०१
विश्वास-प्रस्तुतिः
व्वरुणप्रघासैर्व्वै᳘ प्रजा᳘पतिः॥
प्रजा᳘ व्वरुणपाशात्प्रा᳘मुञ्चत्ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषाः᳘ प्रजाः प्रा᳘जायन्ता᳘थैतैः᳘ साकमेधै᳘रेतैर्व्वै᳘ देवा᳘ व्वृत्र᳘मघ्नन्नैतै᳘र्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएतैः᳘ पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭हन्ति त᳘थो ऽएव व्वि᳘जयते त᳘स्माद्वा᳘ ऽएष᳘ एतै᳘श्चतुर्थे᳘ मासि᳘ यजते स वै᳘ द्व्यहमनूचीनाहं᳘[[!!]] यजते॥
मूलम् - श्रीधरादि
व्वरुणप्रघासैर्व्वै᳘ प्रजा᳘पतिः॥
प्रजा᳘ व्वरुणपाशात्प्रा᳘मुञ्चत्ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषाः᳘ प्रजाः प्रा᳘जायन्ता᳘थैतैः᳘ साकमेधै᳘रेतैर्व्वै᳘ देवा᳘ व्वृत्र᳘मघ्नन्नैतै᳘र्वेव᳘ व्यजयन्त᳘[[!!]] येय᳘मेषां वि᳘जितिस्तां त᳘थो ऽए᳘वैष᳘ ऽएतैः᳘ पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭हन्ति त᳘थो ऽएव व्वि᳘जयते त᳘स्माद्वा᳘ ऽएष᳘ एतै᳘श्चतुर्थे᳘ मासि᳘ यजते स वै᳘ द्व्यहमनूचीनाहं᳘[[!!]] यजते॥
मूलम् - Weber
वरुणप्रघासैर्वै᳘ प्रजा᳘पतिः॥
प्रजा᳘ वरुणपाशात्प्रा᳘मुञ्चत्ता᳘ स्यानमीवा᳘ अकिल्विषाः᳘ प्रजाः प्रा᳘जायन्ता᳘थैतैः᳘ साकमेधै᳘रेतैर्वै᳘ देवा᳘ वृत्र᳘मघ्नन्नेतै᳘र्वेव 1 व्य᳘जयन्तॗ येय᳘मेषां वि᳘जितिस्तां त᳘थो एॗवैष᳘ एतैः᳘ पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हन्ति त᳘थो एव वि᳘जयते त᳘स्माद्वा᳘ एष᳘ एतै᳘श्चतुर्थे᳘ मासि᳘ यजते स वै᳘ द्व्यह᳘मनूचीनाहं᳘ यजते॥
मूलम् - विस्वरम्
अथ साकमेधपर्व ।
वरुणप्रघासैर्वै प्रजापतिः प्रजा वरुणपाशात् प्रामुञ्चत् । ता अस्यानमीवा अकिल्बिषाः प्रजाः प्राजायन्त । अथैतैः साकमेधैः । एतैर्वै देवा वृत्रमघ्नन् । एतैर्वेव व्यजयन्त । येयमेषां विजितिः ताम् । तथो एवैष एतैः पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति, तथो एव विजयते- तस्माद्वा एष एतैश्चतुर्थे मासि यजते । स वै द्व्यहमनूचीनाहं यजते ॥ १ ॥
सायणः
अथ साकमेधाख्यस्य विधित्सितस्य तृतीयस्य पर्वणः पापरूपशत्रुजयहेतुत्वं वक्तुं वृन्तान्तं सङ्कीर्त्तयति- वरुणप्रघासैरिति । ‘अनमीवाः’ रोगरहिताः ‘अकिल्विषाः’ तन्निदानभूतपापपरिहीनाः । अथैतैरिति । वरुणप्रघासानन्तरमनुष्ठेयैः ‘एतैः’ विधित्सितै ‘साकमेधैः’ प्रजापतिः ता एव प्रजा विजितपापा अकरोत् । एतेषां विजयहेतुत्वमाख्यायिकया प्रतिपादयति- एतैर्वा इति । ‘वृत्रम्’ आवरणशीलम्, एतन्नामानमसुरमित्यर्थः। येयमेषामिति । ‘एषां’ देवानां वृन्नहननकर्मणा ‘येयं’ ‘विजितिः’ विजयो विद्यते व्यजयन्तेति सम्बन्धः । अथाप्येषां तत्फलसाधनत्वमाह- तथो एवैष इति । ‘द्विषन्तं’ द्वेषणशीलमनर्थकारणं पापरूपं ‘भ्रातृव्यं’ शत्रुमिति सामानाधिकरण्येन सम्बन्धः । तथो एव विजयत इति । तथा हतः पापशत्रुः, तत्सजातीयस्यापि निवृत्त्या 2 सर्वत्र साकमेधयाजिनो विजय एव, न कुत्रचित् प्रतिहतिरित्यर्थः । उक्तमर्थं हेतुतया इदानीं विधत्ते- तस्मादिति । यस्मात् उक्तफलहेतवः साकमेधाः ‘तस्मात्’ ‘एषः’ वरुणप्रघासैरिष्टवान् पुनः ‘चतुर्थे मासि’ ‘एतैः’ साकमैधैर्यजेत । अनीकवत्यादीनां साकमेधगतानामिष्टीनां बहुत्वादेतैरिति बहुवचनम् । अहर्द्वयसाध्यत्वं विधत्तं- स वा इति । द्वयोरह्नोः समाहारो द्व्यहः “तद्धितार्थ”- (पा. सू. २ । १ । ५१) इति समासे “न सङ्ख्यादेः समाहारे"- (पा. सू. ५ । ४ । ८९) इति अह्नादेशस्य प्रतिषेधः- अनूचीनाहमिति । अनु सम्यगञ्चतीत्यन्वक् अन्वगेवानूचीनम्; “विभाषा ऽञ्चेरदिक्स्त्रियाम्”- (पा. सू. ५ । ४ । ८) इति स्वार्थिकः खच्-प्रत्ययः । अनूचीनं नैरन्तर्येण वर्त्तमानमहः अनूचीनाहम् “राजाहःसखिभ्यः” (पा. सू. ५ । ४ । ४१) इति टच् समासान्तः ॥ १ ॥
Eggeling
- Verily, by means of the Varuṇapraghāsāḥ Prajāpati delivered the creatures from Varuṇa’s noose; and those creatures of his were born without disease and blemish. Now with these Sākamedha offerings,–therewith indeed the gods slew Vr̥tra, therewith they gained that supreme authority which they now wield; and so does he now therewith slay his wicked, spiteful enemy and gain the victory: this is why he performs these offerings in the fourth month (after the Varuṇapraghāsāḥ). He performs them on two successive days.
०२
विश्वास-प्रस्तुतिः
स᳘ पूर्वेद्युः᳘॥
(र) अग्नये᳘ ऽनीकवते ऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपत्यग्नि᳘ᳫँ᳘ह वै᳘ देवा ऽअ᳘नीकं कृ᳘त्वोपप्रे᳘युर्व्वृत्र᳘ᳫँ᳘हनिष्य᳘न्तः स ते᳘जो ऽग्नि᳘र्नाव्यथत त᳘थो ए᳘वैष᳘ ऽएत᳘त्पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हनिष्य᳘न्नग्नि᳘मेवा᳘नीकं कृ᳘त्वोपप्रै᳘ति स ते᳘जो ऽग्निर्न᳘ व्यथते त᳘स्मादग्नये᳘ ऽनीकवते॥
मूलम् - श्रीधरादि
स᳘ पूर्वेद्युः᳘॥
(र) अग्नये᳘ ऽनीकवते ऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्व्वपत्यग्नि᳘ᳫँ᳘ह वै᳘ देवा ऽअ᳘नीकं कृ᳘त्वोपप्रे᳘युर्व्वृत्र᳘ᳫँ᳘हनिष्य᳘न्तः स ते᳘जो ऽग्नि᳘र्नाव्यथत त᳘थो ए᳘वैष᳘ ऽएत᳘त्पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हनिष्य᳘न्नग्नि᳘मेवा᳘नीकं कृ᳘त्वोपप्रै᳘ति स ते᳘जो ऽग्निर्न᳘ व्यथते त᳘स्मादग्नये᳘ ऽनीकवते॥
मूलम् - Weber
स᳘ पूर्वेद्युः᳟॥
अग्नये᳘ ऽनीकवते ऽष्टा᳘कपालं पुरोडा᳘शं नि᳘र्वपत्यग्नि᳘ᳫं᳘ ह वै᳘ देवा अ᳘नीकं कृॗत्वोपप्रे᳘युर्वृत्र᳘ᳫं᳘ हनिष्य᳘न्तः स ते᳘जो ऽग्निर्नाव्यथत त᳘थो एॗवैष᳘ एत᳘त्पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हनिष्य᳘न्नग्नि᳘मेवा᳘नीकं कृॗत्वोपप्रै᳘ति स ते᳘जो ऽग्निर्न᳘ व्यथते त᳘स्मादग्नये᳘ ऽनीकवते॥
मूलम् - विस्वरम्
(१) स पूर्वेद्युः अग्नये ऽनीकवते ऽष्टाकपालं पुरोडाशं निर्वपति । अग्निं ह वै देवा अनीकं कृत्वोपप्रेयुर्वृत्रं हनिष्यन्तः । स तेजो ऽग्निर्नाव्यथत । तथो एवैष एतत्पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्नग्निमेवानीकं कृत्वोपप्रैति । स तेजो ऽग्निर्न व्यथते । तस्मादग्नये ऽनीकवते ॥ २ ॥
सायणः
तत्र पूर्वदिवसे प्रातर्मध्याह्नसायाह्नेषु तिस्र इष्टयो ऽनुष्ठेयः, तत्र प्रथमं विधाय स्तौति- स पूर्वेद्युरित्यादिना 3 । “सद्यःपरुत्-" (पा. सू. ५। ३ । २२) इत्यादिसूत्रेण पूर्वदिनशब्दस्य पूर्वेद्युरिति निपातः । साकमेधेषु प्रधानभूता महाहविराख्या इष्टिर्यस्मिन् दिवसे ऽनुष्ठीयते, ततः पूर्वदिवसे चतुर्द्दश्यां प्रातरनीकवद्गुणविशिष्टायाग्नये ऽष्टकपालेषु संस्कृतं पुरोडाशं निर्वपेदित्यर्थः अनीकं कृत्वेति । प्रमुखं कृत्वेत्यर्थः । स तेज इति । स च तेजोरूपो ऽग्निः वृत्रकृतादुपद्रवान्न ‘अध्यथत’ व्यथां न प्राप्तवान् । दार्ष्टान्तिकेन योजयति- तथो एवैष इति । उक्तहेतोरनीकवद्गुणवैशिष्ट्यं पुरोडाशदेवताया अग्नेर्युक्तमिति निगमयति-तस्मादिति ॥ २ ॥
Eggeling
- On the first day he offers a cake on eight potsherds to Agni Anīkavat 4. For it was after
shaping Agni into a sharp point 5, that the gods rushed forward, intent on slaying Vr̥tra; and that sharp point, Agni, swerved not. And so does he (the Sacrificer) now rush forward, after shaping Agni into a sharp point, intent on slaying his wicked, spiteful enemy; and that sharp point, Agni, swerves not: this is why he sacrifices to Agni Anīkavat.
