०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्ह वा᳘ ऽइदम᳘ग्र ए᳘क ऽए᳘वास॥
स᳘ ऽऐक्षत कथं नु प्र᳘जायेये᳘ति सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ प्रजा᳘ ऽअसृजत ता᳘ ऽअस्य प्रजाः᳘ सृष्टाः प᳘राबभूवुस्ता᳘नीमा᳘नि व्व᳘याᳫंसि पु᳘रुषो वै᳘ प्रजा᳘पतेर्नेदिष्ठं द्विपाद्वा᳘ ऽअयं पु᳘रुषस्त᳘स्माद्द्विपा᳘दो व्व᳘याᳫंसि॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्ह वा᳘ ऽइदम᳘ग्र ए᳘क ऽए᳘वास॥
स᳘ ऽऐक्षत कथं नु प्र᳘जायेये᳘ति सो ऽश्राम्यत्स त᳘पो ऽतप्यत स᳘ प्रजा᳘ ऽअसृजत ता᳘ ऽअस्य प्रजाः᳘ सृष्टाः प᳘राबभूवुस्ता᳘नीमा᳘नि व्व᳘याᳫंसि पु᳘रुषो वै᳘ प्रजा᳘पतेर्नेदिष्ठं द्विपाद्वा᳘ ऽअयं पु᳘रुषस्त᳘स्माद्द्विपा᳘दो व्व᳘याᳫंसि॥

मूलम् - Weber

प्रजा᳘पतिर्ह वा᳘ इदम᳘ग्र ए᳘क एॗवास॥
स᳘ ऐक्षत कथं नु प्र᳘जायेये᳘तिॗ सो ऽश्राम्यत्स तपो ऽतप्यत स᳘ प्रजा᳘ असृजत ता अस्य प्रजाः᳘ सृष्टाः प᳘राबभूवुस्ता᳘नीमा᳘नि व᳘यांसि पु᳘रुषो वै᳘ प्रजा᳘पतेर्ने᳘दिष्ठं द्विपाद्वा᳘ अयम् पु᳘रुषस्त᳘स्माद्द्विपा᳘दो व᳘यांसि॥

मूलम् - विस्वरम्

प्रजापतिर्ह वा इदमग्र एक एवास । स ऐक्षत- कथं नु प्रजायेयेति । सो ऽश्राम्यत्, स तपो ऽतप्यत, स प्रजा असृजत । ता अस्य प्रजाः सृष्टाः पराबभूवुः । तानीमानि वयांसि । पुरुषो वै प्रजापतेर्नेदिष्ठम् । द्विपाद्वा अयं पुरुषः । तस्माद् द्विपादो वयांसि ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ चातुर्मास्यानि विधित्सुस्तत्र वैश्वदेवस्य प्रजासृष्टिहेतुतामाख्यायिकया प्रतिपादयति- प्रजापतिर्ह वा इति । इदं दृश्यमानं चराचरात्मकं यज्जगत् तत्समग्रसृष्टेः प्राक्काले प्रजापतिरेक एवासीत्; कार्यस्य जगतः कारणभूते प्रजापतौ लीनत्वात् । सः असहाय एक एव आसीदित्यर्थः ।

ततः सकाशात् प्रजासृष्टिं दर्शयति- स ऐक्षतेत्यादिना । अश्राम्यदिति । प्रजोत्पत्तिकारणपर्यालोचनया श्रान्तः खिन्नो ऽभवदित्यर्थः । “श्रमु तपसि खेदे च” (धा. पा. दि. प. ९८) । “शमामष्टानाम्” (पा. सू. ७ । ३ । ७४) इति दीर्घः । स च श्रान्तः सन् प्रजोत्पत्तिकारणं तपस्तप्तवान् । स प्रजा इत्यादि निगदसिद्धम् ।

तानीमानीति । याः खलु सृष्टेः पराभूताः, ‘तानि इमानि’ ‘वयांसि’ जातानि, पक्षिरूपेणाभवन्नित्यर्थः । एतदुपपादयति- पुरुषो वा इति । ‘पुरुषः’ मनुष्यः खलु सृष्टानां प्रजानां मध्ये ‘प्रजापतेः’ ‘नेदिष्ठम्’ अन्तिकतमं कार्यम् । स च पादद्वयोपेतः, तत्परिणामरूपत्वात् पक्षिणो ऽपि पादद्वयोपेता दृश्यन्ते । तस्माद्वयसां पुरुषसाधर्म्यात् तेषां तत्परिणामरूपत्वमवसेयमित्यर्थः ॥ १ ॥

Eggeling
  1. Verily, in the beginning, Prajāpati alone existed here 1. He thought within himself, ‘How can I be propagated?’ He toiled and practised austerities. He created living beings 2. The living beings created by him passed away: they are those birds. Now man is the nearest to Prajāpati; and man is two-footed: hence birds are two-footed.

०२

विश्वास-प्रस्तुतिः

स᳘ ऽऐक्षत प्रजा᳘पतिः॥
(र्य᳘) य᳘था᳘ न्वेव᳘ पुरैको᳘ ऽभूव᳘मेवमु᳘ न्वेवा᳘प्येतर्ह्ये᳘क ऽए᳘वास्मी᳘ति स᳘ द्विती᳘याः ससृजे ता᳘ ऽअस्य प᳘रैव᳘ बभूवुस्त᳘दिदं᳘ क्षुद्र᳘ᳫँ᳘ सरीसृपं य᳘दन्य᳘त्सर्पे᳘भ्यस्तृती᳘याः ससृज ऽइ᳘त्याहुस्ता᳘ ऽअस्य प᳘रैव᳘ बभूवुस्त᳘ ऽइमे᳘ सर्पा᳘ ऽएता᳘ ह᳘ न्वेव᳘ द्वयीर्या᳘ज्ञवल्क्य ऽउवाच त्रयी᳘रु तु पु᳘नर्ऋचा॥

मूलम् - श्रीधरादि

स᳘ ऽऐक्षत प्रजा᳘पतिः॥
(र्य᳘) य᳘था᳘ न्वेव᳘ पुरैको᳘ ऽभूव᳘मेवमु᳘ न्वेवा᳘प्येतर्ह्ये᳘क ऽए᳘वास्मी᳘ति स᳘ द्विती᳘याः ससृजे ता᳘ ऽअस्य प᳘रैव᳘ बभूवुस्त᳘दिदं᳘ क्षुद्र᳘ᳫँ᳘ सरीसृपं य᳘दन्य᳘त्सर्पे᳘भ्यस्तृती᳘याः ससृज ऽइ᳘त्याहुस्ता᳘ ऽअस्य प᳘रैव᳘ बभूवुस्त᳘ ऽइमे᳘ सर्पा᳘ ऽएता᳘ ह᳘ न्वेव᳘ द्वयीर्या᳘ज्ञवल्क्य ऽउवाच त्रयी᳘रु तु पु᳘नर्ऋचा॥

मूलम् - Weber

स᳘ ऐक्षत प्रजा᳘पतिः॥
य᳘थाॗ न्वेव᳘ पुरैको᳘ ऽभूवमेव᳘मुॗ न्वेवा᳘प्येतर्ह्ये᳘क एॗवास्मी᳘ति स᳘ द्विती᳘याः ससृजे ता अस्य परैव᳘ बभूवुस्त᳘दिदं᳘ क्षुद्र᳘ᳫं᳘ सरीसृपं य᳘दन्य᳘त्सर्पे᳘भ्यस्तृती᳘याः ससृज इ᳘त्याहुस्ता᳘ अस्य प᳘रैव᳘ बभूवुस्त᳘ इमे᳘ सर्पा᳘ एता᳘ हॗ न्वेव᳘ द्वयीर्या᳘ज्ञवल्क्य उवाच त्रयी᳘रु तु पु᳘नरृचा॥

मूलम् - विस्वरम्

स ऐक्षत प्रजापतिः- यथा न्वेव पुरैको ऽभूवम्- एवमु न्वेवाप्येतर्ह्येक एवास्मीति । स द्वितीयाः ससृजे । ता अस्य परैव बभूवुः । तदिदं क्षुद्रं सरीसृपम्- यदन्यत्सर्पेभ्यः । तृतीयाः ससृज इत्याहुः । ता अस्य परैव बभूवुः । त इमे सर्पाः । एता इ न्वेव द्वयीर्याज्ञवल्क्य ज्याच । त्रयीरु तु पुनर्ऋचा ॥ २ ॥

सायणः

पुनरन्यथा प्रजासृष्टिमाह- स ऐक्षतेति । यथा न्वेवेति । ‘यथा’ खलु ‘पुरा’ प्रजासृष्टेः पूर्वम् ‘एकः’ ‘असहायः अभूवम्’, ‘अप्येतर्हि’ इदानीं प्रजासृष्ट्युत्तरकालमपि तथैव ‘एक एव अस्मि इति’ । एवमीक्षित्वा ‘सः’ पुनः अन्याः प्रजाः ‘ससृजे’ पूर्वसृष्टप्रजापेक्षया आसां द्वितीयत्वम् । परैवेति । ‘अस्य’ ‘ताः’ अपि प्रजाः पराभूताः ‘एव’ अभवन् । ‘तत्’- इति विधेयापेक्षं नपुंसकत्वम्; ताः पराभूताः द्वितीयसृष्ट्युत्पन्नाः प्रजाः, यत् ‘इदं’ ‘क्षुद्रम्’ अल्पशरीरं ‘सरीसृपं’ सर्पणशीलं सर्पव्यतिरिक्तं प्राणिजातं दृश्यते, तदात्मना परिणता इत्यर्थः । तृतीयाः ससृज इत्याहुरिति । पुनरपि स प्रजापतिः सृष्टिद्वयापेक्षया ‘तृतीयाः’ अन्याः प्रजाः ‘ससृजे’ सृष्टवान् ‘इति’ ‘आहुः’ अभिज्ञाः कथयन्ति । ‘ताः’ अपि ‘अस्य’ पराभूताः ‘एव’ अभवन् । ‘ते इमे’ सर्परूपेण दृश्यन्ते ॥

तृतीयसृष्टावाहुरिति यः परोक्षनिर्द्देशः तदभिप्रायमाह- एता हेति । ‘एताः’ पूर्वोक्ताः ‘द्वयीः’ द्विविधाः ‘एव’ प्रजाः प्रजापतिना सृष्टाः इति ‘याज्ञवल्क्यः’ महर्षिः ‘उवाच’ उक्तवान्, न तृतीयानां प्रजानां सृष्टिः; ‘ऋचा’ ऋङ्मन्त्रेण (ऋ. सं. ८ । १०१ । १४ ।) ‘पुनः’ ‘त्रयीः’ त्रिविधाः ‘अपि’ ‘प्रजाः’ सृष्टा इति प्रतिपाद्यते ॥ २ ॥

Eggeling
  1. Prajāpati thought within himself, ‘Even as formerly I was alone, so also am I now alone.’ He created a second (race of beings); they also passed away: they are those small crawling reptiles other than snakes. He created a third (race), they say; they also passed away: they are those snakes. Yājñavalkya, on his part, declared them to be of two kinds only; but of three kinds they are according to the R̥k.

