०१

विश्वास-प्रस्तुतिः

महाहवि᳘षा ह वै᳘ देवा᳘ वृत्रं᳘ जघ्नुः॥
(स्ते᳘) ते᳘नो ऽएव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ एते᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो एव वि᳘जयते त᳘स्माद्वा᳘ ऽएष᳘ ऽएते᳘न यजते॥

मूलम् - श्रीधरादि

महाहवि᳘षा ह वै᳘ देवा᳘ वृत्रं᳘ जघ्नुः॥
(स्ते᳘) ते᳘नो ऽएव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां व्वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ एते᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो एव वि᳘जयते त᳘स्माद्वा᳘ ऽएष᳘ ऽएते᳘न यजते॥

मूलम् - Weber

महाहवि᳘ष ह वै᳘ देवा᳘ वृत्रं᳘ जघ्नुः॥
ते᳘नो एव व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तां त᳘थो एॗवैष᳘ एते᳘न पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हन्ति त᳘थो एव वि᳘जयते त᳘स्माद्वा᳘ एष᳘ एते᳘न यजते॥

मूलम् - विस्वरम्

महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिः- ताम् । तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति- तथो एव विजयते । तस्माद् वा एष एतेन यजते ॥ १ ॥

सायणः

अथ तस्य महाहविषः प्रयोगक्रमं विधित्सुः प्राग् “एतैर्वै देवा वृत्रमघ्नन्"- इत्यादिना यत् साकमेधानां फलं प्रतिपादितम्, तत्फलं महाहविष एव साक्षात् साधनत्वमिति प्रतिपादयति- महाहविषा ह वा इत्यादिना । महत्त्वगुणविशिष्ट इन्द्रो देवता यस्मिन् यागे तत्साधनं हविः महाहविः । अन्यद् व्याख्यातम् ॥ १ ॥

Eggeling
  1. Verily, by means of the Great Oblation the gods slew Vr̥tra 1; by means of it they gained that supreme authority which they now wield; and so does he (the Sacrificer) thereby now slay his wicked, spiteful enemy, and gain the victory: this is why he performs this sacrifice.

०२

विश्वास-प्रस्तुतिः

त᳘स्यायृ᳘त्॥
(दु᳘) उ᳘पकिरन्त्युत्तरवेदिं᳘ गृह्ण᳘न्ति पृषदाज्यं म᳘न्थन्त्यग्निं न᳘वप्रयाजं भवति न᳘वानुयाजं त्री᳘णि समिष्टयजू᳘ᳫं᳘षि भवन्त्य᳘थैता᳘न्येव प᳘ञ्च हवी᳘ᳫं᳘षि भवन्ति॥

मूलम् - श्रीधरादि

त᳘स्यायृ᳘त्॥
(दु᳘) उ᳘पकिरन्त्युत्तरवेदिं᳘ गृह्ण᳘न्ति पृषदाज्यं म᳘न्थन्त्यग्निं न᳘वप्रयाजं भवति न᳘वानुयाजं त्री᳘णि समिष्टयजू᳘ᳫं᳘षि भवन्त्य᳘थैता᳘न्येव प᳘ञ्च हवी᳘ᳫं᳘षि भवन्ति॥

मूलम् - Weber

त᳘स्यावृत्॥
उ᳘पकिरन्त्युत्तरवेदिं᳘ गृह्ण᳘न्ति पृषदाज्यम् म᳘न्थन्त्यग्निं न᳘वप्रयाजम् भवति न᳘वानुयाजं त्री᳘णि समिष्टयजूं᳘षि भवन्त्य᳘थैता᳘न्येव प᳘ञ्च हवीं᳘षि भवन्ति॥

मूलम् - विस्वरम्

तस्यावृत् । उपकिरन्त्युत्तरवेदिम्, गृह्णन्ति पृषदाज्यम्, मन्थन्त्यग्निम् । नवप्रयाजं भवति, नवानुयाजम्, त्रीणि समिष्टयजूंषि भवन्ति । अथैतान्येव पञ्च हवींषि भवन्ति ॥ २ ॥