०३
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ मरु᳘द्भ्यः सान्तपने᳘भ्यः॥
(भ्यो) मध्य᳘न्दिने चरुं नि᳘र्व्वपति मरु᳘तो ह वै᳘ सान्तपना᳘ मध्य᳘न्दिने व्वृत्रᳫँ᳭ स᳘न्तेपुः स स᳘न्तप्तो᳘ ऽनन्नेव प्रा᳘णन्प᳘रिदीर्णः शिश्ये त᳘थो ऽए᳘वैत᳘स्य पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यं मरु᳘तः सान्तपनाः स᳘न्तपन्ति त᳘स्मान्मरु᳘द्भ्यः सान्त᳘पनेभ्यः॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ मरु᳘द्भ्यः सान्तपने᳘भ्यः॥
(भ्यो) मध्य᳘न्दिने चरुं नि᳘र्व्वपति मरु᳘तो ह वै᳘ सान्तपना᳘ मध्य᳘न्दिने व्वृत्रᳫँ᳭ स᳘न्तेपुः स स᳘न्तप्तो᳘ ऽनन्नेव प्रा᳘णन्प᳘रिदीर्णः शिश्ये त᳘थो ऽए᳘वैत᳘स्य पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यं मरु᳘तः सान्तपनाः स᳘न्तपन्ति त᳘स्मान्मरु᳘द्भ्यः सान्त᳘पनेभ्यः॥
मूलम् - Weber
अ᳘थ मरु᳘द्भ्यः सांतपने᳘भ्यः॥
मध्य᳘न्दिने चरुं नि᳘र्वपति मरु᳘तो ह वै᳘ सांतपना᳘ मद्य᳘न्दिने वृत्रᳫं सं᳘तेपुः स सं᳘तप्तो᳘ ऽनन्नेव प्रा᳘णन्प᳘रिदीर्णः शिश्ये त᳘थो एॗवैत᳘स्य पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यम् मरु᳘तः सांतपनाः सं᳘तपन्ति त᳘स्मान्मरु᳘द्भ्यः सांतपनेभ्यः॥
मूलम् - विस्वरम्
(२) अथ मरुद्भ्यः सान्तपनेभ्यो मध्यन्दिने चरुं निर्वपति । मरुतो ह वै सान्तपना मध्यन्दिने वृत्रं सन्तेपुः । स सन्तप्तो ऽनन्नेव प्राणन् परिदीर्णः शिश्ये । तथो एवैतस्य पाप्मानं द्विषन्तं भ्रातृव्यं मरुतः सान्तपनाः सन्तपन्ति । तस्मान्मरुद्भ्यः सान्तपनेभ्यः ॥ ३ ॥
सायणः
मध्यन्दिने ऽनुष्ठेयामिष्टिं विधाय प्रशंसति- अथेति । देवताविशेषणमुपपादयति- मरुतो ह वा इति 3 । ‘मरुतो’ हि सन्तपनकारिणः ‘सान्तपनाः’ तथाविधा मरुतो मध्यन्दिनसमये ‘वृत्रम्’ असुरं ‘सन्तेपुः’ सन्तप्तं कृतवन्तः । स च सन्तप्तः सन् श्वासप्रश्वासौ कुर्वन् ‘परिदीर्णः’ विदारितसर्वावयवः ‘शिश्ये’ शयनं कृतवान् । तथो एवेति, दार्ष्टान्तिकफलकथनम् ॥ ३ ॥
Eggeling
- Thereupon, at midday, he offers a potful of boiled grain (caru) to the Maruts, the Scorchers (Sāntapanāḥ), for at midday indeed the scorching winds scorched Vr̥tra; and thus scorched he lay panting and gasping, being rent all over. And so do the scorching winds scorch his (the Sacrificer’s) wicked, spiteful enemy: hence (he sacrifices) to the Maruts, the Scorchers.
०४
विश्वास-प्रस्तुतिः
(भ्यो᳘ ऽ) अ᳘थ मरु᳘द्भ्यो गृहमेधि᳘भ्यः॥
शा᳘खया व्वत्सा᳘नपाकृ᳘त्य पवि᳘त्रवति सन्दो᳘ह्य तं᳘ चरु᳘ᳫं᳘ श्रपयति चरु᳘रु᳘ह्येव स य᳘त्र᳘ क्व[[!!]] च तण्डुला᳘नाव᳘पन्ति तन्मे᳘धो देवा᳘ दधिरे प्रात᳘र्व्वृत्र᳘ᳫँ᳘हनिष्य᳘न्तस्त᳘थो ऽए᳘वै᳘ष[[!!]] ऽएत᳘त्पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हनिष्यन्मे᳘धो धत्ते तद्य᳘त्क्षीरौदनो भ᳘वति मे᳘धो वै प᳘यो मेधस्त᳘ण्डुलास्तमुभ᳘यं[[!!]] मे᳘धमात्म᳘न्धत्ते त᳘स्मात्क्षीरौदनो᳘ भवति॥
मूलम् - श्रीधरादि
(भ्यो᳘ ऽ) अ᳘थ मरु᳘द्भ्यो गृहमेधि᳘भ्यः॥
शा᳘खया व्वत्सा᳘नपाकृ᳘त्य पवि᳘त्रवति सन्दो᳘ह्य तं᳘ चरु᳘ᳫं᳘ श्रपयति चरु᳘रु᳘ह्येव स य᳘त्र᳘ क्व[[!!]] च तण्डुला᳘नाव᳘पन्ति तन्मे᳘धो देवा᳘ दधिरे प्रात᳘र्व्वृत्र᳘ᳫँ᳘हनिष्य᳘न्तस्त᳘थो ऽए᳘वै᳘ष[[!!]] ऽएत᳘त्पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हनिष्यन्मे᳘धो धत्ते तद्य᳘त्क्षीरौदनो भ᳘वति मे᳘धो वै प᳘यो मेधस्त᳘ण्डुलास्तमुभ᳘यं[[!!]] मे᳘धमात्म᳘न्धत्ते त᳘स्मात्क्षीरौदनो᳘ भवति॥
मूलम् - Weber
अ᳘थ मरु᳘द्भ्यो गृहमेधि᳘भ्यः॥
शा᳘खया वत्सा᳘नपाक᳘त्य पवि᳘त्रवति संदो᳘ह्य तं᳘ चरुं᳘ श्रपयति चरु᳘रुॗ ह्येव स य᳘त्र क्व᳘ च तण्डुला᳘नाव᳘पन्ति तन्मे᳘धो देवा᳘ दधिरे प्रात᳘र्वृत्र᳘ᳫं᳘ हनिष्य᳘न्तस्त᳘थो एॗवैष᳘ एत᳘त्पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हनिष्यन्मे᳘घो धत्ते तद्य᳘त्क्षीरौदनो भ᳘वति मे᳘घो वै प᳘यो मे᳘घस्तण्डुलास्त᳘मुभ᳘यम् मेघमात्म᳘न्धत्ते त᳘स्मात्क्षीरौदनो᳘ भवति॥
मूलम् - विस्वरम्
(३) अथ मरुद्भ्यो गृहमेधिभ्यः शाखया वत्सानपाकृत्य पवित्रवति सन्दोह्य तं चरुं श्रपयति । चरुरु ह्येव सः- यत्र क्वचन तण्डुलानावपन्ति । तन्मेधो देवा दधिरे- प्रातर्वृत्रं हनिष्यन्तः । तथो एवैष एतत्पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्मेधो धत्ते । तद्यत्क्षीरौदनो भवति । मेधो वै पयः, मेधस्तण्डुलाः । तमुभयं मेधमात्मन्धत्ते । तस्मात् क्षीरौदनो भवति ॥ ४ ॥
सायणः
सायाह्ने कर्त्तव्यामिष्टिं विधत्ते- अथेति 6 । गृहमेधित्वगुणविशिष्टेभ्यो ‘मरुद्भ्यः’ ‘चरु श्रपयन्ति’- इत्युपरितनेन सम्बन्धः । श्रपणप्रकारमाह- शाखयेति । दर्शयागवत् शाखाहरणवत्सापाकरणे कृत्वा, शाखापवित्रं निर्माय, तद्वति पात्रं गाः ‘सन्दोह्य’ दुग्ध्वा, ‘तम्’ इति (विधेयापेक्षया) निर्द्देशः । ‘तं’ दुग्धं पयः ‘चरुं’ ‘श्रपयति’ चरुरु ह्येवेति । ‘सः’ वै मरुद्भ्यो गृहमेधिभ्यः कृतः ‘चरुः एव हि’ ओदनः खलु, अत इदानीमपि तदर्थं चरुरेव श्रपयितव्य इत्यर्थः ॥
यत्र क्वचेति । यत्र कुत्रचिदवस्थितान् तण्डुलान् आहृत्य, तस्मिन् पयसि प्रक्षिप्ते तत् तथैव हि देवाः पुरुषादिभ्यो ऽपक्रम्य व्रीहिषु सङ्क्रांताः ‘मेधः’ सारं ‘दधिरे’ अधारयन् । तत्र कारणमाह- प्रातरिति । हविष्मन्त इति । हेतौ शतृप्रत्ययः । प्रातः करिष्यमाणाद् वृत्रहननाद्धेतोरित्यर्थः । तथो एवेति । इदानीन्तनयजमानस्यापि तथैव प्रतिपादनम् । क्षीरौदन इति । पयसि तण्डुलान् प्रक्षिप्य श्रपणे सति क्षीरेण संस्कृत ओदनो निष्पद्यते “अन्नेन व्यञ्जनम्”- (पा. सू. २ । १ । ३४) इति तृतीयासमासः । द्रव्यद्वयं सम्भूय प्रशंसति- मेधो वा इति । बलकरः सारांशो मेधशब्दार्थः । स्पष्टमन्यत् ॥
एष च गृहमेधीययागः सान्नाय्यविकृतिरिति सप्तभिः पक्षैः पूर्ववत् स्वीकृत्य ततो वैकचोदनादिति राद्धान्तितं दशमे । कात्यायनो ऽप्याह स्म- “मरुद्भ्यो गृहमेधिभ्यः सायं चरुः पयसि, सान्नाय्यवत्, तूष्णीं वैकचोदनात्”- (का . श्रौ. सू. ५ । १५३-१५५) इति ॥ ४ ॥
Eggeling
- Thereupon, (in the evening, he offers a potful of boiled grain) to the Maruts, the Householders (Gr̥hamedhinaḥ). That pap he cooks after driving
away the calves (from the cows) with the (palāśa-) branch, and having (all the cows) milked into the pot containing the strainers. Now, whenever (in preparing the pap) they use (whole) rice-grains, then that is a caru: this nourishment 7 the gods took when they were about to slay Vr̥tra on the morrow; and so does he (the Sacrificer) now take that nourishment, being about to slay his wicked, spiteful enemy. The reason, then, why it is milk-pap, is that milk is nourishment, and rice-grains are nourishment, and that he thus puts into him (ātman) that twofold nourishment. For this reason it is a rice-pap (prepared) with milk.
०५
विश्वास-प्रस्तुतिः
त᳘स्यावृ᳘त्॥
(त्सै) सैव᳘ स्तीर्णा व्वे᳘दिर्भवति या᳘ मरु᳘द्भ्यः सान्तपने᳘भ्यस्त᳘स्यामेव᳘ स्तीर्णा᳘यां व्वे᳘दौ परिधीं᳘श्च श᳘कलांश्चोपनि᳘दधति त᳘था सन्दो᳘ह्य चरु᳘ᳫं᳘ श्रपयति श्रपयि᳘त्वा ऽभिघार्यो᳘द्वासयति॥
मूलम् - श्रीधरादि
त᳘स्यावृ᳘त्॥
(त्सै) सैव᳘ स्तीर्णा व्वे᳘दिर्भवति या᳘ मरु᳘द्भ्यः सान्तपने᳘भ्यस्त᳘स्यामेव᳘ स्तीर्णा᳘यां व्वे᳘दौ परिधीं᳘श्च श᳘कलांश्चोपनि᳘दधति त᳘था सन्दो᳘ह्य चरु᳘ᳫं᳘ श्रपयति श्रपयि᳘त्वा ऽभिघार्यो᳘द्वासयति॥
मूलम् - Weber
त᳘स्यावृत्॥
सैव᳘ स्तीर्णा वे᳘दिर्भवति या᳘ मरु᳘द्भ्यः सांतपने᳘भ्यस्त᳘स्यामेव᳘ स्तीर्णा᳘यां वे᳘दौ परिधीं᳘श्च श᳘कलांश्चोपनि᳘दधति त᳘था संदो᳘ह्य चरुं᳘ श्रपयति श्रपयिॗत्वाभिघार्यो᳘द्वासयति॥
मूलम् - विस्वरम्
तस्यावृत् सैव स्तीर्णा वेदिर्भवति- या मरुद्भ्यः सान्तपनेभ्यः । तस्यामेव स्तीर्णायां वेदौ परिधींश्च शकलांश्चोपनिदधति । तथा सन्दोह्य, चरुं श्रपयति । श्रपायित्वा ऽभिघार्योद्वासयति ॥ ५ ॥
सायणः
अतो ऽत्र कर्तव्यान्यङ्गान्यनुक्रामति- तस्यावृदिति । ‘तस्य’ गृहमेधीययागस्य ‘आवृत्’ क्रिया, प्रयोगः, क्रमः, अभिधीयत इति शेषः । सान्तपनेष्टौ ‘या वेदिः’ बर्हिषा ‘स्तीर्णा’ अभूत्, गृहमेधीयस्यापि ‘सैव’ उपकरोति । तस्यामेवेत्यादि, निगदसिद्धम्; अतः सन्दिग्धपदविवरणमात्रमेव क्रियते- शकलांश्चेति । इध्मस्य स्थाने शकलानेव सम्मृज्य परिधिभिः सह तान् सादयेदित्यर्थः 8 । सन्दोह्य चरुमिति । विहितानुवादः क्रमार्थः ॥ ५ ॥
Eggeling
- The practice, in regard to this (pap, is as follows). The same altar covered (with sacrificial grass) which served for the (oblation to) the Maruts, the Scorchers, is (now used) 9. Near this covered altar they lay down the enclosing-sticks and pieces of wood. Having had (the cows) milked in the same way (as before), he (the Adhvaryu) cooks the pap; and having cooked it and basted it with butter, he removes it from the fire.
