Eggeling
Here also two days were, as a rule, required for the performance, both at full and new moon; but while, at the ordinary sacrifice,
At full moon some authorities add a special ishṭi to Indra Vimr̥dh (’the Averter of evil’). The new-moon performance concludes with libations of whey to the divine coursers (the horses of the gods); and, optionally, with an ishṭi to Āditya.
The performance of the Dākshāyaṇa sacrifice was held to be obligatory only for a period of fifteen years (see XI, 1, 2, 13), whereas the ordinary new and full-moon offerings had to be performed for double that period from the setting up of the sacred fires. Nay, even the daily performance of it with certain modifications, for a whole year, was supposed to acquit the householder of any further obligation in this respect; his sacrificial duties being henceforth limited to the performance of the Agnihotra, or morning and evening libations. The daily performance of the Dākshāyaṇa is so regulated that an afternoon and following forenoon are alternately assigned to the two days’ ceremonies of the ordinary fortnightly Dākshāyaṇa sacrifice.
०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिर्ह वा᳘ ऽएतेना᳘ग्रे यज्ञे᳘नेजे॥
प्रजा᳘कामो बहुः᳘ प्रज᳘या पशु᳘भिः स्याᳫँ᳭ श्रि᳘यं गच्छेयं य᳘शः स्यामन्नादः᳘ स्यामि᳘ति॥
मूलम् - श्रीधरादि
प्रजा᳘पतिर्ह वा᳘ ऽएतेना᳘ग्रे यज्ञे᳘नेजे॥
प्रजा᳘कामो बहुः᳘ प्रज᳘या पशु᳘भिः स्याᳫँ᳭ श्रि᳘यं गच्छेयं य᳘शः स्यामन्नादः᳘ स्यामि᳘ति॥
मूलम् - Weber
प्रजा᳘पतिर्ह वा᳘ एतेना᳘ग्रे यज्ञे᳘नेजे॥
प्रजा᳘कामो बहुः᳘ प्रज᳘या पशु᳘भिः स्यां श्रि᳘यं गछेयं य᳘शः स्यामन्नादः᳘ स्यामि᳘ति॥
मूलम् - विस्वरम्
अथ दाक्षायणयज्ञो वसिष्ठयज्ञः ।
प्रजापतिर्ह वा एतेनाग्रे यज्ञेनेजे प्रजाकामः- बहुः प्रजया पशुभिः स्याम्, श्रियं गच्छेयम्, यशः स्याम्, अन्नादः स्यामिति ॥ १ ॥
सायणः
आवृत्तिगुणविकृतो दर्शपूर्णमासयागप्रयोग एव दाक्षायणयज्ञः, तं विधित्सुराख्यायिकामाह- प्रजापतिरिति । ‘एतेन’ वक्ष्यमाणेन दाक्षायणनामकेन यज्ञेन 1, ‘प्रजापतिः’ अहम् अविकृत एव सन् देवमनुष्यादिरूपया ‘प्रजया’, गवादिभिः ‘पशुभिः’ च ‘बहुः’ बहुविधः ‘स्याम्’ भवेयम्, उत्पन्नानां प्रजादीनामशनार्थं ‘श्रियं’ सम्पदं गच्छेयं प्राप्नुयाम्, ततो ऽहं ‘यशः’ यशस्वी ‘स्याम्’ ‘अन्नादः’ भवेयम् ‘इति’ । एवमेते दाक्षायणयज्ञं कृतवतः प्रजापतेः कामाः तत इदानीमपि तादृग्विधकामनायुक्त एव दाक्षायणयज्ञे ऽधिक्रियत इत्यर्थः 2 ॥ १ ॥
Eggeling
- In the beginning Prajāpati, being desirous of offspring, sacrificed with this sacrifice: ‘May I abound in offspring and cattle; may I obtain prosperity; may I become glorious; may I become an eater of food!’ so he thought.
०२
विश्वास-प्रस्तुतिः
स वै द᳘क्षो ना᳘म॥
तद्य᳘देनेन सो ऽग्रे᳘ ऽयजत᳘ तस्माद्दाक्षायणयज्ञो ना᳘मो᳘तैनमे᳘के व्व᳘सिष्ठयज्ञ ऽइत्या᳘चक्षत ऽएष वै व्व᳘सिष्ठ ऽएत᳘मेव त᳘दन्वा᳘चक्षते स᳘ ऽएते᳘न यज्ञे᳘नेजे स᳘ एते᳘न यज्ञे᳘नेष्ट्वा᳘ येयं᳘ प्रजा᳘पतेः प्रजा᳘तिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫँ᳘ ह वै प्र᳘जातिं प्र᳘जायत ऽएताᳫँ᳭ श्रि᳘यं गच्छति य᳘ ऽएवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न य᳘जेत॥
मूलम् - श्रीधरादि
स वै द᳘क्षो ना᳘म॥
तद्य᳘देनेन सो ऽग्रे᳘ ऽयजत᳘ तस्माद्दाक्षायणयज्ञो ना᳘मो᳘तैनमे᳘के व्व᳘सिष्ठयज्ञ ऽइत्या᳘चक्षत ऽएष वै व्व᳘सिष्ठ ऽएत᳘मेव त᳘दन्वा᳘चक्षते स᳘ ऽएते᳘न यज्ञे᳘नेजे स᳘ एते᳘न यज्ञे᳘नेष्ट्वा᳘ येयं᳘ प्रजा᳘पतेः प्रजा᳘तिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫँ᳘ ह वै प्र᳘जातिं प्र᳘जायत ऽएताᳫँ᳭ श्रि᳘यं गच्छति य᳘ ऽएवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न य᳘जेत॥
मूलम् - Weber
स वै द᳘क्षो ना᳘म॥
तद्य᳘देनेन सो ऽग्रे᳘ ऽयजत त᳘स्माद्दाक्षायणयज्ञो ना᳘मोॗतैनमे᳘के व᳘सिष्ठयज्ञ इत्या᳘चक्षत एष वै व᳘सिष्ठ एत᳘मेव त᳘दन्वा᳘चक्षते स᳘ एते᳘न यज्ञे᳘नेजे स᳘ एते᳘न यज्ञे᳘नेष्ट्वाॗ येय᳘म् प्रजा᳘पतेः प्रजा᳘तिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫं᳘ ह वै प्र᳘जातिम् प्र᳘जायत एतां श्रि᳘यं गछति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ एते᳘न य᳘जेत॥
मूलम् - विस्वरम्
स वै दक्षो नाम तद् यदेनेन सो ऽग्रे ऽयजत, तस्माद्दाक्षायणयज्ञो नाम । उतैनमेके वसिष्ठयज्ञ इत्याचक्षते । एष वै वसिष्ठः । एतमेव तदन्वाचक्षते । स एतेन यज्ञेनेजे । स एतेन यज्ञेनेष्ट्वा- येयं प्रजापतेः प्रजातिः, या श्रीः एतद्बभूव । एतां ह वै प्रजातिं प्रजायते, एतां श्रियं गच्छति- य एवं विद्वानेतेन यज्ञेन यजते । तस्माद्वा एतेन यजेत ॥ २ ॥
सायणः
तन्नाम निर्ब्रूते- स वा इति । ‘सः’ खलु प्रजापतिः ‘दक्षो नाम’ अभवत्, तेन प्रथममिष्टवान् ‘तस्मात्’ ‘दाक्षायणयज्ञः’ इत्युच्यते । नामान्तरमपि कथयति- उतैनमिति । ‘उत’ अपि च ‘एनम्’ ‘एके’ शाखिनः ‘वसिष्ठयज्ञ इति’ व्यवहरन्ति । ‘एषः’ एव खलु प्रजापतिः ‘वसिष्ठः’ नान्यः; सर्वश्रेष्ठत्वात् । ‘एतमेव’ दाक्षायणयज्ञं ‘तत्’ तत्र वसिष्ठयज्ञ इति ‘अन्वाचक्षते’ । स एतेनेति । ‘सः’ दक्षशब्दवसिष्ठशब्दवाच्यः प्रजापतिः तच्छब्देन परामृश्यते । एतद्बभूवेति । ‘एतत्’ एतर्हि ‘येयं’ ‘प्रजापतेः’ सकाशात् ‘प्रजातिः’ प्रजानामुत्पत्तिः ‘बभूव’, ‘या’ च ‘श्रीः’ निरतिशया प्राजापत्यपदरूपा सम्पत् ‘बभूव’ । एतामित्यादि । ‘यः’ ‘विद्वान्’ एतदनुष्ठानस्य फलं जानानः । ‘तस्मात्’ दाक्षायणयज्ञफलकामः ‘एतेन’ ‘यजेत’ ॥ २ ॥
Eggeling
- Now he was indeed Daksha: and because
he sacrificed in the beginning with this sacrifice, it is called Dākshāyaṇa-sacrifice. Some, however, call it the Vasishṭḥa-sacrifice; for he (Prajāpati) is indeed vasishṭḥa (the best) 3, and after him they call it. He sacrificed with that sacrifice; and what race, what prosperity of Prajāpati was then produced through his performing that sacrifice, that same race he procreates, that same prosperity he obtains, whosoever, knowing this, performs that sacrifice: let him therefore perform that sacrifice.
