?), as identical with śunam, ‘successfully, prosperously.’ See next page, note 3. ↩︎

  4. पीर्णमासधर्म्मा बर्हिर्व्वर्जम् । का. श्रौ. सू. ५। २७९ । ↩︎

  5. 445:1 But see XI, 5, 2, 8, ‘At all four of these (Cāturmāsya offerings) they churn the fire.’ On account of this contradiction, the commentators, on Kāty. V, 11, 3, consider the churning of the fire as optional. But, if the fires were produced by ‘churning,’ nine fore-offerings and after-offerings would have to be performed, as at the other Seasonal sacrifices, which is expressly forbidden in the above passage. According to Kāty. himself, the Śunāsīrya is to be treated like an ordinary ishṭi, except that the barhis is to be tied together in the way prescribed for the Seasonal offerings; see II, 5, 1, 18. ↩︎

  6. तै᳘र्व्येव᳘ A. ↩︎

  7. तै᳘र्व्येव᳘ A. ↩︎

  8. 445:2 See II, 5, 1, 8-11. ↩︎

  9. “शुनासीरौ शुनो वायुः शु इत्यन्तरिक्षे; सीर आदित्यः, सरणात्” इति निरु० ९ । ४ । ६ । ↩︎ ↩︎

  10. “नित्येभ्यो ऽधिकानि शुनासीराभ्यां द्वादशकपालः । का. श्रौ. सू. ५ । २८० । ↩︎

  11. 445:3 That is, according to Kāty. V, II, 5, to Śuna and Sīra,–probably the ploughshare and plough, considered as two tutelary deities of agricultural pursuits (Rig-veda IV, 57, 5-8); but by Yāska identified with Vāyu and Āditya;–or, according to Taitt. S. I, 8, 7, I, Taitt. Br. I, 7, 1, 1, to Indra Śunāsīra (i.e. Indra, accompanied by Śuna and Sīra, Sāy.). ↩︎

  12. विजिग्यानमेनं Sây. ↩︎

  13. 446:1 According to Kāty. V, II, 6-to, the milk, in this case, is to be offered quite fresh (and warm) from the cow, without having been put on the fire. Rice-gruel may, however, be offered instead. ↩︎

  14. त᳘स्माशौर्य A. ↩︎

  15. “सौर्य एककपालः ।” का. श्रौ. सू. ५ । २८७ । ↩︎

  16. 446:2 Or, ’now by good, now by bad (means).’ ↩︎

  17. “श्वेतो ऽश्वः सौर्यस्य । अभावे गौः ।” का. श्रौ. सू. ५ । २९०-२९१ । ↩︎

  18. 447:1 According to Taitt. S. I, 8, 7, Taitt. Br. I, 7, 1, 2, the Dakshiṇā consists of a plough yoked with twelve oxen. ↩︎

  19. 447:2 That is to say, he may perform the Śunāsīrya, either immediately after the Sākamedhāḥ, or at any time within four months after that sacrifice (comm. on Kāty. V, 11, 3). Our author, however, evidently favours the views set forth in the succeeding paragraphs. According to these, the householder who wishes to discontinue the Seasonal offerings after the first round, and to become a Soma-sacrificer, is to perform the Śunāsīrya on the first day of the waxing moon of Phālguna, and then to undergo the dīkshā, or rite of consecration for the Soma-sacrifice (see III, 1, 2, 1 seq.), either immediately or before the approaching full-moon, when he is to perform the Agnishṭoma (or an animal offering to Agni and Soma or an Āgneyī ishṭi, Kāty. V, 11, 15). If, on the other hand, he intends to continue the Cāturmāsyas for another year (or more), he is to perform the Śunāsīrya on the upavasatha, or day preceding the full-moon. ↩︎

  20. संवत्सरेप्सोः फाल्गुन्युद्दृष्ठे शुनासीरीयेणेष्ट्या सोमेन पशुनेष्ट्या वा यजेत पोर्णमास्याम् । का. श्रौ. सू. ५ । २९२ । ↩︎ ↩︎

  21. तन्ना᳘नी and स्मादेतन्ना᳘नी A. ↩︎

  22. हृदयशूलांते व्यापनम् । का. श्रौ. सू. ५ । ३०२ । हृदयशूलसमिदाधानान्ते इति याज्ञिकदेवः । ↩︎

  23. 448:1 ‘Parivartayate’ (’nivartayate,’ Kāṇva), lit. ‘he causes himself to be turned round,’ is the technical expression for having one’s head shaved all round (the śikhā, or lock of hair on the crown of the head). ↩︎