०६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ द्वे᳘ पिशी᳘ले वा पा᳘त्र्यौ वा नि᳘र्णेनिजति॥
त᳘योरेनं द्वेधो᳘द्धरन्ति त᳘योर्म᳘ध्ये सर्पिरासेचने[[!!]] कृत्वा᳘ सर्पिरा᳘सिञ्चति स्रुवं᳘ च स्रु᳘चं च स᳘म्मार्ष्ट्य᳘थैता᳘ ऽओदना᳘वादा᳘योदै᳘ति स्रुवं᳘ च स्रु᳘चं चादा᳘योदै᳘ति स᳘ ऽइमा᳘मेव᳘ स्तीर्णां व्वे᳘दिमभिमृ᳘श्य परिधी᳘न्परिधा᳘य या᳘वतः श᳘कलान्काम᳘यते ता᳘वतो ऽभ्या᳘दधात्य᳘थैता᳘ ऽओदनावा᳘सादयति स्रुवं᳘ च स्रु᳘चं चा᳘सादयत्यु᳘पविशति हो᳘ता होतृष᳘दने स्रुवं᳘ च स्रु᳘चं चाद᳘दान ऽआह॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ द्वे᳘ पिशी᳘ले वा पा᳘त्र्यौ वा नि᳘र्णेनिजति॥
त᳘योरेनं द्वेधो᳘द्धरन्ति त᳘योर्म᳘ध्ये सर्पिरासेचने[[!!]] कृत्वा᳘ सर्पिरा᳘सिञ्चति स्रुवं᳘ च स्रु᳘चं च स᳘म्मार्ष्ट्य᳘थैता᳘ ऽओदना᳘वादा᳘योदै᳘ति स्रुवं᳘ च स्रु᳘चं चादा᳘योदै᳘ति स᳘ ऽइमा᳘मेव᳘ स्तीर्णां व्वे᳘दिमभिमृ᳘श्य परिधी᳘न्परिधा᳘य या᳘वतः श᳘कलान्काम᳘यते ता᳘वतो ऽभ्या᳘दधात्य᳘थैता᳘ ऽओदनावा᳘सादयति स्रुवं᳘ च स्रु᳘चं चा᳘सादयत्यु᳘पविशति हो᳘ता होतृष᳘दने स्रुवं᳘ च स्रु᳘चं चाद᳘दान ऽआह॥
मूलम् - Weber
अ᳘थ द्वे᳘ पिशी᳘ले वा पा᳘त्र्यौ वा नि᳘र्णेनिजति॥
त᳘योरेनं द्वेधो᳘द्धरन्ति त᳘योर्म᳘ध्ये सर्पिरासे᳘चने कृत्वा᳘ सर्पिरा᳘सिञ्चति स्रुवं᳘ च स्रु᳘चं च स᳘म्मार्ष्ट्य᳘थैता᳘ ओदना᳘वादा᳘योदै᳘ति स्रुवं᳘ च स्रु᳘चं चादा᳘योदै᳘ति स᳘ इमा᳘मेव᳘ स्तीर्णां वे᳘दिमभिमृ᳘श्य परिधी᳘न्परिधा᳘य या᳘वतः श᳘कलान् काम᳘यते ता᳘वतो ऽभ्या᳘दधात्य᳘थैता᳘ ओदनावा᳘सादयति स्रुवं᳘ च स्रु᳘चं चा᳘सादयत्यु᳘पविशति हो᳘ता होतृष᳘दने स्रुवं᳘ च स्रु᳘चं चाद᳘दान आह॥
मूलम् - विस्वरम्
अथ द्वे पिशीले वा पायौ वा निर्णेनिजति । तयोरेनं द्वेधोद्धरन्ति । तयोर्मध्ये सर्पिरासेचने कृत्वा सर्पिरासिञ्चति । स्रुवं च स्रुचं च सम्मार्ष्टि । अथैता ओदनावादायोदैति । स्रुवं च स्रुचं चादायेदैति । स इमामेव स्तीर्णां वेदिमभिमृश्य, परिधीन्परिधाय, यावतः शकलान् कामयते तावतो- भ्यादधाति । अथैता ओदनावासादयति स्रुवं च स्रुचं चासादयति । उपविशति होता होतृषदने स्रुवं च स्रुचं चाददान आहे ॥ ६ ॥
सायणः
अथ द्वे इति । पिशीले वेति । पिशीलशब्दः शराववाची । अत एवोक्तं सूत्रकृता- “श्रपयित्वा ऽभिघार्योद्वास्य शरावयोरुद्धरति” (का. श्रौ. सू. ५ । १५७) । पात्र्यौ वेति । निर्णेनिजतीति । प्रक्षालयतीत्यर्थः । “णिजिर् शौचपोषणयोः”- इति धातुः (धा. पा. जु. उ. ११) । द्वेधोद्धरन्तीति । ‘एनं’ चरुं द्वेधा विभज्य तयोः शरावयोः पात्र्योर्वा निदध्यादित्यर्थः । सर्पिरासेचने इति । सर्पिः सर्पणशीलमाज्यम्, आसिच्यते आनीयते ऽस्मिन्निति सर्प्पिरासेचनम् । अधिकरणे ल्युट् । पात्रस्थयोस्तयोरोदनयोर्मध्ये सर्पिःपूरणायावटौ कृत्वेत्यर्थः 8 । स्रुवं चेति । एकत्वमविवक्षितम् । प्रयाजानुयाजाभावेनोपभृतः प्रयोगाभावात् तामेव संमृज्यादित्यर्थः । ओदनावासादयतीति । पात्रद्वये स्थापितौ तावेवौदनौ गृहीत्वा वेद्यामासादयितुं गच्छेदित्यर्थः । ओदनमध्यस्थितेनैवाज्येन कृत्स्नाज्यकार्यनिष्पत्तेः ध्रुवाया अप्यप्रयोग इति जुहुम इत्यर्थः । इमामेवेति । सान्तपन्यामिष्टौ या वेदिः बर्हिषा ऽऽस्तीर्णा ऽस्ति, तामेव वेदिम् गृहमेधीयाङ्गत्वेनास्तरणमन्त्रेण तूष्णीमेवावमृशेत । यदाह कात्यायनः- “स्तरणयजुषा वेदिमभिमृश्य तूष्णीं वा कृतत्वात्”- (का. श्रौ. सू. ५ । १ । ६०) इति । न पुनर्बर्हिषा ऽऽस्तरणं कर्त्तव्यमित्यर्थः । इध्मवत्तत्कार्यशकलानां सङ्ख्या नियमप्रसक्तावाह- यावत इति । यावद्भिः शकलैराहवनीयस्य प्राबल्यं भवति तानयं कामयेत; ‘तावतः’ शकलांस्तत्राभ्यादध्यादित्यर्थः । तस्यां वेद्यां हविरासादनं विधत्ते- अथैताविति । उपविशति होतेति । सामिधेन्यनुवचनादेरभावात् होतृषदने तूष्णीमेवोपविशेत् । होतुरुपवेशनानन्तरमाज्यभागमित्येव कर्त्तव्यम्, न पुनराघारादिकमित्यभिप्रेत्याह- स्रुवञ्च स्रुचञ्चेत्यादिना ॥ ६ ॥
Eggeling
- They then rinse either two plates or two dishes, and put that (pap) thereon in two equal
parts. Having then made a hollow in each (pap), he (the Adhvaryu) pours clarified butter therein, and wipes both the dipping-spoon and the offering-spoon. Thereupon he takes the two dishes of pap, and walks up (to the altar); and again, he takes the dipping and offering spoons, and walks up; and having touched 10 the covered altar, and laid the enclosing-sticks round (the fire) 11, he puts on as many pieces of firewood as he thinks fit. He then deposits those two dishes of pap, and the dipping and offering spoons, in their places (outside the altar). The Hotr̥ sits down on the Hotr̥’s seat. Taking the dipping and offering spoons, he (the Adhvaryu) says,–
०७
विश्वास-प्रस्तुतिः
(हा) अग्नये᳘ ऽनुब्रूहीति[[!!]]॥
(त्या) आग्नेयमा᳘ज्यभागᳫँ᳭ स द᳘क्षिणस्यौदन᳘स्य सर्पिरासे᳘चनाच्चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्रम्याश्रा᳘व्याहाग्निं᳘[[!!]] यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(हा) अग्नये᳘ ऽनुब्रूहीति[[!!]]॥
(त्या) आग्नेयमा᳘ज्यभागᳫँ᳭ स द᳘क्षिणस्यौदन᳘स्य सर्पिरासे᳘चनाच्चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्रम्याश्रा᳘व्याहाग्निं᳘[[!!]] यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अग्नये᳘ ऽनुब्र्रूही᳘ति॥
आग्नेयमा᳘ज्यभागᳫं स द᳘क्षिणस्यौदन᳘स्य सर्पिरासे᳘चनाच्चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्राव्याहाग्निं᳘ यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
‘अग्नये ऽनुब्रूहि’ इति आग्नेयमाज्यभागम् । स दक्षिणस्यौदनस्य सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामति । अतिक्रम्याश्राव्याह ‘अग्निं यज’ इति । वषट्कृते जुहोति ॥ ७ ॥
सायणः
अग्नये ऽनुब्रूहीति । दक्षिणस्यौदनस्येति । दक्षिणोत्तरभागेन वेद्यामासादितयोरोदनयोः यो दक्षिणस्थित ओदनः, तस्य ‘सर्पिरासेचनात्’ सर्पिषा पूर्णात् पात्रात् पूर्वाज्यभागार्थं चतुरवदानम्, उत्तरस्यौदनस्य सर्पिरासेचनात् द्वितीयस्याज्यभागस्यावदानम् । तथा प्रधानयागस्य गृहमेधीयस्य दक्षिणौदनस्य सर्पिरासेचनात् उपस्तरणाभिघारणे उत्तरौदनस्य सर्पिरासेचनात् स्विष्टकृद्यागस्योपस्तरणाभिघारणे । अत एव सूत्रितं कात्यायनेन- “आज्यभागाभ्यां चरति, आग्नेयं दक्षिणात्, सौम्यमुत्तरात्, गृहमेधीयस्विष्टकृतौ चाज्यभागवत् समवदानौ“ (५ । १६३-१६४) इति । निगदसिद्धमन्यत् ॥ ७ ॥ ८ ॥ ९ ॥
Eggeling
- ‘Pronounce the invitatory prayer to Agni!’ with reference to Agni’s butter-portion. He then takes four ‘cuttings’ of butter from the hollow of the southern pap, and steps over (to the south side of the fire). Having stepped over, and called for the (Āgnīdhra’s) ‘Śraushaṭ,’ he says (to the Hotr̥), ‘Pronounce the offering-prayer to Agni!’ and pours out the oblation, as soon as the Vashat has been uttered.
