०१

विश्वास-प्रस्तुतिः

महाहवि᳘षा ह वै᳘ देवा᳘ व्वृत्रं᳘ जघ्नुः॥
(स्ते᳘) ते᳘नो ऽएव᳘ व्यजयन्त᳘[[!!]] येयमेषां व्वि᳘जितिस्ताम᳘थ या᳘ने᳘वैषां त᳘स्मिन्त्सङ्ग्रामे᳘ ऽघ्नंस्ता᳘न्पितृयज्ञे᳘न स᳘मैरयन्त पित᳘रो वै त᳘ ऽआसंस्त᳘स्मात्पितृयज्ञो᳘ ना᳘म॥

मूलम् - श्रीधरादि

महाहवि᳘षा ह वै᳘ देवा᳘ व्वृत्रं᳘ जघ्नुः॥
(स्ते᳘) ते᳘नो ऽएव᳘ व्यजयन्त᳘[[!!]] येयमेषां व्वि᳘जितिस्ताम᳘थ या᳘ने᳘वैषां त᳘स्मिन्त्सङ्ग्रामे᳘ ऽघ्नंस्ता᳘न्पितृयज्ञे᳘न स᳘मैरयन्त पित᳘रो वै त᳘ ऽआसंस्त᳘स्मात्पितृयज्ञो᳘ ना᳘म॥

मूलम् - Weber

महाहविषा᳘ ह वै᳘ देवा᳘ वृत्रं᳘ जघ्नुः॥
ते᳘नो 1 एव व्य᳘जयन्तॗ येयमेषां वि᳘जितिस्ताम᳘थ या᳘नेॗवैषां तस्मिन्त्संग्रामे᳘ ऽघ्नम्स्ता᳘न्पितृयज्ञे᳘न स᳘मैरयन्त पित᳘रो वै त᳘ आसंस्त᳘स्मात्पितृयज्ञो ना᳘म॥

मूलम् - विस्वरम्

अथ पितृयज्ञः ।

महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त- येयमेषां विजितिः- ताम् । अथ यानेवैषां तस्मिन् सङ्ग्रामे ऽघ्नन्, तान् पितृयज्ञेन समैरयन्त । पितरो वै त आसन- तस्मात् पितृयज्ञो नाम ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पिण्डपितृयज्ञं विधित्सुः पितॄणामुत्पत्तिमाह- महाहविषा ह वा इत्यादि । येयमेषां विजितिरिति । व्यजयन्तेति सम्बन्धः । अथ यानित्यादि । ‘तस्मिन्’ वृत्रासुरयुद्धे ‘एषां’ देवानां मध्ये ‘यान्’ ‘एव’ असुराः ‘अघ्नन्’ अमारयन्, ‘तान्’ हतान् देवान् पितृयज्ञाख्येन वक्ष्यमाणेन कर्मणा ‘समैरयन्त’ समागच्छन्त । ते मृताः पितृदेवता एव अभवन् । पितॄनुद्दिश्य क्रियमाणत्वात् ‘पितृयज्ञः’ इति अन्वर्थेयं संज्ञेत्याह- तस्मादिति ॥ १ ॥

Eggeling
  1. Verily, by means of the Great Oblation the gods slew Vr̥tra, and gained that supreme authority which they now wield. And by means of the sacrifice to the fathers they then recalled to life those of them that had been slain in this battle; and they, indeed, were the fathers: hence the name Pitr̥yajña 2 (sacrifice to the Manes).

०२

विश्वास-प्रस्तुतिः

त᳘द्वसन्तो᳘ ग्रीष्मो᳘ व्वर्षाः᳘॥
(ऽ) एते ते ये व्य᳘जयन्त शर᳘द्धेमन्तः शि᳘शिरस्त᳘ ऽउ ते यान्पुनः[[!!]] समै᳘रयन्त॥

मूलम् - श्रीधरादि

त᳘द्वसन्तो᳘ ग्रीष्मो᳘ व्वर्षाः᳘॥
(ऽ) एते ते ये व्य᳘जयन्त शर᳘द्धेमन्तः शि᳘शिरस्त᳘ ऽउ ते यान्पुनः[[!!]] समै᳘रयन्त॥

मूलम् - Weber

त᳘द्वसन्तो᳘ ग्रीष्मो᳘ वर्षाः᳟॥
एते ते ये व्य᳘जयन्त शर᳘द्धेमन्तः शि᳘शिरस्त᳘ उ ते यान्पु᳘नः समै᳘रयन्त॥

मूलम् - विस्वरम्

तद्वसन्तो, ग्रीष्मो, वर्षाः । एते ते- ये व्यजयन्त । शरद्धेमन्तः शिशिरः । त उ ते- यान्पुनः समैरयन्त ॥ २ ॥

सायणः

तद्वसन्त इत्यादि । ‘तत्’ तत्र ‘ये’ देवाः ‘व्यजयन्त’ विजयमेव प्राप्ताः, न पुनरसुरेण हताः ‘ते’ वसन्ताद्यृतुत्रयात्मकाः ‘यान्’ हतवन्तः, ‘ते’ पितृयज्ञेन ‘समैरयन्त’ समगच्छन्, ‘ते’ एव शरदाद्यास्त्रय ऋतवः एतेषामनुरूपत्वप्रतिपादनम् उपरिष्टात् “ऋतवः पितरः”- इति करिष्यमाणस्तुत्योपोद्धातत्वेन ॥ २ ॥

Eggeling
  1. Now the spring, the summer, and the rainy season,–they are those who vanquished (Vr̥tra); and the autumn, the winter, and the dewy season,–they are those whom they (the gods) recalled to life 3.

०३

विश्वास-प्रस्तुतिः

(न्ता᳘) अ᳘थ य᳘देष᳘ ऽएते᳘न य᳘जते॥
तन्ना᳘ह᳘ न्वे᳘वैत᳘स्य त᳘था कं᳘चन घ्नन्ती᳘ति देवा᳘ ऽअकुर्व्वन्नि᳘ति᳘ न्वे᳘वैष᳘ ऽएत᳘त्करोति य᳘मु चै᳘वैभ्यो देवा᳘ भागम᳘कल्पयंस्त᳘मु चै᳘वैभ्य ऽएष᳘ ऽएत᳘द्भागं᳘ करोति या᳘नु चैव᳘ देवाः᳘ समै᳘रयन्त ता᳘नु चै᳘वैत᳘दवति स्वा᳘नु चै᳘वैत᳘त्पितॄञ्छ्रे᳘याᳫँ᳭सं लोक᳘मुपो᳘न्नयति य᳘दु चै᳘वास्या᳘त्रात्मनो᳘ ऽचरणेन हन्य᳘ते वा मीय᳘ते वा त᳘दु चै᳘वास्यैते᳘न पु᳘नरा᳘प्यायते त᳘स्माद्वा᳘ ऽएष᳘ ऽएते᳘न यजते॥

मूलम् - श्रीधरादि

(न्ता᳘) अ᳘थ य᳘देष᳘ ऽएते᳘न य᳘जते॥
तन्ना᳘ह᳘ न्वे᳘वैत᳘स्य त᳘था कं᳘चन घ्नन्ती᳘ति देवा᳘ ऽअकुर्व्वन्नि᳘ति᳘ न्वे᳘वैष᳘ ऽएत᳘त्करोति य᳘मु चै᳘वैभ्यो देवा᳘ भागम᳘कल्पयंस्त᳘मु चै᳘वैभ्य ऽएष᳘ ऽएत᳘द्भागं᳘ करोति या᳘नु चैव᳘ देवाः᳘ समै᳘रयन्त ता᳘नु चै᳘वैत᳘दवति स्वा᳘नु चै᳘वैत᳘त्पितॄञ्छ्रे᳘याᳫँ᳭सं लोक᳘मुपो᳘न्नयति य᳘दु चै᳘वास्या᳘त्रात्मनो᳘ ऽचरणेन हन्य᳘ते वा मीय᳘ते वा त᳘दु चै᳘वास्यैते᳘न पु᳘नरा᳘प्यायते त᳘स्माद्वा᳘ ऽएष᳘ ऽएते᳘न यजते॥

मूलम् - Weber

अ᳘थ य᳘देष एते᳘न य᳘जते॥
तन्ना᳘हॗ न्वेॗवैत᳘स्य त᳘था कं᳘ चन घ्नन्ती᳘ति देवा᳘ अकुर्वन्नि᳘तिॗ न्वेॗवैष᳘ 4 एत᳘त्करोति य᳘मु चैॗवैभ्यो देवा᳘ भागम᳘कल्पयंस्त᳘मु चैॗवैभ्य एष᳘ एत᳘द्भागं᳘ करोति या᳘नु चैव᳘ देवाः᳘ समै᳘रयन्त ता᳘नु चैॗवैत᳘दवति स्वा᳘नु चैॗवैत᳘त्पितॄंछ्रे᳘यांस लोक᳘मुपो᳘न्नयति य᳘दु चैॗवास्या᳘त्रात्मनो᳘ ऽचरणेन 5 हन्य᳘ते वा मीय᳘ते 6 वा त᳘दु चैॗवास्यैते᳘न पु᳘नरा᳘प्यायते त᳘स्माद्वा᳘ एष᳘ एते᳘न यजते॥

मूलम् - विस्वरम्

अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कंचन घ्नन्तीति देवा अकुर्वन् । इति न्वेवैष एतत् करोति- यमु चैवैभ्यो देवा भागमकल्पयन् । तमु चैवैभ्य एश एतद्भागं करोति । यानु चैव देवाः समैरयन्त- तानु चैवैतदवति । स्वानु चैवैतत् पितॄञ्छ्रेयांसं लोकमुपोन्नयति । यदु चैवास्यात्रात्मनो ऽनुचरणेन हन्यते वा मीयते वा, तदु चैवास्यैतेन पुनराप्यायते । तस्माद्वा एष एतेन यजते ॥ ३ ॥

सायणः

इदानीन्तनानुष्ठानस्यापि उक्तफलसाधनत्वमाह- अथ यदिति । ‘अथ’ इदानीमपि ‘एष’ यजमानः ‘एतेन’ पितृयज्ञेन ‘यजते’ इति ‘यत्’ ‘तत्’ तस्मात् । ‘अह’ ‘नु’ ‘एव’ इति त्रयो निपाताः । ‘एतस्य’ यजमानस्य सम्बन्धिनं ‘कञ्चनः’ ‘चन’-शब्दो ऽप्यर्थे, कमपि पुरुषं ‘न’ एव ‘घ्नन्ति’ असुरादयो न मारयन्ति । तत्र कृतानुकरत्वे हेतुमाह- इति देवा इति । इत्थं ‘देवाः’ पुरा ‘अकुर्वन्’ पितृयज्ञाख्यं कर्म । ‘नु’ शब्दोप्यर्थे । एष यजमानो ऽपि इत्येवमेव एतत्पितृयज्ञाख्यं कर्म करोति । देवैर्येन प्रकारेणानुष्ठितम्, तेनैव प्रकारेणानुतिष्ठति, न स्वातन्त्र्येण किञ्चित् करोतीत्यर्थः । तदेव द्रव्यदेवतासाम्यं प्रतिपादयन्विवृणोति- यमु चैवैभ्य इत्यादिना । ‘एभ्यः’ पितृभ्यो ‘यम्’ एव पुरोडाशधानादिरूपम् ‘भागं’ ‘देवाः’ ‘अकल्पयन्’, ‘एतत्’ एतर्हि ‘एषः’ यजमानो ऽपि ‘तम्’ एव भागम् ‘एभ्यः’ ‘करोति’ । तथा देवाः पुरा असुरहतान् पितृभावं प्राप्तान् ‘यान्’ एव ‘समैरयन्त’ समागच्छन्, ‘तान्’ एव पितृत्वं प्राप्तान् देवान् ‘एतद्’ यजमानः ‘अवति’ हविषा तर्पयति । अवतिरत्र तृप्त्यर्थः (धा. पा. भ्वा. प. ६०१) । तेन च पितृदेवतातर्पणेन ‘स्वान्’ स्वकीयानेव ‘पितॄन्’ पितृपितामहाद्यान् ‘श्रेयांसम्’ प्रशस्यतमं ‘लोकम्’ ‘उपोन्नयति’ उपप्रापयति अपिच ‘अत्र’ अस्मिन् कर्म्मणि ‘अस्य’ यजमानस्य ‘आत्मनः’ स्वस्य ‘अनुचरणेन’ अनुगमनेन च यदेव प्राणिजातं ‘हन्यते’, ‘मीयते’ ताड्यते । यद्वा ‘मीयते’ 7 “मीङ् हिंसायाम्”- इति धातुः (धा. पा. दि. आ. ३१) । ‘एतेन’ पितृयज्ञेन अस्य तदेव पुनराप्यायते, पुनः प्रवृद्धं भवतीति । तस्मादिति । पितृयज्ञस्य विधिः । यस्मात् उदीरितफलहेतुः पितृयज्ञः, तस्मादेनेन यष्टव्यमित्यर्थः 8 । ‘यजते’- इति पञ्चमलकारो न वर्त्तमानोपदेशः 8 ॥ ३ ॥

Eggeling
  1. Now when he performs that sacrifice, he does so, hoping that thus they (the Asuras) will not slay any of his, or because the gods did so (perform it). Moreover he thereby offers to those (fathers) the share which the gods assigned to them; and thus he gratifies those whom the gods recalled to life, and leads his own fathers up to a better world; and whatever injury or loss he suffers through his own unrighteous conduct (or wrong sacrificial performance) 9 that is thereby made good to him: that is why he performs this sacrifice (to the fathers).

०४

विश्वास-प्रस्तुतिः

स᳘ पितृ᳘भ्यः सो᳘मवद्भ्यः॥
ष᳘ट्कपालं पुरोडा᳘शं नि᳘र्व्वपति सो᳘माय वा पितृम᳘ते षड्वा᳘ ऽऋत᳘व ऽऋत᳘वः पित᳘रस्त᳘स्मात्ष᳘ट्कपालो भवति॥

मूलम् - श्रीधरादि

स᳘ पितृ᳘भ्यः सो᳘मवद्भ्यः॥
ष᳘ट्कपालं पुरोडा᳘शं नि᳘र्व्वपति सो᳘माय वा पितृम᳘ते षड्वा᳘ ऽऋत᳘व ऽऋत᳘वः पित᳘रस्त᳘स्मात्ष᳘ट्कपालो भवति॥

मूलम् - Weber

स᳘ पितृ᳘भ्यः सो᳘मवद्भ्यः॥
ष᳘ट्कपाल पुरोडा᳘श नि᳘वपति सो᳘माय वा पितृम᳘ते षड्वा᳘ ऋत᳘व ऋत᳘वः पित᳘रस्त᳘स्मात्ष᳘ट्कपालो भवति॥

मूलम् - विस्वरम्

स पितृभ्यः सोमवद्भ्यः (१) षट्कपालं पुरोडाशं (१) निर्वपति, सोमाय (१) वा पितृमते । षड् वा ऋतवः, ऋतवः पितरः- तस्मात् षट्कपालो भवति ॥ ४ ॥

सायणः

तत्र प्रथमं हविर्विधत्ते- स पितृभ्य इति । सोम एषामस्तीति सोमवन्तः कृतसोमयागाः । एतद्विशेषयागविशिष्टेभ्यः ‘पितृभ्यः’ षट्सु कपालेषु संस्कृतं ‘पुरोडाशं’ ‘सः’ यजमानः निर्वपेत् । देवताविकल्पमाह- सोमाय वेति । सोमाय पितृमते वा निर्वापः कर्त्तव्यः । तदुक्तं कात्यायनेनापि- “पितृभ्यः सोमवद्भ्यः षट्कपालः, सोमाय वा पितृमते”- (का. श्रौ. सू. ५ अ. १९७- १९८) इति । इमं देवताविकल्पमाश्वलायनो ऽप्याह स्म- “पितरः सोमवन्तः सोमो वा पितृमान्”- इति (आ. श्रौ. सू. २ । १९-२१) । कपालसङ्ख्यां प्रशंसति- षड्वा इति । ऋतवः पितर इति । शरद्धेमन्तशिशिराः, त एते यत् पुनः समैरयन्तेत्याम्नातत्वात् तत् पितॄणामृतुतादात्म्यम् । यद्वा “यस्मिन् वा ऋतौ पुरुषः प्रमीयते, सो ऽस्यामुष्मिंल्लोके भवति”- इति श्रुत्यत्यन्तरेण प्रसिद्धेः 7 (तै. ब्रा. १ । ६ । ८ । ३) वसन्ताद्यृत्वात्मकाः पितरः ॥ ४ ॥

Eggeling
  1. He offers a cake on six potsherds to the Pitaraḥ Somavantaḥ, or to Soma Pitr̥mat 10. Six doubtless are the seasons, and the fathers are the seasons: hence it is one of six potsherds.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पितृ᳘भ्यो बर्हिष᳘द्भ्यः॥
(द्भ्यो ऽन्वा) अन्वाहार्यप᳘चने धानाः᳘ कुर्व्वन्ति त᳘तो ऽर्धाः᳘ पिᳫँ᳭ष᳘न्त्यर्धा ऽइ᳘त्येव᳘ धाना ऽअ᳘पिष्टा भवन्ति ता᳘ धानाः᳘ पितृ᳘भ्यो बर्हिषद्भ्यः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पितृ᳘भ्यो बर्हिष᳘द्भ्यः॥
(द्भ्यो ऽन्वा) अन्वाहार्यप᳘चने धानाः᳘ कुर्व्वन्ति त᳘तो ऽर्धाः᳘ पिᳫँ᳭ष᳘न्त्यर्धा ऽइ᳘त्येव᳘ धाना ऽअ᳘पिष्टा भवन्ति ता᳘ धानाः᳘ पितृ᳘भ्यो बर्हिषद्भ्यः॥

मूलम् - Weber

अ᳘थ पितृ᳘भ्यो बर्हिष᳘द्भ्यः॥
अन्वाहार्यप᳘चने धानाः᳘ कुर्वन्ति त᳘तो ऽर्धाः᳘ पिंष᳘न्त्यर्धा इ᳘त्येव᳘ धाना अ᳘पिष्टा भवन्ति ता᳘ धानाः᳘ पितृ᳘भ्यो बर्हिषद्भ्यः॥

मूलम् - विस्वरम्

अथ पितृभ्यो बर्हिषद्भ्यः (२) अन्वाहार्यपचने धानाः कुर्वन्ति । ततो ऽर्धाः पिंषन्ति, अर्धा इत्येव धाना अपिष्टा भवन्ति । ता धानाः (२) पितृभ्यो बर्हिषद्भ्यः ॥ ५ ॥

सायणः

द्वितीयं हविर्विधत्ते- अथ पितृभ्यो बर्हिषद्भ्य इति । बर्हिषि सीदन्तीति बर्हिषदो ऽकृतसोमयागाः, केवलहविर्यज्ञयाजिनः पितरः । पृषोदरादित्वात् वर्णलोपः (पा. सू. ६. ३. १०९) । एतद्गुणविशिष्टेभ्यः पितृभ्यो धानारूपं हविः कर्त्तव्यमिति शेषः 11 । तत्करणप्रकारमाह- अन्वाहार्यपचन इति । भृष्टयवतण्डुला धानाः, तदर्थं दक्षिणाग्नौ भर्जनकपालमधिश्रित्य, तत्र तत्तण्डुलानोप्य भर्जनं कुर्यादित्यर्थः । ततो भर्जनानन्तरं ता धाना द्वेधा विभज्य, अर्द्धाः प्रकृतिवत् समन्त्रक ‘पिंषन्ति’ चूर्णयन्ति । “पिष्लृ सञ्चूर्णने”- (धा. पा. रु. प. १५) इति धातुः । ‘अर्द्धा इत्येव’ एवमेवापरा अर्द्धा ‘धानाः’ ‘अपिष्टाः’ पेषणरहिता अधिकृता भवन्ति । ‘ताः’ अपिष्टा धानाः ‘पितृभ्यो बर्हिषद्भ्यः’ देयाः 12 ॥ ५ ॥

Eggeling
  1. Thereupon they parch barley-grain on the Anvāhāryapacana (or Dakshiṇāgni) for the Pitaro Barhishadaḥ 13. They then grind one half of it; and (the other) half remains thus unground,–this is the parched grain for the Barhis-seated fathers.

०६

विश्वास-प्रस्तुतिः

(द्भ्यो᳘ ऽ) अ᳘थ पितृ᳘भ्यो ऽग्निष्वात्तेभ्यः॥
(भ्यो) निवा᳘न्यायै दुग्धे᳘ सकृदुपमथित᳘ ऽएकशलाक᳘या मन्थो᳘ भवति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदुपमथितो᳘ भवत्येता᳘नि हवीᳫं᳘षि भवन्ति॥

मूलम् - श्रीधरादि

(द्भ्यो᳘ ऽ) अ᳘थ पितृ᳘भ्यो ऽग्निष्वात्तेभ्यः॥
(भ्यो) निवा᳘न्यायै दुग्धे᳘ सकृदुपमथित᳘ ऽएकशलाक᳘या मन्थो᳘ भवति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदुपमथितो᳘ भवत्येता᳘नि हवीᳫं᳘षि भवन्ति॥

मूलम् - Weber

अ᳘थ पितृ᳘भ्यो ऽग्निष्वात्तेभ्यः॥
निवा᳘न्यायै दुग्धे᳘ सकृदुपमथित᳘ एकशलाक᳘या मन्थो᳘ भवति सकृ᳘दुॗ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदुपमथितो᳘ भवत्येता᳘नि हवीं᳘षि भवन्ति॥

मूलम् - विस्वरम्

अथ पितृभ्यो ऽग्निष्वात्तेभ्यः (३) निवान्यायै दुग्धे सकृदुपमथित एकशलाकया मन्थो (३) भवति । सकृदु ह्येव । पराञ्चः पितरः । तस्मात् सकृदुपमथितो भवति । एतानि हवींषि भवन्ति ॥ ६ ॥

सायणः

अथ तृतीयं यागं विधत्ते- अथ पितृभ्यो ऽग्निष्वात्तेभ्य इति 11 । आधानसंस्काराभावेन त्रेताग्न्यभावात् केवलमौपासनाग्निनैवास्वाद्यमानाः पितरो ऽग्निष्वात्ताः । एतद्गुणविशिष्टेभ्यः पितृभ्यः । ‘निवान्यायै’ स्वयं नष्टवत्सा अन्यदीयेन ‘वत्सेन’ दुह्यमाना गौः ‘निवान्या’ । षष्ठ्यर्थे चतुर्थी । तस्याः पयसि प्रक्षिप्तो मथितो धानाचूर्णः ‘एकशलाकया’ एका चासौ शलाका च, “पूर्वकालैकसर्व०” (पा. सू. २. १. ४९ ।) इत्यादिना समासः । एकयैव शलाकया ‘सकृत्’ एकवारम् ‘उपमथितः’ आलोडितो हविः ‘मन्थौ-भवति’ इत्यर्थः । उपमथनस्य सकृत्त्वं प्रशंसति- सकृदु ह्येवेति । एकवारमेव हि अध्वर्युस्तस्माद् गार्हपत्यापरदेशादुत्थाय अन्वाहार्यपचनस्यादूरेणोत्तरप्रदेशे मन्थमुपमथ्नाति । पराञ्च इति । परागता अपुनरावृत्ताः सन्तः पितरो भवन्ति, अतस्तेषां सकृत्त्वमसाधारणधर्म इति तद्धविःसंस्कारस्यापि सकृत्त्वमुचितमिति भावः । विहितानि त्रीणि हवींषि सम्भूय निगमयति- एतानीति ॥ ६ ॥

Eggeling
  1. Then a porridge is (prepared) for the Pitaro ’gnishvāttāḥ 14 (by the ground half of the parched grain) being mixed with the milk of a cow suckling an adopted calf, by stirring it once with a single splinter. It is indeed once for all that the fathers have departed, and hence is stirred but once. These are the oblations.