०३

विश्वास-प्रस्तुतिः

सो᳘ ऽर्चञ्छ्रा᳘म्यन्प्रजा᳘पतिरीक्षां᳘चक्रे॥
कथं नु᳘ मे प्रजाः᳘ सृष्टाः प᳘राभवन्ती᳘ति स᳘ हैत᳘देव᳘ ददर्शानशन᳘तया वै᳘ मे प्रजाः प᳘राभवन्ती᳘ति स᳘ ऽआत्म᳘न एवा᳘ग्रे स्त᳘नयोः प᳘य ऽआप्यायया᳘ञ्चक्रे स᳘ प्रजा᳘ ऽअसृजत ता᳘ ऽअस्य प्रजाः᳘ सृष्टा स्त᳘नावे᳘वाभिप᳘द्य तास्त᳘तः स᳘म्बभूवुस्ता᳘ ऽइमा ऽअ᳘पराभूतः॥

मूलम् - श्रीधरादि

सो᳘ ऽर्चञ्छ्रा᳘म्यन्प्रजा᳘पतिरीक्षां᳘चक्रे॥
कथं नु᳘ मे प्रजाः᳘ सृष्टाः प᳘राभवन्ती᳘ति स᳘ हैत᳘देव᳘ ददर्शानशन᳘तया वै᳘ मे प्रजाः प᳘राभवन्ती᳘ति स᳘ ऽआत्म᳘न एवा᳘ग्रे स्त᳘नयोः प᳘य ऽआप्यायया᳘ञ्चक्रे स᳘ प्रजा᳘ ऽअसृजत ता᳘ ऽअस्य प्रजाः᳘ सृष्टा स्त᳘नावे᳘वाभिप᳘द्य तास्त᳘तः स᳘म्बभूवुस्ता᳘ ऽइमा ऽअ᳘पराभूतः॥

मूलम् - Weber

सो᳘ ऽर्चञ्छ्रा᳘म्यन्प्रजा᳘पतिरीक्षां᳘ चक्रे॥
कथं नु᳘ मे प्रजाः सृष्टाः प᳘राभवन्ती᳘ति स᳘ हैत᳘देव᳘ ददर्शानशन᳘तया वै᳘ मे प्रजाः प᳘राभवन्ती᳘ति स᳘ आत्म᳘न एवा᳘ग्रे स्त᳘नयोः प᳘य आप्याययां᳘ चक्रे स᳘ प्रजा᳘ असृजत ता᳘ अस्य प्रजाः᳘ सृष्टा स्त᳘नावेॗवाभिप᳘द्य तास्त᳘तः स᳘म्बभूवुस्ता᳘ इमा अ᳘पराभूतः॥

मूलम् - विस्वरम्

सो ऽर्चञ्छ्राम्यन्प्रजापतिरीक्षाञ्चक्रे- कथं नु मे प्रजाः सृष्टाः पराभवन्तीति । स हैतदेव ददर्श- अनशनतया वै मे प्रजाः पराभवन्तीति । स आत्मन एवाग्रे स्तनयोः पय आप्याययाञ्चक्रे । स प्रजा असृजत । ता अस्य प्रजाः सृष्टाः स्तनावेवाभिपद्य, तास्ततः सम्बभूवुः । ता इमा अपराभूताः ॥ ३ ॥

सायणः

स चोदाहरिष्यते- सो ऽर्च्चन्नित्यादि । त्रिवारं सृष्टानां प्रजानां पराभवकारणं किमिति विचार्य ‘सः’ खलु ‘एतत्’ ‘एव’ कारणं ‘ददर्श’ एतच्छब्दनिर्द्दिष्टं दर्शयति- अनशनतयेति । उत्पन्नानां प्रजानामशनराहित्यं पराभवकारणमित्यर्थः । उत्पत्स्यमानानां प्रजानामप्यनशनत्वं मा भूदिति प्रजापतिना कल्पितमशनमाह- स आत्मन एवेति । ‘अग्रे’ सृष्टेः प्रागेव प्रजापतिः ‘आत्मनः’ स्वशरीरस्य एव सम्बन्धिनोः ‘स्तनयोः’ ‘पयः’ ‘आप्याययाञ्चक्रे’ आप्यायितं पूरितं कृतवान् । एवमशनं प्रकल्प्य अनन्तरं याः प्रजाः असृजत, ‘अस्य’ प्रजापतेः ‘ताः’ सृष्टाः प्रजाः पयसा पूर्णौ ‘स्तनौ’ ‘अभिपद्य’ जीवनवत्यो ऽभवन् ‘ततः’ अनन्तरं ‘ताः’ प्रजाः ‘सम्बभूवुः’ सम्यगुत्पन्नाः सम्यगात्मानो ऽभवन् 3 । पूर्वोत्पन्नप्रजावत् पराभवं न प्राप्ता इत्यर्थः ॥ ३ ॥

Eggeling
  1. While praising and practising austerities, Prajāpati

thought within himself, ‘How comes it that the living beings created by me pass away?’ He then became aware that his creatures passed away from want of food. He made the breasts in the fore-part of (their) body 4 teem with milk. He then created living beings; and by resorting to the breasts, the beings created by him thenceforward continued to exist: they are these (creatures) which have not passed away.

०४

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
प्रजा᳘ ह तिस्रो᳘ ऽअत्या᳘यमीयुरि᳘ति तद्याः प᳘राभूतास्ता᳘ ऽए᳘वैतदभ्यनूक्तं न्यन्या᳘ ऽअर्क᳘मभि᳘तो विविश्र ऽइ᳘त्यग्निर्वा᳘ ऽअर्कस्तद्या᳘ ऽइमाः᳘ प्रजा ऽअ᳘पराभूतास्ता᳘ ऽअग्नि᳘मभि᳘तो नि᳘विष्टास्ता᳘ ऽए᳘वैत᳘दभ्य᳘नूक्तम्॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘स्मादेतदृ᳘षिणा ऽभ्य᳘नूक्तम्॥
प्रजा᳘ ह तिस्रो᳘ ऽअत्या᳘यमीयुरि᳘ति तद्याः प᳘राभूतास्ता᳘ ऽए᳘वैतदभ्यनूक्तं न्यन्या᳘ ऽअर्क᳘मभि᳘तो विविश्र ऽइ᳘त्यग्निर्वा᳘ ऽअर्कस्तद्या᳘ ऽइमाः᳘ प्रजा ऽअ᳘पराभूतास्ता᳘ ऽअग्नि᳘मभि᳘तो नि᳘विष्टास्ता᳘ ऽए᳘वैत᳘दभ्य᳘नूक्तम्॥

मूलम् - Weber

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
प्रजा᳘ ह तिस्रो᳘ अत्या᳘यमीयुरि᳘ति तद्याः प᳘राभूतास्ता᳘ एॗवैत᳘दभ्य᳘नूक्तं न्य᳘न्या᳘ अर्क᳘मभि᳘तो विवि᳘श्र इ᳘त्यग्निर्वा᳘ अर्कस्तद्या᳘ इमाः᳘ प्रजा अ᳘पराभूतास्ता᳘ अग्नि᳘मभितो नि᳘विष्टास्ता᳘ एॗवैत᳘दभ्य᳘नूक्तम्॥

मूलम् - विस्वरम्

तस्मादेतदृषिणा ऽभ्यनूक्तम्- “प्रजा ह तिस्रो अत्यायमीयुः”- इति । तद् याः पराभूतास्ता एवैतदभ्यनूक्तम् । “न्यन्या अर्कमभितो विविश्रे” इति । अग्निर्वा अर्कः । तद् या इमाः प्रजा अपराभूताः, ता अग्निमभितो निविष्टाः । ता एवैतदभ्यनूक्तम् ॥ ४ ॥

सायणः

उक्ते ऽर्थे ऋङ्मन्त्रं संवादयति- तस्मादिति । यस्मादग्र एवमासीत्, तस्मात् कारणात् तदुक्तमर्थजातम् ‘ऋषिणा’ मन्त्रेण ‘अभ्यनूक्तम्’ (ऋ. सं. ८ । १०१ । १४) प्रतिपादितम् । तत्र प्रथमपादमनूद्योक्तार्थपरतामाह- प्रजा 3 हेति । ‘तिस्रः’ त्रिविधाः ‘प्रजाः’ ‘अत्यायम्’ अत्ययं विनाशम् ‘ईयुः’ जग्मुः । ‘ह’- शब्द एतद्ब्राह्मणप्रसिद्धिं द्योतयति- तद्या इति । ‘याः’ खलु प्रजाः त्रिवारं सृष्टा अन्नाभावेन हेतुना ‘पराभूताः’ ‘एतत्’ एतेन मन्त्रपादेन ता एवाभिलक्ष्य ‘अभ्यनूक्तम्’ प्रतिपादितम् ॥

द्वितीयं पादमनूद्य व्याचष्टे- न्यन्या इति । पयोरूपमशनं प्राप्य ‘अन्याः’ प्रजाः ‘अर्कम्’ अर्च्चनीयमग्निम् ‘अभितः’ सर्वतः ‘निविविश्रे’ निविविशिरे । “नेर्विशः” (पा. सू. १ । ३ । १७) इति आत्मनेपदम् । “इरयो रे”- (पा. सू. ६ । ४ । ७६) इति रे-आदेशः । तद्या इत्यादि । ‘तत्’ तत्र ‘या इमाः’ परिदृश्यमानाः मनुष्यादिरूपाः ‘प्रजाः’ पयोलक्षणान्नसद्भावात् ‘अपराभूताः’ पराभवं नाशमप्राप्ताः । ‘ता’ एव, जाठररूपेण लौकिकवैदिकभेदेन वा ऽवस्थितम् ‘अग्निं’ स्वस्वव्यापाराय पर्युपविष्टा वर्त्तन्ते । एतदेतेन पादेन प्रतिपादितम् । समानमन्यत् ॥ ४ ॥

Eggeling
  1. Hence it has been said by the R̥shi 5,.–‘Three generations have passed beyond,’–this is said regarding those that passed away;–‘Others settled down around the light (arka, the sun)’–the light doubtless is the fire: those creatures which did not pass away, settled down around the fire; it is with regard to them that this is said.

०५

विश्वास-प्रस्तुतिः

मह᳘द्ध तस्थौ भु᳘वनेष्वन्तरि᳘ति॥
प्रजा᳘पतिमे᳘वैत᳘दभ्य᳘नूक्तं प᳘वमानो हरि᳘त ऽआ᳘विवेशे᳘ति दि᳘शो वै᳘ हरि᳘तस्ता᳘ अयं᳘ वायुः प᳘वमान ऽआ᳘विष्टस्ता᳘ ए᳘वैष᳘ ऽर्गभ्य᳘नूक्ता ता᳘ ऽइमाः᳘ प्रजास्त᳘थैव प्र᳘जायन्ते य᳘थैव᳘ प्रजा᳘पतिः प्रजा ऽअ᳘सृजतेदᳫं हि᳘ य᳘दैव᳘ स्त्रियै स्त᳘नावाप्या᳘येते ऽऊ᳘धः पशूनाम᳘थैव यज्जा᳘यते त᳘ज्जायते तास्त᳘त स्त᳘नावे᳘वाभिप᳘द्य स᳘म्भवन्ति॥

मूलम् - श्रीधरादि

मह᳘द्ध तस्थौ भु᳘वनेष्वन्तरि᳘ति॥
प्रजा᳘पतिमे᳘वैत᳘दभ्य᳘नूक्तं प᳘वमानो हरि᳘त ऽआ᳘विवेशे᳘ति दि᳘शो वै᳘ हरि᳘तस्ता᳘ अयं᳘ वायुः प᳘वमान ऽआ᳘विष्टस्ता᳘ ए᳘वैष᳘ ऽर्गभ्य᳘नूक्ता ता᳘ ऽइमाः᳘ प्रजास्त᳘थैव प्र᳘जायन्ते य᳘थैव᳘ प्रजा᳘पतिः प्रजा ऽअ᳘सृजतेदᳫं हि᳘ य᳘दैव᳘ स्त्रियै स्त᳘नावाप्या᳘येते ऽऊ᳘धः पशूनाम᳘थैव यज्जा᳘यते त᳘ज्जायते तास्त᳘त स्त᳘नावे᳘वाभिप᳘द्य स᳘म्भवन्ति॥

मूलम् - Weber

मह᳘द्ध तस्थौ भु᳘वनेष्वन्तरि᳘ति 6
प्रजा᳘पतिमेॗवैत᳘दभ्य᳘नूक्तम् प᳘वमानो हरि᳘त आ᳘विवेशे᳘ति दि᳘शो वै᳘ हरि᳘तस्ता᳘ अयं᳘ वायुः प᳘वमान आ᳘विष्टस्ता᳘ एॗवैष᳘र्गभ्य᳘नूक्ता ता᳘ इमा᳘ह् प्रजास्त᳘थैव प्र᳘जायन्ते य᳘थैव᳘ प्रजा᳘पतिः प्रजा अ᳘सृजतेदᳫं हि᳘ यॗदैव᳘ स्त्रियै स्त᳘नावाप्या᳘येते 7 ऊ᳘धः पशूनाम᳘थैव यज्जा᳘यते त᳘ज्जायते तास्त᳘त स्त᳘नावेॗवाभिप᳘द्य स᳘म्भवन्ति॥

मूलम् - विस्वरम्

“महद्ध तस्थौ भुवनेष्वन्तः”- इति । प्रजापतिमेवैतदभ्यनूक्तम् । “पवमानो हरित आविवेश”- इति । दिशो वै हरितः । ता अयं वायुः पवमान आविष्टः । ता एवैषर्गभ्यनूक्ता । ता इमाः प्रजास्तथैव प्रजायन्ते- यथैव प्रजापतिः प्रजा असृजत । इदं हि यदैव स्त्रियै स्तनावाप्यायेते, ऊधः पशूनाम् । अथैव यज्जायते तज्जायते । तास्ततः स्तनावेवाभिपद्य सम्भवन्ति ॥ ५ ॥

सायणः

तृतीयं पादमनूद्य व्याचष्टे- महद्ध तस्थाविति । इत्थं देवमनुष्यादिरूपासु प्रजासु सतीषु तत्स्रष्टा प्रजापतिः ‘भुवनेषु’ लोकेषु ‘अन्तः’ मध्ये ‘महत्’ अधिकं ‘तस्थौ’ सर्वोत्कर्षेणावस्थित इत्यर्थः । गतमन्यत् ॥