०८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागᳫँ᳭ स ऽउ᳘त्तरस्यौदनस्य सर्पिरासे᳘चनाच्चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह सो᳘मं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागᳫँ᳭ स ऽउ᳘त्तरस्यौदनस्य सर्पिरासे᳘चनाच्चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह सो᳘मं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागᳫं स उ᳘त्तरस्यौदनस्य सर्पिरासे᳘चनाच्चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह सो᳘मं यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
अथाह- ‘सोमायानुब्रूहि’ इति सौम्यमाज्यभागम् । स उत्तरस्यौदनस्य सर्पिरासेचनाच्चतुराज्यस्यावदायातिक्रामति । अतिक्रम्याश्राव्याह- ‘सोमं यज’ इति । वषट्कृते जुहोति ॥ ८ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- He then says, ‘Pronounce the invitatory prayer to Soma!’ with reference to Soma’s butter-portion. He then takes four cuttings of butter from the hollow of the northern pap, and steps over. Having stepped over and called for the ‘Śraushaṭ,’ he says, ‘Pronounce the offering-prayer to Soma!’ and pours out the oblation, as soon as the Vashaṭ has been uttered.
०९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाह मरु᳘द्भ्यो गृहमेधिभ्यो᳘ ऽनुब्रूही᳘ति॥
स द᳘क्षिणस्यौदन᳘स्य सर्पिरासे᳘चनात्त᳘त ऽआ᳘ज्यमु᳘पस्तृणीते त᳘स्य द्विरवद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयत्य᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह[[!!]] मरु᳘तो गृहमेधि᳘नो यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाह मरु᳘द्भ्यो गृहमेधिभ्यो᳘ ऽनुब्रूही᳘ति॥
स द᳘क्षिणस्यौदन᳘स्य सर्पिरासे᳘चनात्त᳘त ऽआ᳘ज्यमु᳘पस्तृणीते त᳘स्य द्विरवद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयत्य᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह[[!!]] मरु᳘तो गृहमेधि᳘नो यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अ᳘थाह मरु᳘द्भ्यो गृहमेधिभ्यो᳘ ऽनुब्रूही᳘ति॥
स द᳘क्षिणस्यौदनस्य सर्पिरासे᳘चनात्त᳘त आ᳘ज्यमु᳘पस्तृणीते त᳘स्य द्विर᳘वद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयत्य᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह मरु᳘तो गृहमेधि᳘नो यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
अथाह- ‘मरुद्भ्यो गृहमेधिभ्यो ऽनुब्रूहि’ इति । स दक्षिणस्यौदनस्य सर्पिरासेचनात्तत आज्यमुपस्तृणीते । तस्य द्विवद्यति । अथोपरिष्टादाज्यस्याभिघारयति । अतिक्रामति । अतिक्रम्याश्राव्याह- ‘मरुतो गृहमेधिनो यज’ इति । वषट्कृते जुहोति ॥ ९ ॥
सायणः
[व्याख्यानं सप्तमे]
Eggeling
- He then says, ‘Pronounce the invitatory prayer
to the Maruts, the Householders!’ He makes an ‘under-layer’ of butter (in the offering-spoon) from the hollow of the southern pap, takes two cuttings from the latter, pours some butter thereon, and steps across. Having stepped across and called for the ‘Śraushaṭ,’ he says, ‘Pronounce the offering-prayer to the Maruts, the Householders!’ and pours out the oblation as soon as the Vashat has been uttered.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
स ऽउ᳘त्तरस्यौदन᳘स्य सर्पिरासे᳘चनात्त᳘त ऽआ᳘ज्यमु᳘पस्तृणीते त᳘स्य द्विरवद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयत्य᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्नि᳘ᳫं᳘[[!!]] स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोत्यथे᳘डामे᳘वावद्य᳘ति न᳘ प्राशित्र᳘मुपहू᳘य मार्जयन्त ऽएतन्न्वे᳘कम᳘यनम्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
स ऽउ᳘त्तरस्यौदन᳘स्य सर्पिरासे᳘चनात्त᳘त ऽआ᳘ज्यमु᳘पस्तृणीते त᳘स्य द्विरवद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयत्य᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्नि᳘ᳫं᳘[[!!]] स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोत्यथे᳘डामे᳘वावद्य᳘ति न᳘ प्राशित्र᳘मुपहू᳘य मार्जयन्त ऽएतन्न्वे᳘कम᳘यनम्॥
मूलम् - Weber
अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
स उ᳘त्तरस्यौदन᳘स्य सर्पिरासे᳘चनात्त᳘त आ᳘ज्यमु᳘पस्तृणीते त᳘स्य द्विर᳘वद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयत्य᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं यजे᳘ति व᳘षट्कृते जुहोत्यथे᳘डामेॗवावद्य᳘ति न᳘ प्राशित्र᳘मुपहू᳘य मार्जयन्त एतन्न्वे᳘कम᳘यनम्॥
मूलम् - विस्वरम्
अथाह- ‘अग्नये स्विष्टकृते ऽनुब्रूहि’ इति । स उत्तरस्यौदनस्य सर्पिरासेचनात्तत आज्यमुपस्तृणीते । तस्य द्विरवद्यति । अथोपरिष्टादाज्यस्याभिघारयति । अतिक्रामति । अतिक्रम्याश्राव्याह- ‘अग्निं स्विष्टकृतं यज’ इति । वषट्कृते जुहोति । अथेडामेवावद्यति, न प्राशित्रम् । उपहूय, मार्जयन्ते । एतन्न्वेकमयनम् ॥ १० ॥
सायणः
अथाहाग्नय इति । न प्राशित्रमिति । प्रशित्रावदानं न कर्त्तव्यम्; पयसि संस्कृतत्वेन सान्नाय्यविकृतित्वात् 12, न हि प्रकृतौ सान्नाय्यात् प्राशित्रमवदीयते । उक्तमुपयोपक्रमं निगमयति- एतादिति । ‘एतत्’ खलु ‘एकमयनं’ गृहमेधीयस्यानुष्ठानमार्गः ॥ १० ॥
Eggeling
- He then says, ‘Pronounce the invitatory prayer to Agni Svishṭakr̥t 13!’ He makes an under-layer of butter from the hollow of the northern pap, takes two cuttings from the latter, pours some butter thereon, and steps across. Having stepped across and called for the ‘Śraushaṭ,’ he says, ‘Pronounce the offering-prayer to Agni Svishṭakr̥t!’ and pours out the oblation as soon as the Vashat has been uttered. Thereupon he cuts off the Iḍā 14, but no fore-portion 15. Having invoked (the Iḍā), they cleanse themselves. This is one mode of performance.
११
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थेदं᳘ द्विती᳘य᳘ᳫं᳘॥
सैव᳘ स्तीर्णा व्वे᳘दिर्भवति या᳘ मरु᳘द्भ्यः सान्तपने᳘भ्यस्त᳘स्यामेव᳘ स्तीर्णा᳘यां व्वे᳘दौ परिधीं᳘श्च श᳘कलांश्चोपनि᳘दधति त᳘था सन्दो᳘ह्य चरु᳘ᳫं᳘ श्रपयति त᳘देव प्र᳘तिवेशमा᳘ज्यम᳘धिश्रयति श्रपयि᳘त्वा ऽभिघा᳘र्योद्वा᳘स्यानक्ति स्थाल्यामा᳘ज्यमु᳘द्वासयति स्रुवं᳘ च स्रु᳘चं च स᳘म्मार्ष्ट्य᳘थैतᳫँ᳭ सो᳘खमेव᳘ चरु᳘मादा᳘योदै᳘ति स्थाल्यामा᳘ज्यमादा᳘योदैति[[!!]] स्रुवं᳘ च स्रु᳘चं चादा᳘योदै᳘ति स᳘ ऽइमा᳘मेव᳘ स्तीर्णां व्वे᳘दिमभिमृ᳘श्य परिधी᳘न्परिधा᳘य या᳘वतः श᳘कलान्काम᳘यते ता᳘वतो ऽभ्या᳘दधात्य᳘थैतᳫँ᳭सो᳘खमेव᳘ चरुमा᳘सादयति स्थाल्यामा᳘ज्यमा᳘सादयति स्रुवं᳘ च स्रु᳘चं चा᳘सादयत्यु᳘पविशति हो᳘ता होतृष᳘दने स्रुवं᳘ च स्रु᳘चं चाद᳘दान ऽआह॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थेदं᳘ द्विती᳘य᳘ᳫं᳘॥
सैव᳘ स्तीर्णा व्वे᳘दिर्भवति या᳘ मरु᳘द्भ्यः सान्तपने᳘भ्यस्त᳘स्यामेव᳘ स्तीर्णा᳘यां व्वे᳘दौ परिधीं᳘श्च श᳘कलांश्चोपनि᳘दधति त᳘था सन्दो᳘ह्य चरु᳘ᳫं᳘ श्रपयति त᳘देव प्र᳘तिवेशमा᳘ज्यम᳘धिश्रयति श्रपयि᳘त्वा ऽभिघा᳘र्योद्वा᳘स्यानक्ति स्थाल्यामा᳘ज्यमु᳘द्वासयति स्रुवं᳘ च स्रु᳘चं च स᳘म्मार्ष्ट्य᳘थैतᳫँ᳭ सो᳘खमेव᳘ चरु᳘मादा᳘योदै᳘ति स्थाल्यामा᳘ज्यमादा᳘योदैति[[!!]] स्रुवं᳘ च स्रु᳘चं चादा᳘योदै᳘ति स᳘ ऽइमा᳘मेव᳘ स्तीर्णां व्वे᳘दिमभिमृ᳘श्य परिधी᳘न्परिधा᳘य या᳘वतः श᳘कलान्काम᳘यते ता᳘वतो ऽभ्या᳘दधात्य᳘थैतᳫँ᳭सो᳘खमेव᳘ चरुमा᳘सादयति स्थाल्यामा᳘ज्यमा᳘सादयति स्रुवं᳘ च स्रु᳘चं चा᳘सादयत्यु᳘पविशति हो᳘ता होतृष᳘दने स्रुवं᳘ च स्रु᳘चं चाद᳘दान ऽआह॥
मूलम् - Weber
अ᳘थेदं᳘ द्विती᳘यम्॥
सैव᳘ स्तीर्णा वे᳘दिर्भवति या᳘ मरु᳘द्भ्यः सांतपने᳘भ्यस्त᳘स्यामेव᳘ स्तीर्णा᳘यां वे᳘दौ परिधीं᳘श्च श᳘कलांश्चोपनि᳘दधति त᳘था संदो᳘ह्य चरुं᳘ श्रपयति ने᳘देव प्र᳘तिवेशमा᳘ज्यम᳘धिश्रयति श्रपयिॗत्वाभिघा᳘र्योद्वा᳘स्यानक्ति स्थाल्यामा᳘ज्यमु᳘द्वासयति स्रुवं᳘ च स्रु᳘चं च स᳘म्मार्ष्ट्य᳘थैतᳫं 16 सो᳘खमेव᳘ चरु᳘मादा᳘योदै᳘ति स्थाल्यामा᳘ज्यमादा᳘योदै᳘ति स्रुवं᳘ च स्रु᳘चं चादा᳘योदै᳘ति स᳘ इमा᳘मेव᳘ स्तीर्णां वे᳘दिमभिमृ᳘श्य परिधी᳘न्परिधा᳘य या᳘वतः श᳘कलान् काम᳘यते ता᳘वतो ऽभ्या᳘दधात्य᳘थैतᳫं सो᳘खमेव᳘ चरुमा᳘सादयति स्थाल्यामा᳘ज्यमा᳘सादयति स्रुवं᳘ च स्रु᳘चं चा᳘सादयत्यु᳘पविशति हो᳘ता होतृष᳘दने स्रुवं᳘ च स्रु᳘चं चाद᳘दान आह॥
मूलम् - विस्वरम्
अथेदं द्वितीयम् । सैव स्तीर्णा वेदिर्भवति- या मरुद्भ्यः सान्तपनेभ्यः । तस्यामेव स्तीर्णायां वेदौ परिधींश्च शकलांश्चोपनिदधति । तथा सन्दोह्य चरुं श्रपयति नेदेव प्रतिवेशमाज्यमधिश्रयति । श्रपयित्वा ऽभिघार्योद्वास्यानक्ति स्थाल्यामाज्यमुद्वासयति स्रुवं च स्रुचं च सम्मार्ष्टि । अथैतं सोखमेव चरुमादायोदैति । स्थाल्यामाज्यमादायोदैति । स्रुवं च स्रुचं चादायोदैति । स इमामेव स्तीर्णां वेदिमभिमृश्य, परिधीन्परिधाय, यावतः शकलान् कामयते तावतो ऽभ्यादधाति । अथैतं सोखमेव चरुमासादयति । स्थाल्यामाज्यमासादयति । स्रुवं च स्रुचं चासादयति । उपविशति होता होतृषदने । स्रुवं च स्रुचं चाददान आह ॥ ११ ॥
सायणः
