०१
विश्वास-प्रस्तुतिः
व्वैश्वदेवे᳘न वै᳘ प्रजा᳘पतिः॥
प्रजाः᳘ ससृजे ता᳘ अस्य प्रजाः᳘ सृष्टा व्व᳘रुणस्य य᳘वाञ्जक्षुर्वरु᳘ण्यो ह वा ऽअ᳘ग्रे य᳘वस्तद्य᳘न्न्वेव व्व᳘रुणस्य य᳘वान्प्रा᳘दंस्त᳘स्माद्वरुणप्रघासा ना᳘म॥
मूलम् - श्रीधरादि
व्वैश्वदेवे᳘न वै᳘ प्रजा᳘पतिः॥
प्रजाः᳘ ससृजे ता᳘ अस्य प्रजाः᳘ सृष्टा व्व᳘रुणस्य य᳘वाञ्जक्षुर्वरु᳘ण्यो ह वा ऽअ᳘ग्रे य᳘वस्तद्य᳘न्न्वेव व्व᳘रुणस्य य᳘वान्प्रा᳘दंस्त᳘स्माद्वरुणप्रघासा ना᳘म॥
मूलम् - Weber
वैश्वदेवे᳘न वै᳘ प्रजा᳘पतिः॥
प्रजाः᳘ ससृजे ता᳘ अस्य प्रजाः᳘ सृष्टा व᳘रुणस्य य᳘वाञ्जक्षुर्वरुॗण्यो ह वा अ᳘ग्रे य᳘वस्तद्यॗन्न्वेव व᳘रुणस्य य᳘वान्प्रा᳘दस्त᳘स्माद्वरुणप्रघासा ना᳘म॥
मूलम् - विस्वरम्
अथ वरुणप्रघासपर्व ।
वैश्वदेवेन वै प्रजापतिः प्रजाः ससृजे । ता अस्य प्रजाः सृष्टा वरुणस्य यवान् जक्षुः । वरुण्यो ह वा अग्रे यवः । तद्यन्न्वेव वरुणस्य यवान् प्रादन्- तस्माद् वरुणप्रघासा नाम ॥ १ ॥
सायणः
विधित्सितस्य वरुणप्रघासाख्यस्य द्वितीयस्य पर्वणो वरुणपाशविमोचनहेतुत्वमाख्यायिकया प्रतिपादयंस्तद्विधिमुन्नयति- वैश्वदेवेन वा इत्यादिना । पुरा वैश्वदेवयागेन प्रजापतिना सृष्टाः ‘प्रजाः’ वरुणसम्बन्धिनो ‘यवान्’ ‘जक्षुः’ भक्षयामासुः । यवस्य वरुणदेवत्यत्वमाह- वरुण्यो हेति । ‘अग्रे’ सृष्टिसमये सृज्यमानः ‘यवः’ वरुणसम्बन्धी ‘एव’ अभवत् । अतो यवो वरुणस्य स्वभूतः तत्प्रसङ्गाद् वरुणप्रघासो ऽस्य नाम निर्वृत्तम् । विधित्सितयागस्य प्रसङ्गाद्वरुणप्रघासाख्यं नाम निर्ब्रूते- तद्यदिति । ‘तत्’ तथा सति ‘यत्’ यस्मात् ‘एव’ खलु कारणात् ‘वरुणस्य’ स्वभूतान् ‘यवान्’ ‘प्रादन्’ प्रकर्षेणाभक्षयन्, ‘तस्माद्’ वरुणसम्बन्धियवप्रघासनात् ‘प्रजाः’ ‘वरुणप्रघासाः’ तत्पाशगृहीतानां तासां पाशविमोचनाय क्रियमाणा यागा अप्युपचारेण वरुणप्रघासाख्याः सञ्जाता इत्यर्थः । ‘जक्षुः’- इति अदेर्लिटि “लुङ्सनोर्घस्लृ”- (पा. सू. २ । ४। ३७) “लिट्यन्यतरस्याम्”- (पा. सू. २ । ४ । ४०) इति घस्लादेशे रूपम् ॥ १ ॥
Eggeling
- Now it was by means of the Vaiśvadeva that Prajāpati produced living beings. The beings produced by him ate (ghas) Varuṇa’s barley corn; for originally the barley belonged to Varuṇa. And from their eating Varuṇa’s barley corn the name Varuṇapraghāsāḥ (is derived).
०२
विश्वास-प्रस्तुतिः
ता व्व᳘रुणो जग्राह॥
ता व्व᳘रुणगृहीताः प᳘रिदीर्णा ऽअ᳘नत्यश्च प्रा᳘णत्यश्च शिश्यिरे᳘ च नि᳘षेदुश्च प्राणोदानौ᳘ है᳘वाभ्यो ना᳘पचक्रमतुर᳘थान्याः स᳘र्व्वा देव᳘ता अ᳘पचक्रमुस्त᳘योर्है᳘वास्य हेतोः᳘ प्रजा न प᳘रा बभूवुः॥
मूलम् - श्रीधरादि
ता व्व᳘रुणो जग्राह॥
ता व्व᳘रुणगृहीताः प᳘रिदीर्णा ऽअ᳘नत्यश्च प्रा᳘णत्यश्च शिश्यिरे᳘ च नि᳘षेदुश्च प्राणोदानौ᳘ है᳘वाभ्यो ना᳘पचक्रमतुर᳘थान्याः स᳘र्व्वा देव᳘ता अ᳘पचक्रमुस्त᳘योर्है᳘वास्य हेतोः᳘ प्रजा न प᳘रा बभूवुः॥
मूलम् - Weber
ता व᳘रुणो जग्राह॥
ता व᳘रुणगृहीताः प᳘रिदीर्णा अ᳘नत्यश्च प्रा᳘णत्यष्च शिश्यिरे᳘ च नि᳘षेदुश्च प्राणोदानौ᳘ हैॗवाभ्यो ना᳘पचक्रमतुर᳘थान्याः स᳘र्वा देव᳘ता अ᳘पचक्रमुस्त᳘योर्हैॗवास्य हेतोः᳘ प्रजा न प᳘राबभूवुः॥
मूलम् - विस्वरम्
ता वरुणो जग्राह । ता वरुणगृहीताः परिदीर्णा अनत्यश्च, प्राणत्यश्च- शिशियरे च, निषेदुश्च । प्राणोदानौ हैवाभ्यो नापचक्रमतुः, अथान्याः सर्वा देवता अपचक्रमुः । तयोर्हैवास्य हेतोः प्रजां न पराबभूवुः ॥ २ ॥
सायणः
यवादनानन्तरं वरुणकृत्यमाह- ता इति । ‘परिदीर्णाः’ परितो दीर्णाः, परितो दीर्यमाणावयवाः “दॄ विदारणे”- (धा. पा. क्र्या. प. २१) इति अस्मात् निष्ठायां “श्र्युकः किति”- (पा. सू. ७ । २ । ११) इति इट्- प्रतिषेधः, “ऋत इद्धातोः"- (पा. सू. ७ । १ । १००) इतीत्वम् “ल्वादिभ्यः” (पा. सू. ८ । २ । ४४) इति निष्ठातकारस्य नकारः । अनत्यश्चेत्यादि । वरुणपाशग्रहणादेव हेतोः ‘अनत्यः’ चेष्टमानाः, हस्तपादादिधूननं कुर्वाणाः, ‘प्राणत्यश्च’ प्राणनव्यापारं श्वासोच्छ्वासादिलक्षणं कुर्वत्यः, ‘शिश्यिरे च, निषेदुश्च’ शयनासनाभ्यामेव कालं नीतवत्यः, न पुनर्व्यापारान्तरक्षमा बभूवुरित्यर्थः । प्राणोदानौ हेत्यादि । ‘आभ्यः’ प्रजाभ्यः सकाशात् केवलं प्राणोदानावेव ‘नापचक्रमतुः’; ‘अन्याः’ ‘तु सर्वाः’ वाक्चक्षुरादीन्द्रियाधिष्ठातृदेवता अग्न्याद्याः ‘आभ्यः’ प्रजाभ्यो ऽपक्रान्ताः, आसामिन्द्रियपाटवमपि प्रभ्रष्टमित्यर्थः । तयोर्हेवेति । ‘तयोः’ प्राणापानयोरेवानपक्रमणाद्धेतोः ‘अस्य’ प्रजापतेः ‘प्रजाः’ ‘न पराबभूवुः’ न विनष्टाः ॥ २ ॥
Eggeling
०३
विश्वास-प्रस्तुतिः
(स्ता᳘) ता᳘ ऽएते᳘न हवि᳘षा प्रजा᳘पतिरभिषज्यत्॥
(त्त) तद्या᳘श्चै᳘वास्य प्रजा᳘ जाता आ᳘सन्याश्चा᳘जातास्ता᳘ ऽउभ᳘यीर्व्वरुणपाशात्प्रामुञ्चत्ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषाः प्रजाः प्रा᳘जायन्त॥
मूलम् - श्रीधरादि
(स्ता᳘) ता᳘ ऽएते᳘न हवि᳘षा प्रजा᳘पतिरभिषज्यत्॥
(त्त) तद्या᳘श्चै᳘वास्य प्रजा᳘ जाता आ᳘सन्याश्चा᳘जातास्ता᳘ ऽउभ᳘यीर्व्वरुणपाशात्प्रामुञ्चत्ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषाः प्रजाः प्रा᳘जायन्त॥
मूलम् - Weber
ता᳘ एते᳘न हविषा प्रजा᳘पतिरभिषज्यत्॥
तद्या᳘श्चैॗवास्य प्रजा जाता आ᳘सन्याश्चा᳘जातास्ता᳘ उभ᳘यीर्वरुणपाशात्प्रा᳘मुञ्चत्ता᳘ 3 अस्यानमीवा᳘ अकिल्विषाः प्रजाः प्रा᳘जायत॥
मूलम् - विस्वरम्
ता एतेन हविषा प्रजापतिरभिषज्यत् । तद्-याश्चैवास्य प्रजा जाता आसन्, याश्चाजाताः-ता उभयीर्वरुणपाशात्प्रामुञ्चत् । ता अस्थानमीवा अकिल्विषाः प्रजाः प्राजायन्त ॥ ३ ॥
सायणः
ता एतेनेत्यादि । वरुणपाशग्रहणजनितमुक्तविधं प्रकारमालोक्य 4 ‘प्रजापतिः’ ‘एतेन’ वरुणप्रघासाख्येन ‘हविषा’ ‘ताः’ प्रजाः ‘अभिषज्यत्’ अचिकित्सत् “भिषज् चिकित्सायाम्”- (कण्ड्वा २२ ।) इति धातुः । तेन च भेषजेन ‘जाताः’ ‘अजाताः’ जनिष्यमाणाश्चोभयविधाः ‘प्रजाः’ ‘वरुणपाशात्’ ‘प्रामुञ्चत्’ । तस्य विमोचने सति ‘अस्य’ प्रजापतेः प्रजाः ‘अनमीवाः’ रोगरहिताः ‘अकिल्बिषाः’ रोगनिदानभूतपापरहिताश्च अभवन्नित्यर्थः ॥ ३ ॥
Eggeling
- Prajāpati healed them by means of that oblation: both the creatures that were born and those that were unborn he delivered from Varuṇa’s noose; and his creatures were born without disease and blemish.
०४
विश्वास-प्रस्तुतिः
(न्ता᳘) अ᳘थ य᳘देष᳘ ऽएतै᳘श्चतुर्थे᳘ मासि य᳘जते॥
तन्ना᳘ह᳘ न्वे᳘वैत᳘स्य त᳘था प्रजा व्व᳘रुणो गृह्णातीति देवा᳘ ऽअकुर्व्वन्नि᳘ति᳘ न्वे᳘वैष᳘ एत᳘त्करोति या᳘श्च᳘ त्वेवास्य प्रजा᳘ जाता याश्चा᳘जातास्ता᳘ ऽउभ᳘यीर्व्वरुणपाशात्प्र᳘मुञ्चति ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्माद्वा᳘ ऽएष᳘ ऽएतै᳘श्चतुर्थे᳘ मासि᳘ यजते॥
मूलम् - श्रीधरादि
(न्ता᳘) अ᳘थ य᳘देष᳘ ऽएतै᳘श्चतुर्थे᳘ मासि य᳘जते॥
तन्ना᳘ह᳘ न्वे᳘वैत᳘स्य त᳘था प्रजा व्व᳘रुणो गृह्णातीति देवा᳘ ऽअकुर्व्वन्नि᳘ति᳘ न्वे᳘वैष᳘ एत᳘त्करोति या᳘श्च᳘ त्वेवास्य प्रजा᳘ जाता याश्चा᳘जातास्ता᳘ ऽउभ᳘यीर्व्वरुणपाशात्प्र᳘मुञ्चति ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्माद्वा᳘ ऽएष᳘ ऽएतै᳘श्चतुर्थे᳘ मासि᳘ यजते॥
मूलम् - Weber
अ᳘थ य᳘देष᳘ एतै᳘श्चतुर्थे᳘ मासि य᳘जते॥
तन्ना᳘ह न्वेॗवैत᳘स्य त᳘था प्रजा व᳘रुणो गृह्णाती᳘ति देवा᳘ अकुर्वन्नि᳘तिॗ न्वेॗवैष᳘ एत᳘त्करोति या᳘श्चॗ न्वेॗवास्य प्रजा᳘ जाता याश्चा᳘जातास्ता᳘ उभ᳘यीर्वरुणपाशात्प्र᳘मुञ्चति ता᳘ अस्यानमीवा᳘ अकिल्विषाः᳘ प्रजाः प्र᳘जायते त᳘स्माद्वा᳘ एष᳘ एतै᳘श्चतुर्थे᳘ मासि᳘ यजते॥
मूलम् - विस्वरम्
अथ यदेष एतैश्चतुर्थे मासि यजते, तन्नाह न्वेवैतस्य तथा प्रजा वरुणो गृह्णाति इति । देवा अकुर्वन्- इति त्वेवैष एतत्करोति- यांश्च त्वेवास्य प्रजा जाताः, याश्चाजाताः- ता उभयीर्वरुणपाशात्प्रञ्चति । ता अस्थानमीवा अकिल्विषाः प्रजाः प्रजायन्ते । तस्माद्वा एष एतैश्चतुर्थे मासि यजते ॥ ४ ॥
सायणः
विधत्ते- अथ यदिति । ‘अथ’- शब्दो वैश्वदेवानन्तर्य्ये । ‘एषः’ यजमानः वैश्वदेवानन्तरं ‘चतुर्थे मासि’ संपूर्णे सति ‘एतैः’ वक्ष्यमाणैर्हविर्भिः ‘यजते’ 4 अप्राप्तार्थत्वाद् वर्त्तमाननिर्द्देशे ऽपि विधिरुन्नेतव्यः । यच्छब्दो हेतौ; यस्माद्वरुणप्रघासैर्यजते, ‘तत्’ तस्मात् ‘अह’ ‘नु’ ‘एव’- इति निपाताः ‘नैव’ खलु ‘एतस्य’ यजमानस्य ‘प्रजाः’ तथा ‘वरुणो गृह्णाति’ । इति देवा इत्यादि । पुरा खलु ‘देवाः’ एवमेव वरुणप्रघासम् अकुर्वन्, ‘तु’- शब्दो ऽप्यर्थः । ‘एषः’ अपि यजमानः ‘इति’ एवम् ‘एव’ ‘एतत्’ एतर्हि ‘करोति’ ।
इत्थं मनुष्यकर्त्तृकयागस्य देवकर्त्तृकेन यागेन साम्यात् तादृक्फलसाधनत्वमाह- याश्चेति । उक्तार्थमेतत् । तस्माद्वा इति । वरुणप्रघासविधेर्निगमनम् ॥ ४ ॥
Eggeling
- Now when this (sacrificer) performs these offerings in the fourth month (after the Vaiśvadeva), he does so either because thus Varuṇa does not seize his offspring, or because the gods performed (the same offering); and both the children that have been born to him and those that are yet unborn he thereby delivers from Varuṇa’s noose, and his children are born without disease and blemish. This is why he performs these offerings in the fourth month.
०५
विश्वास-प्रस्तुतिः
तद्वै द्वे व्वे᳘दी द्वा᳘वग्नी᳘ भवतः॥
(स्त) तद्यद्द्वे वे᳘दी द्वावग्नी भ᳘वतस्त᳘दुभय᳘त एवैत᳘द्वरुणपाशात्प्रजाः प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्माद्द्वे वे᳘दी द्वा᳘वग्नी᳘ भवतः॥
मूलम् - श्रीधरादि
तद्वै द्वे व्वे᳘दी द्वा᳘वग्नी᳘ भवतः॥
(स्त) तद्यद्द्वे वे᳘दी द्वावग्नी भ᳘वतस्त᳘दुभय᳘त एवैत᳘द्वरुणपाशात्प्रजाः प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्माद्द्वे वे᳘दी द्वा᳘वग्नी᳘ भवतः॥
मूलम् - Weber
तद्वै द्वे वे᳘दी द्वा᳘वग्नी᳘ भवतः॥
तद्यद्द्वे वे᳘दी द्वा᳘वग्नी भ᳘वतस्त᳘दुभय᳘त एॗवैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्माद्द्वे वे᳘दी द्वा᳘वग्नी᳘ भवतः॥
मूलम् - विस्वरम्
तद्वै द्वे वेदी, द्वावग्नी भवतः । तद् यद् द्वे वेदी द्वावग्नी भवतः- तदुभयत एवैतद्वरुणपाशात् प्रजाः प्रमुञ्चति- इतश्चोर्द्ध्वाः, इतश्चावाचीः । तस्माद् द्वे वेदी, द्वावग्नी भवतः ॥ ५ ॥
सायणः
तेषु वरुणप्रघासेषु चोदकतो वेदेराहवनीयस्य चैकत्वे प्राप्ते द्वित्वं विधत्ते- तद्वै द्वे इति 5 । ‘तत्’ तत्र वरुणप्रघासेषु वेद्याहवनीययोर्द्वित्वमनूद्य प्रयोजनकथनेन स्तौति- तद्यदिति । दक्षिणत उत्तरतश्च स्थिताभ्यां वेदिभ्यामग्निभ्याम्, ‘तदुभयतः’ दक्षिणत उत्तरतश्च पार्श्वद्वयादेव ‘वरुणपाशात्’ ‘प्रजाः’ ‘प्रमुञ्चति’ । इतश्चोर्द्ध्वा इति । प्रागुक्तार्थम् (श. प. द्वि. कां. ५ । १ । २० । भा.) ॥ ५ ॥
Eggeling
- At this (sacrifice) there are two altars and two fires 6. The reason why there are two altars and two
fires, is that thereby one frees the creatures from Varuṇa’s noose both ways,–on the one side (he frees) the upright, and on the other those looking to the ground: this is why there are two altars and two fires.
०६
विश्वास-प्रस्तुतिः
स ऽउ᳘त्तरस्यामेव व्वेदौ॥
(दा ऽउ) उत्तरवेदि᳘मुपकिर᳘ति न द᳘क्षिणस्यां क्षत्रं व्वै व्व᳘रुणो व्वि᳘शो मरु᳘तः क्षत्र᳘मे᳘वैत᳘द्विश ऽउ᳘त्तरं करोति त᳘स्मादुपर्या᳘सीनं क्षत्रि᳘यमध᳘स्तादिमाः᳘ प्रजा ऽउ᳘पासते त᳘स्मादु᳘त्तरस्यामेव व्वे᳘दा ऽउत्तरवेदि᳘मुपकिर᳘ति न द᳘क्षिणस्याम्॥
मूलम् - श्रीधरादि
स ऽउ᳘त्तरस्यामेव व्वेदौ॥
(दा ऽउ) उत्तरवेदि᳘मुपकिर᳘ति न द᳘क्षिणस्यां क्षत्रं व्वै व्व᳘रुणो व्वि᳘शो मरु᳘तः क्षत्र᳘मे᳘वैत᳘द्विश ऽउ᳘त्तरं करोति त᳘स्मादुपर्या᳘सीनं क्षत्रि᳘यमध᳘स्तादिमाः᳘ प्रजा ऽउ᳘पासते त᳘स्मादु᳘त्तरस्यामेव व्वे᳘दा ऽउत्तरवेदि᳘मुपकिर᳘ति न द᳘क्षिणस्याम्॥
मूलम् - Weber
स उ᳘त्तरस्यामेव वे᳘दौ॥
उत्तरवेदि᳘मुपकिर᳘ति न द᳘क्षिणस्यां क्षत्र वै व᳘रुणो वि᳘शो मरु᳘तः क्षत्र᳘मेॗवैतद्वि᳘श उ᳘त्तरे करोति त᳘स्मादुपर्या᳘सीनं क्षत्रि᳘यमध᳘स्तादिमाः᳘ प्रजा उ᳘पासते त᳘स्मादु᳘त्तरस्यामेव वे᳘दा उत्तरवेदि᳘मुपकिर᳘ति न द᳘क्षिणस्याम्॥
मूलम् - विस्वरम्
स उत्तरस्यामेव वेदावुत्तरवेदिमुपकिरति, न दक्षिणस्याम् । क्षत्रं वै वरुणो, विशो मरुतः । क्षत्रमेवैतदु विश उत्तरं करोति । तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते । तस्मादुत्तरस्यामेव वेदा उत्तरवेदिमुपकिरति, न दक्षिणस्याम् ॥ ६॥
सायणः
उत्तरवेदिनिवपनं विधत्ते- स इति । द्वयोर्वेद्योर्या ‘उत्तरा’ उत्तरदिगवस्थिता तस्यामेव वेद्यामाहवनीयायतने ‘उत्तरवेदिम्’ ‘उपकिरति’ उपक्षिपति । एवकारयोर्व्यावर्त्यं दर्शयति- न दक्षिणस्यामिति । ‘दक्षिणस्यां’ वेदौ उत्तरवेदिः ‘न’ कार्येत्यर्थः । तच्चोत्तरवेदिनिर्माणं सूत्रकृतापि दर्शितम्- “उत्तरवेदिं निवपति उत्तरस्यां, शम्यामादाय चात्वालं मिमीते” इति (का. श्रौ. सू. ५ । ६४ । ६५) ॥
तदेतत् स्तौति- क्षत्रं वा इति । “यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः”- (श. प. ब्रा. १४ । ४ । २ । २३) इति अग्रे समाम्नास्यते; अतो वरुणो देवेषु मध्ये क्षत्रियः, मरुतो देवविशः तत्रोत्तरस्यामादौ वरुण इज्यते दक्षिणस्यां मरुतः । तत्रोत्तरस्यामेवोत्तरवेदेर्निवपनात्क्षत्रियजातिमेव वैश्यजातेरुत्तर उपस्थितां करोति । अत एवेदानीं लोके तथा दृश्यत इति प्रसिद्धिमुदाहरति- तस्मादिति ॥ ६ ॥
Eggeling
- On the northern (uttara) altar he raises the uttara-vedi (upper or north altar), not on the southern one. Varuṇa, doubtless, is the nobility, and the Maruts are the people: he thus makes the nobility superior (uttara) to the people; and hence people here serve the Kshatriya, placed above them. This is why he raises the uttara-vedi on the northern, not on the southern altar.
०७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थैता᳘न्येव प᳘ञ्च हवी᳘ᳫं᳘षि भवन्ति॥
एतैर्वै᳘ हवि᳘र्भिः प्रजा᳘पतिः प्रजा᳘ ऽअसृजतैतै᳘रुभय᳘तो व्वरुणपाशा᳘त्प्रजाः प्रामुञ्चदित᳘श्चोर्ध्वा᳘ इतश्चावाचीस्त᳘स्माद्वा᳘ ऽएता᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि भवन्ति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थैता᳘न्येव प᳘ञ्च हवी᳘ᳫं᳘षि भवन्ति॥
एतैर्वै᳘ हवि᳘र्भिः प्रजा᳘पतिः प्रजा᳘ ऽअसृजतैतै᳘रुभय᳘तो व्वरुणपाशा᳘त्प्रजाः प्रामुञ्चदित᳘श्चोर्ध्वा᳘ इतश्चावाचीस्त᳘स्माद्वा᳘ ऽएता᳘नि प᳘ञ्च हवी᳘ᳫँ᳘षि भवन्ति॥
मूलम् - Weber
अ᳘थैता᳘न्येव प᳘ञ्च हवीं᳘षि भवन्ति॥
एतैर्वै᳘ हवि᳘र्भिः प्रजा᳘पतिः प्रजा᳘ असृजतैतै᳘रुभय᳘तो वरुणपाशा᳘त्प्रजाः प्रा᳘मुञ्चदित᳘श्चोर्ध्वा᳘ 7 इतश्चा᳘वाचीस्त᳘स्माद्वा᳘ एता᳘नि प᳘ञ्च हवीं᳘षि भवन्ति॥
मूलम् - विस्वरम्
अथैतान्येव पञ्च हवींषि भवन्ति । एतैर्वै हविर्भिः प्रजापतिः प्रजा असृजत, एतैरुभयतो वरुणपाशात्प्राजाः प्रामुञ्चत्- इतश्चोर्द्ध्वाः इतश्चावाचीः । तस्माद्वा एतानि पञ्च हवींषि भवन्ति ॥ ७ ॥
सायणः
वैश्वदेवे पर्वणि आदितो यान्याग्नेयादीनि पञ्च हवींषि, (श. प. २ । १ । ८-११) तान्यत्रापि विधत्ते- अथैतानीति । अन्ययोगव्यवच्छेदार्थ एवकारः । तदेतत् 8 स्तौति- एतैर्वा इति । एतानि वरुणपाशविमोचने विहितानि हवींषि प्रजापतिः साधनत्वेन यतः प्रयुक्तं 9, अतो ऽत्रापि तेषामनुष्ठानमुपपन्नमित्यर्थः । इतश्चोर्द्ध्वा इति, व्याख्यातम् (श. प. द्वि. कां २ । ५ । १ । २० । भा०) ॥ ७ ॥
Eggeling
- In the first place there are those five oblations 10. For by means of those five oblations Prajāpati produced the creatures, with them he freed the creatures both ways from Varuṇa’s noose,–on the one side (he freed) the upright, and on the other those that tend to the ground: this is why there are those five oblations.