चतुर्थपादमनूद्य व्याचष्टे- पवमान इति । ‘दिशो वै हरितः’ दिशो हि हरिच्छब्दवाच्याः, अतः ‘ताः’ ‘अयं’ पुरोवर्त्ती ‘पवमानः वायुः आविष्टः’ दृश्यते । अतस्तुरीयपादेन अयमर्थः प्रतिपाद्यत इति । ता एवेति, उक्तार्थनिगमनम् । ‘ताः’ उक्ताः प्रजाः ‘एव’ अभिलक्ष्येत्यर्थः ॥

प्रजापतिकृतायाः सूष्टेरविच्छेदेनानुवृत्तिं दर्शयति- ता इमा इति । ‘यथैव’ येन हि प्रकारेण पुरा ‘प्रजापतिः प्रजा असृजत’ ‘तथैव’ तेनैव प्रकारेण ‘ता इमाः’ मनुष्याद्याः ‘प्रजाः’ प्रजायन्ते उत्पद्यन्ते । एतदेवोपपादयति- इदं हीति । इदानीं स हि ‘यदैव’ खलु लोके ‘स्त्रियै’ स्त्रियाः । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ । वा. १) ‘स्तनौ’ ‘आप्यायेते’ पयसा पूरितौ भवतः । व्यत्ययेनैकवचनम् (पा. सू. ३ । १ । ८५) । गवादिपशूनाम् ‘ऊधः’ च पयसा पूर्णं भवति । ‘अथ’ अनन्तरम् ‘एव’ ‘यत् जायते’ ‘तत्’ एव ‘जायते’, अन्यदजायमानं विपद्यत इत्यर्थः । तास्तत इति ‘ताः’ उत्पन्नाः प्रजाः ‘ततः’ जननानन्तरं पयोधरौ ‘स्तनौ एव’ ‘अभिपद्य’ अभिप्राप्य स्तन्यपानेन ‘सम्भवन्ति’ प्रवर्द्धन्ते, न विपद्यन्ते ॥ ५ ॥

Eggeling
  1. ‘The great one (neut.) 8 remained within the worlds’–it is with regard to Prajāpati that this is said.–‘The blower (or, purifier) entered the regions’–the regions doubtless are the quarters, and these were indeed entered by that blowing wind: it is with regard to them that this verse was uttered. And in like manner as Prajāpati created these living beings, so they are propagated: for whenever the breasts of woman and the udder of cattle swell, then whatever is born is born; and by resorting to the breasts these (beings) continue to exist.

०६

विश्वास-प्रस्तुतिः

तद्वै प᳘य ऽएवा᳘न्नम्॥
(मे) एतद्ध्य᳘ग्रे प्रजा᳘पतिर᳘न्नम᳘जनयत तद्वा ऽअ᳘न्नमेव᳘ प्रजा ऽअ᳘न्नाद्धि᳘ सम्भ᳘वन्ती᳘दᳫँ᳭ हि या᳘सां प᳘यो भ᳘वति स्त᳘नावे᳘वाभिप᳘द्य तास्त᳘तः स᳘म्भवन्त्य᳘थ या᳘सां प᳘यो न भ᳘वति जात᳘मेव ता ऽअ᳘प्यादयन्ति त᳘दु ता ऽअ᳘न्नादेव स᳘म्भवन्ति त᳘स्माद्व᳘न्नमेव᳘ प्रजाः॥

मूलम् - श्रीधरादि

तद्वै प᳘य ऽएवा᳘न्नम्॥
(मे) एतद्ध्य᳘ग्रे प्रजा᳘पतिर᳘न्नम᳘जनयत तद्वा ऽअ᳘न्नमेव᳘ प्रजा ऽअ᳘न्नाद्धि᳘ सम्भ᳘वन्ती᳘दᳫँ᳭ हि या᳘सां प᳘यो भ᳘वति स्त᳘नावे᳘वाभिप᳘द्य तास्त᳘तः स᳘म्भवन्त्य᳘थ या᳘सां प᳘यो न भ᳘वति जात᳘मेव ता ऽअ᳘प्यादयन्ति त᳘दु ता ऽअ᳘न्नादेव स᳘म्भवन्ति त᳘स्माद्व᳘न्नमेव᳘ प्रजाः॥

मूलम् - Weber

तद्वै प᳘य एवा᳘न्नम्॥
एतद्ध्य᳘ग्रे प्रजा᳘पतिर᳘न्नम᳘जनयत तद्वा अ᳘न्नमेव᳘ प्रजा अ᳘न्नाद्धि᳘ सम्भ᳘वन्ती᳘दᳫं हि या᳘सां प᳘योभ᳘वति स्त᳘नावेॗवाभिप᳘द्य तास्त᳘तः स᳘म्भवन्त्य᳘थ या᳘साम् प᳘यो न भ᳘वति जात᳘मेव ता अ᳘थादयन्ति त᳘दु ता अ᳘न्नादेव स᳘म्भवन्ति त᳘स्माद्व᳘न्नमेव᳘ प्रजाः॥

मूलम् - विस्वरम्

तद्वै पय एवान्नम् । एतद्ध्यग्रे प्रजापतिरन्नमजनयत । तद्वा अन्नमेव प्रजाः । अन्नाद्धि सम्भवन्ति । इदं हि यासां पयो भवति- स्तनावेवाभिपद्य, तास्ततः सम्भवन्ति । अथ यासां पयो न भवति- जातमेव ता अप्यादयन्ति । तदु ता अन्नादेव सम्भवन्ति । तस्माद्वन्नमेव प्रजाः ॥ ६ ॥

सायणः

पयसो ऽन्नरूपतामाह- तद्वै पय इति । ‘तत्’ तत्र खलु जन्मानन्तरकाले ‘पय एव’ प्रजानाम् ‘अन्नम्’ भवति । ‘हि’ यस्मात् ‘अग्रे’ इतरान्नसृष्टेः प्राक् ‘एतत्’ एव ‘अन्नम्’ ‘प्रजापतिः’ ‘अजनयत’ उत्पादितवान्, तस्मादिदमेव मुख्यमन्नमित्यर्थः । तस्य चान्नस्य कार्यकारणयोरभेदोपचारेण प्रजारूपतामुपपादयति- अन्नमेवेति । ‘हि’ यस्मात् ‘प्रजाः’ ‘अन्नात्’ ‘सम्भवन्ति’ प्रवर्द्धन्ते, तस्मात् तदात्मिका इत्यर्थः । ‘इदं हि’ इदानीं हीत्यर्थः । जातमेवेति । स्तन्याभावे जातस्य शिशोर्जीवनासम्भवात् तज्जीवनार्थं जननानन्तरमेव ‘ताः’ प्रजाः स्तन्यमेव ‘आदयन्ति’ भोजयन्ति । स्पष्टमन्यत् । इत्थमन्नहेतुकं प्रजापतेः प्रजासर्जनमुपोद्धातत्वेनोपन्यस्तम् ॥ ६ ॥

Eggeling
  1. Now that milk is indeed food; for in the beginning Prajāpati produced it for food. But that

food also means living beings (progeny), since it is by food that they exist: by resorting to the breasts of those who have milk, they continue to exist. And those who have no milk are nursed by the former as soon as they are born; and thus they exist by means of food, and hence food means progeny.

०७

विश्वास-प्रस्तुतिः

स यः᳘ प्रजा᳘कामः॥
एते᳘न हवि᳘षा य᳘जत ऽआत्मा᳘नमे᳘वैत᳘द्यज्ञं व्वि᳘धत्ते प्रजा᳘पतिं भूतम्॥ [शतम् १२०० ॥]

मूलम् - श्रीधरादि

स यः᳘ प्रजा᳘कामः॥
एते᳘न हवि᳘षा य᳘जत ऽआत्मा᳘नमे᳘वैत᳘द्यज्ञं व्वि᳘धत्ते प्रजा᳘पतिं भूतम्॥ [शतम् १२०० ॥]

मूलम् - Weber

स यः᳘ प्रजा᳘कामः॥
एते᳘न हवि᳘षा य᳘जत आत्मा᳘नमेॗवैत᳘द्यज्ञं वि᳘धत्ते प्रजा᳘पतिम् भूतम्॥

मूलम् - विस्वरम्

स यः प्रजाकाम एतेन हविषा यजते- आत्मानमेवैतद्यज्ञं विधत्ते- प्रजापतिं भूतम् ॥ ७ ॥

सायणः

अथौपोद्धातिकेषु वैश्वदेवहविरुत्पादयंस्तद् दर्शयिष्यंस्तावद् वैश्वदेवयागं विधत्ते- स यः प्रजाकाम 9 इति । सः खलु ‘यः’ यजमानः प्रजाकामः, ‘सः’ ‘एतेन’ वैश्वदेवाख्यपर्वरूपेण ‘हविषा’ यजेत, तस्य प्रजाफलसाधनत्वमुपपादयति- आत्मानमेवेति । स यजमानः ‘आत्मानमेव’ प्रजापतिरूपमापन्नम् ‘एतद्’ वैश्वदेवाख्यं ‘यज्ञं विधत्ते’ वैश्वदेवयज्ञमात्मना करोतीत्यर्थः । अतो वैश्वदेवेनेष्टवतः प्रजापतेः प्रजोत्पत्तिसाधनत्वमुन्नीतमित्यर्थः ॥ ७ ॥

Eggeling
  1. He who is desirous of offspring, sacrifices with that oblation, and thereby makes himself the sacrifice, which is Prajāpati 10.

०८

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स वा᳘ ऽआग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भवति॥
(त्य) अग्निर्वै᳘ देव᳘तानां मु᳘खं प्रजनयिता स᳘ प्रजा᳘पतिस्त᳘स्मादाग्नेयो᳘ भवति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स वा᳘ ऽआग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भवति॥
(त्य) अग्निर्वै᳘ देव᳘तानां मु᳘खं प्रजनयिता स᳘ प्रजा᳘पतिस्त᳘स्मादाग्नेयो᳘ भवति॥

मूलम् - Weber

स वा᳘ आग्नेॗयो ऽष्टा᳘कपालः पुरोडा᳘शो भवति॥
अग्निर्वै᳘ देव᳘तानाम् मु᳘खम् प्रजनयिता स᳘ प्रजा᳘पतिस्त᳘स्मादाग्नेयो᳘ भवति॥

मूलम् - विस्वरम्

स वा आग्नेयो ऽष्टाकपालः पुरोडाशो भवति । अग्निर्वै देवतानां मुखम् । प्रजनयिता स प्रजापतिः । तस्मादाग्नेयो भवति ॥ ८ ॥

सायणः

तत्र प्रथमं हविर्विधाय प्रशंसति- 9 वा इति । ‘आग्नेयः’ अग्निर्देवता अस्य । “सा ऽस्य देवता”- (पा. सू. ४ । २ । २४) इत्यर्थे “अग्नेर्ढक् " (पा. सू. ४ । २ । ३३) इति ढक्, अष्टसु कपालेषु संस्कृतः ‘अष्टाकपालः’ ‘अग्निः-प्रजनयिता’ उत्पादयिता मातापितृभ्यां भुक्तस्यान्नस्य जाठराग्निपरिपाकवशेन शुक्रशोणितात्मना परिणामादग्नेः प्रजनयितृत्वम्; अत एव सो ऽग्निः प्रजापतिरित्यर्थः ॥ ८ ॥

Eggeling
  1. In the first place 11 there is a cake for Agni on eight potsherds. Agni indeed is the root, the progenitor of the deities; he is Prajāpati (’lord of creatures’): hence there is a cake for Agni.

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सौम्यश्चरु᳘र्भवति॥
रे᳘तो वै सो᳘मस्त᳘दग्नौ᳘ प्रजनयित᳘रि सो᳘मᳫँ᳭ रे᳘तः सिञ्चति त᳘त्पुर᳘स्तान्मिथुनं᳘ प्रज᳘ननम्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सौम्यश्चरु᳘र्भवति॥
रे᳘तो वै सो᳘मस्त᳘दग्नौ᳘ प्रजनयित᳘रि सो᳘मᳫँ᳭ रे᳘तः सिञ्चति त᳘त्पुर᳘स्तान्मिथुनं᳘ प्रज᳘ननम्॥

मूलम् - Weber

अ᳘थ सौम्य᳘श्चरु᳘र्भवति॥
रे᳘तो वै सो᳘मस्त᳘दग्नौ प्रजनयित᳘रि सो᳘मं रे᳘तः सिञ्चति त᳘त्पुर᳘स्तान्मिथुन᳘म् प्रज᳘ननम्॥

मूलम् - विस्वरम्

अथ सौम्यश्चरुर्भवति । रेतो वै सोमः । तदग्नौ प्रजनयितरि सोमं रेतः सिञ्चति । तत्पुरस्तान्मिथुनं प्रजननम् ॥ ९ ॥

सायणः

द्वितीयं हविर्विधाय प्रशंसति- अथ सौम्यः इति । (का. श्रौ. सू. ५ । ४ ।) सोमो देवता अस्य ‘सौम्यः’ “सोमाट्ट्यण्"- (पा. सू. ४ । २ । ३०) इति ट्यण् । “रेतो वै” इत्यनेन सौम्ययागस्याग्नेययागानन्तर्यमपि प्रतिपाद्यते । सोमो ह्यमृतमयत्वाद्रेतोरूपः । आग्नेययागानन्तरं तद्यागस्यानुष्ठानात् । ‘प्रजनयितरि’ उत्पादयितरि ‘अग्नौ’ सोमात्मकं ‘रेतः’ ‘सिञ्चति’, तदेव ‘तत्’ प्रजोत्पत्तिसाधनं ‘पुरस्तात्’ क्रियमाणमेकं ‘मिथुनं’ सम्पन्नं भवतीत्यर्थः ॥ ९ ॥

Eggeling
  1. Then follows a potful of boiled rice (caru) for Soma. Soma doubtless is seed, and that in Agni, the progenitor; he (Agni) casts the seed Soma: thus there is at the outset a productive union.