०७

विश्वास-प्रस्तुतिः

तद्ये सो᳘मेनेजानाः॥
(स्ते᳘) ते᳘ पित᳘रः सो᳘मवन्तो᳘ ऽथ ये᳘ दत्ते᳘न पक्वे᳘न लोकं ज᳘यन्ति ते᳘ पित᳘रो बर्हिष᳘दो[[!!]] ऽथ ये त᳘तो᳘ नान्यतर᳘च्चन या᳘नग्नि᳘रेव द᳘हन्त्स्वद᳘यति ते᳘ पित᳘रो ऽग्निष्वात्ता᳘ एत᳘ ऽउ ये᳘ पित᳘रः॥

मूलम् - श्रीधरादि

तद्ये सो᳘मेनेजानाः॥
(स्ते᳘) ते᳘ पित᳘रः सो᳘मवन्तो᳘ ऽथ ये᳘ दत्ते᳘न पक्वे᳘न लोकं ज᳘यन्ति ते᳘ पित᳘रो बर्हिष᳘दो[[!!]] ऽथ ये त᳘तो᳘ नान्यतर᳘च्चन या᳘नग्नि᳘रेव द᳘हन्त्स्वद᳘यति ते᳘ पित᳘रो ऽग्निष्वात्ता᳘ एत᳘ ऽउ ये᳘ पित᳘रः॥

मूलम् - Weber

तद्ये सो᳘मेनेजानाः॥
ते᳘ पित᳘रः सो᳘मवन्तो᳘ ऽथ ये᳘ दत्ते᳘न पक्वे᳘न लोकं ज᳘यन्ति ते᳘ पित᳘रो बर्हिषदो᳘ ऽथ ये त᳘तोॗ नान्यतर᳘च्चन या᳘नग्नि᳘रेव द᳘हन्त्स्वद᳘यति ते᳘ पित᳘रो ऽग्निष्वात्ता᳘ एत᳘ उ ये᳘ पित᳘रः॥

मूलम् - विस्वरम्

तद्ये सोमेनेजानाः- ते पितरः सोमवन्तः । अथ ये दत्तेन पक्वेन लोकं जयन्ति- ते पितरो बर्हिषदः । अथ ये ततो नान्यतरच्चन, यानग्निरेव दहन्त्स्वदयति ते पितरो ऽग्निष्वात्ताः एत उ ते ये पितरः ॥ ७ ॥

सायणः

एतेषां हविषां या देवताः “पितृभ्यः सोमवद्भ्यः"- इत्यादिना निर्द्दिष्टाः तासां स्वरूपं परस्परासङ्कीर्णमिति निर्ब्रूते- तद्य इति ‘तत्’ तत्र ‘सोमेनेजानाः’ सोमेनेष्टवन्तः पञ्चत्वं प्राप्ताः ‘ते पितरः’ ‘सोमवन्तः’ इत्युच्यन्ते । ‘अथ’ शब्दस्त्वर्थः ‘ये’ तु ‘पक्वेन’ पाकसंस्कारसंस्कृतेन, चरुपुरोडाशादिहविषा देवेभ्यो दत्तेन केवलं हविर्यज्ञयाजिन 15 एव सन्तो ‘लोकं जयन्ति’, ‘ते पितरः’ ‘बर्हिषदः’ इत्याख्यायन्ते । ‘ये’ पुनः ‘ततः’ तयोर्मध्ये ‘अन्यतरत्’ अपि ‘न’ प्राप्नुवन्ति, केवलमौपासनाग्निरेव ‘दहन्’ शरीरान्ते ‘स्वदयति’ आस्वादयति, भक्षयतीत्यर्थः । ते पितरः ‘अग्निष्वात्ताः’ इत्युच्यन्ते । एत उ इति । ये पितर इति । पितृदेवतात्वेन प्रसिद्धाः एते सोमवदादय एव ते । नान्य इत्यर्थः । तैत्तिरीयके ऽप्याम्नातम्- “ये वै यज्वानः, ते पितरो बर्हिषदः ०-० ये वा अयज्वानो गृहमेधिनः ते पितरो ऽग्निष्वाप्ताः”- इति (तै. ब्रा. १. ६. ९ । ६) ॥ ७ ॥

Eggeling
  1. Now those (fathers) who have sacrificed with Soma are the Pitaraḥ Somavantaḥ; and those who gain the world (of the gods) by means of cooked (sacrificial food) offered by them are the Pitaro Barhishadaḥ; and they who (have offered) neither the one nor the other, and whom Agni consumes by burning, they are the Pitaro ’gnishvāttāḥ. These, then, are the fathers 16.

०८

विश्वास-प्रस्तुतिः

स᳘ जघ᳘नेन गा᳘र्हपत्यम्॥
प्राचीनावीती᳘ भूत्वा᳘ दक्षिणा᳘ ऽऽसीन एतᳫँ᳭ षट्कपालं पुरोडा᳘शं गृह्णाति स त᳘त ए᳘वोपोत्थायो᳘त्तरेणान्वाहार्यप᳘चनं दक्षिणा ति᳘ष्ठन्न᳘वहन्ति सकृ᳘त्फली᳘करोति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृ᳘त्फली᳘करोति॥

मूलम् - श्रीधरादि

स᳘ जघ᳘नेन गा᳘र्हपत्यम्॥
प्राचीनावीती᳘ भूत्वा᳘ दक्षिणा᳘ ऽऽसीन एतᳫँ᳭ षट्कपालं पुरोडा᳘शं गृह्णाति स त᳘त ए᳘वोपोत्थायो᳘त्तरेणान्वाहार्यप᳘चनं दक्षिणा ति᳘ष्ठन्न᳘वहन्ति सकृ᳘त्फली᳘करोति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृ᳘त्फली᳘करोति॥

मूलम् - Weber

स᳘ जघ᳘नेन गा᳘र्हपत्यम्॥
प्राचीनावीती᳘ भूत्वा᳘ दक्षिणा᳘सीन एतं ष᳘ट्कपालम् पुरोडा᳘शं गृह्णाति स त᳘त एॗवोपोत्थायो᳘त्तरेणान्वाहार्यप᳘चनं दक्षिणा ति᳘ष्ठन्न᳘वहन्ति सकृ᳘त्फली᳘करोति सकृ᳘दुॗ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृ᳘त्फलीकरोति॥

मूलम् - विस्वरम्

स जघनेन गार्हपत्यं प्राचीनावीती भूत्वा दक्षिणा ऽऽसीन एतं षट्कपालं पुरोडाशं गृह्णाति । स तत एवोपोत्थायोत्तरेणान्वाहार्यवचनं दक्षिणा तिष्ठन्नवहन्ति । सकृत्फलीकरोति । सकृदु ह्येव पराञ्चः पितरः । तस्मात्सकृत्फलीकरोति ॥ ८ ॥

सायणः

पितृयज्ञप्रयुक्तं विशेषं वक्तुं चोदकप्राप्तमङ्गकलापमनुक्रामति- स जघनेनेत्यादिना । दक्षिणामुखत्वं प्राचीनावीतित्वं च हविर्ग्रहणे विशेष इत्यर्थः । स तत एवेत्यादि । ‘सः’ अध्वर्युः तस्माद् गार्हपत्यापरदेशादुत्थाय अन्वाहार्यपचनस्यादूरेणोत्तरदेशे दक्षिणामुखस्तिष्ठन् अवहन्यात् 15 । चोदकप्राप्तं फलीकरणस्य त्रिष्करणमपास्य सकृत्त्वं विधत्ते- सकृत्फलीकरोतीति ॥ ८ ॥

Eggeling
  1. He takes out [the rice for] that cake of six potsherds, while seated behind the Gārhapatya, and looking southwards, with the sacrificial cord over his right shoulder. From thence he rises and

threshes (the rice), while standing north of the Dakshiṇa-fire, with his face towards the south. He cleans it but once 17; since it is once for all that the fathers have departed.

०९

विश्वास-प्रस्तुतिः

स᳘ दक्षि᳘णैव᳘ दृषदुपले᳘ ऽउपद᳘धाति॥
दक्षिणार्धे गा᳘र्हपत्यस्य ष᳘ट्पा᳘लान्यु᳘पदधाति तद्य᳘देतां द᳘क्षिणां दि᳘शᳫं स᳘चन्त ऽएषा हि दि᳘क्पितॄ᳘णां त᳘स्मादेतां द᳘क्षिणां दि᳘शᳫँ᳭ सचन्ते॥

मूलम् - श्रीधरादि

स᳘ दक्षि᳘णैव᳘ दृषदुपले᳘ ऽउपद᳘धाति॥
दक्षिणार्धे गा᳘र्हपत्यस्य ष᳘ट्पा᳘लान्यु᳘पदधाति तद्य᳘देतां द᳘क्षिणां दि᳘शᳫं स᳘चन्त ऽएषा हि दि᳘क्पितॄ᳘णां त᳘स्मादेतां द᳘क्षिणां दि᳘शᳫँ᳭ सचन्ते॥

मूलम् - Weber

स᳘ दक्षिॗणैव᳘ दृषदुपले᳘ उपद᳘धाति॥
दक्षिणार्धे गा᳘र्हपत्यस्य ष᳘ट्पा᳘लान्यु᳘पदधाति तद्य᳘देतां द᳘क्षिणां दि᳘शᳫं स᳘चन्त एषा हि दि᳘क् पितॄ᳘णां त᳘स्मादेतां द᳘क्षिणां दि᳘शᳫं सचन्ते॥

मूलम् - विस्वरम्

स दक्षिणैव दृषदुपले उपदधाति । दक्षिणार्धे गार्हपत्यस्य षट् कपालान्युपदधाति । तद्यदेतां दक्षिणां दिशं सचन्ते- एषा हि दिक् पितॄणाम्- तस्मादेतां दक्षिणां दिशं सचन्ते ॥ ९ ॥

सायणः

स दक्षिणेवैति । ‘सः’ अध्वर्युः दक्षिणामुख एव सन् अवहननदेशे पेषणार्थं ‘दृषदुपले’ उपदध्यात् । षट्कपालस्य पुरोडाशस्य गार्हपत्यदक्षिणायां श्रपणं विधाय स्तौति- दक्षिणार्द्धे गार्हपत्यस्येत्यादिना 18तद् यदेतामिति । ‘तत्’ तत्र पितृयज्ञसम्बन्धित्वेनानुष्ठेयपदार्थेषु ‘यद्’ यस्मात् कारणात् ‘एतां दक्षिणां दिशं सचन्ते’ ऋत्विग्यजमानाः समवयन्ति । “षच् समवाये” (धा. पा. भ्वा. उ. १०२२) इति धातुः । एषा हीति । ‘हि’-शब्दो दक्षिणस्या दिश इह श्रुत्यन्तरप्रसिद्धं पितृसम्बन्धं द्योतयति । तथाच तैतिरीयकम् “देवमनुष्या दिशो व्यभजन्त, प्राचीं देवा दक्षिणा पितरः” इति (तै. सं. ६ । १ । १ । १ ।) ॥ ९ ॥

Eggeling
  1. He places the two mill-stones on (the black antelope skin, so as to be inclined) towards the south 19; and puts the six potsherds on the south part of the Gārhapatya hearth. The reason why they keep the southern direction is because that is the region of the fathers: this is why they keep the southern direction.

१०

विश्वास-प्रस्तुतिः

(न्ते᳘ ऽथ) अ᳘थ द᳘क्षिणेनान्वाहार्यपचनम्॥
च᳘तुःस्रक्तिं व्वे᳘दिं करोत्यवान्तरदिशो᳘ ऽनु स्रक्तीः᳘ करोति च᳘तस्रो वा᳘ ऽअवान्तरदि᳘शो ऽवान्तरदि᳘शो वै᳘ पित᳘रस्त᳘स्मादवान्तरदिशो᳘ ऽनु स्रक्तीः᳘ करोति॥

मूलम् - श्रीधरादि

(न्ते᳘ ऽथ) अ᳘थ द᳘क्षिणेनान्वाहार्यपचनम्॥
च᳘तुःस्रक्तिं व्वे᳘दिं करोत्यवान्तरदिशो᳘ ऽनु स्रक्तीः᳘ करोति च᳘तस्रो वा᳘ ऽअवान्तरदि᳘शो ऽवान्तरदि᳘शो वै᳘ पित᳘रस्त᳘स्मादवान्तरदिशो᳘ ऽनु स्रक्तीः᳘ करोति॥

मूलम् - Weber

अ᳘थ द᳘क्षिणेनान्वाहार्यप᳘चनम्॥
च᳘तुःस्रक्तिं वे᳘दिं करोत्यवान्तरदिशो᳘ ऽनु स्रक्तीः᳘ करोति च᳘तस्रो वा᳘ अवान्तरदि᳘शो ऽवान्तरदि᳘शो वै᳘ पित᳘रस्त᳘स्मादवान्तरदिशो᳘ ऽनु स्रक्तीः᳘ करोति॥

मूलम् - विस्वरम्

अथ दक्षिणेनान्वाहार्यपचनं चतुःस्रक्तिं वेदिं करोति । अवान्तरदिशो ऽनु स्रक्तीः करोति । चतस्रो वा अवान्तरदिशः । अवान्तरदिशो वै पितरः । तस्मादवान्तरदिशो ऽनु स्रक्तीः करोति ॥ १० ॥

सायणः

पित्र्याया वेदेर्निर्माणं विधत्ते- अथ दक्षिणेनेति 18चतुःस्रक्तिमिति । चतस्रः स्रक्तयः कोणा यस्याः सा तथोक्ता । तासां चतुःस्रक्तीनामाग्नेयाद्यवान्तरदिक्सम्बन्धं विधत्ते- अवान्तरदिशो ऽन्विति । लक्षणे अनोः कर्मप्रवचनीयत्वम् (पा. सू. १ । ४ । ८४) “कर्मप्रवचनीययुक्ते”- (पा. सू. २ । ३ । ८) इति द्वितीया । अवान्तरदिक्स्थाः स्रक्तीः कुर्यादित्यर्थः । स्रक्तीनां चतुष्ट्वमुपपादयति- चतस्रो वा इति । पितॄणामवान्तरदिक्स्थता श्रुत्यन्तरप्रसिद्ध्या अवगन्तव्या ॥ १० ॥

Eggeling
  1. Thereupon he raises a square altar south of the Dakshiṇāgni 20. He makes the corners point towards the intermediate quarters. There are doubtless four intermediate quarters, and the fathers are the intermediate quarters: this is why he makes the corners point towards the intermediate quarters.

११

विश्वास-प्रस्तुतिः

तन्म᳘ध्ये ऽग्नि᳘ᳫँ᳘ समा᳘दधाति॥
पुर᳘स्ताद्वै᳘ देवाः᳘ प्रत्य᳘ञ्चो[[!!]] मनु᳘ष्यानभ्युपा᳘वृत्तास्त᳘स्मात्ते᳘भ्यः प्राङ् ति᳘ष्ठञ्जु᳘होति सर्व्व᳘तः पित᳘रो ऽवान्तरदि᳘शो वै᳘ पित᳘रः सर्व्व᳘त ऽइव᳘ हीमा᳘ अवान्तरदि᳘शस्त᳘स्मान्म᳘ध्ये ऽग्नि᳘ᳫँ᳘ समा᳘दधाति॥

मूलम् - श्रीधरादि

तन्म᳘ध्ये ऽग्नि᳘ᳫँ᳘ समा᳘दधाति॥
पुर᳘स्ताद्वै᳘ देवाः᳘ प्रत्य᳘ञ्चो[[!!]] मनु᳘ष्यानभ्युपा᳘वृत्तास्त᳘स्मात्ते᳘भ्यः प्राङ् ति᳘ष्ठञ्जु᳘होति सर्व्व᳘तः पित᳘रो ऽवान्तरदि᳘शो वै᳘ पित᳘रः सर्व्व᳘त ऽइव᳘ हीमा᳘ अवान्तरदि᳘शस्त᳘स्मान्म᳘ध्ये ऽग्नि᳘ᳫँ᳘ समा᳘दधाति॥

मूलम् - Weber

तन्म᳘ध्ये ऽग्नि᳘ᳫं᳘ समा᳘दधाति॥
पुर᳘स्ताद्वै᳘ देवाः᳘ प्र᳘त्यञ्चो मनुॗष्यानभ्युपा᳘वृत्तास्त᳘स्मात्ते᳘भ्यः प्राङ् ति᳘ष्ठञ्जुहोति सर्व᳘तः पित᳘रो ऽवान्तरदि᳘शो वै᳘ पित᳘रः सर्व᳘त इवॗ हीमा᳘ अवान्तरदि᳘शस्त᳘स्मान्म᳘ध्ये ऽग्नि᳘ᳫं᳘ समा᳘दधाति॥

मूलम् - विस्वरम्

तन्मध्ये ऽग्निं समादधाति । पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानभ्युपावृत्ताः । तस्मात्तेभ्यः प्राङ् तिष्ठन् जुहोति । सर्वतः पितरः । अवान्तरदिशो वै पितरः । सर्वत इव हीमा अवान्तरदिशः । तस्मान्मध्ये ऽग्निं समादधाति ॥ ११ ॥

सायणः

अथाग्निस्थापनं विधत्ते- तन्मध्य इति । दक्षिणाग्निमाहृत्य तस्मा वेदेर्मध्ये स्थापयेदित्यर्थः । तथा च कात्यायनः- “अवान्तरदिक्स्रक्तिमाह्यान्ते, दक्षिणाग्निं मध्ये ऽस्याः करोति"- (का. श्रौ. सू. २०९ । २१०) इति एतन्मध्ये स्थापनमुपपादयति- पुरस्ताद्वा इत्यादि । ‘पुरस्तात्’ पूर्वस्यां दिशि आहवनीयसमीपे ‘प्रत्यञ्चः’ प्रत्यङ्मुखाः सन्तो देवाः ‘मनुष्यान्’ ऋत्विग्यजमानान् ‘अभि’ लक्ष्य ‘उपावृत्ताः’ उपगता भवन्ति ‘तस्मात्’ कारणात् ‘तेभ्यः’ देवेभ्यः ‘प्राङ्’ मुखः ‘तिष्ठन्’ अध्वर्युः जुहोति । पितरस्तु सर्वतो व्याप्यावस्थिताः । तेषां सर्वतोमुखत्वमुपपादयति- सर्वतः पितर इति । अवान्तरदिशां व्यापित्वेन तद्रूपाणां पित्तॄणामपि व्यापित्वात् । प्राच्याद्यन्यतमदिङ्मुखत्वं दुर्ज्ञानमिति सर्वतः परीत्य हवनार्थं मध्ये ऽग्नेः स्थापनमिति निगमनवाक्यस्यार्थः ॥ ११ ॥

Eggeling
  1. In the centre of this (altar) he lays down the fire. From the east, indeed, the gods came westwards to the men: hence one offers to them while standing

with his face towards the east. On all sides are the fathers, for the fathers are the intermediate regions, and the intermediate regions are indeed on all sides: this is why he lays down the fire in the centre.

१२

विश्वास-प्रस्तुतिः

स त᳘त एव प्रा᳘क्स्तम्बयजु᳘र्हरति॥
स्तम्बयजु᳘र्हृत्वा ऽथे᳘त्येवा᳘ग्रे प᳘रिगृह्णात्यथेत्यथे᳘ति पू᳘र्व्वेण परिग्रहे᳘ण परिगृ᳘ह्य लिख᳘ति ह᳘रति य᳘द्धा᳘र्यं[[!!]] भ᳘वति स त᳘थैवो᳘त्तरेण परिग्रहे᳘ण प᳘रिगृह्णात्यु᳘त्तरेण परिग्रहे᳘ण परिगृ᳘ह्य प्रतिमृ᳘ज्याह प्रो᳘क्षणीरा᳘सादयेत्या᳘सादयन्ति प्रो᳘क्षणीरिध्मं᳘ बर्हिरु᳘पसादयन्ति स्रु᳘चः स᳘म्मार्ष्ट्या᳘ज्येनोदै᳘ति स᳘ यज्ञोपवीती᳘ भूत्वा᳘ ऽज्यानि गृह्णाति॥

मूलम् - श्रीधरादि

स त᳘त एव प्रा᳘क्स्तम्बयजु᳘र्हरति॥
स्तम्बयजु᳘र्हृत्वा ऽथे᳘त्येवा᳘ग्रे प᳘रिगृह्णात्यथेत्यथे᳘ति पू᳘र्व्वेण परिग्रहे᳘ण परिगृ᳘ह्य लिख᳘ति ह᳘रति य᳘द्धा᳘र्यं[[!!]] भ᳘वति स त᳘थैवो᳘त्तरेण परिग्रहे᳘ण प᳘रिगृह्णात्यु᳘त्तरेण परिग्रहे᳘ण परिगृ᳘ह्य प्रतिमृ᳘ज्याह प्रो᳘क्षणीरा᳘सादयेत्या᳘सादयन्ति प्रो᳘क्षणीरिध्मं᳘ बर्हिरु᳘पसादयन्ति स्रु᳘चः स᳘म्मार्ष्ट्या᳘ज्येनोदै᳘ति स᳘ यज्ञोपवीती᳘ भूत्वा᳘ ऽज्यानि गृह्णाति॥

मूलम् - Weber

स त᳘त एव प्रा᳘क् स्तम्बयजु᳘र्हरति॥
स्तम्बयजु᳘र्हुत्वाथे᳘त्येवा᳘ग्रे प᳘रिगृह्णात्यथेत्यथे᳘ति पू᳘र्वेण परिग्रहे᳘ण परिगृ᳘ह्य लिख᳘ति ह᳘रति य᳘द्धार्य᳘म् भ᳘वति स त᳘थैवो᳘त्तरेण परिग्रहे᳘ण प᳘रिगृह्णात्यु᳘त्तरेण परिग्रहे᳘ण परिगृ᳘ह्य प्रतिमृ᳘ज्याह प्रो᳘क्षणीरा᳘सादयेत्या᳘सादयन्ति प्रो᳘क्षणीरिध्म᳘म् बर्हिरु᳘पसादयन्ति स्रु᳘चः स᳘म्मार्ष्ट्या᳘ज्येनोदै᳘ति स᳘ यज्ञोपवीती᳘ भूत्वा᳘ज्यानि गृह्णाति॥

मूलम् - विस्वरम्

स तत एव प्राक् स्तम्बयजुर्हरति । स्तम्बयजुर्हृत्वा- अथेत्येवाग्रे परिगृह्णाति, अथेति, अथेति- पूर्वेण परिग्रहेण परिगृह्य लिखति । हरति- यद्धार्यं भवति । स तथैवोत्तरेण परिग्रहेण परिगृह्णाति । उत्तरेण परिग्रहेण परिगृह्य, प्रतिमृज्याह- ‘प्रोक्षणीरासादय’ इति । आसादयन्ति प्रोक्षणीः । इध्मं बर्हिरुपसादयन्ति । स्रुचः सम्मार्ष्टि । आज्येनोदैति । स यज्ञोपवीती भूत्वा ऽऽज्यानि गृह्णाति ॥ १२ ॥

सायणः

स तत एवेत्यादि । अस्मिन् हि पितृयज्ञे दक्षिणा दिक् प्राची जाता, ततः प्राक्प्रतीच्यौ तु दक्षिणोत्तरदिशौ सम्पन्ने; तत्र वामभागे ऽवस्थिता प्राची दिक् उत्तरा, दक्षिणभागावस्थिता प्रतीची दिक् दक्षिणा; तथाच प्रकृतौ उदीच्यां दिशि क्रियमाणं स्तम्बयजुर्हरणमत्र प्राच्यां सम्पद्यते । अयमर्थः, -तस्या वेदेः सकाशादेव सो ऽध्वर्युः प्राक् प्राच्यां दिशि स्तम्बयजुर्हरेत् । तस्या वेदेः परिग्रहमभिनयेन दर्शयति- अथेत्येवाग्रे इति । ‘अग्रे’ प्रथमम् ‘इत्येव’ एवमेव पश्चाद्भागे दक्षिणापवर्गं रेखया परिगृह्णीयात् । ‘अथ’ अनन्तरम् ‘इति’ एवम् उत्तरतः प्रागपवर्गं परिगृह्णीयात् । एवं पुरस्ताद् दक्षिणापवर्गं परिगृह्णीयात् । अत्र प्रतीच्युदीचीप्राचीत्यनेन क्रमेण पूर्वोक्तरीत्या दक्षिणाप्रतीच्युदग्दिशो भवन्ति । तासु दिक्षु परिग्रहणं प्रकृतौ व्याख्यातम् (श. प. कां. १. ४. ८-२१) सूत्रितञ्च कात्यायनेन- “पूर्वं परिग्रहं परिगृह्णाति दक्षिणतः पश्चादुत्तरतश्च"- इति (का. श्रौ. सू. २ । १६७) ॥

लेखनादीनि यानि वेदिसम्बन्धीनि कर्माणि, एतानि सर्वाणि अत्रापि तथैव कर्त्तव्यानि इत्यभिप्रेत्य सिद्धवदनुक्रामति- लिखति हरति यद्धार्यमित्यादिना 21 । ‘यत्’ ‘हार्यं’ हरणीयं भवति, तत् हरेत् इति सम्बन्धः । स तथैवेति । येन प्रकारेण पूर्वपरिग्रहः कृतः, तेनैव प्रकारेणोत्तरं परिग्रहं कुर्यात् ।

ननु “परौ यज्ञे” - (पा. सू. ३. ३. ४७) इति परिपूर्वाद् ग्रहेर्यज्ञविषये घञा भवितव्यम्, कथमच्-पूर्व-पूर्वपरिग्रहेणेति, उत्तरपरिग्रहेणेति च रूपसिद्धिः ? नैष दोषः,- “व्यत्ययो बहुलम्”- (पा. सू. ३. १. ८५) इति “ग्रह-वृ-दृ-नि-श्चि-गमश्च” (पा. सू. ३. ३. ५८) इत्यप् भवति ।

प्रतिमृज्येति । “पुरा क्रूरास्य"- इति प्रकृतौ यदनुमार्जनम् तत् कृत्वेत्यर्थः । प्रकृतिवदेव “प्रोक्षणीरासादय-” इति प्रैषमग्नीध्रप्रेषितार्थमनुष्ठानञ्चाह- प्रोक्षणीरित्यादिना । स यज्ञोपवीतीति । एतावत् कर्म प्राचीनावीतिनैवाध्वर्युणा कर्त्तव्यम्; ‘सः’ अध्वर्युः इदानीं ‘यज्ञोपवीती’ ‘भूत्वा’ प्रकृतिवदेव ‘आज्यानि’ गृह्णीयात् 22 ॥ १२ ॥

Eggeling
  1. From thence he throws the grass-bush (stambayajus) eastwards 23. Having thrown away the grass-bush, he first encloses (the altar) thus (viz. on the west side), then thus (viz. on the north side), then thus (on the east side). Having enclosed it with the first line of enclosure, he (the Adhvaryu) draws (three) lines (across the altar) 24 and [the Āgnīdhra] removes (from them the dust) which has to be removed. In the same way he encloses it with the second line of enclosure; and having enclosed it with the second line of enclosure, and smoothed it down, he says, ‘Place the sprinkling water on (the altar)!’ They accordingly place the sprinkling water on (the altar); and the firewood and barhis they lay down beside it 25. He (the Āgnīdhra) wipes the spoons. He then walks up (to the altar) with the butter (and

puts it down thereon 26, north of the sprinkling water). He (the Adhvaryu) takes butter, while ‘sacrificially-invested 27.’