०३
विश्वास-प्रस्तुतिः
ते᳘नो ह त᳘त ऽईजे॥
प्रतीदर्शः श्वै᳘क्नः स ये तं प्र᳘त्यासुस्ते᳘षां विव᳘चनमिवास विव᳘चनमिव ह वै᳘ भवति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥
मूलम् - श्रीधरादि
ते᳘नो ह त᳘त ऽईजे॥
प्रतीदर्शः श्वै᳘क्नः स ये तं प्र᳘त्यासुस्ते᳘षां विव᳘चनमिवास विव᳘चनमिव ह वै᳘ भवति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥
मूलम् - Weber
ते᳘नो ह त᳘त ईजे॥
प्रतीदर्शः श्वे᳘क्नः स ये तम् 4 प्र᳘त्यासुस्ते᳘षां विव᳘चनमिवास विव᳘चनमिव 5 ह वै᳘ भवति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ एतेन यजेत॥
मूलम् - विस्वरम्
तेनोह तत ईजे प्रतीदर्शः श्वैक्नः । स ये तं प्रत्यासुस्तेषां विवचनमिवास । विवचनमिव ह वै भवति- य एवं विद्वानेतेन यज्ञेन यजते । तस्माद्वा एतेन यजेत ॥ ३ ॥
सायणः
विहितस्य यागस्य फलान्तरहेतुत्वमपि परकृत्युपन्यासेन दर्शयति- तेनो हेति । ‘श्वैक्नः’ श्विक्नस्य पुत्रः नाम्ना ‘प्रतीदर्शः’ । “उपसर्गस्य घञ्यमनुष्ये बहुलम्”- (पा. सू. ६ । ३ । १२२) इति बहुलग्रहणात् मनुष्यवाचित्वे ऽपि घञन्त उत्तरपदे उपसर्गस्य दीर्घः । स एतमिति । ‘एतम्’ एनम् प्रतीदर्शम् । ‘सः’ इति व्यत्ययेनैकवचनम् । ये तत्रत्या जनाः ‘प्रत्यासुः’ केनचित्कारणेन प्रतिचिक्षिपुः “असु क्षेपणे"- (धा. पा. दि. प. १०३) इत्यस्माल्लिट् । तेन च दाक्षायणयज्ञेनेष्टे सति ’ ‘तेषां’ जनानां ‘विवचनं’ विशिष्टवचनं पक्षपातवचनम् ‘इव’ एव ‘आस’ बभूव, अस्मिन् बहुमानं कृतवन्त इत्यर्थः । तद्दृष्टान्तेनेदानींतनविद्वदनुष्ठानस्यापि तत्फलमाह- विवचनमिव ह वा इति ॥ ३ ॥
Eggeling
- Now that same sacrifice was afterwards performed by Pratīdarśa Śvaikna; and he indeed was an authority 6 to those who emulated him. An authority, therefore, he will become, whosoever, knowing this, performs that sacrifice: let him, therefore, perform that sacrifice.
०४
विश्वास-प्रस्तुतिः
तमा᳘जगाम॥
सु᳘प्ला सार्ञ्जयो᳘ ब्रह्मच᳘र्यं त᳘स्मादेतं᳘ च यज्ञ᳘मनू᳘चे ऽन्य᳘मु च᳘ सो ऽनू᳘च्य पु᳘नः सृ᳘ञ्जयाञ्जगाम ते᳘ ह सृ᳘ञ्जया व्विदां᳘चक्रुर्यज्ञं वै᳘ नो ऽनूच्या᳘गन्नि᳘ति ते᳘ होचुः सह वै᳘ नस्त᳘द्देवैरा᳘गन्यो᳘ नो यज्ञ᳘मनूच्या᳘गन्नि᳘ति स वै᳘ सह᳘देवः सार्ञ्जयस्तद᳘प्येत᳘न्निव᳘चनमिवास्त्यन्यद्वा᳘ ऽअरे सु᳘प्ला ना᳘म दध ऽइ᳘ति स᳘ ऽएते᳘न यज्ञे᳘नेजे स᳘ ऽएते᳘न यज्ञे᳘नेष्ट्वा᳘ येयᳫँ᳭ सृ᳘ञ्जयानां प्र᳘जातिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫं᳘ ह वै प्र᳘जातिं प्र᳘जायत ऽएताᳫँ᳭ श्रि᳘यं गच्छति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥
मूलम् - श्रीधरादि
तमा᳘जगाम॥
सु᳘प्ला सार्ञ्जयो᳘ ब्रह्मच᳘र्यं त᳘स्मादेतं᳘ च यज्ञ᳘मनू᳘चे ऽन्य᳘मु च᳘ सो ऽनू᳘च्य पु᳘नः सृ᳘ञ्जयाञ्जगाम ते᳘ ह सृ᳘ञ्जया व्विदां᳘चक्रुर्यज्ञं वै᳘ नो ऽनूच्या᳘गन्नि᳘ति ते᳘ होचुः सह वै᳘ नस्त᳘द्देवैरा᳘गन्यो᳘ नो यज्ञ᳘मनूच्या᳘गन्नि᳘ति स वै᳘ सह᳘देवः सार्ञ्जयस्तद᳘प्येत᳘न्निव᳘चनमिवास्त्यन्यद्वा᳘ ऽअरे सु᳘प्ला ना᳘म दध ऽइ᳘ति स᳘ ऽएते᳘न यज्ञे᳘नेजे स᳘ ऽएते᳘न यज्ञे᳘नेष्ट्वा᳘ येयᳫँ᳭ सृ᳘ञ्जयानां प्र᳘जातिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫं᳘ ह वै प्र᳘जातिं प्र᳘जायत ऽएताᳫँ᳭ श्रि᳘यं गच्छति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥
मूलम् - Weber
तमा᳘जगा᳘म॥
सु᳘प्ला सार्ञ्जयो᳘ ब्रह्मच᳘र्यं त᳘स्मादेतं᳘ च यज्ञ᳘मनूॗचे ऽन्य᳘मु चॗ सो ऽनू᳘च्य पु᳘नः सृ᳘ञ्जयाञ्जगाम ते᳘ ह सृ᳘ञ्जया विदां᳘ चक्रुर्यज्ञं वै᳘ नो ऽनूच्या᳘गन्नि᳘ति ते᳘ होचुः सह वै᳘ नस्त᳘द्देवैरा᳘गन्यो᳘ नो यज्ञ᳘मनूच्या᳘गन्नि᳘ति स वै᳘ सह᳘देवः सार्ञ्जयस्तद᳘प्येत᳘न्निव᳘चनमिवास्त्यन्यद्वा᳘ 7 अरेसु᳘प्ला ना᳘म दध इ᳘ति स᳘ एते᳘न यज्ञे᳘नेजे स᳘ एते᳘न यज्ञे᳘नेष्ट्वाॗ येयᳫं सृ᳘ञ्जयानाम् प्र᳘जातिर्या श्री᳘रेत᳘द्बभूवैता᳘ᳫं᳘ ह वै प्र᳘जातिम् प्र᳘जायत एतां श्रि᳘यं गछति य᳘एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ एते᳘न यजेत२।४।४।ते᳘नो ह त᳘त ईजे॥
देवभागः᳘ श्रौतर्षः स᳘ उभ᳘येषां कु᳘रूणां च सृ᳘ञ्जयानां च पुरो᳘हित आस परम᳘ता वै सा योॗ न्वेवै᳘कस्य राष्ट्रस्य पुरो᳘हितो᳘ ऽसत्साॗ न्वेव᳘ परम᳘ता कि᳘मु यो द्व᳘योः परम᳘तामिव ह वै᳘ गछति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ एते᳘न यजेत॥
मूलम् - विस्वरम्
तमाजगाम सुल्पा सार्ञ्जयो ब्रह्मचर्यम् । तस्मादेतं च यज्ञमनूचे, अन्यमु च । सो ऽनूच्य पुनः सृञ्जयाञ् जगाम । ते ह सृञ्जया विदाञ्चक्रुः- यज्ञं वै नो ऽनूच्यागन्निति । ते होचुः- सह वै नस्तद्देवैरागन्- यो नो यज्ञमनूच्यागन् इति । स वै सहदेवः सार्ञ्जयः । तदप्येतन्निवचनमिवास्ति-अन्यद्वा अरे सुल्पा नाम दध इति । स एतेन यज्ञेनेजे । स एतेन यज्ञेनेष्ट्वा येयं सृञ्जयानां प्रजातिः, या श्रीः- एतद्बभूव । एतां ह वै प्रजातिं प्रजायते, एतां श्रियं गच्छति- य एवं विद्वानेतेन यज्ञेन यजते । तस्माद्वा एतेन यजेत ॥ ४ ॥
सायणः
पुनरप्यस्य यज्ञस्य विशिष्टफलान्तरहेतुत्वं प्रतिपादयितुमाख्यायिकया परकृतिमुदाहरति- तमाजगामेति । ‘तं’ प्रतीदर्शमुपदेष्टृत्वेनोपासीदत्, सृञ्जयपुत्रः ‘सुल्पा’ नाम ‘ब्रह्मचर्यम्’ ‘आजगाम’ प्राप्तवान् । ‘तस्मात्’ तदुपदेष्टुः प्रतीदर्शात् ‘एतं’ दाक्षायणयज्ञम् ‘अन्यमु’ अन्यमपिच ‘यज्ञम्’ ‘अनूचे’ अनूचिवान् अधीतवान् । अनूच इति अनुपूर्वाद् ब्रुवो लिटि वच्यादेशे आत्मनेपदे रूपम् । तस्मादिति “आख्यातोपयोगे”- (पा. सू. १ । ४ । २९) इत्यपादानसंज्ञा । ‘स’ च सार्ञ्जयः ‘एतम् अनूच्य’ ‘पुनः’ ‘सृञ्जयान्’ तदाख्यान् जनपदान् ‘जगाम’; ‘ते’ च ‘एनं’ ‘विदाञ्चक्रुः’ ज्ञातवन्तः । “उषविदजागृभ्यो ऽन्यतरस्याम्”- (पा. सू. ३ । १ । ३८) इति लिट्याम् प्रत्ययः । कथमिति, तदाह- यज्ञमिति । ‘नः’ अस्मदर्थं ‘यज्ञम्’ अनूच्य अधीत्य ‘आगन्’ आगतो ऽभूत् । गमेर्लुङि “मन्त्रे घस०"- (पा. सू. २ । ४ । ८०) इति च्लेर्लुक्, “हल्ङ्याब्भ्यः”- (पा. सू. ६ । १ । ६८) इति तिलोपः, “मो नो धातोः” (पा. सू. ८ । २ । ६४) इति नत्वम् । ‘इति’ ज्ञात्वा ते सृञ्जया अब्रुवन्, ‘नः’ अस्मदर्थं यः ‘यज्ञम्’ अधीत्यागमत्, ‘सः’ तत्सम्बन्धिभिः देवैः सह आगमदिति । ततः प्रभृति ‘सः’ ‘सार्ञ्जयः’ ‘सहदेवः’ इति संज्ञया प्रसिद्धो ऽभवत् ॥
तामेव प्रसिद्धिं दर्शयति- तदेतदिति । ‘तत्’ तस्मात् कारणात् ‘एतत्’ एतर्हि, इदानीमपि ‘निवचनं’ निर्वचनं निरन्तरं वचनम् ‘अस्ति’ व्यवहारो लोके 8 विद्यते । वचनस्य स्वरूपं दर्शयति- अन्यद्वा इति । पूर्वं हि सार्ञ्जयः ‘सुल्पा नाम’ अभवत्, अधुना तु देवैः सहागमनात् ‘सहदेवः’ ‘इति’ ‘अन्यत्’ नाम ‘दधे’ धारितवान् ‘इति’ ‘स च’ सार्ञ्जयः । स्वजनपदेषु एतेन दाक्षायणयज्ञेन ईजे इष्टवान् । स एतेन यज्ञेनेष्ट्वा इत्यादि, एतस्य सार्ञ्जयफलप्राप्तिकथनम् ॥
एताँ ह वै प्रजातिमिति, इदानीन्तनस्य विदुषो ऽनुष्ठातुः फलम् । तस्माद्वा एतेनेति । यस्मात् सृञ्जयसम्बन्धिप्रजात्यादिकमपि दाक्षायणयज्ञफलम्, तस्मादपि कारणादित्यर्थः ॥ ४ ॥
Eggeling
- Him Suplan Sārñjaya approached for the sake of sanctity; and accordingly he was taught that sacrifice and another 9; and having learnt it he went back to the Sr̥ñjayas. Now they knew that he was coming to them after studying the sacrifice for their sake. They said, ‘Verily, with the gods (saha devaiḥ) he has come to us who has come after studying the sacrifice:’ thus he (was called) Sahadeva Sārñjaya; and even now the saying is, ‘Lo, Suplan has taken another name!’ He performed that sacrifice; and what race and prosperity of the Sr̥ñjayas was then produced through his performing that sacrifice, that same race he procreates, that same prosperity he obtains, whosoever,
knowing this, performs that sacrifice: let him, therefore, perform that sacrifice.