१०

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थ सावित्रः॥
(त्रो) द्वा᳘दशकपालो वा ऽष्टा᳘कपालो वा पुरोडा᳘शो भवति सविता वै᳘ देवा᳘नां प्रसविता᳘ प्रजा᳘पतिर्मध्यतः᳘ प्रजनयिता त᳘स्मात्सावित्रो᳘ भवति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थ सावित्रः॥
(त्रो) द्वा᳘दशकपालो वा ऽष्टा᳘कपालो वा पुरोडा᳘शो भवति सविता वै᳘ देवा᳘नां प्रसविता᳘ प्रजा᳘पतिर्मध्यतः᳘ प्रजनयिता त᳘स्मात्सावित्रो᳘ भवति॥

मूलम् - Weber

अ᳘थ सावित्रः॥
द्वा᳘दशकपालो वाष्टा᳘कपालो वा पुरोडा᳘शो भवति सविता वै᳘ देवा᳘नाम् प्रसविता᳘ प्रजा᳘पतिर्मध्यतः᳘ प्रजनयिता त᳘स्मात्सावित्रो भवति॥

मूलम् - विस्वरम्

अथ सावित्रो द्वादशकपालो वा ऽष्टाकपालो वा पुरोडाशो भवति । सविता वै देवानां प्रसविता, प्रजापतिर्मध्यतः प्रजनयिता । तस्मात्सावित्रो भवति ॥ १० ॥

सायणः

अथ तृतीयं हविर्विधाय प्रशंसति- अथ सावित्र इति । (का. श्रौ. सू. ५ । ४ ।) । सौम्ययागानन्तर्यम् ‘अथ’- शब्दार्थः । सविता देवता अस्य ‘सावित्रः’ । ‘प्रसविता’ प्रेरयिता । स एव ‘प्रजापतिः’ वैश्वदेवादिपर्वचतुष्टयसंचारिणामाग्नेयादीनां पञ्चानां यागानां मध्ये इज्यमानः सन् ‘सविता’ ‘मध्यतः’ एव प्रजानां ‘प्रजनयिता’ उत्पादयिता भवति ॥ १० ॥

Eggeling
  1. Then follows a cake on twelve or eight potsherds 12 for Savitr̥. Savitr̥ indeed is the impeller (pra-savitr̥) of the gods; he is Prajāpati, the intermediate 13 progenitor: hence the cake to Savitr̥.

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ सारस्वत᳘श्चरु᳘र्भवति॥
पौष्ण᳘श्चरुर्यो᳘षा वै स᳘रस्वती वृ᳘षा पूषा तत्पु᳘नर्मिथुनं᳘ प्रज᳘ननमेत᳘स्माद्वा᳘ ऽउभय᳘तो मिथुना᳘त्प्रज᳘ननात्प्रजा᳘पतिः प्रजाः᳘ ससृज ऽइत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘थो ऽए᳘वैष᳘ एत᳘स्मादुभय᳘त एव᳘ मिथुना᳘त्प्रज᳘ननात्प्रजाः᳘ सृजत ऽइत᳘श्चोर्ध्वा ऽइतश्चा᳘वाचीस्त᳘स्माद्वा᳘ ऽएता᳘नि प᳘ञ्च हवी᳘ᳫं᳘षि भवन्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ सारस्वत᳘श्चरु᳘र्भवति॥
पौष्ण᳘श्चरुर्यो᳘षा वै स᳘रस्वती वृ᳘षा पूषा तत्पु᳘नर्मिथुनं᳘ प्रज᳘ननमेत᳘स्माद्वा᳘ ऽउभय᳘तो मिथुना᳘त्प्रज᳘ननात्प्रजा᳘पतिः प्रजाः᳘ ससृज ऽइत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘थो ऽए᳘वैष᳘ एत᳘स्मादुभय᳘त एव᳘ मिथुना᳘त्प्रज᳘ननात्प्रजाः᳘ सृजत ऽइत᳘श्चोर्ध्वा ऽइतश्चा᳘वाचीस्त᳘स्माद्वा᳘ ऽएता᳘नि प᳘ञ्च हवी᳘ᳫं᳘षि भवन्ति॥

मूलम् - Weber

अ᳘थ सारस्वत᳘श्चरु᳘र्भवति॥
पौष्ण᳘श्चरुर्यो᳘षा वै स᳘रस्वती वृ᳘षा पूषा तत्पु᳘नर्मिथुन᳘म् 14 प्रज᳘ननमेत᳘स्माद्वा᳘ उभय᳘तो मिथुना᳘त्प्रज᳘ननात्प्रजा᳘पतिः प्रजाः᳘ ससृज इत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘थो एॗवैष᳘ एत᳘स्मादुभय᳘त एव᳘ मिथुना᳘त्प्रज᳘ननात्प्रजाः᳘ सृजत इत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्माद्वा᳘ एता᳘नि प᳘ञ्च हवीं᳘षि भवन्ति॥

मूलम् - विस्वरम्

अथ सारस्वतश्चरुर्भवति । पौष्णश्चरुः । योषा वै सरस्वती, वृषा पूषा । तत्पुनर्मिथुनं प्रजननम् । एतस्माद्वा उभयतो मिथुनात्प्रजननात्प्रजापतिः प्रजाः ससृजे- इतश्चोर्ध्वा इतश्चावाचीः । तथो एवैष एतस्मादुभयत एव मिथुनात्प्रजननात्प्रजाः सृजते- इतश्चोर्ध्वा इतश्चावाचीः । तस्माद्वा एतानि पञ्च हवींषि भवन्ति ॥ ११ ॥

सायणः

चतुर्थपञ्चमे हविषी विधाय सम्भूय प्रशंसति- अथ सारस्वत इति । (का. श्रौ. सू. ५ । ४) । सरस्वती देवता अस्य ‘सारस्वतः’ । तत् पुनर्मिथुनमित्यादि । आदावनुष्ठिताग्नेयसौम्यलक्षणान्मिथुनादन्ततः क्रियमाणमेतदन्यदित्यर्थः । इतश्चोर्ध्वा इत्यादि । प्रजननं तत्साधनं मिथुनम् । उभयत इति । आद्यन्तयोः क्रियमाणादित्यर्थः । ‘इतः’ अस्मात् भूलोकादारभ्योपरितनलोकवर्तिनीः ‘प्रजाः’ ‘इतश्च’ अस्मादेव भूलोकादवाचीनलोकवर्तिनीश्च प्रजाः ‘उभयतः’ अवस्थितात् ‘मिथुनात्’ प्रजापतिः सृष्टवानित्यर्थः । इदानीन्तनयजमानो ऽपि एवमेव मिथुनद्वयानुष्ठानेन द्विविधाः प्रजाः सृजतीत्याह- तथो एवेति । तस्मादित्यादि, विहितानां हविषां निगमनम् 14 ॥ ११ ॥

Eggeling
  1. Then follows a potful of boiled rice for Sarasvatī; and another for Pūshan. Sarasvatī doubtless is a woman, and Pūshan is a man: thus there is again a productive union. Through that twofold productive union Prajāpati created the living beings,–

through the one (he created) the upright, and through the other those looking to the ground. This is why there are these five oblations 15.

१२

विश्वास-प्रस्तुतिः

(न्त्य) अथा᳘तः पय᳘स्याया ऽए᳘वाय᳘तनम्॥
मारुतस्तु᳘ सप्त᳘कपालो व्वि᳘शो वै᳘ मरु᳘तो देववि᳘शस्ता᳘ हेद᳘मनिषेद्ध्रा᳘ ऽइव चेरुस्ताः᳘ प्रजा᳘पतिं य᳘जमानमुपे᳘त्योचुर्वि वै᳘ ते मथिष्यामह ऽइमाः᳘ प्रजा या᳘ ऽएते᳘न हवि᳘षा स्रक्ष्य᳘स ऽइ᳘ति॥

मूलम् - श्रीधरादि

(न्त्य) अथा᳘तः पय᳘स्याया ऽए᳘वाय᳘तनम्॥
मारुतस्तु᳘ सप्त᳘कपालो व्वि᳘शो वै᳘ मरु᳘तो देववि᳘शस्ता᳘ हेद᳘मनिषेद्ध्रा᳘ ऽइव चेरुस्ताः᳘ प्रजा᳘पतिं य᳘जमानमुपे᳘त्योचुर्वि वै᳘ ते मथिष्यामह ऽइमाः᳘ प्रजा या᳘ ऽएते᳘न हवि᳘षा स्रक्ष्य᳘स ऽइ᳘ति॥

मूलम् - Weber

अथा᳘तः पयॗस्याया एॗवाय᳘तनम्॥
मारुतस्तु᳘ सप्त᳘कपालो वि᳘शो वै᳘ मरु᳘तो देववि᳘शस्ता᳘ हेद᳘मनिषेद्ध्रा᳘ 16 इव चेरुस्ताः᳘ प्रजा᳘पतिं य᳘जमानमुपे᳘त्योचुर्वि वै᳘ ते मथिष्यामह इमाः᳘ प्रजा या᳘ एते᳘न हवि᳘षा स्रक्ष्य᳘स इ᳘ति॥

मूलम् - विस्वरम्

अथातः पयस्याया एवायतनम् । मारुतस्तु सप्तकपालः । विशो वै मरुतो देवविशः । ता हेदमनिषेद्ध्रा- इव चेरुः । ताः प्रजापतिं यजमानमुपेत्योचुः- वि वै ते मथिष्यामहे- इमाः प्रजाः- या एतेन हविषा स्रक्ष्यस इति ॥ १२ ॥

सायणः

एवं पञ्चभिर्हविर्भिरुत्पादितानां प्रजानां स्थित्यर्थं प्रजापतिना कल्पितं पयस्यारूपमन्नं दर्शयितव्यमिति पयस्यायागस्य स्थानं प्रतिजानीते- अथात इति । ‘अथ’ एवं प्रजासृष्टेरनन्तरं यतः सृष्टानां प्रजानामन्नमपेक्षितम्, ‘अतः’ ‘पयस्याया एव’ पयोविकारद्रव्यसाध्यस्य यागस्य एतत् ‘आयतनं’ स्थानमित्यर्थः । अथैवं पयस्यायाग एव षष्ठो ऽनुष्ठेय इति, नेत्याह- मारुतस्तु इति । ‘तु’- शब्दः पयस्यायागस्य न्यायप्राप्तं षष्ठस्थानत्वं व्यावर्त्तयति; ‘मारुतः सप्तकपालः’ एव षष्ठो ऽनुष्ठेय इत्यर्थः 17

एतदाख्यायिकयोपपादयति- विशो वै मरुत इत्यादिना । वैश्यजातयो हि मरुतः; ते च देवतारूपत्वाद् ‘देवविशः’ खलु ‘अनिषेद्ध्रा इव’ अनिषेधुकाः, नियन्तृरहिता इव स्वतन्त्राः इदं ‘चेरुः’ । ‘ताः’ स्वातन्त्र्येण वर्त्तमानाः आद्यैः पञ्चभिर्हविर्भिः प्रजा उत्पादितवन्तं ‘प्रजापतिं’ ‘यजमानम्’ ‘उपेत्य’ उपगत्य ‘ऊचुः’- ‘ते’ त्वदीयाः ‘इमाः’ उत्पन्नाः ‘प्रजाः’ वयं ‘विमथिष्यामहे’ हिंसयिष्यामः, ‘याः’ प्रजाः ‘एतेन’ वैश्वदेवपर्वात्मना ‘हविषा’ त्वं ‘स्रक्ष्यसे’ सृष्टाः करिष्यसि ॥ १२ ॥

Eggeling
  1. After that (follows), as a foundation for the curds, a cake on seven potsherds for the Maruts. The Maruts indeed are the people (viśaḥ), the people of the gods. They roamed about here entirely unimpeded. Having approached Prajāpati, when he was sacrificing, they said, ‘We shall destroy those creatures of thine which thou art about to create by means of this offering 18.’