अन्यदप्ययनं दर्शयति- अथेदमिति । अस्मिन् पक्षे ऽपि पूर्ववदेव सैव स्तीर्णा वेदिर्भवतीत्यादेरर्थः । एतावांस्तु विशेषः- श्रपितस्य चरोर्द्वयोरुद्धरणम्, तत्र सर्पिरासेचनकरणम्, तदासेचनञ्चोत्पत्त्यैव न भवति, किन्तु यदा चरुं श्रपयति ‘तत्’ तदानीमेव ‘प्रतिवेशं’ समापनार्थं प्रतिनिधित्वेन निवेशनस्थानं प्रतिवेशः, तत्स्थानीयमाज्यम्; दक्षिणाग्नावाज्यस्थाल्यामधिश्रयेदित्यर्थः । उद्वास्यानक्तीति । उद्वासनात् पूर्वमभिधार्य तदुत्तरकालमपि हविरञ्ज्यादित्यर्थः ॥
सोखमेवेति । यस्यां स्थाल्यां चरुः श्रप्यते, तत्सहितमेव; न पुनः पात्रान्तरे धारणं कर्त्तव्यमित्यर्थः । स्थाल्यामाज्यमिति। स्थालीसहितमेव चरुं वेद्यामासाद्य, आज्यस्थालीतलगतमाज्यमप्यासादयेदित्यर्थः । आज्यभागादिषु यदाज्यकार्यं तत् सर्वं स्थालीगताज्यादेव कर्त्तव्यमिति । अयमेव पूर्वस्मात्पक्षादस्य पक्षस्य विशेषः, शिष्टं समानं पूर्वेण ॥ ११-१५ ॥
Eggeling
- Then there is this other. The same altar covered (with sacrificial grass) which has served for the Maruts, the Scorchers, is (used now). Near this covered altar they lay down the enclosing-sticks and pieces of firewood; and having had (the cows) milked in the same way (as before) he cooks the rice-pap. The butter he puts on so as to be no mere accessory 17 Having cooked (the pap) and basted
it, and removed it (from the fire), he anoints it. He then removes the butter in the pot (from the fire), and wipes the dipping and offering spoons. Thereupon, taking the dish with the pap, he walks up (to the altar); and again, taking the butter in the pot, he walks up; and again, taking the dipping and offering spoons, he walks up (to the altar). He then touches that covered altar, lays the enclosing-sticks round (the Āhavanīya fire), and puts on as many pieces of wood as he thinks fit. He then deposits successively 18 (in their respective places) the dish with the pap, the pot with butter, and the dipping and offering spoons. The Hotr̥ sits down in the Hotr̥’s seat. Taking the dipping and offering spoons, he (the Adhvaryu) says,–
१२
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘ग्नये[[!!]] ऽनुब्रूही᳘ति॥
(त्या) आग्नेयमा᳘ज्यभागᳫँ᳭ स᳘ स्थाल्यै᳘ चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्निं᳘ यजे᳘ति व्व᳘षट्कृते जुहोति
मूलम् - श्रीधरादि
(हा᳘) अ᳘ग्नये[[!!]] ऽनुब्रूही᳘ति॥
(त्या) आग्नेयमा᳘ज्यभागᳫँ᳭ स᳘ स्थाल्यै᳘ चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्निं᳘ यजे᳘ति व्व᳘षट्कृते जुहोति
मूलम् - Weber
अग्नये᳘ ऽनुब्रूही᳘ति॥
आग्नेयमा᳘ज्यभागᳫं स᳘ स्थाल्यै᳘ चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्निं᳘ यजे᳘ति व᳘षट्कृते जुहोति२।५।३।अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागᳫं स᳘ स्थाल्या᳘ एव᳘ चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह 19 सो᳘मं यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
‘अग्नये ऽनुब्रूहि’ इति आग्नेयमाज्यभागम् । स स्थाल्यै चतुराज्यस्यावदायातिक्रामति । अतिक्रम्याश्राव्याह- ‘अग्निं यज’ इति । वषट्कृते जुहोति ॥ १२ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- ‘Pronounce the invitatory prayer to Agni!’ with a view to (offering) Agni’s butter-portion. He then takes four ‘cuttings’ of butter from the pot and steps across (to the offering-place on the south side of the fire). Having stepped across and called for the (Āgnīdhra’s) Śraushaṭ, he says (to the Hotr̥), ‘Pronounce the offering-prayer to Agni!’ and pours out the oblation, as soon as the Vashaṭ has been uttered.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागᳫँ᳭स᳘ स्थाल्या᳘ ऽएव᳘ चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह सो᳘मं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागᳫँ᳭स᳘ स्थाल्या᳘ ऽएव᳘ चतुरा᳘ज्यस्यावदाया᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह सो᳘मं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अ᳘थाह मरु᳘द्भ्यो गृहमेधिभ्यो᳘ ऽनुब्रूहीति॥
स उ᳘पस्तृणीत आ᳘ज्यम᳘थास्य᳘ चरोर्द्विर᳘वद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने अ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह मरु᳘तो गृहमेधि᳘नो यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
अथाह- ‘सोमायानुब्रूहि’ इति । सौम्यमाज्यभागम् । स स्थाल्या एव चतुराज्यस्यावदायातिक्रामति । अतिक्रम्याश्राव्याह- ‘सोमं यज’ इति । वषट्कृते जुहोति ॥ १३ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- He then says, ‘Pronounce the invitatory prayer to Soma!’ with a view to Soma’s butter-portion. He then takes four cuttings of butter from the pot, and steps across. Having stepped
across, and called for the Śraushaṭ, he says, ‘Pronounce the offering-formula to Soma!’ and pours out the oblation, as soon as the Vashat has been uttered.
१४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाह मरु᳘द्भ्यो गृहमेधिभ्यो᳘ ऽनुब्रूही᳘ति॥
स ऽउ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्य᳘ चरोर्द्विर᳘वद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह मरु᳘तो गृहमेधि᳘नो यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाह मरु᳘द्भ्यो गृहमेधिभ्यो᳘ ऽनुब्रूही᳘ति॥
स ऽउ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्य᳘ चरोर्द्विर᳘वद्यत्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह मरु᳘तो गृहमेधि᳘नो यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
स उ᳘पस्तृणीत आ᳘ज्यम᳘थास्य᳘ चरोः᳘ सकृद᳘वद्यत्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति न प्रत्यनक्त्यवदा᳘नम᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्नि᳘ᳫं स्विष्टकृ᳘तम्- यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
अथाह- ‘मरुद्भ्यो गृहमेविभ्यो ऽनुब्रूहि’ इति । स उपस्तृणीत आज्यम् । अथास्य चरोर्द्विरवद्यति । अथोपरिष्टादाज्यस्याभिघारयति । प्रत्यनक्त्यवदाने अतिक्रामति । अतिक्रम्याश्राव्याह- ‘मरुतो गृहमेधिनो यज’ इति । वषट्कृते जुहोति ॥ १४ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- Thereupon he says, ‘Pronounce the invitatory prayer to the Maruts, the Householders!’ He then makes an ‘under-layer’ of butter (in the juhū), takes two cuttings from that pap, pours some butter thereon, re-anoints (replenishes with butter the parts of the sacrificial dish from which he has made) 20 the two cuttings, and steps across (to the offering-place). Having stepped across and called for the Śraushaṭ, he says, ‘Pronounce the offering-prayer to the Maruts, the Householders!’ and pours out the oblation, as soon as the Vashat has been uttered.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
स उ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्य[[!!]] चरोः᳘ सकृद᳘वद्यत्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नम᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति॥
स उ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्य[[!!]] चरोः᳘ सकृद᳘वद्यत्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयति न प्र᳘त्यनक्त्यवदा᳘नम᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याहाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अ᳘थेडा᳘मेॗवावद्य᳘ति न᳘ प्राशित्र᳘म्॥
उपहू᳘य प्रा᳘श्नन्ति या᳘वन्तो गृॗह्या हविरुछिष्टाशाः स्युस्ता᳘वन्तः प्रा᳘श्नीयुर᳘थो अ᳘प्यृत्वि᳘जः प्रा᳘श्नीयुर᳘थो अ᳘प्यन्ये᳘ ब्राह्मणाः प्रा᳘श्नीयुर्य᳘दि बहु᳘रोदन स्याद᳘थैताम᳘निरशितां कुम्भी᳘मपिधा᳘य नि᳘दधति पूर्णदर्वा᳘य मातृ᳘भिर्वत्सा᳘न्त्सम᳘वार्जन्ति त᳘दु पश᳘वो मेघमात्म᳘न्दधते यवा᳘ग्वैतां रा᳘त्रिमग्निहोत्रं᳘ जुहोति निवा᳘न्याम् प्रात᳘र्दुहन्ति पितृयज्ञाय॥
मूलम् - विस्वरम्
अथाह- ‘अग्नये स्विष्टकृते ऽनुब्रूहि’ इति । स उपस्तृणीत आज्यम् । अथास्य चरोः सकृदवद्यति । अथोपरिष्टाद् द्विराज्यस्याभिघारयति । न प्रत्यनक्त्यवदानम् । अतिक्रामति । अतिक्रम्याश्राव्याह- ‘अग्निं स्विष्टकृतं यज’ इति । वषट्कृते जुहोति ॥ १५ ॥
सायणः
[व्याख्यानं एकादशे]
Eggeling
- Thereupon he says, ‘Pronounce the invitatory prayer to Agni Svishṭakr̥t!’ He then makes an under-layer of butter, takes one cutting from the pap, pours twice butter thereon, without, however, re-anointing the (place of the) cutting; and steps across. Having stepped across, and called for the Śraushaṭ, he says, ‘Pronounce the offering-prayer to Agni Svishṭakr̥t!’ and pours out the oblation, as soon as the Vashat has been uttered.