०८
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
प्राणोदानौ वा᳘ ऽइन्द्राग्नी तद्य᳘था पुण्यं चक्रुषे पु᳘ण्यं कुर्य्यादेवं तत्तयोर्है᳘वास्य हेतोः᳘ प्रजा न प᳘राबभूवुस्त᳘त्प्राणोदाना᳘भ्यामेवैत᳘त्प्रजा᳘ भिषज्य᳘ति प्राणोदानौ᳘ प्रजा᳘सु दधाति त᳘स्मादैन्द्राग्नौ द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
प्राणोदानौ वा᳘ ऽइन्द्राग्नी तद्य᳘था पुण्यं चक्रुषे पु᳘ण्यं कुर्य्यादेवं तत्तयोर्है᳘वास्य हेतोः᳘ प्रजा न प᳘राबभूवुस्त᳘त्प्राणोदाना᳘भ्यामेवैत᳘त्प्रजा᳘ भिषज्य᳘ति प्राणोदानौ᳘ प्रजा᳘सु दधाति त᳘स्मादैन्द्राग्नौ द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
मूलम् - Weber
अ᳘थैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
प्राणोदानौ वा᳘ इन्द्राग्नी तद्य᳘था पु᳘ण्यं 11 चक्रु᳘षे पु᳘ण्यं कुर्या᳘देवं तत्त᳘योर्हैॗवास्य हेतोः᳘ प्रजा न प᳘राबभूवुस्त᳘त्प्राणोदाना᳘भ्यामेॗवैत᳘त्प्रजा᳘ भिषज्य᳘ति प्राणोदानौ᳘ प्रजा᳘सु दधाति त᳘स्मादैन्द्राग्नौ द्वा᳘दशकपालः पुरोडा᳘शो भवति॥
मूलम् - विस्वरम्
अथेन्द्राग्नौ (१ । २) द्वादशकपालः पुरोडाशो भवति । प्राणोदानौ वा इन्द्राग्नी । तद्यथा- पुण्यं चक्रुषे पुण्यं कुर्यात्- एवं तत् । तयोर्हैवास्य हेतोः प्रजा न पराबभूवुः । तत् प्राणोदानाभ्यामेवैतत् प्रजा भिषज्यति । प्राणोदानौ प्रजासु दधाति । तस्मादैन्द्राग्नो द्वादशकपालः पुरोडाशो भवति ॥ ८ ॥
सायणः
षष्ठं भागं 8 विधत्ते- अथैन्द्राग्न इति 9 । तत् प्रशंसति- प्राणोदानावित्यादिना । तद्यथेति । ‘तत्’ तत्र लोके यथा ‘पुण्यं’ शोभनमुपकारं कृतवते प्रत्युपकाररूपं ‘पुण्यं’ शोभनं ‘कुर्यात्’, ‘एवम्’ एव तदिन्द्राग्न्योर्हविर्निर्वपणम् । ताभ्यां कृतमुपकारं दर्शयति- तयोरिति । प्राणोदानात्मकयोस्तयोरवस्थानादेव कारणात् ‘अस्य’ प्रजापतेः ‘प्रजा न पराबभूवुः’ प्रागाम्नातम् “प्राणोदानौ हैवाभ्यो नापचक्रमतुः”- (श. प. २ । ५ । २ । २) इति । तत् प्राणोदानाभ्यामित्यादि । ‘तत्’ तस्मात् प्राणोदानरूपयोरिन्द्राग्न्योर्यागाभ्याम् ‘एव’ ‘एतत्’ ‘प्रजाः’ वरुणपाशगृहीताः चिकित्सति, तौ ‘प्राणोदानौ’ एव तासु ‘प्रजासु’ स्थापयति । तस्मादिति । प्रतिपादितार्थनिगमनम् ॥ ८ ॥
Eggeling
- Then follows a cake on twelve potsherds for Indra and Agni. Indra and Agni indeed are the out-breathing and in-breathing: thus this is like
doing a good turn to one who has done him a good turn; for it is owing to these two that his creatures 12 did not perish. Hence he now restores his creatures by means of the out-breathing and in-breathing, bestows out-breathing and in-breathing on them: this is why there is a cake on twelve potsherds for Indra and Agni.
०९
विश्वास-प्रस्तुतिः
(त्यु) उभय᳘त्र पय᳘स्ये भवतः॥
प᳘यसो वै᳘ प्रजाः स᳘म्भवन्ति प᳘यसः स᳘म्भूतास्तद्य᳘त ऽएव स᳘म्भूता य᳘तः सम्भ᳘वन्ति त᳘त ऽए᳘वैत᳘दुभय᳘तो व्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘स्मादुभय᳘त्र पय᳘स्ये भवतः॥
मूलम् - श्रीधरादि
(त्यु) उभय᳘त्र पय᳘स्ये भवतः॥
प᳘यसो वै᳘ प्रजाः स᳘म्भवन्ति प᳘यसः स᳘म्भूतास्तद्य᳘त ऽएव स᳘म्भूता य᳘तः सम्भ᳘वन्ति त᳘त ऽए᳘वैत᳘दुभय᳘तो व्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘स्मादुभय᳘त्र पय᳘स्ये भवतः॥
मूलम् - Weber
उभय᳘त्र पयॗस्ये भवतः॥
पयसो वै᳘ प्रजाः स᳘म्भवन्ति प᳘यसः स᳘म्भूतास्तद्य᳘त एव स᳘म्भूता य᳘तः सम्भ᳘वन्ति त᳘त एॗवैत᳘दुभय᳘तो वरुणपाशात्प्रजाः प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्मादुभय᳘त्र पयॗस्ये भवतः॥
मूलम् - विस्वरम्
उभयत्र पयस्ये (३ । ४) भवतः । पयसो वै प्रजाः सम्भवन्ति, पयसः सम्भूताः । तद्यत एव सम्भूताः, यतः सम्भवन्ति- तत एवैतदुभयतो वरुणपाशात्- प्रजाः प्रमुञ्चति- इतश्चोर्ध्वाः, इतश्चावाचीः । तस्मादुभयत्र पयस्ये भवतः ॥ ९ ॥
सायणः
वेदिद्वये ऽपि पयस्यां विधत्ते- उभयत्रेति । (का. श्रौ. १ । २४८ । का. सू. ५ । १०२) ‘उभयत्र’ अध्वर्युकर्तृकायामुत्तरस्यां वेद्यां प्रतिप्रस्थातृकर्तृकायां दक्षिणस्यां च द्वे ‘पयस्ये’ हविषी ‘भवतः’ वरुणपाशविमोचनानुकूल्यं पयस्यायाः प्रतिपादयति- पयसो वा इति । पुरा प्रजापतिना सृष्टाः ‘प्रजाः’ तदीयस्तन्यरूपात् ‘पयसः’ ‘सम्भूताः’ वर्द्धिताः, इदानीमपि मानुषाः स्तन्यरूपात् पयस एव ‘सम्भवन्ति’ वर्द्धन्ते । तद्यत एवेति । अस्यार्थस्यानुवादः । ‘तत एव’ सम्भूतिहेतोः ‘पयसः’ कारणात् ‘उभयतः’ दक्षिणत उत्तरतश्च पार्श्वद्वयात्, प्रजानां वरुणपाशविमोचनं कृतवान् भवति ॥ ९ ॥
Eggeling
- On both (fires) there is an oblation of curds. It is on milk that the creatures subsist and by means of milk that they were preserved: hence it is with that by which they were preserved and whereon they subsist, that he delivers them both ways from Varuṇa’s noose,–on the one side (he delivers) the upright and on the other those looking to the ground. This is why there is an oblation of curds on both (fires).
१०
विश्वास-प्रस्तुतिः
(तो) व्वारुण्युत्तरा भवति॥
व्व᳘रुणो ह वा᳘ ऽअस्य प्रजा᳘ अगृह्णात्त᳘त्प्रत्य᳘क्षं व्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति मारुती द᳘क्षिणा᳘ ऽजामितायै᳘ न्वेव मारुती᳘ भवति जामि᳘ ह कुर्य्याद्य᳘दुभे᳘ व्वारु᳘ण्यौ स्या᳘ताम᳘तो ह वा᳘ ऽअस्य दक्षिणतो᳘ मरु᳘तः प्रजा᳘ अजिघाᳫँ᳭संस्ता᳘नेते᳘न भागे᳘नाशमयत्त᳘स्मान्मारुती द᳘क्षिणा॥
मूलम् - श्रीधरादि
(तो) व्वारुण्युत्तरा भवति॥
व्व᳘रुणो ह वा᳘ ऽअस्य प्रजा᳘ अगृह्णात्त᳘त्प्रत्य᳘क्षं व्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति मारुती द᳘क्षिणा᳘ ऽजामितायै᳘ न्वेव मारुती᳘ भवति जामि᳘ ह कुर्य्याद्य᳘दुभे᳘ व्वारु᳘ण्यौ स्या᳘ताम᳘तो ह वा᳘ ऽअस्य दक्षिणतो᳘ मरु᳘तः प्रजा᳘ अजिघाᳫँ᳭संस्ता᳘नेते᳘न भागे᳘नाशमयत्त᳘स्मान्मारुती द᳘क्षिणा॥
मूलम् - Weber
वारुण्यु᳘त्तरा भवति॥
व᳘रुणो ह वा᳘ अस्य प्रजा᳘ अगृह्णात्त᳘त्प्रत्य᳘क्षं वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति मारुती द᳘क्षिणा᳘जामितायैॗ न्वेव᳘ मारुती᳘ भवति जामि᳘ ह कुर्याद्य᳘दुभे᳘ वारुॗण्यौ स्या᳘ताम᳘तो ह वा᳘ अस्य दक्षिणतो᳘ मरु᳘तः प्रजा᳘ अजिघांसंस्ता᳘नेते᳘न भागे᳘नाशमयत्त᳘स्मान्मारुती द᳘क्षिणा॥
मूलम् - विस्वरम्
वारुण्युत्तरा भवति । वरुणो ह वा अस्य प्रजा अगृह्णात्- तत्प्रत्यक्षं वरुणपाशात्प्रजाः प्रमुञ्चति । मारुती दक्षिणा । अजामितायै, न्वेव मारुती भवति । जामि ह कुर्यात्- यदुभे वारुण्यौ स्याताम् । अतो ह वा अस्य दक्षिणतो मरुतः प्रजा अजिघांसन्, तानेतेन भागेनाशमयत् । तस्मान्मारुती दक्षिणा ॥ १० ॥
सायणः
अध्वर्युकर्तृकायाः पयस्याया देवतां विधाय स्तौति- वारुणीति । उत्तरस्यां वेद्यां या पयस्या, सा वरुणदेवताका कार्या । तत्प्रत्यक्षमिति । देवतान्तरयागेन वरुणपाशविमोचनं परोक्षम्, वरुणदेवताकेन तु यागेन ‘तत्’ पाशविमोचनं ‘प्रत्यक्षम्’ एवेति वरुणदेवताकत्वं युक्ततरमित्यर्थः ॥
प्रतिप्रस्थातृकर्त्तृकायाः पयस्याया देवतां विधाय स्तौति- मारुती दक्षिणेति । ‘दक्षिणा’ दक्षिणस्यां वेदौ क्रियमाणा पयस्या मरुद्देवताका भवेत् । अजामिताया इति । वरुणदेवतां परित्यज्य ‘अस्याः’ पयस्याया यत् मरुल्लक्षणदेवतान्तरकरणम्, तत् जामितादोषराहित्याय भवति । व्यतिरेकेण तदेवाह- जामीति । ‘यद्’ यदि ‘उभे’ अपि दक्षिणोत्तरपयस्ये वरुणदेवताके स्याताम्, तदा प्रयुक्ताया एव देवतायाः पुनः प्रयोगो नवीकरणाभावादलसतारूपजामितादोषः स्यादित्यर्थः ॥
मारुतत्वे कारणान्तरमाह- अतो ह वा इति । ‘अतः’ अस्माद्वक्ष्यमाणादपि हेतोः दक्षिणा पयस्या मारुती कार्या । अस्य हि प्रजापतेः सम्बन्धिनीः प्रजाः पुरा दक्षिणतो दक्षिणदिग्भागेन मरुतः ‘अजिघांसन्’ हन्तुमैच्छन्; तान् मरुतः प्रजापतिरेतेन पयस्यारूपेण भागेनाशमयत् शान्तिमनयत् । तस्माद् दक्षिणतः स्थितानां मरुतामुपशमनाय दक्षिणतः क्रियमाणैषा पयस्या मारुती कार्येत्यर्थः ॥ १० ॥
Eggeling
- The northern one is offered to Varuṇa, since it was Varuṇa who seized his (Prajāpati’s) creatures: hence he thereby directly delivers them from Varuṇa’s noose. The southern one is offered to the Maruts. It is for the sake of diversity that it is offered to the Maruts; for a repetition he would undoubtedly commit, were he to offer both to Varuṇa. Moreover, it was from the south that the Maruts intended to slay his (Prajāpati’s) creatures, and with that share he propitiated them: for this reason the southern (oblation of curds) belongs to the Maruts.
११
विश्वास-प्रस्तुतिः
त᳘योरुभ᳘योरेव᳘ करी᳘राण्या᳘वपति॥
कं वै᳘ प्रजा᳘पतिः प्रजा᳘भ्यः करी᳘रैरकुरुत क᳘म्वे᳘वैष᳘ ऽएत᳘त्प्रजा᳘भ्यः कुरुते॥
मूलम् - श्रीधरादि
त᳘योरुभ᳘योरेव᳘ करी᳘राण्या᳘वपति॥
कं वै᳘ प्रजा᳘पतिः प्रजा᳘भ्यः करी᳘रैरकुरुत क᳘म्वे᳘वैष᳘ ऽएत᳘त्प्रजा᳘भ्यः कुरुते॥
मूलम् - Weber
त᳘योरुभ᳘योरेव᳘ करी᳘राण्या᳘वपति॥
कं वै᳘ प्रजा᳘पतिः प्रजा᳘भ्यः करी᳘रैरकुरुत क᳘म्वेॗवैष᳘ एत᳘त्प्रजा᳘भ्यः कुरुते॥
मूलम् - विस्वरम्
तयोरुभयोरेव करीराण्यावपति । कं वै प्रजापतिः प्रजाभ्यः करीरैरकुरुत । कम्वेवैष एतत् प्रजाभ्यः कुरुते ॥ ११ ॥
सायणः
करीराणामावपनं विधाय स्तौति- तयोरिति । तयोरुभयोः पयस्ययोः करीराणि प्रक्षिपेत् (तै. सं. २ । ४ । ९ । ४) मधुराः फलविशेषाः करीराणि; तानि चोत्तरापथे प्रसिद्धानि । कं वा इत्यादि । ‘करीरैः’ एतैः करीरफलैः ‘प्रजापतिः’ ‘प्रजाभ्यः’ अस्माकं यस्मात् ‘कं’ सुखम् ‘अकुरुत’ तस्मादिदानीमप्येष यजमानस्तदावपनेन सुखमेव प्रजाभ्यः कुरुते ॥ ११ ॥
Eggeling
- Upon both (dishes of curds) he scatters karīra-fruits 13; for with karīra-fruits Prajāpati
bestowed happiness (ka) on the creatures, and so does he (the sacrificer) thereby bestow happiness on the creatures.
१२
विश्वास-प्रस्तुतिः
त᳘योरुभ᳘योरेव᳘ शमीपलाशान्या᳘वपति॥
शं व्वै᳘ प्रजा᳘पतिः प्रजा᳘भ्यः शमीपलाशै᳘रकुरुत श᳘म्वे᳘वैष ऽएत᳘त्प्रजा᳘भ्यः कुरुते॥
मूलम् - श्रीधरादि
त᳘योरुभ᳘योरेव᳘ शमीपलाशान्या᳘वपति॥
शं व्वै᳘ प्रजा᳘पतिः प्रजा᳘भ्यः शमीपलाशै᳘रकुरुत श᳘म्वे᳘वैष ऽएत᳘त्प्रजा᳘भ्यः कुरुते॥
मूलम् - Weber
त᳘योरुभ᳘योरेव᳘ शमीपलाशान्या᳘वपति॥
शं वै᳘ प्रजा᳘पतिः प्रजा᳘भ्यः शमीपलाशै᳘रकुरुत श᳘म्वेॗवैष एत᳘त्प्रजा᳘भ्यः कुरुते॥
मूलम् - विस्वरम्
तयोरुभयोरेव शमीपलाशान्यावपति । कं वै प्रजापतिः प्रजाभ्यः शमीपलाशैरकुरुत । शम्वेवैष एतत् प्रजाभ्यः कुरुते ॥ १२ ॥
सायणः
शमीपर्णानामावपनं विधत्ते- तयोरिति । ‘शमीपलाशानि’ शम्याः पर्णानीत्यर्थः । शं वा इत्यादि । ‘शम्’ उपद्रवाणां शमनमित्यर्थः । स्पष्टमन्यत् । अत एवोक्तं कात्यायनेन- “उभयोः करीराण्यावपति शमीपलाशमिश्राणि”- इति (का. श्रौ. सू. ५ । ११२) ॥ १२ ॥
Eggeling
- Upon both of them he also scatters śamī-leaves; for with śamī-leaves Prajāpati bestowed bliss (śam) on the creatures, and so does he now thereby bestow bliss on the creatures.
१३
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ काय ऽए᳘ककपालः पुरोडा᳘शो भवति॥
कं वै᳘ प्रजा᳘पतिः प्रजाभ्यः कायेनै᳘ककपालेन पुरोडा᳘शेनाकुरुत क᳘म्वे᳘वैष᳘ ऽएत᳘त्प्रजा᳘भ्यः कायेनै᳘ककपालेन पुरोडा᳘शेन कुरुते त᳘स्मात्काय ए᳘ककपालः पुरोडा᳘शो भवति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ काय ऽए᳘ककपालः पुरोडा᳘शो भवति॥
कं वै᳘ प्रजा᳘पतिः प्रजाभ्यः कायेनै᳘ककपालेन पुरोडा᳘शेनाकुरुत क᳘म्वे᳘वैष᳘ ऽएत᳘त्प्रजा᳘भ्यः कायेनै᳘ककपालेन पुरोडा᳘शेन कुरुते त᳘स्मात्काय ए᳘ककपालः पुरोडा᳘शो भवति॥
मूलम् - Weber
अ᳘थ काय ए᳘ककपालः पुरोडा᳘शो भवति॥
कं वै᳘ प्रजा᳘पतिः प्रजा᳘भ्यः कायेनै᳘ककपालेन पुरोडा᳘शेनाकुरुत क᳘म्वेॗवैष᳘ एत᳘त्प्रजा᳘भ्यः कायेनै᳘ककपालेन पुरोडा᳘शेन कुरुते त᳘स्मात्काय ए᳘ककपालः पुरोडा᳘शो भवति॥
मूलम् - विस्वरम्
अथ काय ( ५ ) एककपालः पुरोडाशो भवति । कं वै प्रजापतिः प्रजाभ्यः कायेनैककपालेन पुरोडाशेनाकुरुत । कम्वेवैष एतत् प्रजाभ्यः कायेनैककपालेन पुरोडाशेन कुरुते । तस्मात् काय एककपालः पुरोडाशो भवति ॥ १३ ॥
सायणः
अथान्तिमं हविर्विधत्ते- अथ काय इति । कः प्रजापतिर्देवता अस्य, “सा ऽस्य देवता”- इत्यणि “कस्येत्”- (पा. सू. ४ । २ । २४, २५) इति ‘क’- शब्दस्येकारान्तादेशः । एतस्य हविषः प्रयोजनमाह- कं वा इति । सुखात्मको हि प्रजापतिः ‘क’- शब्दवाच्यः । अतस्तद्देवताकेन यागेन सुखकरणमुपपन्नमिति भावः ॥ १३ ॥
Eggeling
- Then follows a cake on one potsherd for Ka (Prajāpati); for by that cake on one potsherd to Ka Prajāpati indeed bestowed happiness (ka) on the creatures, and so does he (the sacrificer) now bestow happiness on the creatures by that one-cup cake: this is why there is a cake on one potsherd for Ka.
१४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ पूर्व्वेद्युः᳘॥
(र) अन्वाहार्यप᳘चने ऽतुषानिव य᳘वान्कृत्वा ता᳘नीष᳘दिवोपत᳘प्य ते᳘षां करम्भपात्रा᳘णि कुर्व्वन्ति या᳘वन्तो गृ᳘ह्याः स्युस्ता᳘वन्त्ये᳘केना᳘तिरिक्तानि॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ पूर्व्वेद्युः᳘॥
(र) अन्वाहार्यप᳘चने ऽतुषानिव य᳘वान्कृत्वा ता᳘नीष᳘दिवोपत᳘प्य ते᳘षां करम्भपात्रा᳘णि कुर्व्वन्ति या᳘वन्तो गृ᳘ह्याः स्युस्ता᳘वन्त्ये᳘केना᳘तिरिक्तानि॥
मूलम् - Weber
अ᳘थ पूर्वेद्युः᳟॥
अन्वाहार्यप᳘चने ऽतुषानिव य᳘वान् कृत्वा ता᳘नीष᳘दिवोपत᳘प्य ते᳘षां करम्भपात्रा᳘णि कुर्वन्ति या᳘वन्तो गृ᳘ह्याः स्मुस्ता᳘वन्त्ये᳘केना᳘तिरिक्तानि॥
मूलम् - विस्वरम्
अथ पूर्वेद्युरन्वाहार्यपचने ऽतुषानिव यवान् कृत्वा, तानीषदिवोपतप्य, तेषां करम्भपात्राणि कुर्वन्ति, यावन्तो गृह्याः स्युः तावन्ति, एकेनातिरिक्तानि ॥ १४ ॥
सायणः
करम्भपात्राणां निर्माणं विधत्ते 14- अथ पूर्वेद्युरिति । यस्मिन् दिवसे वरुणप्रघासयागः ततः पूर्वेद्युः पूर्वे दिवसे । अन्वाहार्यपचने इति । अन्वाहार्य्यो नामेष्टिः । दक्षिणदिग्भागे मरुतः ‘अजिघांसन्’ हन्तुमैच्छन् तान् प्रजापतिरेतेन पयस्यारूपेण भागेन ‘अशमयत्’ शमितवानिति यावत्, तस्माद्दक्षिणात्वेन देय ओदनो यस्मिन् पच्यते स तथोक्तः । तस्मिन् दक्षिणाग्नौ ‘अतुषान्’ तुषरहितान् ‘कृत्वा’ सम्पूर्य्य ‘तान्’ ‘ईषदिव’ अत्यल्पमिव ‘उपतप्य’ श्रपयित्वोदकेनालोड्य तैः ‘करम्भपात्राणि’ भृष्टयवचूर्णाः 15 करम्भाः 16, तन्मयानि पात्राणि ‘कुर्वन्ति’ अध्वर्य्युयजमानादयः । कियन्ति तानि पात्राणीत्यपेक्षायामाह- यावन्त इति । यावत्सङ्ख्याका यजमानस्य ‘गृह्याः’ स्वगृहे वर्त्तमानाः पुत्रपौत्रादिरूपा ज्ञातयो भवेयुः, ‘तावन्ति’ तावत्सङ्ख्याकानि कर्म्मपात्राणि कार्य्याणि तानि च जनिष्यमाणापत्यार्थम्, एकेन ‘अतिरिक्तानि’ अधिकानि कार्य्याणि ॥ १४ ॥
Eggeling
- And on the first day, after husking and slightly roasting barley on the Dakshiṇāgni, they prepare therewith as many dishes of karambha 17 as there are members of the (sacrificer’s) family, exceeded by one.
१५
विश्वास-प्रस्तुतिः
तत्रा᳘पि मेषं᳘ च मेषीं᳘ च कुर्व्वन्ति॥
त᳘योर्मेषे᳘ च मेष्यां च यद्य᳘नैडकीरू᳘र्णा व्विन्देत्ताः᳘ प्रणि᳘ज्य नि᳘श्लेषयेद्य᳘द्यु ऽअ᳘नैडकीर्न व्विन्देद᳘थो ऽअ᳘पि कुशोर्णा᳘ ऽएव᳘ स्युः॥
मूलम् - श्रीधरादि
तत्रा᳘पि मेषं᳘ च मेषीं᳘ च कुर्व्वन्ति॥
त᳘योर्मेषे᳘ च मेष्यां च यद्य᳘नैडकीरू᳘र्णा व्विन्देत्ताः᳘ प्रणि᳘ज्य नि᳘श्लेषयेद्य᳘द्यु ऽअ᳘नैडकीर्न व्विन्देद᳘थो ऽअ᳘पि कुशोर्णा᳘ ऽएव᳘ स्युः॥
मूलम् - Weber
तत्रा᳘पि मेषं᳘ च मेषीं᳘ च कुर्वन्ति॥
त᳘योर्मेषे᳘ च मेष्यां᳘ च यद्य᳘नैडकीरू᳘र्णी 18 विन्देत्ताः᳘ प्रणि᳘ज्य नि᳘श्लेषयेद्य᳘द्यु अ᳘नैडकीर्न᳘ विन्देद᳘थो अपि कुशीर्णा᳘ एव᳘ स्युः॥
मूलम् - विस्वरम्
तत्रापि मेषं च मेषीं च कुर्वन्ति । तयोर्मेषे च मेष्यां च यद्यनैडकीरूर्णा विन्देत्- ताः प्रणिज्य निश्लेषयेत् । यद्यु अनैडकीर्न विन्देत्- अथो ऽअपि कुशोर्णा एव स्युः ॥ १५ ॥
सायणः
करम्भपात्रावशिष्टाद् यवपिष्टादेव मेषमेषीलक्षणमिथुनस्य निर्माणं विधत्ते- तत्रापीति । ‘अपि’- शब्द एवकारार्थः । ‘तत्र’ करम्भपात्रनिर्माणसमये एव, तेनैव पिष्टेन मेषमेष्यौ कर्तव्ये । तयोरिति 19 । सम्भूयानूदितयोः मेषे च मेष्याश्च इति पृथगुपादानं विस्पष्टार्थम् । यद्यनैडकीरिति 15 । एडको 16 मेषः, तत्सम्बन्धरहिता अनैडक्यः, ‘ऊर्णाः’ कम्बलोपादानभूतानि तज्जातीयानि 20 रोममयानि सूत्राणि यदि तास्तथाविधा ऊर्णाः ‘विन्देत्’ लभेत तदा ‘ताः’ ‘प्रणिज्य’ प्रक्षाल्य तयोः मेषमेष्योः ‘निश्लेषयेत्’ संश्लेषयेत् ‘यद्यु’ यदि खलु ‘अनैडकीः’ 21 ऊर्णाः ‘न विन्देत्’ न लभेत, तर्हि ‘कुशोर्णा 22 एव स्युः’ कुशमय्य एवोर्णाः, तयोः मेषमेष्योः संश्लेषणीयाः स्युः भवेयुः ॥ १५ ॥
Eggeling
- At the same time they also prepare a ram and a ewe; and if he be able to procure wool other than from eḍaka sheep, let him wash it and stick it on both the ram and the ewe; but should he not be able to procure wool other than from eḍaka sheep, tufts of kuśa grass may also be (used).
१६
विश्वास-प्रस्तुतिः
(स्त) तद्य᳘न्मेष᳘श्च मेषी᳘ च भ᳘वतः॥
(ऽ) एष वै᳘ प्रत्य᳘क्षं व्व᳘रुणस्य पशुर्य᳘न्मेषस्त᳘त्प्रत्य᳘क्षं व्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति यवम᳘यौ भवतो य᳘वान् हि᳘ जक्षुषी र्व्वरुणो᳘ ऽगृह्णान्मिथुनौ᳘ भवतो मिथुना᳘दे᳘वैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति॥
मूलम् - श्रीधरादि
(स्त) तद्य᳘न्मेष᳘श्च मेषी᳘ च भ᳘वतः॥
(ऽ) एष वै᳘ प्रत्य᳘क्षं व्व᳘रुणस्य पशुर्य᳘न्मेषस्त᳘त्प्रत्य᳘क्षं व्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति यवम᳘यौ भवतो य᳘वान् हि᳘ जक्षुषी र्व्वरुणो᳘ ऽगृह्णान्मिथुनौ᳘ भवतो मिथुना᳘दे᳘वैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति॥
मूलम् - Weber
तद्य᳘न्मेष᳘श्च मेषी᳘ च भ᳘वतः॥
एष वै᳘ प्रत्य᳘क्षं व᳘रुणस्य पशुर्य᳘न्मेषस्त᳘त्प्रत्य᳘क्षं वरुणपा᳘शा᳘त्प्रजाः प्र᳘मुञ्चति यवम᳘यौ भवतो य᳘वान्हि᳘ जक्षु᳘षीर्व᳘रुणो᳘ ऽगृह्णान्मिथुनौ᳘ भवतो मिथुना᳘देॗवैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति॥
मूलम् - विस्वरम्
तद् यन्मेषश्च मेषी च भवतः । एष वै प्रत्यक्षं वरुणस्य पशुः- यन्मेषः । तत्प्रत्यक्षं वरुणपाशात् प्रजाः प्रमुञ्चति । यवमयौ भवतः । यवान् हि जक्षुषीर्वरुणो ऽगृह्णात् । मिथुनौ भवतः- मिथुनादेवैतत् वरुणपाशात् प्रजाः प्रमुञ्चति ॥ १६ ॥
सायणः
मेषमेष्योः करणमनूद्य स्तौति- तद्यदिति । वरुणस्य पशुर्यन्मेष इति । ‘यद्’ ‘एषः’ खलु ‘प्रत्यक्षं’ ‘वरुणस्य’ हविर्भूतः ‘पशुः’ अत एव पश्वेकादशिन्याम्- ‘अधोरामः सावित्रो वारुणः कृष्ण एकशितिपात् पेत्वः’ इत्याम्नायते (वा. सं. २९ । ५८) । पेत्वो विगतपुंस्को मेष इति हि तदर्थः । यवमयाविति । यवपयश्च मेषो यवमयी च मेषी । “पुमान्स्त्रिया” (पा. सू. १-२-६७) इति पुंसः शेषः । यवविकारौ भवत इत्यर्थः । यवान् हीति । ‘हि’ यस्माद् ‘यवान्’ ‘जक्षुषीः’ भक्षितवतीः प्रजाः ‘वरुणः’ पाशेन ‘अगृह्णात्’ अतस्तद्यवप्रत्यर्पणाय मेषमेष्योर्यवमयत्वं सम्पद्यत इत्यर्थः । तयोः स्त्रीपुंसरूपतामनूद्य स्तौति- मिथुनौ भवत इति। ‘मिथुनाद्’- इत्येतद् ‘वरुणपाशाद्’- इत्यस्य विशेषणम् । द्वैरूप्याधिकरणाधिकरणात् दक्षिणस्यां मेषो न अपि तु वैयधिकरण्येन तत्प्रमोचने हेतुः 23 ॥ १६ ॥
Eggeling
- The reason why there are a ram and a ewe is chat the ram manifestly is Varuṇa’s victim, so that he thereby manifestly delivers the creatures from Varuṇa’s noose. They are made of barley, because it was when they (the creatures) had eaten barley that Varuṇa seized them. A pair they form, so that he
delivers the creatures from Varuṇa’s noose through conjugal union.