०५
विश्वास-प्रस्तुतिः
ते᳘नो ह त᳘त ऽईजे॥
देवभागः᳘ श्रौतर्षः स᳘ ऽउभ᳘येषां कु᳘रूणां च सृ᳘ञ्जयानां च पुरो᳘हित ऽआस परम᳘ता वै सा यो᳘ न्वेवै᳘कस्य राष्ट्र᳘स्य पुरो᳘हितो᳘ ऽसत्सा᳘ न्वेव᳘ परम᳘ता कि᳘मु यो द्व᳘योः परम᳘तामिव ह वै᳘ गच्छति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥
मूलम् - श्रीधरादि
ते᳘नो ह त᳘त ऽईजे॥
देवभागः᳘ श्रौतर्षः स᳘ ऽउभ᳘येषां कु᳘रूणां च सृ᳘ञ्जयानां च पुरो᳘हित ऽआस परम᳘ता वै सा यो᳘ न्वेवै᳘कस्य राष्ट्र᳘स्य पुरो᳘हितो᳘ ऽसत्सा᳘ न्वेव᳘ परम᳘ता कि᳘मु यो द्व᳘योः परम᳘तामिव ह वै᳘ गच्छति य᳘ एवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत॥
मूलम् - Weber
ते᳘नो ह त᳘त ईजे॥
द᳘क्षः पा᳘र्वतिस्त᳘ इमे᳘ ऽप्येत᳘र्हि दाक्षायणा᳘ राज्यमिवैव प्रा᳘प्ता राज्य᳘मिह वै प्रा᳘प्नोति य᳘ एवं᳘ विद्वा᳘नेते᳘न य᳘जते त᳘स्माद्वा᳘ एते᳘न यजेत स वा ए᳘कैक एॗवानूचीनाह᳘म् पुरोडा᳘शो भवत्येते᳘नो हास्यासपॗत्नानुपबाधा श्री᳘र्भवति स वै द्वे᳘ पौर्णमाॗस्यौ य᳘जते द्वे᳘ अमावा᳘स्ये द्वे वै᳘ मिथुन᳘म् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - विस्वरम्
तेनो ह तत ईजे देवभागः श्रौतर्षः । स उभयेषां कुरूणां च सृञ्जयानां च पुरोहित आस । परमता वै सा- यो न्वेवैकस्य राष्ट्रस्य पुरुहितो ऽसत्, सा न्वेव परमता- किमु यो द्वयोः । परमतामिव ह वै गच्छति य एवं विद्वानेतेन यज्ञेन यजते । तस्माद्वा एतेन यजेत ॥ ५ ॥
सायणः
इतो ऽपि दाक्षायणयज्ञो ऽनुष्ठेय इत्यभिप्रेत्यान्यां परकृतिमुपन्यस्यति- तेनो हेति । ‘ततः’ सार्ञ्जयानुष्ठानानन्तरं ‘तेन’ दाक्षायणयज्ञेन ‘श्रौतर्षः’ श्रुतर्षेः पुत्रो ‘देवभागः’ नाम महर्षिः ‘ईजे’ इष्टवान् । ‘सः’ च तेन यागेन ‘कुरूणां च सृञ्जयानां च’ राज्ञामुभयविधानामपि ‘पुरोहितः’ बभूव । पौरोहित्यस्य फलरूपतामाह- परमता वा इति । ‘या’ खलु ‘एकस्य’ अपि ‘राष्ट्रस्य’ ‘पुरोहितः’ ‘असत्’ भवति ‘सा’ खलु ‘परमता’ उत्कृष्टता, तस्य सर्वश्रेष्ठ्यं भवतीति यावत्; ‘यः’ तु ‘द्वयोः’ राष्ट्रयोः पुरोहितो भवति, सैव खल्वतिशयिता परमतेति किमु वक्तव्यमित्यर्थः । इदानीन्तनविद्वदनुष्ठानस्यापि तत्फलमाह- परमतामिवेति ॥ ५ ॥
Eggeling
- That same sacrifice was afterwards performed by Devabhāga Śrautarsha. He was Purohita both to the Kurus and the Sr̥ñjayas. Now a very high position (is held by him) who is the Purohita of one kingdom: how much higher, then, is the position (of one) who (is the Purohita) of two (kingdoms). A very high position accordingly he obtains, whosoever, knowing this, performs that sacrifice: let him, therefore, perform that sacrifice.
०६
विश्वास-प्रस्तुतिः
ते᳘नो ह त᳘त ऽईजे॥
द᳘क्षः पा᳘र्व्वतिस्त᳘ ऽइमे᳘ ऽप्येत᳘र्हि दाक्षायणा᳘ राज्य᳘मिवैव प्रा᳘प्ता राज्य᳘मिव ह वै प्रा᳘प्नोति य᳘ ऽएवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत स वा ऽए᳘कैक ऽए᳘वानूचीनाहं᳘ पुरोडा᳘शो भवत्ये᳘तेनो हास्यासप᳘त्नानुपबाधा श्री᳘र्भवति स वै द्वे᳘ पौर्णमा᳘स्यौ य᳘जते द्वे᳘ ऽअमावा᳘स्ये द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - श्रीधरादि
ते᳘नो ह त᳘त ऽईजे॥
द᳘क्षः पा᳘र्व्वतिस्त᳘ ऽइमे᳘ ऽप्येत᳘र्हि दाक्षायणा᳘ राज्य᳘मिवैव प्रा᳘प्ता राज्य᳘मिव ह वै प्रा᳘प्नोति य᳘ ऽएवं᳘ विद्वा᳘नेते᳘न यज्ञे᳘न य᳘जते त᳘स्माद्वा᳘ ऽएते᳘न यजेत स वा ऽए᳘कैक ऽए᳘वानूचीनाहं᳘ पुरोडा᳘शो भवत्ये᳘तेनो हास्यासप᳘त्नानुपबाधा श्री᳘र्भवति स वै द्वे᳘ पौर्णमा᳘स्यौ य᳘जते द्वे᳘ ऽअमावा᳘स्ये द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - Weber
अ᳘थ य᳘त्पूर्वेद्युः᳟॥
अग्नीषोमी᳘येण य᳘जते पौर्णमास्यां ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुन᳘म् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - विस्वरम्
तेनो ह तत ईजे दक्षः पार्वतिः । त इमे ऽप्येतर्हि दाक्षायणा राज्यमिवैव प्राप्ताः । राज्यमिवह वै प्राप्नोति- य एवं विद्वानेतेन यजते । तस्माद्वा एतेन यजेत । स वा एकैक एवानूचीनाहं पुरोडाशो भवति । एतेन हास्यासपत्नानुपबाधा श्रीर्भवति । स वै द्वे पौर्णमास्यौ यजते, द्वे अमावास्ये द्वे वै मिथुनम् । मिथुनमेवैतत्प्रजननं क्रियते ॥ ६ ॥
सायणः
फलान्तरप्रतिपादनायान्यां परकृतिमुपन्यस्यति- तेनो ह तत ईज इति । पर्वतो नाम कश्चित्, तस्य पुत्रः ‘पार्वतिः’ दक्षः, स एतेनेष्ट्वा राज्यं प्राप्नोत् । ततः ‘एतर्हि’ इदानीमपि ‘दाक्षायणाः’ तत्सन्तानभूता राजानः ‘राज्यं प्राप्ता’ एव भवन्ति । राज्यमिव ह वा इति, अनुष्ठातुः फलम् ॥
अत्र हि दाक्षायणयज्ञसम्पद्भूते द्वे पौर्णमास्यौ द्वे अमावास्ये यजेतेति दर्शपूर्णमासयोरावृत्तिं वक्ष्यति (श. प. ११ । १ । २ । १३) । तत्र पौर्णमास्यां द्वौ पुरोडाशौ,- आग्नेयो ऽग्नीषोमीयश्च; अमावास्यायामपि द्वौ- आग्नेय ऐन्द्राग्नश्च । तयोः प्रत्यहमेकैकशो ऽनुष्ठानमाह- स वा इति । ‘अनूचीनाहं’ प्रत्यहम् ‘एकैक’ एव ‘पुरोडाशो भवति’ पूर्वस्मिन् पूर्णमासप्रयोगे एक एव पुरोडाशः कर्त्तव्यः उत्तरस्मिन् दिने ऽप्येकः पुरोडाशः प्रयोक्तव्यः तत्राग्नीषोमीयौ द्वावप्येकस्मिन्नित्यर्थः 10 । एवं दर्शप्रयोगे ऽपि द्रष्टव्यम् । एकैकशो ऽनुष्ठानस्य फलमाह- एतेनो हास्येति । ‘असपत्नानुपबाधा’ सपत्नैः शत्रुभिरबाधिता । प्रकृतयोरेव दर्शपूर्णमासयोर्यो ऽयमावृत्तिलक्षणो गुणः फलायाभिधीयत इत्यवादिष्म, तमिदानीं विधत्ते- स वा इति । द्वित्वसङ्ख्यां प्रशंसति- द्वे वै मिथुनमिति ॥ ६ ॥
Eggeling
- That same sacrifice was afterwards performed by Daksha Pārvati; and even to this day these (descendants of his) the Dākshāyaṇas are possessed of the royal dignity: royal dignity he, therefore, here obtains, whosoever, knowing this, performs that sacrifice: let him, therefore, perform that sacrifice.–Day by day there is one cake 11: thereby Fortune (śrī) is (wedded) to him without a rival wife and undisturbed. He offers on two days of the full moon and on two of the new moon: for two means a pair, so that a productive pair is thereby obtained.