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थेडा᳘मे᳘वावद्य᳘ति न᳘ प्राशित्र᳘म्॥
(मु) उपहू᳘य प्रा᳘श्नन्ति या᳘वन्तो गृ᳘ह्या हविरुच्छिष्टाशाः स्युस्ता᳘वन्तः प्रा᳘श्नीयुर᳘थो ऽअ᳘प्यृत्वि᳘जः प्रा᳘श्नीयुर᳘थो ऽअ᳘प्यन्ये᳘ ब्राह्मणाः प्रा᳘श्नीयुर्य᳘दि बहु᳘रोदनः स्याद᳘थैताम᳘निरशितां कुम्भी᳘मपिधा᳘य नि᳘दधति पूर्णदर्व्वा᳘य मातृ᳘भिर्व्वत्सा᳘न्त्सम᳘वार्ज्जन्ति त᳘दु पश᳘वो मे᳘धमात्म᳘न्दधते यवा᳘ग्वैताᳫँ᳭ रा᳘त्रिमग्निहोत्रं᳘ जुहोति निवा᳘न्यां प्रात᳘र्दुहन्ति पितृयज्ञाय॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थेडा᳘मे᳘वावद्य᳘ति न᳘ प्राशित्र᳘म्॥
(मु) उपहू᳘य प्रा᳘श्नन्ति या᳘वन्तो गृ᳘ह्या हविरुच्छिष्टाशाः स्युस्ता᳘वन्तः प्रा᳘श्नीयुर᳘थो ऽअ᳘प्यृत्वि᳘जः प्रा᳘श्नीयुर᳘थो ऽअ᳘प्यन्ये᳘ ब्राह्मणाः प्रा᳘श्नीयुर्य᳘दि बहु᳘रोदनः स्याद᳘थैताम᳘निरशितां कुम्भी᳘मपिधा᳘य नि᳘दधति पूर्णदर्व्वा᳘य मातृ᳘भिर्व्वत्सा᳘न्त्सम᳘वार्ज्जन्ति त᳘दु पश᳘वो मे᳘धमात्म᳘न्दधते यवा᳘ग्वैताᳫँ᳭ रा᳘त्रिमग्निहोत्रं᳘ जुहोति निवा᳘न्यां प्रात᳘र्दुहन्ति पितृयज्ञाय॥
मूलम् - Weber
अ᳘थ प्रात᳘र्हुते वा᳘हुते वा॥
यतर᳘था काम᳘येतॗ सो ऽस्या अ᳘निरशितायै कुम्भ्यै दर्व्यो᳘पहन्ति पूर्णा᳘ दर्वि पराप᳘त 21 स᳘पूर्णा पु᳘नरा᳘पत वॗस्नेव वि᳘क्रीणावहा इ᳘षमू᳘र्जं शतक्रतवि᳘ति य᳘था पुरो ऽनुवाॗक्यैव᳘मेॗपैत᳘यैॗवैनमेत᳘स्मै भागा᳘य ह्वयति॥
मूलम् - विस्वरम्
अथेडामेवावद्यति, न प्राशित्रम् । उपहूय प्राश्नन्ति । यावन्तो गृह्या हविरुच्छिष्टाशाः स्युः- तावन्तः प्राश्नीयुः- अथो अप्यृत्विजः प्राश्नीयुः । अथो अप्यन्ये ब्राह्मणाः प्राश्नीयुः- यदि बहुरोदनः स्यात् । अथैतामनिरशितां कुम्भीमपिधाय निदधति पूर्णदर्वाय । मातृभिर्वत्सान्त्समवार्जन्ति । तदु पशवो मेधमात्मन्दधते । यवाग्वैतां रात्रिमग्निहोत्रं जुहोति । निवान्यां प्रातर्दुहन्ति पितृयज्ञाय ॥ १६ ॥
सायणः
अथेडामेवावद्यतीति । इडोपह्वानानन्तरं यत् प्राशनम्, तत्र विशेषमाह- यावन्त इति । गृहे भवा ‘गृह्याः’ यजमानगृहे वर्त्तमानाः पुत्रपौत्रभ्रात्रादिरूपाः ‘यावन्तः’ सन्ति, ‘तावन्तः’ हविरुच्छष्टाशाः ‘भवेयुः’; अस्यैव विवरणं ‘प्राश्नीयुः’- इति, हविःशेषं सर्वं प्राश्नीयुरित्यर्थः । ‘अथो’ अपि च ‘ऋत्विजः अपि’ ‘प्राश्नीयुः’ । ‘अपि च’ ‘अन्ये’ ‘ये ब्राह्मणाः’ आगताः, ते ऽपि ‘प्राश्नीयुः’ । ‘यदि’ ‘ओदनः’ ‘बहुः’ अधिकः ‘स्यात्’ तदा अन्येषां प्राशनमित्यर्थः 22 । कुम्भीनिधानं विधत्ते- अथैतामिति । निःशेषेण अशिता निरशिता, तद्विपरीता अनिरशिता ताम्, शेषसहितामित्यर्थः । तादृशीं कुम्भीं पात्रान्तरेण अपिधाय, ‘पूर्णदर्वाय’ हविषा पूर्णा दर्वी यस्मिन् कर्मणि, तत् पूर्णदर्वम्, तस्मै पूर्णदर्वाय कर्मणे, तदर्थं स्थापयेत् 23 । अस्यां रात्रौ वत्सानां मातृभिः सह वासं विधत्ते- मातृभिरिति । ‘समवार्जन्ति’ “अर्ज गतिस्थानार्जनेषु”- (धा. पा. भ्वा. प. २२४) संसृष्टान्कुर्युरित्यर्थः । तदु पशव इति । ‘तत्’ तेन वत्ससङ्गमेन पशवो ऽपि ‘मेधम्’ आत्मीयं सारम् ‘आत्मन्’ स्वात्मनि अस्यां रात्रौ ‘दधते’ धारयन्ति । अग्निहोत्रार्थमपि तस्यां रात्रौ पयो न दोग्धव्यमिति द्रव्यान्तरं विधत्ते- यवाग्वैतामिति । एवं यजमानगृहवर्त्तिनां सर्वेषां वत्सानां मातृसमवार्जनप्रसक्तौ प्रातः पितृयज्ञार्थं दोह्याया निवान्याया गोर्वत्सस्य बन्धनं कर्त्तव्यमित्यभिप्रेत्याह- निवान्यामिति । स्वयं नष्टवत्सा अन्यदीयेन वत्सेन या गौर्दुह्यते सा निवान्या, ताम् ‘प्रातः’ पितृयज्ञार्थं यतो दुहन्ति, अतस्तस्य वत्सस्य बन्धनं कर्त्तव्यमित्यध्याहृत्य योजनीयम् । अत एव कात्यायन आह- “मातृभिर्वत्सान्संसृज्य निवान्यावत्सं बध्नाति” इति (का. श्रौ. सू. ५ । १७५) ॥ १६ ॥
Eggeling
16, He then cuts off the Iḍā, but no fore-portion. Having invoked (the Iḍā), they (the priests) eat it. As many members of (the sacrificer’s) household as are entitled to partake of the remains of sacrificial
food 24 may eat (of the pap); or the officiating priests may eat it; or, if there be abundant pap, other Brāhmans also may eat of it. The pot having then been covered, before it is quite emptied, they put it away in a safe place, for the ‘full-spoon ceremony.’ Thereupon they let the calves together with their mothers; and thus the cattle take that nourishment. That night he performs the Agnihotra with rice-gruel. In the morning they milk a cow, which suckles an adopted calf 25, for the purpose of the offering to the fathers.
१७
विश्वास-प्रस्तुतिः
(या᳘) अ᳘थ प्रात᳘र्हुते वा᳘ ऽहुते वा॥
यतर᳘था काम᳘येत᳘ सो ऽस्या ऽअ᳘निरशितायै कुम्भ्यै दर्व्यो᳘पहन्ति पूर्णा᳘ दर्व्वि पराप᳘त स᳘पूर्णा पु᳘नरा᳘पत। व्व᳘स्नेव व्वि᳘क्रीणावहा ऽइ᳘षमू᳘र्जᳫँ᳭ शतक्रतवि᳘ति य᳘था पुरो ऽनुवा᳘क्यैव᳘मे᳘षैत᳘यै᳘वैनमेत᳘स्मै भागा᳘य ह्वयति॥
मूलम् - श्रीधरादि
(या᳘) अ᳘थ प्रात᳘र्हुते वा᳘ ऽहुते वा॥
यतर᳘था काम᳘येत᳘ सो ऽस्या ऽअ᳘निरशितायै कुम्भ्यै दर्व्यो᳘पहन्ति पूर्णा᳘ दर्व्वि पराप᳘त स᳘पूर्णा पु᳘नरा᳘पत। व्व᳘स्नेव व्वि᳘क्रीणावहा ऽइ᳘षमू᳘र्जᳫँ᳭ शतक्रतवि᳘ति य᳘था पुरो ऽनुवा᳘क्यैव᳘मे᳘षैत᳘यै᳘वैनमेत᳘स्मै भागा᳘य ह्वयति॥
मूलम् - Weber
अ᳘थर्षभमा᳘ह्वयितवै᳘ ब्रूयात्॥
स य᳘दि रुयात्स᳘ वषट्कार इ᳘त्यु है᳘क आहुस्त᳘स्मिन्वषट्कारे᳘ जुहुयादित्य᳘थो इ᳘न्द्रमेॗवैतत्स्वे᳘न रू᳘पेण ह्वयति वृत्र᳘स्य बधा᳘यैतद्वा इ᳘न्द्रस्य रूप य᳘दृषभस्तत्स्वे᳘नैॗवैनमेत᳘द्रूपे᳘ण ह्वयति वृत्र᳘स्य बधा᳘य स य᳘दि रुयादा᳘ म इ᳘न्द्रो यज्ञ᳘मगन्त्से᳘न्द्रो मे यज्ञ इ᳘ति ह विद्याद्य᳘द्यु न᳘ रुया᳘द्ब्राह्मण᳘ एव᳘ दक्षिणत आ᳘सीनो ब्रू᳘याज्जुहुधी᳘तिॗ सैॗवैन्द्री वाक्॥
मूलम् - विस्वरम्
अथ प्रातर्हुते वा ऽहुते वा- यतरथा कामयेत- सो ऽस्या अनिरशितायै कुम्भ्यै दर्व्योपहन्ति । “पूर्णा दर्वि परापत सुपूर्णा पुनरापत । वस्नेव विक्रीणावहा इषमूर्जं शतक्रतो”- (वा. सं. ३ । ४९) इति । यथा पुरो ऽनुवाक्या- एवमेषा । एतयैवैनमेतस्मै भागाय ह्वयति ॥ १७ ॥
सायणः
पूर्णदर्वाख्यस्य कर्मणः कालं विधत्ते- अथेति । ‘प्रातः’- अग्निहोत्रे ‘हुते वा अहुते वा’ अनयोः पक्षयोः ‘यतरथा’ येन प्रकारेण ‘कामयेत’ तथैवानुष्ठेयमित्यर्थः 22 । होमाय समन्त्रकं हविर्ग्रहणं विधत्ते- सो ऽस्या इति । षष्ठ्यर्थे चतुर्थी । सोखायाः गृहमेधीयकुम्भ्याः सकाशात् “पूर्णा दर्वि"- इति मंत्रेण दर्व्या आघातेन ‘उपहन्ति’ गृह्णीयात् । मन्त्रस्यायमर्थः- हे ‘दर्वि’ ! प्रथमं हविषा ‘पूर्णा’ सती अस्याः सकाशात् ‘परापत’ परागच्छ, देवान् प्राप्नुहि, पुनः कर्मफलेन ‘सुपूर्णा’- सती अमुतः सकाशात् अस्मान् पुनरागच्छ, हे ‘शतक्रतो’ इन्द्र ! ‘वस्ना’ वसुना मूल्येन ‘इव’ आवाम् ‘इषम्’ इष्यमाणम् अन्नम् ‘ऊर्जम्’ बलकरं रसं च ‘विक्रीणावहै’ त्वया दत्तं फलं स्वीकृत्य हविर्दास्यामि त्वयि; मया दत्तं हर्विर्गृहीत्वा मह्यं फलं दास्यसि त्वम्; एवं व्यतिहारेण कर्म क्रीणावहा इत्यर्थः । एतन्मन्त्रोच्चारणं प्रशंसति- यथेति । ‘एनम्’ इन्द्रम् ‘एतस्मै’ पूर्णदर्वाख्याय ‘भागाय’ पुरोनुवाक्यास्थानीयया पुरोवक्तव्यया एतया ‘आ-ह्वयति’ आकारयति ॥ १७ ॥
Eggeling
- Thereupon, in the morning, either after or before the performance of the Agnihotra–whichever he pleases–he cuts out (the remaining rice-pap) with the darvi-spoon 26 from the un-emptied pot, with the text (Vāj. S. III, 49), ‘Full, O spoon, fly away, well filled fly back to us!
O thou (Indra), of a hundredfold powers, let us two barter food and drink, like wares!’ In like manner as an invitatory prayer (is used at offerings) so does he by this (verse) invite him (Indra) to that share.