१७
विश्वास-प्रस्तुतिः
स उ᳘त्तरस्यामेव᳘ पय᳘स्यायां मेषी᳘मवद᳘धाति॥
द᳘क्षिणस्यां मेष᳘मेव᳘मिव हि᳘ मिथुनं᳘ कॢप्त᳘मुत्तरतो हि स्त्री पु᳘माᳫंसमुपशेते॥
मूलम् - श्रीधरादि
स उ᳘त्तरस्यामेव᳘ पय᳘स्यायां मेषी᳘मवद᳘धाति॥
द᳘क्षिणस्यां मेष᳘मेव᳘मिव हि᳘ मिथुनं᳘ कॢप्त᳘मुत्तरतो हि स्त्री पु᳘माᳫंसमुपशेते॥
मूलम् - Weber
स उ᳘त्तरस्यामेव᳘ पयॗस्यायाम् मेषी᳘मवद᳘धाति॥
द᳘क्षिणस्याम् मेष᳘मेव᳘मिव हि᳘ मिथुनं᳘ कॢप्त᳘मुत्तरतो हि स्त्री पु᳘मांसमुपशे᳘ते॥
मूलम् - विस्वरम्
स उत्तरस्यामेव पयस्यायां मेषीमवदधाति, दक्षिणस्यां मेषम् । एवमिव हि मिथुनं क्लृप्तम् । उत्तरतो हि स्त्री पुमांसमुपशेते ॥ १७ ॥
सायणः
अथ 23 तयोः प्रक्षेपं विधत्ते- स इति । अध्वर्युकर्तृकायाम् ‘उत्तरस्याम्’ पयस्यायाम् एव ‘मेषीम्’ ‘अवदधाति’ प्रक्षिपति । प्रतिप्रस्थातृकर्तृकायां ‘दक्षिणस्यां’ मेषं प्रक्षिपति । अनयोर्दक्षिणोत्तरभावं लोकन्यायेनोपपादयति- एवमिवेति ॥ १७ ॥
Eggeling
- The ewe he places on the southern, and the ram on the northern dish of curds; for in this way alone a proper union is effected, since the woman lies on the left (or north) side of the man.
१८
विश्वास-प्रस्तुतिः
स स᳘र्व्वाण्येव᳘ हवी᳘ᳫं᳘ष्यध्व᳘र्युः॥
(रु᳘) उ᳘त्तरस्यां व्वे᳘दावा᳘सादयत्य᳘थैता᳘मेव᳘ पय᳘स्यां प्रतिप्रस्थाता द᳘क्षिणस्यां व्वे᳘दावा᳘सादयति॥
मूलम् - श्रीधरादि
स स᳘र्व्वाण्येव᳘ हवी᳘ᳫं᳘ष्यध्व᳘र्युः॥
(रु᳘) उ᳘त्तरस्यां व्वे᳘दावा᳘सादयत्य᳘थैता᳘मेव᳘ पय᳘स्यां प्रतिप्रस्थाता द᳘क्षिणस्यां व्वे᳘दावा᳘सादयति॥
मूलम् - Weber
स स᳘र्वाण्येव᳘ हवीं᳘ष्यध्वर्युः॥
उ᳘त्तरस्यां वे᳘दावा᳘सादयत्य᳘थैता᳘मेव᳘ पयॗस्याम् प्रतिप्रस्थाता द᳘क्षिणस्यां वे᳘दावा᳘सादयति॥
मूलम् - विस्वरम्
स सर्वाण्येव हवींष्यध्वर्युरुत्तरस्यां वेदावासादयति- अथैतामेव पयस्यां प्रतिप्रस्थाता दक्षिणस्यां वेदावासादयति ॥ १८ ॥
सायणः
हविषामासादनं विधत्ते- स सर्वाण्येवेति । आग्नेयादीनि ‘सर्वाण्येव हवींषि’ ‘उत्तरस्यां’ ‘वेदौ’ वेद्यां ‘सः अध्वर्युः’ ‘आसादयेत्’, ‘प्रतिप्रस्थाता’ तु ‘एताम्’ मारुतीं ‘पयस्यामेव’ ‘दक्षिणस्यां’ वेद्यामासादयेदित्यर्थः 23 ॥ १८ ॥
Eggeling
- The Adhvaryu places all the (other) sacrificial dishes upon the northern altar; and the Pratiprasthātr̥ places on the southern altar that dish of curds (belonging to the Maruts).
१९
विश्वास-प्रस्तुतिः
(त्या) आसा᳘द्य᳘ हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥
(त्य) अग्निं᳘ मन्थि᳘त्वानु प्रहृ᳘त्याभि᳘जुहोत्य᳘थाध्वर्युरे᳘वाहाग्न᳘ये समिध्य᳘मानाया᳘नुब्रूहीति ता᳘ ऽउभा᳘वे᳘वेध्मा᳘वभ्या᳘धत्त ऽउभौ᳘ समि᳘धौ प᳘रिशिᳫं᳭ष्ट ऽउभौ पू᳘र्व्वावाघारा᳘वा᳘घारयतो᳘ ऽथाध्वर्यु᳘रे᳘वाहाग्नि᳘मग्नीत्स᳘म्मृड्ढीत्य᳘सम्मृष्टमेव भ᳘वति सम्प्रेषितम्॥
मूलम् - श्रीधरादि
(त्या) आसा᳘द्य᳘ हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥
(त्य) अग्निं᳘ मन्थि᳘त्वानु प्रहृ᳘त्याभि᳘जुहोत्य᳘थाध्वर्युरे᳘वाहाग्न᳘ये समिध्य᳘मानाया᳘नुब्रूहीति ता᳘ ऽउभा᳘वे᳘वेध्मा᳘वभ्या᳘धत्त ऽउभौ᳘ समि᳘धौ प᳘रिशिᳫं᳭ष्ट ऽउभौ पू᳘र्व्वावाघारा᳘वा᳘घारयतो᳘ ऽथाध्वर्यु᳘रे᳘वाहाग्नि᳘मग्नीत्स᳘म्मृड्ढीत्य᳘सम्मृष्टमेव भ᳘वति सम्प्रेषितम्॥
मूलम् - Weber
आसा᳘द्य हवीं᳘ष्यग्नि᳘म् मन्थति॥
अग्नि᳘म् मन्थिॗत्वानुप्रहृ᳘त्याभि᳘जुहोत्य᳘थाध्वर्यु᳘रेॗवाहाग्न᳘ये समिध्य᳘मानाया᳘नुब्रूही᳘ति ता᳘ उभा᳘वेॗवेध्मा᳘वभ्या᳘धत्त उभौ᳘ समिधौ प᳘रिशिंष्ट उभौ पू᳘र्वावाघारावा᳘घारयतो᳘ ऽथाध्वर्यु᳘रेॗवाहाग्नि᳘मग्नीत्स᳘म्मृड्ढीत्य᳘सम्मृष्टमेव भ᳘वति सम्प्रे᳘षितम्॥
मूलम् - विस्वरम्
आसाद्य हवींष्यग्निं मन्थति । अग्निं मन्थित्वा ऽनुप्रहृत्याभिजुहोति । अथाध्वर्युरेवाह- “अग्नये समिध्यमानायानुब्रूहि” इति । ता उभावेवेध्मावभ्याधत्तः, उभौ समिधौ परिशिष्टः । उभौ पूर्वावाघारावाघारयतः । अथाध्वर्युरेवाह- ‘अग्निमग्नीत् सम्मृड्ढि’ इति । असम्मृष्टमेव भवति संप्रेषितम् ॥ १९ ॥
सायणः
हविरासादनोत्तरकालमग्निमन्थनं विधत्ते 23- आसाद्येति । अग्निं मथित्वेत्यादि । अग्निमन्थनानन्तरं जातम् ‘अग्निम्’ आहवनीये “भवतन्न”- (वा. सं. ५ । ३) इति मन्त्रेण ‘अनुप्रहृत्य’ प्रक्षिप्य, “अग्नावग्निः”- (वा. सं. ५ । ४) इति मन्त्रेणाभिजुहुयात् । एतच्चाग्निमन्थनादिकम् ‘अध्वर्युः’ एकः ‘एव’ कुर्य्यात्; न प्रतिप्रस्थतेत्यभिप्रायः । दक्षिणोत्तरयोरुभयोरप्याहवनीययोराहुत्यधिकरणत्वेनेध्माधानेन समिन्धनीयत्वात् तद्धेतुभूतः सामिधेनीप्रैषो ऽपि अध्वर्य्युप्रतिप्रस्थातृभ्यामुभाभ्यां प्रयोक्तव्य इत्याशङ्क्याह- अथाध्वर्य्युरेवेति । ‘एव’-कारः प्रतिप्रस्थातृ-व्यावृत्त्यर्थः 24 । एकस्याहवनीयस्य देशभेदेन द्विधा ऽवस्थानात्, प्रतिप्रस्थातुरग्नेराहवनीयान्तरात्वाभावात्, प्रेष्यस्य च होतुरुभयत्रैकत्वाद्, अध्वर्युणोच्यमान एव प्रैष उभयत्रोपकरोति, तावुभौ समिधावित्यभिप्रायः । इध्माधानादिकन्तु ताभ्यां समनुष्ठेयमित्याह- ता उभाविति । ‘तौ’ अध्वर्य्युप्रतिप्रस्थातारौ ‘उभौ’ ‘समिधौ’ इति व्यधिकरणे पदे । ‘उभौ’ अध्वर्युप्रतिप्रस्थातारौ अनुयाजार्थं ‘समिधौ’ परिशेषयत इत्यर्थः । ‘अथाध्वर्य्योरेव कर्त्तव्यमाह- अथाध्वर्य्युरेवेति । हे ‘अग्नीत्’; सामिधेनीप्रैषवत् ‘अग्निम्’ आहवनीयं ‘सम्मृड्ढि’ सम्मार्जनेन संस्कुरु । असंमृष्टमेवेति । करम्भपात्राणां होमस्य कालविधिः । अग्निमग्नीदिति सम्प्रैषे कृते तदर्थत्वात् आग्नीध्रेणानुष्ठिते इत्यर्थः 25 ॥ १९ ॥
Eggeling
- Having thus placed the sacrificial dishes, he churns the fire; and having churned it and placed it on (the hearth) 26, he offers thereon, The Adhvaryu in the first place says (to the Hotr̥) 27, ‘Recite to the fire that is being kindled!’ Both (the Adhvaryu and the Pratiprasthātr̥) then put firewood on (the fire) and both reserve one kindling-stick each; and they both pour out the first libation (āghāra). Thereupon the Adhvaryu says, ‘Agnīdh, trim the fire!’ Although the summons is given, the trimming does not take place (immediately) 28
२०
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ प्रतिप्रस्थाता᳘ प्रतिप᳘रैति॥
स प᳘त्नीमुदानेष्य᳘न्पृच्छति के᳘न चरसी᳘ति व्वरुण्यं᳘ व्वा᳘ ऽएतत्स्वीकरोति यदन्य᳘स्य सत्य᳘न्येन च᳘रत्य᳘थो वे᳘न्मे ऽन्तः᳘शल्या जुह᳘वदि᳘ति त᳘स्मात्पृच्छति नि᳘रुक्तं व्वा ए᳘नः क᳘नीयो भ᳘वति सत्यᳫँ᳭हि भवति तस्माद्वेव᳘ पृच्छति सा यन्न᳘ प्रतिजानीत᳘ ज्ञाति᳘भ्यो हास्यैतद᳘हितᳫं स्यात्॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ प्रतिप्रस्थाता᳘ प्रतिप᳘रैति॥
स प᳘त्नीमुदानेष्य᳘न्पृच्छति के᳘न चरसी᳘ति व्वरुण्यं᳘ व्वा᳘ ऽएतत्स्वीकरोति यदन्य᳘स्य सत्य᳘न्येन च᳘रत्य᳘थो वे᳘न्मे ऽन्तः᳘शल्या जुह᳘वदि᳘ति त᳘स्मात्पृच्छति नि᳘रुक्तं व्वा ए᳘नः क᳘नीयो भ᳘वति सत्यᳫँ᳭हि भवति तस्माद्वेव᳘ पृच्छति सा यन्न᳘ प्रतिजानीत᳘ ज्ञाति᳘भ्यो हास्यैतद᳘हितᳫं स्यात्॥
मूलम् - Weber
अ᳘थ प्रतिप्रस्थाता᳘ प्रतिप᳘रैति॥
स प᳘त्नीमुदानेष्य᳘न्पृछति के᳘न चरसी᳘ति वरुण्यं᳘ वा᳘ एतत्स्त्री᳘ करोति य᳘दन्य᳘स्य सत्य᳘न्ये᳘न च᳘रत्य᳘थो ने᳘न्मे ऽन्तः᳘शल्पा जुह᳘वदि᳘ति त᳘स्मात्पृछति नि᳘रुक्तं वा ए᳘नः क᳘नीयो भवति सत्यᳫं हि भ᳘वति त᳘स्माद्वेव᳘ पृछति सा यन्न᳘ प्रतिजानीत ज्ञातिभ्यो हास्यै तद᳘हितᳫं स्यात्॥
मूलम् - विस्वरम्
अथ प्रतिप्रस्थाता प्रतिपरैति । स पत्नीमुदानेष्यन् पृच्छति- ‘केन चरसि’ इति । वरुण्यं वा एतत् स्वीकरोति- यदन्यस्य सती- अन्येन चरति, ‘अथो नेन्मे ऽन्तःशल्या जुहवदिति’ तस्माद् पृच्छति । निरुक्तं वा एनः कनीयो भवति । सत्यं भवति तस्माद्वेव पृच्छति । सा यन्न प्रतिजानीत- ज्ञातिभ्यो हास्यैतदहितं स्यात् ॥ २० ॥
सायणः
तस्य च करम्भपात्राणां होमस्य पत्नीकर्तृकत्वं विधित्सुस्तस्यां सम्भावितस्य पुरुषान्तरसङ्गतिजनितस्यैनसः प्रश्नं दर्शयति- अथ प्रतिप्रस्थातेति । अग्निमग्नीदिति सम्प्रैषानन्तरं ‘प्रतिपरैति’ निवर्तते, पत्नी यत्रास्ते तं देशं प्रतिगच्छेदित्यर्थः । ‘सः’ च प्रतिप्रस्थाता ‘पत्नीम्’ ‘उदानेष्यन्’ उदागमिष्यन् तां पत्नी ‘पृच्छति’- हे पत्नि ! त्वं ‘केन’ जारेण ‘चरसि’ वर्त्तसे ‘इति’ । पुरुषान्तरसङ्गतेर्दोषान्तरतामाह- वरुण्यमिति । तेन पापेन हेतुना वरुणपाशबन्धो भवति, तत् पापं ‘वरुण्यम्’ । ‘अन्यस्य’ पुरुषस्य पत्नी ‘सती’, ‘अन्येन’ पुरुषान्तरेण सह ‘चरति’ वर्त्तते इति । यत्, एतत् वरुण्यमेव ‘स्वीकरोति’ । प्रष्टुः प्रतिप्रस्थातुरभिप्रायमाह- अथो इति । ‘अथो’ अपि च एषा पत्नी ‘अन्तःशल्या’ शरीरमध्ये दुश्चरितजनितेन पापरूपेण शल्येन युक्ता सती ‘न इत्’ नैव ‘मे’ मदीये ऽग्नौ ‘जुहवत्’ जुहुयात् इति । ‘तस्मात्’ कृतस्य पापस्य कनीयस्त्वम् । तस्माद्वेवेति । ‘उ’- शब्दो ऽपीत्यर्थे, ‘एव’- कारो भिन्नक्रमः । तस्मादपि कारणात् पृच्छत्येवेत्यर्थः । विपक्षे बाधोपन्यासेन पत्न्या अपि यथार्थभाषणं कर्त्तव्यमिति विधत्ते- सेति । ‘यत्’ यदि ‘सा’ पत्नी पृष्टमर्थं ‘न प्रतिजानीत’ न प्रतिब्रूयात् ‘तत्’ तदा, ‘असौ’ षष्ठ्यर्थे चतुर्थी, अस्याः पत्न्याः ‘ज्ञातिभ्यः’ ‘अहितम्’ अनिष्टं स्यात्, तस्मादु वस्तुतो विद्यमानं वृत्तान्तमाचक्षीतेत्यर्थः । तैत्तिरीयके ऽप्याम्नायते- “यज्जारं सन्तं न प्रब्रूयात्, प्रियं ज्ञाति ँ रुन्ध्यात्, असौ मे जार इति निर्द्दिशेत्“ इति- (तै. ब्रा. १ । ६ । ५ । २) तदुक्तं कात्यायनेन- “प्रतिप्रस्थाता पत्नीमानेष्यन्नाह केन चरसीति, संस्तुतानाचष्टे”- इति 29 । संस्तुताः परिचिता 30 जारा इत्यर्थः ॥ २० ॥
Eggeling
- Thereupon the Pratiprasthātr̥ returns (to where the sacrificer’s wife is seated). When he is about to lead the wife away, he asks her, ‘With
whom holdest thou intercourse?’ Now when a woman who belongs to one (man) carries on intercourse with another, she undoubtedly commits (a sin) against Varuṇa. He therefore thus asks her, lest she should sacrifice with a secret pang in her mind; for when confessed the sin becomes less, since it becomes truth; this is why he thus asks her. And whatever (connection) she confesses 31 not, that indeed will turn out injurious to her relatives.
२१
विश्वास-प्रस्तुतिः
(त्तां᳘) तां᳘ व्वाचयति॥
प्रघासि᳘नो हवामहे मरु᳘तश्च रिशा᳘दसः। करम्भे᳘ण सजो᳘षस ऽइ᳘ति य᳘था पुरो ऽनुवा᳘क्यैव᳘मे᳘षैत᳘यैवैनानेतेभ्यः पा᳘त्रेभ्यो ह्वयति॥
मूलम् - श्रीधरादि
(त्तां᳘) तां᳘ व्वाचयति॥
प्रघासि᳘नो हवामहे मरु᳘तश्च रिशा᳘दसः। करम्भे᳘ण सजो᳘षस ऽइ᳘ति य᳘था पुरो ऽनुवा᳘क्यैव᳘मे᳘षैत᳘यैवैनानेतेभ्यः पा᳘त्रेभ्यो ह्वयति॥
मूलम् - Weber
तां᳘ वाचयति॥
प्रघासि᳘नो हवामहे मरु᳘तश्च रिशा᳘दसः करम्भे᳘ण सजो᳘षस इ᳘ति य᳘था पुरो ऽनुवाॗक्यैव᳘मेॗषैत᳘यैॗवैनानेते᳘भ्यः पा᳘त्रेभ्यो ह्वयति॥
मूलम् - विस्वरम्
तां वाचयति “प्रघासिनो हवामहे मरुतश्च रिशादसः । करम्भेण सजोषसः”- (वा. सं. ३ । ४४) इति । यथा पुरो ऽनुवाक्या, एवमेवैषा । एतयैवैनानेतेभ्यः पात्रेभ्यो ह्वयति ॥ २१ ॥
सायणः
तस्या वाचनं विधत्ते- तां वाचयतीति 29 । “प्रघासिनः” इत्यादिवचनीयो मन्त्रः । तस्यायमर्थः- ‘प्रघासिनः प्रघासः प्रघसनीयं भोज्यं हविः, तद्वतो ‘मरुतः’ “शुक्रज्योतिश्च चित्रज्योतिश्च”- (वा० सं० १७ । ८० । ८६) इत्यादिना प्रतिपादितनामधेयान् एकोनपञ्चाशत्सङ्ख्यान् देवान् ‘हवामहे’ आह्वयामः । महतो ‘रिशादसः’ रिशाः हिंसकाः शत्रवः, तेषां निरसितारः ‘करम्भेण’ करम्भपात्ररूपेण हविषा सजोषसः समानप्रीतयश्च भवन्ति, तान् मरुत इति ॥
एतन्मन्त्रं पुरो ऽनुवाक्यानुवचनसादृश्येन स्तौति- यथेति ‘पुरोनुवाक्या’ हि यक्ष्यमाणदेवताह्वानार्था, ‘एवम् एव’ ‘एषा प्रघासिन इत्यृक्’ अतः ‘एतया एव’ ‘एनान्’ मरुतः ‘एतेभ्यः’ ‘पात्रेभ्यः’ करम्भपात्रेभ्यः ‘ह्वयति’ होष्यमाणं करम्भपात्रलक्षणं हविर्भोक्तुमाह्वयतीत्यर्थः ॥ २१ ॥
Eggeling
- He then makes her say the text (III, 44), ‘We invoke the Maruts, the voracious consumers of enemies, delighting in their porridge.’ This (verse) is (of like import) as the invitatory prayer she therewith invites them to these dishes 32.
२२
विश्वास-प्रस्तुतिः
ता᳘नि वै᳘ प्रतिपुरुषम्॥
या᳘वन्तो गृह्याः स्युता᳘वन्त्ये᳘केना᳘तिरिक्तानि भवन्ति त᳘त्प्रतिपुरुष᳘मे᳘वैतदे᳘कैकेन या᳘ अस्य प्रजा᳘ जातास्ता᳘ व्वरुणपाशात्प्र᳘मुञ्चत्ये᳘केना᳘तिरिक्तानि भवन्ति तद्या᳘ ए᳘वास्य प्रजा अ᳘जातास्ता᳘ व्वरुणपाशात्प्र᳘मुञ्चति त᳘स्मादे᳘केना᳘तिरिक्तानि भवन्ति॥
मूलम् - श्रीधरादि
ता᳘नि वै᳘ प्रतिपुरुषम्॥
या᳘वन्तो गृह्याः स्युता᳘वन्त्ये᳘केना᳘तिरिक्तानि भवन्ति त᳘त्प्रतिपुरुष᳘मे᳘वैतदे᳘कैकेन या᳘ अस्य प्रजा᳘ जातास्ता᳘ व्वरुणपाशात्प्र᳘मुञ्चत्ये᳘केना᳘तिरिक्तानि भवन्ति तद्या᳘ ए᳘वास्य प्रजा अ᳘जातास्ता᳘ व्वरुणपाशात्प्र᳘मुञ्चति त᳘स्मादे᳘केना᳘तिरिक्तानि भवन्ति॥
मूलम् - Weber
ता᳘नि वै᳘ प्रतिपुरुषम्॥
या᳘वन्तो गृ᳘ह्याः स्युता᳘वन्त्ये᳘केना᳘तिरिक्तानि भवन्ति त᳘त्प्रतिपुरुष᳘मेॗवैतदे᳘कैकेन या᳘ अस्य प्रजा᳘ जातास्ता᳘ वरुणपाशात्प्र᳘मुञ्चत्ये᳘केना᳘तिरिक्तानि भवन्ति तद्या᳘ एॗवास्य प्रजा अ᳘जातास्ता᳘ वरुणपाशात्प्र᳘मुञ्चति त᳘स्मादे᳘केना᳘तिरिक्तानि भवन्ति 29 ॥
मूलम् - विस्वरम्
तानि वै प्रतिपुरुषं यावन्तो गृह्याः स्युः, तावन्ति, एकेनातिरिक्तानि भवन्ति । तत् प्रतिपुरुषमेवैतदेकैकेन- या अस्य प्रजा जाताः ता वरुणपाशात् प्रमुञ्चति । एकेनातिरिक्तानि भवन्ति । तद्या एवास्य प्रजा अजाताः, ता वरुणपाशात् प्रमुञ्चति । तस्मादेकेनातिरिक्तानि भवन्ति ॥ २२ ॥
सायणः
करम्भपात्राणि कुर्वन्ति यावन्तो गृह्याः स्युस्तावन्ति- इति वाक्येन प्राग्विहितम् (श. प. २ । ५ । २ । १४) तदनूद्य स्तौति- तानि वा इति । ‘प्रतिपुरुषं’ पुरुषं पुरुषं प्रत्येकैकं करम्भपात्रं भवति । यावन्त इत्याद्युक्तार्थम् । पुरुषसङ्ख्यया पात्रनिर्माणस्य प्रयोजनमाह- तत् प्रतिपुरुषमिति । ‘अस्य’ यजमानस्य ‘याः प्रजाः जाताः’ ‘ताः’ प्रतिपुरुषं प्रत्येकम् ‘एकैकेन’ पात्रेण ‘वरुणपाशात्’ ‘प्रमुञ्चति’ एकातिरिक्ततामेषामनूद्य 33 स्तौति- एकेनेति । जनिष्यमाणानां प्रजानां वरुणपाशविमोचनार्थमेकमतिरिक्तं कर्त्तव्यमित्यर्थः ॥ २२ ॥
Eggeling
- Of these (dishes) there is one for each descendant; as many (children) as there are in the (sacrificer’s) family, so many (dishes) there are, exceeded by one. There being one for each descendant, he thereby delivers from Varuṇa’s noose one by one the children born to him; and there being an additional one, he thereby delivers from Varuṇa’s
noose those children of his that are as yet unborn: this is why there are (the same number of dishes) exceeded by one.