१३

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(र्द्वि᳘) द्वि᳘रुपभृ᳘ति गृह्णीयाद्द्वौ ह्य᳘त्रानुयाजौ भ᳘वत इ᳘ति त᳘द्वष्टा᳘वेव कृ᳘त्व उपभृ᳘ति गृह्णीयान्ने᳘द्यज्ञ᳘स्य व्विधा᳘या अ᳘यानी᳘ति त᳘स्मादष्टा᳘वेव कृ᳘त्व ऽउपभृ᳘ति गृह्णी᳘यादा᳘ज्यानि गृहीत्वा स पु᳘नः प्राचीनावीती᳘ भूत्वा॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(र्द्वि᳘) द्वि᳘रुपभृ᳘ति गृह्णीयाद्द्वौ ह्य᳘त्रानुयाजौ भ᳘वत इ᳘ति त᳘द्वष्टा᳘वेव कृ᳘त्व उपभृ᳘ति गृह्णीयान्ने᳘द्यज्ञ᳘स्य व्विधा᳘या अ᳘यानी᳘ति त᳘स्मादष्टा᳘वेव कृ᳘त्व ऽउपभृ᳘ति गृह्णी᳘यादा᳘ज्यानि गृहीत्वा स पु᳘नः प्राचीनावीती᳘ भूत्वा॥

मूलम् - Weber

त᳘दाहुः॥
द्वि᳘रुपभृ᳘ति गृह्णीयाद्द्वौ ह्य᳘त्रानुयाजौ भ᳘वत इ᳘ति त᳘द्वष्टा᳘वेव कृ᳘त्व उपभृ᳘ति गृह्णीयान्ने᳘द्यज्ञ᳘स्य विधा᳘या अ᳘यानी᳘ति त᳘स्मादष्टा᳘वेव कृ᳘त्व उपभृ᳘ति गृह्णीयादा᳘ज्यानि गृहीत्वा स पु᳘नः प्राचीनावीती᳘ भूत्वा॥

मूलम् - विस्वरम्

तदाहुः- द्विरुपभृति गृह्णीयात् । द्वौ ह्यत्रानुयाजौ भवत इति । तद्वष्टावेव कृत्व उपाभृति गृह्णीयात् । नेद्यज्ञस्य विधाया अयानीति तस्मादष्टावेव कृत्व उपभृति गृह्णीयात् । आज्यानि गृहीत्वा स पुनः प्राचीनावीती भूत्वा ॥ १३ ॥

सायणः

तत्रोपभृतिग्रहणे केषाञ्चिन्मतमुपन्यस्यति- तदाहुरिति । ‘द्वौ ह्यत्र’- इति तत्र कारणाभिधानम् । ‘अत्र’ खलु पितृयज्ञे ‘हि’ यस्माद् ‘द्वौ’ एव ‘अनुयाजौ’ प्रयाजानुयाजानामपि 28 बर्हिष्ट्वस्य विधास्यमानत्वात् प्रथमस्यानुयाजस्य बर्हिषो ऽननुष्ठाने सति द्वावेवानुयाजौ ‘भवतः’, अतस्तदर्थं ‘द्विरुपभृति गृह्णीयात्’ । ननु प्रयाजेषु समानयनार्थमपि ग्रहीतुमाज्येन भवितव्यमिति चेत्, न; प्रयाजेष्वपि बर्हिर्युक्तस्य चतुर्थयागस्य प्रतिषेधेन तत्प्रयुक्तस्य समानयनस्याप्यभावात् । अत एवोक्तं सूत्रकृता- “असमानयनं वा बर्हिःसंयोगात्” (का. श्रौ. सू. ५ । २२४)- इति । इदानीं पक्षान्तरमाह- तद्वष्टावेवेति । प्रकृतिवद् अष्टकृत्व एव ‘उपभृति गृह्णीयात्’। गृहतो ऽभिप्रायमाह- नेदिति । यज्ञसम्बन्धिन्याः विधायाः विधा प्रकारः संस्था; तस्मात् ‘न एव अयानि’ गच्छानि ‘इति’ अनेनाभिप्रायेणेत्यर्थः । आज्यग्रहणानन्तरमिध्मप्रोक्षणादिकर्मस्वध्वर्योः पुनः प्राचीनावीतित्वञ्च विधत्ते- आज्यानि गृहीत्वेति ॥ १३ ॥

Eggeling
  1. Here now they say, ‘Let him take butter in the upabhr̥t (by) twice (ladling with the dipping spoon); since there are two after-offerings 29 at this (sacrifice).’ Let him, nevertheless, ladle eight times into the upabhr̥t: let him do so, lest he should depart from the manner of the sacrifice. After ladling out butter, and shifting his cord back to the right shoulder,–

१४

विश्वास-प्रस्तुतिः

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ इध्म᳘मेवा᳘ग्रे प्रो᳘क्षत्य᳘थ व्वे᳘दिम᳘थास्मै बर्हिः प्र᳘यच्छन्ति त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्ष्योपनिनी᳘य व्विस्र᳘ᳫं᳘स्य ग्रन्थिन्न᳘ प्रस्तरं᳘ गृह्णाति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मान्न[[!!]] प्रस्तरं᳘ गृह्णाति॥

मूलम् - श्रीधरादि

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ इध्म᳘मेवा᳘ग्रे प्रो᳘क्षत्य᳘थ व्वे᳘दिम᳘थास्मै बर्हिः प्र᳘यच्छन्ति त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्ष्योपनिनी᳘य व्विस्र᳘ᳫं᳘स्य ग्रन्थिन्न᳘ प्रस्तरं᳘ गृह्णाति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मान्न[[!!]] प्रस्तरं᳘ गृह्णाति॥

मूलम् - Weber

प्रो᳘क्षणीरध्वर्युरा᳘दत्ते॥
स᳘ इध्ममेवा᳘ग्रे प्रो᳘क्षत्य᳘थ वे᳘दिम᳘थास्मै बर्हिः प्र᳘यछन्ति त᳘त्पुर᳘स्ताद्ग्रन्थ्या᳘सादयति तत्प्रो᳘क्ष्योपनिनी᳘य विस्र᳘ᳫं᳘स्य ग्रन्थिं न᳘ प्रस्तरं᳘ गृह्णाति सकृ᳘दुॗ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मान्न᳘ प्रस्तरं᳘ गृह्णाति॥

मूलम् - विस्वरम्

प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षति । अथ वेदिम् । अथास्मै बर्हिः प्रयच्छन्ति । तत् पुरस्ताद्ग्रन्थ्यासादयति । तत् प्रोक्ष्य, उपनिनीय, विस्रंस्य ग्रन्थिम् । न प्रस्तरं गृह्णाति । सकृदु ह्येव पराञ्चः पितरः । तस्मान्न प्रस्तरं गृह्णाति ॥ १४ ॥

सायणः

इध्मप्रोक्षणादिकं प्रकृतिवदेव कर्त्तव्यमित्यनुक्रामति- प्रोक्षणीरित्यादिना । अथास्मा इति । ‘अथ’ वेदिप्रोक्षणानन्तरम् ‘अस्मै’ अध्वर्यवे ‘बर्हिः प्रयच्छन्ति’ आदाय अध्वर्युहस्ते परिकर्मिणो दद्युरित्यर्थः । तत्पुरस्ताद्ग्रन्थीति । ‘तद्’ बर्हिः ‘पुरस्ताद्ग्रन्थि’ पूर्वस्यां दिशि यथा भवति तथा वेद्यामध्वर्युरासादयेदित्यर्थः 28 । तत् प्रकृतिवदेव प्रोक्षणीशेषम् ‘उपनीय’ बर्हिषः सन्नहनस्य, ग्रन्थिं विस्रंस्य, ततः सकाशात् प्रस्तरमुष्टिं पृथङ् न गृह्णीयात् 30 । तत्र कारणमाह- सकुदु ह्येवेति । बर्हिषः सकाशात् प्रस्तरस्य पृथक्करणे बर्हिषः सकृत्त्वं व्याहन्येत, न चैतत् पितृयज्ञे युक्तमिति भावः ॥ १४ ॥

Eggeling
  1. The Adhvaryu takes the lustral water, and sprinkles first the firewood, and then the altar 31. Thereupon they hand the sacrificial grass 32 to him, and he puts it down (on the altar) with the knot to the east. Having thereupon sprinkled it and

poured out (the lustral water on the lower ends of the grass-stalks), and untied the knot, he (at once) seizes the knot, not the prastara 33;–it is once for all that the fathers have departed: hence he does not take the prastara.

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सन्न᳘हनमनुविस्र᳘ᳫं᳘स्य॥
(स्या) अपसलवि त्रिः᳘ परिस्तृणन्प᳘र्येति᳘ सो ऽपसलवि त्रिः᳘ परिस्ती᳘र्य या᳘वत्प्रस्तरभाजनं ता᳘वत्प᳘रिशिनष्ट्य᳘थ पु᳘नः प्रसलवि त्रिः प᳘र्येति तद्यत्पु᳘नः प्रसलवि त्रिः᳘ पर्ये᳘ति तद्या᳘नेवामूं᳘स्त्रया᳘न्पितॄ᳘नन्ववा᳘गात्ते᳘भ्य ए᳘वैतत्पु᳘नरपो᳘देतीमᳫं स्वं᳘ लोक᳘मभि त᳘स्मात्पु᳘नः प्रसलवि त्रिः प᳘र्येति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सन्न᳘हनमनुविस्र᳘ᳫं᳘स्य॥
(स्या) अपसलवि त्रिः᳘ परिस्तृणन्प᳘र्येति᳘ सो ऽपसलवि त्रिः᳘ परिस्ती᳘र्य या᳘वत्प्रस्तरभाजनं ता᳘वत्प᳘रिशिनष्ट्य᳘थ पु᳘नः प्रसलवि त्रिः प᳘र्येति तद्यत्पु᳘नः प्रसलवि त्रिः᳘ पर्ये᳘ति तद्या᳘नेवामूं᳘स्त्रया᳘न्पितॄ᳘नन्ववा᳘गात्ते᳘भ्य ए᳘वैतत्पु᳘नरपो᳘देतीमᳫं स्वं᳘ लोक᳘मभि त᳘स्मात्पु᳘नः प्रसलवि त्रिः प᳘र्येति॥

मूलम् - Weber

अ᳘थ संन᳘हनमनुविस्र᳘ᳫं᳘स्य॥
अपसलवि त्रिः᳘ परिस्तृणन्प᳘र्येतिॗ सो ऽपसलवि त्रिः᳘ परिस्ती᳘र्य या᳘वत्प्रस्तरभाजनं ता᳘वत्प᳘रिशिनष्ट्य᳘थ पु᳘नः प्रसलवि त्रिः प᳘र्येति यत्पु᳘नः प्रसलवि त्रिः᳘ पर्ये᳘ति तद्या᳘नेवामू᳘ᳫं᳘स्त्रया᳘न्पितॄ᳘नन्ववा᳘गात्ते᳘भ्य एॗवैतत्पु᳘नरपो᳘देतीमᳫं स्वं᳘ लोक᳘मभि त᳘स्मात्पु᳘नः प्रसलवि त्रिः प᳘र्येति॥

मूलम् - विस्वरम्

अथ सन्नहनमनुविस्रंस्य, अपसलवि त्रिः परिस्तृणन् पर्येति । सो ऽपसलवि त्रिः परिस्तीर्य यावत् प्रस्तरभाजनं तावत् परिशिनष्टि । अथ पुनः प्रसलवि त्रिः पर्येति । तद्यत्पुनः प्रसलवि त्रिः पर्येति । तद् यानेवार्मूंस्त्रयान् पितॄनन्ववागात्- तेभ्य एवैतत् पुनरपोदेति- इमं स्वं लोकमभि । तस्मात् पुनः प्रसलवि त्रिः पर्येति ॥ १५ ॥

सायणः

बर्हिषः स्तरणप्रकारमाह- अथ सन्नहनमिति । सन्नह्यते ऽनेनेति सन्नहनं रज्जुः । ‘अपसलवि’ अप्रदक्षिणम्, अग्निं परितो वेद्यां ‘त्रिः परिस्तृणन्’ पर्येतीत्यर्थः । एवं परितः स्तरणानन्तरं ‘यावद्’ बर्हिः ‘प्रस्तरभाजनं’ प्रस्तरस्य योग्यं पर्य्याप्तं भवति, ‘तावत्’ ‘पाशिनष्टि’ अवशेषयेत् । अथ पुनरित्यादि । ‘अथ’ अप्रदक्षिणपरिगमनानन्तरम् ‘पुनः’ ‘प्रसलवि’ प्रदक्षिणं ‘त्रिः पर्येति’ । अत एव सूत्रकृतोक्तम्- “बर्हिः- विस्रंस्य यूनञ्चाग्रे गृहीत्वा त्रिस्तृणन्नग्निं पर्येति, प्रस्तरमात्रं शिष्ट्वा तावत् प्रतिपर्येति”- इति (का. श्रौ. सू. ५ । २१५-२१७) ।

एतत् प्रतिपरिगमनमनूद्य स्तौति- तद्यानेवेति । ‘तत्’ तत्र स्तरणसमये त्रिरप्रदक्षिणगमनेन ‘यान्’ एव ‘अमून्’ विप्रकर्षेण पितृलोके ऽवस्थितान् त्रिविधान् “पितृभ्यः सोमवद्भ्यः” इत्यादिना हविर्देवतात्वेन प्राग्दर्शितान् ‘अन्ववागात्’ अनुप्राप्नोत् ‘एतत्’ एतेन पुनस्त्रिः प्रदक्षिणकरणेन ‘तेभ्य एव’ पितृभ्यः सकाशात् ‘पुनः’ ‘अपोदेति’ अपगच्छति, ‘स्वं’ स्वकीयम् ‘इमं लोकम्’ ‘अभि’ प्राप्तुम् । तस्मादिति, प्रतिपादितार्थनिगमनम् ॥ १५ ॥

Eggeling
  1. After undoing the band, he moves thrice 34 round from right to left, spreading the sacrificial grass all over (the altar); while spreading it all over from right to left in three layers, he reserves as much as may serve for the prastara-bunch. He then moves again thrice round (the altar) from left to right. The reason why he again moves thrice round from left to right, is that, while the first time he went away from here after those three ancestors of his, he now cones back again from them to this, his own world: that is why he again moves thrice round from left to right.

१६

विश्वास-प्रस्तुतिः

स᳘ दक्षि᳘णैव᳘ परिधी᳘न्परिद᳘धाति॥
दक्षिणा᳘ प्रस्तर᳘ᳫं᳘ स्तृणाति᳘ नान्त᳘र्द्दधाति व्वि᳘धृती सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मा᳘न्नान्त᳘र्दधाति व्वि᳘धृती॥

मूलम् - श्रीधरादि

स᳘ दक्षि᳘णैव᳘ परिधी᳘न्परिद᳘धाति॥
दक्षिणा᳘ प्रस्तर᳘ᳫं᳘ स्तृणाति᳘ नान्त᳘र्द्दधाति व्वि᳘धृती सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मा᳘न्नान्त᳘र्दधाति व्वि᳘धृती॥

मूलम् - Weber

स᳘ दक्षिॗणैव परिधी᳘न्परिद᳘धाति॥
दक्षिणा᳘ प्रस्तर᳘ᳫं᳘ स्तृणातिॗ नान्त᳘र्दधाति वि᳘धृती सकृ᳘दुॗ ह्येव पराञ्चः पित᳘रस्त᳘स्माॗन्नान्त᳘र्दधाति वि᳘धृती॥

मूलम् - विस्वरम्

स दक्षिणैव परिधीन् परिदधाति । दक्षिणा प्रस्तरं स्तृणाति । नान्तर्द्दधाति विधृती । सकृदु ह्येव पराञ्चः पितरः । तस्मान्नान्तर्दधाति विधृती ॥ १६ ॥

सायणः

स दक्षिणैव परिधीनिति । ‘सः’ स्वयं ‘दक्षिणा’ दक्षिणाग्रान् ‘एव’ ‘परिधीन्’ परिदध्यात् । ततः पश्चात् पुरस्ताच्च तत्र दक्षिणाग्नौ परिधीन्, उत्तरप्रागग्रं प्रस्तरं, सर्वमवशेषितं बर्हिश्च दक्षिणाग्रं स्तृणीयात् । प्रकृतितः प्राप्तं विधृत्यन्तर्द्धानं निषेधति- नान्तर्दधातीति । अन्तर्द्धाने हि प्रस्तरबर्हिषी विभज्येयाताम् । तथा च सकृत्त्वं हीयेतेत्यभिप्रेत्याह- सकृदु ह्येवेति ॥ १६ ॥

Eggeling
  1. He lays the enclosing-sticks along (the fire, with their tops) towards the south 35; and the prastara also he spreads (with the grass-tops) towards the south; nor does he lay down the two vidhr̥tis between (the barhis and the prastara). Once for all the fathers have departed from hence: therefore he lays no vidhr̥tis between.

१७

विश्वास-प्रस्तुतिः

स त᳘त्र जुहूमा᳘सादयति॥
(त्य᳘) अ᳘थ पू᳘र्व्वामुपभृ᳘तम᳘थ ध्रुवाम᳘थ पुरोडा᳘शम᳘थ धाना ऽअ᳘थ मन्थ᳘मासा᳘द्य हवी᳘ᳫं᳘षि सं᳘मृशति॥

मूलम् - श्रीधरादि

स त᳘त्र जुहूमा᳘सादयति॥
(त्य᳘) अ᳘थ पू᳘र्व्वामुपभृ᳘तम᳘थ ध्रुवाम᳘थ पुरोडा᳘शम᳘थ धाना ऽअ᳘थ मन्थ᳘मासा᳘द्य हवी᳘ᳫं᳘षि सं᳘मृशति॥

मूलम् - Weber

स त᳘त्र जुहूमा᳘सादयति॥
अ᳘थ पू᳘र्वामुपभृ᳘तम᳘थ ध्रुवाम᳘थ पुरोडा᳘शम᳘थ धाना अ᳘थ मन्थ᳘मासा᳘द्य हवीं᳘षि स᳘म्मृशति॥

मूलम् - विस्वरम्

स तत्र जुहूमासादयति । अथ पूर्वामुपभृतम्, अथ ध्रुवाम्, अथ पुरोडाशम्, अथ धानाः, अथ मन्थमासाद्य हवींषि संमृशति ॥ १७ ॥

सायणः

तस्मिन् प्रस्तरे जुह्वादीनामासादनस्य प्रकारविशेषं विधत्ते- स तत्रेति । प्रस्तरस्योपरि पश्चाद्भागे प्रथमं ‘जुहूम्’ आसाद्य, ततः पूर्वभागे ‘उपभृतम्’, ततः पुरस्तात् ‘ध्रुवाम्’ अन्ततो ‘हवींषि’ ‘संमृशति’ इत्यनेन क्रमेणासादयन्नासादितहविषामभिमर्शनं कुर्यादित्यर्थः 36 ॥ १७ ॥

Eggeling
  1. Thereon he lays the juhū, and east of it (on the barhis) the upabhr̥t. Having then put down the dhruvā, the cake, the parched grain, and the porridge (each east of the preceding one), he touches the oblations.

१८

विश्वास-प्रस्तुतिः

ते स᳘र्व ऽएव᳘ यज्ञोपवीति᳘नो भू᳘त्वा॥
(त्वे) इत्थाद्य᳘जमानश्च ब्रह्मा᳘ च पश्चा᳘त्परीतः᳘ पुर᳘स्तादग्नीत्॥

मूलम् - श्रीधरादि

ते स᳘र्व ऽएव᳘ यज्ञोपवीति᳘नो भू᳘त्वा॥
(त्वे) इत्थाद्य᳘जमानश्च ब्रह्मा᳘ च पश्चा᳘त्परीतः᳘ पुर᳘स्तादग्नीत्॥

मूलम् - Weber

ते स᳘र्व एव᳘ यज्ञोपवीति᳘नो भूत्वा॥
इत्थाद्य᳘जमानश्च 37 ब्रह्मा᳘ च पश्चा᳘त्परीतः᳘ पुर᳘स्तादग्नीत्॥

मूलम् - विस्वरम्

ते सर्व एव यज्ञोपवीतिनो भूत्वा, इत्याद्यजमानश्च ब्रह्मा च पश्चात् परीतः । पुरस्तादग्नीत् ॥ १८ ॥

सायणः

ते सर्व एवेति । न केवलमध्वर्युरेव, ऋत्विग्यजमानाः सर्व एव ते अस्मिन् समये ‘यज्ञोपवीतिनः’ भवेयुः ‘इत्थात्’ इत्यभिनयदर्शने; अनेन प्रकारेण ब्रह्मयजमानौ आहवनीयस्य पुरतो गत्वा, अप्रदक्षिणं पर्यावृत्य, पितृयज्ञवेदेः पश्चाद्देशं ‘परीतः’ परिक्रामत इत्यर्थः । आग्नीध्रस्तु तस्या वेदेः ‘पुरस्तात्’ पूर्वदेशं गच्छेत् 36 । तत्र हि स्तम्बयजुर्हरणं कृतम् ॥ १८ ॥

Eggeling
  1. All of them having now become ‘sacrificially-invested,’ the Sacrificer and Brahman (being) thus (invested) walk round (from the east, along the south) to the west side; and the Āgnīdhra (from the west) to the east side (of the fire) 38.

१९

विश्वास-प्रस्तुतिः

(त्ते᳘) ते᳘नोपाᳫंशु᳘ चरन्ति॥
तिर᳘ इव वै᳘ पित᳘रस्तिर᳘ इवैतद्य᳘दुपाᳫंशु त᳘स्मादुपाᳫंशु᳘ चरन्ति॥

मूलम् - श्रीधरादि

(त्ते᳘) ते᳘नोपाᳫंशु᳘ चरन्ति॥
तिर᳘ इव वै᳘ पित᳘रस्तिर᳘ इवैतद्य᳘दुपाᳫंशु त᳘स्मादुपाᳫंशु᳘ चरन्ति॥

मूलम् - Weber

ते᳘नोपांशु᳘ चरन्ति॥
तिर᳘इव वै᳘ पित᳘रस्तिर᳘ इवैतद्य᳘दुपांशु त᳘स्मादुपांशु चरन्ति॥

मूलम् - विस्वरम्

तेनोपांशु चरन्ति । तिर इव वै पितरः । तिर इवैतद्- यदुपांशु । तस्मादुपांशु चरन्ति ॥ १९ ॥

सायणः

पितृयज्ञेनोपांशुप्रचरणं विधत्ते- तेनोपांशु चरन्तीति 36तिर इव वा इति । तिरोहिता एव पितरो ऽभवन्, तेभ्यः ‘यद्’ ‘उपांशु’ करणम्, ‘तत्’ अपि ‘तिरः’ तिरोहितमेव भवति तथा चान्तर्हितान्पितॄनुद्दिश्योपांशुप्रचरणं युक्तमिति भावः ॥ १९ ॥

Eggeling
  1. They perform this (sacrifice) in a low voice. Secret, indeed, are the fathers, and secret also is (what is spoken) in a low voice: hence they perform (the offering) in a low voice.

२०

विश्वास-प्रस्तुतिः

प᳘रिवृते चरन्ति॥
तिर᳘ इव वै᳘ पित᳘रस्तिर᳘ इवैतद्यत्प᳘रिवृतं त᳘स्मात्प᳘रिवृते चरन्ति॥

मूलम् - श्रीधरादि

प᳘रिवृते चरन्ति॥
तिर᳘ इव वै᳘ पित᳘रस्तिर᳘ इवैतद्यत्प᳘रिवृतं त᳘स्मात्प᳘रिवृते चरन्ति॥

मूलम् - Weber

प᳘रिवृते चरन्ति॥
तिर᳘ इव वै᳘ पित᳘रस्तिर᳘ इवैतद्यत्प᳘रिवृतं त᳘स्मात्प᳘रिवृते चरन्ति 39

मूलम् - विस्वरम्

परिवृते चरन्ति । तिर इव वै पितरः । तिर इवैतत्- परिवृतम् । तस्मात् परिवृते चरन्ति ॥ २० ॥

सायणः

पितृयज्ञस्थानस्य परिश्रयणं विधाय स्तौति- परिवृत इति । ‘परिवृते’ परिवेष्टिते स्थाने; सिद्धमन्यत् ॥ २० ॥

Eggeling
  1. They perform it in an enclosed place. Secret, indeed, are the fathers, and secret also is that which is enclosed: hence they perform in an enclosed place.