सायणः

तस्य प्रयोगमनुक्रामति- तस्यावृदित्यादिना । आवृच्छब्दः क्रियावाची । उत्तरवेदीनिवपनपृषदाज्यग्रहणाग्निमन्थनादीनि वरुणप्रघासवदेवात्रापि कार्याणीत्याह- उपकिरन्तीत्यादिना । अत एव सूत्रकृतोक्तम्- “उत्तरवेद्यग्निप्रणयनमन्थनपृषदाज्यञ्च वरुणप्रघासवत्”- (का. श्रौ. सू. ५ । १८८) इति । अथैतान्येवेति । यानि वैश्वदेवे ऽनुक्रान्तानि आग्नेयादीनि पञ्च सञ्चराणि हवींषि ‘एतानि एव’ अत्रापि कर्त्तव्यानि भवन्तीत्यर्थः ॥ २ ॥

Eggeling
  1. The mode of its performance (is as follows): They raise an uttara-vedi 2; they use clotted butter 3; and they churn the fire. There are nine

fore-offerings and nine after-offerings 4, and three Samishṭayajus. In the first place there are those five oblations 5.

०३

विश्वास-प्रस्तुतिः

स य᳘दाग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भ᳘वति॥
(त्य) अग्नि᳘ना ह वा᳘ ऽएनं ते᳘जसा ऽघ्नन्त्स ते᳘जो ऽग्नि᳘र्नाव्यथत त᳘स्मादाग्नेयो᳘ भवति॥

मूलम् - श्रीधरादि

स य᳘दाग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भ᳘वति॥
(त्य) अग्नि᳘ना ह वा᳘ ऽएनं ते᳘जसा ऽघ्नन्त्स ते᳘जो ऽग्नि᳘र्नाव्यथत त᳘स्मादाग्नेयो᳘ भवति॥

मूलम् - Weber

स य᳘दाग्नेॗयो ऽष्टा᳘कपालः पुरोडा᳘शो भ᳘वति॥
अग्नि᳘ना ह वा᳘ एनं ते᳘जसाघ्नन्त्स ते᳘जो ऽग्निॗर्नाव्यथत त᳘स्मादाग्नेयो᳘ भवति॥

मूलम् - विस्वरम्

स यदाग्नेयो (१) ऽष्टाकपालः पुरोडाशो भवति । अग्निना ह वा एनं तेजसा ऽघ्नन् । स तेजो ऽग्निर्नाव्यथत । तस्मादाग्नेयो भवति ॥ ३ ॥

सायणः

तत्राग्नेयमनूद्य स्तौति- स यदिति । एनं तेजसा ऽघ्नन्निति । पुरा खलु देवाः ‘अग्निना’ अग्निलक्षणेन ‘तेजसा’ ‘एनं’ वृत्रम् ‘अघ्नन्’ अहिंसन् ‘सः’ च तेजोरूपः ‘अग्निः’ ‘न अव्यथत’ व्यथितः पीडितो नाभवत् । तस्मादाग्नेययागस्य प्राथम्यं युक्तम् ॥ ३ ॥

Eggeling
  1. Now as to why there is a cake on eight potsherds for Agni. With Agni, (shaped into) a sharp point (tejas) 6, indeed, they (the gods) slew him (Vr̥tra); and Agni, that sharp point, swerved not: hence there is (a cake) for Agni.

०४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्सौम्य᳘श्चरुर्भ᳘वति॥
सो᳘मेन ह वा᳘ ऽएनᳫँ᳭ रा᳘ज्ञा ऽघ्नन्त्सो᳘मराजान एव त᳘स्मात्सौम्य᳘श्चरु᳘र्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्सौम्य᳘श्चरुर्भ᳘वति॥
सो᳘मेन ह वा᳘ ऽएनᳫँ᳭ रा᳘ज्ञा ऽघ्नन्त्सो᳘मराजान एव त᳘स्मात्सौम्य᳘श्चरु᳘र्भवति॥

मूलम् - Weber

अ᳘थ य᳘त्सौम्य᳘श्चरुर्भ᳘वति॥
सो᳘मेन ह वा᳘ एनं रा᳘ज्ञाघ्नन्त्सो᳘मराजान एव त᳘स्मात्सौम्य᳘श्चरु᳘र्भवति॥

मूलम् - विस्वरम्

अथ यत्सौम्यश्चरुर्भवति (२) । सोमेन ह वा एनं राज्ञा ऽघ्नन् । सोमराजान एव । तस्मात्सौम्यश्चरुर्भवति ॥ ४ ॥