२३
विश्वास-प्रस्तुतिः
पा᳘त्राणि भवन्ति॥ पा᳘त्रेषु ह्य᳘शनमश्य᳘ते यवम᳘यानि भवन्ति य᳘वान्हि जक्षु᳘षीर्व्वरुणो᳘ ऽगृह्णा᳘च्छू᳘र्पेण जुहोति शू᳘र्पेण ह्य᳘शनं क्रियते प᳘त्नी जुहोति मिथुना᳘दे᳘वैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति॥
मूलम् - श्रीधरादि
पा᳘त्राणि भवन्ति॥ पा᳘त्रेषु ह्य᳘शनमश्य᳘ते यवम᳘यानि भवन्ति य᳘वान्हि जक्षु᳘षीर्व्वरुणो᳘ ऽगृह्णा᳘च्छू᳘र्पेण जुहोति शू᳘र्पेण ह्य᳘शनं क्रियते प᳘त्नी जुहोति मिथुना᳘दे᳘वैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति॥
मूलम् - Weber
पा᳘त्राणि भवन्ति पा᳘त्रेषु ह्य᳘शनमश्य᳘ते यवम᳘यानि भवन्ति य᳘वान्हि᳘ जक्षु᳘षीर्व᳘रुणो᳘ ऽगृह्णाछू᳘र्पेण जुहोति शू᳘र्पेण ह्य᳘शनं क्रिय᳘ते प᳘त्नी जुहोति मिथुना᳘देॗवैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चति॥
मूलम् - विस्वरम्
पात्राणि भवन्ति । पात्रेषु ह्यशनमश्यते । यवमयानि भवन्ति । यवान् हि जक्षुषीर्वरुणो ऽगृह्णात् । शूर्पेण जुहोति । शूर्पेण ह्यशनं क्रियते । पत्नी जुहोति । मिथुनादेवैतद्वरुणपाशात् प्रजाः प्रमुञ्चति ॥ २३ ॥
सायणः
पुरोडाशादिरूपतां विहाय पात्ररूपेण निर्माणमुपपादयति- पात्राणीति । ‘हि’ यस्मात् ‘पात्रेषु’ कास्यादिनिर्मितेषु ‘अशनम्’ अन्नम् ‘अश्यते’ भुज्यते, अतो मरुतां पयस्यारूपस्यान्नस्य भोजनीयपात्ररूपेणैवैतानि निर्मातव्यानीत्यर्थः । यवमयत्वमनूद्य स्तौति- यवमयानीति । ‘जक्षुषीः’ भक्षितवतीरित्यर्थः । अथ तेषां करम्भपात्राणां होमं विधत्ते- शूर्पेणेति 33 । जुह्वादिपात्रं विहाय शूर्पेणैवैतानि जुहुयात् । तेन हि ‘शूर्पेण’ तुषनिर्वपनद्वारा 34 ‘अशनम्’ अन्नं ‘क्रियते’ अतः शूर्पहवनं प्रशस्तम् । न चात्र शूर्पो हेत्वर्थः शङ्कनीयः; “हेतुर्वा स्यादर्थवतोपपत्तिभ्याम्, स्तुतिस्तु शब्दपूर्वत्वात्” (जै. सू. मी. १ । २ । २६-३० अधि० ३) इत्यधिकरणे स्तुतित्वेनान्वयस्य प्रतिपादितत्वात् ‘पत्नी जुहोति’ इति कर्त्तृविधिः । ‘मिथुनादेव’ इत्यादि तत्प्रशंसा । स्त्रिया अपि कर्तृत्वेन होमे ऽन्वयात् मिथुनं सम्पद्यते । तथा च यजमानपत्नीरूपान्मिथुनादेवेत्ययमर्थः सिध्यति ॥ २३ ॥
Eggeling
- (In the form of) dishes they are, because it is from dishes that food is eaten; and of barley they are prepared, because it was when they (the creatures) had eaten the barley corn that Varuṇa seized them. From the winnowing basket she offers, because food is prepared by means of the winnowing basket. The wife offers (together with her husband): thus he delivers his offspring from Varuṇa’s noose through conjugal union.
२४
विश्वास-प्रस्तुतिः
पुरा᳘ यज्ञा᳘त्पुरा᳘हुतिभ्यो जुहोति॥
अहुता᳘दो वै व्वि᳘शो व्वि᳘शो वै᳘ मरु᳘तो यत्र वै᳘ प्रजापतेः᳘ प्रजा व्व᳘रुणगृहीताः प᳘रिदीर्णा अ᳘नत्यश्च प्रा᳘णत्यश्च शिश्यिरे᳘ च निषेदु᳘श्च त᳘द्धासां मरु᳘तः पाप्मा᳘नं व्वि᳘मेथिरे त᳘थो ऽए᳘वैतस्य प्रजा᳘नां मरु᳘तः पाप्मा᳘नं व्वि᳘मथ्नते त᳘स्मात्पुरा᳘ यज्ञा᳘त्पुरा᳘हुतिभ्यो जुहोति॥
मूलम् - श्रीधरादि
पुरा᳘ यज्ञा᳘त्पुरा᳘हुतिभ्यो जुहोति॥
अहुता᳘दो वै व्वि᳘शो व्वि᳘शो वै᳘ मरु᳘तो यत्र वै᳘ प्रजापतेः᳘ प्रजा व्व᳘रुणगृहीताः प᳘रिदीर्णा अ᳘नत्यश्च प्रा᳘णत्यश्च शिश्यिरे᳘ च निषेदु᳘श्च त᳘द्धासां मरु᳘तः पाप्मा᳘नं व्वि᳘मेथिरे त᳘थो ऽए᳘वैतस्य प्रजा᳘नां मरु᳘तः पाप्मा᳘नं व्वि᳘मथ्नते त᳘स्मात्पुरा᳘ यज्ञा᳘त्पुरा᳘हुतिभ्यो जुहोति॥
मूलम् - Weber
पुरा᳘ यज्ञा᳘त्पुरा᳘हुतिभ्यो जुहोति॥
अहुता᳘दो वै वि᳘शो वि᳘शो वै᳘ मरु᳘तो य᳘त्र वै᳘ प्रजा᳘पतेः प्रजा व᳘रुणगृहीताः प᳘रिदीर्णा अ᳘नत्यश्च प्रा᳘णत्यश्च शिश्यिरे᳘ 35 च निषेदु᳘श्च त᳘द्धासाम् मरु᳘तः पाप्मा᳘नं वि᳘मेथिरे त᳘थो एॗवैत᳘स्य प्रजा᳘नाम् मरु᳘तः पाप्मा᳘नं वि᳘मथ्नते त᳘स्मात्पुरा᳘ यज्ञा᳘त्पुरा᳘हुतिभ्यो जुहोति॥
मूलम् - विस्वरम्
पुरा यज्ञात्पुराहुतिभ्यो जुहोति । अहुतादो वै विशः । विशो वै मरुतः । यत्र वै प्रजापतेः प्रजा वरुणग्रहीताः परिदीर्णा अनत्यश्च, प्राणत्यश्च;- शिश्यिरे च, निषेदुश्च- तद्धासां मरुतः पाप्मानं विमेथिरे । तथो एवैतस्य प्रजानां मरुतः पाप्मानं विमथ्नते । तस्मात् पुरा यज्ञात् पुराहुतिभ्यो जुहाति ॥ २४ ॥
सायणः
स्रुवाघारहोमादेः पूर्वभावित्वं करम्भपात्रहोमस्य विधत्ते- पुरेति । यज्ञो 33 वषट्कारप्रदानो यजतिचोदित आग्नेयः, आहुतयः स्वाहाकारप्रदाना जुहोतिचोदिताः 36; एतत्पूर्वभावित्वमुपपादयति- अहुतादो वा इति । अहुतं होमसंस्काररहितम् अदन्ति भक्षयन्त्यहुतादः । मरुतां वैश्यजातित्वेन अहुतादानधर्मवत्त्वात् सर्वहोमात् पूर्वं तेभ्यो हविःप्रदानं युक्तमिति भावः । इतो ऽपि करम्भपात्राणां पूर्वं होम इत्याह- यत्रेति । ‘परिदीर्णाः’ इत्यादिकं व्याख्यातम् (श. प. २ । ५ । २ । २ भा.) । ‘यत्र’ यदा खलु ‘प्रजापतेः प्रजाः’ वरुणगृहीताः ‘परिदीर्णत्वादिरोगग्रस्ता अभवन्, ‘तत्’ तदा ‘आसां’ प्रजानां ‘पाप्मानं’ ‘मरुतः’ ‘विमेथिरेः’ विलोपयन्ति 37 स्म, संश्लेषितवन्त इत्यर्थः । ‘तथो एव’ एवमेव ‘एतस्य’ यजमानस्य ‘प्रजानां’ वरुणपाशगृहीतानां ‘पाप्मानं’ पाशविमोचनात् प्रागेव मरुतः ‘विमथ्नते’ संविश्लेषयन्ति । ‘तस्माद्’ वरुणपाशग्रहविमोचनार्थाद् यज्ञात्, ‘आहुतिभ्यः’ च पूर्वमेव करम्भपात्राणां होमेन मरुतां शमनं 38 युक्तमित्यर्थः ॥ २४ ॥
Eggeling
- She offers previously to the sacrifice, previously to the oblations, since the people do not eat offerings, and the Maruts are the people. Now when Prajāpati’s creatures, being seized by Varuṇa, became rent all over, and sat and lay them down, breathing in and breathing out, then the Maruts destroyed their sin; and so do the Maruts now destroy the sin of his (the sacrificer’s) offspring. This is why she offers previously to the sacrifice, previously to the oblations.
२५
विश्वास-प्रस्तुतिः
स वै द᳘क्षिणे ऽग्नौ᳘ जुहोति॥
यद्ग्रा᳘मे यद᳘रण्य ऽइति ग्रा᳘मे वा ह्यरण्ये वै᳘नः क्रिय᳘ते यत्सभा᳘यां य᳘दिन्द्रिय ऽइति य᳘त्सभायामि᳘ति य᳘न्मानुष ऽइ᳘ति त᳘दाह य᳘दिन्द्रिय ऽइ᳘ति य᳘द्देवत्रेति तदा᳘ह यदे᳘नश्चकृमा᳘ व्वय᳘मिदं तद᳘वयजामहे स्वाहे᳘ति यत्किञ्च व्वयमे᳘नश्चकृ᳘मेदं व्वयं त᳘स्मात्स᳘र्व्वस्मात्प्र᳘मुच्यामह ऽइ᳘त्येवैत᳘दाह॥
मूलम् - श्रीधरादि
स वै द᳘क्षिणे ऽग्नौ᳘ जुहोति॥
यद्ग्रा᳘मे यद᳘रण्य ऽइति ग्रा᳘मे वा ह्यरण्ये वै᳘नः क्रिय᳘ते यत्सभा᳘यां य᳘दिन्द्रिय ऽइति य᳘त्सभायामि᳘ति य᳘न्मानुष ऽइ᳘ति त᳘दाह य᳘दिन्द्रिय ऽइ᳘ति य᳘द्देवत्रेति तदा᳘ह यदे᳘नश्चकृमा᳘ व्वय᳘मिदं तद᳘वयजामहे स्वाहे᳘ति यत्किञ्च व्वयमे᳘नश्चकृ᳘मेदं व्वयं त᳘स्मात्स᳘र्व्वस्मात्प्र᳘मुच्यामह ऽइ᳘त्येवैत᳘दाह॥
मूलम् - Weber
स वै द᳘क्षिणे ऽग्नौ᳘ जुहोति॥
यद्ग्रा᳘मे यद᳘रण्य इ᳘ति ग्रा᳘मे वा ह्य᳘रण्ये वै᳘नः क्रिय᳘ते य᳘त्सभा᳘यां य᳘दिन्द्रिय इ᳘ति य᳘त्सभा᳘यामि᳘ति य᳘न्मानुष इ᳘ति त᳘दाह य᳘दिन्द्रिय इ᳘ति य᳘द्देवत्रे᳘ति त᳘दाह यदे᳘नश्चकृमा᳘ वय᳘मिदं तद᳘वयजामहे स्वाहे᳘ति यत्किं᳘ च वयमे᳘नश्चकृॗमेदं वयं त᳘स्मात्स᳘र्वस्मात्प्र᳘मुच्यामह इ᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
सा वै दक्षिणे ऽग्नौ जुहोति- “यद्ग्रामे यदरण्ये” (वा. सं. ३ । ४५) इति । ग्रामे वा ह्यरण्ये वैनः क्रियते । ‘यत्सभायां यदिन्द्रिये’ (वा. सं. ३ । ४५) इति । यत्सभायामिति- यन्मानुष इति । तदाह-यदिन्द्रिय इति- यद्देवत्रेति तदाह । यदेनश्चकृमा वयमिदं तदवयजामहे स्वाहेति । यत् किञ्च वयमेनश्चकृम- इदं वयं तस्मात् सर्वस्मात्- प्रमुच्यामहे- इत्येवैतदाह ॥ २५ ॥
सायणः
अग्निविशेषं विधत्ते- सा वा इति । ‘सा’ खलु पत्नी ‘दक्षिणे’ दक्षिणस्यां वेद्यामवस्थिते आहवनीये ‘अग्नौ’ ‘जुहोति’ । यद् ग्राम इति । तत्र करणमन्त्रः । तं पदशो ऽनूद्य व्याचष्टे- यद् ग्रामे इत्यादिना । ‘यत् एनः क्रियते’ ‘तत्’ ग्रामे वा अरण्ये वा भवति । “यत् सभायाम्” इति द्वितीयपादस्य कार्त्स्न्येनानुवादः । तत्र प्रथमार्द्धमनूद्य सभाशब्दं व्याचष्टे- यत्सभायामिति । यन्मनुष्यसङ्घैः एनः क्रियत इति यो ऽर्थः । तदाहेति । अयमेव यत्सभायामिति मन्त्रभागः प्रतिपादयतीत्यर्थः । यदिन्द्रिय इतीन्द्रियपदस्य देवसङ्घपरत्वमाह- यदिन्द्रिय इति । ‘इन्द्रिये’ इन्द्रियसम्बन्धिनि देवसमूहे निमित्तभूते सति यदेनः क्रियत इति मन्त्रभागस्यार्थः । देवत्रेति । ‘देवत्रा’ देवेषु “देवमनुष्य- (पा. सू. ५ । ४ । ५६)” इत्यादिना सप्तम्यर्थे त्राप्रत्ययः । तदुत्तरभागमनूद्य व्याचष्टे- यदेन इति । ग्रामादिस्थानेषु यत् पापं वयं ‘चकृम’ कृतवन्तः, ‘तत्’ पापम् ‘इदम्’ इदानीं करम्भपात्रलक्षणेन हविषा ‘अवयजामहे’ समर्पयामः ‘स्वाहा’- इति निपातो दानार्थे, सुहुतमिदमस्त्विति मन्त्रभागस्यार्थः । तस्मात् सर्वस्मादित्यादि । कृतस्यैनसो ऽवयजनं नाम ‘तस्मात् सर्वस्मात्’ ‘प्रमोचनं’ विश्लेषः । ग्रामारण्यादिस्थानभेदेन बहुविधस्यैनसः सङ्ग्रहाय सर्वस्मादिति विशेषणम् ॥ २५ ॥
Eggeling
- He 39 offers in the southern fire, with the text (III, 45), ‘Whatever (sin we have committed) in the village and forest,’–for both in the village and in the forest sin is committed;–‘whatever in society and in our own self,’–by ‘whatever (we have committed) in society,’ he means to say ‘against man;’ and by ‘whatever in our own self’ (indriya), he means to say ‘against the gods;’–‘whatever sin
we have here committed, that we expiate by offering, Svāhā!’–whereby he says ‘whatsoever sin we have committed, from all that we rid ourselves.’
२६
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थैन्द्रीं᳘ मरु᳘त्वतीं जपति॥
य᳘त्र वै᳘ प्रजा᳘पतेः प्रजा᳘नां मरु᳘तः पाप्मा᳘नं व्विमेथिरे त᳘द्धेक्षा᳘ञ्चक्र ऽइमे᳘ ह मे प्रजा न व्वि᳘मश्नीरन्नि᳘ति॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थैन्द्रीं᳘ मरु᳘त्वतीं जपति॥
य᳘त्र वै᳘ प्रजा᳘पतेः प्रजा᳘नां मरु᳘तः पाप्मा᳘नं व्विमेथिरे त᳘द्धेक्षा᳘ञ्चक्र ऽइमे᳘ ह मे प्रजा न व्वि᳘मश्नीरन्नि᳘ति॥
मूलम् - Weber
अ᳘थैन्द्री᳘म् मरुत्वतीं जपति॥
य᳘त्र वै᳘ प्रजा᳘पतेः प्रजा᳘नाम् मरु᳘तः पाप्मा᳘नं विमेथिरे त᳘द्धेक्षां᳘ चक्र इमे᳘ ह मे प्रजा न वि᳘मथ्नीरन्नि᳘ति॥
मूलम् - विस्वरम्
अथैन्द्रीं मरुत्वतीं जपति । यत्र वै प्रजापतेः प्रजानां मरुतः पाप्मानं विमोथिरे- तद्धेक्षाञ्चक्रे- ‘इमे ह मे प्रजा न विमथ्नीरन्’ इति ॥ २६ ॥
सायणः
यजमानस्य मन्त्रजपं विधत्ते- अथेति । ‘अथ’- शब्दो होमानन्तर्ये, ‘ऐन्द्रीम्’ इन्द्रदेवताकाम्, ‘मरुत्वतीं’ मरुत्वच्छन्दयुक्ताम्, “मो षूण इन्द्र”- इत्यादिकामृचं यजमानो जपेदित्यर्थः । उक्तं हि सूत्रकृता- “मो षू ण इति यजमानो जपति”- (का. श्रौ. सू. ५ । १३२) इति मरुत्वदिन्द्रदेवताकामृचं प्रशंसति- यत्रेति । मरुतः पाप्मानमित्यादि । यदा खलु वरुणपाशेन बद्धाः प्रजाः, तदा तासां यद् बन्धनकारणं पापं मरुतः, ‘विमेथिरे’ विलोपितवन्तः, ‘तत्’ तदानीं प्रजापतिः खलु ‘ईक्षाञ्चक्रे’ पर्यालोचितवान्- ‘इमे’ खलु ‘मरुतः’ मदीयाः ‘प्रजाः’ न विमथ्नीरन् न विबाधेरन् इति ॥ २६ ॥
Eggeling
- Thereupon he mutters the (verse) addressed to Indra and referring to the Maruts.–Now when the Maruts destroyed the sin of Prajāpati’s creatures, he thought within himself, ‘I hope they will not destroy my creatures.’
२७
विश्वास-प्रस्तुतिः
स᳘ एता᳘मैन्द्रीं᳘ मरुत्वतीमजपत्॥
क्षत्रं वा ऽइ᳘न्द्रो व्वि᳘शो मरुतः क्षत्रं वै व्विशो᳘ निषेद्धा नि᳘षिद्धा असन्नि᳘ति त᳘स्मादैन्द्री᳘॥
मूलम् - श्रीधरादि
स᳘ एता᳘मैन्द्रीं᳘ मरुत्वतीमजपत्॥
क्षत्रं वा ऽइ᳘न्द्रो व्वि᳘शो मरुतः क्षत्रं वै व्विशो᳘ निषेद्धा नि᳘षिद्धा असन्नि᳘ति त᳘स्मादैन्द्री᳘॥
मूलम् - Weber
स᳘ एता᳘मैन्द्री᳘म् मरुत्वतीमजपत्॥
क्षत्रं वा इ᳘न्द्रो वि᳘शो मरुतः क्षत्रं वै᳘ विशो᳘ निषेद्धा नि᳘षिद्धा असन्नि᳘ति 40 त᳘स्मादैन्द्री॥
मूलम् - विस्वरम्
स एतामैन्द्रीं मरुत्वतीमजपत् । क्षत्रं वा इन्द्रः, विशो मरुतः । क्षत्रं वै विशो निषेद्धा । ‘निषिद्धा असन्’ इति तस्मादैन्द्री ॥ २७ ॥
सायणः
स एतामिति । ‘सः’ प्रजापतिः पूर्वोक्तरूपं पर्यालोच्य ‘एताम् ऐन्द्रीं मरुत्वतीम्’ ऋचम् ‘अजपत्’ अत्रेन्द्रस्य प्रसङ्गमाह- क्षत्रं वा इति । ‘इन्द्रः’ खलु क्षत्रियजातिः, तस्येन्द्रस्य ‘विशो मरुतः’, क्षत्रियो हि प्रजानां ‘निषेद्धा’ निरोधकः, तेनेन्द्रेण ‘निषिद्धाः’ निवारिता भवेयुः । ‘इति’ अनेनाभिप्रायेणेन्द्रदेवताकाया ऋचो जप इत्यर्थः ॥ २७ ॥
Eggeling
- He muttered that (verse) addressed to Indra and referring to the Maruts. Indra indeed is the nobility, and the Maruts are the people; and the nobility are the controllers of the people: ‘They shall be controlled,’ he thought; and therefore (that verse, Vāj. S. III, 46) is addressed to Indra.
२८
विश्वास-प्रस्तुतिः
मो षू᳘ णः॥
(ऽ) इन्द्रा᳘त्र पृत्सु᳘ देवैर᳘स्ति हि ष्माते शुष्मिन्नवयाः। मह᳘श्चिद्य᳘स्य मीढु᳘षो यव्या᳘ हवि᳘ष्मतो मरु᳘तो व्व᳘न्दते गीरि᳘ति॥
मूलम् - श्रीधरादि
मो षू᳘ णः॥
(ऽ) इन्द्रा᳘त्र पृत्सु᳘ देवैर᳘स्ति हि ष्माते शुष्मिन्नवयाः। मह᳘श्चिद्य᳘स्य मीढु᳘षो यव्या᳘ हवि᳘ष्मतो मरु᳘तो व्व᳘न्दते गीरि᳘ति॥
मूलम् - Weber
मो षू᳘ णः॥
इन्द्रा᳘त्र पृत्सु᳘ देवैरस्ति हि᳘ ष्मा ते शुष्मिन्नवयाः᳘ मह᳘श्चिद्य᳘स्य मीढु᳘षो यव्या᳘ 41 हविष्मतो मरु᳘तो व᳘न्दते गीरिति॥
मूलम् - विस्वरम्
“मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्माते शुष्मिन्नवयाः । महश्चिद्यस्य मीदुषो यव्या हविष्मतो मरुतो वन्दते गीः”- इति ॥ २८ ॥
सायणः
तामृचं पठति- भो ष ण इति । अस्याश्चायमर्थः हे- ‘इन्द्र’ ! ‘अत्र’ एषु ‘पृत्सु’ संग्रामनामैतत् । ‘नः’ अस्मदीयाः प्रजाः ‘मा उ सु’ हिंसीः । हे ‘शुष्मिन्’ बलवन्निन्द्र ! ‘देवैः’ मरुद्भिः सहितस्य ‘ते’ तव ‘अवयाः’ अवपूर्वाद् यजेः “अवयाः-श्वेतवाः”- (पा. सू. ८ । २ । ६७) इति निपात्यते । अवयजनरूपकरम्भपात्रहोमः 42 ‘अस्ति’ खलु ‘महश्चित्’ महतो ऽपि ‘मीढुषः’ सेक्तुः यव्याः “सुपां सुलुक्”- (पा. सू. ७ । १ । ३९) इति भिस आडादेशः । यवमयैर्हविर्भिः ‘हविष्मतः’ ‘यस्य’ इन्द्रस्य ‘मरुतः’ देवान् अनुचरान् ‘गीः’ स्तुतिरूपा वाक् ‘वन्दते’ स्तौति “वदि अभिवादनस्तुत्योः”- इति धातुः (धा. पा. भ्वा. पं. ११) ‘इति’ इत्यस्य पूर्वत्रान्वयः ॥ २८ ॥
Eggeling
- ‘Let there not, O Indra, be (fight) for us here in battles with the gods, since there is a share for thee in the sacrifice, O fiery one!–for thee, the mighty showerer of gifts, whose Maruts the song of the offerer stream-like celebrates.’
२९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनां व्वाचयति॥
(त्य᳘) अ᳘क्रन्क᳘र्म कर्मकृ᳘त ऽइत्य᳘क्रन् हि क᳘र्म कर्मकृ᳘तः सह᳘ व्वाचा᳘ मयोभुवे᳘ति सह हि᳘ व्वाचा᳘ ऽक्रन्देवे᳘भ्यः क᳘र्म कृत्वे᳘ति देवे᳘भ्यो हि क᳘र्म कृत्वा᳘ ऽस्तं प्रे᳘त सचाभुव इ᳘त्यन्य᳘तो ह्योढया सह भ᳘वन्ति त᳘स्मादाह सचाभुव इ᳘त्य᳘स्तं प्रेते᳘ति जघनार्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञं प्रा᳘सी᳘षदद्गृहा वा ऽअ᳘स्तं गृहाः᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वे᳘वैनामेत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनां व्वाचयति॥
(त्य᳘) अ᳘क्रन्क᳘र्म कर्मकृ᳘त ऽइत्य᳘क्रन् हि क᳘र्म कर्मकृ᳘तः सह᳘ व्वाचा᳘ मयोभुवे᳘ति सह हि᳘ व्वाचा᳘ ऽक्रन्देवे᳘भ्यः क᳘र्म कृत्वे᳘ति देवे᳘भ्यो हि क᳘र्म कृत्वा᳘ ऽस्तं प्रे᳘त सचाभुव इ᳘त्यन्य᳘तो ह्योढया सह भ᳘वन्ति त᳘स्मादाह सचाभुव इ᳘त्य᳘स्तं प्रेते᳘ति जघनार्धो वा᳘ ऽएष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञं प्रा᳘सी᳘षदद्गृहा वा ऽअ᳘स्तं गृहाः᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वे᳘वैनामेत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठापयति॥
मूलम् - Weber
अ᳘थैनां वाचयति॥
अ᳘क्रन् क᳘र्म कर्मकृ᳘त इत्य᳘क्रन्हि क᳘र्म कर्मकृ᳘तः सह᳘ वाचा᳘ मयोभुवे᳘ति सह हि᳘ वाचा᳘क्रन्देवे᳘भ्यः कर्म कृत्वे᳘ति देवे᳘भ्यो हि क᳘र्म कृत्वा᳘स्तम् प्रे᳘त सचाभुव इ᳘त्यन्य᳘तो ह्यो᳘ढया सह भ᳘वन्ति 43 त᳘स्मादाह सचाभुव इत्य᳘स्तम् प्रेते᳘ति जघनार्धो वा᳘ एष᳘ यज्ञ᳘स्य यत्प᳘त्नी ता᳘मेतत्प्रा᳘चीं यज्ञम् प्रा᳘सीषदद्गृहा वा अ᳘स्तं गृहाः᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वेॗवैनामेत᳘त्प्रतिष्ठा᳘याम् प्र᳘तिष्ठापयति॥
मूलम् - विस्वरम्
अथैनां वाचयति- “अक्रन् कर्म कर्मकृतः”- (वा० ३ । ४७ ।) इति । अक्रन् हि कर्म कर्म्मकृतः । “सह वाचा मयोभुवा”- (वा० ३ । ४७) इति । सह हि वाचा ऽक्रन् । “देवेभ्यः कर्म कृत्वा”- (वा ३-४७) इति । देवेभ्यो हि कर्म कृत्वा । “अस्तं प्रेत सचाभुवः” (वा० ३ । ४७) इति । अन्यतो ह्योढया सह भवन्ति । तस्मादाह- सचाभुव इति । अस्तं प्रेतेति । जघनार्द्धो वा एष यज्ञस्य- यत्पत्नी । तामेतत् प्राचीं यज्ञं प्रासीषदत । गृहा वा अस्तम्, गृहाः प्रतिष्ठा । तद्गृहेष्वेवैनामेतत् प्रतिष्ठायां प्रतिष्ठापयति ॥ २९ ॥
सायणः
पत्न्या वाचनं विधत्ते- अथैनामिति । तं वाचनीयं मन्त्रं पदशो ऽनूद्य व्याचष्टे- अक्रन् कर्मेति । कर्म कुर्वन्तीति ‘कर्मकृतः’ ये यजमानस्यामात्याः, ते हि इदानीं करम्भपात्रहोमरूपं ‘कर्म’ ‘अक्रन्’ अकार्षुः अतो ऽक्रन् कर्म्मेति मन्त्रभागवाचनं युक्तम् । द्वितीयपादस्यार्थः प्रसिद्ध इत्याह- सह हीति । ‘मयोभुवः’ मयसः सुखस्य भावयित्र्या मन्त्ररूपया वाचा सह एतत् कर्म ‘अक्रन्’ अकार्षुः । देवेभ्य इत्यादि । हे यजमानस्यामात्या ऋत्विजश्च ! यूयं वरुणप्रघासाख्यकरम्भपात्रहोमरूपं च कर्म देवार्थं ‘कृत्वा’ ‘अस्तं’ गृहनामैतत्; यजमानस्य गृहान् ‘सचाभुवः’ पत्न्या सह भवन्तः, सह वर्त्तमानाः ‘प्रेत’ आगच्छतेति मन्त्रभागस्यार्थः । सचाभुव इत्येतद् व्याचष्टे- अन्यत इति । अन्यस्माद् देशाद् पत्न्यासनलक्षणात् ‘ऊढया’ आहवनीयसमीपं प्रापितया पत्न्या सह खल्विदानीं वर्तन्ते, तस्मात् सचाभुव इत्येतद् यथार्थम् । अस्तं प्रेतेत्यस्याभिप्रायमाह- जघनार्द्धो वा इति । तामेतत् प्राचीमिति यज्ञस्यापरभागे ऽवस्थितां ‘ताम्’ ‘एतत्’ एतर्हि ‘प्राचीं’ प्राग् गच्छन्तीम् पूर्वभागसम्बन्धिनीं ‘यज्ञं’ ‘प्रासीषदत्’ प्रापीपत् प्रतिप्रस्थाता । सदेर्ण्यन्तात् लुङि चङि रूपम् । गृहा वा अस्तमिति । अस्यते क्षिप्यते सर्वं वस्तुजातमस्मिन्निति ‘अस्तं गृहाः’ “क्तो ऽधिकरणे च”- इति (पा. सू. ३ । ४ । ७६) क्तप्रत्ययः । ‘एतत्’ एतेन ‘अस्तं प्रेत’- इति मन्त्रभागवचनेन गृहरूपायामेव ‘प्रतिष्ठायां’ पुनः ‘एनां’ स्थापितवान् भवति 44 ॥ २९ ॥
Eggeling
- He then makes her say the text (Vāj. S. III, 47), ‘The men skilled in the work have done the work,’–those skilled in the work have indeed done the work;–‘with pleasing song;’–for with song they have done it. ‘Having done the work for the gods;’–for the gods indeed they have done the work; ‘go home, ye companions!’–they are now together with her while she is led thither from an other place: hence she says, ‘ye companions’ (sacābhū, ‘being together’). ‘Go home,’ she says, because that wife doubtless is the hind part of the sacrifice, and he has just now made her take her seat to the east of the sacrifice. ‘Home’ doubtless means the house, and the house is a resting-place: hence he thereby makes her rest in that resting-place, the house.