२१

विश्वास-प्रस्तुतिः

(न्त्य᳘) अ᳘थेध्म᳘मभ्याद᳘धदाह॥
(हा) अग्न᳘ये समिध्य᳘मानाया᳘नुब्रूही᳘ति स ए᳘कामेव हो᳘ता सामिधेनीं त्रिर᳘न्वाह सकृ᳘दु[[!!]] ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मादे᳘काᳫंहो᳘ता सामिधेनीं त्रिर᳘न्वाह॥

मूलम् - श्रीधरादि

(न्त्य᳘) अ᳘थेध्म᳘मभ्याद᳘धदाह॥
(हा) अग्न᳘ये समिध्य᳘मानाया᳘नुब्रूही᳘ति स ए᳘कामेव हो᳘ता सामिधेनीं त्रिर᳘न्वाह सकृ᳘दु[[!!]] ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मादे᳘काᳫंहो᳘ता सामिधेनीं त्रिर᳘न्वाह॥

मूलम् - Weber

अ᳘थेध्म᳘मभ्याद᳘धदाह॥
अग्न᳘ये समिध्य᳘मानाया᳘नुब्रूही᳘ति स ए᳘कामेव हो᳘ता सामिधेनीं त्रिर᳘न्वाह सकृ᳘दुॗ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मादे᳘काᳫं हो᳘ता सामिधेनीं त्रिर᳘न्वाह॥

मूलम् - विस्वरम्

अथेध्ममभ्यादधदाह- ‘अग्नये समिध्यमानायानुब्रूहि’ इति । स एकामेव होता सामिधेनीं त्रिरन्वाह । सकृदु ह्येव पराञ्चः पितरः । तस्मादेकां होता सामिधेनीं त्रिरन्वाह ॥ २१ ॥

सायणः

स एकामेवेति । ‘सः’ होता ‘अग्नये समिध्यमानाय’ इति अध्वर्युणा प्रेषितः सन् ‘एकामेव’ ‘सामिधेनीं’ ‘त्रिः’ ब्रूयात् । न तु प्रकृतिवत् “प्र वो वाजाः” इत्याद्याः सामिधेन्यः पञ्चदश (ऋ. सं. ३. २७.१-१५) तत्र सामिधेन्येकत्वे कारणमाह- सकृदु ह्येवेति ॥ २१ ॥

Eggeling
  1. While putting firewood (on the fire), he then says (to the Hotr̥), ‘Recite to the fire, as it is being kindled!’ Only (this) one kindling-verse the Hotr̥ recites 40, (and that) thrice;–the fathers have departed once for all: hence the Hotr̥ recites thrice only one kindling-verse.

२२

विश्वास-प्रस्तुतिः

सो᳘ ऽन्वाह॥
(हो) उश᳘न्तस्त्वा नि᳘धीमह्युश᳘न्तः स᳘मिधीमहि। उश᳘न्नु शत आ᳘वह पितॄ᳘न्हवि᳘षे ऽअ᳘त्तव ऽइत्य᳘थाग्निमा᳘वह सो᳘ममा᳘वह पितॄन्त्सो᳘मवत आ᳘वह पितॄ᳘न्बर्हिष᳘द आ᳘वह पितॄ᳘नग्निष्वात्ताना᳘वह देवाँ᳘३ ऽआज्यपां ऽआ᳘वहाग्नि᳘ᳫँ᳘होत्राया᳘वह स्वं᳘ महिमा᳘नमा᳘वहे᳘त्यावाह्यो᳘पविशति॥

मूलम् - श्रीधरादि

सो᳘ ऽन्वाह॥
(हो) उश᳘न्तस्त्वा नि᳘धीमह्युश᳘न्तः स᳘मिधीमहि। उश᳘न्नु शत आ᳘वह पितॄ᳘न्हवि᳘षे ऽअ᳘त्तव ऽइत्य᳘थाग्निमा᳘वह सो᳘ममा᳘वह पितॄन्त्सो᳘मवत आ᳘वह पितॄ᳘न्बर्हिष᳘द आ᳘वह पितॄ᳘नग्निष्वात्ताना᳘वह देवाँ᳘३ ऽआज्यपां ऽआ᳘वहाग्नि᳘ᳫँ᳘होत्राया᳘वह स्वं᳘ महिमा᳘नमा᳘वहे᳘त्यावाह्यो᳘पविशति॥

मूलम् - Weber

सो᳘ ऽन्वाह॥
उश᳘न्तस्त्वा नि᳘धीमह्युश᳘न्तः स᳘मिधीमहि उश᳘न्नुशत आ᳘वह पितॄ᳘न्हवि᳘षे अ᳘त्तव इत्य᳘थाग्निमा᳘वह सो᳘ममा᳘वह पितॄन्त्सो᳘मवत आ᳘वह पितॄ᳘न्बर्हिष᳘द आ᳘वह पितॄ᳘नग्निष्वात्ताना᳘वह देवां᳘३ आज्यपां३ आ᳘वहाग्नि᳘ᳫं᳘ ᳘41 होत्राया᳘वह स्व᳘म् महिमा᳘नमा᳘वहे᳘त्यावाह्यो᳘पविशति॥

मूलम् - विस्वरम्

सो ऽन्वाह- “उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । उशन्नुशत आवह पितॄन् हविषे अत्तवे”- इति (वा. सं. १९ । ७०) । अथ- ‘अग्निमावह, सोममावह, पितॄन् सोमवत आवह, पितॄन् बार्हषद आवह, पितॄनग्निष्वात्तानावह, देवान् ३ आज्यपान् ३ आवह, अग्निं होत्रायावह, स्वं महिमानमावह- इत्यावाह्योपविशति ॥ २२ ॥

सायणः

अनुवक्तव्यां तामेकां सामिधेनीं दर्शयति- सो ऽन्वाहेति । ‘सः’ होता “उशन्तस्त्वा-” ‘इति’ एतां सामिधेनीं त्रिः अनुब्रूयात् । अस्यायमर्थः- हे अग्ने ! ‘उशन्तः’ कामयमानाः वयं त्वां ‘निधीमहि’ वेद्यां स्थापयामः । तथा ‘उशन्तः’ त्वत्साध्यं यागं कामयमाना एव सन्तः ‘समिधीमहि’ त्वां समिद्धं करवामहै । अग्ने ! त्वमपि अस्मदुक्तमर्थम् ‘उशन्’ कामयमानः सन् ‘उशतः’ अस्मदीयं यज्ञं कामयमानान् ‘पितॄन्’ ‘आवह’ आगमय, किमर्थम् ‘हविषे अत्तवे’ अस्माभिर्दत्तं हविर्भोक्तुम् “क्रियाग्रहणमपि कर्त्तव्यम्”- (पा. सू. १ । ४ । ३२ सू. वा. १) इति कर्मणः सम्प्रदानत्वाच्चतुर्थी । “अद भक्षणे” - (धा. पा. अदा. प. १) इति अस्मात् “तुमर्थे सेसेन्"- (पा. सू. ३ । ४ । ९) इति तवेन् प्रत्ययः ॥

अथाग्निमाहवेत्यादि । सामिधेन्यनुवचनानन्तरम् “अग्निमावह”- इत्याद्यावाहननिगदं ब्रूयात् । तत्राग्नीषोमावाज्यभागदेवते, पितरः सोमवन्त इत्याद्याः प्रधानदेवताः, ‘देवा आज्यपाः’ प्रयाजानुयाजदेवताः । तेषां सर्वेषामावाहनं कर्त्तुमग्निः प्रेष्यते- “अग्निं होत्राय”- इत्यादिना । शेषेण स्विष्टकृद्देवताया आवाहनप्रतिपादनम् । ‘होत्राय’ होमाय होतृकर्मणे वा ‘अग्निम् आवह’ । अग्निष्वात्तनाम्नस्तव स्वभूतो महिमा, तम्, तद्रूपस्वीकारिणमग्निमावहेत्यर्थः 42इत्यावाह्येति । अनेन निगदेनावाह्य तत्रोपविशेदित्यर्थः ॥ २२ ॥

Eggeling
  1. He recites, ‘Loving we deposit thee (O Agni), loving we enkindle thee: O loving one, bring

hither the loving fathers to eat their oblation!’ Thereupon he says, ‘Bring Agni hither 43! bring Soma hither! bring hither the fathers, accompanied by Soma! bring hither the fathers, seated on the barhis! bring hither the fathers, consumed by Agni! bring hither the butter-drinking gods! bring hither Agni for the Hotr̥ship! bring hither (thine) own greatness 44!’ Having thus called on (Agni) to bring hither (the fathers and gods), he sits down.

२३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाश्रा᳘व्य न हो᳘तारं प्र᳘वृणीते॥
पितृयज्ञो वा᳘ अयं नेद्धो᳘तारं पितृ᳘षु द᳘धानी᳘ति त᳘स्मान्न हो᳘तारं प्र᳘वृणीते सी᳘द होतरि᳘त्ये᳘वाहो᳘पविशति हो᳘ता होतृषदन ऽउपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावादा᳘य प्रत्यङ्ङ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह समि᳘धो यजे᳘ति सो᳘ ऽपबर्हिषश्चतु᳘रः प्रयाजा᳘न्यजति प्रजा वै᳘ बर्हिर्ने᳘त्प्रजाः᳘ पितृ᳘षु द᳘धानी᳘ति त᳘स्माद᳘पबर्हिषश्चतु᳘रः प्रयाजा᳘न्यजत्यथा᳘ज्यभागाभ्यां चरन्त्या᳘ज्यभागाभ्यां चरित्वा॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाश्रा᳘व्य न हो᳘तारं प्र᳘वृणीते॥
पितृयज्ञो वा᳘ अयं नेद्धो᳘तारं पितृ᳘षु द᳘धानी᳘ति त᳘स्मान्न हो᳘तारं प्र᳘वृणीते सी᳘द होतरि᳘त्ये᳘वाहो᳘पविशति हो᳘ता होतृषदन ऽउपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावादा᳘य प्रत्यङ्ङ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह समि᳘धो यजे᳘ति सो᳘ ऽपबर्हिषश्चतु᳘रः प्रयाजा᳘न्यजति प्रजा वै᳘ बर्हिर्ने᳘त्प्रजाः᳘ पितृ᳘षु द᳘धानी᳘ति त᳘स्माद᳘पबर्हिषश्चतु᳘रः प्रयाजा᳘न्यजत्यथा᳘ज्यभागाभ्यां चरन्त्या᳘ज्यभागाभ्यां चरित्वा॥

मूलम् - Weber

अ᳘थाश्रा᳘व्य न हो᳘तारम् प्र᳘वृणीते॥
पितृयज्ञो वा᳘ अयं नेद्धोतारम् पितृ᳘षु द᳘धानी᳘ति त᳘स्मान्न हो᳘तारम् प्र᳘वृणीते सी᳘द होतरि᳘त्येॗवाहो᳘पविशति हो᳘ता होतृषदन उपवि᳘श्य प्र᳘सौति प्र᳘सूतो ऽध्वर्युः स्रु᳘चावादा᳘य प्रत्यङ्ङ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह समि᳘धो यजे᳘ति सो᳘ ऽपबर्हिषश्चतु᳘रः प्रयाजा᳘न्यजति प्रजा वै᳘ बर्हिर्ने᳘त्प्रजाः᳘ पितृ᳘षु द᳘धानी᳘ति त᳘स्माद᳘पबर्हिषश्चतु᳘रः प्रयाजा᳘न्यजत्यथा᳘ज्यभागाभ्यां चरन्त्या᳘ज्यभागाभ्यां चरित्वा॥

मूलम् - विस्वरम्

अथाश्राव्य न होतारं प्रवृणीते । पितृयज्ञो वा अयम्, नेद्धोतरि पितृपु दधानीति । तस्मान्न होतारं प्रवृणीते । ‘सीद होतः’- इत्येवाह । उपविशति होता होतृषदने । उपविश्य प्रसौति प्रसूतो ऽध्वर्युः स्रुचावादाय प्रत्यङ्ङतिक्रामति । अतिक्रम्याश्राव्याह- ‘समिधो यज’ इति । सो ऽपबर्हिपश्चतुरः प्रयाजान्यजति । प्रजा वै बर्हिः, नेत्प्रजाः पितृषु दधानीति । तस्मादपबर्हिषश्चतुरः प्रयाजान् यजति । अथाज्यभागाभ्यां चरन्ति । आज्यभागाभ्यां चरित्वा ॥ २३ ॥

सायणः

प्रकृतिवत् प्राप्तं होतृवरणं निषेधति- अथाश्राव्य न होतारमिति 42 । आवाहनानन्तरमाश्रावणप्रत्याश्रावणे कृत्वा, ‘सीद होतः !’ इत्येवाध्वर्युर्ब्रूयात्; न तु “अग्निर्देवो दैव्यो होता”- इति निगदेन होतारं प्रवृणीतेत्यर्थः । एतदुपपादयति- पितृयज्ञो वा अयमिति । यतो ऽयं पितृयज्ञः, अतो ऽत्र पितरः सन्निहिताः; तत्र यदि होतुर्वरणं कुर्यात्, तदा ‘न’ ‘होतारं’ तेषु पितृषु ‘दधाति’ स्थापयति, न चैतद् युक्तम्, ‘इति’ अनेनाभिप्रायेण होतारं ‘न’ प्रवृणीयात् । किन्तर्हि आश्रावणानन्तरं ब्रूयात् इति, तदाह- सीदेति । हे ‘होतः !’ त्वं ‘सीद’ उपविश ‘इति’ एतद्वाक्यम् अध्वर्युर्ब्रूयात्; न होतुर्वरणम् । ‘होता’ चैवं कृत्वा ‘होतृषदने’ ‘उपविशति’ उपविशेत् ॥

स्रुगादाननिगदेनाध्वर्युः ‘प्रसौति’ अनुजानाति । “षु प्रसवैश्वर्ययोः”- (धा. पा. अदा. प. ३१) इति धातुः । स च ‘प्रसूतः’ होत्रा प्रेरितः ‘अध्वर्युः’ ‘स्रुचौ’ जुहूपभृतौ ‘आदाय’ ‘प्रत्यङ्’ मुखः अतिक्रामति । ‘अतिक्रम्य’ वेदेः पश्चिमभागे स्थित्वा, आश्रावणप्रभृति ‘अपबर्हिषः’ बर्हिश्चतुर्थः प्रयाजः । तद्वर्जं ‘चतुरः प्रयाजान्’ यजेत । बर्हिर्वर्जनस्याभिप्रायमाह- प्रजा वा इति । शिष्टं निगदसिद्धम् 45 ॥ २३ ॥

Eggeling
  1. Having then called 46 for the (Āgnīdhra’s) ‘Śraushaṭ,’ he does not elect the Hotr̥; for this being a sacrifice to the Manes, he does not elect the Hotr̥ 47, lest he should consign the Hotr̥ to the Manes. He says, ‘Hotr̥, seat thyself!’ and takes his seat. The Hotr̥, having sat down on the Hotr̥’s seat, urges (the Adhvaryu) to proceed; and thus urged, the Adhvaryu takes the two spoons and steps across to the west (of the fire); and having stepped across and called for the ‘Śraushaṭ,’ he says, ‘Pronounce the offering-prayer to the kindling-sticks!’ He performs four fore-offerings 48,

omitting the one to the Barhis; for the barhis means offspring, and he therefore performs the four fore-offerings without the one to the barhis, lest he should consign his offspring to the fathers. Thereupon they proceed with the two butter-portions; and having offered the two butter-portions,–

२४

विश्वास-प्रस्तुतिः

ते स᳘र्व्व ऽएव᳘ प्राचीनावीति᳘नो भू᳘त्वा॥
(त्वै) एतैर्वै᳘ हवि᳘र्भिः प्रचरिष्य᳘न्त इत्थाद्य᳘जमानश्च ब्रह्मा᳘ च पुरस्तात्परीतः᳘ पश्चा᳘दग्नीत्त᳘दुता᳘श्रावयन्त्योँ᳘३ᳫं᳘ स्वधेत्य᳘स्तु स्वधे᳘ति प्रत्याश्रा᳘वणᳫं᳭स्वधा न᳘म इ᳘ति व्वषट्कारः॥

मूलम् - श्रीधरादि

ते स᳘र्व्व ऽएव᳘ प्राचीनावीति᳘नो भू᳘त्वा॥
(त्वै) एतैर्वै᳘ हवि᳘र्भिः प्रचरिष्य᳘न्त इत्थाद्य᳘जमानश्च ब्रह्मा᳘ च पुरस्तात्परीतः᳘ पश्चा᳘दग्नीत्त᳘दुता᳘श्रावयन्त्योँ᳘३ᳫं᳘ स्वधेत्य᳘स्तु स्वधे᳘ति प्रत्याश्रा᳘वणᳫं᳭स्वधा न᳘म इ᳘ति व्वषट्कारः॥

मूलम् - Weber

ते स᳘र्व एव᳘ प्राचीनावीति᳘नो भूत्वा॥
एतैर्वै᳘ 49 हवि᳘र्भिः प्रचरिष्य᳘न्त इत्थाद्य᳘जमानश्च ब्रह्मा᳘ च पुरस्तात्परीतः᳘ पश्चा᳘दग्नीत्त᳘दुता᳘श्रावयन्त्यों᳘३ स्वधेत्य᳘स्तु स्वधे᳘ति प्रत्याश्रा᳘वणᳫं स्वधा न᳘म इ᳘ति वषट्कारः॥

मूलम् - विस्वरम्

ते सर्व एव प्राचीनावीतिनो भूत्वा, एतैर्वै हविर्भिः प्रचरिष्यन्तः- इत्थाद् यजमानश्च ब्रह्मा व पुरस्तात्परीतः । पश्चादग्नीत् । तदुताश्रावयन्ति | ‘ॐ ३ स्वधा’- इति । ‘अस्तु स्वधा’- इति प्रत्याश्रावणम् । ‘स्वधा नमः’- इति वषट्कारः ॥ २४ ॥

सायणः

हविर्भिः प्रचरणार्थं प्राचीनावीतित्वं पुनर्विधत्ते- ते सर्व एवेति । ‘ते’ ऋत्विग्यजमानाः ‘सर्व एव’ ‘प्राचीनावीतिनः’ भवेयुः । ब्रह्मयजमानाग्नीध्राणां पूर्वं परिक्रान्तानां प्रधानयागार्थमन्यथा परिक्रमणं विधत्ते 49- इत्थादिति । ‘इत्थात्’ अनेन प्रकारेण ब्रह्मयजमानौ चतुःस्रक्तेर्वेदेः ‘पुरस्तात्’ प्रतिगच्छतः, आग्नीध्रः ‘पश्चात्’ प्रतिगच्छेत् । प्रधानहविषो याज्यानामाश्रावणवषट्कारानाचष्टे- तदिति । ‘तत्’ तत्र पित्र्येषु प्रधानहविष्णु ‘ॐ स्वधा’- इति अध्वर्युराश्रावयेत्, ‘अस्तु स्वधा’ इति आग्नीध्रः प्रत्याश्रावणं कुर्यात्, होता ‘स्वधा नमः’- इति वषट्कुर्यात् । अस्यायमर्थः- “ॐ श्रावय"- “अस्तु श्रौषट्’ ”वौषट्” शब्दानां स्थाने ते प्रयोक्तव्या इत्यर्थः ॥

तत्राध्वर्युप्रैषस्यायमर्थः- ॐकारो ऽङ्गीकारार्थः, स्वधेति पित्र्यं हविर्नाम । हे अग्नीत् ! पितृभ्यो दीयमानमिदं हविः तवाभिमतं किमिति । तत्तथा ऽस्त्विति अग्नीत्प्रैषस्यार्थः । नमःशब्दस्त्यागार्थः । पितॄनुद्दिश्य दीयमानैषा ‘स्वधा’ तदीयं हविः ‘नमः’ त्यक्तमस्तु, इति वषट्कारप्रतिनिधिभूतस्य वाक्यस्यार्थः 50 ॥ २४ ॥

Eggeling
  1. They all shift their sacrificial cord over to the right shoulder, being now about to proceed with those (chief) oblations. The Sacrificer and Brahman, (being) thus (invested), step across (from the west) to the east side, and the Āgnīdhra (from the east) to the west side (of the fire). And furthermore, the (Adhvaryu’s) call for the ‘Śraushaṭ’ is ‘Õṁ svadhā!’ and the (Āgnīdhra’s) response is ‘Astu svadhā 51!’ and the Vashat-call is ‘Svadhā namaḥ!’

२५

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दु होवाचा᳘सुरिः॥
(रा᳘) आ᳘श्रावयेयुरेव᳘ प्रत्या᳘श्रावयेयुर्व᳘षट्कुर्युर्ने᳘द्यज्ञ᳘स्य व्विधा᳘या अ᳘यामेति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दु होवाचा᳘सुरिः॥
(रा᳘) आ᳘श्रावयेयुरेव᳘ प्रत्या᳘श्रावयेयुर्व᳘षट्कुर्युर्ने᳘द्यज्ञ᳘स्य व्विधा᳘या अ᳘यामेति॥

मूलम् - Weber

त᳘दु होवाचा᳘सुरिः॥
आ᳘श्रावयेयुरेव᳘ प्रत्या᳘श्रावयेयुर्व᳘षट्कुर्युर्ने᳘द्यज्ञ᳘स्य विधा᳘या अ᳘यामेति॥

मूलम् - विस्वरम्

तदु होवाचासुरिः । आश्रावयेयुरेव, प्रत्याश्रावयेयुः, वषट् कुर्युः- नेद्यज्ञस्य विधाया अपामेति ॥ २५ ॥

सायणः

प्रकृतिवदेवाश्रावणादिकं कर्त्तव्यमिति पक्षान्तरमाह- तदु होवाचेति । ‘आश्रावयेयुः’- इत्यादिना आश्रावणादिकर्तॄणामध्वर्य्यादीनामेकत्वे ऽपि पूजार्थं बहुवचनम् । ‘यज्ञस्य’ प्रकृतिभूतस्य दर्शपूर्णमासयागस्य ‘विधायाः’ विधा प्रकारः संस्थानम्, तस्मात् ‘न’ एव ‘अयाम’ प्रच्यवामहै ‘इति’ प्रागुदीरितस्यापेक्षा; अन्यथा हि आश्रावणादीनां प्रकृतिवदप्रयोगात् यज्ञविधायाः प्रच्युतिः स्यादित्यभिप्रायः । अत एव सूत्रकृत् स्वधाकरणयज्ञस्य विकल्पमाह स्म- “ॐस्वधेत्यस्तु स्वधेति वा- ऽऽश्रुतप्रत्याश्रुते” इति (का. श्रौ. सू. ५ । २३३) ॥ २५ ॥

Eggeling
  1. As to this, Āsuri said, ‘Let them call for the Sraushaṭ (by “Õ Śrāvaya”), and let them respond with the “(Astu) Śraushaṭ,” and let them pronounce the “Vashat,” lest we should depart from the manner of the sacrifice.’

२६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह पितृ᳘भ्यः सो᳘मवद्भ्यो᳘ ऽनुब्रूही᳘ति॥
सो᳘माय वा पितृम᳘ते स द्वे᳘ पुरो ऽनुवा᳘क्ये ऽअ᳘न्वाहै᳘कया वै᳘ देवा᳘न्प्रच्याव᳘यन्ति द्वा᳘भ्यां पितॄ᳘न्त्सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्माद्द्वे᳘ पुरो ऽनुवा᳘क्ये ऽअ᳘न्वाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह पितृ᳘भ्यः सो᳘मवद्भ्यो᳘ ऽनुब्रूही᳘ति॥
सो᳘माय वा पितृम᳘ते स द्वे᳘ पुरो ऽनुवा᳘क्ये ऽअ᳘न्वाहै᳘कया वै᳘ देवा᳘न्प्रच्याव᳘यन्ति द्वा᳘भ्यां पितॄ᳘न्त्सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्माद्द्वे᳘ पुरो ऽनुवा᳘क्ये ऽअ᳘न्वाह॥

मूलम् - Weber

अ᳘थाह पितृ᳘भ्यः सो᳘मवद्भ्यो᳘ ऽनुब्रूही᳘ति॥
सो᳘माय वा पितृम᳘ते स द्वे᳘ पुरो ऽनुवाॗक्ये अ᳘न्वाहै᳘कया वै᳘ देवा᳘न्प्रच्याव᳘यन्ति द्वाभ्याम् पितॄ᳘न्त्सकृ᳘दुॗ ह्येव प᳘राञ्चः पितरस्त᳘स्माद्द्वे᳘ पुरो ऽनुवाॗक्ये अ᳘न्वाह॥

मूलम् - विस्वरम्

अथाह- ‘पितृभ्यः सोमवद्भ्यो ऽनुब्रूहि’ इति । ‘सोमाय वा पितृमते’ । स द्वे पुरो ऽनुवाक्ये अन्वाह । एकया वै देवान् प्रच्यावयन्ति, द्वाभ्यां पितॄन् । सकृदु ह्येव पराञ्चः पितरः । तस्माद् द्वे पुरो ऽनुवाक्ये अन्वाह ॥ २६ ॥

सायणः

अनुवाक्यार्थं प्रैषवचनं प्रथमयागस्य विधत्ते- अथाहेति । पितृप्रधानसोमप्रधानयोरुभयोरपि युक्तत्वात् तदपेक्षया पितरः सोमवन्तः पितृमन्तो वेति विकल्पः प्रागुपन्यस्तः; तदभिप्रायेणात्रापि सम्प्रैषस्य द्वैविध्यम् । हेतुरनुवाक्यावचने प्रकृतितो विशेषमाह- स द्वे इति । अनुवाक्याद्वित्वमुपपादयति- एकया वा इत्यादि । ‘एकया’ एव अनुवाक्यया ‘देवान्’ स्वस्थानात् ‘प्रच्यावयन्ति’ देवयजनदेशमागन्तुम् पितरस्तु परागमनादपुनरावृत्तिङ्गताः, अतो न ते एकया पुरोनुवाक्यया प्रच्यावयितुं शक्याः; ततः प्रयत्नविशेषे कर्त्तव्ये ‘द्वाभ्यां’ पुरोनुवाक्याभ्यां होता तान् ‘पितॄन्’ आगमयतीत्यर्थः ॥ २६ ॥

Eggeling
  1. [The Adhvaryu] then says, ‘Pronounce the invitatory prayer to the fathers, accompanied by Soma!’ or ‘–to Soma, accompanied by the fathers’!–Two invitatory prayers he (the Hotr̥) pronounces (at the offerings), because it is with one that one moves the gods, and with two the fathers, since the fathers have departed once (for all) 52: hence he pronounces two invitatory prayers.