सायणः

सौम्यं हविरनूद्य स्तौति- अथ यदिति । सोमराजान एवेति । सोमो राजा येषां ते तथोक्ताः “राजाहःसखिभ्यष्टच्”- (पा. सू. ५ । ४ । ९१) । इति टच्-समासान्तो न भवति; तत्पुरुषाधिकारात् । सोमराजेनाधिष्ठिता देवाः, तेनैव ‘राज्ञा सोमेन’ ‘एनं’ वृत्रम् ‘अघ्नन्’ अहिंसन्नित्यर्थः ॥ ४ ॥

Eggeling
  1. Then as to why there is a rice-pap for Soma. With the aid of Soma, the king, indeed they slew him, they who have Soma for their king: hence there is a pap for Soma.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्सावित्रः॥
(त्रो) द्वा᳘दशकपालो वा ऽष्टा᳘कपालो वा पुरोडा᳘शो भ᳘वति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूता है᳘वैनमघ्नंस्त᳘स्मात्सावित्रो᳘ भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्सावित्रः॥
(त्रो) द्वा᳘दशकपालो वा ऽष्टा᳘कपालो वा पुरोडा᳘शो भ᳘वति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूता है᳘वैनमघ्नंस्त᳘स्मात्सावित्रो᳘ भवति॥

मूलम् - Weber

अ᳘थ य᳘त्सावित्रः॥
द्वा᳘दशकपालो वाष्टा᳘कपालो वा पुरोडा᳘शो भ᳘वति सविता वै᳘ देवा᳘नाम् प्रसविता᳘ सवितृ᳘प्रसूता हैॗवैनमघ्नंस्त᳘स्मात्सावित्रो᳘ भवति॥

मूलम् - विस्वरम्

अथ यत्सावित्रो (३) द्वादशकपालो वा ऽष्टाकपालो वा पुरोडाशो भवति । सविता वै देवानां प्रसविता । सवितृप्रसूता हैवैनमघ्नन् । तस्मात्सावित्रो भवति ॥ ५ ॥

सायणः

तृतीयं हविरनूद्य स्तौति- अथ यत् सावित्र इति । द्वादशकपालो ऽष्टाकपालो वेति । कपालसङ्ख्याया विकल्पः । सवितृप्रसूता इति । यतः सवित्रा देवेन प्रेरिता एव देवाः ‘एनं’ वृत्रम् ‘अघ्नन्’ तस्मात्सावित्रयागः कर्त्तव्यः 7 ॥ ५ ॥

Eggeling
  1. Then as to why there is a cake on twelve, or eight 8, potsherds for Savitr̥. Savitr̥, indeed, is the impeller (prasavitr̥) of the gods; and impelled by Savitr̥ they slew him: hence there is (a cake) for Savitr̥.

०६

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्सारस्वत᳘श्चरुर्भ᳘वति॥
व्वाग्वै स᳘रस्वती व्वा᳘गु हैवा᳘नुममाद प्र᳘हर जही᳘ति त᳘स्मात्सारस्वत᳘श्चरु᳘र्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्सारस्वत᳘श्चरुर्भ᳘वति॥
व्वाग्वै स᳘रस्वती व्वा᳘गु हैवा᳘नुममाद प्र᳘हर जही᳘ति त᳘स्मात्सारस्वत᳘श्चरु᳘र्भवति॥

मूलम् - Weber

अ᳘थ य᳘त्सारस्वत᳘श्चरुर्भ᳘वति॥
वाग्वै स᳘रस्वती वा᳘गु हैवा᳘नुममाद प्र᳘हर जही᳘ति त᳘स्मात्सारस्वत᳘श्चरु᳘र्भवति॥

मूलम् - विस्वरम्

अथ यत्सारस्वतश्चरुर्भवति (४) । वाग्वै सरस्वती । वागु हैवानुममाद- ‘प्रहर, जहि’ इति । तस्मात्सारस्वतश्चरुर्भवति ॥ ६ ॥

सायणः

चतुर्थं हविरनूद्य स्तौति- अथ यत् सारस्वत इति । वागु हैवेति । वागात्मिका हि सरस्वती सैव खलु वाक् वृत्रं हनिष्यन्तमिन्द्रम् ‘अनुममाद’ हृष्टा बभूव । अनुमदनप्रकारमाह- हे इन्द्र ! ‘प्रहर’ वज्रेण वृत्रं ताडय, ततस्तं ‘जहि’ मारयेति । जहीति हन्तेर्लोटि मध्यमैकवचने “हन्तेर्जः" - (पा. सू. ६ । ४ । ३६) इति जादेशः तस्य “असिद्धवदत्राभात्”- (पा. सू. ६ । ४ । २२) इति असिद्धत्वात् हेर्लुग् न भवति ॥ ६ ॥