१३

विश्वास-प्रस्तुतिः

स᳘ ऐक्षत प्रजा᳘पतिः॥
प᳘रा मे पू᳘र्वाः प्रजा᳘ ऽअभूवन्निमा᳘ ऽउ चे᳘दिमे᳘ विमथ्न᳘ते न त᳘तः किं᳘ चन प᳘रिशेक्ष्यत ऽइ᳘ति ते᳘भ्य एतं᳘ भाग᳘मकल्पयदेतं᳘ मारुत᳘ᳫँ᳘ सप्त᳘कपालं पुरोडा᳘शᳫँ᳭ स᳘ ऽएष᳘ मारुतः᳘ सप्त᳘कपालस्तद्य᳘त्सप्त᳘कपालो भ᳘वति सप्त᳘सप्त हि᳘ मारुतो᳘ गणस्त᳘स्मान्मारुतः᳘ सप्त᳘कपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

स᳘ ऐक्षत प्रजा᳘पतिः॥
प᳘रा मे पू᳘र्वाः प्रजा᳘ ऽअभूवन्निमा᳘ ऽउ चे᳘दिमे᳘ विमथ्न᳘ते न त᳘तः किं᳘ चन प᳘रिशेक्ष्यत ऽइ᳘ति ते᳘भ्य एतं᳘ भाग᳘मकल्पयदेतं᳘ मारुत᳘ᳫँ᳘ सप्त᳘कपालं पुरोडा᳘शᳫँ᳭ स᳘ ऽएष᳘ मारुतः᳘ सप्त᳘कपालस्तद्य᳘त्सप्त᳘कपालो भ᳘वति सप्त᳘सप्त हि᳘ मारुतो᳘ गणस्त᳘स्मान्मारुतः᳘ सप्त᳘कपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

स᳘ ऐक्षत प्रजा᳘पतिः॥
प᳘रा मे पू᳘र्वाः प्रजा अभूवन्निमा᳘ उ चे᳘दिमे᳘ विमथ्न᳘ते न त᳘तः किं᳘ चन प᳘रिशेक्ष्यत इ᳘ति ते᳘भ्य एत᳘म् भाग᳘मकल्पयदेत᳘म् मारुत᳘ᳫं᳘ सप्त᳘कपालम् पुरोडा᳘शᳫं स᳘ एष᳘ मारुतः᳘ सप्त᳘कपालस्तद्य᳘त्सप्त᳘कपालो भ᳘वति सप्त᳘ सप्त हि᳘ मारुतो᳘ गणस्त᳘स्मान्मारुतः᳘ सप्त᳘कपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

स ऐक्षत प्रजापतिः- परा मे पूर्वाः प्रजा अभूवन्- इमा उ चेदिमे विमथ्नते- न ततः किं चन परिशेक्ष्यत इति । तेभ्य एतं भागमकल्पयत्- एतं मारुतं सप्तकपालं पुरोडाशम् । स एष मारुतः सप्तकपालः । तद्यत्सप्तकपालो भवति- सप्तसप्त हि मारुतो गणः । तस्मान्मारुतः सप्तकपालः पुरोडाशो भवति ॥ १३ ॥

सायणः

एवं मरुद्भिरुक्ते सति ‘सः’ ‘प्रजापतिः’ ‘ऐक्षत’ पर्यालोचितवान्- ‘मे’ मदीयाः ‘पूर्वाः’ पूर्वसृष्टाः ‘प्रजाः’ ‘पराभूवन्’ ‘इमाः’ अपि प्रजाः ‘इमे’ मरुतः ‘विमथ्नन्ते’ वाधन्ते चेत् ‘ततः’ अनन्तरं ‘किम्’ अपि सृष्टं ‘न परिशेक्ष्यते’ परिशेषितं न भविष्यति । ‘इति’ ‘एवं’ मरुद्भ्यो भीतः सन्, ‘तेभ्यः’ ‘एतं’ सप्तकपालरूपं ‘भागं’ कल्पितवान् । अतः प्राप्तस्थानमपि पयस्यायागं परित्यज्य ‘स एष मारुतः’ याग इदानीमपि षष्ठत्वेनानुष्ठीयते । सप्तसंख्यामनूद्य प्रशंसति- तद्यदिति । मरुतो हि सप्तगणाः तेष्वेकैकस्मिन् गणेषु सप्तसप्त मरुतः, ते चैकोनपञ्चाशत्सङ्ख्याकाः अग्निस्थापनप्रकरणे “ईदृङ्चान्यादृङ् च” (तै. सं. ४ । ६ । ५–६) (तै. ब्रा. २ । ७ । २) इत्यादिभिर्मंत्रैस्तत्तन्नाम्ना प्रतिपादिताः ॥ १३ ॥

Eggeling
  1. Prajāpati reflected, ‘My former creatures have passed away; and if those (Maruts) destroy these (creatures), then nothing will be left.’ He accordingly set aside for them that share, the Maruts’ cake on seven potsherds; and that is this same cake on seven potsherds for the Maruts. The reason why it is one of seven potsherds, is that the host of the Maruts is (distributed in troops) of seven each 19. This is why there is a cake on seven potsherds for the Maruts.

१४

विश्वास-प्रस्तुतिः

तं वै स्व᳘तवोभ्य ऽइ᳘ति कुर्यात्॥
स्वयᳫँ᳭ हि त᳘ ऽएतं᳘ भागम᳘कुर्व्वतो᳘तो स्व᳘तवोभ्यो याज्यानुवा᳘क्ये न᳘ व्विन्दन्ति स᳘ ऽउ ख᳘लु मारुत᳘ एव᳘ स्यात्स वा᳘ एष᳘ प्रजा᳘भ्य ऽएवा᳘हिᳫँ᳭सायै क्रियते त᳘स्मान्मारुतः॥

मूलम् - श्रीधरादि

तं वै स्व᳘तवोभ्य ऽइ᳘ति कुर्यात्॥
स्वयᳫँ᳭ हि त᳘ ऽएतं᳘ भागम᳘कुर्व्वतो᳘तो स्व᳘तवोभ्यो याज्यानुवा᳘क्ये न᳘ व्विन्दन्ति स᳘ ऽउ ख᳘लु मारुत᳘ एव᳘ स्यात्स वा᳘ एष᳘ प्रजा᳘भ्य ऽएवा᳘हिᳫँ᳭सायै क्रियते त᳘स्मान्मारुतः॥

मूलम् - Weber

तं वै स्व᳘तवोभ्य इ᳘ति कुर्यात्॥
स्वयᳫं हि त᳘ एत᳘म् भागम᳘कुर्वतोॗतो स्व᳘तवोभ्यो याज्यानुवाॗक्ये न᳘ विन्दन्ति स᳘ उ ख᳘लु मारुत᳘ एव᳘ स्यात्स वा᳘ एष᳘ प्रजा᳘भ्य एवा᳘हिंसायै क्रियते त᳘स्मान्मारुतः॥

मूलम् - विस्वरम्

तं वै स्वतवोभ्य इति कुर्यात् स्वयं हि त एतं भागमकुर्वत- अतः ? । स्वतवोभ्यो याज्यानुवाक्ये न विन्दन्ति । स उ खलु मारुत एव स्यात् । स वा एष प्रजाभ्य एवाहिंसायै क्रियते । तस्मान्मारुतः ॥ १४ ॥

सायणः

तेषां किञ्चिद् विशेषणमुपक्षिपति- तं वै स्वतवोभ्य इतीति । ‘तं’ खलु सप्तकपालं पुरोडाशं ‘स्वतवोभ्यः’ ‘इति’ विशेषणविशिष्टेभ्यो मरुद्भ्यः ‘कुर्यात्’ । ‘तवः’ इति बलनाम (निघ. २ । ९ । ५) स्वायत्तं तवो बलं येषां ते स्वतवसः । अस्य विशेषणस्यान्वर्थतामाह- स्वयं हीति । ‘ते’ मरुतः स्वयं हि स्वपौरुषेणैव हि ‘एतं भागं अकुर्वन्’ स्वीकृतवन्तः 20, अतस्ते स्वतवसः संपन्ना इत्यर्थः ।

प्रागुक्तमेव पक्षं निगमयितुं कारणमुपकल्पयति- अत इति । यदि तु ‘स्वतवोभ्यः’ प्रतिपादिके ‘याज्यानुवाक्ये’ ‘न’ एव लभते, तदा ‘सः’ एव प्रागुक्तः केवलः ‘मारुत एव’ यागो भवति । एतच्च पक्षद्वयं कात्यायनो ऽप्यसूत्रयत्- “मरुद्भ्यः स्वतवद्भ्यः सप्तकपालो, मारुतो वेति (का. श्रौ. सू. ५ । ११- १२) ।

स वा एष इति । ‘सः’ खलु ‘एषः’ मारुतो यागः ‘प्रजाभ्यः’ प्रजानाम् । षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ । वा. १ ।) प्रजानाम् ‘अहिंसायै’ मरुत्कृतवाधाराहित्याय ‘एव’ ‘क्रियते’ तस्मादिति । मारुतयागस्य निगमनम् ॥ १४ ॥

Eggeling
  1. Let him offer it to the ‘self-strong’ (Maruts); since they gained that share for themselves. [If], however, they (the priests) do not find an invitatory and an offering prayer (addressed) to the ‘self-strong’ (Maruts) 21, let it be (offered) simply to the

Maruts. It is offered for the safety of creatures: hence it is offered to the Maruts.

१५

विश्वास-प्रस्तुतिः

(तो ऽ) अथा᳘तः पय᳘स्यैव॥
प᳘यसो वै᳘ प्रजाः स᳘म्भवन्ति प᳘यसः स᳘म्भूतास्तद्य᳘त ऽएव स᳘म्भूता य᳘तः सम्भ᳘वन्ति त᳘दे᳘वाभ्य ऽएत᳘त्करोति तद्याः पू᳘र्वैर्हवि᳘र्भिः प्रजाः᳘ सृज᳘ते ता᳘ ऽएत᳘स्मात्प᳘यस ऽएत᳘स्यै पय᳘स्यायै स᳘म्भवन्ति॥

मूलम् - श्रीधरादि

(तो ऽ) अथा᳘तः पय᳘स्यैव॥
प᳘यसो वै᳘ प्रजाः स᳘म्भवन्ति प᳘यसः स᳘म्भूतास्तद्य᳘त ऽएव स᳘म्भूता य᳘तः सम्भ᳘वन्ति त᳘दे᳘वाभ्य ऽएत᳘त्करोति तद्याः पू᳘र्वैर्हवि᳘र्भिः प्रजाः᳘ सृज᳘ते ता᳘ ऽएत᳘स्मात्प᳘यस ऽएत᳘स्यै पय᳘स्यायै स᳘म्भवन्ति॥

मूलम् - Weber

अथा᳘तः पयॗस्यैव॥
प᳘यसो वै प्रजाः स᳘म्भवन्ति प᳘यसः स᳘म्भूतास्तद्य᳘त एव स᳘म्भूता य᳘तः सम्भ᳘वन्ति त᳘देॗवाभ्य एत᳘त्करोति तद्याः पू᳘र्वैर्हवि᳘र्भिः प्रजाः᳘ सृज᳘ते ता᳘ एत᳘स्मात्प᳘यस एत᳘स्यै पयॗस्यायै स᳘म्भवन्ति॥

मूलम् - विस्वरम्

अथातः पयस्यैव । पयसो वै प्रजाः सम्भवन्ति- पयसः सम्भूताः । तद्यत एव सम्भूता यतः सम्भवन्ति- तदेवाभ्य एतत्करोति । तद्याः पूर्वैर्हविर्भिः प्रजाः सृजते- ता एतस्मात्पयस एतस्यै पयस्यायै सम्भवन्ति ॥ १५ ॥

सायणः

पयस्यायागं विधत्ते- अथात इति 20 । ‘अथ’- शब्दो मारुतयागानन्तर्य्ये । यतः सृष्टाः प्रजा मारुतयागेन तत्कृतहिंसायाः परिहृतत्वात् सुखेनावस्थिताः अन्नमाकांक्षन्ते, अतः पयोरूपमन्नं तेभ्यो जनयितुं पयस्यायागः कर्त्तव्य इत्यर्थः । तस्य प्रजावृद्धिहेतुत्वमाह- पयसो वा इत्यादिना । सृष्ट्यादौ प्रजापतिना सृज्यमानास्ताः ‘प्रजाः’ तदीयस्तन्यरूपात् ‘पयसः’ सकाशात् ‘सम्भूताः’ प्रवर्द्धिताः यतः, एवमिदानीमपि सर्वाः प्रजाः पयस एव सम्भवन्ति, जन्मानन्तरं तत्क्षणे एव पयोलक्षणमन्नं प्राप्य वर्द्धन्ते पयोरूपस्य तस्यान्नस्य सम्पत्तिमत्र दर्शयितुमुक्तमर्थमनुवदति-तद्यत एवेति । ‘तत्’ तथा सतीत्यर्थः । ‘एतत्’ एतेन पयस्यायागेन ‘तदेव’ प्रजावृद्धिहेतुभूतं पयः ‘आभ्यः’ प्रजाभ्यः ‘करोति’ सम्पादयति । अत एवेदानीं पूर्वसृष्टानां प्रजानामभिवृद्धिर्दृश्यत इत्याह- तद्या इति । ‘पूर्वैः’ प्रागुक्तैराग्नेयादिभिः पञ्चभिः ‘हविर्भिः’ । एतस्मात् पयस इति । दध्ना संस्कृतः पयोविकारः पयस्या, असौ चामिक्षाशब्देनान्यत्राम्नायते- “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्” (का. श्रौ. सू. ४ । ८८)- इति । कात्यायनो ऽपि पयस्यां प्रकृत्य सूत्रयामास- “शृते वा दध्यानयति, वाजिनं निषिच्योत्करे करोति”- (का. श्रौ. सू. ४ । ११०-१११) इति । पयस्याया इति षष्ठ्यर्थे चतुर्थी (पा. सू. २ । ३ । ६२ वा. १) एतस्याः पयस्यायाः प्रकृतिभूतं यत् पयः (श. प. ३ । ३ । ३ । २ भा.) एतस्मादुत्पन्नाः प्रजा वर्द्धन्त इत्यर्थः ॥ १५ ॥

Eggeling
  1. Thereupon follows the oblation of curds (payasyā). Now it is on milk that the creatures subsist, it was by means of milk that they were preserved: hence he now offers to them that by which they were preserved, and whereon they subsist; and the beings whom he creates by means of the foregoing offerings, subsist on that milk, on that oblation of curds.