२७

विश्वास-प्रस्तुतिः

स उ᳘पस्तृणीत ऽआ᳘ज्यम्॥
(म᳘) अ᳘थास्य᳘ पुरोडा᳘शस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ धाना᳘नां ते᳘न सह᳘ मन्थ᳘स्य त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ए᳘वोपोत्था᳘याश्रा᳘व्याह पितॄन्त्सो᳘मवतो यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

स उ᳘पस्तृणीत ऽआ᳘ज्यम्॥
(म᳘) अ᳘थास्य᳘ पुरोडा᳘शस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ धाना᳘नां ते᳘न सह᳘ मन्थ᳘स्य त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ए᳘वोपोत्था᳘याश्रा᳘व्याह पितॄन्त्सो᳘मवतो यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

स उ᳘पस्तृणीत आ᳘ज्यम्॥
अ᳘थास्य᳘ पुरोडा᳘शस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ धाना᳘नां ते᳘न सह᳘ मन्थ᳘स्य त᳘त्सकृद᳘वदधात्यथोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ एॗवोपोत्था᳘याश्रा᳘व्याह पितॄन्त्सो᳘मवतो यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति । स तेनैव सह धानानाम् । तेन सह मन्थस्य । सकृदवदधाति । अथोपरिष्टाद् द्विराज्यस्याभिघारयति । प्रत्यनक्त्यवदानानि । नातिक्रामति । इत एवोपोत्थाय, आश्राव्याह- ‘पितॄन् सोमवतो यज’ इति । वषट्कृते जुहोति ॥ २७ ॥

सायणः

प्रधानयागप्रचरणे हि त्रीणि हवींषि समवदाय एकैका देवता यष्टव्या, तत्र पितॄणां सोमवतां यजनप्रकारमाह- स उपस्तृणीत आज्यामिति । द्विराज्यस्येति । आज्येनोपस्तरणमेकमवदानम्, पुरोडाशादिहविस्त्रयात् सकृत्सकृदवदानम्, तत् सकृदिति यदवदानं सम्पद्यते, एतेन सकृदवदधातीति वाक्यमुक्तार्थं भवति । (का. श्रौ. सू. ५ । २२७) । यदि अभिघारणमुपस्तरणं च सकृदेव स्यात्, तदा चतुरवत्तसम्पत्तिर्न स्यात्; चतुरवत्तं हि यागयोग्यं द्रव्यम्, तस्माद् द्विरभिघारणं कर्त्तव्यमित्यर्थः 53प्रत्यनक्त्यवदानानीति । अवद्यत्यस्मादित्यवदानम्, अवत्तशिष्टं हविः । “कृत्यल्युटो बहुलम्”- (पा. सू. ३ । ३ । ११३) इति अपादाने ल्युट् । अवत्तशिष्टानि हवींषि प्रत्यज्यादित्यर्थः । प्रकृतिवत् प्राप्तमतिक्रमणं निषेधति- नातिक्रामतीति । कथं तर्हि कर्त्तव्यमिति तत्राह- इत एवेति । यत्रोपविश्यावद्यति, ‘इत एव’ स्थानात् ‘उपोत्थाय’ तत्रैव तिष्ठन्नाश्रावणादिकं कुर्यादित्यर्थः ॥ २७ ॥

Eggeling
  1. [The Adhvaryu] makes an ‘under-layer’ of butter (in the juhū or offering-spoon). He then cuts a piece from the cake, and together therewith some of the parched grain and the porridge 54. This he puts down at the same time (in the juhū); makes two sprinklings of butter thereon; and re-anoints (replenishes with butter, the parts of the sacrificial dishes from which he has made) the cuttings. He does not walk over (to the south side of the fire); but having risen and stepped up (to the fire) on the same side (where he was seated), and called (on the Āgnīdhra) for the ‘Śraushaṭ,’ he says (to the Hotr̥), ‘Pronounce the offering-prayer to the fathers, accompanied by Soma!’ and pours the oblation (into the fire) as soon as the Vashaṭ 55 has been uttered.

२८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह᳘ पि᳘तृ᳘भ्यो बर्हिषद्भ्यो᳘ ऽनुब्रूही᳘ति॥
स उ᳘पस्तृणीत ऽआ᳘ज्यम᳘थासां᳘ धाना᳘नाम᳘वद्यति स ते᳘नैव᳘ सह᳘ मन्थ᳘स्य ते᳘न सह᳘ पुरोडा᳘शस्य तत्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति[[!!]] प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ए᳘वोपोत्था᳘याश्रा᳘व्याह पितॄ᳘न्बर्हिष᳘दो यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह᳘ पि᳘तृ᳘भ्यो बर्हिषद्भ्यो᳘ ऽनुब्रूही᳘ति॥
स उ᳘पस्तृणीत ऽआ᳘ज्यम᳘थासां᳘ धाना᳘नाम᳘वद्यति स ते᳘नैव᳘ सह᳘ मन्थ᳘स्य ते᳘न सह᳘ पुरोडा᳘शस्य तत्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति[[!!]] प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ए᳘वोपोत्था᳘याश्रा᳘व्याह पितॄ᳘न्बर्हिष᳘दो यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थाह पितृ᳘भ्यो बर्हिषद्भ्यो᳘ ऽनुब्रूही᳘ति॥
स उ᳘पस्तृणीत आ᳘ज्यम᳘थासां᳘ धाना᳘नाम᳘वद्यति स ते᳘नैव᳘ सह᳘ मन्थ᳘स्य ते᳘न सह᳘ पुरोडा᳘शस्य 56 त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्विरा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ एॗवोपोत्था᳘याश्रा᳘व्याह पितॄ᳘न्बर्हिष᳘दो यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथाह- ‘पितृभ्यो बर्हिषद्भ्यो ऽनुब्रूहि’ इति । स उपस्तृणीत आज्यम् । अथासां धानानामवद्यति । स तेनैव सह मन्थस्य तेन सह पुरोडाशस्य तत् सकृदवदधाति । अथोपरिष्टाद् द्विराज्यस्याभिघारयति । प्रत्यनक्त्यवदानानि । नातिक्रामति । इत एवोपोत्थाय, आश्राव्याह- ‘पितॄन् बर्हिषदो यज’ इति । वषट्कृते जुहोति ॥ २८ ॥

सायणः

द्वितीयतृतीययागयोरेवमेवानुप्राणनप्रकारं दर्शयति- अथाहेति । अत्रापि पूर्ववदेव पुरो ऽनुवाक्याद्वित्वमनुक्रम्यावगन्तव्यम् । उपस्तृणीत इत्यादि, पूर्ववत्; एतावांस्तु विशेषः- द्वितीययागस्य हविरादाने धानानां प्राथम्यम्, तृतीयस्य हविरादाने मन्थस्य प्राथम्यम् । अस्मादेव प्राथम्यात्सोमवदादियागत्रयस्य हविषां त्रयस्य धारणे ऽपि निर्वापकाले सपितृभ्यः सोमवद्भ्यः षट्कपालं पुरोडाशमित्यादिना विशेषाभिधानम् 57 ॥ २८ ॥ २९ ॥

Eggeling
  1. Thereupon he says, ‘Pronounce the invitatory prayer to the fathers, seated on the barhis!’ He then makes an under-layer of butter, takes a ‘cutting’ from (the north part of) the parched grain, and together therewith some of the porridge and the cake; puts down all this at the same time (in the juhū); makes two sprinklings of butter thereon, and re-anoints (the places of) the cuttings. He does not walk across; but having stepped up (to the fire) on the same side and called for the ‘Śraushaṭ,’ he says, ‘Pronounce the offering-prayer to the fathers, seated on the barhis!’ and pours out the oblation as soon as the Vashat has been uttered.

२९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह पितृ᳘भ्यो ऽग्निष्वात्तेभ्यो᳘ ऽनुब्रूही᳘ति॥
स ऽउ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्य᳘ मन्थस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ पुरोडा᳘शस्य ते᳘न सह᳘ धाना᳘नां त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ऽए᳘वोपोत्था᳘याश्रा᳘व्याह पितॄ᳘नग्निष्वात्ता᳘न्यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह पितृ᳘भ्यो ऽग्निष्वात्तेभ्यो᳘ ऽनुब्रूही᳘ति॥
स ऽउ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्य᳘ मन्थस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ पुरोडा᳘शस्य ते᳘न सह᳘ धाना᳘नां त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ऽए᳘वोपोत्था᳘याश्रा᳘व्याह पितॄ᳘नग्निष्वात्ता᳘न्यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

अ᳘थाह पितृ᳘भ्यो ऽग्निष्वात्तेभ्यो᳘ ऽनुब्रूही᳘ति॥
स उ᳘पस्तृणीत आ᳘ज्यम᳘थास्य᳘ मन्थस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ पुरोडा᳘शस्य ते᳘न सह᳘ धाना᳘नां त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ एॗवोपोत्था᳘याश्रा᳘व्याह पितॄ᳘नग्निष्वात्ता᳘न्यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

अथाह- ‘पितृभ्यो ऽग्निष्वात्तेभ्यो ऽनुब्रूहि’ इति । स उपस्तृणीत आज्यम् । अथास्य मन्थस्यावद्यति । स तेनैव सह पुरोडाशस्य तेन सह धानानाम् । तत् सकृदवदधाति । अथोपरिष्टाद्- द्विराज्यस्याभिघारयति । प्रत्यनक्त्यवदानानि । नातिक्रामति इत एवोपोत्थाय, आश्राव्याह- ‘पितॄनग्निष्वात्तान् यज’ इति । वषट्कृते जुहोति ॥ २९ ॥

सायणः

[व्याख्यानं अष्टाविंशतितमे]

Eggeling
  1. Thereupon he says, ‘Pronounce the invitatory prayer to the fathers, consumed by the fire!’ He then makes an under-layer of butter, takes a cutting from (the south part of) the porridge, and therewith some of the cake and the parched grains; puts down all this at the same time (in the juhū); makes two sprinklings of butter thereon, and re-anoints (the places of) the cuttings. He does not walk across; but having stepped up (to the fire) on the same side, and called for the ‘Śraushaṭ,’ he says, ‘Pronounce the offering-prayer to the fathers, consumed by the fire!’ and pours out the oblation as soon as the Vashat has been uttered.

३०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाहाग्न᳘ये कव्यवा᳘हनाया᳘नुब्रूही᳘ति॥
त᳘त्स्विष्टकृ᳘तं हव्यवा᳘हनो वै᳘ देवा᳘नां कव्यवा᳘हनः पितॄणां त᳘स्मादाहाग्न᳘ये कव्यवा᳘हनाया᳘नुब्रूही᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाहाग्न᳘ये कव्यवा᳘हनाया᳘नुब्रूही᳘ति॥
त᳘त्स्विष्टकृ᳘तं हव्यवा᳘हनो वै᳘ देवा᳘नां कव्यवा᳘हनः पितॄणां त᳘स्मादाहाग्न᳘ये कव्यवा᳘हनाया᳘नुब्रूही᳘ति॥

मूलम् - Weber

अ᳘थाहाग्न᳘ये कव्यवा᳘हनाया᳘नुब्रूही᳘ति॥
त᳘त्स्विष्टकृ᳘ते हव्यवा᳘हनो वै᳘ देवा᳘नां कव्यवा᳘हनः पितॄणां त᳘स्मादाहाग्न᳘ये कव्यवा᳘हनाया᳘नुब्रूही᳘ति॥

मूलम् - विस्वरम्

अथाह- ‘अग्नये कव्यवाहनायानुब्रूहि’ इति । तत् स्विष्टकृते । हव्यवाहनो वै देवानाम्, कव्यवाहनः पितॄणाम् । तस्मादाह- ‘अग्नये कव्यवाहनायानुब्रूहि’ इति ॥ ३० ॥

सायणः

इत्थं प्रधानयागं कृत्वा स्विष्टकृत्स्थाने ऽग्निः कव्यवाहनो यष्टव्य इत्यभिप्रेत्य तदनुवाक्याप्रैषस्य वचनं विधत्ते- अथाहाग्नय इति । तत् स्विष्टकृत इति । यदेतत् “अग्नये कव्यवाहनायानुब्रूहि”- इति सम्प्रैषवचनम्, ‘तत्’ ‘स्विष्टकृते’ स्विष्टकृद्यागार्थम् । पितॄणां कव्यवाहनसम्बन्धप्रतिपादनेनैवैतदुपपादयति- कव्यवाहनो वा इति । देवेभ्यो दीयमानं हविः ‘हव्यम्’, पितृभ्यस्तु दीयमानं तत् ‘कव्यम्’ । तदुभयं वहतीति हव्यवाहनकव्यवाहननामानौ द्वावेवाग्नी क्रमेण देवपितृसम्बन्धिनौ । “कव्यपुरीषपुरीष्येषु ञ्युट्”- “हव्ये ऽनन्तःपादम्”- (पा. सू. ३ । २ । ६५ । ६६) इति सूत्राभ्यां वहतेर्ञ्युट् । एष चाग्नेरवान्तरभेदः प्रागप्याम्नातः; तैत्तिरीयके ऽप्याम्नायते- “त्रयो वा अग्नयः; हव्यवाहनः देवानाम्, कव्यवाहनः पितॄणाम्, सहरक्षाः असुराणाम्”- (तै. सं. २ । ५ । ८ । ११) इति । यस्मादेवं कव्यवाहनः पितॄणां सम्बन्धी, तस्मात् “अग्नये कव्यवाहनाय”- इत्येव वक्तव्यमिति निगमयति- तस्मादाहेति 57 ॥ ३० ॥

Eggeling
  1. Thereupon he says, ‘Pronounce the invitatory prayer to Agni Kavyavāhana!’ that being for (Agni as) the Svishṭakr̥t (‘maker of good offering’). For to the gods indeed he is havyavāhana (‘bearer of oblations’), and to the fathers he is kavyavāhana (’the bearer of what is meet for the wise’): hence he says, ‘Pronounce the invitatory prayer to Agni Kavyavāhana!’

३१

विश्वास-प्रस्तुतिः

स उ᳘पस्तृणीत ऽआ᳘ज्यम्॥
(म᳘) अ᳘थास्य᳘ पुरोडा᳘शस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ धाना᳘नां ते᳘न सह᳘ मन्थ᳘स्य त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ए᳘वोपोत्था᳘याश्रा᳘व्याहाग्निं᳘ कव्यवा᳘हनं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - श्रीधरादि

स उ᳘पस्तृणीत ऽआ᳘ज्यम्॥
(म᳘) अ᳘थास्य᳘ पुरोडा᳘शस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ धाना᳘नां ते᳘न सह᳘ मन्थ᳘स्य त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ ए᳘वोपोत्था᳘याश्रा᳘व्याहाग्निं᳘ कव्यवा᳘हनं यजे᳘ति व्व᳘षट्कृते जुहोति॥

मूलम् - Weber

स उ᳘पस्तृणीत आ᳘ज्यम्॥
अ᳘थास्य᳘ पुरोडा᳘शस्या᳘वद्यति स ते᳘नैव᳘ सह᳘ धाना᳘नां ते᳘न सह᳘ मन्थ᳘स्य त᳘त्सकृद᳘वदधात्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नानि ना᳘तिक्रामतीत᳘ एॗवोपोत्था᳘याश्रा᳘व्याहाग्निं᳘ कव्यवा᳘हनं यजे᳘ति व᳘षट्कृते जुहोति॥

मूलम् - विस्वरम्

स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति । स तेनैव सह धानानाम्, तेन सह मन्थस्य । तत् सकृदवदधाति । अथोपरिष्टाद् द्विराज्यस्याभिघारयति । न प्रत्यनक्त्यवदानानि । नातिक्रामति । इत एवोपोत्थाय, आश्राव्याह- ‘अग्निं कव्यवाहनं यज’ इति । वषट्कृते जुहोति ॥ ३१ ॥

सायणः

तस्य स्विष्टकृत्स्थानीयस्यकव्यवाहनयागस्य पूर्ववदुपस्तरणादिहोमान्तानुष्ठानप्रकारमाह- स उपस्तृणीत इत्यादिना। स्विष्टकृद्यागस्य शेषद्रव्यसाध्यत्वाद्धविरुत्पत्तिक्रमेणैवात्रावदानमित्यभिप्रेत्याह- अथास्य पुरोडाशस्येति । न प्रत्यनक्तीति । हविः प्रत्यभिचारणस्य स्विष्टकृदर्थत्वात् तस्य च हविषो ग्रहणात् पुनः प्रत्यभिघारणं न कर्तव्यमित्यर्थः । अन्यदुक्तार्थम् ॥ ३१ ॥

Eggeling
  1. He makes an under-layer of butter (in the offering-spoon); then cuts a piece from (the front part of) the cake, and therewith some of the parched grain and the porridge; puts down all this at the same time; and makes two sprinklings of butter thereon. The (places from which he has made the) cuttings he does not replenish with butter, nor does he walk across; but having stepped up (to the fire) on the same side (where he was seated), and called for the ‘Śraushaṭ,’ he says, ‘Pronounce the offering-prayer to Agni Kavyavāhana!’ and pours out the oblation, as soon as the Vashaṭ has been uttered.

३२

विश्वास-प्रस्तुतिः

स य᳘न्नातिक्रा᳘मति॥
(ती) इत᳘ ए᳘वोपोत्था᳘य जुहो᳘ति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पितरो᳘ ऽथ य᳘त्सकृ᳘त्सकृत्सर्व्वेषाᳫं᳭हवि᳘षाᳫं᳭ समवद्य᳘ति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पितरो᳘ ऽथ य᳘द्व्यतिष᳘ङ्गमवदा᳘नान्यवद्य᳘त्यृत᳘वो वै᳘ पित᳘र ऋतू᳘ने᳘वैतद्व्य᳘तिषजत्यृतून्त्स᳘न्दधाति त᳘स्माद्व्यतिष᳘ङ्गमवदा᳘नान्य᳘वद्यति॥

मूलम् - श्रीधरादि

स य᳘न्नातिक्रा᳘मति॥
(ती) इत᳘ ए᳘वोपोत्था᳘य जुहो᳘ति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पितरो᳘ ऽथ य᳘त्सकृ᳘त्सकृत्सर्व्वेषाᳫं᳭हवि᳘षाᳫं᳭ समवद्य᳘ति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पितरो᳘ ऽथ य᳘द्व्यतिष᳘ङ्गमवदा᳘नान्यवद्य᳘त्यृत᳘वो वै᳘ पित᳘र ऋतू᳘ने᳘वैतद्व्य᳘तिषजत्यृतून्त्स᳘न्दधाति त᳘स्माद्व्यतिष᳘ङ्गमवदा᳘नान्य᳘वद्यति॥

मूलम् - Weber

स यॗन्नातिक्रा᳘मति॥
इत᳘ एॗवोपोत्था᳘यं जुहो᳘ति सकृ᳘दुॗ ह्येव प᳘राञ्चः पितरो᳘ ऽथ य᳘त्सकृ᳘त्सर्वेषाᳫं समवद्य᳘ति सकृ᳘दुॗ ह्येव प᳘राञ्चः पितरो᳘ ऽथ य᳘द्व्यतिष᳘ङ्गमवदा᳘नान्यवद्य᳘त्यृत᳘वो वै᳘ पित᳘र ऋतू᳘नेॗवैतद्व्य᳘तिषजत्यृतून्त्सं᳘दधाति त᳘स्माद्व्यतिष᳘ङ्गमवदा᳘नान्य᳘वद्यति॥

मूलम् - विस्वरम्

स यन्नातिक्रामति । इत एवोपोत्थाय जुहोति । सकृदु ह्येव पराञ्चः पितरः । अथ यत् सकृत् सकृत् सर्वेषां हविषां समवद्यति । सकृदु ह्येव पराञ्चः पितरः । अथ यद् व्यतिषङ्गमवदानान्यवद्यति । ऋतवो वै पितरः- ऋतूनेवैतद् व्यतिषजति, ऋतून्त्सन्दधाति । तस्माद् व्यतिषङ्गमवदानान्यवद्यति ॥ ३२ ॥

सायणः

स्विष्टकृच्चतुर्थेषूक्तेषु यागेषु नातिक्रामतीति यो ऽतिक्रमनिषेध उक्तः, तमनूद्य स्तौति- स यन्नातिक्रामतीति । सकृदवदानं प्रशंसति- अथ यदिति । सोमवदादियागत्रये ऽपि यद्धविषो व्यतिषञ्जनमुक्तम् ‘अथास्य पुरोडाशस्यावद्यती’ त्यादिना, तदनूद्य स्तौति- अथ यद् व्यतिषङ्गमिति । व्यतिषङ्गमिति क्रियाविशेषणम्; परस्परं संसृष्टं यथाभवति तथेत्यर्थः । ऋतवो वै पितर इति । पितॄणामृतुरूपत्वं प्रागेव दर्शितम् “त उ ते यान् पुनः समैरयत” इति । तथा च ‘एतत्’ एतेन, पितृदेवत्यहविषा व्यतिषञ्जनेन ‘ऋतूनेव व्यतिषजति’ परस्परं संसर्जयति, तेन व्यतिषञ्जनेन तान् ‘ऋतून्’ ‘सन्दधाति’ परस्परमविनाभूतान् करोति ॥ ३२ ॥

Eggeling
  1. Now the reason why he does not walk across (to the ordinary place of offering), but pours out the oblation after stepping up (to the fire) on the sane side, is that the fathers have departed once for all; and the reason also, why he cuts but once from each of the sacrificial dishes, is that the fathers have departed once for all. And the reason why in making the cuttings, he keeps them together, is that the fathers are the seasons;–he thus keeps the seasons together, joins them to one another: that is why in making the cuttings, he keeps them together.

३३

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
(क ऽ) एत᳘मेव हो᳘त्रे मन्थमा᳘दधति तᳫँ᳭ हो᳘तोपहूया᳘वैव᳘ जिघ्रति तं᳘ ब्रह्म᳘णे प्र᳘यच्छति तं᳘ ब्रह्मा᳘वैव᳘ जिघ्रति त᳘मग्नी᳘धे प्र᳘यच्छति त᳘मग्नीद᳘वैव᳘ जिघ्रत्येत᳘न्न्वे᳘वोत᳘ कुर्व्वन्ति य᳘था᳘ त्वेवे᳘तरस्य यज्ञ᳘स्येडाप्राशित्र᳘ᳫं᳘समवद्य᳘न्त्येव᳘मे᳘वैतस्या᳘पि सम᳘वद्येयुस्ता᳘मुपहूया᳘वैव᳘ जिघ्रन्ति न प्रा᳘श्नन्ति प्राशित᳘व्यं᳘ त्वेव᳘ व्वयं᳘ मन्यामह ऽइ᳘ति ह स्माहा᳘सुरिर्य᳘स्य क᳘स्य चाग्नौ जु᳘ह्वतीति॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
(क ऽ) एत᳘मेव हो᳘त्रे मन्थमा᳘दधति तᳫँ᳭ हो᳘तोपहूया᳘वैव᳘ जिघ्रति तं᳘ ब्रह्म᳘णे प्र᳘यच्छति तं᳘ ब्रह्मा᳘वैव᳘ जिघ्रति त᳘मग्नी᳘धे प्र᳘यच्छति त᳘मग्नीद᳘वैव᳘ जिघ्रत्येत᳘न्न्वे᳘वोत᳘ कुर्व्वन्ति य᳘था᳘ त्वेवे᳘तरस्य यज्ञ᳘स्येडाप्राशित्र᳘ᳫं᳘समवद्य᳘न्त्येव᳘मे᳘वैतस्या᳘पि सम᳘वद्येयुस्ता᳘मुपहूया᳘वैव᳘ जिघ्रन्ति न प्रा᳘श्नन्ति प्राशित᳘व्यं᳘ त्वेव᳘ व्वयं᳘ मन्यामह ऽइ᳘ति ह स्माहा᳘सुरिर्य᳘स्य क᳘स्य चाग्नौ जु᳘ह्वतीति॥

मूलम् - Weber

तद्धै᳘के॥
एत᳘मेव हो᳘त्रे मन्थमा᳘दधति तᳫं हो᳘तोपहूया᳘वैव᳘ जिघ्रति तं᳘ ब्रह्म᳘णे प्र᳘यछति त᳘म् ब्रह्मा᳘वैव᳘ जिघ्रति त᳘मग्नी᳘धे प्र᳘यछति त᳘मग्नीद᳘वैव᳘ 58 जिघ्रत्येतॗन्न्वेवैत᳘त्कुर्वन्ति य᳘थाॗ त्वेवे᳘तरस्य यज्ञ᳘स्येडाप्राशित्र᳘ᳫं᳘ समवद्य᳘न्त्येव᳘मेॗवैतस्या᳘पि सम᳘वद्येयुस्ता᳘मुपहूया᳘वैव᳘ जिघ्रन्ति न प्रा᳘श्नन्ति प्राशित᳘व्यॗ त्वेव वय᳘म् मन्यामह इ᳘ति ह स्माहा᳘सुरिर्य᳘स्य क᳘स्य चाग्नौ जु᳘ह्वतीति॥

मूलम् - विस्वरम्

तद्धैके एतमेव होत्रे मन्थमादधति । तं होतोपहूयावैव जिघ्रति तं ब्रह्मणे प्रयच्छति । तं ब्रह्मावैव जिघ्रति । तमग्नीधे प्रयच्छति । तमग्नीदवैव जिघ्रति । एतन्न्वेवैतत् कुर्वन्ति । यथा त्वेवेतरस्य यज्ञस्येडाप्राशित्रं समवद्यन्ति- एवमेवैतस्यापि समवद्येयुः । तामुपहूयावैव जिघ्रन्ति न प्राश्नन्ति । प्राशितव्यं त्वेव वयं मन्यामहे- इति ह स्माहासुरिर्यस्य कस्य चाग्नौ जुह्वतीति ॥ ३३ ॥

सायणः

अथेडाप्रत्याम्नायत्वेन मन्थस्याधानमेकीयमतेनोपन्यस्यति- तद्धैक इति । ‘तत्’ तत्र खलु ‘एके’ शाखिन यागशिष्टम् ‘एतमेव मन्थं होत्रे आदधति’ होतुर्हस्ते प्रक्षिपन्तीत्यर्थः । एतस्मिन् पक्षे होतुः कर्तव्यमुपदिशति- तं होतेति । उपहूयेति । वेदिसमीपे इडानिगदेनोपहवं कृत्वा, तदनन्तरमवघ्राय अग्नीधे दद्यात् । सोमवज्जिघ्रत्येव न तु कस्यचिदप्यत्र भक्षणमस्तीत्येवकारार्थः । प्राशित्रेडावदानपक्षमप्याह- एतन्न्वेवेति । ‘नु’ इति प्रसिद्धौ, ‘एव’ कारो ऽवधारणार्थः, ‘उत’ शब्दो ऽप्यर्थः । अपि खल्वेतद् वक्ष्यमाणमेकं पक्षं केचिदनुतिष्ठन्ति । तदेव दर्शयति- यथा त्वेवेति । ‘तु’- शब्द एकीयमतव्यावृत्त्यर्थः । ‘इतरस्य’ दर्शपौर्णमासादेः ‘यज्ञस्य’ ‘यथा’ इडां प्राशित्रं च ‘समवद्यन्ति’ सर्वेभ्यो हविर्भ्यः सम्भूयावद्यन्ति, ‘एवमेव’ ‘एतस्यापि’ पितृयज्ञस्य समवद्येयुः । अवैव जिघ्रन्तीति । अस्मिन्नपि पक्षे इडाप्राशित्रयोरवघ्राणमेव कर्त्तव्यम्, न तु प्राशनमित्यर्थः । प्राशनपक्षमप्याह- प्राशितव्यं त्वेवेति । इडावदानं प्राशित्रावदानं च यज्ञान्तरवदत्रापि ‘प्राशितव्यमेव‘ ‘वयं मन्यामहे’ ‘इति’ ‘आसुरिः’ महर्षिः प्रतिपादयतीत्यर्थः । एवं प्रतिपादयत आसुरेरभिप्रायमाह- यस्य कस्येति । इडां प्राश्नन्तः ऋत्विजः ‘यस्यकस्यचित्’ आत्मनः सम्बन्धिनि ‘अग्नौ’ वैश्वानरे तद्धविः ‘जुह्वति’ अतः प्राशने न दोष 59 इत्यनेनाभिप्रायेणत्यर्थः 60 ॥ ३३ ॥

Eggeling
  1. Here now some hand over that entire (remaining) porridge to the Hotr̥; and the Hotr̥, having invoked it 61, smells it and hands it to the

Brahman. The Brahman smells it and hands it to the Āgnīdhra; and the Āgnīdhra also smells it. And so indeed they do this. But, as from any other oblation they cut off the Ida and the fore-portion, so let them cut from this also; and having invoked it (the Iḍā) they smell it, but do not eat it. ‘But,’ said Āsuri, ‘we think that some should be eaten, of whatever is offered up in the fire.’