Eggeling
  1. Then as to why there is a rice-pap for Sarasvatī. Sarasvatī in truth is Speech; and Speech indeed it was that cheered them up, saying, ‘Strike! slay 9!’ Hence there is a pap for Sarasvatī.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘त्पौष्ण᳘श्चरुर्भ᳘वति॥
(ती) इयं वै᳘ पृथिवी᳘ पू᳘षेय᳘ᳫँ᳘ है᳘वैनं व्वधा᳘य प्रति प्र᳘ददावन᳘या है᳘वैनं प्रतिप्र᳘त्तं जघ्नुस्त᳘स्मात्पौष्ण᳘श्चरु᳘र्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘त्पौष्ण᳘श्चरुर्भ᳘वति॥
(ती) इयं वै᳘ पृथिवी᳘ पू᳘षेय᳘ᳫँ᳘ है᳘वैनं व्वधा᳘य प्रति प्र᳘ददावन᳘या है᳘वैनं प्रतिप्र᳘त्तं जघ्नुस्त᳘स्मात्पौष्ण᳘श्चरु᳘र्भवति॥

मूलम् - Weber

अ᳘थ य᳘त्पौष्ण᳘श्चरुर्भ᳘वति॥
इयं वै᳘ पृथिवी᳘ पूॗषेय᳘ᳫं᳘ हैॗवैनम् बधा᳘य प्रतिप्र᳘ददावन᳘या हैॗवैनम् प्रतिप्र᳘त्तं जघ्नुस्त᳘स्मात्पौष्ण᳘श्चरु᳘र्भवति॥

मूलम् - विस्वरम्

अथ यत् पौष्णश्चरुर्भवति (५) । इयं वै पृथिवी पूषा, इयं हैवेनं वधाय प्रतिप्रददौ । अनया हैवैनं प्रतिप्रत्तं जघ्नुः । तस्मात् पौष्णश्चरुर्भवति ॥ ७ ॥

सायणः

पञ्चमं हविरनूद्य स्तौति- अथ यत् पौष्णश्चरुर्भवतीति । इयं वै पृथिवीत्यादि । इयमेव हि पृथिवी पोषयति भूतजातानीति पूषा, इयमेव खलु ‘एनं’ वृत्रं ‘वधाय’ हननाय ‘प्रतिप्रददौ’ प्रत्यर्पयामास, अतः ‘अनयैव’ पृथिव्या साधनेन ‘एनं’ वृत्रं देवाः ‘प्रतिजघ्नुः’ प्रत्येकं हतवन्त इत्यर्थः ॥ ७ ॥

Eggeling
  1. Then as to why there is a rice-pap for Pūshan. Pūshan doubtless is this earth 10, and this

earth, indeed, gave him (Vr̥tra) up to slaughter; and they slew him, thus given up by her: hence there is a rice-pap for Pūshan.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
(त्ये) एते᳘न है᳘वैनमघ्नंस्ते᳘जो वा᳘ अग्नि᳘रिन्द्रियं᳘ व्वीर्यमि᳘न्द्र एता᳘भ्यामेनमुभा᳘भ्यां व्वी᳘र्याभ्यामघ्नन्ब्र᳘ह्म वा᳘ ऽअग्निः᳘ क्षत्रमि᳘न्द्रस्ते᳘ ऽउभे᳘ सᳫँ᳭र᳘भ्य ब्र᳘ह्म च क्षत्रं᳘ च सयु᳘जौ कृत्वा ता᳘भ्यामेनमुभा᳘भ्यां व्वी᳘र्याभ्यामघ्नंस्त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
(त्ये) एते᳘न है᳘वैनमघ्नंस्ते᳘जो वा᳘ अग्नि᳘रिन्द्रियं᳘ व्वीर्यमि᳘न्द्र एता᳘भ्यामेनमुभा᳘भ्यां व्वी᳘र्याभ्यामघ्नन्ब्र᳘ह्म वा᳘ ऽअग्निः᳘ क्षत्रमि᳘न्द्रस्ते᳘ ऽउभे᳘ सᳫँ᳭र᳘भ्य ब्र᳘ह्म च क्षत्रं᳘ च सयु᳘जौ कृत्वा ता᳘भ्यामेनमुभा᳘भ्यां व्वी᳘र्याभ्यामघ्नंस्त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