१६

विश्वास-प्रस्तुतिः

त᳘स्यां मिथुन᳘मस्ति॥
यो᳘षा पय᳘स्या रे᳘तो व्वा᳘जिनं त᳘स्मान्मिथुनाद्वि᳘श्वम᳘संमितम᳘नु प्रा᳘जायत तद्य᳘देत᳘स्मान्मिथुना᳘द्विश्वम᳘संमितम᳘नु प्रा᳘जायत त᳘स्माद्वैश्वदेवी᳘ भवति॥

मूलम् - श्रीधरादि

त᳘स्यां मिथुन᳘मस्ति॥
यो᳘षा पय᳘स्या रे᳘तो व्वा᳘जिनं त᳘स्मान्मिथुनाद्वि᳘श्वम᳘संमितम᳘नु प्रा᳘जायत तद्य᳘देत᳘स्मान्मिथुना᳘द्विश्वम᳘संमितम᳘नु प्रा᳘जायत त᳘स्माद्वैश्वदेवी᳘ भवति॥

मूलम् - Weber

त᳘स्याम् मिथुन᳘मस्ति॥
यो᳘षा पयॗस्या रे᳘तो वा᳘जिनं त᳘स्मान्मिथुनाद्वि᳘श्वम᳘सम्मितम᳘नु प्रा᳘जायत तद्य᳘देत᳘स्मान्मिथुना᳘द्विश्वम᳘सम्मितम᳘नु प्रा᳘जायत त᳘स्माद्वैश्वदेवी᳘ भवति॥

मूलम् - विस्वरम्

तस्यां मिथुनमस्ति- योषा पयस्या, रेतो वाजिनम् । तस्मान्मिथुनाद्विश्वमसंमितमनु प्राजायत । तद्यदेतस्मान्मिथुनाद्विश्वमसंमितमनु प्राजायत तस्माद्वैश्वदेवी भवति ॥ १६ ॥

सायणः

एवं यागोपयुक्तं द्रव्यं प्रशस्य तस्य वैश्वदेवत्वं प्रतिपादयति 22- तस्यामित्यादिना । ‘तस्यां’ पयस्यायां प्रजननसाधनं ‘मिथुनं’ विद्यते ‘पयस्या’- शब्दस्य स्त्रीलिङ्गत्वात् ‘योषा’ तदनुनिष्पादि ‘वाजिनं’ ‘रेतः’ पुंसो वीर्य्यम्; ‘तस्मात् मिथुनात्’ ‘असम्मितम्’ अपरिमितम् इदं ‘विश्वं’ देवमनुष्याद्यात्मकम् ‘अनुप्राजायत’ अनुक्रमेण प्रजापतेः, प्रजातमभूत् । तद्यदेतस्मादिति, प्रतिपादितार्थस्य हेतुत्वाभिधानम् । तस्मादिति । यस्माद् विश्वोत्पत्तिहेतुः पयस्या, तस्माद् विश्वदेवदेवत्या कार्येत्यर्थः ॥ १६ ॥

Eggeling
  1. Therein a union takes place: the curdled milk (payasyā, fem.) is female, and the whey is seed. From that union the infinite All was gradually generated; and since the infinite All was gradually generated from that union, therefore it (the offering of curds) belongs to the All-gods.

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द्यावापृथिव्य᳘ ऽए᳘ककपालः पुरोडा᳘शो भवति॥
(त्ये) एतैर्वै᳘ हवि᳘र्भिः प्रजा᳘पतिः प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्यां प᳘र्यगृह्णात्ता᳘ ऽइमा द्या᳘वापृथिवी᳘भ्यां प᳘रिगृहीतास्त᳘थो ऽए᳘वैष᳘ एतद्या᳘ एतै᳘र्हवि᳘र्भिः प्रजाः᳘ सृज᳘ते ता द्या᳘वापृथिवी᳘भ्यां प᳘रिगृह्णाति त᳘स्माद्द्यावापृथि᳘व्य ए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द्यावापृथिव्य᳘ ऽए᳘ककपालः पुरोडा᳘शो भवति॥
(त्ये) एतैर्वै᳘ हवि᳘र्भिः प्रजा᳘पतिः प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्यां प᳘र्यगृह्णात्ता᳘ ऽइमा द्या᳘वापृथिवी᳘भ्यां प᳘रिगृहीतास्त᳘थो ऽए᳘वैष᳘ एतद्या᳘ एतै᳘र्हवि᳘र्भिः प्रजाः᳘ सृज᳘ते ता द्या᳘वापृथिवी᳘भ्यां प᳘रिगृह्णाति त᳘स्माद्द्यावापृथि᳘व्य ए᳘ककपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

अ᳘थ द्यावापृथिव्य᳘ ए᳘ककपालः पुरोडा᳘शो भवति॥
एतैॗर्वै हवि᳘र्भिः प्रजा᳘पतिः प्रजाः᳘ सृष्ट्वा ता द्या᳘वापृथिवी᳘भ्याम् प᳘र्यगृह्णात्ता᳘ इमा द्या᳘वापृथिवी᳘भ्याम् प᳘रिगृहीतास्त᳘थो एॗवैष᳘ एतद्य᳘ एतै᳘र्हवि᳘र्भिः प्रजाः᳘ सृज᳘ते ता द्या᳘वापृथिवी᳘भ्याम् प᳘रिगृह्णाति त᳘स्माद्द्यावापृथिव्य᳘ एक᳘कपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

अथ द्यावापृथिव्य एककपालः पुरोडाशो भवति । एतैर्वै हविर्भिः प्रजापतिः प्रजाः सृष्ट्वा ता द्यावापृथिवीभ्यां पर्यगृह्णात् । ता इमा द्यावापृथिवीभ्यां परिगृहीताः । तथो एवैष एतद्- य एतैर्हविर्भिः प्रजाः सृजते- ता द्यावापृथिवीभ्यां परिगृह्णाति । तस्माद् द्यावापृथिव्य एककपालः पुरोडाशो भवति ॥ १७ ॥

सायणः

अन्तिमं हविर्विधत्ते- अथेति 22 । द्यावापृथिव्यौ देवते अस्येति द्यावापृथिव्यः “द्यावापृथिवीशुनासीरमरुत्वत्”- (पा. सू. ४ । २ । ३२) इति- सूत्रेण यत् । तत्र हि चकारेण यदित्यनुकृष्यते । तदेतत्पुराकृतिमुदाहृतदृष्टान्तेन उपपादयति- एतैर्वा इत्यादिना । द्यावापृथिवीभ्यां पर्यगृह्णादिति । अधस्तात् पृथिव्या, उपरिष्टाद् द्युलोकेन तदुभयलोकवर्तिनीः सृष्टाः प्रजाः ‘पर्यगृह्णात्’ परितो वेष्टितवान् याश्च ‘इमाः’ प्रजाः आभ्यां ‘द्यावापृथिवीभ्यां’ ‘परिगृहीताः’ परिवेष्टिता एव वर्त्तन्ते, न पुनः स्वतो निगच्छन्ति । तथो एवेति । यथा प्रजापतिः ‘तथो’ तथैव ‘एषः’ इदानीन्तनो यजमानो ऽपि ‘यः एतैः हविर्भिः प्रजाः सृजते’ सृष्ट्वा च पयस्यायागेन तासां पयोरूपमन्नं परिकल्प्य, द्यावापृथिव्ययागेन ‘द्यावापृथिवीभ्यां’ ‘ताः’ ‘परिगृह्णाति’ परिवेष्टयतीत्यर्थः । एवं वैश्वदेवपर्वणि अष्टौ प्रधानयागा विहिताः 23, तद्धितनिर्द्देशौषधिद्रव्यकत्वाल्लिङ्गसामान्याद् दर्शपूर्णमासविधयस्तत्रातिदिष्टाः; “प्रकृतिवद् विकृतिः कर्त्तव्या” इति ॥ १७ ॥

Eggeling
  1. Then follows a cake on one potsherd for Heaven and Earth. Now when Prajāpati had created the living beings by those offerings, he enclosed them within heaven and earth; and so they are now enclosed within heaven and earth. And in like manner he, who by means of those oblations creates living beings, thereby encloses them within heaven and earth: this is why there is a cake on one potsherd for Heaven and Earth.

१८

विश्वास-प्रस्तुतिः

(त्य) अथा᳘त ऽआवृ᳘देव॥
नो᳘पकिरन्त्युत्तरवेदिं व्वि᳘सृष्टमसत्स᳘र्व्वमसद्वैश्वदेव᳘मसदि᳘ति त्रेधा᳘ बर्हिः सं᳘नद्धं भवति तत्पु᳘नरेक᳘धैतद्धि᳘ प्रज᳘ननस्य रूपं᳘ प्रज᳘ननमु हीदं᳘ पिता᳘ माता यज्जा᳘यते तत्तृती᳘यं त᳘स्मात्त्रेधा सत्पु᳘नरेकधा᳘ प्रस्व᳘ ऽउपस᳘न्नद्वा भवन्ति तं᳘ प्रस्तरं᳘ गृह्णाति प्रज᳘ननमु हीदं᳘ प्रज᳘ननमु हि᳘ प्रस्वं᳘स्त᳘स्मात्प्रसूः᳘ प्रस्तरं᳘ गृह्णाति॥

मूलम् - श्रीधरादि

(त्य) अथा᳘त ऽआवृ᳘देव॥
नो᳘पकिरन्त्युत्तरवेदिं व्वि᳘सृष्टमसत्स᳘र्व्वमसद्वैश्वदेव᳘मसदि᳘ति त्रेधा᳘ बर्हिः सं᳘नद्धं भवति तत्पु᳘नरेक᳘धैतद्धि᳘ प्रज᳘ननस्य रूपं᳘ प्रज᳘ननमु हीदं᳘ पिता᳘ माता यज्जा᳘यते तत्तृती᳘यं त᳘स्मात्त्रेधा सत्पु᳘नरेकधा᳘ प्रस्व᳘ ऽउपस᳘न्नद्वा भवन्ति तं᳘ प्रस्तरं᳘ गृह्णाति प्रज᳘ननमु हीदं᳘ प्रज᳘ननमु हि᳘ प्रस्वं᳘स्त᳘स्मात्प्रसूः᳘ प्रस्तरं᳘ गृह्णाति॥

मूलम् - Weber

अथा᳘त आवृ᳘देव॥
नो᳘पकिरन्त्युत्तरवेदिं वि᳘सृष्टमसत्स᳘र्वमसद्वैश्वदेव᳘मसदि᳘ति त्रेधा᳘ बर्हिः सं᳘नद्धम् भवति तत्पु᳘नरेकॗधैतद्धि᳘ प्रज᳘ननस्य रूप᳘म् प्रज᳘ननमु हीद᳘म् पिता᳘ माता यज्जायते त᳘त्तृती᳘यं त᳘स्मात्त्रेधा सत्पु᳘नरेकधा᳘ प्रस्व᳘ उपसं᳘नद्धा भवन्ति त᳘म् प्रस्तरं᳘ गृह्णाति प्रज᳘ननमुॗ हीद᳘म् प्रज᳘ननमु हि᳘ प्रस्व᳘स्त᳘स्मात्प्रसूः᳘ प्रस्तरं᳘ गृह्णाति॥