३४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यतरो᳘ दास्यन्भ᳘वति॥
य᳘द्यध्वर्यु᳘र्वा य᳘जमानो वा स᳘ उदपात्र᳘मादा᳘यापसलवि त्रिः᳘ परिषिञ्चन्प᳘र्येति स य᳘जमानस्य पित᳘रम᳘वनेजयत्य᳘साव᳘वनेनिक्ष्वेत्य᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था ऽशिष्य᳘ते ऽभिषिञ्चे᳘देवं तत्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यतरो᳘ दास्यन्भ᳘वति॥
य᳘द्यध्वर्यु᳘र्वा य᳘जमानो वा स᳘ उदपात्र᳘मादा᳘यापसलवि त्रिः᳘ परिषिञ्चन्प᳘र्येति स य᳘जमानस्य पित᳘रम᳘वनेजयत्य᳘साव᳘वनेनिक्ष्वेत्य᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था ऽशिष्य᳘ते ऽभिषिञ्चे᳘देवं तत्॥

मूलम् - Weber

अ᳘थ यतरो᳘ दास्यन्भ᳘वति॥
य᳘द्यध्वर्यु᳘र्वा य᳘जमानो वा स᳘ उदपात्रमादा᳘यापसलवि त्रिः᳘ परिषिञ्चन्प᳘र्येति स य᳘जमानस्य पित᳘रम᳘वनेजयत्य᳘साव᳘वनेनिक्ष्वेत्य᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘थाशिष्यॗते ऽभिषिञ्चे᳘देवं तत्॥

मूलम् - विस्वरम्

अथ यतरो दास्यन् भवति- यद्यध्वर्युर्वा, यजमानो वा, स उदपात्रमादाय अपसलवि त्रिः परिषिञ्चन्पर्येति । स यजमानस्य पितरमवनेजयति- “असाववनेनिक्ष्व” इति । “असाववनेनिक्ष्व” इति पितामहम् । “असाववनेनिक्ष्व"- इति प्रपितामहम् । तद् यथा ऽशिष्यते ऽभिषिञ्चेद्- एवं तत् ॥ ३४ ॥

सायणः

यजमानपितॄनुद्दिश्य पिण्डप्रदानमध्वर्युयजमानयोरन्यतरस्य कर्त्तव्यत्वं सिद्धवदनुवदंस्तत्प्राच्याङ्गमवनेजनं विधत्ते- अथ यतर इति । अध्वर्युयजमानयोर्मध्ये यतर इत्यर्थः । “किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्" (पा. सू. ५ । ३ । ९२) इति डतरजन्तः । ‘यदि अध्वर्युर्वा यजमानो वा’ ‘दास्यन्’ पिण्डदाता ‘भवति’, ‘सः’ स्वयं यजमानः अध्वर्युर्वा ‘उदपात्रम्’ उदकपूर्णं पात्रम् ‘आदाय’ ‘अपसलवि’ अप्रदक्षिणं ‘त्रिः परिषिञ्चन्’ पित्र्यां वेदिम् ‘पर्येति’ 59स यजमानस्येति । ‘सः’ अध्वर्युः ‘यजमानस्य पितरम्’ “असाववनेनिक्ष्व”- (श. प. कां २ प्र. ४ । २ । २३) इति मन्त्रेण ‘अव-नेनिक्ष्वेति’ अवनेजति । यजमानस्तु यदि स्वयं पिंडदाता भवति, तदा स्वकीयमेव पितरमवनेजयेत् “असाबवनेनिक्ष्व”- इत्यादिकं पिण्डपितृयज्ञप्रकरणे व्याख्यातम् ॥ ३४ ॥

Eggeling
  1. Now he who is about to present (the obsequial cakes to the fathers),–either the Adhvaryu or the Sacrificer,–takes the vessel of water and walks thrice round (the altar) from right to left sprinkling all about (the altar). He then, with the text, ‘N.N., wash thyself 62!’ pours out water (in the north-west corner of the altar) for the Sacrificer’s father 63 to wash himself; and (in the southwest corner), with ‘N.N., wash thyself!’ for the grandfather; and (in the south-east corner), with ‘N.N., wash thyself!’ for the great-grandfather.

As one would pour out water for (a guest) who is to take food with him, so in this case.

३५

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थास्य᳘ पुरोडा᳘शस्यावदा᳘य सव्ये᳘ पाणौ᳘ कुरुते॥
धाना᳘नामवदा᳘य सव्ये᳘ पाणौ᳘ कुरुते मन्थ᳘स्यावदा᳘य सव्ये᳘ पाणौ कुरुते॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थास्य᳘ पुरोडा᳘शस्यावदा᳘य सव्ये᳘ पाणौ᳘ कुरुते॥
धाना᳘नामवदा᳘य सव्ये᳘ पाणौ᳘ कुरुते मन्थ᳘स्यावदा᳘य सव्ये᳘ पाणौ कुरुते॥

मूलम् - Weber

अ᳘थास्य᳘ पुरोडा᳘शस्यावदा᳘य॥
सव्ये᳘ पाणौ᳘ कुरुते धाना᳘नामवदा᳘य सव्ये᳘ पाणौ᳘ कुरुते मन्थ᳘स्यावदा᳘य सव्ये᳘ पाणौ कुरुते॥

मूलम् - विस्वरम्

अथास्य पुरोडाशस्यावदाय सव्ये पाणौ कुरुते धानानामवदाय सव्ये पाणौ कुरुते । मन्थस्यावदाय सव्ये पाणौ कुरुते ॥ ३५ ॥

सायणः

अथास्य पुरोडाशस्येत्यादि । पुरोडाशादिविःशेषान् ‘सव्ये पाणौ’ ‘अवदाय’ आलोड्य, त्रीन् पिण्डान् कृत्वा, तस्मिन्नेव हस्ते धारयेत् (का. श्रौ. सू. ५ । २३८) ॥ ३५ ॥

Eggeling
  1. Thereupon he takes one ‘cutting’ from the cake and puts it in his left hand; from the parched grain also he takes one cutting and puts it in his left hand; and from the porridge also he takes one cutting and puts it in his left hand.

३६

विश्वास-प्रस्तुतिः

स᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिः॥
(स्त᳘) त᳘स्यां य᳘जमानस्य पित्रे᳘ ददात्य᳘सावेत᳘त्त ऽइत्य᳘थ᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिस्त᳘स्यां य᳘जमानस्य पितामहा᳘य ददात्य᳘सावेत᳘त्त ऽइत्य᳘थ᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिस्त᳘स्यां य᳘जमानस्य प्रपितामहाय ददात्य᳘सावेत᳘त्त ऽइत्य᳘थ᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिस्त᳘स्यां नि᳘मृष्टे᳘ ऽत्र पितरो मादयध्वं यथाभागमा᳘वृषायध्वमि᳘ति यथाभाग᳘मश्नीते᳘त्येवैत᳘दाह तद्य᳘मेवं᳘ पितृ᳘भ्यो द᳘दाति ते᳘नो स्वा᳘न्पितॄ᳘नेत᳘स्माद्यज्ञा᳘न्नान्त᳘रेति॥

मूलम् - श्रीधरादि

स᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिः॥
(स्त᳘) त᳘स्यां य᳘जमानस्य पित्रे᳘ ददात्य᳘सावेत᳘त्त ऽइत्य᳘थ᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिस्त᳘स्यां य᳘जमानस्य पितामहा᳘य ददात्य᳘सावेत᳘त्त ऽइत्य᳘थ᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिस्त᳘स्यां य᳘जमानस्य प्रपितामहाय ददात्य᳘सावेत᳘त्त ऽइत्य᳘थ᳘ येमा᳘मवान्तरदि᳘शम᳘नुस्रक्तिस्त᳘स्यां नि᳘मृष्टे᳘ ऽत्र पितरो मादयध्वं यथाभागमा᳘वृषायध्वमि᳘ति यथाभाग᳘मश्नीते᳘त्येवैत᳘दाह तद्य᳘मेवं᳘ पितृ᳘भ्यो द᳘दाति ते᳘नो स्वा᳘न्पितॄ᳘नेत᳘स्माद्यज्ञा᳘न्नान्त᳘रेति॥

मूलम् - Weber

सॗ येमा᳘मवान्तरदि᳘शम᳘नु स्रक्तिः॥
त᳘स्यां य᳘जमानस्य पित्रे᳘ ददात्य᳘सावेत᳘त्त इत्य᳘थॗ येमा᳘मवान्तरदि᳘शम᳘नु स्रक्तिस्त᳘स्यां य᳘जमानस्य पितामहा᳘य ददात्य᳘सावेत᳘त्त इत्य᳘थॗ येमाम᳘वान्तरदि᳘शम᳘नु स्रक्तिस्त᳘स्यां य᳘जमानस्य प्र᳘पितामहाय ददात्य᳘सावेतत्त इत्य᳘थॗ येमा᳘मवान्तरदि᳘शम᳘नु स्रक्तिस्त᳘स्यां नि᳘मृष्टे᳘ ऽत्र पितरो मादयध्वं यथाभागमा᳘वृषायध्वमि᳘ति यथाभाग᳘मश्नीते᳘त्येवैत᳘दाह तद्य᳘मेव᳘म् पितृ᳘भ्यो द᳘दाति ते᳘नो स्वा᳘न्पितॄ᳘नेत᳘स्माद्यज्ञाॗन्नान्त᳘रेति२।६।१।

मूलम् - विस्वरम्

स येमामवान्तरदिशमनुस्रक्तिः- तस्यां यजमानस्य पित्रे ददाति- असावेतत्ते- इति । अथ येमामवान्तरदिशमनुस्रक्तिः- तस्यां यजमानस्य पितामहाय ददाति- असावेतत्ते- इति । अथ येमामवान्तरदिशमनुस्रक्तिः- तस्यां यजमानस्य प्रपितामहाय ददाति- असावेतत्ते- इति । अथ येमामवान्तरदिशमनुस्रक्तिः- तस्यां निमृष्टे- “अत्र पितरो मादयध्वं, यथाभागमावृषायध्वम्”- इति (वा. सं. २ ३१) यथाभागमश्नीतेत्येवैतदाह । तद्यदेवं पितृभ्यो ददाति- तेनो स्वान्पितॄनेतस्माद्यज्ञान्नान्तरेति ॥ ३६ ॥

सायणः

स येमामवान्तरदिशमिति । ‘इदं’- शब्देनोत्तरापरां दिशमभिनयेन निर्द्दिशति 64 । “अनुर्लक्षणे”- (पा. सू. १ । ४ । ८४) इति लक्षणे अनुशब्दस्य कर्मप्रवचनीयत्वम् । उत्तरापरस्यां दिशि येयं वेदेः स्रक्तिः, ‘तस्यां’ ‘यजमानस्य पित्रे’ “असावेतत् ते”- (श. प. कां २ प्र. ४. ब्रा. २ कं. १९) इति मन्त्रेण पिण्डं दद्यात् । पितामहस्य पिण्डदानं विधत्ते- अथ येमामिति । ‘इदं’ शब्देन दक्षिणापरा अवान्तरा दिग् गम्यते । अन्यत् समानं पूर्वेण । प्रपितामहस्य पिण्डदानं विधत्ते- अथ येमामिति । अत्रेदमा दक्षिणपूर्वा दिगभिनयेन निर्द्दिश्यते । अत्र या वेदेः स्रक्तिः, तस्यां प्रपितामहार्थं पिण्डं दद्यात् 65 । इत्थं तिसृषु स्रक्तिषु पिण्डदानं विधाय, अवशिष्टायां स्रक्तौ समन्त्रके लेपमार्जने विधत्ते- अथ येमामवान्तरदिशमिति । इमामुत्तरपूर्वामवान्तरदिशमनु या वेदेः स्रक्तिः, तस्याम् “अत्र पितरः"- ‘इति’ मन्त्रेण हस्तगतं लेपं ‘निमृष्टे’ निमृजीत । तथा चोक्तं सूत्रकृता- “उत्तरापरस्यां प्रथमम्, सव्ये समवदाय सर्वेभ्यो यथावनिक्तं पिण्डान् ददात्यसावेतत्त इति, उत्तरपूर्वस्यां पाणी निमृष्टे ऽत्र पितर इति"- (का. श्रौ. सू. ५ । २३७-२३९) । इति । “असावेतत्ते”- इत्यादिमन्त्रार्थः पिण्डपितृयज्ञे एव वर्णितः (श. प. कां २ । ४ । २ । १९) विहितपिण्डदानमनूद्य तस्य प्रयोजनमाविष्करोति- तद्यदेवं पितृभ्य इति । पितृपितामहप्रपितामहादिभ्यः उक्तरीत्या पिण्डान् ददातीत्यर्थः । ‘तेनो’ तथा चैवं सति ‘स्वान्’ स्वकीयान् ‘पितॄन्’ ‘एतस्मात्’ पितृयज्ञात् ‘नान्तरेति’ अन्तरितान् न करोति, अपि तु भागिनः कृतवान् भवति ॥ ३६ ॥

Eggeling
  1. And in the corner (of the altar) opposite this intermediate quarter (viz. the north-west), he then presents (an obsequial cake 66) to the Sacrificer’s father, with the formula, ‘N.N., this for thee!’ And in the corner opposite this intermediate quarter (the south-west), he presents one to the Sacrificer’s grandfather, with ‘N.N., this for thee!’ And in the corner opposite this intermediate quarter (the southeast), he presents one to the Sacrificer’s great-grandfather, with ‘N.N., this for thee!’ And in the corner opposite this intermediate quarter (the northeast), he cleanses (his hands), with the text (Vāj. S. II, 31), ‘Here, O Fathers, regale yourselves! Like bulls come hither, each to his own share!’ whereby he means to say, ‘Eat ye each his share!’ And the reason why he thus presents (food) to the Fathers is that in this way he does not exclude his own fathers from this sacrifice.

३७

विश्वास-प्रस्तुतिः

ते स᳘र्व्व ऽएव᳘ यज्ञोपवीति᳘नो भूत्वा॥
(त्वो᳘) उ᳘दञ्च उपनिष्क्रम्याहवनी᳘यमु᳘पतिष्ठन्ते[[!!]] देवान्वा᳘ ऽएष᳘ उपा᳘वर्तते य आ᳘हिताग्निर्भ᳘वति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते᳘ ऽथैत᳘त्पितृयज्ञे᳘नेवाचारिषुस्त᳘दु देवे᳘भ्यो नि᳘ह्नुवते॥

मूलम् - श्रीधरादि

ते स᳘र्व्व ऽएव᳘ यज्ञोपवीति᳘नो भूत्वा॥
(त्वो᳘) उ᳘दञ्च उपनिष्क्रम्याहवनी᳘यमु᳘पतिष्ठन्ते[[!!]] देवान्वा᳘ ऽएष᳘ उपा᳘वर्तते य आ᳘हिताग्निर्भ᳘वति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते᳘ ऽथैत᳘त्पितृयज्ञे᳘नेवाचारिषुस्त᳘दु देवे᳘भ्यो नि᳘ह्नुवते॥

मूलम् - Weber

ते स᳘र्व एव᳘ यज्ञोपवीति᳘नो भूत्वा॥
उ᳘दञ्च उपनिष्क्र᳘म्याहवनी᳘यमु᳘पतिष्ठन्ते देवान्वा᳘ एष᳘ उपा᳘वर्तते य आ᳘हिताग्निर्भ᳘वति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते᳘ ऽथैत᳘त्पितृयज्ञे᳘नेवाचारिषुस्त᳘दु देवे᳘भ्यो नि᳘ह्नुवते 67

मूलम् - विस्वरम्

ते सर्व एव यज्ञोपवीतिनो भूत्वा, उदञ्च उपनिष्क्रम्य, आहवनीयमुपतिष्ठन्ते । देवान्वा एष उपावर्तते- य आहिताग्निर्भवति, यो दर्शपूर्णमासाभ्यां यजते । अथैतत् पितृयज्ञेनेवाचारिषुः- तदु देवेभ्यो निह्नुवते ॥ ३७ ॥

सायणः

आहवनीयोपस्थानं विधत्ते- ते सर्व 64 एवेति । उदञ्च उपनिष्क्रम्येति । उदङ्मुखाः सन्तः परिवृतात् पिण्डपितृयज्ञस्थानात् निर्गत्येत्यर्थः । देवान् वा इत्यादि । ‘यः’ खलु ‘आहिताग्निर्भवति’ ‘दर्शपूर्णमासाभ्यां’ च ‘यो यजते’ ‘एषः’ ‘देवान्’ ‘उपावर्त्तते’ उपगतो भवति, देवसम्बन्धगतस्य यजमानस्य देवान् परित्यज्य यत् पितृयज्ञाचरणम्, तेन देवानां मनसि क्रोधो ऽभूत्; पुनरावृत्याहवनीयोपस्थानेनातीवादासीनताजनितमपराधं ‘देवेभ्यः’ ‘निह्नुवते’ शमयन्ति ॥ ३७ ॥

Eggeling
  1. Thereupon they all, being sacrificially invested, walk out (of the shed) on the north side, (pass along the east side of, and) stand by the (north) side of, the Āhavanīya fire. For he who has established his fires, and performs the New and Full-moon sacrifices, approaches the gods; but they have just been

performing the sacrifice to the Manes, and therefore they now propitiate the gods.

३८

विश्वास-प्रस्तुतिः

(त ऽ) ऐन्द्री᳘भ्यामाहवनी᳘यमु᳘पतिष्ठन्ते॥ (न्त ऽ) इ᳘न्द्रो᳘ ह्याहवनीयो᳘ ऽक्षन्न᳘मीमदन्त ह्य᳘व प्रिया᳘ अधूषत॥ अ᳘स्तोषत स्व᳘भानवो व्वि᳘प्रा न᳘विष्ठया मती। योजा᳘ न्विन्द्र ते ह᳘री॥ सुसन्दृ᳘शं त्वा व्वयं म᳘घवन्वन्दिषीम᳘हि॥ प्र᳘नूनं᳘ पूर्ण᳘बन्धुरः स्तुतो᳘ यासि व्व᳘शाᳫँ२॥ ऽअ᳘नु योजा᳘न्विन्द्र ते ह᳘री ऽइति॥

मूलम् - श्रीधरादि

(त ऽ) ऐन्द्री᳘भ्यामाहवनी᳘यमु᳘पतिष्ठन्ते॥ (न्त ऽ) इ᳘न्द्रो᳘ ह्याहवनीयो᳘ ऽक्षन्न᳘मीमदन्त ह्य᳘व प्रिया᳘ अधूषत॥ अ᳘स्तोषत स्व᳘भानवो व्वि᳘प्रा न᳘विष्ठया मती। योजा᳘ न्विन्द्र ते ह᳘री॥ सुसन्दृ᳘शं त्वा व्वयं म᳘घवन्वन्दिषीम᳘हि॥ प्र᳘नूनं᳘ पूर्ण᳘बन्धुरः स्तुतो᳘ यासि व्व᳘शाᳫँ२॥ ऽअ᳘नु योजा᳘न्विन्द्र ते ह᳘री ऽइति॥

मूलम् - Weber

ऐन्द्री᳘भ्यामाहवनी᳘यमु᳘पतिष्ठन्ते इ᳘न्द्रोॗ ह्याहवनीयो᳘ ऽक्षन्न᳘मीमदन्त ह्य᳘व प्रिया᳘ अधूषत अ᳘स्तोषत स्व᳘भानवो वि᳘प्रा न᳘विष्ठया मती यो᳘जाॗ न्विन्द्र ते ह᳘रि सुसंदृ᳘शं त्वा वयम् म᳘घवन्वन्दिषीम᳘हि प्र᳘ नून᳘म् पूर्ण᳘बन्धुर स्तुतो᳘ यासि व᳘शां ऽअ᳘नुो 68 यो᳘जाॗ न्विन्द्र ते ह᳘रीऽइ᳟ति॥

मूलम् - विस्वरम्

ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते । इन्द्रो ह्याहवनीयः । “अक्षन्नमभिदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥ १ ॥ सुसन्दृशं त्वा वयं मघवन्वन्दिषीमहि । प्रनूनं पूर्णबन्धुरः स्तुतो यासि वशा २ँ ॥ अनु योजान्विन्द्र ते हरी ॥ २ ॥”- इति (वा० सं० ३ । ५१ । ५२ ॥) ३८ ॥

सायणः

एैन्द्रीभ्यामिति, मन्त्रविधिः । ऐन्द्र्या ऋचः कथमग्न्युपस्थाने सङ्गतिः, लिङ्गविरोधात् १ इत्यत आह- इन्द्रो हीति । परमैश्वर्ययोगादाहवनीय एवेन्द्रः, अतस्तदीयोपस्थाने ऐन्द्र्याः करणत्वं न विरुद्ध्यत इत्यर्थः । त एवैन्द्र्यै पठति- अक्षन्नमीमदन्तेति । ‘अक्षन्’ अस्माभिर्दत्तं हविः पितरः अक्षन् अभुक्षत । अदेर्लुङि “लुङ्सनोर्घस्लृ”- (पा. सू. २ । ४ । ३७) इति घस्लादेशे, “मन्त्रे घसह्वरणश०"- (पा. सू. २ । ४ । ८०) इति च्लेर्लुकि, “गमहन०”- (पा. सू. ६ । ४ । ९८) इति उपधालोपे, अक्षन्निति रूपम् । ‘हि’ यस्मात् एवम्, अतस्ते पितरो हविःस्वीकारेण ‘अमीमदन्त’ तृप्ता अभवन् । “मद तृप्तियोगे-” (धा. पा. चु. आ. १७२) इत्यस्माण्ण्यन्ताल्लुङि चङि रूपम् । तृप्तिरपि कुतो ऽवगम्यते इति तत्राह- अवप्रिया इति । ‘प्रियाः’ आत्मीयाः तनूः ते पितरः ‘अव अधूषत’ भुक्तस्य हविषो रसातिशयस्याभिव्यक्त्यर्थम् अवाकम्पयन् । “धूञ् कम्पने”- (धा. पा. चु. उ. ३०१) इति धातुः । तदनन्तरं ‘स्वभानवः’ स्वायत्तदीप्तयः, ‘विप्राः’ मेधाधिनः ते पितरः हविषः प्रदातारं यजमानं ‘नविष्ठया’ नवतरया ‘मती’ मत्या स्तुत्या ‘अस्तोषत’ उपभुक्तं हविः प्राशंसन्, सम्यगेतत् सञ्जातमिति । आहवनीयावस्थित, हे इन्द्र ! त्वमपि ‘ते’ त्वदीयौ ‘हरी’ अश्वौ गमनार्थं ‘नु’ क्षिप्रं ‘योजान्’ योजयेति प्रथमाया ऋचो ऽर्थः ।

सुसन्दृशं त्वेति । हे ‘मघवन् धनवन्’ ! आहवनीयरूपेन्द्र ! सुष्ठु-सम्यग्दर्शनीयं ‘त्वा’ त्वां ‘वन्दिषीमहि’ नुमः, अभिवादयामो वा । “वदि अभिवादनस्तुत्योः”- (धा. पा. भ्वा. आ. ११) इति धातुः । अस्माभिः-र्वन्दितस्त्वं ‘पूर्णबन्धुरः’ दत्तेन हविषा पूर्णेन रथनीडेन युक्तः, ‘स्तुतः’ च सन् अस्माभिः कृतं स्तोत्रं हविश्च स्वीकृत्य ‘वशान् अनु’ कामान् अनु यथाकामं यथेष्टं ‘प्रयासि’ । योजानित्यादि, पूर्ववत् ॥ ३८ ॥

Eggeling
  1. They stand by the Āhavanīya fire (worshipping) with two (verses) addressed to Indra [viz. Rig-veda I, 82, 2-3; Vāj. S. III, 51-52], since the Āhavanīya is Indra. ‘The friends have eaten, and regaled themselves, and have shaken off (the enemies) 69; the self-shining bards have extolled (thee) with their newest hymn: yoke, then, thy pair of bay steeds, O Indra!–To thee, the splendid, we will sing praises, O bountiful one! Thus praised, do thou now issue forth, with well-filled car, agreeably to our desire! yoke, then, thy pair of bay steeds, O Indra!’