अ᳘थैन्द्राग्नौ द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
एते᳘न हैॗवैनमघ्नंस्ते᳘जो वा᳘ अग्नि᳘रिन्द्रि᳘यं वीर्य᳘मि᳘न्द्र एता᳘भ्यामेनमुभा᳘भ्यां वीॗर्याभ्यामघ्नन्ब्र᳘ह्म वा᳘ अग्निः᳘ क्षत्रमि᳘न्द्रस्ते᳘ उभे᳘ संर᳘भ्य ब्र᳘ह्म च क्षत्रं᳘ च सयु᳘जौ कृत्वा ता᳘भ्यामेनमुभा᳘भ्यां वीॗर्याभ्यामघ्नंस्त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

अथैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति (६) । एतेन हैवैनमघ्नन् । तेजो वा अग्निः, इन्द्रियं वीर्यमिन्द्रः । एताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नन् । ब्रह्म वा अग्निः, क्षत्रमिन्द्रः, ते उभे संरभ्य, ब्रह्म च क्षत्रं च सयुजौ कृत्वा ताभ्यामेनमुभाभ्यां वीर्याभ्यामघ्नन् । तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति ॥ ८ ॥

सायणः

षष्ठं हविर्विधत्ते- अथैन्द्राग्न इति 11एतेन हेत्यादि । ‘एतेन’ इन्द्राग्निदेवताकेन यागेन । इन्द्रानग्न्योर्वृत्रहननहेतुत्वमुपपादयति- तेजो वा अग्निरित्यादिना । यो ऽयम् ‘अग्निः’ स दहनसमर्थः ‘तेजः’ यदिदं पुरुषे प्रविष्टम् ‘इन्द्रियम्’ इन्द्रलिङ्गम्, इन्द्रेण दत्तं ‘वीर्यम्,’ तदात्मक इन्द्रः; तथा च ‘एताभ्याम् उभाभ्याम्’ इन्द्राग्निसम्बन्धिभ्याम् ‘एनं’ वृत्रम् देवाः ‘अघ्नन्’ तस्मादैन्द्राग्नो यागो युक्त इत्यर्थः ॥

प्रकारान्तरेण स्तौति- ब्रह्म वा अग्निरिति । ‘अग्निः,’ ‘ब्रह्म’ ब्राह्मणजातिः; ब्राह्मणेन सह प्रजापतिमुखादुत्पन्नत्वात् । ‘इन्द्रः,’ ‘क्षत्रम्’ क्षत्रियजातिः; प्रजापतेरुरसो बाहुभ्यां च सकाशात् क्षत्रियेण सहोत्पत्तेः । ‘ते उभे’ ब्रह्मक्षत्रे ‘संरम्य’ अवलम्ब्य ‘सयुजौ’ परस्परं सहायभूते ‘कृत्वा’ ‘ताभ्यामुभ्याभ्यां’ ब्रह्मक्षत्रसम्बन्धिभ्यां वीर्याभ्याम् ‘एनं’ वृत्रम् ‘अघ्नन्’ ॥ ८ ॥

Eggeling
  1. Then follows a cake on twelve, potsherds for Indra and Agni; for by means of that they slew him, since Agni means fiery glow (tejas), and Indra means manly power, and by means of these two powers they did indeed slay him. Moreover, Agni is the priesthood, and Indra is the nobility; having allied these two, having closely united the priesthood with the nobility, they (the gods) slew him by means of these two powers: hence there is a cake on twelve potsherds for Indra and Agni.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ माहेन्द्र᳘श्चरु᳘र्भवति॥
(ती᳘) इ᳘न्द्रो वा᳘ ऽएष᳘ पुरा᳘ व्वृत्र᳘स्य व्वधाद᳘थ व्वृत्र᳘ᳫं᳘हत्वा य᳘था महाराजो᳘ व्विजिग्यान᳘ ऽएवं᳘ महे᳘न्द्रो ऽभवत्त᳘स्मान्माहेन्द्र᳘श्चरु᳘र्भवति महा᳘न्तमु चै᳘वैनमेतत्ख᳘लु करोति व्वृत्र᳘स्य व्वधा᳘य त᳘स्माद्वेव᳘ माहेन्द्र᳘श्चरु᳘र्भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ माहेन्द्र᳘श्चरु᳘र्भवति॥
(ती᳘) इ᳘न्द्रो वा᳘ ऽएष᳘ पुरा᳘ व्वृत्र᳘स्य व्वधाद᳘थ व्वृत्र᳘ᳫं᳘हत्वा य᳘था महाराजो᳘ व्विजिग्यान᳘ ऽएवं᳘ महे᳘न्द्रो ऽभवत्त᳘स्मान्माहेन्द्र᳘श्चरु᳘र्भवति महा᳘न्तमु चै᳘वैनमेतत्ख᳘लु करोति व्वृत्र᳘स्य व्वधा᳘य त᳘स्माद्वेव᳘ माहेन्द्र᳘श्चरु᳘र्भवति॥