१८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ऽर्षभमा᳘ह्वयितवै᳘ ब्रूयात्॥
(त्स) स य᳘दि रुयात्स᳘ व्वषट्कार ऽइ᳘त्यु है᳘क ऽआहुस्त᳘स्मिन्वषट्कारे᳘ जुहुयादित्य᳘थो ऽइ᳘न्द्रमे᳘वैतत्स्वे᳘न रू᳘पेण ह्वयति व्वृत्र᳘स्य वधा᳘यैतद्वा ऽइ᳘न्द्रस्य रूपं य᳘दृषभस्तत्स्वे᳘नै᳘वैनमेत᳘द्रूपे᳘ण ह्वयति व्वृत्र᳘स्य व्वधा᳘य स य᳘दि रुयादा᳘ म ऽइ᳘न्द्रो यज्ञ᳘मगन्त्से᳘न्द्रो मे यज्ञ ऽइ᳘ति ह व्विद्याद्य᳘द्यु न᳘ रुया᳘द्ब्राह्मण᳘ एव᳘ दक्षिणत ऽआ᳘सीनो ब्रूयाज्जुहुधी᳘ति[[!!]] सै᳘वैन्द्री वाक्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ऽर्षभमा᳘ह्वयितवै᳘ ब्रूयात्॥
(त्स) स य᳘दि रुयात्स᳘ व्वषट्कार ऽइ᳘त्यु है᳘क ऽआहुस्त᳘स्मिन्वषट्कारे᳘ जुहुयादित्य᳘थो ऽइ᳘न्द्रमे᳘वैतत्स्वे᳘न रू᳘पेण ह्वयति व्वृत्र᳘स्य वधा᳘यैतद्वा ऽइ᳘न्द्रस्य रूपं य᳘दृषभस्तत्स्वे᳘नै᳘वैनमेत᳘द्रूपे᳘ण ह्वयति व्वृत्र᳘स्य व्वधा᳘य स य᳘दि रुयादा᳘ म ऽइ᳘न्द्रो यज्ञ᳘मगन्त्से᳘न्द्रो मे यज्ञ ऽइ᳘ति ह व्विद्याद्य᳘द्यु न᳘ रुया᳘द्ब्राह्मण᳘ एव᳘ दक्षिणत ऽआ᳘सीनो ब्रूयाज्जुहुधी᳘ति[[!!]] सै᳘वैन्द्री वाक्॥
मूलम् - Weber
स᳘ जुहोति॥
देहि᳘ मे द᳘दामि ते नि᳘ मे धेहि नि᳘ ते दधे निहा᳘रं च ह᳘रासि मे निहा᳘रं नि᳘हराणि ते स्वाहेति॥
मूलम् - विस्वरम्
अथर्षभमाह्वयितवै ब्रूयात् । स यदि रुयात्- स वषट्कारः- इत्युहैक आहुः । तस्मिन् वषट्कारे जुहुयादिति । अथो इन्द्रमेवैतत् स्वेन रूपेण ह्वयति- वृत्रस्य वधाय । एतद्वा इन्द्रस्य रूपं यदृषभः । तत्स्वेनैव रूपेण ह्वयति- वृत्रस्य वधाय । स यदि रुयात्,- आ म इन्द्रो यज्ञमगन्, सेन्द्रो मे यज्ञः- इति ह विद्यात् । यद्यु न रुयाद्- ब्राह्मण एव दक्षिणत आसीनो ब्रूयात्- ‘जुहुधि’ इति । सैवैन्द्री वाक् ॥ १८ ॥
सायणः
ऋषभध्वनौ होतव्यमिति विधित्सुराह- अथेति 27 । ‘आह्वयितवै’ आह्वातुम् “तुमर्थे सेसेनसे” (पा. सू. ३ । ४ । ९) इति तवै-प्रत्ययः । स यदीत्यादि । ‘सः’ आहूतः ऋषभः, ‘यदि’ ‘रुयात्’ शब्दं कुर्यात् । ”रु शब्दे”- (धा. पा. अ. प. २४) इति धातुः । तद्ध्वनिर्वषट्कारात्मक इति केचिदाहुः । तथा च तैत्तिरीयकम्- “ऋषभमाह्वयति, वषट्कार एवास्य स इति कथयन्ति” इति । अतः तस्मिन् वषट्कारे हविर्जुहुयादित्येकं मतम् 28 ॥
पक्षान्तरमाह- अथो इति । यो ऽयमृषभस्य ध्वनिः, नासौ वषट्कारः, किन्तु इन्द्रस्य स्वभूतेन ऋषभाख्येन रूपेण तमेव ‘इन्द्रम्’ एतेन शब्देन ‘ह्वयति’ किमर्थम् ‘वृत्रस्य वधाय’ वृत्रमसुरं हन्तुमित्यर्थः । वृत्रस्येति कर्मणि षष्ठी । “तुमर्थाच्च भाववचनात्”- (पा. सू. २ । ३ । १५) इति वधशब्दाच्चतुर्थी । एतदेव विवृणोति- एतद्वा इति । अभिभवनशीलवृषभ ‘इन्द्रस्य रूपम्’ । नहीन्द्रादन्यस्याभिभवनसामर्थ्यमस्तीत्यभिप्रायः । स यदीत्यादि । ‘यदि’ ‘सः’ ऋषभः शब्दं कुर्यात् तदा ”आ म इन्द्रो यज्ञमगन्” आगमत्, तथा च मदीयो यज्ञः इन्द्रप्तहितो ऽभवदिति ‘विद्यात्’ जानीयात् । यज्ञे ऋषभस्य शब्दाकरणे ऽनुष्ठानप्रकारमाह- यद्यु नेति । ‘यदि’ तु ‘न’ ‘रुयात्’ शब्दं कुर्यात्, तदा ‘दक्षिणतः’ उपविष्टः ‘ब्राह्मणः’ ब्रह्मैव, ‘जुहुधीति’ अध्वर्युं प्रति ‘ब्रूयात्’ शंसेद् ‘सैव’ ‘ऐन्द्री’ इन्द्राह्वानार्था वाक् 29 ॥ १८ ॥
Eggeling
- Let him then tell (the Sacrificer) to make a bull roar. ‘If it roars,’ say some, ’then that (sound) is the Vashat; let him offer after that Vashat.’ And in this way indeed he calls Indra in his own form to the slaying of Vr̥tra 30; for the bull is indeed Indra’s form: hence he thereby calls Indra in his own form to the slaying of Vr̥tra. If it roars, then one may know that Indra has come to his sacrifice, that his sacrifice is with Indra. And should it not roar, let the priest, seated on the south side (viz. the Brahman), say, ‘Sacrifice!’–this, indeed, is Indra’s voice.
१९
विश्वास-प्रस्तुतिः
(क्स᳘) स᳘ जुहोति॥
देहि᳘ मे द᳘दामि ते नि᳘ मे धेहि नि᳘ ते दधे॥ निहा᳘रं च ह᳘रासि मे निहा᳘रं नि᳘हराणि ते स्वाहे᳘ति॥
मूलम् - श्रीधरादि
(क्स᳘) स᳘ जुहोति॥
देहि᳘ मे द᳘दामि ते नि᳘ मे धेहि नि᳘ ते दधे॥ निहा᳘रं च ह᳘रासि मे निहा᳘रं नि᳘हराणि ते स्वाहे᳘ति॥
मूलम् - Weber
अ᳘थ मरु᳘द्भ्यः क्रीडिभ्यः॥
सप्त᳘कपालम् पुरोडा᳘शं नि᳘र्वपति मरु᳘तो ह वै᳘ क्रीडि᳘नो वृत्र᳘ᳫं᳘ हनिष्यन्तमि᳘न्द्रमा᳘गतं त᳘मभि᳘तः प᳘रिचिक्रीडुर्मह᳘यन्तस्त᳘थो एॗवैत᳘म् पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हनिष्य᳘न्तमभि᳘तः प᳘रिक्रीडन्ते मह᳘यन्तस्त᳘स्मान्मरु᳘द्भ्यः क्रीडिभ्यो ऽथा᳘तो महाहवि᳘ष एव तद्य᳘था महाहवि᳘षस्त᳘थो त᳘स्य॥
मूलम् - विस्वरम्
स जुहोति “देहि मे- ददामि ते, नि मे धेहि- नि ते दधे । निहारं च हरासि मे- निहारं निहराणि ते- स्वाहा" (वा. सं. ३ । ५०) इति ॥ १९ ॥
सायणः
अथ समन्त्रकं होमं विधत्ते- स जुहोतीति । दर्व्या गृहीतं हषिः “देहि मे”- इति मन्त्रेण तथैव 31 दर्व्या आहवनीये जुहुयात् । मन्त्रस्यायमर्थः । इन्द्रो ब्रवीति- हे यजमान ! त्वं ‘मे’ मह्यं प्रथमं हविः ‘देहि’, अहमपि ‘ते’ तुभ्यम् इष्टं फलं ‘ददामि’ तथा त्वं ‘मे’ मह्यं ‘हविः’ ‘निधेहि’ नियमेन हि ह्रियत इति निहारो मूल्यद्रव्यम् ‘निहारं’ हविषो मूल्यभूतम् फलस्य मूल्यभूलं अहमपि तुभ्यं फलं ‘निदधे’, निदधामि, नियच्छामि नितरां धारय, हविः; ‘च’- शब्दश्चेदर्थे, त्वं चेत् प्रथमं ‘हरासि’ हरेः, दद्या इत्यर्थः । हरतेर्लेव्याडागमः; अनन्तरमेव ‘ते’ तुभ्यम् अहमपि ‘निहारं’ हविषो मूल्यभूतं फलं ‘निहराणि’ नितरां प्रापयामि ‘स्वाहा’ इदं हविः स्वाहुतमस्तु इति । एतत् सर्वं कात्यायनेन सूत्रितम्- “प्रातर्हुत्वा ऽहुत्वा वा स्थाल्या दर्व्यादत्ते पूर्णा दर्वीति, ऋषभमाह्वयितवै ब्रूयाद्, रुते जुहोति, अव्याहरति ब्रह्मा जुहुधीत्याह, देहि म इति जुहोति”- इति (का. श्रौ. सू. १७७–१८१) ॥ १९ ॥
Eggeling
- He offers with the text (Vāj. S. III, 50), ‘Give unto me, (and) I give unto thee. Bestow (gifts) on me, (and) I bestow on thee 32! And mayest thou give me guerdon, (and) I will give thee guerdon! Svāhā!’
२०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ मरु᳘द्भ्यः क्रीडि᳘भ्यः सप्त᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति॥
मरु᳘तो ह वै᳘ क्रीडि᳘नो व्वृत्र᳘ᳫँ᳭ हनिष्य᳘न्तमिन्द्रमा᳘गतं[[!!]] त᳘मभि᳘तः प᳘रिचिक्रीडुर्मह᳘यन्तस्त᳘थो ऽए᳘वैतं᳘ पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हनिष्य᳘न्तमभि᳘तः प᳘रिक्रीडन्ते मह᳘यन्तस्त᳘स्मान्मरु᳘द्भ्यः क्रीडिभ्यो ऽथा᳘तो महाहवि᳘ष ऽएव तद्य᳘था महाहवि᳘षस्त᳘थो त᳘स्य॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ मरु᳘द्भ्यः क्रीडि᳘भ्यः सप्त᳘कपालं पुरोडा᳘शं नि᳘र्व्वपति॥
मरु᳘तो ह वै᳘ क्रीडि᳘नो व्वृत्र᳘ᳫँ᳭ हनिष्य᳘न्तमिन्द्रमा᳘गतं[[!!]] त᳘मभि᳘तः प᳘रिचिक्रीडुर्मह᳘यन्तस्त᳘थो ऽए᳘वैतं᳘ पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हनिष्य᳘न्तमभि᳘तः प᳘रिक्रीडन्ते मह᳘यन्तस्त᳘स्मान्मरु᳘द्भ्यः क्रीडिभ्यो ऽथा᳘तो महाहवि᳘ष ऽएव तद्य᳘था महाहवि᳘षस्त᳘थो त᳘स्य॥
Eggeling
- He then offers a cake on seven potsherds to the sportive (Krīdinaḥ) Maruts. For when Indra went forward in order to slay Vr̥tra, the sportive Maruts were sporting around him singing his praises; and even so do they sport around this (Sacrificer), singing his praises, now that he is about to slay his wicked, spiteful enemy: this
is why (he sacrifices) to the sportive Maruts 33. Thereupon (follows the performance) of the Great Oblation (Mahā-havis): this (performance) is in accordance with that of the great (seasonable) oblation 34.