३९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यमु᳘पतिष्ठन्ते॥
म᳘नो न्वा᳘ह्वामहे नाराशᳫँ᳭ से᳘न स्तो᳘मेन। पितॄणां᳘ च म᳘न्मभिः॥ आ᳘ न एतु म᳘नः पु᳘नः क्र᳘त्वे द᳘क्षाय जीव᳘से॥ ज्यो᳘क्च सू᳘र्यं दृशे॥ पु᳘नर्नः पितरो म᳘नो द᳘दातु दै᳘व्यो ज᳘नः। जीवं व्व्रातᳫँ᳭सचेमही᳘ति पितृयज्ञे᳘नेव वा᳘ एत᳘दचारिषुस्त᳘दु ख᳘लु पु᳘नर्जीवान᳘पिपद्यन्ते त᳘स्मादाह जीवं व्व्रातᳫं᳭सचेमहीति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यमु᳘पतिष्ठन्ते॥
म᳘नो न्वा᳘ह्वामहे नाराशᳫँ᳭ से᳘न स्तो᳘मेन। पितॄणां᳘ च म᳘न्मभिः॥ आ᳘ न एतु म᳘नः पु᳘नः क्र᳘त्वे द᳘क्षाय जीव᳘से॥ ज्यो᳘क्च सू᳘र्यं दृशे॥ पु᳘नर्नः पितरो म᳘नो द᳘दातु दै᳘व्यो ज᳘नः। जीवं व्व्रातᳫँ᳭सचेमही᳘ति पितृयज्ञे᳘नेव वा᳘ एत᳘दचारिषुस्त᳘दु ख᳘लु पु᳘नर्जीवान᳘पिपद्यन्ते त᳘स्मादाह जीवं व्व्रातᳫं᳭सचेमहीति॥

मूलम् - Weber

अ᳘थ प्रतिपरे᳘त्य गा᳘र्हपत्यमु᳘पतिष्ठन्ते॥
म᳘नो न्वा᳘ह्वामहे नाराशंसे᳘न स्तो᳘मेन पितॄणां᳘ च म᳘न्मभिः आ᳘ न एतु म᳘नः पु᳘नः क्र᳘त्वे द᳘क्षाय जीव᳘से ज्यो᳘क्च सू᳘र्यं दृशे पु᳘नर्नः पितरो म᳘नो द᳘दातु दै᳘व्यो ज᳘नः जीवम् व्रा᳘तᳫं सचेमही᳘ति पितृयज्ञे᳘नेव वा᳘ एत᳘दचारिषुस्त᳘दु ख᳘लु पु᳘नर्जीवान᳘पिपद्यन्ते त᳘स्मादाह जीवं व्रा᳘तᳫं सचेमहीति॥

मूलम् - विस्वरम्

अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते । “मनो न्वाह्वामहे नाराशंसेन स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि”- इति (वा. सं. ४ । ५३-५५) । पितृयज्ञेनेव वा एतदचारिषुः- तदु खलु पुनर्जीवानपिपद्यन्ते । तस्मादाह- जीवं व्रातं सचेमहीति ॥ ३९ ॥

सायणः

गार्हपत्योपस्थानं विधत्ते- अथ प्रतिपरेत्येति 70 । ‘प्रति-परेत्य’ आहवनीयसमीपात् प्रतिनिवृत्य इत्यर्थः । तस्मिन् गार्हपत्योपस्थाने “मनो न्वाह्वामहे-” इत्याद्यास्त्रयो मन्त्राः पठिताः । तेषामयमर्थः- तत्र प्रथमा मनो न्विति । अस्मदीयं ‘मनः’ ‘नु’ क्षिप्रम् ‘आह्वामहे’ । केन साधनेन ? ‘नाराशंसेन स्तोमेन’ नरैः शंसनीयेन स्तोत्रेण, ‘पितॄणां’ सम्बन्धिभिः ‘मन्मभिः’ मननैश्च ॥

आ न एत्विति द्वितीया । पितृयज्ञकरणादपक्रान्तमस्मदीयं ‘मनः’ ‘पुनः’ अस्मान् ‘एतु’ आगच्छतु । किमर्थम् ? ‘क्रत्वे’ क्रतुकर्मणे, ‘दक्षाय’ बलाय, ‘जीवसे’ जीवनाय, ‘ज्योक्’ चिरकालं ‘सूर्यं च’ ‘दृशे’ द्रष्टुम् । “दृशे विख्ये च”- (पा. सू. ३ । ४ । ११) इति तुमर्थे निपात्यते ॥

पुनर्न इति तृतीया । हे ‘पितरः !’ ‘दैव्यः’ देवसम्बन्धी ‘जनः’ ‘नः’ अस्मभ्यं ‘मनः पुनः ददातु’ । ‘जीवं’ जीवनवन्तं ‘व्रातं’ गणम् पुत्रपौत्रादिसमूहम् ‘सचेमहि’ प्राप्नुयामेति । अन्तिमपादे जीवशब्दप्रयोगस्याभिप्रायमाह- पितृयज्ञेनेवेति । ‘पितृयज्ञेन’ खलु ‘एतत्’ इदानीम् ‘अचारिषुः,’ अतः पितृयज्ञस्य कर्त्तार ऋत्विग्यजमानाः पितृसम्भक्ताः सन्तः प्रजायुक्ता भवेयुः । ‘तत्’ तथा सति “जीवं व्रातम्-” इति अनेन मन्त्रभागेन ‘जीवान्’ एव पुत्रपौत्रादीन् स्वयं जीवन्तः ‘अपिपद्यन्ते’ पुनरपि गच्छन्ति । तस्मादिति, उक्तार्थनिगमनम् ॥ ३९ ॥

Eggeling
  1. Thereupon they return to the Gārhapatya and stand by it worshipping with the verses (Rig-veda X, 57,3-5; Vāj. S. III, 53-55), ‘We invoke the Mind with man-lauding strain 71, and with the hymns of the fathers.–May the Mind come back to us for (us to obtain) wisdom, vigour, and life, and that we may long see the sun!–May the divine race restore to us the Mind, O Fathers, that we may abide with the living kind!’ They have indeed been performing the sacrifice to the Manes; but now they return to the (land of the) living: hence he says, ‘That we may abide with the living kind!’

४०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यतरो द᳘दाति॥
स पु᳘नः प्राचीनावीती᳘ भू᳘त्वा ऽभिप्रप᳘द्य जपत्य᳘मीमदन्त पित᳘रो यथाभागमा᳘वृषायिषते᳘ति यथाभाग᳘माशिषुरि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यतरो द᳘दाति॥
स पु᳘नः प्राचीनावीती᳘ भू᳘त्वा ऽभिप्रप᳘द्य जपत्य᳘मीमदन्त पित᳘रो यथाभागमा᳘वृषायिषते᳘ति यथाभाग᳘माशिषुरि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ यतरो द᳘दाति॥
स पु᳘नः प्राचीनावीती᳘ भूॗत्वाभिप्रप᳘द्य जपत्य᳘मीमदन्त पित᳘रो यथाभागमा᳘वृषायिषते᳘ति यथाभाग᳘माशिषुरि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ यतरो ददाति स पुनः प्राचीनावीती भूत्वा, अभिप्रपद्य जपति- “अमी मदन्त पितरो यथाभागमावृषायिषत”- इति (वा. सं. २ । ३१) । यथाभागमाशिषुरित्येवैतदाह ॥ ४० ॥

सायणः

पिण्डदातृजपं विधत्ते- अथ यतर 70 इति । ‘अथ’ उपस्थानानन्तरम्, अध्वर्युयजमानयोर्मध्ये ‘यतरः’ पिण्डं ‘ददाति,’ ‘स पुनः’ ‘प्राचीनावीती’ ‘भूत्वा,’ पित्र्यं देशम् ‘अभिपद्य’ प्रविश्य “अमीमदन्त”- इति मन्त्रं जपेत् । स च मन्त्रः, तद् ब्राह्मणं च पिण्डपितृयज्ञे व्याख्यातम् ॥ ४० ॥

Eggeling
  1. Thereupon he who has presented (the obsequial cakes) again shifts his sacrificial cord to the right shoulder and betakes. himself (to the fire in the shed), and mutters (Vāj. S. II, 31), ‘The

Fathers have regaled themselves: like bulls they came each to his share:’ whereby he means to say, ’they have eaten each his own share.’

४१

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थोदपात्र᳘मादा᳘य॥
पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्चन् प᳘र्येति स य᳘जमानस्य पित᳘रम᳘वनेजयत्य᳘साव᳘वनेनिक्ष्वेत्य᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था जक्षु᳘षे ऽभिषिञ्चे᳘देवं तत्तद्यत्पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्च᳘न्पर्ये᳘ति प्रसलवि᳘ न इदं क᳘र्मानु स᳘न्तिष्ठाता ऽइ᳘ति त᳘स्मात्पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्चन्प᳘र्येति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थोदपात्र᳘मादा᳘य॥
पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्चन् प᳘र्येति स य᳘जमानस्य पित᳘रम᳘वनेजयत्य᳘साव᳘वनेनिक्ष्वेत्य᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था जक्षु᳘षे ऽभिषिञ्चे᳘देवं तत्तद्यत्पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्च᳘न्पर्ये᳘ति प्रसलवि᳘ न इदं क᳘र्मानु स᳘न्तिष्ठाता ऽइ᳘ति त᳘स्मात्पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्चन्प᳘र्येति॥

मूलम् - Weber

अ᳘थोदपात्र᳘मादा᳘य॥
पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्चन्प᳘र्येति स य᳘जमानस्य पित᳘रम᳘वनेजयत्यसाव᳘वनेनिक्ष्वेत्य᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था जक्षु᳘षे ऽभिषिञ्चे᳘देवं तत्तद्यत्पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्च᳘न्पर्ये᳘ति प्रसलवि᳘ न इदं क᳘र्मानुसं᳘तिष्ठाता इ᳘ति त᳘स्मात्पु᳘नः प्रसलवि त्रिः᳘ परिषिञ्चन्प᳘र्येति॥

मूलम् - विस्वरम्

अथोदपात्रमादाय, पुनः प्रसलवि त्रिः परिषिञ्चन् पर्येति । स यजमानस्य पितरमवनेजयति- “असाववनेनिक्ष्व” इति। “असाववनेनिक्ष्व" इति पितामहम् । “असाववनेनिक्ष्व” इति प्रपितामहम् । तद् यथा जक्षुषे ऽभिषिञ्चद्- एवं तत् । तद्यद् पुनः प्रसलवि त्रिः परिषिञ्चन् पर्येति । ‘प्रसलवि न इदं कर्मानुसन्तिष्ठातै’ इति । तस्मात्- पुनः प्रसलवि त्रिः परिषिञ्चन् पर्येति ॥ ४१ ॥

सायणः

पिण्डदानस्योदीच्याङ्गमुदकावनेजनं पूर्ववद् विधत्ते- अथोदपात्रमिति । ‘तद्यथा जक्षुषे’ इति, अवनेजनस्य प्रयोजनकथनम् । एतत् सर्वं पिण्डपितृयज्ञ एवं व्याख्यातम् (श. प. कां. २ । ४ । २ । २३) । विहितं परिषेचनं पुनः श्रुतम्, तस्य यत् प्रादक्षिण्यम्, तत् स्तौति- यत् पुनरित्यादिना । प्रसलवि न इति । अपसलमप्रादक्षिण्यम् तद्विपरीतं प्रसलं प्रादक्षिण्यम्, मत्वर्थीयो विनिः । प्रादक्षिण्यवतो मम ‘इदं’ पित्र्यमपि ‘कर्म’ ‘अनुसन्तिष्ठातै’ संस्थितं भवेत् । ‘इति’ अनेनाभिप्रायेण अवसाने ‘प्रसलवि’ अपसव्येन परिषेचनं क्रियत इत्यर्थः ॥ ४१ ॥

Eggeling
  1. He now takes the vessel of water and again, while sprinkling, walks thrice round (the altar) from left to right (sunwise). With ‘N.N., wash thyself!’ he pours out water (in the respective corner) for the Sacrificer’s father to wash himself; with ‘N.N., wash thyself!’ for the grandfather; with ‘N.N., wash thyself!’ for the great-grandfather. As one would pour out water for (a guest) who has taken food with him, so in this case. And as to his again walking thrice round from left to right, while sprinkling,–they think, ‘This holy work of ours shall be accomplished sunwise 72,’ and hence he walks thrice round from left to right, while sprinkling.

४२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति॥
पितृदेव᳘त्या वै᳘ नीविस्त᳘स्मान्नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति यज्ञो वै न᳘मो यज्ञि᳘याने᳘वैनानेत᳘त्करोति षट्कृत्वो न᳘मस्करोति[[!!]] षड्वा᳘ ऽऋत᳘व ऋत᳘वः पित᳘रस्त᳘दृतुष्वे᳘वैत᳘द्यज्ञं प्र᳘तिष्ठापयति त᳘स्मात्षट्कृत्वो न᳘मस्करोति गृहा᳘न्नः पितरो दत्ते᳘ति गृहा᳘णाᳫं ह पित᳘र ईशत ऽए᳘षो ऽएत᳘स्याशीः क᳘र्मणः॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति॥
पितृदेव᳘त्या वै᳘ नीविस्त᳘स्मान्नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति यज्ञो वै न᳘मो यज्ञि᳘याने᳘वैनानेत᳘त्करोति षट्कृत्वो न᳘मस्करोति[[!!]] षड्वा᳘ ऽऋत᳘व ऋत᳘वः पित᳘रस्त᳘दृतुष्वे᳘वैत᳘द्यज्ञं प्र᳘तिष्ठापयति त᳘स्मात्षट्कृत्वो न᳘मस्करोति गृहा᳘न्नः पितरो दत्ते᳘ति गृहा᳘णाᳫं ह पित᳘र ईशत ऽए᳘षो ऽएत᳘स्याशीः क᳘र्मणः॥

मूलम् - Weber

अ᳘थ नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति॥
पितृदेवॗत्या वै᳘ नीविस्त᳘स्मान्नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति यज्ञो वै न᳘मो यज्ञि᳘यानेॗवैनानेतत्करोति षट् कृ᳘त्वो नमस्करो᳘ति षड्वा᳘ ऋत᳘व ऋत᳘वः पित᳘रस्त᳘दृतुष्वेॗवैत᳘द्यज्ञम् प्र᳘तिष्ठापयति त᳘स्मात्षट् कृ᳘त्वो न᳘मस्करोति गृहा᳘न्नः पितरो दत्ते᳘ति गृहा᳘णाᳫं ह पित᳘र ईशत एॗषो एत᳘स्याशीः क᳘र्मणः॥

मूलम् - विस्वरम्

अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविः । तस्मान्नीविमुद्वृह्य नमस्करोति । यज्ञो वै नमः । यज्ञियानेवैनानेतत् करोति । षट्कृत्वो नमस्करोति । षड्वा ऋतवः । ऋतवः पितरः- ततुष्वेवैतद्यज्ञं प्रतिष्ठापयति । तस्मात् षट्कृत्वो नमस्करोति । “गृहान्नः पितरो दत्त”- इति । गृहाणां ह पितर ईशते । एषो एतस्याशीः कर्मणः ॥ ४२ ॥

सायणः

अथ नीविमित्यादि 73 । पिण्डपितृयज्ञप्रकरणे व्याख्यातम् (श. प. का. २ प्र. ४. ब्रा. २ कं. २४) ॥ ४२ ॥

Eggeling
  1. He then pulls down the tuck (of the nether garment) 74 and makes obeisance (to the Fathers). The tuck, doubtless, is sacred to the Fathers: hence he makes obeisance to them after pulling down the tuck; and obeisance means worship: hence he thereby recognises them as entitled to worship. Six times he makes obeisance to them, since there are six seasons, and the Fathers are the seasons: hence he thereby establishes his sacrifice in the seasons,–that is why he makes obeisance six times 75. ‘Give houses

unto us; O Fathers!’ he (further) says, because the Fathers are the guardians of houses;–and this is the prayer for blessing at this sacred performance.

४३

विश्वास-प्रस्तुतिः

(स्ते) ते स᳘र्व्व ऽएव᳘ यज्ञोपवीति᳘नो भू᳘त्वा॥
(त्वा ऽनु) अनुयाजाभ्यां प्रचरिष्य᳘न्त इत्थाद्य᳘जमानश्च ब्रह्मा᳘ च पश्चा᳘त्परीतः᳘ पुर᳘स्तादग्नीदु᳘पविशति हो᳘ता होतृष᳘दने॥

मूलम् - श्रीधरादि

(स्ते) ते स᳘र्व्व ऽएव᳘ यज्ञोपवीति᳘नो भू᳘त्वा॥
(त्वा ऽनु) अनुयाजाभ्यां प्रचरिष्य᳘न्त इत्थाद्य᳘जमानश्च ब्रह्मा᳘ च पश्चा᳘त्परीतः᳘ पुर᳘स्तादग्नीदु᳘पविशति हो᳘ता होतृष᳘दने॥

मूलम् - Weber

ते स᳘र्व एव᳘ यज्ञोपवीति᳘नो भू᳘त्वा॥
अनुयाजाभ्याम् प्रचरिष्य᳘न्त इत्थाद्यजमानश्च ब्रह्मा᳘ च पश्चा᳘त्परीतः᳘ पुर᳘स्तादग्नीदु᳘पविशति हो᳘ता होतृष᳘दने॥

मूलम् - विस्वरम्

ते सर्व एव यज्ञोपवीतिनो भूत्वा, अनुयाजाभ्यां प्रचरिष्यन्तः इत्थाद्यजमानश्च ब्रह्मा च पश्चात् परीतः । पुरस्तादग्नीत् । उपविशति होता होतृषदने ॥ ४३ ॥

सायणः

चोदकप्राप्तमनुयाजाद्युदीच्याङ्गकलापं सविशेषमतः परमनुक्रामति- ते सर्व एवेति । इत्थाद्यजमानश्चेति । प्रयाजाद्युदीच्याङ्गानुष्ठानसमये एव ब्रह्मयजमानाद्यास्तत्र तत्र स्थाने परीत्योपविशेयुः 76 ॥ ४३ ॥

Eggeling
  1. Being now about to proceed with the after-offerings, they all invest themselves sacrificially (by shifting the cord over to the left shoulder); and thus (invested) the Sacrificer and Brahman walk round to the west, and the Āgnīdhra to the east, side; and the Hotr̥ sits down on the Hotr̥’s seat.

४४

विश्वास-प्रस्तुतिः

(ने ऽथा) अ᳘थाह ब्र᳘ह्मन् प्र᳘स्थास्यामि॥
समिध᳘माधा᳘याग्नि᳘मग्नीत्स᳘म्मृड्ढी᳘ति स्रु᳘चावादा᳘य प्रत्यङ्ङ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह देवा᳘न्यजे᳘ति सो᳘ ऽपबर्हिषौ द्वा᳘वनुयाजौ᳘ यजति प्रजा वै᳘ बर्हिर्ने᳘त्प्रजाः᳘ पितृ᳘षु द᳘धानी᳘ति त᳘स्माद᳘पबर्हिषौ द्वा᳘वनुयाजौ᳘ यजति॥

मूलम् - श्रीधरादि

(ने ऽथा) अ᳘थाह ब्र᳘ह्मन् प्र᳘स्थास्यामि॥
समिध᳘माधा᳘याग्नि᳘मग्नीत्स᳘म्मृड्ढी᳘ति स्रु᳘चावादा᳘य प्रत्यङ्ङ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह देवा᳘न्यजे᳘ति सो᳘ ऽपबर्हिषौ द्वा᳘वनुयाजौ᳘ यजति प्रजा वै᳘ बर्हिर्ने᳘त्प्रजाः᳘ पितृ᳘षु द᳘धानी᳘ति त᳘स्माद᳘पबर्हिषौ द्वा᳘वनुयाजौ᳘ यजति॥

मूलम् - Weber

अ᳘थाह ब्र᳘ह्मन्प्र᳘स्थास्यामि॥
समिध᳘माधा᳘याग्नि᳘मग्नीत्स᳘म्मृद्ढी᳘ति स्रु᳘चावादा᳘य प्रत्यङ्ङ᳘तिक्रामत्यतिक्र᳘म्याश्राव्याह देवा᳘न्यजे᳘ति सो᳘ ऽपबर्हिषौ द्वा᳘वनुयाजौ᳘ यजति प्रजा वै᳘ बर्हिर्ने᳘त्प्रजाः᳘ पितृ᳘षु द᳘धानी᳘ति त᳘स्माद᳘पबर्हिषौ द्वा᳘वनुयाजौ᳘ यजति॥

मूलम् - विस्वरम्

अथाह- ‘ब्रह्मन् प्रस्थास्यामि’ ‘समिधमाधायाग्निमग्नीत् सम्मृड्ढिः’ इति । स्रुचावादाय प्रत्यङ्ङतिक्रामति । अतिक्रम्य आश्राव्याह- ‘देवान् यज’ इति । सो ऽपबर्हिषौ द्वावनुयाजौ यजति । प्रजा वै बर्हिः- नेत् प्रजाः पितृषु दधानीति । तस्मादपबर्हिषौ द्वावनुयाजौ यजति ॥ ४४ ॥

सायणः

अथाहेति । प्रत्यङ्ङतिक्रामतीति । प्राचो दक्षिणदिक्त्वस्य प्रागुपपादितत्वाद्दक्षिणातिक्रमणस्थाने प्रत्यङ्मुखो ऽध्वर्युरतिक्रामेदित्यर्थः । ‘अपबर्हिषौ’ बर्हिः प्रथमोनुयाजः, तद्वर्जितौ ‘द्वावनुयाजौ’ यज यजेति । बर्हिर्वर्जने कारणमाह- प्रजा वा इति ॥ ४४ ॥

Eggeling
  1. He (the Adhvaryu) then says, ‘Brahman, I shall step forward.’ Thereupon he puts the stick (reserved at the time of kindling) on (the fire), and says, ‘Agnīdh, trim the fire!’ He then takes the two spoons and crosses over to the west side. After crossing over and calling for the ‘Śraushaṭ,’ he says (to the Hotr̥), ‘Pronounce the offering-prayer to the gods!’ He performs two after-offerings, omitting the one to the Barhis; for the Barhis means offspring: hence he performs two after-offerings, omitting the one to the Barhis, lest he should consign his offspring to the Fathers.