०७
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्यां ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्यां ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - Weber
अ᳘थ प्रातः᳟॥
आग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यैन्द्र᳘ᳫं᳘ सांनाय्यं ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुन᳘म् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - विस्वरम्
अथ यत्पूर्वेद्युः अग्नीषोमीयेण यजते- पौर्णमास्यां ते द्वे देवते । द्वे वै मिथुनम् । मिथुनमेवैतत्प्रजननं क्रियते ॥ ७ ॥
सायणः
तत्र पूर्वस्यां पौर्णमास्यामनुष्ठेयं यागं विधाय प्रशंसति- अथ यत् पूर्वेद्युरिति । ते द्वे देवते इति । अग्नीषोमयोर्व्यासक्तयोरेव देवतात्वात् अधिष्ठानद्वित्वापेक्षया देवतयोर्द्वित्वं मन्तव्यम् ॥ ७ ॥
Eggeling
- Now when 12, at full moon, he offers a (cake) to Agni and Soma on the first day,–these are two deities, and two means a pair: hence a productive pair is thereby obtained.
०८
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यैन्द्र᳘ᳫँ᳘ सांनाय्यं ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यैन्द्र᳘ᳫँ᳘ सांनाय्यं ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - Weber
अ᳘थ य᳘त्पूर्वेद्युः᳟॥
ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुन᳘म् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - विस्वरम्
अथ प्रातराग्नेयः पुरोडाशो भवति, ऐन्द्रं सान्नाय्यम्- ते द्वे देवते । द्वे वै मिथुनम् । मिथुनमेवैतत्प्रजननं क्रियते ॥ ८ ॥
सायणः
परस्मिन्नहनि यागद्वयं विधत्ते- अथ प्रातरिति । पूर्वेद्युरग्नीषोमीयेणेष्ट्वा परेद्युः प्रातःकाले आयेयपुरोडाशकयागः प्रथमं कर्त्तव्यः, तत इन्द्रदेवताकं सान्नाय्यं दधि प्रयोक्तव्यम् । एतद्- यागद्वयं सम्भूय प्रशंसति- ते द्वे इति ॥ ८ ॥
Eggeling
- And on the morrow there are Agni’s cake and Indra’s Sānnāyya 13,–these are two deities, and two means a pair, so that a productive pair is thereby obtained.
०९
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(रै) ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वेत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(रै) ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां ते द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वेत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - Weber
अ᳘थ प्रातः᳟॥
आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पय᳘स्या ने᳘द्यज्ञाद᳘यानी᳘तिॗ न्वेॗवाग्नेयः᳘ पुरोडाशो ऽथैता᳘वेव᳘ मित्राव᳘रुणौ द्वे᳘ देव᳘ते द्वे वै᳘ मिथुन᳘म् मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियत एत᳘दु हास्य त᳘द्रूपं ये᳘न बहुर्भ᳘वति ये᳘न प्रजा᳘यते॥
मूलम् - विस्वरम्
अथ यत्पूर्वेद्युरैन्द्राग्नेन यजते- अमावास्यायां ते द्वे देवते । द्वे वै मिथुनम् । मिथुनमेवैतत्प्रजननं क्रियते ॥ ९ ॥
सायणः
अमावास्याप्रयोगे ऽपि पूर्वेद्युः कर्त्तव्यमाह- अथ यत् पूर्वेद्युरिति । प्रशंसति- ते इति । अग्नीषोमीयवदत्रापि देवताद्वित्वमवसेयम् ॥ ९ ॥
Eggeling
- Again when, at new moon, he offers a (cake) to Indra and Agni on the first day,–these are two deities, and two means a pair, so that a productive pair is thereby obtained.
१०
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पय᳘स्या ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वे᳘वाग्नेयः᳘ पुरोडाशो᳘ ऽथैता᳘वेव᳘ मित्राव᳘रुणौ द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियत ऽएत᳘दु हास्य त᳘द्रूपं ये᳘न बहुर्भ᳘वति ये᳘न प्रजा᳘यते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पय᳘स्या ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वे᳘वाग्नेयः᳘ पुरोडाशो᳘ ऽथैता᳘वेव᳘ मित्राव᳘रुणौ द्वे᳘ देव᳘ते द्वे वै᳘ मिथुनं᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियत ऽएत᳘दु हास्य त᳘द्रूपं ये᳘न बहुर्भ᳘वति ये᳘न प्रजा᳘यते॥
मूलम् - Weber
अ᳘थ य᳘त्पूर्वेद्युः᳟॥
अग्नीषोमी᳘येण य᳘जते पौर्णमास्यां य᳘मेॗवामु᳘मुपवसॗथे ऽग्नीषोमी᳘यम् पशु᳘माल᳘भते स᳘ एॗवास्य सः॥
मूलम् - विस्वरम्
अथ प्रातराग्नेयः पुरोडाशो भवति । मैत्रावरुणी पयस्या । नेद्यज्ञादयानीति । न्वेवाग्नेयः पुरोडाशः । अथैतावेव मित्रावरुणौ- द्वे देवते । द्वे वै मिथुनम् । मिथुनमेवैतत्प्रजननं क्रियते । एतदु हास्य तदूपम्- येन बहुर्भवति, येन प्रजायते ॥ १० ॥
सायणः
परेद्युरनुष्ठेयं यागद्वयं विधाय प्रशंसति- अथ प्रातरिति । ‘मैत्रावरुणी’ मित्रावरुणदेवताका, पयसो विकृतिः ‘पयस्या’ 14 तप्तं हि पयो दध्ना संस्कृतं सत् पयस्या भवति 15 । नेद्यज्ञादित्यादि । ‘यज्ञाद्’ प्रकृताद् यागात् ‘नेत्’ नैव ‘अयानि’ वियुक्तो गच्छानि ‘इति’ अनेनैवाभिप्रायेण आग्नेयः ‘पुरोडाशः’ क्रियते; न तु पूर्णमासप्रयोगवत् देवतयोर्द्वित्वसम्पादनाय । यतः पयस्याभाजौ ‘मित्रावरुणौ’ स्वत एव ‘द्वे देवते’ अत इत्यर्थः । गतमन्यत् । एतदु हास्येति । चेन रूपेणानुष्ठाता प्रजया पशुभिश्च ‘बहुः’ बहुविधो भवति । ‘एतत्’ एव मिथुनात्मक द्वित्वम् ‘अस्य’ यज्ञस्य ‘तद्रूपम्’ इत्यर्थः ॥ १० ॥
Eggeling
- Then on the morrow there are Agni’s cake and Mitra and Varuṇa’s curds. Now Agni’s cake (is offered), for the sole purpose that it may not forsake the sacrifice 16. Then those two, Mitra and Varuṇa, are two deities, and two means a pair: hence a productive pair is thereby obtained; and thus is (produced) that form (of the sacrifice) whereby he becomes many, whereby he is reproduced.