मूलम् - विस्वरम्

अथात आवृदेव नोपकिरन्त्युत्तरवेदिम् । विसृष्टमसत्, सर्वमसत्, वैश्वदेवमसदिति । त्रेधा बर्हिः सन्नद्धं भवति । तत्पुनरेकधा । एतद्धि प्रजननस्य रूपम् । प्रजननमु हीदम्- पिता, माता, यज्जायते तत्तृतीयम् । तस्मात्त्रेधा सत्पुनरेकधा । प्रस्व उपसंनद्धा भवन्ति । तं प्रस्तरं गृह्णाति । प्रजननमु हीदम् प्रजननमु हि प्रस्वः । तस्मात् प्रसूः प्रस्तरं गृह्णाति ॥ १८ ॥

सायणः

तत्र यानि वैशेष्यकाण्यङ्गानि तानीदानीं विधातुं प्रतिजानीते- अथात आवृदेवेति । ‘अथ’- इति आनन्तर्य्ये । यतः प्रधानानामङ्गापेक्षा, अतः प्रकरणात् । ‘आवृत्’ शब्दः प्रकारवाची । चोदकप्राप्तायामितिकर्त्तव्यतायां प्रकारविशेषः कथ्यते; न त्वन्यत् किञ्चिन्नूतनमत्र प्रतिपाद्यत इति ‘एव’- कारार्थः । अग्निमन्थनादेर्वैशेष्यकस्याङ्गस्य विधास्यमानत्वात् सहचरितमुत्तरवेद्यावपनमपि 24 प्रसक्तम्, तन्निषेधति- नोपकिरन्तीति । ‘उत्तरवेदिं’ ‘नोपकिरन्ति’ उत्तरवेदीं नोपक्षिपन्ति, नोपवपन्तीत्यर्थः । ऋत्विजां बहुत्वाद् बहुवचनम् “कॄ विक्षेपे” इति धातुः (धा. पा. तु. प. १२८) । तत्र हेतुमाह- विसृष्टमिति । सत्यां ह्युत्तरवेदौ तत्रानुष्ठीयमानमेतत् कर्म तया निरुद्धगति स्यात्; तदभावे तत्कृतनिरोधाभावात् क्रियमाणं कर्म ‘विसृष्टं’ व्यापनशीलम् ‘असत्’ भवेत्; अत एव परिच्छेदाभावात् ‘सर्वं’ कृत्स्नं सम्पूर्णम् ‘असत्’ भवेत्; कार्त्स्न्यादेव तद् ‘वैश्वदेवम्’ विश्वदेवसम्बन्धयोग्यम् ‘असद्’ भवेत्; न ह्यसर्वस्य सर्वदेवसम्बन्धो घटते; अतो विसृष्टत्वादिसिद्धये उत्तरवेदिर्न कार्येत्यभिप्रायः ॥

बर्हिराहरणे विशेषं विधत्ते- त्रेधा बर्हिरिति 23 । ‘त्रेधा’ त्रिविधं ‘बर्हिः’ प्रथमं सन्नह्य, ‘तत्’ एव ‘पुनः’ ‘एकधा’ एकविधं सन्नयति । त्रिशब्दात् एकशब्दाच्च “सङ्ख्याया विधार्थे धा” (पा. सू. ५ । ३ । ४२।) इति-धाप्रत्ययः । प्रजोत्पत्त्यनुकूलत्वेनैतत् स्तौति- एतद्धीति । यदेतत् त्रिधाबद्धस्य बर्हिषः पुनरेकधा संहतम्, ‘एतत् खलु’ ‘प्रजननस्य’ प्रजोत्पत्तेः स्वरूपम् । तदेतत् त्रैविध्यं प्रजननगतं दर्शयति- प्रजननमु हीति । ‘पिता, माता’ ‘यत् जायते’ यज्जायमानमपत्यम् ‘तत्’ एतत् ‘तृतीयं’ तृतीयम्; इदमेव हि ‘प्रजननं’ (तै. ब्रा. १ । ६ । ३) प्रजातिः; अस्य हि मातापित्रादिरूपेण त्रिवृत्त्वात्, प्रजननरूपेण चैकत्वात्, तत्साधनभूतस्य बर्हिषस्तद्धर्मभाक्त्वं सूचितमित्यर्थः । तस्मिन्नेव बर्हिषि धर्मविशेषं विधत्ते- प्रस्व 25 इति । प्रसुवते फलानीति ‘प्रस्वः’ पुष्पितांकुराः 25, ‘उपसन्नद्धाः’ भवेयुः “षूङ् प्राणिगर्भविमोचने” (धा. पा. दि. आ. २१) प्रपूर्वादस्मात् “सत्-सू-द्विष”- इति (पा. सू. ३ । २ । ६१) क्विप् “ओः सुपि” (पा. सू. ६ । ४ । ८३) इति यण् । प्रसूतयुक्तानां कुशानां प्रस्तरत्वेन ग्रहणं विधत्ते- तं प्रस्तरमिति । ‘तम्’ इति प्रस्तरापेक्षयैकवचनम् । तैः प्रसूभिः कुशैः प्रस्तराख्यं मुष्टिं सम्भरेदित्यर्थः ॥

एतस्य प्रकृतिकर्मानुकल्पनामाह- प्रजननमु हीदमिति । ‘इदं हि’ वैश्वदेवाख्यं कर्म ‘प्रजननं’ प्रजोत्पत्तिसाधनं ‘प्रस्वः’ प्रसूतयुक्ताः कुशाश्च फलोत्पत्तिहेतवः, अतः साधर्म्यात् प्रसूतकुशमयं प्रस्तरं कुर्यादित्यर्थः ॥ १८ ॥

Eggeling
  1. Now as to the course of proceeding. They do not raise an uttara-vedi 26 in order that it (the sacred work) may be unobstructed, that it may be entire, that it may be (worthy) of the All-gods.–The barhis is tied up in three (bunches), and then

again in one 27; for such is the characteristic form of generation, since father and mother are a productive (pair), and what is born forms a third element: hence that which is threefold is again (made) one. Thereto flowering shoots (of sacrificial grass) are tied: these he uses for the prastara 28; for this is a productive union, and productive indeed are flowering shoots: this is why he takes flowering shoots for the prastara.

१९

विश्वास-प्रस्तुतिः

(त्या) आसा᳘द्य हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥
(त्य) अग्नि᳘ᳫँ᳘ह वै जा᳘यमानम᳘नु प्रजा᳘पतेः प्रजा᳘ जज्ञिरे त᳘थो ऽए᳘वैत᳘स्याग्नि᳘मेव जा᳘यमानम᳘नु प्रजा᳘ जायन्ते त᳘स्मादासा᳘द्य हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥

मूलम् - श्रीधरादि

(त्या) आसा᳘द्य हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥
(त्य) अग्नि᳘ᳫँ᳘ह वै जा᳘यमानम᳘नु प्रजा᳘पतेः प्रजा᳘ जज्ञिरे त᳘थो ऽए᳘वैत᳘स्याग्नि᳘मेव जा᳘यमानम᳘नु प्रजा᳘ जायन्ते त᳘स्मादासा᳘द्य हवी᳘ᳫं᳘ष्यग्निं᳘ मन्थति॥

मूलम् - Weber

आसा᳘द्य हवीं᳘ष्यग्नि᳘म् मन्थन्ति॥
अग्नि᳘ᳫं᳘ ह वै जा᳘यमानम᳘नु प्रजा᳘पतेः प्रजा᳘ जज्ञिरे 29 त᳘थो एॗवैतस्याग्नि᳘मेव जा᳘यमानम᳘नु प्रजा᳘ जायन्ते त᳘स्मादासा᳘द्य हवीं᳘ष्यग्नि᳘म् मन्थन्ति॥

मूलम् - विस्वरम्

आसाद्य हवींष्यग्निं मन्थति । अग्निं ह वै जायमानमनु प्रजापतेः प्रजा जज्ञिरे । तथो एवैतस्याग्निमेव जायमानमनु प्रजा जायन्ते । तस्मादासाद्य हवींष्यग्निं मन्थति ॥ १९ ॥

सायणः

प्रकृतितो ऽप्राप्तत्वात् तत्कालविशिष्टमग्निमन्थनं विधत्ते- आसाद्य हवींषीति प्रकृतिवद्धविरासादनान्तं कृत्वा अग्निमन्थनं कुर्यादित्यर्थः । तदेतत् प्रशंसति- अग्निᳫहेति । प्रथमसृष्टौ प्रजापतिरग्निं जनयित्वा तदनन्तरमेव अन्याः प्रजाः सृष्टवान्; अत इहाग्नेर्जननं प्रजोत्पत्तिकारणं भवतीत्यर्थः । अत एव प्रागाम्नातम्- “तद् या इमाः प्रजा अपराभूतास्ता अग्निममितो निविष्टाः”- इति (श. प. २ । ५ । १ । ४ ।) ॥ १९ ॥

Eggeling
  1. On putting the, sacrificial dishes in their place, they churn the fire 30. For it was after Agni was born that Prajāpati’s offspring was born;. and so for this (sacrificer) also offspring is born after Agni (the fire) has been produced: this is why they churn the fire, after they have deposited the sacrificial dishes in their place.

२०

विश्वास-प्रस्तुतिः

न᳘वप्रयाजं भवति॥
न᳘वानुयाजं द᳘शाक्षरा वै᳘ विराड᳘थैता᳘मुभय᳘तो᳘ न्यूनां व्विरा᳘जं करोति प्रज᳘ननायैत᳘स्माद्वा᳘ ऽउभय᳘तो᳘ न्यूनात्प्रज᳘ननात्प्रजा᳘पतिः प्रजाः᳘ ससृज ऽइत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘स्मादुभय᳘त ऽएव᳘ न्यूनात्प्रज᳘ननात्प्रजाः सृजत ऽइत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘स्मान्न᳘व प्रयाजं भवति नवानुयाजम्॥

मूलम् - श्रीधरादि

न᳘वप्रयाजं भवति॥
न᳘वानुयाजं द᳘शाक्षरा वै᳘ विराड᳘थैता᳘मुभय᳘तो᳘ न्यूनां व्विरा᳘जं करोति प्रज᳘ननायैत᳘स्माद्वा᳘ ऽउभय᳘तो᳘ न्यूनात्प्रज᳘ननात्प्रजा᳘पतिः प्रजाः᳘ ससृज ऽइत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘थो ऽए᳘वैष᳘ ऽएत᳘स्मादुभय᳘त ऽएव᳘ न्यूनात्प्रज᳘ननात्प्रजाः सृजत ऽइत᳘श्चोर्ध्वा᳘ ऽइतश्चा᳘वाचीस्त᳘स्मान्न᳘व प्रयाजं भवति नवानुयाजम्॥

मूलम् - Weber

न᳘वप्रयाजम् भवति॥
न᳘वानुयाजं द᳘शाक्षरा वै᳘ विराड᳘थैता᳘मुभय᳘तोॗ न्यूनां विरा᳘जं करोति प्रज᳘ननायैत᳘स्माद्वा᳘ उभय᳘तोॗ न्यूनात्प्रज᳘ननात्प्रजा᳘पतिः प्रजाः᳘ ससृज इत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘थो एॗवैष᳘ एत᳘स्मादुभय᳘त एवॗ न्यूनात्प्रज᳘ननात्प्रजाः᳘ सृजत इत᳘श्चोर्ध्वा᳘ इतश्चा᳘वाचीस्त᳘स्मान्न᳘वप्रयाजम् भवति न᳘वानुयाजम्॥

मूलम् - विस्वरम्

नवप्रयाजं भवति, नवानुयाजम् । दशाक्षरा वै विराट् । अथैतामुभयतो न्यूनां विराजं करोति-प्रजननाय । एतस्माद्वा उभयतो न्यूनात्प्रजननात्प्रजापतिः प्रजाः ससृजे- इतश्चोर्ध्वाः, इतश्चावाचीः । तथो एवैष एतस्मादुभयत एव न्यूनात्प्रजननात्प्रजाः सृजते । इतश्चोर्ध्वाः, इतश्चावाचीः तस्मान्नव प्रयाजं भवति, नवानुयाजम् ॥ २० ॥

सायणः

चोदकप्राप्तानां प्रजानां सङ्ख्यान्तरं विधत्ते- नवप्रयाजं भवतीति । नव प्रयाजाः अनुयाजाश्च यस्मिन् ‘नव प्रयाजं नवानुयाजं’; (का. श्रौ. सू, ५ । ३२) तथा कर्त्तव्यमित्यर्थः । नवसंख्यां प्रशंसति- दशाक्षरेति । उभयत इति । प्रधानयागात् पुरस्तादुपरिष्टाच्च न्यूनादिति । एकाक्षरेण ‘न्यूनात्’ । एतस्माद्वा इत्यादि । ‘एतस्मात्’ उभयतो ऽनुष्ठीयमानात् प्रजायानुयाजरूपात् एकाक्षरन्यूनात् विराड्द्वयरूपात् ‘प्रजननात्’ प्रजननसाधनादित्यर्थः । इतश्चोर्ध्वा इति । प्रयाजरूपात् प्रथमाद् विराजो भूलोकादारभ्योर्द्ध्ववर्तिनीः प्रजाः सृष्टवान् । उपरिष्टात् क्रियमाणादनुयाजरूपाद् विराजो भूलोकात्, अवाचीनाः प्रजाः सृष्टवान् । स्पष्टमन्यत् ॥ २० ॥

Eggeling
  1. [At the Vaiśvadeva-offering] there are nine fore-offerings and nine after-offerings 31. Now the virāj metre consists of ten syllables: hence, he obtains both times an inferior (incomplete) virāj for the sake of production, because it was from that inferior (lower) source of production 32 that Prajāpati twice produced creatures–both the upright and those looking to the ground. This is why (the Vaiśvadeva) has nine fore-offerings and nine after-offerings.