मूलम् - Weber

अ᳘थ माहेन्द्र᳘श्चरु᳘र्भवति॥
इ᳘न्द्रो वा᳘ एष᳘ पुरा᳘ वृत्र᳘स्य बधाद᳘थ वृत्र᳘ᳫं᳘ हत्वा य᳘था महाराजो᳘ विजिग्यान᳘ 12 एवं᳘ महेॗन्द्रो ऽभवत्त᳘स्मान्माहेन्द्र᳘श्चरु᳘र्भवति महा᳘न्तमु चैॗवैनमेतत्ख᳘लु करोति वृत्र᳘स्य बधा᳘य त᳘स्माद्वेव᳘ माहेन्द्र᳘श्चरु᳘र्भवति॥

मूलम् - विस्वरम्

अथ माहेन्द्रश्चरुर्भवति (७) । इन्द्रो वा एष पुरा वृत्रस्य वधात् । अथ वृत्रं हत्वा- यथा महाराजो विजिग्यानः- एवं महेन्द्रो ऽभवत् । तस्मान्माहेन्द्रश्चरुर्भवति । महान्तमु चैवैनमेतत् खलु करोति- वृत्रस्य वधाय । तस्माद्वेव माहेन्द्रश्चरुर्भवति ॥ ९ ॥

सायणः

सप्तमं हविर्विधत्ते- अथ माहेन्द्रश्चरुर्भवतीति । (का. श्रौ. सू. ५ । १८७) | महांश्चासाविन्द्रो महेन्द्रः “आन्महतः”- (पा. सू. ६ । ३ । ४६) इत्यात्वम् । महेन्द्रो देवता अस्य माहेन्द्रः “महेन्द्राद्धाणौ च” (पा. सू. ४ । २ । २९) इत्यण् । अस्येन्द्रस्य महत्त्वमुपपादयति- इन्द्रो वा एष इति । वृत्रवधात् पूर्वं केवल इन्द्र एवासीत्, स च तं हत्वा ‘महेन्द्रो ऽभवत्’ ‘यथा’ शत्रुं ‘विजिग्यानः’ विजितवान् राजा ‘महाराजः’ इत्याख्यायते, तद्वत् ‘विजिग्यानः’ विपूर्वाज्जयतेः “विपराभ्यां जेः” (पा. सू. १ । ३ । १९) इत्यात्मनेपदम्, लिटः कानच्, “सन् लिटोर्जेः” (पा. सू. ७ । ३ । ५७) इत्यभ्यासादुत्तरस्य कुत्वम् ॥

महान्तमु चैवैनमिति । प्रकारान्तरेण स्तुतिः । महत्त्वेनेन्द्रस्य विशेषणान्महान्तमेवैनं कृतवान् भवतीत्यर्थः । तस्मदु एवेति । ‘उ’- शब्दो ऽप्यर्थे । तस्मादपि महत्कर्म्मकरणाद्धेतोरित्यर्थः ॥ ९ ॥

Eggeling
  1. Then follows a rice-part for Mahendra. For before the slaying of Vr̥tra he was indeed Indra; but after slaying Vr̥tra he became Mahendra (the great Indra), even as (a king becomes) a mahārāja, after obtaining the victory: hence there is a rice-pap for Mahendra. And thereby indeed he renders him great (strong), for the slaying of Vr̥tra: for this reason also there is a rice-pap for Mahendra.