११
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्यां यमे᳘वामु᳘मुपवस᳘थे ऽग्नीषोमी᳘यं पशु᳘माल᳘भते स᳘ ए᳘वास्य सः॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्यां यमे᳘वामु᳘मुपवस᳘थे ऽग्नीषोमी᳘यं पशु᳘माल᳘भते स᳘ ए᳘वास्य सः॥
मूलम् - Weber
अ᳘थ प्रातः᳟॥
आग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यैन्द्र᳘ᳫं᳘ सांनाय्य᳘म् प्रातःसवन᳘मेॗवास्याग्नेयः᳘ पुरोडा᳘शो आग्नेयᳫं हि᳘ प्रातःसवनम᳘थैन्द्र᳘ᳫं᳘ सांनाय्यम् मा᳘ध्यन्दिनमेॗवास्य तत्स᳘वनमैन्द्रᳫं हि मा᳘ध्यन्दिनᳫं स᳘वनम्॥
मूलम् - विस्वरम्
अथ यत्पूर्वेद्युरग्नीषोमीयेण यजते पौर्णमास्याम्- यमेवामुमुपवसथे ऽनीषोमीयं पशुमालभते- स एवास्य सः ॥ ११ ॥
सायणः
अस्य दाक्षायणयज्ञस्य सोमयागरूपतां प्रतिपादयति- अथ यदित्यादिना । अमुमुपवसथ इति । सुत्यादिवसात् पूर्वमहरुपवसथः । प्रकरणान्तरे विहितत्वेन विप्रकर्षादमुमिति विप्रकृष्टवाचिना अदश्शब्देनाग्नीषोमीयस्य पशोः परामर्शः । स एवास्येति । ‘अस्य’ यज्ञस्य पूर्वेद्युरनुष्ठेयो यो ऽग्नीषोमीयः पुरोडाशः, ‘स एव सः’ अग्नीषोमीयः पशुरित्यर्थः ॥ ११ ॥
Eggeling
- And when, at full moon, he offers the Agni-Soma (cake) on the first day, then this is for him that victim which they slaughter for Agni and Soma on the fast-day (of the Soma-sacrifice) 17.
१२
विश्वास-प्रस्तुतिः
(सो᳘ ऽथ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यैन्द्र᳘ᳫँ᳘ सांनाय्यं᳘ प्रातःसवन᳘मे᳘वास्याग्नेयः᳘ पुरोडा᳘श आग्नेयᳫं᳭ हि᳘ प्रातःसवनम᳘थैन्द्र᳘ᳫं᳘ सांनाय्यं मा᳘ध्यन्दिनमे᳘वास्य तत्स᳘वनमैन्द्रᳫँ᳭ हि मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
मूलम् - श्रीधरादि
(सो᳘ ऽथ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यैन्द्र᳘ᳫँ᳘ सांनाय्यं᳘ प्रातःसवन᳘मे᳘वास्याग्नेयः᳘ पुरोडा᳘श आग्नेयᳫं᳭ हि᳘ प्रातःसवनम᳘थैन्द्र᳘ᳫं᳘ सांनाय्यं मा᳘ध्यन्दिनमे᳘वास्य तत्स᳘वनमैन्द्रᳫँ᳭ हि मा᳘ध्यन्दिनᳫँ᳭ स᳘वनम्॥
मूलम् - Weber
अ᳘थ य᳘त्पूर्वेद्युः᳟॥
ऐन्द्राग्नेन यजते ऽमावा᳘स्यायां तृतीयसवन᳘मेॗवास्य त᳘द्वैश्वदेवं वै᳘ तृतीयसवन᳘मिन्द्राग्नी वै वि᳘श्वे देवाः॥
मूलम् - विस्वरम्
अथ प्रातराग्नेयः पुरोडाशो भवति, ऐन्द्रं सान्नाय्यं- प्रातःसवनमेवास्याग्नेयः पुरोडाशः । आग्नेयं हि प्रातःसवनम्, अथैन्द्रं सान्नाय्यम् । माध्यन्दिनमेवास्य तत्सवनम् । ऐन्द्रं हि माध्यन्दिनं सवनम् ॥ १२ ॥
सायणः
प्रातरनुष्ठेययोराग्नेयैन्द्राग्नयोर्यागयोः प्रातर्माध्यन्दिनसवनरूपतामुपपादयति- अथ प्रातरिति । आग्नेयपुरोडाशस्य प्रातःसवनस्य चैकदेवताधिष्ठितत्वात् तादात्म्यम्, सान्नाय्यमाध्यन्दिनसवनस्य चेन्द्रदेवत्वसाम्यात् तथात्वम् ॥ १२ ॥
Eggeling
- And on the morrow there are Agni’s cake and Indra’s Sānnāyya. Now Agni’s cake is for him what the morning libation is (at the Soma-sacrifice), for the morning libation is indeed sacred to Agni; and the Sānnāyya is for him the mid-day libation, for the mid-day libation is indeed sacred to Indra.
१३
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(रै) ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां तृतीयसवन᳘मे᳘वास्य त᳘द्वैश्वदेवं᳘ वै᳘ तृतीयसवन᳘मिन्द्राग्नी वै व्वि᳘श्वदेवाः॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(रै) ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां तृतीयसवन᳘मे᳘वास्य त᳘द्वैश्वदेवं᳘ वै᳘ तृतीयसवन᳘मिन्द्राग्नी वै व्वि᳘श्वदेवाः॥
मूलम् - Weber
अ᳘थ प्रातः᳟॥
आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पयॗस्या ने᳘द्यज्ञाद᳘यानी᳘तिॗ न्वेवाग्नेयः᳘ पुरोडाशो᳘ ऽथ या᳘मेॗवामू᳘म् मैत्रावरुणीं᳘ वशा᳘मनूब᳘न्ध्यामाल᳘भतेॗ सैॗवास्य मैत्रावरुणी᳘ पयॗस्या स᳘ पौर्णमासे᳘न चामावास्ये᳘न चेष्ट्वा या᳘वत्सौम्ये᳘नाध्वरे᳘णेष्ट्वा ज᳘यति ता᳘वज्जयति त᳘दु ख᳘लु महायज्ञो᳘ भवति॥
मूलम् - विस्वरम्
अथ यत्पूर्वेद्युरैन्द्राग्नेन यजते ऽमावास्यायाम्- तृतीयसवनमेवास्य तत् । वैश्वदेवं वै तृतीयसवनम् । इन्द्राग्नी वै विश्वेदेवाः ॥ १३ ॥
सायणः
दर्शे पूर्वेद्युरनुष्ठेयस्यैन्द्राग्नपुरोडाशस्य तृतीयसवनरूपतामाह- अथ यदिति । इन्द्राग्नी वै विश्वेदेवाः इति । इन्द्राग्न्योर्विश्वेषु देवेष्वन्तर्भावात् ऐन्द्राग्नपुरोडाशतृतीयसवनयोरनेकदेवत्यत्वसाम्याच्च तादात्म्यम् ॥ १३ ॥
Eggeling
- And again when, at new moon, he offers the Indra-Agni (cake) on the first day, that is for him the same as the third (or evening) libation; for the third libation is sacred to the All-gods, and Indra and Agni truly are all the gods 18.
१४
विश्वास-प्रस्तुतिः
(ऽ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पय᳘स्या ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वे᳘वाग्नेयः᳘ पुरोडाशो᳘ ऽथ या᳘मे᳘वामूं᳘ मैत्रावरुणीं᳘ व्वशा᳘मनूब᳘न्ध्यामाल᳘भते᳘ सै᳘वास्य मैत्रावरुणी᳘ पय᳘स्या स᳘ पौर्णमासे᳘न चामावास्ये᳘न चेष्ट्वा या᳘वत्सौम्ये᳘नाध्वरे᳘णेष्ट्वा ज᳘यति ता᳘वज्जयति त᳘दु ख᳘लु महायज्ञो᳘ भवति॥
मूलम् - श्रीधरादि
(ऽ) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पय᳘स्या ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वे᳘वाग्नेयः᳘ पुरोडाशो᳘ ऽथ या᳘मे᳘वामूं᳘ मैत्रावरुणीं᳘ व्वशा᳘मनूब᳘न्ध्यामाल᳘भते᳘ सै᳘वास्य मैत्रावरुणी᳘ पय᳘स्या स᳘ पौर्णमासे᳘न चामावास्ये᳘न चेष्ट्वा या᳘वत्सौम्ये᳘नाध्वरे᳘णेष्ट्वा ज᳘यति ता᳘वज्जयति त᳘दु ख᳘लु महायज्ञो᳘ भवति॥
मूलम् - Weber
अ᳘थ य᳘त्पूर्वेद्युः᳟॥
अग्नीषोमी᳘येण य᳘जते पौर्णमास्या᳘मेते᳘न वा इ᳘न्द्रो वृत्र᳘महन्नेते᳘नो एव व्य᳘जयतॗ यास्येयं वि᳘जितिस्तां त᳘थो एॗवैष᳘ एते᳘न पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हन्ति त᳘थो एव वि᳘जयते᳘ ऽथ य᳘त्संन᳘यत्यामावास्यं वै᳘ सांनाय्यं᳘ दूरे तद्य᳘दमावास्ये᳘ति क्षिर्र एॗवैतद्वृत्रं᳘ जघ्नु᳘षे त᳘मेते᳘न र᳘सेनाप्रीणन् क्षिप्रे᳘ ह वै᳘ पाप्मा᳘नम᳘पहते य᳘ एवं᳘ विद्वा᳘न्पौर्णमास्या᳘ᳫं᳘ संन᳘यत्येष वै सो᳘मो रा᳘जा द्॥
मूलम् - विस्वरम्
अथ प्रातराग्नेयः पुरोडाशो भवति, मैत्रावरुणी पयस्या । नेद्यज्ञादयानीति न्वेवाग्नेयः पुरोडाशः । अथ यामेवामूं मैत्रावरुणीं वशामनूबन्ध्यामालभते- सैवास्य मैत्रावरुणी पयस्या । स पौर्णमासेन चामावास्येन चेष्ट्वा- यावत् सौम्येनाध्वरेणेष्ट्वा जयति- तावज्जयति । तदु खलु महायज्ञो भवति ॥ १४ ॥
सायणः
दर्शे परेद्युः प्रातरनुष्ठेयस्य पयस्यायागस्यानूबन्ध्यारूपतामाह- अथ प्रातरिति । नेद्यज्ञादिति । आग्नेयपुरोडाशयागस्यानुष्ठानविहिताद्यज्ञान्नैव गच्छति; प्रभ्रंशो मा भूदित्यनेनैवाभिप्रायेण; न तु तेन किञ्चिदपि सोमयागसाम्यं सम्पाद्यते । अमूं मैत्रावरुणीमिति । सोमप्रकरणे विहितत्वेन विप्रकृष्टाया अनूबन्ध्याया अदश्शब्देन परामर्शः । सैवास्येति । ‘अस्य’ दाक्षायणयज्ञस्य या ‘मैत्रावरुणी पयस्या’ सोमे ऽनुष्ठीयमाना अनूबन्ध्या एव सेत्यर्थः । इत्थं दाक्षायणयज्ञस्य सोमयागसाम्यं सम्पाद्य, तत एव हेतोः फलसाम्यमाह- स पौर्णमासेन चेति । ‘सौम्येन’ सोमद्रव्यसाध्येन यागेनेत्यर्थः । तदु खल्विति । ‘तत्’ तस्मादेव ‘खलु’ कारणात् दाक्षायणयागो ‘महायज्ञः’ सोमयागो ‘भवति’; स हि महायज्ञ इत्याख्यायते । अत एव तैत्तिरीयके सोमयागप्रकरणे समाम्नायते- “ते देवा एतं महायज्ञमपश्यन्” इति (तै. सं. ३ । २ । २ । २) ॥ १४ ॥
Eggeling
- And on the morrow there are Agni’s cake and Mitra and Varuṇa’s curds. Now Agni’s cake is (offered) for the sole purpose that it should not
forsake the sacrifice and that dish of curds (payasyā) is to him the same as that barren cow, the anūbandhyā, which has to be slaughtered for Mitra and Varuṇa (at the Soma-sacrifice) 19: thus. by performing the full and new-moon offering one gains as much as is gained by performing a Soma-sacrifice; and that (offering) is indeed a great sacrifice.