४५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सादयित्वा स्रु᳘चौ᳘ व्यूहति॥
स्रु᳘चौ᳘ व्यु᳘ह्य परिधी᳘न्त्सम᳘ज्य परिधि᳘मभिप᳘द्याश्रा᳘व्याहेषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति सूक्तवाकᳫँ᳭ हो᳘ता प्रतिप᳘द्यते᳘ नाध्वर्युः᳘ प्रस्तर᳘ᳫँ᳘समु᳘ल्लुम्पती᳘त्येवो᳘पास्ते यदा हो᳘ता सूक्तवाकमाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सादयित्वा स्रु᳘चौ᳘ व्यूहति॥
स्रु᳘चौ᳘ व्यु᳘ह्य परिधी᳘न्त्सम᳘ज्य परिधि᳘मभिप᳘द्याश्रा᳘व्याहेषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति सूक्तवाकᳫँ᳭ हो᳘ता प्रतिप᳘द्यते᳘ नाध्वर्युः᳘ प्रस्तर᳘ᳫँ᳘समु᳘ल्लुम्पती᳘त्येवो᳘पास्ते यदा हो᳘ता सूक्तवाकमाह॥

मूलम् - Weber

अ᳘थ सादयित्वा स्रु᳘चौॗ व्यूहति॥
स्रुचौ व्यु᳘ह्य परिधी᳘न्त्सम᳘ज्य परिधि᳘मभिप᳘द्याश्रा᳘व्याहेषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति सूक्तवाकᳫं हो᳘ता प्रतिप᳘द्यतेॗ नाध्वर्युः᳘ प्रस्तर᳘ᳫं᳘ समु᳘ल्लुम्पती᳘त्येवो᳘पास्ते यदा हो᳘ता सूक्तवाकमाह॥

मूलम् - विस्वरम्

अथ सादयित्वा स्रुचौ व्यूहति । स्रुचौ व्युह्य, परिधीन्त्समज्य, परिधिमभिपद्य आश्राव्याह- “इषिता दैव्या होतारी भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय”- इति । सूक्तवाकं होता प्रतिपद्यते । नाध्वर्युः । प्रस्तरं समुल्लुम्पति इत्येवोपास्ते- यदा होता सूक्तवाकमाह ॥ ४५ ॥

सायणः

स्रुग्व्यूहनादिकं प्रकृतिवदेव कर्त्तव्यमित्यनुक्रामति- अथ सादयित्वेत्यादिना । सूक्तवाकानुवचनं प्रकृतिवत् प्राप्तम् । प्रस्तरप्रहरणं निषेधति- नाध्वर्युरिति 77 । ‘न समुल्लुम्पति’ न गृह्णाति, न प्रहरेत् तूष्णीमेवोपासीत प्रस्तरमाप्रहरणम् 78 ॥ ४५ ॥ ४६ ॥

Eggeling
  1. He then separates the two spoons 79, after laying them down (in their respective places on the altar); and having separated them, and anointed the enclosing-sticks, he takes one enclosing-stick, calls for the ‘Śraushaṭ,’ and says, ‘The divine Hotr̥s are summoned for the proclamation of success, the human is called upon for the song of praise!’ The Hotr̥ intones the ‘song of praise (sūktavāka).’ The Adhvaryu, on the other hand, does not seize the prastara-bunch, but watches while the Hotr̥ recites the song of praise.

४६

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
स न कि᳘ञ्च᳘नानुप्र᳘हरति तूष्णी᳘मे᳘वात्मा᳘नमु᳘पस्पृशति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
स न कि᳘ञ्च᳘नानुप्र᳘हरति तूष्णी᳘मे᳘वात्मा᳘नमु᳘पस्पृशति॥

मूलम् - Weber

अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
स न किं᳘ चॗनानुप्र᳘हरति तूष्णी᳘मेॗवात्मा᳘नमु᳘पस्पृशति॥

मूलम् - विस्वरम्

अथाग्नीदाह- ‘अनुप्रहर’ इति । स न किञ्चनानुप्रहरति, तूष्णीमेवात्मानमुपस्पृशति ॥ ४६ ॥

सायणः

[व्याख्यानं पञ्चचत्वारिंशत्तमे]

Eggeling
  1. Thereupon the Āgnīdhra says, ‘Throw it after 80!’ He (the Adhvaryu) throws nothing after, but silently touches himself.

४७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह सं᳘वदस्वेति॥
(त्य᳘) अ᳘गानग्नीद᳘गञ्छ्राव᳘य श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शंयो᳘र्ब्रूहीत्यु᳘पस्पृशत्येव᳘ परिधी᳘न्नानुप्र᳘हरत्य᳘थैत᳘द्बर्हि᳘रनुस᳘मस्यति परिधीं᳘श्च॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह सं᳘वदस्वेति॥
(त्य᳘) अ᳘गानग्नीद᳘गञ्छ्राव᳘य श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शंयो᳘र्ब्रूहीत्यु᳘पस्पृशत्येव᳘ परिधी᳘न्नानुप्र᳘हरत्य᳘थैत᳘द्बर्हि᳘रनुस᳘मस्यति परिधीं᳘श्च॥

मूलम् - Weber

अ᳘थाह सं᳘वदस्वेति॥
अ᳘गानग्नीद᳘गंछ्राव᳘य श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शं यो᳘र्ब्रूहीत्यु᳘पस्पृशत्येव᳘ परिधीॗन्नानुप्र᳘हरत्य᳘थैत᳘द्बर्हि᳘रनुस᳘मस्यति परिधीं᳘श्च॥

मूलम् - विस्वरम्

अथाह- ‘संवदस्व’ इति । ‘अगानग्नीत्’ । ‘अगन्’ । ‘श्रावय’ । ‘श्रौषट्’ । ‘स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि’ इति । उपस्पृशत्येव परिधीन्, नानुप्रहरति । अथैतद्बर्हिरनुसमस्यति, परिधींश्च ॥ ४७ ॥

सायणः

अग्नीत्प्रैषस्यानिवृत्तिमाह- अथाहेति । ‘स्वगा दैव्या होतृभ्यः’- इति सम्प्रैषे ऽध्वर्युणोक्ते होता शंयुवाकं ब्रूयात्; न च तदानीमध्वर्युः परिधीननुप्रहरेत्, केवलमुपस्पृशेदेव 77 । बर्हिषः परिधीनाञ्च तूष्णीमग्नौ प्रहरणं विधत्ते- अथैतदिति । ‘एतत्’ चतुःस्रक्त्यां वेद्यां स्तीर्णं ‘बर्हिः’ ‘परिधीश्च’ आदाय युगपदग्नौ ‘अनुसमस्यति’ प्रक्षिपति 78 ॥ ४७ ॥

Eggeling
  1. He (the Āgnīdhra) then says, ‘Discourse together!’ [The Adhvaryu asks], ‘Has he gone (to the gods), Agnīdh?’–‘He has gone!’–‘Bid (the gods) hear!’–‘May one (or, they) hear!’–‘Goodspeed to the divine Hotr̥s! Success to the human!–Pronounce the All-hail and blessing!’ Thus saying, he merely touches the enclosing-sticks, but does not (now) throw them (into the fire). The Barhis and enclosing-sticks he throws in afterwards 81.

४८

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
हविरुच्छिष्ट᳘मनुस᳘मस्यन्ति त᳘दु त᳘था न᳘ कुर्याद्धुतोच्छिष्टं वा᳘ ऽएतन्ने᳘द्धुतोच्छिष्ट᳘मग्नौ᳘ जुह᳘वामे᳘ति त᳘स्मादपो᳘ वै᳘वाभ्यवह᳘रेयुः प्रा᳘श्नीयुर्व्वा॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
हविरुच्छिष्ट᳘मनुस᳘मस्यन्ति त᳘दु त᳘था न᳘ कुर्याद्धुतोच्छिष्टं वा᳘ ऽएतन्ने᳘द्धुतोच्छिष्ट᳘मग्नौ᳘ जुह᳘वामे᳘ति त᳘स्मादपो᳘ वै᳘वाभ्यवह᳘रेयुः प्रा᳘श्नीयुर्व्वा॥

मूलम् - Weber

तद्धै᳘के॥
हविरुछिष्ट᳘मनुस᳘मस्यन्ति त᳘दु त᳘था न᳘ कुर्याद्धुतोछिष्टं वा᳘ एतन्ने᳘द्धुतोछिष्ट᳘मग्नौ᳘ जुह᳘वामे᳘ति त᳘स्मादपो᳘ वैॗवाभ्यवह᳘रेयुः प्रा᳘श्नीयुर्वा॥

मूलम् - विस्वरम्

तद्धैके हविरुच्छिष्टमनुसमस्यन्ति । तदु तथा न कुर्यात् । हुतोच्छिष्टं वा एतत्- नेद्धतोच्छिष्टमग्नौ जुहवामेति । तस्मादपो वैवाभ्यवहरेयुः- प्राश्नीयुर्वा ॥ ४८ ॥ इति साकमेधपर्वणि पितृयज्ञः ॥

सायणः

अथ हविःशेषस्याप्यग्नौ प्रक्षेपमेकीयमतेनोपन्यस्यति- तद्धैक इति । तदेतन्निषिध्योपपादयति- तदु तथेति । हुतशेषस्य पुनर्होमयोग्यत्वाभावान्नैष पक्षो युक्त इत्यर्थः । का तर्हि हविःशेषस्य प्रतिपत्तिरिति, तामाह- तस्मादिति । ‘हुतोच्छिष्टम् अपो ऽभ्यवहरेयुः’ । अग्नौ प्रासनपक्षस्य व्युदासार्थ ‘एव’ कारः । ऋत्विजो ‘वा प्राश्नीयुः’ इति पक्षान्तरम् । सूत्रकारो ऽप्येतत् सर्वमाह स्म- “न प्रस्तरमादत्ते” इत्यादिना 77 ॥ ४८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे षष्ठाध्यायस्य प्रथमं ब्राह्मगम (२-६-१) ॥

Eggeling
  1. And here some throw also the remaining sacrificial food into the fire; but let him not do so; for that (remaining havis) is the residue of an offering; and lest he should offer the residue of an offering, let them (the priests) rather throw it into the water or eat it.

  1. जघ्नᳫ । ते᳘नो A. ↩︎

  2. 420:1 This is generally called the Mahāpitr̥yajña, as distinguished from the ordinary monthly Pitr̥yajña of the new-moon sacrifice; for which see II, 4, 2, I seq. ↩︎

  3. 420:2 See II, 1, 3, 1 seq. ↩︎

  4. त्वे᳘वैष᳘ AB. ↩︎

  5. त्मनो᳘ऽचरणेन A. B. M. त्मनोऽनुचरणेन Sây. ↩︎

  6. मीया A. मीयते B. मीद्यते Sây. ↩︎

  7. ‘यद्वा मिद्यते मिदू हिंसायाम्’ इति क्व. । ↩︎ ↩︎

  8. ‘पितृयज्ञ उपाँशुचरणम् (का. श्रौ. सू. ५ । १९०) । ↩︎ ↩︎

  9. 420:3 Instead of ‘ácaraṇena,’ the Kāṇva MS. has ‘caraṇéna (!).’ Cf. Sāyaṇa’s interpretation ‘anucaraṇena anugamanena ca.’ ↩︎

  10. 421:1 That is, either to ’the fathers, accompanied by Soma (or possessed of Soma),’ or to ‘Soma, accompanied by the fathers.’ The Black Yajus assigns the oblation to Soma Pitr̥mat. ↩︎

  11. पितृभ्यो बर्हिषद्भ्यो धानाः । का. श्रौ. सू. ५ । १९९ । ↩︎ ↩︎

  12. अभिमृश्यार्द्धाः पिष्ट्वा निवान्या दुग्धे सकृन्मथित एकशलाकया मंथः । अग्रहणं मंथस्य ततो ऽर्द्धाः पि शतीति श्रुतेः । का. श्रौ. सू. ५ । २०६-२०७ । ↩︎

  13. 421:2 That is, ’the fathers seated on the barhis.’ ↩︎

  14. 421:3 That is, ’the fathers consumed by the fire.’ ↩︎

  15. यागिन इति पा. । ↩︎ ↩︎

  16. 421:4 ‘These, then, are the three kinds of fathers,’ Kāṇva recension. ↩︎

  17. 422:1 Not thrice, as at an ordinary ishṭi; see I, 1, 4, 23. ↩︎

  18. दक्षिणार्द्धे कपालोपधानम् । धानाभर्जनं दक्षिणाग्नौ । का० श्रौ० सू० ५ । २०३ । २०४ । ↩︎ ↩︎

  19. 422:2 Not towards the east, as at the Darśapūrṇamāsa; cf. p. 38, note 3. At offerings to the Manes the south, as a rule, takes the place of the east, the west that of the south, &c. ↩︎

  20. 422:3 At the conclusion of the Āptya ceremony (cf. I, 2, 2, 18-3, 5) he erects south of the (ordinary) Dakshiṇa-fire a (quadrangular) shed (see further on, paragraph 20) with a door on the north side. Inside it he prepares a quadrangular altar (of the same size as at the Darśapūrṇamāsa; cf. I, 2, 5, 14) with the corners towards the intermediate quarters, in the centre of which he makes the (new) Dakshiṇāgni hearth. [According to Taitt. Br. I, 6, 8, 5-6 no digging takes place in preparing the altar (which is to be square) at the Pitr̥yajña.] When the Dakshiṇa-fire is transferred to the new fire-place, the Praṇītā-water (see p. 9, note) is carried after it, followed by the Brahman and Sacrificer, and placed east (not north) of the hearth. The laying down of the fire is preceded by the usual fivefold lustration of the hearth (see p. 2). ↩︎

  21. पितृयज्ञाग्निचित्ययोर्वा तत्र दर्शनात् । का. श्रौ. सू. २ । ९७० । ↩︎

  22. यज्ञोपवीत्याज्यग्रहणे । का. श्रौ. सू. ५ । २१३ । ↩︎

  23. 423:1 Instead of northwards, as is done at the normal ishṭi; see I, 2, 4, 12 seq. ↩︎

  24. 423:2 After tracing the first line of enclosure, the Adhvaryu draws three lines across the altar, either from west to east or from south to north; and says to the Āgnīdhra, ‘Take thrice!’ The latter then takes the dust from the lines and throws it on the utkara (the heap of rubbish, formed north of the altar in preparing the latter), and thereupon again obliterates them. According to Kāty. II, 6, 29, the same ceremony may be performed at the Darśapūrṇamāsa; but there no mention is made of it by our author (see I, 2, 5, 12). ↩︎

  25. 423:3 Viz. the Āgnīdhra lays them down between the altar and the praṇītāḥ (see p. 422, note 3); the firewood behind (west of) the sacrificial grass (barhis), and both with the tops towards the south. The wooden sword also has been previously put down by the Adhvaryu close behind the praṇītāḥ. ↩︎

  26. 424:1 The lady of the house not being present at the sacrifice to the Manes, neither the ceremony of girding (I, 3, 1, 12 seq.), nor that of her looking at the butter–while it is taken from the Gārhapatya fire, along the east side of the Āhavanīya to the altar–takes place on this occasion. According to the commentators on Katy. V, 8, 25 (Paddh. p. 519), however, the Adhvaryu has to look down on the butter, with the same text (Vāj. S. I, 30) which was used by the sacrificer’s wife. For some details to be supplied here, see I, 3, 1, 22-28. ↩︎

  27. 424:2 He has hitherto worn his sacrificial cord on the right shoulder and under the left arm (’eastward-invested’), and now shifts it so as to be on the left shoulder and under the right arm (‘sacrificially-invested’). As to the taking or ladling of butter into the offering-spoons, see I, 3, 2, 1 seq. ↩︎

  28. ‘मेव’ इति पा० । ↩︎ ↩︎

  29. 424:3 See I, 3, 2, 9. ↩︎

  30. विस्रँ स्य यूनं चाग्रे गृहीत्वा । का. श्रौ. सू. ५ । २१६ । यूनं सन्नहनमिति याज्ञिकदेवः । ↩︎

  31. 424:4 See I, 3, 3, 1 seq. ↩︎

  32. 424:5 The barhis, on this occasion, must have been cut close to the root (upamūlam, II, 4, 2, 17; ūpamūle ditam, Kāṇva rec.). According to Taitt. Br. I, 6, 8, 6-7, on the other hand, it has apparently to be torn up with the roots (yat parushi dinaṁ tad devānām, yad antarā tan manushyāṇām, yat samūlaṁ tat pitrīṇām). ↩︎

  33. 425:1 As he did on the former occasion, I, 3, 3, 5. ↩︎

  34. 425:2 According to Taitt. Br. I, 6, 8, 7, because the fathers abide in the third world from here (tr̥tīye vā ito loke pitaraḥ). ↩︎

  35. 425:3 Viz. he is to lay down the enclosing-sticks along the north, west, and east sides, the last two with their tops towards the south. The third text (cf. I, 3, 4, 4) has, of course, to be changed to ‘May Mitra-Varuṇa lay thee around in the east,’ &c. as has also the one he mutters after putting the two sticks on the fire, to ‘May the sun guard thee from the south against any imprecation!’ (I, 3, 4, 8.) According to Taitt. Br. I, 6, 8, 8-9, on the other hand, he is to lay down only two enclosing-sticks (viz. the middle or western, and the northern one, cf. Sāyaṇa on Taitt. S. II, p. 72). ↩︎

  36. प्राक्सँ स्थँ हविरासादनम् । का० श्रौ० सू० ५ । २१९ । ↩︎ ↩︎ ↩︎

  37. इछाद्य᳘ A. ↩︎

  38. 426:1 Here he remains standing, while the Sacrificer and Brahman sit down facing the east. ↩︎

  39. चरं᳘ति A. ↩︎

  40. 426:2 Instead of the ordinary eleven verses, the first and last of which are recited thrice; see I, 3, 5, 6. According to Taitt. Br. I, 6, 9, I, the Adhvaryu summons the Hotr̥ with ‘Recite to the fire, as it is being kindled for the gods (and) fathers!’ The bunch of firewood, with the exception of one stick, which is reserved for the after-offerings, is divided into three parts, one of which is thrown on the fire at the same time when the syllable ‘om’ is pronounced by the Hotr̥ at the end of the kindling-verse. ↩︎

  41. देवां᳘३आज्यपां३ऽआ᳘ A. ↩︎

  42. ‘तद्रूपं स्विष्टकारिणम्-’ इति पा. । ↩︎ ↩︎

  43. 427:1 The Kāṇva MS. reads, ‘Bring Agni hither, O Agni!’ Before this, Āśval. II, 19, 7 inserts, ‘Bring hither the gods (and) fathers for the sacrificer!’ See I, 4, 2, 16. ↩︎

  44. 427:2 According to the Kāṇva text he adds here the same formula as at ordinary ishṭis (I, 4, 2, 17), ‘Bring (them) hither, O Jātavedas, and offer up a good offering!’ For the formulas ‘Bring hither Agni for the Hotr̥ship! bring hither thine own greatness!’ Āśval. II, 19, 8 apparently substitutes ‘Bring hither Agni Kavyavāhana!’ cf. further on, par. 30. ↩︎

  45. अपबर्हिषः प्रयाजा अनुयाजाश्च । का. श्रौ. सू. ५- २२३ । ↩︎

  46. 427:3 ‘The Adhvaryu, having offered the two libations of butter, and called for the Śraushaṭ,’ Kāṇva recension. ↩︎

  47. 427:4 On the pravara, or election of the (divine and human) Hotr̥; see I, 4, 2, 1 seq., 5, I, 1 seq. The call ‘Hotr̥, seat thyself!’ here takes the place of the formulas given I, 5, 1, 5 seq. ↩︎

  48. 427:5 See I, 5, 3, 1 seq. ↩︎

  49. ‘एतैर्हविर्भिः’- इति नाशिकस्थवैदिकपाठपुस्तकस्थः पाठः । ↩︎ ↩︎

  50. ॐ ँस्वधेत्यस्तु स्वधेति वा ऽऽश्रुतप्रत्याश्रुते स्वधा नम इति व्वषट्कारः । का. श्रौ. सू. ५ । २३३ । ↩︎

  51. 428:1 At the sacrifice to the Manes, the Āgnīdhra, when uttering his response, stands south of the Adhvaryu. See p. 132, note. The first syllable of ‘svadhā’ is protracted. According to the comm. on Kāty. V, 9, 12, the offering formulas also begin with ‘Yẽ svadhāmahe,’ instead of ‘Yẽ yajāmahe’ (see I, 5, 2, 16 and note). ↩︎

  52. 428:2 I do not quite see the pertinency of the reason here alleged, unless it be that the author means to say that once (by the first act) the fathers have departed, and by a second act they return hither. According to Āśval. II, 19, 22, the two invitatory prayers to the Pitaraḥ Somavantaḥ are Rig-v. X, 15, 1; IX, 96, 11; to Soma Pitr̥mat, Rig-v. I, 91, 1; 20; to the Pitaro Barhishadaḥ, Rig-v. X, 15, 4; 3; to the Pitaro ’gnishvāttāḥ, Rig-v. X, 15, 11; 13; [to Yama X, 14, 4; 5.]–The offering-prayers being respectively, Rig-v. X, 15, 5; VIII, 48, 13; X, 15, 2; X, 15, 14; [X, 14, 1.] ↩︎

  53. द्विरभिघारणमनतिक्रमणं च । (का० श्रौ० सू० ५ । २२८ ।) ↩︎

  54. 429:1 From the centre of each sacrificial dish he makes one ‘cutting’ with the śr̥tāvadāna, shaped like a cow’s ear. Kāty. V, 9, 2, and Schol. ↩︎

  55. 429:2 Or rather the ‘Svadhā namaḥ,’ cf. par. 24. The Adhvaryu makes the oblation with his left hand, while looking towards the south. Paddh. on Katy. V, 9. ↩︎

  56. पुरोडा᳘त्सस्य A. ↩︎

  57. सोमाय वा पितृमत इति । एवं बर्हिषद्भ्यो उत्तरतो धानामंथपुरोडाशानाम् । अग्निष्वात्तेभ्यो दक्षिणतो मंथपुरोडाशधानानाम् । का० श्रौ० सू० १२९-१३०-१३१ । ↩︎ ↩︎

  58. तम᳘ग्नीद᳘वैव᳘ A ↩︎

  59. ‘शेषः’- इ० पा० । ↩︎ ↩︎

  60. मंथमुपहूय होता ऽध्वर्युर्ब्रह्मा ऽग्नीदवघ्राय निदधाति । का० श्रौ० सू० ५। २३४। ‘प्राशित्रमवदायेडां वा सर्व्वे प्राश्नंति वा । का. श्रौ. सू. ५। २३५ । ↩︎

  61. 431:1 According to the comm. on Kāty. V, 9, 13, ‘manthaḥ’ is, in that case, substituted for iḍā’ in the invocation, see I, 8, 1, 19 seq. The Kāṇva MS. has as follows: Thereupon, by way of iḍā, they place that same porridge into the hand of the Hotr̥. The Hotr̥, having invoked it, smells it. They hand it to the Āgnīdhra. The Āgnīdhra smells it. They hand it to the Brahman. The Brahman smells it. As to this Āsuri said, ‘As from any other oblation they cut off the “iḍā” and the fore-portion, so let them cut off and smell, but not eat: some indeed must be eaten of that of which offering is made in the fire.’ ↩︎

  62. 432:1 See II, 4, 2, 16 seq. According to the comm. on Kāty. V, q, 27, some sprinkle three times round the altar for each of the three ancestors. But according to the Paddhati, he sprinkles once round the altar, beginning from the north-west corner; then he sits down and pours out water in that corner for the father. Thereupon, after walking round in the opposite direction (from left to right) to the south-west corner, he again sprinkles all round, and in the same way pours out water in that corner for the grandfather; and after retracing his steps as far as the south-east corner, he performs the same circumambulation, and pours out water in that corner for the great-grandfather; whereupon he again retraces his steps up to the west of the altar. ↩︎

  63. 432:2 In the case of a sacrificer whose father is still alive, these ceremonies are performed in honour of the father’s father, grandfather, and great-grandfather. ↩︎

  64. ‘दर्शयति’ इति क्व. पा. । ↩︎ ↩︎

  65. स्रक्तिषु पित्रवनेजनं परिषिच्य परिषिच्य पूर्व्ववदुत्तरापरस्यां प्रथमम् । का. श्रौ. सू. ५ । २३७ । ↩︎

  66. 433:1 He mixes the three pieces (about as much as a thumb’s joint each) cut from the sacrificial dishes, and forms them into three piṇḍas or round cakes. ↩︎

  67. निह्नुते Sây. ↩︎

  68. व᳘शां३ऽअ᳘नु A. ↩︎

  69. 434:1 ‘–the friends have shaken off (their intoxication),’ Ludwig; ‘–they showered down upon us delightful gifts,’ Grassmann; ’they shook their dear (bodies),’ Sāyaṇa; ‘–have trembled through their precious (bodies),’ Wilson. ↩︎

  70. मनो न्वाह्वामह इति गार्हपत्यं तिसृभिः । का. श्रौ. सू. ५ । २४१ । ↩︎ ↩︎

  71. 434:2 The Rig-veda has ‘somena’ instead of ‘stomena.’ ↩︎

  72. 435:1 The Kāṇva text has, ‘The reason why he moves thrice round, sprinkling from left to right, is that, after going after those three ancestors of his, he thereby leaves them, and returns to this, his own, world.’ See II, 6, I, 15. ↩︎

  73. अवनेज्य पूर्व्ववत्प्रदक्षिणम् । नीवीं व्विस्रँ स्य नमो व इत्यंजलिं करोति षड्वा नमस्कारान् । गृहान्नः पितरो दत्तेति च । का. श्रौ. सू. ५ । २४३-२४५ । ↩︎

  74. 435:2 On the nīvi, or unwoven end of the waist-cloth (Hindi dhotī, Mahr. dhotar), which had to be passed under and tucked up behind, at the beginning of the present ceremony, see p. 368, note 2. Cf. Āpast. Dharmas. I, 2, 6, 19. ↩︎

  75. 435:3 For the six formulas used for this purpose, see p. 368, note 2. ↩︎

  76. ब्रह्मामंत्रणादि प्राग्स्रुग्व्यूहनात् प्रयाजवत् । यज्ञोपवीतिविपर्ययम् । का. श्रौ. सू. ५ । २४६ । २४७ । ↩︎

  77. “न प्रस्तरमादत्ते” । का. श्रौ. सू. । ५ । २४८ । ↩︎ ↩︎ ↩︎

  78. “अनुप्रहरेत्युक्ते न किंचनानुप्रहरति । तूष्णीमात्मानँ सँ स्पृशति” का. श्रौ. सू. ५ । २४९ । २५० । ↩︎ ↩︎

  79. 436:1 See I, 8, 3, 1 seq. ↩︎

  80. 437:1 See I, 8, 3, 19 seq. ↩︎

  81. 437:2 Viz. after the strewing of the Veda,–see I, 9, 2, 24, the formulas being pronounced by the Hotr̥ on this occasion,–at the time when the Samishṭayajus, which is here omitted, would have to be performed in an ordinary ishṭi. ↩︎