मूलम् - विस्वरम्
अथ महाहविर्यागः ।
अथ मरुद्भ्यः क्रीडिभ्यः सप्तकपालं पुरोडाशं निर्वपति । मरुतो ह वै क्रीडिनो वृत्रं हनिष्यन्तमिन्द्रमागतं तमभितः परिचिक्रीडुः महयन्तः । तथो एवैतं पाप्मानं द्विषन्तं भ्रातृव्यं हनिष्यन्तमभितः परिक्रीडन्ते महयन्तः । तस्मान्मरुद्भ्यः क्रीडिभ्यः । अथातो महाहविष एव तद् यथा महाहविषः- तथो तस्य ॥ २० ॥
सायणः
एतदनन्तरकर्त्तव्यामिष्टिं विधत्ते- अथेति । क्रीडन्तीति क्रीडिनः एतद्गुणविशिष्टेभ्यः ‘मरुद्भ्यः’ सप्तसु कपालेषु संस्कृतं पुरोडाशं निर्वपेदित्यर्थः 31 । क्रीडिन इति मरुतां यथार्थं विशेषणमिति प्रतिपादयति- मरुतो ह वा इत्यादिना । वृत्रं हन्तुमुद्युक्तमिन्द्रमभितो यस्माद् ‘परिचिक्रीडुः’ क्रीडितवन्तः, तस्मादेतेषां ‘क्रीडिन’ इति नाम संपन्नम् । इदानीं कृतस्य साकमेधेन हविषा यक्ष्यमाणस्य समीपे मरुतां क्रीडनं प्रतिपाद्यते- तथो एवेत्यादिना । तस्मादिन्द्रवद्यजमानस्य समीपे क्रीडनशीलेभ्यो मरुद्भ्यो यागः कर्त्तव्यः । साकमेधेषु प्रधानभूताया महाहविराख्याया इष्टेरारम्भं प्रतिजानीते- अथात 35 इति । यतो ऽनुष्ठानकालः प्राप्तः, अतः प्राप्तावसरत्वात् महाहविषः प्रयोगो ऽधिकरिष्यत इत्यर्थः । वरुणप्रघासतन्त्रं तत्रातिद्दिशति- तद्यथेति । तत्र महाहविषः महान्ति बहूनि हवींषि यत्र, महाहविर्वरुणप्रघासाख्यो यागः, ‘तस्य’ वक्ष्यमापास्य महाहविराख्यस्य यागस्य ‘यथा’ एवमिति सम्बन्धः । तस्य पूर्वोक्तस्य वरुणप्रघासस्य हविषो यथा ऽनुष्ठानम्, तथैव महाहविषो वक्ष्यमाणस्यापीति ॥ २० ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे पञ्चमे ऽध्याये तृतीयं ब्राह्मणम् ॥ २-५-३ ॥
-
तै᳘र्व्येव᳘ A. ↩︎
-
‘निःक्षत्रप्रायत्वात्’- इ० पा० । ↩︎
-
पूर्वेद्युः पूर्व्वाह्ने ऽग्नये ऽनीकवते पुरोडाशः । का. श्रौ. सू. ५ । १४९ । ↩︎ ↩︎
-
408:2 That is, Agni, the ‘sharp-pointed’ or ‘sharp-edged;’ an epithet apparently referring to the pointed flames or tongues of. Agni. The St. Petersburg Dict. takes it to mean ‘Agni, possessed of a face.’ Perhaps it may mean, ‘Agni, constituting the front or van of the army.’ In Śat. Br. III, 4, 4, 14, Agni is likened to the point (anīka) of the thunderbolt, Soma to its shaft (śakya), and Vishṇu to the part where the point is fixed on the shaft (kulmala). Compare the corresponding passage in Taitt. Br. I, 6, 6: ‘The gods and Asuras were contending. Agni spake, “My body is anīkavat (possessed of an army, acc. to Sāyaṇa): satisfy it and you will overcome the Asuras!” The gods prepared a cake on eight potsherds for Agni Anīkavat. Agni Anīkavat, being pleased with his share, produced for himself four anīkas; and thereby the gods prevailed and the Asuras were defeated. . . . Now Agni Anīkavat is yonder sun: his rays are the anīkas.’ Here anīka would rather seem to mean either ‘dart or ‘face.’ [In Taitt. Br. I, 6, 2, 5, in the battle between the gods and Asuras, Agni is represented as the mukham of the gods, which Sāyaṇa takes to mean the ‘van-guard’ or ’the champion’ of the gods. Compare also Śat. Br. II, 6, 4, 2; XI, 5, 2, 4]. Acc. to the Black Yajus, the cake to Agni Anīkavat is to be prepared (or offered) simultaneously (sākam) with the rising of the sun; whence is probably derived the term ‘Sākam-edha.’ ↩︎
-
409:1 I.e. into a sharp-pointed weapon; or, perhaps, ‘after appointing Agni their leader.’ Cf. p. 449 note; and Śat. Br. V, 3, 1, I. ↩︎
-
इध्मस्थाने शकलपरिधिं निधाय मरुद्भ्यो गृहमेधिभ्यः सायं चरुः पयसि । का. श्रौ. सू. ५ । १५३ । तत्र सायंशब्दो ऽपराह्नवाची । इति कर्कः । ↩︎
-
410:1 That is, strengthening food. Instead of medhas, the Kāṇva recension has throughout medham (as once in our text). ↩︎
-
410:2 At the preceding offering, that to the Marutaḥ Sāntapanāḥ, the ishṭi is either to be interrupted at the end of the Samishṭayajus (see I, 9, 2, 25-28), or only the offering of the Barhis (I, 9, 2, 29-31) is to be omitted. The concluding ceremonies are to be performed either on the same day, after the offering to the Maruto Gr̥hamedhinaḥ–which itself concludes with the Iḍā, and (acc. to Taitt. Br. I, 6, 6, 6) has neither fore-offerings nor after-offerings–or the following morning after the Darvihoma (see par. 17). Katy. V, 6, 3-5 2-33. ↩︎
-
411:1 According to Katy. V, 6, 14, he is to do so either silently, or with the text (Vāj. S. II, 2) used in spreading the sacrificial grass on the altar. See I, 3, 3, 11. ↩︎
-
411:2 See I, 3, 3, 13; 3, 4, 1 seq. ↩︎
-
न प्राशिन्नमिडांतं भवति । का. श्रौ. सू. ५ । १६८ । ↩︎
-
412:1 See I, 7, 3, 1 seq. ↩︎
-
412:2 See I, 8, 1, 1 seq. ↩︎
-
412:3 See I, 7, 4, 6 seq. ↩︎
-
सं᳘मार्ष्द्यथैत सो᳘षमेव᳘ A., and श᳘कलान्वाम᳘यते ता᳘वतो न्या᳘दधा᳘त्यथैतᳫ सो᳘षमेव᳘ A. ↩︎
-
412:4 Ned eva prativeśam ājyam adhiśrayati. There seems to be some mistake here. The commentary on Katy. V, 6, 6 has ’tad eva’ instead of ’ned eva.’ Sāyaṇa says that the butter is put on the Dakshiṇāgni; but according to Kāty. V, 6, 24, it is put on the fire together with the pap. The Kāṇva text has, abhyardha ājyaṁ sthālyām adhiśrayati, ‘he puts on the butter in the pot on the near side.’ ↩︎
-
413:1 In the original this is expressed by repetition of the verb, as was the case in the last sentence but one, where the original construction is retained. The Kāṇva text has merely, ‘Having taken (the pap) with the dish, he hastes up (udādravati).’ ↩︎
-
चपुरा᳘ज्यस्या A. ↩︎
-
414:1 ‘Pratyanakti’ is probably the same as ‘pratyabhighārayati,’ generally applied to the basting of the avadāna-sthāna, or that part of the havis from whence the cuttings have been made (Kāty. I, 9, II; the ‘replenishing’ of the havis in Śat. Br. I, 7, 3, 6 refers to the same thing). See, however, Kāty. V, 6, 22, where it is ruled that no pratyabhighāraṇa is to take place at the present sacrifice. The Kāṇva MS., on the other hand, reads, ‘he does not re-anoint the two cuttings.’ Perhaps he is to anoint separately the two cut-off pieces. ↩︎
-
The संहिता (३.४९) reads प᳘रापत. ↩︎
-
प्राश्नन्ति युक्ताः । यजमानगृह्या हविरुच्छिष्टाशा ऋत्विजो ब्राह्मणाश्चान्ये बहुश्चेत् । का. श्रौ. सू. ५ । १७० । १७१ । ↩︎ ↩︎
-
अरिक्ताँ स्थालीं निदधाति । का. श्रौ. सू. ५ । १७२ । ↩︎
-
415:1 That is, those who have been invested with the sacrificial cord. According to Taitt. Br. I, 6, 7, 1 the mistress of the house is not to eat of it, but an additional (prativeśa) pap is to be cooked specially for her on the Dakshiṇa fire. ↩︎
-
415:2 ‘In the morning they tie up the (adopted) calf of a nivānyā (cow suckling a strange calf),’ Kāṇva text. ↩︎
-
415:3 The Darvi-homa, or oblation of a darvi-spoonful of boiled rice to Indra, the associate of the Maruts, may be considered as part of the Gr̥hamedhīyā ishṭi, being, as it were, an offering of remains (or scrapings, nishkāsa, Taitt. Br. I, 6, 7, 3); cf. Kāty. V, 6, 33. Like all Juhoti-offerings, the darvi-homa is performed by the Adhvaryu while seated on the north side of the fire. According to Taitt. Br. I, 6, 7, 3, it is to be offered in the Gārhapatya, but according to Katy. V, 6, 38 (comm.) in the Āhavanīya. If the concluding ceremonies of the Sāntapanīyā ishṭi (from the offering of the Barhis) have not already been performed on the previous night, they have to be performed after the conclusion of the darvi-homa. If, however, only the offering of the Barhis was then omitted, the darvi-homa, if performed before the Agnihotra, is followed immediately by that oblation. ↩︎
-
ऋषभमाह्वयितवै ब्रूयात् । का. श्रौ. सू. ५ । १७८ । ↩︎
-
रुते जुहोति । का. श्रौ. सू. ५ । १७९ । ↩︎
-
अव्याहरति ब्रह्मा जुहुधीत्याह । का. श्रौ. सू. ५ । १८० । ↩︎
-
416:1 On the symbolic connection of the seasonal offerings, especially the Sākamedhāḥ, with the slaying of Vr̥tra, the evil spirit of drought, see II, 6, 4, 1. ↩︎
-
416:2 According to Mahīdhara, this first line is spoken by Indra to his worshipper; the second line containing the latter’s reply. ↩︎
-
417:1 Comp. Taitt. Br. I, 6, 7, 4: When Indra had slain Vr̥tra (with the thunderbolt) he went to the farthest distances, thinking that he had missed (his aim). He said, ‘Who will know this’ [viz. whether Vr̥tra is really dead or not, comm.]? The Maruts said, ‘We will choose a boon, then we will know (find it out): let the first oblation be prepared for us! They sported (danced about) on him (Vr̥tra, and thereby found out that he was dead). ↩︎
-
417:2 That is to say, the Mahā-havis, or Great Oblation, though apparently only an integral part of the Sākamedhāḥ, is in reality its chief ceremony, and may therefore be considered as being itself on a par with the other seasonal offerings; hence it requires the five oblations common to all the Cāturmāsyas; see II, 5, 1, 8-11. The Black Yajus it seems does not use the term Mahā-havis, but assigns more importance to the Mahā-pitr̥yajña (see II, 6, 1, 1 seq.). See Āpastamba’s Paribhāshās, 80, 81 (M. Müller, Zeitschrift der Deutschen Morg. Ges. IX), according to which the sacrifice to the Manes belongs to the Mahāyajñas. ↩︎
-
अदित्यै चरुरन्यत्रापि । का. श्रौ. सू. ५ । १८३ । ↩︎