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्या᳘मेते᳘न वा ऽइ᳘न्द्रो वृत्र᳘महन्नेते᳘नो ऽएव᳘ व्यजयत᳘ या ऽस्येयं वि᳘जितिस्तां त᳘थो ऽए᳘वैष एते᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो ऽएव वि᳘जयते᳘ ऽथ य᳘त्संन᳘यत्यामावास्यं वै᳘ सांनाय्यं᳘ दूरे तद्य᳘दमावास्ये᳘ति क्षिप्र᳘ ऽए᳘वैत᳘द्वृत्रं जघ्नुषे त᳘मेतेन र᳘सेनाप्रीणन्क्षिप्रे᳘ ह वै᳘ पाप्मा᳘नम᳘पहते य᳘ एवं᳘ विद्वा᳘न्पौर्णमास्या᳘ᳫं᳘ संन᳘यत्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘मास्त᳘मेत᳘त्पूर्व्वेद्यु᳘रभि᳘षुण्वन्ति प्रात᳘र्भक्षयिष्य᳘न्तस्त᳘मेत᳘द्भक्षय᳘न्ति यदपक्षीयते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्या᳘मेते᳘न वा ऽइ᳘न्द्रो वृत्र᳘महन्नेते᳘नो ऽएव᳘ व्यजयत᳘ या ऽस्येयं वि᳘जितिस्तां त᳘थो ऽए᳘वैष एते᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭ हन्ति त᳘थो ऽएव वि᳘जयते᳘ ऽथ य᳘त्संन᳘यत्यामावास्यं वै᳘ सांनाय्यं᳘ दूरे तद्य᳘दमावास्ये᳘ति क्षिप्र᳘ ऽए᳘वैत᳘द्वृत्रं जघ्नुषे त᳘मेतेन र᳘सेनाप्रीणन्क्षिप्रे᳘ ह वै᳘ पाप्मा᳘नम᳘पहते य᳘ एवं᳘ विद्वा᳘न्पौर्णमास्या᳘ᳫं᳘ संन᳘यत्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘मास्त᳘मेत᳘त्पूर्व्वेद्यु᳘रभि᳘षुण्वन्ति प्रात᳘र्भक्षयिष्य᳘न्तस्त᳘मेत᳘द्भक्षय᳘न्ति यदपक्षीयते॥
मूलम् - Weber
एवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘मास्त᳘मेत᳘त्पूर्वेद्यु᳘रभि᳘षुण्वन्ति प्रात᳘र्भक्षयिष्य᳘न्तस्त᳘मेत᳘द्भक्षयन्ति य᳘दपक्षीयते॥
मूलम् - विस्वरम्
अथ यत्पूर्वेद्युरग्नीषोमीयेण यजते पौर्णमास्याम्- एतेन वा इन्द्रो वृत्रमहन्, एतेनो एव व्यजयतया ऽस्येयं विजितिः- ताम् । तथो एवैष एतेन पाप्मानं द्विषन्तं भ्रातृव्यं हन्ति, तथो एव विजयते । अथ यत्सन्नयति । आमावास्यं वै सान्नाय्यम् । दूरे तद्- यदमावास्येति, क्षिप्र एवैतद्वृत्रं जघ्नुषे, तमेतेन रसेनाप्रीणन् । क्षिप्रे ह वै पाप्मानमपहते- य एवं विद्वान्पौर्णमास्यां सन्नयति, एष वै सोमो राजा देवानामन्नम्- यच्चन्द्रमाः । तमेतत्पूर्वेद्युरभिषुण्वन्ति- प्रातर्भक्षयिष्यन्तः । तमेतद्भक्षयन्ति- यदपक्षीयते ॥ १५ ॥
सायणः
अथैतं दाक्षायणं यज्ञं प्रकारान्तरेण प्रशंसन् पौर्णमासप्रयोगे पूर्वेद्युरनुष्ठेयमग्नीषोमीययागमनूद्य स्तौति- अथ यत् पूर्वेद्युरिति । एतेन वा इत्यादि । ‘एतेन’ खलु अग्नीषोमीययागेन पुरा ‘इन्द्रो वृ॒त्रम् अहन्’ प्राणापानरूपयोरग्नीषोमयोर्हविषा तृप्तयोर्निष्क्रमणाद्धि वृत्रो मृतः । तथा चाम्नायते- “तस्माज्जञ्जभ्यमानादग्नीषोमौ निरक्रामताम्, प्राणापानौ वा एनं तदजहिताम्" इति (तै. सं. २ । ५ । २ । ४) । ‘अस्य’ इन्द्रस्य ‘इयं या विजितिः’ प्रसिद्धा, ‘तां’ ‘व्यजयत’ इति सम्बन्धः । “विपराभ्यां जेः”- (पा. सू. १ । ३ । १९) इत्यात्मनेपदम् । तथो एवेति । इन्द्रो यथा, ‘तथा’ एव ‘एषः’ यजमानो ऽपि ‘एतेन’ अग्नीषोमीययागेन ‘पाप्मानं’ पापभूतं ‘द्विषन्तं’ द्वेष्टारं भ्रातृव्यं शत्रुं ‘हन्ति’ हिनस्ति ।
ऐन्द्रं सांनाय्यमिति पौर्णमास्यां यः सान्नाय्ययागो विहितः, तमनूद्य स्तौति- अथ यदित्यादिना । आमावास्यं वा इति । इन्द्रवीर्यस्य सन्नयनसाधनं दधिपयोरूपं हविः ‘आमावास्यं वै’ अमावास्यासम्बद्धमेव । ‘अमावास्या’ तिथिः ‘इति’ ‘यत्’ ‘तद्’ ‘दूरे’; प्रतिपदादिभिश्चतुर्दशीभिर्व्यवधानात् । पुरा खलु देवाः ‘क्षिप्रे एव’ अल्पकाले एव शीघ्रम् ‘एतत्’ इत्थं ‘वृत्रं’ ‘जघ्नुषे’ हन्तवे इन्द्राय । “क्रियाग्रहणं कर्त्तव्यम्”- (पा. सू. १ । ४ । ३२ वा. १) इति कर्मणः सम्प्रदानत्वात् चतुर्थी । ‘तं’ पौर्णमास्यां वृत्रं हतवन्तमिन्द्रम् ‘एतेन’ सान्नाय्यरूपेण ‘रसेन’ ‘अप्रीणन्’ अतर्पयन् । ‘यः’ यजमानः ‘एवं विद्वान्’ पौर्णमास्यामिन्द्रमुद्दिश्य सान्नाय्ययागं करोति स इन्द्रवत् क्षिप्रमेव स्वकीयं पापरूपं शत्रुम् ‘अपहते’ हिनस्ति । तदेव सन्नयनं प्रकारान्तरेण स्तौति- एष वा इति । यो ऽयं पौर्णमास्यां सम्पूर्णः ‘चन्द्रमाः’, ‘एषः’ खलु ‘राजा’ राजमानः ‘सोमः’ ‘देवानामन्नम्’; ‘तं’ सोमरूपम् ‘एतत्’ अन्नम् ‘प्रातः भक्षयिष्यन्तः’ पूर्वदिवसे ‘अभिषुण्वन्ति’ रसभावं प्रापयन्ति । ‘तम् एतत्’ अपरपक्षे ‘भक्षयन्ति’ । ‘यत्’ यस्माद् असौ प्रत्यहं तत्र ‘अपक्षीयते’ अतो भक्षयन्तीति सम्बन्धः ॥ १५ ॥
Eggeling
- And again when, at full moon, he offers the Agni-Soma (cake) on the first day,–it was by that (offering) that Indra slew Vr̥tra 20; it was thereby he gained that supreme authority which he now wields 21: and so does he (the sacrificer) thereby slay his wicked spiteful enemy and gain the superiority. And as to his mixing (sweet and sour milk),–the Sānnāyya is (the oblation) of the new moon (amā-vāsyā) 22, and the new moon 23 means being far away: to him who had slain Vr̥tra this was forthwith (offered), and him they regaled with that draught. He therefore who, knowing this, prepares the Sānnāyya at full moon, forthwith
drives away evil. Now that moon doubtless is king Soma, the food of the gods: they extract it on the first day, intending to consume it on the next day; consequently when that (moon) wanes, it is being consumed by them.