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ व्वैश्वकर्मण ऽए᳘ककपालः पुरोडा᳘शो भवति॥
व्वि᳘श्वं वा᳘ ऽएतत्क᳘र्म कृतᳫँ᳭ स᳘र्व्वं जितं᳘ देवा᳘नामासीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां व्वि᳘श्वम्वे᳘वैत᳘स्यैतत्क᳘र्म कृतᳫँ᳭ स᳘र्व्वं जितं᳘ भवति साकमेधै᳘रीजान᳘स्य व्विजिग्यान᳘स्य त᳘स्माद्वैश्वकर्मण ऽए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ व्वैश्वकर्मण ऽए᳘ककपालः पुरोडा᳘शो भवति॥
व्वि᳘श्वं वा᳘ ऽएतत्क᳘र्म कृतᳫँ᳭ स᳘र्व्वं जितं᳘ देवा᳘नामासीत्साकमेधै᳘रीजाना᳘नां व्विजिग्याना᳘नां व्वि᳘श्वम्वे᳘वैत᳘स्यैतत्क᳘र्म कृतᳫँ᳭ स᳘र्व्वं जितं᳘ भवति साकमेधै᳘रीजान᳘स्य व्विजिग्यान᳘स्य त᳘स्माद्वैश्वकर्मण ऽए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

अ᳘थ वैश्वकर्मण ए᳘ककपालः पुरोडा᳘शो भवति॥
वि᳘श्वं वा᳘ एतत्क᳘र्म कृतᳫं स᳘र्वं जितं᳘ देवा᳘नामासीत्साकमेधै᳘रीजाना᳘नां विजिग्याना᳘नां वि᳘श्वम्वेॗवैत᳘स्यैतत्क᳘र्म 13 कृतᳫं स᳘र्वं जित᳘म् भवति साकमेधै᳘रीजान᳘स्य विजिग्यान᳘स्य त᳘स्माद्वैश्वकर्मण ए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

अथ वैश्वकर्मण एककपालः पुरोडाशो भवति (८) । विश्वं वा एतत् कर्म कृतम्, सर्वं जितं देवानामासीत् साकमेधैरीजानानां विजिग्यानानाम् । विश्वम्वेवैतस्यैतत् कर्म कृतम्, सर्वं जितं भवति- साकमेधैरीजानस्य विजिग्यानस्य । तस्माद्वैश्वकर्मण एककपालः पुरोडाशो भवति ॥ १० ॥

सायणः

अष्टमं हविर्विधत्ते- अथ वैश्वकर्मण इति (का. श्रौ. सू. १ । १८७) । विश्वं सर्वं जगत् कर्म कार्यं यस्य स विश्वकर्मा देवता अस्यासौ ‘वैश्वकर्मणः’ । ‘सा ऽस्य देवता’- (पा. सू. ४ । २ । २४) । इत्यणि “अन्”- (पा. सू. ६ । ४ । १६७) इति प्रकृतिवद्भावः । एतस्य हविषो विश्वकर्म्मदेवताकत्वं प्रशंसति- विश्वं वा एतदित्यादिना । साकमेधैः यागैः ‘ईजानानाम्’ इष्टवतां ‘विजिग्यानानां’ वृत्रं विजितवतां ‘देवानाम्’ ‘एतत्’ ‘विश्वं’ सकलं ‘कर्म’ निरवशेषं ‘कृतम्’ अनुष्ठितम्, ‘जितम्’ प्राप्तफलं च ‘आसीत्’ । दार्ष्टान्तिके योजयति- विश्वम्वेवेति । ‘उ’- शब्दो ऽप्यर्थः, शिष्टमुक्तार्थम् ॥ १० ॥

Eggeling
  1. Then follows a cake on one potsherd for Viśvakarman. To the gods, indeed, on performing the Sākamedha-sacrifice and obtaining the victory (over Vr̥tra), that sacred work (karman) was made complete (viśva), and all was conquered; and so is that sacred work made complete, and all is conquered, by him who has performed the Sākamedha-sacrifice and obtained the victory: hence there is a cake on one potsherd for Viśvakarman.