३०
विश्वास-प्रस्तुतिः
प्रतिपराणी᳘योदै᳘ति प्रतिप्रस्थाता᳘॥
स᳘म्मृजन्त्यग्निᳫँ᳭स᳘म्मृष्टे ऽग्नौ ता᳘ ऽउभा᳘वेवो᳘त्तरावाघारावा᳘घारयतो᳘ ऽथाध्वर्यु᳘रे᳘वाश्रा᳘व्य हो᳘तारं प्र᳘वृणीते᳘ प्र᳘वृतो होतो᳘त्तरस्यै व्वे᳘देर्होतृष᳘दन ऽउ᳘पविशत्युपवि᳘श्य प्र᳘सौति ता᳘ ऽउभा᳘वेव प्र᳘सूतौ स्रु᳘च ऽआदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रे᳘वाह समि᳘धो यजे᳘ति य᳘ज यजे᳘ति चतुर्थे᳘ चतुर्थे प्रयाजे᳘ समान᳘यमानौ नव᳘भिः प्रयाजै᳘श्चरतः॥
मूलम् - श्रीधरादि
प्रतिपराणी᳘योदै᳘ति प्रतिप्रस्थाता᳘॥
स᳘म्मृजन्त्यग्निᳫँ᳭स᳘म्मृष्टे ऽग्नौ ता᳘ ऽउभा᳘वेवो᳘त्तरावाघारावा᳘घारयतो᳘ ऽथाध्वर्यु᳘रे᳘वाश्रा᳘व्य हो᳘तारं प्र᳘वृणीते᳘ प्र᳘वृतो होतो᳘त्तरस्यै व्वे᳘देर्होतृष᳘दन ऽउ᳘पविशत्युपवि᳘श्य प्र᳘सौति ता᳘ ऽउभा᳘वेव प्र᳘सूतौ स्रु᳘च ऽआदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रे᳘वाह समि᳘धो यजे᳘ति य᳘ज यजे᳘ति चतुर्थे᳘ चतुर्थे प्रयाजे᳘ समान᳘यमानौ नव᳘भिः प्रयाजै᳘श्चरतः॥
मूलम् - Weber
प्रतिपराणी᳘योदै᳘ति प्रतिप्रस्थाता॥
स᳘म्मृजन्त्यग्निᳫं स᳘म्मृष्टे ऽग्नौ ता᳘ उभा᳘वेवो᳘त्तरावाघारावा᳘घारयतो ऽथाध्वर्यु᳘रेॗवाश्रा᳘व्य हो᳘तारम् प्र᳘वृणीते प्र᳘वृतो होतो᳘त्तरस्यै वे᳘देर्होतृषदन उ᳘पविशत्युपवि᳘श्य प्र᳘सौति ता᳘ उभा᳘वेव प्र᳘सूतौ स्रु᳘च आदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रेॗवाह समि᳘धो यजे᳘ति य᳘ज यजे᳘ति चतुर्थे᳘-चतुर्थे प्रयाजे᳘ समान᳘यमानौ नव᳘भिः प्रयाजै᳘श्चरतः॥
मूलम् - विस्वरम्
प्रतिपराणीयोदैति प्रतिप्रस्थाता । सम्मृजन्त्यग्निम् । सम्मृष्टे ऽग्नौ ता उभावेवोत्तरावाघारावाघारयतः । अथाध्वर्युरेवाश्राव्य होतारं प्रवृणीते । प्रवृतो होतोत्तरस्यै वेदेर्होतृषदन उपविशति । उपविश्य प्रसौति । ता उभावेव प्रसूतौ स्रुच आदायातिक्रामतः । अतिक्रम्याश्राव्याध्वर्युरेवाह- समिधो यज इति । ‘यज यज’ इति चतुर्थे चतुर्थे प्रयाजे समानयमानौ नवभिः प्रयाजैश्चरतः ॥ ३० ॥
सायणः
अक्रन् कर्म्मेति मन्त्रवाचनानन्तरं कर्त्तव्यमुपदिशति- प्रतिपराणीयोदैतीति । पत्नीं प्रतिनिवर्त्य स्वस्थानं प्रापयितुं ‘प्रतिप्रस्थाता’ ‘उदैति’ उद्गच्छेत् । इत्थम् “अग्निमग्नीत्”- इति प्रैषसम्मार्जनयोर्मध्ये कर्त्तव्यमुक्त्वा, तत्सम्मार्जनप्रभृति प्रकृतिवदेवानुष्ठेयमिति दर्शयति- सम्मृजन्तीत्यादिना । एकस्मिन्नप्याग्नीध्रे पूजार्थं बहुवचनम्। एवमाहवनीये ‘अग्नौ’ ‘सम्मृष्टे’ ‘उभावेव’ एवकारो ऽप्यर्थे । उभावपि अध्वर्युप्रतिप्रस्थातारौ ‘उत्तरौ आघारौ आघारयतः’ दीर्घधारया जुहुतः हविर्वेद्यग्नीनां भेदः प्रतिप्रस्थातुरपि दक्षिणे ऽग्नौ आघारादिकं सर्वं प्रयोगजातमध्वर्युवदनुष्ठेयम् । अत एव तैत्तिरीयकम् 45- “यदेवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति” इति । अध्वर्युरेवाश्रावयेदित्यादि । प्रवरप्रयाजाज्यभागादिसम्प्रैषस्य प्रेष्यस्य होतुरेकत्वात् कालभेदाभावाच्चाध्वर्युणैव कृतः प्रैष उभयत्रापि तन्त्रेणोपकरोतीत्येवकाराभिप्रायः । प्रवरादीनां चोदकप्राप्तानामनुवादः । तेषां स्वरूपं प्रथमकाण्डे (श. प. १ । ५ । १) व्याख्यातमिति नेह पठ्यते । प्रतिप्रस्थातुरपि कर्त्तव्यं प्रतिपादयति- उत्तरस्यै वेदेरित्यादि । होता सीदत्यस्मिन्निति होतृषदनम् । उत्तरस्या वेद्याः सम्बन्धिनि ‘होतृषदने’ स्थाने; न दक्षिणस्या इत्यर्थः । ‘प्रसौति’ अध्वर्युप्रतिप्रस्थातारौ; प्रयाजान् कर्त्तुं स्रुगादाने प्रेरयति “षु प्रसवैश्वर्ययोः” (धा. पा. अ. प. ३१) इति धातुः । ‘प्रसूतौ’ प्रेरितौ, अनुज्ञातावित्यर्थः । स्रुच आदायेति । अध्वर्युप्रतिप्रस्थात्रोरुभयोरपि प्रत्येकं जुहूपभृतौ 46 स्तः, तदभिप्रायेण स्रुच इति बहुवचनम् । “समिधो यज”- इति प्रथमप्रयाजसम्प्रैषः 47 । द्वितीयादिषु “यज” इत्येव सम्प्रैषः । वीप्सा द्वितीयादिषु सर्वत्र सम्बन्धार्था । “चतुर्थे चतुर्थे” इति वीप्सा कर्तृद्वित्वापेक्षया । उभावपि ‘चतुर्थे चतुर्थे प्रयाजे’ अपि हुतमाज्यं जुहूं ‘समानयमानौ’ प्रतिनयन्तौ ‘नवभिः’ नवसङ्ख्याकैः ‘प्रयाजैः चरतः’ 48 ॥ ३० ॥
Eggeling
- Having led her back (to her seat) the Pratiprasthātr̥ returns (to his place by the side of the southern altar). They now trim the fire 49. When the fire has been trimmed, both (the Adhvaryu and Pratiprasthātr̥) make the second libation (of butter). Thereupon the Adhvaryu, having called (on the Āgnīdhra) for the ‘Śraushaṭ,’ chooses the Hotr̥. The chosen Hotr̥ then seats himself on the Hotr̥’s seat beside the northern altar; and having seated himself, he urges (the Adhvaryu and Pratiprasthātr̥) to proceed. Being thus urged to proceed, they both take up the spoons and step across (to the south side of the fires). After stepping across and calling for the ‘Śraushaṭ,’ the Adhvaryu says (to the Hotr̥), ‘Pronounce the offering-prayer on the kindling-sticks!’ and ‘Pronounce the offering-prayer!’ at each (subsequent fore-offering). Pouring (the butter in the spoons) together (into the juhū) at the fourth 50, they both proceed with the nine fore-offerings 51.
३१
विश्वास-प्रस्तुतिः
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रे᳘वाहाग्नये ऽनुब्रूहीति॥
(त्या) आग्नेयमा᳘ज्यभागं तौ᳘ ऽउभा᳘वेव चतुरा᳘ज्यस्यावदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्युरे᳘वाहाग्निं᳘ यजे᳘ति ता᳘ ऽउभा᳘वेव व्व᳘षट्कृते जुहुतः॥
मूलम् - श्रीधरादि
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रे᳘वाहाग्नये ऽनुब्रूहीति॥
(त्या) आग्नेयमा᳘ज्यभागं तौ᳘ ऽउभा᳘वेव चतुरा᳘ज्यस्यावदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्युरे᳘वाहाग्निं᳘ यजे᳘ति ता᳘ ऽउभा᳘वेव व्व᳘षट्कृते जुहुतः॥
मूलम् - Weber
अ᳘थाध्वर्यु᳘रेॗवाहाग्नये ऽनुब्रूही᳘ति॥
आग्नेयमा᳘ज्यभागं ता᳘ उभा᳘वेव᳘ चतुरा᳘ज्यस्यावदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रेॗवाहाग्निं᳘ यजे᳘ति ता᳘ उभा᳘वेव व᳘षट्कृते जुहुतः॥
मूलम् - विस्वरम्
अथाध्वर्युरेवाह- ‘अग्नये ऽनुब्रूहि’ इति- आग्नेयमाज्यभागम् । ता उभावेव चतुराज्यस्यावदायातिक्रामतः । अतिक्रम्याश्राव्याध्वर्युरेवाह- ‘अग्निं यज’ इति । ता उभावेव वषट्कृते जुहुतः ॥ ३१ ॥
सायणः
आज्यभागयोरपि प्रतिप्रस्थातृसाहित्यं विधातुमाह- अथाध्वर्युरिति । उभावेवेति । उभावपि अध्वर्युप्रतिप्रस्थातारौ ध्रौवस्य ‘आज्यस्य’ सकाशात् ‘चतुरवदाय’ जुह्वां चतुर्गृहीत्वेत्यर्थः । वषट्कृते जुहुत इति । एकस्मिन्नेव वषट्कारे उभावपि स्वस्वाहवनीये जुहुत इत्यर्थः ॥ ३१ ॥
Eggeling
- Thereupon the Adhvaryu says (to the Hotr̥),
‘Pronounce the invitatory prayer to Agni!’ referring to Agni’s butter-portion 52. Both (the Adhvaryu and Pratiprasthātr̥) having taken four ‘cuttings’ of butter, they step across (to the north side of their respective fires). Having stepped across and called for the ‘Śraushaṭ,’ the Adhvaryu says (to the Hotr̥), ‘Pronounce the offering-formula to Agni!’ After the ‘Vashaṭ’ has been uttered, they both pour out the oblation.
३२
विश्वास-प्रस्तुतिः
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रे᳘वाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागं ता ऽउभा᳘वेव᳘ चतुरा᳘ज्य᳘स्यावदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रे᳘वाह सो᳘मं यजे᳘ति ता᳘ ऽउभा᳘वेव व्व᳘षट्कृते जुहुतः॥
मूलम् - श्रीधरादि
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रे᳘वाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागं ता ऽउभा᳘वेव᳘ चतुरा᳘ज्य᳘स्यावदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रे᳘वाह सो᳘मं यजे᳘ति ता᳘ ऽउभा᳘वेव व्व᳘षट्कृते जुहुतः॥
मूलम् - Weber
अ᳘थाध्वर्यु᳘रेॗवाह सो᳘माया᳘नुब्रूही᳘ति॥
सौम्यमा᳘ज्यभागं ता उभा᳘वेव चतुरा᳘ज्यस्यावदाया᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रेॗवाह सो᳘मं यजे᳘ति ता᳘ उभा᳘वेव व᳘षट्कृते जुहुतः॥
मूलम् - विस्वरम्
अथाध्वर्युरेवाह- ‘सोमायानुब्रूहि’ इति- सौम्यमाज्यभागम् । ता उभावेव चतुराज्यस्यावदायातिक्रामतः । अतिक्रम्याश्राव्याध्वर्युरेवाह- ‘सोमं यज’ इति । ता उभावेव वषट्कृते जुहुतः ॥ ३२ ॥
सायणः
अथाध्वर्युरेवाह सोमायेत्यादि । एतेन द्वितीयाज्यभागस्यानुष्ठानप्रकारः प्रतिपादितः ॥ ३२ ॥
Eggeling
- The Adhvaryu then says, ‘Pronounce (the invitatory prayer) to Soma!’ referring to Soma’s butter-portion. Both having taken four cuttings of butter, they step across. Having stepped across and called for the ‘Śraushaṭ,’ the Adhvaryu says (to the Hotr̥), ‘Pronounce the offering-prayer to Soma!’ After the ‘Vashaṭ’ has been uttered, they both pour out the oblation.
३३
विश्वास-प्रस्तुतिः
(स्त) तद्यत्कि᳘ञ्च व्वाचा᳘ कर्त᳘व्यम्॥
(म) अध्वर्यु᳘रेव त᳘त्करो᳘ति न᳘ प्रतिप्रस्थाता तद्य᳘दध्वर्यु᳘रे᳘वाश्राव᳘यती᳘हैव य᳘त्र वषट् क्रिय᳘ते॥
मूलम् - श्रीधरादि
(स्त) तद्यत्कि᳘ञ्च व्वाचा᳘ कर्त᳘व्यम्॥
(म) अध्वर्यु᳘रेव त᳘त्करो᳘ति न᳘ प्रतिप्रस्थाता तद्य᳘दध्वर्यु᳘रे᳘वाश्राव᳘यती᳘हैव य᳘त्र वषट् क्रिय᳘ते॥
मूलम् - Weber
तद्यत्किं᳘ च वाचा᳘ कर्त᳘व्यम्॥
अध्वर्यु᳘रेव त᳘त्करो᳘ति न᳘ प्रतिप्रस्थाता तद्य᳘दध्वर्यु᳘रेॗवाश्राव᳘यतीहैव य᳘त्र वषट्क्रिय᳘ते॥
मूलम् - विस्वरम्
तद्यत् किञ्च वाचा कर्त्तव्यम्- अध्वर्युरेव तत् करोति, न प्रतिप्रस्थाता । तद्यदध्वर्युरेवाश्रावयति इहैव यत्र वषट् क्रियते ॥ ३३ ॥
सायणः
सामिधेनीप्रैषादौ ‘आश्राव्य’ आश्रावणे चाध्वर्युरेवेति तत्र तत्र यत् प्रसङ्गत उक्तम्, तदिदानीं विधत्ते- तद्यदिति । ‘यत्’ किमपि आश्रावणादिकं ‘वाचा कर्त्तव्यं’ वागिन्द्रियसाध्यमिति, ‘तत्’ ‘अध्वर्युरेव’ कुर्यात् । ‘प्रतिप्रस्थाता’ तूष्णीं क्रियमाणमनुतिष्ठेत्, आश्रावणादिकं वाचा न प्रयुञ्जीत । इमामेव श्रुतिमभिप्रेत्य सूत्रितमापस्तम्बेन- “यत् किञ्च वाचा कर्माणि अध्वर्युरेव तत् कुर्यात्” (आप. श्रौ. सू. ८ । ५ । १७) इति । अस्य नियमस्य प्रयोजनमाह- तद्यदिति । ‘यत्र’ उत्तरस्यां वेद्यां ‘वषट् क्रियते’ होत्रा वषट्कारः प्रयुज्यते । ‘इहैव’ अस्मिन्नेव स्थाने ‘अध्वर्युरेक एव आश्रावयति’ ॥ ३३ ॥
Eggeling
- Thus whatever has to be done by speech, that the Adhvaryu does, and not the Pratiprasthātr̥. Now as to why the Adhvaryu alone calls for the ‘Śraushaṭ.’ Here indeed when the ‘Vashaṭ’ is pronounced,
३४
विश्वास-प्रस्तुतिः
कृतानुकर᳘ ऽएव᳘ प्रतिप्रस्थाता᳘॥
क्षत्रं वै व्व᳘रुणो व्वि᳘शो मरु᳘तस्त᳘त्क्षत्रा᳘यै᳘वैतद्वि᳘शं कृतानुकराम᳘नुवर्त्त्मानं करोति प्रत्युद्यामि᳘नीᳫँ᳭ह क्षत्रा᳘य व्वि᳘शं कुर्याद्यद᳘पि प्रतिप्रस्था᳘ता ऽऽश्राव᳘येत्त᳘स्मान्न᳘ प्रतिप्रस्थाता᳘ ऽऽश्रावयति॥
मूलम् - श्रीधरादि
कृतानुकर᳘ ऽएव᳘ प्रतिप्रस्थाता᳘॥
क्षत्रं वै व्व᳘रुणो व्वि᳘शो मरु᳘तस्त᳘त्क्षत्रा᳘यै᳘वैतद्वि᳘शं कृतानुकराम᳘नुवर्त्त्मानं करोति प्रत्युद्यामि᳘नीᳫँ᳭ह क्षत्रा᳘य व्वि᳘शं कुर्याद्यद᳘पि प्रतिप्रस्था᳘ता ऽऽश्राव᳘येत्त᳘स्मान्न᳘ प्रतिप्रस्थाता᳘ ऽऽश्रावयति॥
मूलम् - Weber
कृतानुकर᳘ एव᳘ प्रतिप्रस्थाता᳟॥
क्षत्रं वै व᳘रुणो वि᳘शो मरुतस्त᳘त्क्षत्रा᳘यैॗवैतद्वि᳘शं कृतानुकराम᳘नुवर्त्मानं करोति प्रत्युद्यामि᳘नीᳫं ह क्षत्राय वि᳘शं कुर्याद्यद᳘पि प्रतिप्रस्थाॗताश्राव᳘येत्त᳘स्मान्न᳘ प्रतिप्रस्थाता᳘श्रावयति॥
मूलम् - विस्वरम्
कृतानुकर एव प्रतिप्रस्थाता । क्षत्रं वै वरुणो, विशो मरुतः । तत् क्षत्रायैवैतद्विशं कृतानुकरामनुवर्त्मानं करोति प्रत्युद्यामिनीं ह क्षत्राय विशं कुर्याद् । यदपि प्रतिप्रस्थाता ऽऽश्रावयेत् । तस्मान्न प्रतिप्रस्थाता ऽऽश्रावयति ॥ ३४ ॥
सायणः
कृतानुकर एवेति । ‘प्रतिप्रस्थाता’ अध्वर्युणा प्रथमं कृतस्य केवलमनुकर्मैव भवति न त्वासां पृथगाश्रावणं कुर्यात् । तथा क्षत्राय क्षत्रियाय ‘विशं’ वैश्यजाति ‘कृतानुकरां’ कृतानुक्कुर्वाणाम् ‘अनुवर्त्मानम्’ अनुगमनशीलां ‘करोति’ । विपक्षे बाधमाह- प्रत्युद्यामिनीमिति । ‘यद्’ यदि हि अध्वर्युवत् प्रतिप्रस्थातापि पृथगाश्रावणं कुर्यात्, तदा ‘क्षत्राय’ वैश्यजातिं ‘प्रत्युद्यामिनीं’ प्रत्युद्यमनशीलां ‘कुर्यात्’ । तस्मादिति, उक्तार्थानुगमनम् 53 ॥ ३४ ॥
Eggeling
- The Pratiprasthātr̥ is merely the imitator of what is done (by the Adhvaryu). For Varuṇa is the nobility, and the Maruts are the people: hence he thereby makes the people the imitators, the followers of the nobility. But were the Pratiprasthātr̥ also to call for the ‘Śraushaṭ,’ he would doubtless make the people equal in power to the nobility: for this reason the Pratiprasthātr̥ does not call for the ‘Śraushaṭ.’
३५
विश्वास-प्रस्तुतिः
प्राणा᳘वेव᳘ प्रतिप्रस्थाता॥
स्रु᳘चौ कृ᳘त्वोपास्ते᳘ ऽथाध्वर्यु᳘रे᳘वैतै᳘र्हवि᳘र्भिः प्र᳘चरत्याग्नेये᳘नाष्टा᳘कपालेन पुरोडा᳘शेन सौ᳘म्येन चरु᳘णा सावित्रेण[[!!]] द्वा᳘दशकपालेन वा ऽष्टा᳘कपालेन वा पुरोडा᳘शेन सारस्वते᳘न चरु᳘णा पौष्णे᳘न चरु᳘णैन्द्राग्ने᳘न द्वा᳘दशकपालेन पुरोडा᳘शेन॥
मूलम् - श्रीधरादि
प्राणा᳘वेव᳘ प्रतिप्रस्थाता॥
स्रु᳘चौ कृ᳘त्वोपास्ते᳘ ऽथाध्वर्यु᳘रे᳘वैतै᳘र्हवि᳘र्भिः प्र᳘चरत्याग्नेये᳘नाष्टा᳘कपालेन पुरोडा᳘शेन सौ᳘म्येन चरु᳘णा सावित्रेण[[!!]] द्वा᳘दशकपालेन वा ऽष्टा᳘कपालेन वा पुरोडा᳘शेन सारस्वते᳘न चरु᳘णा पौष्णे᳘न चरु᳘णैन्द्राग्ने᳘न द्वा᳘दशकपालेन पुरोडा᳘शेन॥
मूलम् - Weber
प्राणा᳘वेव᳘ प्रतिप्रस्थाता॥
स्रु᳘चौ कृॗत्वोपास्ते᳘ ऽथाध्वर्यु᳘रेॗवैतै᳘र्हवि᳘र्भिः प्र᳘चरत्याग्नेये᳘नाष्टा᳘कपालेन पुरोडा᳘शेन सौ᳘म्येन चरु᳘णा सावित्रे᳘ण द्वा᳘दशकपालेन वाष्टा᳘कपालेन वा पुरोडा᳘शेन सारस्वते᳘न चरु᳘णा पौष्णे᳘न चरु᳘णैन्द्राग्ने᳘न द्वा᳘दशकपालेन पुरोडा᳘शेन॥
मूलम् - विस्वरम्
पाणावेव प्रतिप्रस्थाता स्रुचौ कृत्वोपास्ते । अथाध्वर्युरेवैतैर्हविर्भिः प्रचरति- आग्नेयेनाष्टाकपालेन पुरोडाशेन, सौम्येन चरुणा, सावित्रेण द्वादशकपालेन वा ऽष्टाकपालेन वा पुरोडाशेन, सारस्वतेन चरुणा, पौष्णेन चरुणा, ऐन्द्राग्नेन द्वादशकपालेन पुरोडाशेन ॥ ३५ ॥
सायणः
पाणावेवेति 54 । एवमुभौ अध्वर्युप्रतिप्रस्थातारौ आज्यभागाभ्यां प्रचर्य, ‘प्रतिप्रस्थाता’ हस्ते एव जुहूपभृतौ धारयन् ‘उपास्ते’ उपविशति, आ पयस्याप्रचरणकालात् । ‘अध्वर्युः’ तु ‘एतैः’ आग्नेयादिभिः स्ववेद्यामासादितैः ‘हविर्भिः’ ‘प्रचरति’ 55 । तानि हवींषि परिगणयति- आग्नेयेनेत्यादिना ॥ ३५ ॥
Eggeling
- The Pratiprasthātr̥ sits down, after taking the two offering-spoons in his hand. The Adhvaryu then
proceeds with those oblations,–viz. Agni’s cake on eight potsherds, Soma’s pap, Savitr̥’s cake on twelve or eight potsherds, Sarasvatī’s pap, Pūshan’s pap, and Indra and Agni’s cake on twelve potsherds.
३६
विश्वास-प्रस्तुतिः
(ना᳘) अ᳘थैता᳘भ्यां पय᳘स्याभ्यां प्रचरिष्य᳘न्तौ व्विप᳘रिहरतः॥
स यो᳘ मेषो भ᳘वति मारुत्यां तं᳘ व्वारुण्याम᳘वदधाति या᳘ मेषी भ᳘वति व्वारुण्यां तां᳘ मारुत्याम᳘वदधाति तद्य᳘देवं᳘ व्विपरिहरतः[[!!]] क्षत्रं व्वै व्व᳘रुणो व्वीर्यं᳘ पुमान्वीर्य्यमे᳘वैत᳘त्क्षत्रे᳘ धत्तो ऽवीर्य्या वै स्त्री व्वि᳘शो मरु᳘तस्त᳘दवीर्या᳘मे᳘वैतद्वि᳘शं कुरुतस्त᳘स्मादेवं᳘ व्विप᳘रिहरतः॥
मूलम् - श्रीधरादि
(ना᳘) अ᳘थैता᳘भ्यां पय᳘स्याभ्यां प्रचरिष्य᳘न्तौ व्विप᳘रिहरतः॥
स यो᳘ मेषो भ᳘वति मारुत्यां तं᳘ व्वारुण्याम᳘वदधाति या᳘ मेषी भ᳘वति व्वारुण्यां तां᳘ मारुत्याम᳘वदधाति तद्य᳘देवं᳘ व्विपरिहरतः[[!!]] क्षत्रं व्वै व्व᳘रुणो व्वीर्यं᳘ पुमान्वीर्य्यमे᳘वैत᳘त्क्षत्रे᳘ धत्तो ऽवीर्य्या वै स्त्री व्वि᳘शो मरु᳘तस्त᳘दवीर्या᳘मे᳘वैतद्वि᳘शं कुरुतस्त᳘स्मादेवं᳘ व्विप᳘रिहरतः॥
मूलम् - Weber
अ᳘थैता᳘भ्याम् पयॗस्याभ्याम् प्रचरिष्य᳘न्तौ विप᳘रिहरतः॥
स यो᳘ मेषो भ᳘वति मारुत्यां तं᳘ वारुण्याम᳘वदधाति या᳘ मेषी भ᳘वति वारुण्यां ता᳘म् मारुत्याम᳘वदधाति तद्य᳘देवं᳘ विपरिह᳘रतः क्षत्रं वै व᳘रुणो वीर्य᳘म् पु᳘मान्वीर्य᳘मेॗवैत᳘त्क्षत्रे᳘ धत्तो ऽवीर्या वै स्त्री वि᳘शो मरु᳘तस्त᳘दवीर्या᳘मेॗवैतद्वि᳘शं कुरुतस्त᳘स्मादेवं᳘ विप᳘रिहरतः॥
मूलम् - विस्वरम्
अथैताभ्यां पयस्याभ्यां प्रचरिष्यन्तौ विपरिहरतः । स यो मेषो भवति मारुत्यां- तं वारुण्यामवदधाति । या मेषी भवति- वारुण्यां- तां मारुत्यामवदधाति । तद् यदेवं विपरिहरतः । क्षत्रं वै वरुणो वीर्यं पुमान्, वीर्यमेवैतत् क्षत्रे धत्तः । अवीर्य्या वै स्त्री, विशो मरुतः, तदवीर्यामेवैतद्विशं कुरुतः । तस्मादेवं विपरिहरतः ॥ ३६ ॥
सायणः
अथैताभ्यामित्यादि । एवमैन्द्राग्नपर्यन्तैः षड्भिर्हविर्भिरिष्ट्वा ‘अथैताभ्यां’ वारुणीमारुतीभ्यां ‘पयस्याभ्यां’ ‘प्रचरिष्यन्तौ’ यज्ञं तावध्वर्युप्रतिप्रस्थातारौ मेषमेष्यौ ‘विपरिहरतः’ । तदेव विपरिहरणं दर्शयति- स य इति । “सः उत्तरस्यामेव पयस्यायां मेषीम्”- (श. प. २ । ५ । १७ ।) इत्यादिना विधानात् ‘वारुण्यां मेषी’ स्यात् ‘मारुत्यां मेषः’ । तत्र यो मारुत्यां मेषो भवति, तं तत आहृत्य वारुण्यां स्थापयेत् । या च मेषी वारुण्यां, तां तत आहृत्य मारुत्यां स्थापयेत् 56 । तदेतद् विपरिहरणमनूद्य स्तौति- तद्यदेवमिति । मेषो हि पुंरूपत्वाद् वीर्यरूपः; वरुणश्च क्षत्रियजातिः; तस्मिन् क्षत्रियमेषस्य निधानात् ‘वीर्यमेव एतत् धत्तः’ ‘अवीर्या’ वीर्यं सामर्थ्यम्, तद्रहिता खलु ‘स्त्री;’ मरुतश्च वैश्यजातिः । मारुते हविषि स्त्रीपशोर्मेष्या निधानात् तां वैश्यजातिम् ‘अवीर्यां’ वीर्यरहितामेव कुरुतः ॥ ३६ ॥
Eggeling
- Thereupon, being about to proceed with those two oblations of curds, (the Adhvaryu and Pratiprasthātr̥) exchange (the ram and ewe): the ram which was on the Maruts’ (dish of curds) he (the Adhvaryu) places on that of Varuṇa; and the ewe which was on Varuṇa’s (dish of curds) he (the Pratiprasthātr̥) places on that of the Maruts. Now the reason why they make this exchange, is this,–Varuṇa is the nobility, and the male represents energy: hence they thereby bestow energy on the nobility. The female, on the other hand, is without energy; and the Maruts are the people: hence they thereby cause the people to be without energy. This is why they make this exchange.