१६
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्या᳘मभि᳘षुणोत्ये᳘वैनमेतत्त᳘स्मिन्नभि᳘षुत ऽएतᳫँ᳭ र᳘सं दधात्येते᳘न र᳘सेन तीव्री᳘करोति स्वद᳘यति ह वै᳘ देवे᳘भ्यो हव्यᳫं᳭ स्व᳘दते हास्य देवे᳘भ्यो हव्यं य᳘ ऽएवं᳘ विद्वा᳘न् पौर्णमास्या᳘ᳫँ᳭ संन᳘यति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(र) अग्नीषोमी᳘येण य᳘जते पौर्णमास्या᳘मभि᳘षुणोत्ये᳘वैनमेतत्त᳘स्मिन्नभि᳘षुत ऽएतᳫँ᳭ र᳘सं दधात्येते᳘न र᳘सेन तीव्री᳘करोति स्वद᳘यति ह वै᳘ देवे᳘भ्यो हव्यᳫं᳭ स्व᳘दते हास्य देवे᳘भ्यो हव्यं य᳘ ऽएवं᳘ विद्वा᳘न् पौर्णमास्या᳘ᳫँ᳭ संन᳘यति॥
मूलम् - Weber
अ᳘थ य᳘त्पूर्वेद्युः᳟॥
अग्नीषोमी᳘येण य᳘जते पौर्णमास्या᳘मभि᳘षुणोत्येॗवैनमेतत्त᳘स्मिन्नभि᳘षुत एतं र᳘सं दधात्येते᳘न र᳘सेन तीव्री᳘करोति स्वद᳘यति ह वै᳘ देवे᳘भ्यो हव्यᳫं स्व᳘दते हास्य देवे᳘भ्यो हव्यं य᳘ एवं᳘ विद्वा᳘न्पौर्णमास्या᳘ᳫं᳘ संन᳘यति॥
मूलम् - विस्वरम्
अथ यत्पूर्वेद्युरग्नीषोमीयेण यजते पौर्णमास्याम्- अभिषुणोत्येवैनमेतत् । तस्मिन्नभिषुत एतं रसं दधाति । एतेन रसेन तीव्रीकरोति । स्वदयति ह वै देवेभ्यो हव्यम् । स्वदते हास्य देवेभ्यो हव्यं- य एवं विद्वान्पौर्णमास्यां सन्नयति ॥ १६ ॥
सायणः
तथाविधमेवैतदनुष्ठानमित्याह- अथ यत् पूर्वेद्युरग्नीषोमीयेणेति । अभिषुणोत्येवैनमिति । पूर्वेद्युः कर्त्तव्याभिषवस्थानीयो ऽयमग्नीषोमीययाग इत्यर्थः । ‘अभिषुते तस्मिन्’ सोमे ‘एतं’ सान्नाय्यरूपं ‘रसं’ परेद्युः ‘दधाति’ स्थापयति । ‘एतेन’ च सान्नाय्यरसेन तं सोमं ‘तीव्रीकरोति’ तीव्रमतिशयेन मदकरं करोति तथा तेन सांनाय्यरसेन ‘देवेभ्यः’ देवार्थं ‘हव्यं’ हविः ‘स्वदयति’ स्वादूकरोति । ‘अस्य’ यजमानस्य तत् ‘हव्यं’ हविः ‘देवेभ्यः’ ‘स्वदते’ रोचते । “रुच्यर्थानां प्रीयमाणः”- (पा. सू. १ । ४ । ३३) इति सम्प्रदानत्वात् देवेभ्य इति चतुर्थी ॥ १६ ॥
Eggeling
- And when, at full moon, he offers the Agni-Soma (cake) on the first day, he thereby (as it were) extracts that (Soma); and, when extracted, he adds that juice to it, and makes it strong by means of that juice 24. Whosoever, then, knowing this, prepares the Sānnāyya at full moon, renders his offering palatable to the gods, and his offering is palatable to the gods.
१७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(रै) ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां दर्श᳘पूर्णमास᳘योर्वै᳘ देव᳘ते स्त इन्द्राग्नी ऽएव ते᳘ ऽए᳘वैतद᳘ञ्जसा प्रत्य᳘क्षं यजत्य᳘ञ्जसा ह वा᳘ ऽअस्य दर्शपूर्णमासा᳘भ्यामिष्टं᳘ भवति य᳘ एव᳘मेतद्वेद॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्पूर्वेद्युः᳘॥
(रै) ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां दर्श᳘पूर्णमास᳘योर्वै᳘ देव᳘ते स्त इन्द्राग्नी ऽएव ते᳘ ऽए᳘वैतद᳘ञ्जसा प्रत्य᳘क्षं यजत्य᳘ञ्जसा ह वा᳘ ऽअस्य दर्शपूर्णमासा᳘भ्यामिष्टं᳘ भवति य᳘ एव᳘मेतद्वेद॥
मूलम् - Weber
अ᳘थ य᳘त्पूर्वेद्युः᳟॥
ऐन्द्राग्ने᳘न य᳘जते ऽमावा᳘स्यायां दर्शपूर्णमास᳘योर्वै᳘ देव᳘ते स्त इन्द्राग्नी᳘ एव ते᳘ एॗवैतद᳘ञ्जसा प्रत्य᳘क्षं यजत्य᳘ञ्जसा ह वा᳘ अस्य दर्शपूर्णमासा᳘भ्यामिष्ट᳘म् भवति य एव᳘मेतद्वेद॥
मूलम् - विस्वरम्
अथ यत्पूर्वेद्युरैन्द्राग्नेन यजते ऽमावास्यायाम्- दर्शपूर्णमासयोर्वै देवते स्त इन्द्राग्नी एव । ते एवैतदञ्जसा प्रत्यक्षं यजति । अञ्जसा ह वा अस्य दर्शपूर्णमासाभ्यामिष्टं भवति– य एवमेतद्वेद ॥ १७ ॥
सायणः
दर्शयागे पूर्वदिवसमनुष्ठेयमैन्द्राग्नयागमनूद्य स्तौति- अथ यदिति । ‘इन्द्राग्नी एव’ खलु ‘दर्शपूर्णमासयोर्देवते; तत्रत्यप्रथमपुरोडाशस्याग्निदेवत्यत्वात्, सान्नाय्यस्य चैन्द्रत्वात् । ते एवैतदित्यादि निगदसिद्धम् ॥ १७॥
Eggeling
- And again as to why, at new moon, he offers the Indra-Agni (cake) on the first day. Indra and Agni doubtless are the deities of the new and full moon: it is to these, therefore, that he offers directly and expressly; and directly to the new and full moon is offering made by him who thus knows this.
१८
विश्वास-प्रस्तुतिः
(दा᳘) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पय᳘स्या ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वे᳘वाग्नेयः᳘ पुरोडाशो᳘ ऽथैता᳘वे᳘वार्धमासौ᳘ मित्राव᳘रुणौ य᳘ ए᳘वापूर्य᳘ते स व्व᳘रुणो᳘ यो ऽपक्षीय᳘ते स᳘ मित्रस्ता᳘वेताᳫँ᳭ रा᳘त्रिमुभौ᳘ समा᳘गच्छतस्त᳘दुभा᳘वे᳘वैत᳘त्सह स᳘न्तौ प्रीणाति स᳘र्व्वᳫं᳭ ह वा᳘ ऽअस्य प्रीतं᳘ भवति स᳘र्व्वमाप्तं य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
(दा᳘) अ᳘थ प्रातः᳘॥
(रा) आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पय᳘स्या ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वे᳘वाग्नेयः᳘ पुरोडाशो᳘ ऽथैता᳘वे᳘वार्धमासौ᳘ मित्राव᳘रुणौ य᳘ ए᳘वापूर्य᳘ते स व्व᳘रुणो᳘ यो ऽपक्षीय᳘ते स᳘ मित्रस्ता᳘वेताᳫँ᳭ रा᳘त्रिमुभौ᳘ समा᳘गच्छतस्त᳘दुभा᳘वे᳘वैत᳘त्सह स᳘न्तौ प्रीणाति स᳘र्व्वᳫं᳭ ह वा᳘ ऽअस्य प्रीतं᳘ भवति स᳘र्व्वमाप्तं य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - Weber
अ᳘थ प्रातः᳟॥
आग्नेयः᳘ पुरोडा᳘शो भ᳘वति मैत्रावरुणी᳘ पयॗस्या ने᳘द्यज्ञाद᳘यानी᳘तिॗ न्वेॗवाग्नेयः᳘ पुरोडाशो᳘ ऽथैता᳘वेॗवार्धमासौ᳘ मित्राव᳘रुणौ य᳘ एॗवापूर्य᳘ते स व᳘रुणौॗ यो ऽपक्षीय᳘ते स᳘ मित्रस्ता᳘वेतां रा᳘त्रिमुभौ᳘ समा᳘गछतस्त᳘दुभा᳘वेॗवैत᳘त्सह 25 स᳘न्तौ प्रीणाति स᳘र्वᳫं ह वा᳘ अस्य प्रीत᳘म् भवति स᳘र्वमाप्तं य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
अथ प्रातराग्नेयः पुरोडाशो भवति, मैत्रावरुणी पयस्या । नेद्यज्ञादयानीति । न्वेवाग्नेयः पुरोडाशः । अथैतावेवार्धमासौ मित्रावरुणौ । य एवापूर्यते- स वरुणः । यो ऽपक्षीयते- स मित्रः । तावेतां रात्रिमुभौ समागच्छतः तदुभावेवैतत्सह सन्तौ प्रीणाति । सर्वे ह वा अस्य प्रीतं भवति, सर्वमाप्तं-य एवमेतद्वेद ॥ १८ ॥
सायणः
दर्शप्रयोगे परेद्युरनुष्ठेयावपि यागावनूद्य स्तौति- अथ प्रातरिति । अथैतावेवेत्यादि । पयस्याया देवते यौ ‘मित्रावरुणौ’ , ‘एतावेवार्द्धमासौ’ । एतदेव विवृणोति- य एवेति । ‘य एव’ अर्द्धमासः ‘आ’ समन्तात् ‘पूर्यते’ वर्द्धमानया चन्द्रकलया पूर्णो भवति, ‘सः’ अमृतरससम्बन्धाद् ‘वरुणः’, स हि रसाभिमानी देवः; ‘यः’ अर्द्धमासः ‘अपक्षीयते’ क्षीयमाणचन्द्रकलायुक्तो भवति, ‘सः’ अपरपक्षः ‘मित्रः’ ‘तौ’ चन्द्रसूर्यात्मकौ मित्रावरुणौ ‘उभौ’ ‘एतां रात्रिं’ दर्शरात्रिं ‘समागच्छतः’ सह समाप्नुतः । ‘तत्’ तस्मात् कारणात् ‘एतत्’ एतेन मैत्रावरुणयागेन ‘उभावेव’ तौ ‘सह सन्तौ’ सह भवन्तौ युगपत् ‘प्रीणाति’ तर्पयति । सर्वं ह वा अस्येति, वेदितुः फलम् ॥ १८ ॥
Eggeling
- And on the morrow there is Agni’s cake and Mitra and Varuṇa’s curds. Now Agni’s cake is (offered) for the sole purpose that it may not forsake the sacrifice. Mitra and Varuṇa, on the other hand, are the two half-moons: the waxing one is Varuṇa, and the waning one is Mitra. During that night (of new moon) these two meet, and when they are thus together he pleases them with that (cake-offering): and, verily, all is pleased with him, all is obtained by him who thus knows this.