११

विश्वास-प्रस्तुतिः

(त्ये) एते᳘न वै᳘ देवाः᳘॥
(०) यज्ञे᳘नेष्ट्वा᳘ येयं᳘ देवानां प्रजातिर्या श्री᳘रेत᳘द्बभूवुरेता᳘ᳫं ह वै प्र᳘जातिं प्र᳘जायत एताᳫँ᳭ श्रि᳘यं गच्छति य᳘ ऽएवं᳘ व्विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥

मूलम् - श्रीधरादि

(त्ये) एते᳘न वै᳘ देवाः᳘॥
(०) यज्ञे᳘नेष्ट्वा᳘ येयं᳘ देवानां प्रजातिर्या श्री᳘रेत᳘द्बभूवुरेता᳘ᳫं ह वै प्र᳘जातिं प्र᳘जायत एताᳫँ᳭ श्रि᳘यं गच्छति य᳘ ऽएवं᳘ व्विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥

मूलम् - Weber

एते᳘न वै᳘ देवाः᳟॥
यज्ञे᳘नेष्ट्वाॗ येयं᳘ देवानाम् प्रजातिर्या श्री᳘रेत᳘द्बभूवुरेता᳘ᳫं᳘ ह वै प्र᳘जातिम् प्र᳘जायत एतां श्रि᳘यं गछति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ एते᳘न यजेत॥

मूलम् - विस्वरम्

एतेन वै देवा यज्ञेनेष्ट्वा येयं देवानां प्रजातिः, या श्रीः- एतद्बभूवुः । एतां ह वै प्रजातिं प्रजायते, एतां श्रियं गच्छति- य एवं विद्वानेतेन यज्ञेन यजते । तस्माद्वा एतेन यजेत ॥ ११ ॥

इति साकमेधपर्वणि महाहविर्यागः ।

सायणः

उपक्रमावसरायोदीरितफलसाधनत्वमस्य निगमयति- एतेन वा इति । येयं [^१_१९३] देवानां ‘प्रजातिः’ ‘श्रीः’ च दृश्यते, ‘एतेन’ अनेनैव हि महाहविषा ‘यज्ञेन’ ‘इष्ट्वा’ तया प्रजात्या श्रिया च ‘बभूवुः’ प्रवृद्धा अभवन् । यद्वा, ‘भू प्राप्तावात्मनेपदी’ (धा. पा. चु. आ. ३११) अत्र व्यत्ययेन परस्मैपदी; एतदुभयं प्रापुरित्यर्थः । एतां ह वा इत्यादि, निगदसिद्धम् ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम् ॥ (२-५-४)

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन् 14 पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥ १ ॥

धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजाः, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे पञ्चमो ऽध्यायः समाप्तः ॥ ५ ॥

Eggeling
  1. And, verily, by performing this sacrifice the gods became what race, what prosperity of the gods there now is; and that same race he propagates,

that same prosperity he attains, whosoever, knowing this, performs this sacrifice. Let him therefore perform this sacrifice.


  1. 417:3 See p. 416, note 1. ↩︎

  2. 417:4 See p. 392, note 1. The southern altar is not required at the present ceremony. ↩︎

  3. 417:5 See p. 404, note 1. ↩︎

  4. 418:1 See II, 5, 2, 30 and 41. ↩︎

  5. 418:2 See II, 5, 1, 11, with note 9. ↩︎

  6. 418:3 See II, 5, 3, 2. This cake, again, is to be prepared (or offered) simultaneously with the rising of the sun; see p. 409 note. ↩︎

  7. ‘सावित्रो ऽष्टाकपालो द्वादशकपालो वा । का० श्रौ० सू० ५ । ४ । ↩︎

  8. 418:4 According to Taitt. S. I, 8, 4 it is to be one on twelve potsherds. ↩︎

  9. 418:5 The Kāṇva text has, ‘Attack (abhipadyasva)! strike! slay!’ ↩︎

  10. 418:6 This identification of Pūshan with the earth is very strange, the more so as, at II, 5, 1, 11, special stress is laid on the male nature of Pūshan. Perhaps it is in his character of bountiful bestower of food and cattle, or as the tutelary god of travellers, that he is so identified. ↩︎

  11. नित्येभ्यो ऽधिकान्यैन्द्राग्नो माहेन्द्रचरुर्व्वैश्वकर्म्मण एककपालः । का. श्रौ. सू. ५ । १८७ । ↩︎

  12. विजिग्यपान᳘ A. ↩︎

  13. एतक्तं᳘र्भ क्ततᳫ A. ↩︎

  14. ‘सप्ताद्रीम्’ इ० क्व. पुस्तके । ↩︎