३७
विश्वास-प्रस्तुतिः
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रे᳘वाह व्व᳘रुणाया᳘नुब्रू᳘ही᳘ति॥
स ऽउ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्यै᳘ व्वारुण्यै᳘ पय᳘स्यायै द्विर᳘वद्यति᳘ सो ऽन्यतरे᳘णावदा᳘नेन सह᳘ मेषम᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘तिक्रामत्यतिक्रम्याश्रा᳘व्याह[[!!]] व्व᳘रुणं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - श्रीधरादि
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रे᳘वाह व्व᳘रुणाया᳘नुब्रू᳘ही᳘ति॥
स ऽउ᳘पस्तृणीत ऽआ᳘ज्यम᳘थास्यै᳘ व्वारुण्यै᳘ पय᳘स्यायै द्विर᳘वद्यति᳘ सो ऽन्यतरे᳘णावदा᳘नेन सह᳘ मेषम᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘तिक्रामत्यतिक्रम्याश्रा᳘व्याह[[!!]] व्व᳘रुणं यजे᳘ति व्व᳘षट्कृते जुहोति॥
मूलम् - Weber
अ᳘थाध्वर्यु᳘रेॗवाह व᳘रुणाया᳘नुब्रूही᳘ति॥
स उ᳘पस्तृणीत आ᳘ज्यम᳘थास्यै वारुण्यै᳘ पयॗस्यायै द्विर᳘वद्यतिॗ सो ऽन्यतरे᳘णावदा᳘नेन सह᳘ मेषम᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने अ᳘तिक्रामत्यतिक्र᳘म्याश्रा᳘व्याह व᳘रुणं यजे᳘ति व᳘षट्कृते जुहोति॥
मूलम् - विस्वरम्
अथाध्वर्युरेवाह- ‘वरुणायानुब्रूहि’ इति । स उपस्तृणीत आज्यम् । अथास्यै वारुण्यै पयस्यायै द्विरवद्यति । सो ऽन्यतरेणावदानेन सह मेषमवदधाति । अथोपरिष्टादाज्यस्याभिघारयति, प्रत्यनक्त्यवदाने, अतिक्रामति । अतिक्रम्याश्राव्याह ‘वरुणं यज’ इति, वषट्कृते जुहोति ॥ ३७ ॥
सायणः
विपरिहरणानन्तरं वारुण्याः पयस्यायाः प्रचरणं विधत्ते- अथाध्वर्युरिति । वरुणायानुब्रूहीति । होतारं प्रत्यनुवाक्यार्थं सम्प्रैषमुक्त्वा, जुहामुपस्तीर्य, ‘अस्यै वारुण्यै’ षष्ठ्यर्थे चतुर्थी, वारुण्याः पयस्यायाः ‘द्विरवद्यति’ । ‘सः’ अवद्यन्नध्वर्युः ‘अन्यतरेण’ पूर्वेण उत्तरेण वा ‘अवदानेन’ ‘सह’ कृत्स्नं ‘मेषं’ स्रुचि ‘अवदधाति’ पुनरभिघार्य अवत्तप्रदेशे हविःप्रत्यञ्जनं कुर्यात् । स ततो ऽतिक्रमणादीनि प्रकृतिवत् कुर्यादित्यर्थः 56 ॥ ३७ ॥
Eggeling
- The Adhvaryu now says (to the Hotr̥), ‘Pronounce the invitatory prayer to Varuṇa!’ He then pours an ‘under-layer’ of butter (into the juhū), takes two cuttings from Varuṇa’s curds, and with either of the two cuttings puts the rant (in the spoon). He then pours butter thereon, replenishes (the place whence) the two cuttings (have been made), and steps across (to the south side of the fire). After stepping across and calling for the ‘Śraushaṭ,’ he says (to the Hotr̥), ‘Pronounce the offering-prayer to Varuṇa!’ and, on the ‘Vashat’ being uttered, he pours out the oblation.
३८
विश्वास-प्रस्तुतिः
सव्ये᳘ पाणा᳘वध्वर्युः᳘ स्रुचौ[[!!]] कृत्वा᳘॥
दक्षिणेन[[!!]] प्रतिप्रस्थातुर्व्वा᳘सोऽन्वार᳘भ्याह[[!!]] मरुद्भ्यो᳘ ऽनुब्रूहीत्युपस्तृणीत[[!!]] ऽआ᳘ज्यं प्रतिप्रस्थाता᳘ ऽथास्यै᳘ मारुत्यै᳘ पय᳘स्यायै द्विर᳘वद्यति᳘ सो ऽन्यतरे᳘णावदा᳘नेन सह᳘ मेषीम᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘तिक्रामत्य᳘थाध्वर्यु᳘रे᳘वाश्राव्याह[[!!]] मरु᳘तो यजे᳘ति व्वषट्कृते[[!!]] जुहो᳘ति॥
मूलम् - श्रीधरादि
सव्ये᳘ पाणा᳘वध्वर्युः᳘ स्रुचौ[[!!]] कृत्वा᳘॥
दक्षिणेन[[!!]] प्रतिप्रस्थातुर्व्वा᳘सोऽन्वार᳘भ्याह[[!!]] मरुद्भ्यो᳘ ऽनुब्रूहीत्युपस्तृणीत[[!!]] ऽआ᳘ज्यं प्रतिप्रस्थाता᳘ ऽथास्यै᳘ मारुत्यै᳘ पय᳘स्यायै द्विर᳘वद्यति᳘ सो ऽन्यतरे᳘णावदा᳘नेन सह᳘ मेषीम᳘वदधात्य᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने ऽअ᳘तिक्रामत्य᳘थाध्वर्यु᳘रे᳘वाश्राव्याह[[!!]] मरु᳘तो यजे᳘ति व्वषट्कृते[[!!]] जुहो᳘ति॥
मूलम् - Weber
सव्ये᳘ पाणा᳘वध्वर्युः॥
स्रु᳘चौ कृत्वा᳘ दक्षिणे᳘न प्रतिप्रस्थातु᳘र्वाॗ 57 सो ऽन्वार᳘भ्याह मरुद्भ्यो᳘ ऽनुब्रूहीत्यु᳘पस्तृणीत आ᳘ज्यम् प्रतिप्रस्थाता᳘थास्यै मारुत्यै᳘ पयॗस्यायै द्विर᳘वद्यतिॗ सो ऽन्यतरे᳘णावदा᳘नेन सह᳘ मेषीमवदधात्यथोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति प्र᳘त्यनक्त्यवदा᳘ने अ᳘तिक्रामत्य᳘थाध्वर्यु᳘रेॗवाश्रा᳘व्याह मरु᳘तो यजे᳘ति व᳘षट्कृते जुहोति॥ ौ
मूलम् - विस्वरम्
सव्ये पाणावध्वर्युः स्रुचौ कृत्वा दक्षिणेन प्रतिप्रस्थातुर्वासो ऽन्वारभ्याह- ‘मरुद्भ्यो ऽनुब्रूहि’ इति । उपस्तृणीत आज्यं प्रतिप्रस्थाता । अथास्यै मारुत्यै पयस्यायै द्विवद्यति । सो ऽन्यतरेणावदानेन सह मेषीमवदधाति । अथोपरिष्टादाज्यस्याभिघारयति, प्रत्यनक्त्यवदाने, अतिक्रामति । अथाध्वर्युरेवाश्राव्याह- ‘मरुतो यज’ इति, वषट्कृते जुहोति ॥ ३८ ॥
सायणः
प्रतिप्रस्थातुर्मारुत्याः पयस्यायाः प्रचरणे विशेषमाह- सव्ये पाणाविति । स्वकीये ‘सुचौ’ जुहूपभृतौ अध्वर्युः आत्मीये ‘सव्ये पाणौ’ कृत्वा, ‘दक्षिणेन प्रतिप्रस्थातुः’ वासो ऽन्वारभ्य,’ ‘मरुद्भ्यो ऽनुब्रूहि-’ इति होतारं प्रतिप्रेष्य, उपस्तरणादिकं प्रतिप्रस्थाता कुर्यात् । सो ऽन्यतरेणेति । सः प्रतिप्रस्थाता पूर्वेणोत्तरेण वा ऽवदानेन सह कृत्स्नं मेषं स्रुचि अवदध्यात् । ततो मेषीं वारुण्या प्रत्यञ्जनेनेति । ततः प्रतिप्रस्थाता वेदिमतिक्रामति । अनन्तरमध्वर्युरेव तदीयं वासो ऽन्वारभ्य “मरुतो यज” इति ब्रूयात् । होत्रायाज्यान्ते वषट्कृते सति केवलं प्रतिप्रस्थाता दक्षिणे आहवनीये हविर्जुहोति तमनु किञ्चिद् वाचाप्याहरेत् । एतत् सर्वं सङ्गृह्य कात्यायनेन सूत्रितम्- “पयस्याप्रचरणकाले मेषौ व्यतिहरतः, अन्यतरेणावदानेन सहमेषं, सव्येन स्रुचौ गृहीत्वा प्रतिप्रस्थातुर्वासो दक्षिणेन मरुद्भयो ऽनुवाचयति, वारुणीवदवदानम्- इति (का . श्रौ. सू. ५ । १२७- १३०) ॥ ३८ ॥
Eggeling
- Thereupon the Adhvaryu takes both spoons in his left hand; and taking hold of the Pratiprasthātr̥’s garment, says (to the Hotr̥), ‘Pronounce the invitatory prayer to the Maruts!’ The
Pratiprasthātr̥ then makes an ‘under-layer’ of butter (in his juhū and two cuttings from the curds of the Maruts, and with either of the two cuttings puts the ewe (in the spoon). He then pours butter thereon, replenishes (the place of) the two cuttings, and steps across (to the south of the fire). The Adhvaryu, having called for the ‘Śraushaṭ,’ says (to the Hotr̥), ‘Pronounce the offering-prayer to the Maruts!’ and on the ‘Vashaṭ’ being uttered, (the Pratiprasthātr̥) he pours out the oblation.
३९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थाध्वर्यु᳘रेव᳘ कायेन॥
(नै᳘) ए᳘ककपालेन पुरोडा᳘शेन प्र᳘चरति कायेनै᳘ककपालेन पुरोडा᳘शेन प्र᳘च᳘र्याध्वर्यु᳘रे᳘वाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रू᳘हीति[[!!]] स स᳘र्व्वेषामेव᳘ हवि᳘षामध्वर्युः᳘ सकृ᳘त्सकृद᳘वद्यत्य᳘थैत᳘स्या ऽएव᳘ पय᳘स्यायै प्रतिप्रस्थाता᳘ सकृद᳘वद्यत्य᳘थोप᳘रिष्टाद् द्विरा᳘ज्यस्याभि᳘घारयतस्ता᳘ ऽउभा᳘वेवा᳘तिक्रामतो ऽतिक्रम्याश्रा᳘व्याध्वर्यु᳘रे᳘वाहाग्नि᳘ᳫं᳘[[!!]] स्विष्टकृ᳘तं यजे᳘ति ता᳘ ऽउभा᳘वेव व᳘षट्कृते जुहुतः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थाध्वर्यु᳘रेव᳘ कायेन॥
(नै᳘) ए᳘ककपालेन पुरोडा᳘शेन प्र᳘चरति कायेनै᳘ककपालेन पुरोडा᳘शेन प्र᳘च᳘र्याध्वर्यु᳘रे᳘वाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रू᳘हीति[[!!]] स स᳘र्व्वेषामेव᳘ हवि᳘षामध्वर्युः᳘ सकृ᳘त्सकृद᳘वद्यत्य᳘थैत᳘स्या ऽएव᳘ पय᳘स्यायै प्रतिप्रस्थाता᳘ सकृद᳘वद्यत्य᳘थोप᳘रिष्टाद् द्विरा᳘ज्यस्याभि᳘घारयतस्ता᳘ ऽउभा᳘वेवा᳘तिक्रामतो ऽतिक्रम्याश्रा᳘व्याध्वर्यु᳘रे᳘वाहाग्नि᳘ᳫं᳘[[!!]] स्विष्टकृ᳘तं यजे᳘ति ता᳘ ऽउभा᳘वेव व᳘षट्कृते जुहुतः॥
मूलम् - Weber
अ᳘थाध्वर्यु᳘रेव᳘ कायेन॥
ए᳘ककपालेन पुरोडा᳘शेन प्र᳘चरति कायेनै᳘ककपालेन पुरोडा᳘शेन प्रच᳘र्याध्वर्यु᳘रेॗवाहाग्न᳘ये स्विष्टकृते᳘ ऽनुब्रूही᳘ति स स᳘र्वेषामेव᳘ हवि᳘षामध्वर्युः᳘ सकृ᳘त्सकृद᳘वद्यत्य᳘थैत᳘स्या एव᳘ पयॗस्यायै प्रतिप्रस्थाता᳘ सकृद᳘वद्यत्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयतस्ता᳘ उभा᳘वेवा᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रेॗवाहाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं यजे᳘ति ता᳘ उभा᳘वेव व᳘षट्कृते जुहुतः॥
मूलम् - विस्वरम्
अथाध्वर्युरेव कायेनैककपालेन पुरोडाशेन प्रचरति । कार्येनैककपालेन पुरोडाशेन प्रचर्याध्वर्युरेवाह- ‘अग्नये स्विष्टकृते ऽनुब्रूहि’ इति । स सर्वेषामेव हविषामध्वर्युः सकृत्सकृदवद्यति । अथैतस्या एव पयस्यायै प्रतिप्रस्थाता सकृदवद्यति । अथोपरिष्टाद् द्विराज्यस्याभिघारयतः । ता उभावेवातिक्रामतः । अतिक्रम्याश्राव्याध्वर्युरेवाह- ‘अग्निं स्विष्टकृतं यज’ इति । ता उभावेव वषट्कृते जुहुतः ॥ ३९ ॥
सायणः
कायेन हविषा प्रचरणं विधत्ते- अथेति । प्रधानयागानन्तरमनुष्ठेयं स्विष्टकृदादिप्रयोगजातं सर्वमनुक्रामति- अध्वर्युरेवाहाग्नये स्विष्टकृत इत्यादिना 58 । “अनुब्रूहि-” इति । स्विष्टकृद्यागस्य पुरो ऽनुवाक्याप्रैषः । अनुष्ठितं प्रधानयागं न्यूनातिरेकदोषपरिहारेण स्विष्टं शोभनं यज्ञं करोतीति स्विष्टकृत् ॥
स सर्वेषामेवेति । आग्नेयादि-कायान्तानाम् 59 । सकृत्सकृदिति । प्रधानयागस्य । द्विरवदानप्रसक्तिं वारयति- एतस्या एवेति । ‘एतस्याः’ मारुत्याः पयस्यायाः ‘एव’ हविषः सकाशात् स्विष्टकृदर्थं ‘सकृत्’ एव अवद्येत्, नान्यस्मादित्येवकारार्थः । चतुरवदानसम्पत्तये अभिघारणस्य द्वित्वं विधत्ते- अथोपरिष्टादिति । ‘द्विः’ क्रियाभ्यावृत्तिगणने ऽर्थे, “द्वित्रिचतुर्भ्यः सुच्" (पा. सू. ५ । ४ । ८१)- इति द्विशब्दात् सुच् ॥ ३९ ॥
Eggeling
- The Adhvaryu then proceeds with the cake on eleven potsherds for Ka; and having made that offering, he says, ‘Pronounce the invitatory prayer to Agni Svishṭakr̥t (" the maker of good offering")!’ The Adhvaryu then takes cuttings from all (his) oblations, one from each; and the Pratiprasthātr̥ also takes one cutting from that oblation of curds (to the Maruts). They then pour twice butter upon (the portions), and step across (to the south side of the fires). On stepping across and calling for the ‘Śraushaṭ,’ the Adhvaryu says, ‘Pronounce the offering-prayer to Agni Svishṭakr̥t; and after the (concluding) ‘Vashaṭ,’ they both pour out the oblation.
४०
विश्वास-प्रस्तुतिः
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रेव᳘ प्राशित्रम᳘वद्यति॥
(ती᳘) इ᳘डाᳫंसमवदा᳘य प्रतिप्रस्था᳘त्रे ऽतिप्र᳘जिहीते तत्रा᳘पि प्रतिप्रस्थाता᳘ मारुत्यै᳘ पय᳘स्यायै द्विरभ्य᳘वद्यत्य᳘थोप᳘रिष्टाद्[[!!]] द्विरा᳘ज्यस्याभिघारयत्युपहू᳘य[[!!]] मार्जयन्ते॥
मूलम् - श्रीधरादि
(तो᳘ ऽ) अ᳘थाध्वर्यु᳘रेव᳘ प्राशित्रम᳘वद्यति॥
(ती᳘) इ᳘डाᳫंसमवदा᳘य प्रतिप्रस्था᳘त्रे ऽतिप्र᳘जिहीते तत्रा᳘पि प्रतिप्रस्थाता᳘ मारुत्यै᳘ पय᳘स्यायै द्विरभ्य᳘वद्यत्य᳘थोप᳘रिष्टाद्[[!!]] द्विरा᳘ज्यस्याभिघारयत्युपहू᳘य[[!!]] मार्जयन्ते॥
मूलम् - Weber
अ᳘थाध्वर्यु᳘रेव᳘ प्राशित्रम᳘वद्यति॥
इ᳘डाᳫं समवदा᳘य प्रतिप्रस्थाॗत्रे ऽतिप्र᳘जिहीते तत्रा᳘पि प्रतिप्रस्थाता᳘ मारुत्यै᳘ पयॗस्यायै द्वि᳘रभ्य᳘वद्यत्य᳘थोप᳘रिष्टाद्द्विरा᳘ज्यस्याभि᳘घारयत्युपहूय मार्जयन्ते॥
मूलम् - विस्वरम्
अथाध्वर्युरेव प्राशित्रमवद्यति । इडां समवदाय प्रतिप्रस्थात्रे ऽतिप्रजिहीते । तत्रापि प्रतिप्रस्थाता मारुत्यै पयस्यायै द्विरभ्यवद्यति । अथोपरिष्टाद् द्विराज्यस्याभिघारयति । उपहूय मार्जयन्ते ॥ ४० ॥
सायणः
अथाध्वर्युरेव प्राशित्रमिति । प्रतिप्रस्थातुः प्राशित्रावदानं नास्तीत्येवकारार्थः । तस्य पयस्यारूपहविषः सान्नाय्यविकृतित्वात् प्रकृतौ सान्नाय्यात् प्राशित्रावदानस्यादर्शनादित्यभिप्रायः । इडां समवदायेति । सर्वेभ्यो हविर्भ्यः सम्भूय एकस्मिन्निडापात्रे अवद्यादित्यर्थः । अतिप्रजिहीत इति । उत्तरां वेदिमतिक्रमय्य तदिडापात्रं, प्रगमयेदित्यर्थः 60 । “ओहाङ् गतौ" (धा. पा. जु. प. ७) इत्यस्मात् अन्तर्णीतण्यर्थाल्लटि रूपम्,- “भृञामित्”- (पा. सू. ७ । ४ । ७६) इति अभ्यासस्येत्त्वम् । मारुत्यै पयस्याया इति, षष्ठ्यर्थे चतुर्थी । द्विराज्यस्याभिघारयतीति । अध्वर्युरेव न प्रतिप्रस्थाता ॥ ४० ॥
Eggeling
- The Adhvaryu now cuts off the fore-portion. Having then cut off the Iḍā piece by piece, he hands it to the Pratiprasthātr̥; and the Pratiprasthātr̥ puts thereon two cuttings from the Maruts’ curds. He (the Adhvaryu) then pours twice butter thereon. After invoking (the Iḍā), they cleanse themselves 61.
४१
विश्वास-प्रस्तुतिः
(न्ते᳘ ऽथा) अ᳘थाध्वर्यु᳘रे᳘वाह ब्र᳘ह्मन्प्र᳘स्थास्यामि॥
समि᳘धमाधा᳘याग्नि᳘मग्नीत्सं᳘मृड्ढी᳘ति स᳘ स्रुचो᳘रे᳘वाध्वर्युः᳘ पृषदाज्यं व्या᳘नयते᳘ ऽथ य᳘दि प्रतिप्रस्थातुः᳘ पृषदाज्यं भ᳘वति तत्स᳘ द्वेधा व्या᳘नयत ऽउ᳘तो त᳘त्र पृषदाज्यं न᳘ भवति स य᳘दे᳘वोपभृत्या᳘ज्यं तत्स᳘ द्वेधा न्या᳘नयते ता᳘ ऽउभा᳘वेवातिक्रामतो[[!!]] ऽतिक्रम्याश्रा᳘व्याध्वर्यु᳘रे᳘वाह[[!!]] देवा᳘न्यजे᳘ति यज᳘यजे᳘ति चतुर्थे᳘ चतुर्थे ऽनुयाजे᳘ समान᳘यमानौ नव᳘भिरनुयाजै᳘श्चरतस्तद्यन्न᳘वप्रयाजं भ᳘वति न᳘वानुयाजं त᳘दुभय᳘त ऽए᳘वैत᳘द्वरुणपाशात्प्रजाः[[!!]] प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्मान्न᳘वप्रयाजं भवति न᳘वानुयाजम्॥
मूलम् - श्रीधरादि
(न्ते᳘ ऽथा) अ᳘थाध्वर्यु᳘रे᳘वाह ब्र᳘ह्मन्प्र᳘स्थास्यामि॥
समि᳘धमाधा᳘याग्नि᳘मग्नीत्सं᳘मृड्ढी᳘ति स᳘ स्रुचो᳘रे᳘वाध्वर्युः᳘ पृषदाज्यं व्या᳘नयते᳘ ऽथ य᳘दि प्रतिप्रस्थातुः᳘ पृषदाज्यं भ᳘वति तत्स᳘ द्वेधा व्या᳘नयत ऽउ᳘तो त᳘त्र पृषदाज्यं न᳘ भवति स य᳘दे᳘वोपभृत्या᳘ज्यं तत्स᳘ द्वेधा न्या᳘नयते ता᳘ ऽउभा᳘वेवातिक्रामतो[[!!]] ऽतिक्रम्याश्रा᳘व्याध्वर्यु᳘रे᳘वाह[[!!]] देवा᳘न्यजे᳘ति यज᳘यजे᳘ति चतुर्थे᳘ चतुर्थे ऽनुयाजे᳘ समान᳘यमानौ नव᳘भिरनुयाजै᳘श्चरतस्तद्यन्न᳘वप्रयाजं भ᳘वति न᳘वानुयाजं त᳘दुभय᳘त ऽए᳘वैत᳘द्वरुणपाशात्प्रजाः[[!!]] प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्मान्न᳘वप्रयाजं भवति न᳘वानुयाजम्॥
मूलम् - Weber
अ᳘थाध्वर्यु᳘रेॗवाह ब्र᳘ह्मन्प्र᳘स्थास्यामि॥
समि᳘धमाधा᳘याग्नि᳘मग्नीत्स᳘म्मृड्ढी᳘ति स᳘ स्रुचो᳘रेॗवाध्वर्युः᳘ पृषदाज्यं व्या᳘नयते᳘ ऽथ य᳘दि प्रतिप्रस्थातुः᳘ पृषदाज्यम् भ᳘वति तत्स᳘ द्वेधा व्या᳘नयत उॗतो त᳘त्र पृषदाज्यं न᳘ भवति स य᳘देॗवोपभृत्या᳘ज्यं तत्स᳘ द्वेधा व्या᳘नयते ता᳘ उभा᳘वेवा᳘तिक्रामतो ऽतिक्र᳘म्याश्रा᳘व्याध्वर्यु᳘रेॗवाह देवा᳘न्यजे᳘ति य᳘ज-यजे᳘ति चतुर्थे᳘-चतुर्थे ऽनुयाजे᳘ समान᳘यमानौ नवभिरनुयाजै᳘श्चरतस्तद्यन्न᳘वप्रयाजम् भ᳘वति न᳘वानुयाजं त᳘दुभय᳘त एॗवैत᳘द्वरुणपाशा᳘त्प्रजाः प्र᳘मुञ्चतीत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्मान्न᳘वप्रयाजम् भवति न᳘वानुयाजम्॥
मूलम् - विस्वरम्
अथाध्वर्युरेवाह- ‘ब्रह्मन् प्रस्थास्यामि’,‘समिधमाधाय अग्निमग्नीत् संमृड्ढि’ इति । स स्रुचोरेवाध्वर्युः पृषदाज्यं व्यानयते । अथ यदि प्रतिप्रस्थातुः पृषदाज्यं भवति- तत् स द्वेधा व्यानयते । उतो तत्र पृषदाज्यं न भवति- स यदेवोपभृत्याज्यं तत् स द्वेधा व्यानयते । ता उभावेवातिक्रामतः । अतिक्रम्याश्राव्याध्वर्युरेवाह- ‘देवान्यज’ इति । ‘यज-यज’ इति चतुर्थे-चतुर्थे ऽनुयाजे समानयमानौ नवभिरनुयाजैश्चरतः । तद्यन्नवप्रयाजं भवति, नवानुयाजम् । तदुभयत एवैतद्वरुणपाशात् प्रजाः प्रमुञ्चति- इतश्चोर्ध्वाः, इतश्चावाचीः । तस्मान्नवप्रयाजं भवति, नवानुयाजम् ॥ ४१ ॥
सायणः
अथाध्वर्युरेवाह ब्रह्मन् प्रस्थास्यामीत्यादि । इडोपह्वानादिकं प्रकृतिवदेव कृत्वा, अनुयाजार्थमभ्यनुज्ञापकमिमं प्रैषमप्यध्वर्युरेव ब्रूयात् । यत् किञ्च वाचा कर्त्तव्यमध्वर्युरेव तत् करोति”- (श. प. २ । ५ । २ । ३३) इति प्राक् प्रतिपादितस्यैवायं प्रपञ्चः, प्रैषार्थः प्रकृतावेव वर्णितः । स स्रुचोरेवेत्यादि । ‘सः’ अध्वर्युः ‘स्रुचोः’ जुहूपभृतोः ‘एव’ ‘पृषदाज्यं’ दधिमिश्रमाज्यं ‘व्यानयते’ विविधमासिञ्चति । पृषदाज्यधानीगतं पृषदाज्यं जुह्वामर्द्धमासिच्य, शिष्टमाज्यमुपभृति आनयेदित्यर्थः । प्रतिप्रस्थातुः पक्षद्वयमाह- अथ यदीति 60 । आज्यग्रहणकाले यदि प्रतिप्रस्थाता पृषदाज्यं गृह्णीयात् तदा तत् पृषदाज्यम्, इदानीं स प्रतिप्रस्थाता अध्वर्युवत् जुहूपभृतोः द्विधा व्यासिञ्चेत् । उतो इति पक्षान्तरद्योतने । यदि तु तत्र ग्रहणसमये पृषदाज्यं न गृहीतं भवति, तदा स प्रतिप्रस्थाता उपभृति स्थितं यदेवाज्यं विद्यते, तस्यौपभृतस्याज्यस्य अर्द्धं प्रथमं जुह्वामासिच्य, शिष्टमाज्यं चतुर्थे प्रयाजे आसिञ्चेदित्यर्थः ॥
आसेचनानन्तरं कर्त्तव्यमतिक्रमणादिकमुपदिशति- ता उभावेवेत्यादिना । ‘देवान् यज’- इति प्रथमो ऽनुयाजप्रैषः । यजयजेत्यादिसर्वत्र “नित्यवीप्सयोः” इति (पा० सू० ८ । १ । ४) यजेत्यस्य द्विर्वचनम् । जौहवेन पृषदाज्येन त्रिरिष्ट्वा चतुर्थे चतुर्थे अनुयाजे औपभृतम् ‘समानयमानौ’ उभावपि अध्वर्युप्रतिप्रस्थातारौ ‘नवभिः अनुयाजैः’ ‘चरतः’ प्रचरत इत्यर्थः । उभयापेक्षया ‘चतुर्थे-चतुर्थे’ इति वीप्सा । प्रयाजानुयाजानां तत्सङ्ख्याकत्वं सम्भूय प्रशंसति- तद्यदिति । प्रधानयागात्प्रथममिज्यन्त इति प्रयाजाः, अनु पश्चादिज्यन्त इत्यनुयाजाः । कर्मणि घञि तावेतौ “प्रयजानुयाजौ यज्ञाङ्गे” इति (पा. सू. ७ । २ । ६२) निपातनात् कुत्वाभावः । नव प्रयाजा अनुयाजाश्च यस्मिन् इत्युभयत्र बहुव्रीहिः, शिष्टमुक्तार्थम् ॥ ४१ ॥
Eggeling
- Thereupon the Adhvaryu says, ‘O Brahman, shall I step forward?’ Having put on the (remaining) kindling-stick 62 he says, Agnīdh, trim the fire!