२१

विश्वास-प्रस्तुतिः

त्री᳘णि समिष्टयजू᳘ᳫं᳘षि भवन्ति॥
ज्या᳘य इव᳘ हीद᳘ᳫं᳘हविर्यज्ञाद्य᳘त्र न᳘वप्रयाजं न᳘वानुयाजम᳘थो ऽअप्ये᳘कमेव᳘ स्याद्धविर्यज्ञो हि त᳘स्य प्रथमजो गौर्द᳘क्षिणा॥

मूलम् - श्रीधरादि

त्री᳘णि समिष्टयजू᳘ᳫं᳘षि भवन्ति॥
ज्या᳘य इव᳘ हीद᳘ᳫं᳘हविर्यज्ञाद्य᳘त्र न᳘वप्रयाजं न᳘वानुयाजम᳘थो ऽअप्ये᳘कमेव᳘ स्याद्धविर्यज्ञो हि त᳘स्य प्रथमजो गौर्द᳘क्षिणा॥

मूलम् - Weber

त्री᳘णि समिष्टयजूं᳘षि भवन्ति॥
ज्या᳘य इवॗ हीद᳘ᳫं᳘ हविर्यज्ञाद्य᳘त्र न᳘वप्रयाजं न᳘वानुयाजम᳘थो अप्ये᳘कमेव᳘ स्याद्धविर्यज्ञो हि त᳘स्य प्रथमजो गौर्द᳘क्षिणा॥

मूलम् - विस्वरम्

त्रीणि समिष्टयजूंषि भवन्ति । ज्याय इव हीदं हविर्यज्ञात्- यत्र नवप्रयाजम्, नवानुयाजम् । अथो अप्येकमेव स्यात् हविर्यज्ञो हि तस्य प्रथमजो गौर्दक्षिणा ॥ २१ ॥

सायणः

चोदकप्राप्तस्य समिष्टयजुषो ऽपि संख्यान्तरं विधाय प्रशंसति- त्रीणीति । तानि च सूत्रकृता दर्शितानि- “त्रीणि समिष्टयजूंषि जुहोति, देवा गातुविदो यज्ञ यज्ञ मेष त इति" (का . श्रौ. सू. ५ । ३४ ।)- इति । ज्याय इव हीदमिति अन्यस्माद्धविर्यज्ञाद् दर्शपूर्णमासाद् ‘इदं’ वैश्वदेवपर्वरूपं हविः ‘ज्याय इव’ प्रवृद्धमिव हि । ज्यायस्त्वे कारणमाह- यत्रेति । ‘यत्र’ यस्मिन् कर्मणि ‘नवप्रयाजं नवानुयाजं’ भवति, तद्धि प्रकृतेर्ज्यायो भवति; प्रकृतौ प्रयाजानां पञ्चत्वात् अनुयाजानां त्रिवृत्त्वाच्च ॥

पक्षान्तरमाह- अथो इति । ‘एकमेव’ समिष्टयजुर्भवति, न तु त्रीणि 33 । तत्र कारणमाह- हविर्यज्ञ इति । ‘हि’- शब्दो हेतौ । दक्षिणां विधत्ते- तस्येति । यजमानस्य गोष्ठे प्रथमं जातः ‘प्रथमजः’, तादृशो ‘गौः’ ‘तस्य’ वैश्वदेवपर्वणो दक्षिणात्वेन देय इत्यर्थः ॥ २१ ॥

Eggeling
  1. There are three Samishṭayajus 34; for this (offering) is decidedly greater than an (ordinary) havir-yajña 35, since it has nine fore-offerings and nine after-offerings. However, there may also be only a single Samishṭayajus, since this is a havir-yajña. The priest’s fee for it (consists of) the firstborn calf (of the season).

२२

विश्वास-प्रस्तुतिः

(णै) एते᳘न वै᳘ प्रजा᳘पतिः॥
(र्य) यज्ञे᳘नेष्ट्वा᳘ येयं᳘ प्रजा᳘पतेः प्र᳘जापतिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫं᳘ ह वै प्र᳘जातिं प्र᳘जायत ऽएताᳫंश्रि᳘यं गच्छति य᳘ ऽएवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥

मूलम् - श्रीधरादि

(णै) एते᳘न वै᳘ प्रजा᳘पतिः॥
(र्य) यज्ञे᳘नेष्ट्वा᳘ येयं᳘ प्रजा᳘पतेः प्र᳘जापतिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫं᳘ ह वै प्र᳘जातिं प्र᳘जायत ऽएताᳫंश्रि᳘यं गच्छति य᳘ ऽएवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥

मूलम् - Weber

एते᳘न वै᳘ प्रजा᳘पतिः यज्ञे᳘नेष्ट्वा॥
येय᳘म् प्रजा᳘पतेः प्र᳘जापतिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫं᳘ ह वै प्र᳘जातिम् प्रजायत एतां श्रि᳘यं गछति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ एते᳘न यजेत॥

मूलम् - विस्वरम्

एतेन वै प्रजापतिर्यज्ञेनेष्ट्वा- येयं प्रजापतेः प्रजातिः, या श्रीः- एतद्बभूव । एतां ह वै प्रजातिं प्रजायते- एतां श्रियं गच्छति- य एवं विद्वानेतेन यज्ञेन यजते । तस्माद्वा एतेन यजेत ॥ २२ ॥

इति वैश्वदेवयागश्चातुर्मास्ये प्रथमं पर्व ।

सायणः

विहितस्य वैश्वदेवयागस्य प्रजाश्रीफलसाधनत्वं सदृष्टान्तमुपसंहरति- एतेनेत्यादिना 33एतद् बभूवेति । ‘एतत्’ एतर्हि ‘प्रजापतेः’ ‘या श्रीः’ बभूवेत्यर्थः । तस्मादिति । उपसंहृतस्य यागविधेर्निगमनम् (तै. सं. १ । ८ । १ । १ तै. ब्रा. १ । ६ । १ । ३) ॥ २२ ॥ २ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥ (५ । १)

Eggeling
  1. And what race, what prosperity accrued to Prajāpati from his offering this sacrifice, that same race he produces, that same prosperity he attains

whosoever, knowing this, offers this sacrifice: let him therefore perform this sacrifice.


  1. 384:1 Or, Prajāpati alone was this (universe). Cf. Muir, Original Sanskrit Texts, p. 70. ↩︎

  2. 384:2 By prajāḥ, or (living) beings, mammalia–especially man and domestic animals–seem to be understood. ↩︎

  3. ‘लब्धात्मानः-’ इ. पा. । ↩︎ ↩︎

  4. 385:1 Ātmana evāgre; the Kāṇva text has ātmany evāgre. ↩︎

  5. 385:2 Rig-veda VIII, 90, 14. ↩︎

  6. The ऋक्संहिता reads बृह᳘द्ध. ↩︎

  7. प्ययते Sây. ↩︎

  8. 385:3 Or perhaps better, as Ludwig takes it, ‘On high he took his place within the worlds.’ ↩︎

  9. प्रजाकामस्यापि वैश्वदेवम् का. श्रौ. सू. । ५ । ४५ । ↩︎ ↩︎

  10. 386:1 ? Or, Prajāpati, the real, the existent, ‘Prajāpatim bhūtam.’ ↩︎

  11. 386:2 Instead of the preliminary Anvārambhaṇīyā-ishṭi (see p. 7), a special ishṭi may be performed on this occasion, with a cake on twelve potsherds to Agni Vaiśvānara, and a potful of boiled rice (hare) to Parjanya, for oblations. Kāty. V, 1, 2-4. ↩︎

  12. 386:3 According to Taitt. S. I, 8, 2, it is one on twelve potsherds. ↩︎

  13. 386:4 Madhyataḥ, lit. ‘from the middle.’ ↩︎

  14. ‘ततः पुनर्मिथुनम्’ इ० पा० क्व० । ↩︎ ↩︎

  15. 387:1 While the five preceding oblations are common to all the seasonal offerings (Kāty. V, I, 15), the succeeding ones are peculiar to the Vaiśvadeva. ↩︎

  16. निषेध्रा AB. ↩︎

  17. मरुद्भ्यः स्वतबद्भ्यः सप्तकपालः । मारुतो वा । का. श्रौ. सू. ५। ११-१२ । ↩︎

  18. 387:2 The Kāṇva text adds, ‘if thou wilt not assign a share to us.’ ↩︎

  19. 387:3 In Rig-veda VIII, 96, 8, the Maruts are said to be sixty-three in number, divided into nine troops of seven each. ↩︎

  20. ‘स्वाधीनं कृतवन्तः’- इति पा० । ↩︎ ↩︎

  21. 387:4 The Kāṇva text has: Tad uta yājyānuvākye svatavatyau na vindanti; yadi yājyānuvākye svatavatyau na vinded api mārutyāv eva syātām. ↩︎

  22. ‘प्रतिष्ठापयति’- इति पाठः । ↩︎ ↩︎

  23. एतद्वैश्वदेवम् । एतद्धविरष्टकं का. श्रौ. सू. ५। १५ । ↩︎ ↩︎

  24. ‘सहवाचि’ इति पाठः । ↩︎

  25. कुशप्रस्वः प्रस्तर उपसन्नद्धः । का. श्रौ. सू. ५। २० । ↩︎ ↩︎

  26. 388:1 The uttara-vedi, or northern (or upper) altar, is not required at the performance of the Vaiśvadeva, but at that of the Varuṇapraghāsāḥ; see II, 5, 2, 5 seq. ↩︎

  27. 389:1 Three bunches of sacrificial grass are tied together with one band. Kāty. V, 1, 25. ↩︎

  28. 389:2 For the prastara, or bunch of grass representing the sacrificer, see I, 3, 3, 5 seq.; I, 8, 3, II seq. ↩︎

  29. जग्निरे A. ↩︎

  30. 389:3 Kāty. V, I, 27 seq. supplies the following details:–With the text (Vāj. V, 2 a, &c.), ‘Agni’s birth-place art thou,’ the Adhvaryu takes up a piece of wood and puts it on the altar. With ’the two testicles are ye’ he lays on it two stalks of sacrificial grass. With ‘Urvaśī thou art’ he places the lower araṇi (see p. 294, note 3) thereon. With ‘Āyus (old age, or the son of Purūravas and Urvaśī) thou art’ he touches the butter in the pot with the upper araṇi; and with ‘Purūravas thou art’ he puts it down on the lower araṇi. He then calls on the Hotr̥ to recite ’to the fire being churned out.’ With the three formulas ‘with the gāyatrī (trishṭubh, jagatī) metre I churn thee!’ he churns thrice from left to right, and then alternately both ways until fire is produced. He then calls on the Hotr̥ to recite ’to the born fire’ (Sāṅkh. III. 13, 21); and in carrying the fire towards the Āhavanīya he makes him recite ’to (the fire) being carried forward.’ With the text V, 3, he throws it down on the Āhavanīya hearth; and (having put a kindling-stick on it) he makes two libations of butter thereon with V, 4. ↩︎

  31. 390:1 The same number of prayājas and anuyājas are prescribed for the Varuṇapraghāsāḥ (see II, 5, 2, 30 and 41, with notes) and for the Mahāhavis of the Sākamedhāḥ. Kāty. V, 2, 8. ↩︎

  32. 390:2 Or rather, from that productive nyūna (womb, lit. defective, lower); see II, 1, 1, 13. ↩︎

  33. एकं वा समिष्टयजुः । का. श्रौ. सू. ५ । ३७ । ↩︎ ↩︎

  34. 390:3 See I, 9, 2, 25 seq. The formula used, if there be only one Samishṭayajus, is the same as at the Darśapūrṇamāsa, viz. II, 21 b (VIII, 21). If there are three, they are offered to the wind (vāta), the sacrifice, and the lord of sacrifice respectively; the formulas Vāj. S. VIII, 22 a b being used with the second and third. Kāty. V, 2, 9. For the Varuṇapraghāsāḥ and Sākamedhāḥ three Samishṭayajus are prescribed, and for the Śunāsīrīya only one. ↩︎

  35. 390:4 Viz. such as the new and full-moon sacrifice, which serves as the model sacrifice, and at which there are only five fore-offerings and three after-offerings. See I, 5, 3, 1 seq.; I, 8, 2, 7 seq. ↩︎