He, the Adhvaryu, then pours the clotted butter 63 (in the pr̥shadājya-upabhr̥t) into the two spoons (the juhū and upabhr̥t); and the Pratiprasthātr̥ also, if he have any clotted butter, divides it into two parts and pours it (into the two spoons); but if there is no clotted butter, he divides the butter in the upabhr̥t in two parts and pours them out separately. Then both step across (to the south side of the fires). The Adhvaryu, having stepped across and called for the ‘Śraushaṭ,’ says (to the Hotr̥), ‘Pronounce the offering-formula to the gods!’ and, ‘Pronounce the offering-formula!’ at each (subsequent after-offering). Thus they both perform the nine after-offerings 64, pouring together (the butter from the spoons) at the (or at every) fourth after-offering. The reason why there are nine fore-offerings and nine after-offerings, is that he thereby delivers the creatures both times from Varuṇa’s noose,–by the former (he delivers) the upright and by the latter those looking to the ground: for this reason there are nine fore-offerings and nine after-offerings.
४२
विश्वास-प्रस्तुतिः
ता᳘ ऽउभा᳘वेव᳘ सादयित्वा स्रु᳘चो᳘ व्यूहतः॥
स्रु᳘चो व्यु᳘ह्य परिधी᳘न्त्सम᳘ज्य परिधि᳘मभिप᳘द्याश्रा᳘व्याध्वर्यु᳘रे᳘वाहेषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति सूक्तवाकᳫं᳭ हो᳘ता प्रतिप᳘द्यते᳘ ऽथैता ऽउभा᳘वेव᳘ प्रस्तरौ᳘ समु᳘ल्लुम्पत ऽउभा᳘वनुप्र᳘हरत उभौ तृ᳘णे ऽअपगृ᳘ह्योपासाते[[!!]] यदा हो᳘ता सूक्तवाकमाह॥
मूलम् - श्रीधरादि
ता᳘ ऽउभा᳘वेव᳘ सादयित्वा स्रु᳘चो᳘ व्यूहतः॥
स्रु᳘चो व्यु᳘ह्य परिधी᳘न्त्सम᳘ज्य परिधि᳘मभिप᳘द्याश्रा᳘व्याध्वर्यु᳘रे᳘वाहेषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति सूक्तवाकᳫं᳭ हो᳘ता प्रतिप᳘द्यते᳘ ऽथैता ऽउभा᳘वेव᳘ प्रस्तरौ᳘ समु᳘ल्लुम्पत ऽउभा᳘वनुप्र᳘हरत उभौ तृ᳘णे ऽअपगृ᳘ह्योपासाते[[!!]] यदा हो᳘ता सूक्तवाकमाह॥
मूलम् - Weber
ता᳘ उभा᳘वेव᳘ सादयित्वा स्रु᳘चोॗ व्यूहतः॥
स्रु᳘चो व्यु᳘ह्य परिधी᳘न्त्सम᳘ज्य परिधिमभिपद्याश्राव्याध्वर्यु᳘रेॗवाहेषिता दै᳘व्या हो᳘तारो भद्रवाॗच्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति सूक्तवाकᳫं हो᳘ता प्रतिप᳘द्यते᳘ ऽथैता᳘ उभा᳘वेव᳘ प्रस्तरौ समु᳘ल्लुम्पत उभा᳘वनुप्र᳘हरत उभौ तृ᳘णे अपगृह्यो᳘पासाते यदा हो᳘ता सूक्तवाकमाह॥
मूलम् - विस्वरम्
ता उभावेव सादयित्वा स्रुचो व्यूहतः । स्रुचो व्युह्य, परिधीन् समज्य परिधिमभिपद्य, आश्राव्याध्वर्युरेवाह- “इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय” इति । सूक्तवाकं होता प्रतिपद्यते । अथैता उभावेव प्रस्तरौ समुल्लुम्पतः, उभावनुप्रहरतः, उभौ तृणे अपगृह्योपासाते- यदा होता सूक्तवाकमाह ॥ ४२ ॥
सायणः
अनुयाजानन्तरभावि स्रुग्व्यूहनादिकमपि चोदकप्राप्तमुभाभ्यां कर्त्तव्यमित्यनुक्रामति- ता उभावेवेत्यादिना 65 । परिधिमभिपद्येति । मध्यमं परिधिमन्वारभ्येत्यर्थः । उक्तं हि कात्यायनेन- “प्रथमं परिधिं गृहीत्वा ऽऽश्राव्याहेषिता दैव्या इति (का. श्रौ. सू. ३ । १२१) “इषिता दैव्या" (श. प. १ । ८ । ३ । १० भा.) इति सूक्तवाकप्रैषः प्रकृतावेव व्याख्यातः । समुल्लुम्पत इति । “लुप्लृ छेदने” (धा. पा. तु. उ. १५१) समुच्छिन्तः समुद्गृह्णीत इति यावत् । उभावनु प्रहरत इति । सूक्तवाके ऽनूच्यमाने ‘उभौ’ अध्वर्युप्रतिप्रस्थातारौ ‘अनुप्रहरतः’ स्वं स्वं प्रस्तरमग्नौ प्रक्षिपत इत्यर्थः । यदा होतेति । ‘यदा’ खलु होता सूक्तवाकं परिसमापयति ॥ ४२ ॥
Eggeling
- They both then separate the spoons 66, after laying them (on the altars). Having separated the spoons, and anointed the enclosing-sticks; and having thereupon taken hold of the (middle) enclosing-stick,
and called for the (Āgnīdhra’s) ‘Śraushaṭ,’ the Adhvaryu thus addresses (the Hotr̥) 67, ‘The divine Hotr̥s are summoned for the proclamation of success; the human is called upon for the song of praise!’ The Hotr̥ then intones the song of praise (sūktavāka). Thereupon both seize their prastara-bunches and throw them (into the fires); both take a single straw each therefrom and remain sitting by (the fires); when the Hotr̥ recites the song of praise,–
४३
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
ता᳘ ऽउभा᳘वे᳘वानुप्र᳘हरत ऽउभा᳘वात्मा᳘ना ऽउ᳘पस्पृशेते॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
ता᳘ ऽउभा᳘वे᳘वानुप्र᳘हरत ऽउभा᳘वात्मा᳘ना ऽउ᳘पस्पृशेते॥
मूलम् - Weber
अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
ता᳘ उभा᳘वेॗवानुप्र᳘हरत उभा᳘वात्मा᳘ना उ᳘पस्पृशेते॥
मूलम् - विस्वरम्
अथाग्नीदाह ‘अनुप्रहर’ इति । ता उभावेवानुप्रहरतः, उभावात्माना उपस्पृशेते ॥ ४३ ॥
सायणः
‘अथ’ अनन्तरम् ‘अग्नीत्’ आग्नीध्रः ‘अनुप्रहर’- ‘इति’ अध्वर्युं प्रति ‘आह’ उभावेवेति । यद्यप्यनुप्रहरेत्येकवचनेनाध्वर्युरेव प्रेर्यते तथापि कृतानुकरत्वात् 65 प्रतिप्रस्थातुरपि तृणानुप्रहरणं विद्यते इत्यर्थः । आत्माना 68 उपस्पृशेते इति । “चक्षुष्पा” (वा. सं २ । १५) इति मन्त्रेण । तथा च सूत्रितम्- “चक्षुष्पा इत्यात्मानमालभते” इति (का . श्रौ. सू. ३ । १३३) ॥ ४३ ॥
Eggeling
- The Āgnīdhra says, ‘Throw after!’ Both (the Adhvaryu and Pratiprasthātr̥) throw (the stalk) after (the prastara); and both touch themselves.
४४
विश्वास-प्रस्तुतिः
(ते अ᳘) अ᳘थाह सं᳘वदस्वेति[[!!]]॥
(त्य᳘) अ᳘गानग्नीद᳘गञ्छ्राव᳘य[[!!]] श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शंयो᳘र्ब्रूही᳘त्यध्वर्यु᳘रे᳘वैत᳘दाह ता᳘ ऽउभा᳘वेव᳘ परिधी᳘ननुप्र᳘हरत ऽउभौ स्रु᳘चः सम्प्रगृ᳘ह्य स्फ्ये᳘ सादयतः॥
मूलम् - श्रीधरादि
(ते अ᳘) अ᳘थाह सं᳘वदस्वेति[[!!]]॥
(त्य᳘) अ᳘गानग्नीद᳘गञ्छ्राव᳘य[[!!]] श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शंयो᳘र्ब्रूही᳘त्यध्वर्यु᳘रे᳘वैत᳘दाह ता᳘ ऽउभा᳘वेव᳘ परिधी᳘ननुप्र᳘हरत ऽउभौ स्रु᳘चः सम्प्रगृ᳘ह्य स्फ्ये᳘ सादयतः॥
मूलम् - Weber
अ᳘थाह सं᳘वदस्वे᳘ति॥
अ᳘गानग्नी᳘द᳘गंछ्राव᳘य श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शं यो᳘र्ब्रूही᳘त्यध्वर्यु᳘रेॗवैत᳘दाह ता᳘ उभा᳘वेव᳘ परिधी᳘ननुप्र᳘हरत उभौ स्रु᳘चः सम्प्रगृ᳘ह्य स्फ्ये᳘ सादयतः॥
मूलम् - विस्वरम्
अथाह- ‘संवदस्व’ इति । अगानग्नीद्- अगन् श्रावय श्रौषट्, “स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि”- इति अध्वर्युरेवैतदाह । ता उभावेव परिधीननुप्रहरतः, उभौ स्रुचः सम्प्रगृह्य स्फ्ये सादयतः ॥ ४४ ॥
सायणः
संवदस्वागानग्नीदित्यादीनामुक्तिप्रत्युक्तिरूपं यदस्ति तदप्याग्नीध्रस्य अध्वर्युणोक्तेनैवेत्यभिप्रेत्याह- अथाहेति । ‘अथ’ अनन्तरं “संवदस्व” ‘इत्याह’ आग्नीध्रः । तच्च संवदनमुक्तिप्रत्युक्तिरूपमनुक्रामति- अगानिति । ते च मन्त्राः प्रकृतौ व्याख्याताः । तेषु च विभागः सूत्रकृता दर्शितः- (श. प. १ । ८ । ३ । २० । भा.) एतेषां “संवदस्वागाञ्छ्रौषडित्यग्नीच्छेषमितरो व्यत्यासं ब्रूतः” (का. श्रौ. सू. ३ । १३४) । इति “स्वगा दैव्या” इति शंयुवाकप्रैषमध्वर्युरेव ब्रूयात् । परिधिप्रहरणादिकं तूभाभ्यामेवानुष्ठेयम् । उभौ स्रुच इत्यादि । ‘सम्प्रगृह्य’ सम्यग् गृहीत्वा विमोचनार्थं स्फ्ये ‘सादयतः’ ॥ ४४ ॥
Eggeling
- He (the Āgnīdhra) then says 69, ‘Discourse (with me)!’ [The Adhvaryu asks,] ‘Has he gone (to the gods), Agnīdh? He has gone!’–‘Bid (the gods) hear!’–‘Yea, may (one) hear!’–‘Goodspeed to the divine Hotr̥s! Success to the human!’—The Adhvaryu also (afterwards) 70 says (to the Hotr̥), ‘Pronounce the “All-hail and blessing!”’ They both throw the enclosing-sticks (into the fire); and after taking up the spoons together, they both place them on the wooden sword 71.
४५
विश्वास-प्रस्तुतिः
(तो᳘) अ᳘थाध्वर्यु᳘रेव᳘ प्रतिपरे᳘त्य॥
प᳘त्नीः सं᳘याजयत्यु᳘पास्त ऽएव᳘ प्रतिप्रस्थाता प᳘त्नीः संया᳘ज्योदै᳘त्यध्वर्युः॥
मूलम् - श्रीधरादि
(तो᳘) अ᳘थाध्वर्यु᳘रेव᳘ प्रतिपरे᳘त्य॥
प᳘त्नीः सं᳘याजयत्यु᳘पास्त ऽएव᳘ प्रतिप्रस्थाता प᳘त्नीः संया᳘ज्योदै᳘त्यध्वर्युः॥
मूलम् - Weber
अ᳘थाध्वर्यु᳘रेव प्रतिपरे᳘त्य॥
प᳘त्नीः सं᳘याजयत्युपास्त एव᳘ प्रतिप्रस्थाता प᳘त्नीः संया᳘ज्योदै᳘त्यध्वर्युः 72 ॥
मूलम् - विस्वरम्
अथाध्वर्युरेव प्रतिपरेत्य पत्नीः संयाजयति । उपास्त एव प्रतिप्रस्थाता । पत्नीः संयाज्योदेत्यध्वर्युः ॥ ४५ ॥
सायणः
अथाध्वर्युरेवेति । प्रतिपरेत्येति । आहवनीयदेशात् प्रतिनिवृत्य गार्हपत्यसमीपं गत्वेत्यर्थः । उपास्त इति । पत्नीसंयाजसमये तूष्णीमुपविशेत् प्रतिप्रस्थाता, न तु तस्य तदानीं कृतानुकरत्वमपेक्षितमित्यर्थः । पत्नीः संयाज्योदेत्यध्वर्युरिति । पत्नीसंयाजानन्तरमाहवनीयदेशं गत्वेत्यर्थः ॥ ४५ ॥
Eggeling
- Thereupon the Adhvaryu returns (to the Gārhapatya fire) and performs the Patnīsaṁyājas 73. The Pratiprasthātr̥, in the meantime,
remains waiting. After performing the Patnīsaṁyājas, the Adhvaryu steps up (to the northern fire).
४६
विश्वास-प्रस्तुतिः
(स्त्री᳘) त्री᳘णि समिष्टयजू᳘ᳫं᳘षि जुहोति॥
तूष्णी᳘मेव᳘ प्रतिप्रस्थाता स्रु᳘चं प्र᳘गृह्णाति तद्ये᳘ व्वैश्वदेवे᳘न य᳘जमानयोर्व्वाससी[[!!]] प᳘रिहिते स्या᳘तां ते᳘ ऽएवात्रा᳘पि स्याताम᳘थास्यै᳘ व्वारुण्यै᳘ पय᳘स्यायै क्षामकर्षमिश्र᳘मादा᳘यावभृथं᳘ यन्ति व्वरुण्यं᳘ व्वा᳘ एत᳘न्निर्व्वरुण᳘तायै त᳘त्र न सा᳘म गीयते न ह्य᳘त्र सा᳘म्ना कि᳘ञ्चन᳘ क्रिय᳘ते तूष्णी᳘मेवे᳘त्याभ्यवेत्यो᳘पमारयति॥
मूलम् - श्रीधरादि
(स्त्री᳘) त्री᳘णि समिष्टयजू᳘ᳫं᳘षि जुहोति॥
तूष्णी᳘मेव᳘ प्रतिप्रस्थाता स्रु᳘चं प्र᳘गृह्णाति तद्ये᳘ व्वैश्वदेवे᳘न य᳘जमानयोर्व्वाससी[[!!]] प᳘रिहिते स्या᳘तां ते᳘ ऽएवात्रा᳘पि स्याताम᳘थास्यै᳘ व्वारुण्यै᳘ पय᳘स्यायै क्षामकर्षमिश्र᳘मादा᳘यावभृथं᳘ यन्ति व्वरुण्यं᳘ व्वा᳘ एत᳘न्निर्व्वरुण᳘तायै त᳘त्र न सा᳘म गीयते न ह्य᳘त्र सा᳘म्ना कि᳘ञ्चन᳘ क्रिय᳘ते तूष्णी᳘मेवे᳘त्याभ्यवेत्यो᳘पमारयति॥
मूलम् - Weber
त्री᳘णि समिष्टृयजूं᳘षि जुहोति॥
तूष्णी᳘मेव᳘ प्रतिप्रस्थाता स्रु᳘चम् प्र᳘गृह्णाति तद्ये᳘ वैश्वदेवे᳘न य᳘जमानयोर्वा᳘ससी प᳘रिहिते स्या᳘तां ते᳘ एवात्रा᳘पि स्याताम᳘थास्यै᳘ वारुण्यै᳘ पयॗस्यायै क्षामकर्षमिश्र᳘मादा᳘यावभृथं᳘ यन्ति वरुण्यं᳘ वा᳘ एत᳘न्निर्वरुण᳘तायै त᳘त्र न सा᳘म गीयते न ह्य᳘त्र सा᳘म्ना किं᳘ चन᳘ क्रिय᳘ते तूष्नी᳘मेवे᳘त्याभ्यवेत्यो᳘पमारयति॥
मूलम् - विस्वरम्
त्रीणि समिष्टयजूंषि जुहोति । तूष्णीमेव प्रतिप्रस्थाता स्रुचं प्रगृह्णाति । तद् ये वैश्वदेवेन यजमानयोर्वाससी परिहिते स्याताम्- ते एवात्रापि स्याताम् । अथास्य वारुण्यै पयस्यायै क्षामकर्षमिश्रमादायावभृथं यन्ति वरुण्यं वा एतत्- निर्वरुणतायै । तत्र न साम गीयते, नह्यत्र साम्ना किञ्चन क्रियते । तूष्णीमेवेत्याभ्यवेत्योपमारयति ॥ ४६ ॥
सायणः
त्रीणि समिष्टयजूंषीति । तानि च पूर्वस्मिन् वैश्वदेवब्राह्मणे व्याख्यातानि (श. प. २ । ५ । १ । २१ मा.) तूष्णीमेवेति । प्रतिप्रस्थातुः समिष्टयजुर्होमसमये आत्मीयां स्रुचं तूष्णीमेव दक्षिणाग्नौ प्रगृह्णीयात् स्रुगाप्तमाज्यं धारयेत् । तन्मन्त्रः स्वाहाकारो ऽपि वा न विद्यत इत्यर्थः । तद्ये वैश्वदेवेनेत्यादि । वैश्वदेवयाजमाने समाप्ते ‘यजमानयोः’ यजमानपत्न्योर्ये ‘वाससी’ ते परिहिते भवतः ॥
वरुणप्रघासाङ्गत्वेनावभृथगमनं विधत्ते- अथास्या इत्यादि । या वरुणदेवताका पयस्या तस्याः ‘क्षामकर्षमिश्रम्’ क्षामो ऽतिपाकेन दग्धः पात्रे संसक्तः, “कृष विलेखने” (धा. पा. भ्वा. प. ९०१५) कृष्यते विलिख्यते इति कर्षः, क्षामश्चासौ कर्षश्चेति क्षामकर्षः, तेन मिश्रं हविः ‘आदाय’ ‘अवभृथम्’ उदकं प्रति ‘यन्ति’ ऋत्विग्यजमानाः, उदकसमीपं गच्छेयुरित्यर्थः । गमनस्य प्रयोजनमाह- वरुण्यं वेति । ‘एतत्’ क्षामकर्षमिश्रं हविः ‘वरुण्यम्’ वरुणसम्बन्धि, पापदेवतया सम्बद्धमित्यर्थः, “यो विदग्धः स नैर्ऋतः” (तै. सं. २ । ६ । ३ । ४) इति श्रुतेः । यद्वा पयस्याया वरुणदेवताकत्वात् तद्यागशिष्टं सर्वमपि वरुण्यम् । अतः निर्वरुणतायै वरुणसम्बन्धराहित्याय अवभृथगमनं युक्तमित्यर्थः ॥
सौमिकावभृथवत् प्रसक्तं सामगानं निषेधति- तत्र न सामेति । अवभृथगमनसमये हि “अग्निष्टपति” इति साम (श. प. ४ । ४ । ५ । ८ ।) प्रस्तोत्रा गेयम् । ‘तत्र’ तस्मिन् वरुणप्रघासाङ्गावभृथगमने तन्न गातव्यम् । तदुपपादयति- न हीति । सोमयागे हि स्तोत्रादिरूपेण साम्नां प्रयोगात् तदङ्गावभृथगमने ऽपि सामगानमयुक्तम् । ‘न’ खलु ‘अत्र’ वरुणप्रघासे ‘साम्ना’ ‘किम्’ अपि प्रयोजनं ‘क्रियते’ अतो ऽप्रयुज्यमानस्य साम्नो ऽवभृथे अप्रयोग एव युक्त इत्यर्थः । अतः ‘तूष्णीम्’ अमन्त्रकम् ‘एव’ अवभृथसमीपम् ‘अभ्यवेत्य’ “अवभृथ निचुम्पुण” (वा. सं. ३ । ४८) इति मन्त्रेण क्षामकर्षमिश्रं हविः ‘उपमज्जयति’ अप्सु प्रक्षिपति । सूत्रितञ्चेह- “वारुणीनिष्काषेणावभृथं, तूष्णीमेत्याभ्यवेत्य मज्जयत्यवभृथेति” इति का. श्रौ. सू. ५ । १३९ । १४० ॥ ४६ ॥
Eggeling
- He (the Adhvaryu) performs the three Samishṭayajus (with the respective texts) 74; the Pratiprasthātr̥ takes up his spoon (and performs those oblations) silently.–The same garments, worn by the sacrificer and his wife at the Vaiśvadeva, should be put on also on this occasion. They now take (the havis) mixed with the burnt scrapings of the Varuṇa curds, and betake themselves to (the place of) the expiatory bath (avabhr̥tha). This (ablution) stands in relation to Varuṇa, (being performed) with a view to deliverance from Varuṇa’s power. No Sāman-hymn is sung on this occasion, for at this (sacrifice) nothing whatever is performed with a Sāman-hymn. Having silently walked thither and entered (the water), he (the Adhvaryu) immerses (the vessel containing the scrapings).
४७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘वभृथ निचुम्पुण॥
निचेरु᳘रसि निचुम्पुणः। अ᳘व देवै᳘र्देव᳘कृतमे᳘नो ऽयासिषम᳘व म᳘र्त्यैर्म᳘र्त्यकृतं पुरुरा᳘व्णे देव रिष᳘स्पाही᳘ति का᳘मᳫँ᳭ हैते य᳘स्मै काम᳘येत त᳘स्मै दद्यान्न हि᳘ दीक्षितव᳘सने भवतः[[!!]] स यथा᳘ ऽहिस्त्वचो᳘ नि᳘र्मुच्ये᳘तैवᳫँ᳭स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘वभृथ निचुम्पुण॥
निचेरु᳘रसि निचुम्पुणः। अ᳘व देवै᳘र्देव᳘कृतमे᳘नो ऽयासिषम᳘व म᳘र्त्यैर्म᳘र्त्यकृतं पुरुरा᳘व्णे देव रिष᳘स्पाही᳘ति का᳘मᳫँ᳭ हैते य᳘स्मै काम᳘येत त᳘स्मै दद्यान्न हि᳘ दीक्षितव᳘सने भवतः[[!!]] स यथा᳘ ऽहिस्त्वचो᳘ नि᳘र्मुच्ये᳘तैवᳫँ᳭स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते॥
मूलम् - Weber
अ᳘वभृथ निचुम्पुण॥
निचेरु᳘रसि निचुम्पुणः अ᳘व देवै᳘र्देव᳘कृतमे᳘नो ऽयासिषम᳘व मर्त्यैर्म᳘र्त्यकृतम् पुरुरा᳘वणे देव रिष᳘स्पाही᳘ति का᳘मᳫं हैते यस्मै काम᳘येत त᳘स्मै दद्यान्न हि᳘ दीक्षितव᳘सने भ᳘वतः 75 स यथा᳘हिस्त्वचो᳘ निर्मुच्ये᳘तैवᳫं स᳘र्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते॥
मूलम् - विस्वरम्
“अवभृथ ! निचुम्पुण, निचेरुरसि निचुम्पुणः । अव देवैर्देवकृतमेनो ऽयासिषमव मर्त्यैर्मर्त्यकृतम् । पुरुराव्णो देव रिषस्पाहि”- (वा. ३. ४८) इति । कामं हैते यस्मै कामयेत तस्मै दद्यात् । न हि दीक्षितवसने भवतः । स यथा ऽहिस्त्वचो निर्मुच्येतैवं सर्वस्मात् पाप्मनो निर्मुच्यते ॥ ४७ ॥
सायणः
अवभृथेति मन्त्रस्यायमर्थः- सोमलिप्तानि पात्राणि अवाचीनान्यस्मिन् भ्रियन्त इत्यवभृथः । अवपूर्वात् भृञ औणादिकः थक् प्रत्ययः । हे ‘अवभृथ’ ! ‘निचुम्पुण’ नितरां पुण्यहेतुर्भव “पुण कर्मणि शुभे”- (धा. पा. तु. आ. ५२) इत्यस्माल्लोटि व्यत्ययेन द्विर्वचनमभ्यासस्य मुगागमश्चकारादेशश्च । यद्वा, “चुप मन्दायां गतौ”- (धा. पा. भ्वा, प. ४०४) इस्पस्माल्लोटि वर्णव्यत्यये रूपं ज्ञेयम् । नीचीनं गच्छेत्यर्थः । यतश्च ‘निचेरुः’ नितरां चरणशीलः ‘असि’ अतो ‘निचुम्पुण’ नीचीनं गच्छ । ‘देवैः’ इन्द्रियैः, तदधिष्ठातृदेवैः ‘देवकृतम् एनः’ देवविषयं यदेनः कृतमस्ति, अहं तत् ‘अवायासिषम्’ अवाचीनं प्रापयामि अप्सु प्रक्षिपामीत्यर्थः । “या प्रापणे”- (धा. पा. अ. प. ३९) इत्यस्माल्लुङि “यमरमनमाताम्”- (पा. सू. ७ । २ । ७३) इति सगिटौ । तथा मर्त्यैः मनुष्यैः ऋत्विग्भिः ‘मर्त्यकृतं’ मनुष्यविषये यत् कृतमेनः, तदपि ‘अवायासिषम्’ हे ‘देव’ स्वामिन्! अवभृथ ! ‘पुरुराव्णः’ पुरुरावणशीलान् बहुविधाक्रोशकारणान् । रौतेरौणादिको निण्प्रत्ययः- (उ. ४ पा. २४२ सू.) । यद्वा, “रा दाने"- (धा. पा. अ. प. ४७) इत्यस्मात् “आतो मनिन्-कनिप्-वनिपश्च”- (पा. सू. ३ । २ । ७४) इति क्वनिप् । पुरु बहुलं संसारदुःखं राति ददातीति पुरुरावा, तस्मात् इन्द्रियहिंसकात् वरुणपाशग्रहलक्षणात् पापात् अस्मान् पाहीति । एवमनेन मन्त्रेण क्षामकर्षमिश्रं हविःशेषं जायापती जुहुतः । तदुक्तं सूत्रकारेण- “जायापती स्नातो ऽमज्जन्तावन्योन्यस्य पृष्ठे धावतः”- (का . श्रौ. सू. ५ । १४१-१४२) इति । पूर्वयोर्वाससोर्दानं विधत्ते- काममिति 76 । स्नानानन्तरमन्ये वाससी परिधाय । पूर्वपरिधानं निषिद्धम्, “न दीक्षितवसनं परिदधीत" 77- इति श्रुतेः । एतद्दानं प्रशंसति- स यथेति । ‘यथा’ खलु ‘अहिस्त्वचो निर्मुच्येत,’ ‘एवम्’ पूर्वपरिहितवासो दत्त्वा सर्वस्मात् पापादेव यजमानो निर्मुच्यते ॥ ४७ ॥
Eggeling
- With the text (Vāj. S. III, 48), ‘O laving bath, laving thou glidest along: with the help of the gods may I wipe out the sin committed against the gods, and with the help of mortals the sin committed against mortals! Preserve me, O God, from injury from the fiercely-howling (demon)!’ Those (garments worn while bathing) 78 he may give
to whichever (priest) he chooses, since they are not the garments of an initiated person. Even as a snake casts its skin, so does he cast away all his sin.
४८
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ केशश्म᳘श्रूप्त्वा᳘॥
समारो᳘ह्याग्नी᳘ ऽउदवसा᳘येव᳘ ह्येते᳘न य᳘जते न हि त᳘दवक᳘ल्पते य᳘दुत्तरवेदा᳘वग्निहोत्रं᳘ जुहुयात्त᳘स्मादुद᳘वस्यति गृहा᳘नित्वा᳘ निर्म᳘थ्याग्नी᳘ पौर्णमासे᳘न यजत ऽउत्सन्नयज्ञ᳘ ऽइव वा᳘ ऽएष य᳘च्चातुर्मास्यान्य᳘थैष᳘ कॢप्तः प्र᳘तिष्ठितो यज्ञो य᳘त्पौर्णमासं त᳘त्कॢप्ते᳘ने᳘वैत᳘द्यज्ञे᳘नान्ततः प्र᳘तितिष्ठति त᳘स्मादु᳘दवस्यति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ केशश्म᳘श्रूप्त्वा᳘॥
समारो᳘ह्याग्नी᳘ ऽउदवसा᳘येव᳘ ह्येते᳘न य᳘जते न हि त᳘दवक᳘ल्पते य᳘दुत्तरवेदा᳘वग्निहोत्रं᳘ जुहुयात्त᳘स्मादुद᳘वस्यति गृहा᳘नित्वा᳘ निर्म᳘थ्याग्नी᳘ पौर्णमासे᳘न यजत ऽउत्सन्नयज्ञ᳘ ऽइव वा᳘ ऽएष य᳘च्चातुर्मास्यान्य᳘थैष᳘ कॢप्तः प्र᳘तिष्ठितो यज्ञो य᳘त्पौर्णमासं त᳘त्कॢप्ते᳘ने᳘वैत᳘द्यज्ञे᳘नान्ततः प्र᳘तितिष्ठति त᳘स्मादु᳘दवस्यति॥
मूलम् - Weber
अ᳘थ केशश्मॗश्रूप्त्वा᳟॥
समारो᳘ह्याग्नी᳘ उदवसा᳘येवॗ ह्येते᳘न य᳘जते न हि त᳘दवक᳘ल्पते य᳘दुत्तरवेदा᳘वग्निहोत्रं᳘ जुहुयात्त᳘स्मादुद᳘वस्यति गृहा᳘नित्वा᳘ निर्म᳘थ्याग्नी᳘ पौर्णमासे᳘न यजत उत्सन्नयज्ञ᳘ इव वा᳘ एष य᳘च्चातुर्मास्यान्य᳘थैष᳘ कॢप्तः प्र᳘तिष्ठितो यज्ञो य᳘त्पौर्णमासं त᳘त्कॢप्ते᳘नैॗवैत᳘द्यज्ञे᳘नान्ततः प्र᳘तितिष्ठति त᳘स्मादु᳘दवस्यति॥
मूलम् - विस्वरम्
अथ केशश्मश्रूप्त्वा समारोह्याग्नी उदवसायेव ह्येतेन यजते । न हि तदवकल्पते- यदुत्तरवेदावग्निहोत्रं जुहुयात् । तस्मादुदवस्यति, गृहानित्वा, निर्मथ्याग्नी पौर्णमासेन यजते । उत्सन्नयज्ञ इव वा एषः- यच्चातुर्मास्यानि । अथैष क्लृप्तः प्रतिष्ठितो यज्ञो यत् पौर्णमासम् । तत् क्लृप्तेनैवैतद्यज्ञेनान्ततः प्रतितिष्ठति- तस्मादुदवस्यति ॥ ४८ ॥ इति वरुणप्रघासयागश्चातुर्मास्ये द्वितीयं पर्व ॥
सायणः
अवभृथस्नानानन्तरं केशश्मश्रुवपनं विधत्ते 76- अथेति । केशाश्च श्मश्रूणि च ‘केशश्मश्रू’ प्राण्यङ्गत्वादेकवद्भावः । ‘उप्त्वा’ वापयित्वेत्यर्थः । समारोहणपुरस्सरं गृहे प्रत्यागमनं विधत्ते- समारोह्येति 77 । ‘अग्नी’ गार्हपत्याहवनीयौ । एतेन यजत इति । वरुणप्रघासाख्येन यागेनेत्यर्थः । न हि तदिति । वरुणप्रघासनिमित्तायामुत्तरवेद्यां ‘यत्’ अग्निहोत्रहवनम्, न तद् युज्यत इत्यर्थः । यस्मादेवं तस्मात् कारणाद् वरुणप्रघासस्थानादुदवसानं कर्त्तव्यमिति निगमयति- तस्मादिति । समारोपणानन्तरं तस्मात्स्थानान्निष्क्रम्य ‘गृहान्’ ‘इत्वा’ गत्वा, ‘निर्मथ्य’ तत्र ‘पौर्णमासेन’ यागेन ‘यजेत’ । एतत्प्रतिष्ठाहेतुना स्तौति- उत्सन्नयज्ञ इत्यादिना । दर्शपूर्णमासवच्चातुर्मास्यानामनुष्ठानबाहुल्याभावादुत्सन्नयज्ञत्वम् । अतस्तेषामप्रतिष्ठाहेतुत्वेन 79 तदनुष्ठाने यजमानस्यापि अप्रतिष्ठा सम्भाव्येत; अतः तस्य प्रतिष्ठायै स्वयं प्रतिष्ठितः पौर्णमासयागः सम्पद्यत इत्यर्थः । तस्मादुदवस्यतीति । वरुणप्रघासदेशान्निष्क्रमणविधेर्निगमनम् 80 ॥ ४८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वितीयकाण्डे पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥ (२–५–२)
Eggeling
- Thereupon they shave (the sacrificer’s) hair and beard; and take up the two fires 81,–for only after changing his place (to the ordinary sacrificial ground) he performs that (other) sacrifice 82, since it is not proper that he should perform the Agnihotra on the uttaravedi: for this reason he changes his place. Having gone to the house 83 and ‘churned out’ the fires, he performs the full-moon offering. These seasonal offerings doubtless are detached sacrifices; whereas the full-moon offering is a regular, established sacrifice: hence he finally establishes himself by means of that regular sacrifice; and therefore he changes his place (to the ordinary sacrificial ground).
-
391:1 Paridīrṇa, i.e. swollen, dropsical. ↩︎
-
391:2 In the St. Petersb. Dict. devatā is here taken as ‘organ of sense. ↩︎
-
प्रा᳘मुचत् A and this is the correct reading. ↩︎
-
आहवनीयस्य पुरस्ताद्वेदी करोति । आहवनीयस्य पुरस्तादिति । यावदाहवनीयो न भवति । गार्हपत्याच्च पृथग्भूतस्याहवनीयस्य व्यपदेशः । तस्मादाहवनीयोद्धरणस्य पुरस्तादिति सूत्रार्थः । इति (कर्कः ।) प्रादेशोत्तरापथो वा । प्रसृतांगुलिपाणिरामणिबंधात् पृथुरुच्यते इति कर्कः । रथमात्र्युत्तरा । रथमानं शुल्बे । अंगुलरेथसम्मितायाः प्रमाणं, तत्राष्टाशीतिशतमीषा चतुःशतमक्षः षडशीतिर्युगम् । चतुररत्निर्वापश्चात् सप्त प्राची षड् वा त्रयः पुरस्तात् । तेषां मध्ये शंकुः । अपरिमिता वा । उकप्रमाणयोर्बहुतरा वा कार्येति कर्कः । स्फ्याद्यासंमर्शनात् करोति । उभयोरेक उत्करः । अपरेण व्वेदिं प्रतिप्रस्थातुः संचरः । इति का. श्रौ. सू. ५ । ५५-६३ ↩︎
-
392:1 For the performance of the Varuṇapraghāsāḥ the Adhvaryu and his assistant, the Pratiprasthātr̥, have to prepare,–to the east of the Āhavanīya, and at the distance of at least three steps (prakrama) from it,–two altars, separate from each other by about a span (of thumb and fore-finger), one south of the other. The northern one, belonging to the Adhvaryu, is to measure between four and five cubits along the west side, and between three and four cubits along the east side; the two sides being between six and eight cubits distant from each other. The southern altar, reserved for the Pratiprasthātr̥; is to be of the usual size of the altar at the haviryajñā. The ceremonies, detailed in I, 2, Brāhmaṇas 4 and 5, have to be performed also on the present occasion. In the middle of the east side of the northern altar a stake is fixed in the ground. On the north side of the northern altar, and contiguous with it, a pit (cātvāla), 1⅓ cubits (the length of the wedge) square, is dug, so as to be separated on the west from the utkara (heap of rubbish) by a narrow passage. With the mould dug up from the pit, the so-called uttara-vedi (upper or north altar) is raised on the northern altar, either of the same dimensions as the pit (1⅓ cubits square) or one third of the area of the northern altar, and so that the stake marks the middle of its east side. In the centre of this mound he makes a hollow (or ’navel’), a span square; and the whole mound is then bestrewed with fine gravel. The texts used while tracing the sides of the pit, thrice throwing the wooden sword within the marked-off space, and raising the uttara-vedi, are given Vāj. S. V, 9-10. During the night the uttara-vedi remains covered with udumbara or plaksha branches or with sacrificial grass. Next morning the two fires for the newly-constructed fireplaces are taken from the Āhavanīya, either by dividing the latter into two equal parts, or by means of two bundles of firewood (threefold bound, see p. 389, note 1), lighted at it, and carried eastwards in a pan covered with sand or mould. While the fires, together with the lustral water and a spoonful of ghee, taken from the pot by five ladlings with the sruva, are taken eastward, the Hotr̥ thrice recites the verse ‘Pra devyam deva,’ &c. and the Pratiprasthātr̥ draws, with the wooden sword, a line from the Āhavanīya to the south-west corner (or ‘right hip’) of the northern altar, or to the uttara-vedi. The Adhvaryu, standing between the two altars, then besprinkles the uttara-vedi with water, while muttering the texts Vāj. S. V, II; whereupon he pours out on it crosswise the spoonful of clarified butter, with the texts V, 12; and lays, with the mantras V, 13, three enclosing-sticks (paridhi) of pītadāru wood round the ’navel’ (see I, 3, 4, 2 seq.), and puts bdellium, fragrant reed-grass, and the front-hair of a ram on the ’navel’ as a foundation (sambhāra, see II, 1, 1, 1 seq.) for the fire, which is then laid down thereon. On a hearth-mound (khara), a cubit square, formed on the southern altar, the Pratiprasthātr̥ also lays down his fire, after performing the usual fivefold lustration (see p. 2). Thereupon the praṇītā-water is brought forward in the way set forth at I, 1, 1, 12 seq. Kāty. V, 3, 9-4, 21. For a different mode of transferring the fire to the special fire-places, see p. 396, note 1. ↩︎
-
प्रा᳘मुचत् A and this is the correct reading. ↩︎
-
393:1 See II. 5, 1, 11, with note. ↩︎
-
तद्य᳘थरत्पु᳘ण्यं (!) A. ↩︎
-
394:1 That is, his offspring and cattle. ↩︎
-
394:2 The fruit of Capparis Aphylla. According to Sāyaṇa, on Taitt. I, 8, 3, it is karīra-shoots–which he says resemble the Soma-creeper (somavallī)–that are so used; but he also mentions that some authorities take karīra to mean the fruit. According to a sūtra he quotes, above a hundred śamī-leaves and above a thousand karīras should be strewn over the two dishes of curds. Cf. Taitt. Br. I, 6, 5, 5. ↩︎
-
आषाढ्यामयं ते योनिरिति समारोह्योदवसाय निर्मथ्य व्वरुणप्रघासाः । पूर्व्वेद्युर्द्दक्षिणाग्नौ निस्तुषापमृष्टयवानां करंभपात्रकरणं निस्तुषग्रहणं फलीकरणव्युदासार्थमिति कर्कः । यावंतो यजमानगृह्या एकाधिकानि । प्रजायां जातश्रुतेः । त्रीणि नित्यत्वात् । द्विप्रजैकप्रजा ऽप्रजानां त्रीण्येकाधिकानि करभपात्राणि कर्तव्यानि । इतरेषां प्रजासंख्यान्येकाधिकानि इत्यर्थः । इति का. श्रौ. सू. ५ । ४७-५१ । ↩︎
-
‘करम्भो दध्ना संयुताः सक्तवः’ तन्मयानि पात्राणि करम्भपात्राणीति का. श्रौ. सू. ५ । ५ । २ सू. वा. दे । ↩︎ ↩︎
-
395:1 A kind of porridge prepared with roasted barley, coarsely ground, and sour curds. ↩︎
-
नैलकीः Sây. ↩︎
-
मेषमिथुनं च । का. श्रौ. सू. ५ । ५२ । ↩︎
-
‘तज्जातीयरोममयानि’ इति पा. ↩︎
-
अनैडकीरूर्णाः प्रक्षाल्याश्लेषयेत्तयोः । का. श्रौ. सू. ५ ।। ५३ । ↩︎
-
कुशोर्णा वा ऽभावे । का. श्रौ. सू. ५ । ५४ । ↩︎
-
मेषमिथुनं च मारुत्यां मेषम् । का. श्रौ. सू. २२. ५ । ११३ । ११४ । ↩︎ ↩︎ ↩︎ ↩︎
-
‘व्यवच्छेदार्थ इत्यर्थः’- इ. पा. । ↩︎
-
सम्मार्जनायप्रेषिते ऽसंमृष्टे प्रतिप्रस्थाता पत्नीमानेष्यन्नाह केन चरतीति । का० श्रौ० सू० ५ । ११६ । ↩︎
-
396:1 The author here apparently alludes to a different way of transferring the fire to the new fire-places from that detailed by Kātyāyana (see p. 392, note 1). The same mode seems to be referred to by the Paddhati on Katy. V, 4 (p. 467). According to this mode (called sarnāropaṇa, or mounting of the fire), the old fires are ’taken up’ by means of the two araṇis being lighted, or rather heated, at them, and then ‘churned out’ and placed on the newly-prepared hearth-mounds. ↩︎
-
396:2 For the detailed course of procedure, see I, 3, 5, I seq. ↩︎
-
396:3 Asaṁsr̥shṭam eva bhavati sampreshitam. The Kāṇva recension reads, asaṁsr̥shṭa evāgnir bhavati sampreshitaḥ. Cf. par. 30. ↩︎
-
“पत्नी एतावन्तो मे जारा इति नामग्राहं कथयति, अमुना अमुना जारेण सह चरामीति वा; नो चेन्नान्येनेति । यदि । लज्जादिवशात् न कथयति, प्रतिजारं तृणानि उद्गृह्णाति” । का० श्रौ० सू० ५ । ११७ तृणानि वोद्गृह्णाति प्रतिसँस्तुतं । अनाख्यातमहित ज्ञातिभ्य इति श्रुतेः । का० श्रौ० सू० ५ । ११९ । ↩︎ ↩︎ ↩︎
-
‘परिजाताः’- इ. पा. । ↩︎
-
397:1 According to Kāty. V, 5, 7-9, she is either to give the total number or the names of her lovers, or to hold up as many stalks of grass. [If she have none, she is to reply, ‘with no one else.’ Comm.]–‘He makes the wife speak (confess): (thereby) he renders her pure, and then he leads her to penance. Were she not to reveal (the name of) a paramour she has, she would harm a dear relative. Let her declare “N.N. is my paramour,” by thus declaring (any one) she causes him to be seized by Varuṇa.’ Taitt. Br. I, 6, 5, 2. ↩︎
-
397:2 According to the Black Yajus, the Pratiprasthātr̥ mutters this formula, while leading the mistress to the place of offering. The sacrificer then recites as the invitatory prayer the verse given in par. 28 (Vāj. S. III, 46); while the offering-prayer (Vāj. S. III, 45) and the text III, 47 (par. 29) are muttered by both the husband and wife. Taitt. I, 6, 5, 3 argues against the practice of the wife being made to pronounce the anuvākyā. ↩︎
-
‘परावपनद्वारा’- इ. पा. । ↩︎
-
शिश्यि᳘रे A. ↩︎
-
“उपविष्टहोमाः स्वाहाकारप्रदाना जुहोतयः-" (का. श्रौ. अ. १ सू. २८) ↩︎
-
‘विलोलयन्ति’ इति पा० । ↩︎
-
‘शयनं’ इति ‘शंसनं’ इति च. पा. । ↩︎
-
398:1 According to Kāty. V, 5, 11, either the mistress alone offers, or she together with her husband. In the latter case, the offering-formula (as well as the dedicatory formula, ‘This to the Maruts’) is pronounced by both. ↩︎
-
नि᳘क्षिद्धा अस॰ A. ↩︎
-
वयाः । A ↩︎
-
महीधरस्तु- ‘अवयाः’ अनयुतो यागः ‘अस्ति हि स्म’ विद्यते खलु । अवपूर्वस्य यजतेरेतद्रूपम् इत्याह । ‘किंच गीरस्मदीया स्तुतिरूपा वाक् मरुतो भवतः सखीन् वन्दते नमस्करोति, “नमो मरुद्भ्यः" इत्येवमाकारायाः स्तुतेर्नमस्काररूपत्वात्-’ इति व्याचख्यौ । ↩︎
-
ढया सह भ᳘वति AB. ↩︎
-
अक्रन्कर्मेत्येनां व्वाचयति प्रतिनयत् (कर्कः) । का. श्रौ. सू. । ५ । १२३ । प्रतिशब्दप्रयोगात्तेनैव मार्गेण प्रतिनयनमिति । ↩︎
-
आगते सम्मार्जनाद्याज्यभागाभ्याम् । का. श्रौ. सू. ५ । १२४ ॥ ↩︎
-
स्रुक्पाणिरास्ते प्रतिप्रस्थाता । का. श्रौ. सू. ५ । १२५ । ↩︎
-
घृतवतीमित्युक्ते स्रुचावादायातिक्रम्याश्राव्याह समिधो यजेति पंचप्रयाजान्त्समिद्धतमे । यजयजेति शेषम् । का. श्रौ. सू. २ । ३५ । ३६। ↩︎
-
नवप्रयाजं नवानुयाजं । वैश्वदेवं पर्व । व्वरुणप्रघासा महाहविश्च । का. श्रौ. सू. ५। ३२ । ३३ । ↩︎
-
400:1 The Kāṇva text has more correctly, ‘He trims both fires;’ since it is the Āgnīdhra who has to trim both the northern and southern fires. See par. 29. ↩︎
-
400:2 The recipients of the first four fore-offerings are the same as at the normal haviryajña (cf. p. 146 note), viz. 1. the kindling-sticks (samidhs); 2. Tanūnapāt (or Narāśaṁsa); 3. the Iḍs; 4. the Barhis. The remaining ones are–5. the doors (of heaven); 6. dawn and night; 7. the two divine Hotr̥s; 8. the three goddesses (Sarasvatī, Iḍā, and Bhāratī); 9. all the deities to whom offering is made during the sacrifice (see I, 5, 3, 22 seq.). The objects of the first eight offerings are identical with those of the first eight verses of the Āprī hymns. ↩︎
-
400:3 Or, ‘at every fourth (fore-offering)?’ According to the Paddhati on Kāty. V, 5, the butter is poured together at the fourth and seventh prayājas. See also I, 5, 3, 16. ↩︎
-
401:1 See I, 6, 1, 20 seq. ↩︎
-
प्रणीतापत्नोसन्नहनाग्निमंथनाश्रुतप्रत्याश्रुतप्रैषयजमानवाचनहोतृषदनवरणप्राशित्रांगुलिपर्व्वोजनावांतरेडाभागापराग्न्यवभृथान्न प्रतिप्रस्थाता । । का. श्रौ. सू. ५ । ११० । न करोतीत्यर्थः । ↩︎
-
स्रुक्पाणिरास्ते प्रतिप्रस्थाता । का. श्रौ. सू. ५। १२५। ↩︎
-
हविर्भिश्चरति । अध्वर्युः । का. श्रौ. सू. ५ । १२६ । ↩︎
-
पयस्याप्रत्ररणकाले मेषो व्यतिहरतः । का. श्रौ. सू. ५ । १२७ । ↩︎ ↩︎
-
स्थातुर्वा᳘ A. ↩︎
-
हविर्भिश्चरित उभौ स्विष्टकृत्प्रभृति । का. श्रौ. सू । ५ । १३१ । ↩︎
-
कण्डिकासु ३५-३९ द्रष्टव्यम् । ↩︎
-
इडामवदाय प्रतिप्रस्थात्रे प्रयच्छति । का. श्रौ. सू. ५ । १३२ । तत्र प्रतिप्रस्थाता मारुत्याः । का. श्रौ. सू. ५। ३३ । द्विरवद्यतीत्यर्थः । ↩︎ ↩︎
-
403:1 See I, 8, 1, 18-43. ↩︎
-
403:2 See II, 5, 2, 19, and I, 8, 2, 3. ↩︎
-
404:1 Pr̥shad-ājya (lit. mottled butter) is clarified butter mixed with sour milk. ↩︎
-
404:2 The recipients of the nine after-offerings are as follows: 1. The divine Barhis; 2. the divine doors; 3. the divine dawn and night; 4. the two divine benefactresses (joshṭrī); 5. the two goddesses of potent sacrifice (ūrjāhutī); 6. the two divine Hotr̥s; 7. the three goddesses; 8. the divine Narāśaṁsa; 9. the divine Agni Svishṭakr̥t. Cf. p. 400, note . ↩︎
-
स्रुचौ व्यूहतो ऽध्वर्यू । का. श्रौ. सू. ५। १३४. अध्वर्युग्रहणं यजमानव्युदासार्थम् । तस्य हि व्यूहनं प्रकृतौ वैकल्पिकं विहितमस्ति । ↩︎ ↩︎
-
404:3 See I, 8, 3, 1 seq. ↩︎
-
405:1 See I, 8, 3, 10 seq. ↩︎
-
‘आत्मानमुपस्पृशेते’ इति क्व. । ↩︎
-
405:2 See I, 8, 3, 20 seq. ↩︎
-
405:3 In thus briefly recapitulating the chief points of the course of sacrificial performance, the author’s object is merely to assign to each officiating priest–especially to the Adhvaryu and his assistant, the Pratiprasthātr̥–his special share of business. In the actual performance, the pronunciation of the formula of ‘All-hail and blessing’ (see I, 9, 1, 26), of course, comes after the throwing of the enclosing-sticks into the fire (see I, 8, 3, 22). ↩︎
-
405:4 See I, 8, 3, 26. ↩︎
-
ज्योदे᳘न्याध्वर्युः A. ↩︎
-
405:5 See I, 9, 2, 1. ↩︎
-
406:1 See p. 390, note 3. ↩︎
-
भवतः A. ↩︎
-
पूर्व्वे दद्यादधिकृतेभ्यो यस्मा इच्छेत् का. श्रौ. सू. ५ । १४४ । अधिकृतेभ्यः ऋत्विग्भ्य इत्यर्थः । ↩︎ ↩︎
-
अन्ये वाससी परिदधाते । का. श्रौ. सू. ५ । १४३ । द्विवचनात् जायापती । ↩︎ ↩︎
-
406:2 Kāty. V, 5, 30-33, and the scholiasts supply the following particulars: The sacrificer and his wife, accompanied by the priests, are to repair to some quiet part of flowing water. The Adhvaryu then takes the sacrificer by the arm and makes him enter the water. Thereupon he himself enters, strews sacrificial grass on the water, puts a stick on it, and thereon offers a spoonful of butter to Agni. Then follow six oblations, viz. four fore-offerings, performed in the usual way (the one to the Barhis being omitted); an oblation of butter to Varuṇa, and another of the scrapings of curds to Agni and Varuṇa. Other authorities offer ten oblations instead of six, viz. four fore-offerings, two ‘butter-portions’ to Agni and Soma, the two oblations to Varuṇa and Agni-Varuṇa, and two after-offerings. The Adhvaryu then immerses the butter-pot, with the text Vāj. S. III, 48. Thereupon the sacrificer and his wife bathe without diving, but wash each other’s back. They then come out of the water and put on fresh clothes. ↩︎
-
‘मप्रतिष्ठत्वेन’ इति पा. । ↩︎
-
आषाढ्यामयं ते योनिरिति समारोह्योदवसाय निर्मथ्य व्वरुणप्रघासाः । का. श्रौ. सू. ५। १४७ आ. श्रौ. सू. ८ । ५-८ कं. १२६ सूत्राणि चेह द्रष्टव्यानि । ↩︎
-
407:1 Viz. by lighting (or heating) at them two araṇis or churning-sticks, by means of which the fires are transferred to the old hearths. According to the Paddhati, the remaining ceremonies of the ishṭi, from the offering of the Barhis (see I, 9, 2, 29) to the end, are performed previously to the lifting of the fires. ↩︎
-
407:2 Viz. the full-moon sacrifice, see II, 6, 2, 59, where, however, agnau instead of agnī. The construction here is quite irregular. The Kāṇva text has: keśaśmaśrūptvāgnī samārohayata udavasāya hy etena yajate. ↩︎
-
407:3 That is, to the ordinary sacrificial ground. ↩︎