१९
विश्वास-प्रस्तुतिः
तद्वा᳘ ऽएताᳫँ᳭ रा᳘त्रिम्॥
मित्रो व्व᳘रुणे रे᳘तः सिञ्चति त᳘देते᳘न रे᳘तसा प्र᳘जायते य᳘दापूर्य᳘ते तद्य᳘देषा᳘ ऽत्र मैत्रावरुणी᳘ पयस्या᳘ ऽवकॢप्ततमा भ᳘वति॥
मूलम् - श्रीधरादि
तद्वा᳘ ऽएताᳫँ᳭ रा᳘त्रिम्॥
मित्रो व्व᳘रुणे रे᳘तः सिञ्चति त᳘देते᳘न रे᳘तसा प्र᳘जायते य᳘दापूर्य᳘ते तद्य᳘देषा᳘ ऽत्र मैत्रावरुणी᳘ पयस्या᳘ ऽवकॢप्ततमा भ᳘वति॥
मूलम् - Weber
तद्वा᳘ एतां रा᳘त्रिम्॥
मित्रो व᳘रुणे रे᳘तः सिञ्चति त᳘देते᳘न रे᳘तसा प्र᳘जायते य᳘दापूर्य᳘ते तद्य᳘देषा᳘त्र मैत्रावरुणी᳘ पयस्या᳘वकॢप्ततमा भ᳘वति॥
मूलम् - विस्वरम्
तद्वा एतां रात्रिं मित्रो वरुणे रेतः सिञ्चति । तदेतेन रेतसा प्रजायते- यदापूर्यते । तद् यदेषा ऽत्र मैत्रावरुणी पयस्या ऽवक्लृप्ततमा भवति ॥ १९ ॥
सायणः
मित्रावरुणदेवत्यत्वं 26 प्रकारान्तरेण स्तौति- तद्वा एतामिति । ‘एतां रात्रिम्’ । अत्यन्तसंयोगे द्वितीया (पा. सू. २ । ३ । ५) । ‘मित्रः’ अपरपक्षाभिमानी देवः, ‘वरुणे’ शुक्लपक्षाभिमानिनि देवे ‘रेतः सिञ्चति’ । ‘तत्’ तथा सति ‘एतेन रेतसा’ स शुक्लपक्षः ‘प्रजायते’ उत्पद्यते; ‘यत्’ यतः कारणात् अस्मिन् चन्द्रः ‘आपूर्यते’ ‘यत्’ यस्मात् एवम्, ‘तत्’ तस्मात् ‘एषा’ मित्रावरुणदेवताका ‘पयस्या’ ‘अवक्लृप्ततमा’ अतिशयेनावक्लृप्ता, क्लृप्तसामर्थ्या भवति ॥ १९ ॥
Eggeling
- In that same night Mitra implants seed in Varuṇa, and when it (the moon) wanes, then it is
produced from that seed. Now as to why that oblation of curds (payasyā) to Mitra and Varuṇa is here exactly analogous (to the Sānnāyya offered at new moon) 27.
२०
विश्वास-प्रस्तुतिः
सांनाय्य᳘भाजना वा᳘ ऽअमावा᳘स्या॥
त᳘ददस्त᳘त्पौर्णमास्यां᳘ क्रियते स यद्धात्रा᳘पि संन᳘येज्जामि᳘ कुर्यात्सम᳘दं कुर्यात्त᳘देनमद्भ्य ओ᳘षधिभ्यः सम्भृत्या᳘हुतिभ्यो᳘ ऽधिजनयति स᳘ ऽएष आ᳘हुतिभ्यो जातः पश्चा᳘द्ददृशे॥
मूलम् - श्रीधरादि
सांनाय्य᳘भाजना वा᳘ ऽअमावा᳘स्या॥
त᳘ददस्त᳘त्पौर्णमास्यां᳘ क्रियते स यद्धात्रा᳘पि संन᳘येज्जामि᳘ कुर्यात्सम᳘दं कुर्यात्त᳘देनमद्भ्य ओ᳘षधिभ्यः सम्भृत्या᳘हुतिभ्यो᳘ ऽधिजनयति स᳘ ऽएष आ᳘हुतिभ्यो जातः पश्चा᳘द्ददृशे॥
मूलम् - Weber
सांनाय्य᳘भाजना वा᳘ अमावा᳘स्या॥
त᳘ददस्त᳘त्पौर्णमास्यां᳘ क्रियते स यद्धात्रा᳘पि संन᳘येज्जामि कुर्यात्सम᳘दं कुर्यात्त᳘देनमद्भ्य ओ᳘षधिभ्यः सम्भृत्या᳘हुतिभ्यो᳘ ऽधिजनयति स᳘ एष आ᳘हुतिभ्यो जातः᳘ पश्चा᳘द्ददृशे॥
मूलम् - विस्वरम्
सान्नाय्यभाजना वा अमावास्या । तददस्तत्पौर्णमास्यां क्रियते । स यद्धात्रापि संनयेत्- जामि कुर्यात् । समदं कुर्यात् । तदेनमद्भ्य ओषधिभ्यः सम्भृत्याहुतिभ्यो ऽधिजनयति । स एष आहुतिभ्यो जातः पश्चाद्ददृशे ॥ २० ॥
सायणः
इतो ऽपि पयस्यायागो दर्शे युक्ततर इत्याह- सान्नाय्यभाजना वा इति । ‘सान्नाय्यभाजना’ सान्नाय्ययागस्य स्थानभूता ह्यमावास्या; ऐन्द्रं दध्यमावास्यायामिति दधिपयसोर्यागस्य प्रकृतौ तत्र विहितत्वात् । ‘तत्’ तथा सति ते द्वे ऐन्द्रसान्नाय्ये ‘अदः’ विप्रकृष्टं ‘पौर्णमास्याम्’ एव ‘क्रियते’ । यद्यपि ‘सः’ पौर्णमास्यां सान्नाय्यं यजमानः ‘अत्र’ दर्शे ‘अपि’ सन्नयेत् तदा कृतस्यैव पुनः करणात् ‘जामिता’ दोषः स्यात्; अपि च दर्शपूर्णमासदेवतयोः परस्परं ‘समदं’ कलहं ‘कुर्यात्’ पूर्णमासे कृतमैन्द्रं सान्नाय्यं परित्यज्य दर्शे मित्रावरुणदेवताका पयस्यैव कार्या । तस्या अपि दधिपयसोर्विकारत्वात् अमावास्यायाः सान्नाय्यभाजनत्वमपि न व्याहन्यत इत्यर्थः । तदेनमद्भ्य इत्यादि । ‘तत्’ तेन दर्शे ऽनुष्ठितेन सान्नाय्ययागेन अप्सु ओषधिषु च प्रविष्टम् ‘एनम्’ सोमं ततः ‘सम्भृत्य’ दधिपयोरूपेण सम्पाद्य, अग्नौ हुत्वा, तानि ‘आहुतिभ्यः’ सकाशात् ‘अधिजनयति’ । ‘स एषः’ चन्द्रः सान्नाय्याहुतिभ्यः सकाशात् जातः प्रतिपदि ‘पश्चाद् ददृशे’ कलारूपेण दृश्यते ॥ २० ॥
Eggeling
- The new moon doubtless is entitled to the Sānnāyya: it is prepared both then and at full moon. Now were he also here (at the full-moon offering) to mix together (the sweet and sour milk), he would commit a repetition and cause a quarrel (between the respective gods) 28. Having collected that (Soma or moon) from the waters and plants, he causes him to be born from out of the oblations; and on being born from the oblations, he is visible in the western (sky).
२१
विश्वास-प्रस्तुतिः
मिथुनादिद्वा᳘ ऽएनमेतत्प्र᳘जनयति॥
यो᳘षा पय᳘स्या रे᳘तो व्वा᳘जिनं तद्वा᳘ ऽअनुष्ठ्या य᳘न्मिथुनाज्जायते तदेनमेस्मान्मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मादेषा᳘ ऽत्र पय᳘स्या भवति॥
मूलम् - श्रीधरादि
मिथुनादिद्वा᳘ ऽएनमेतत्प्र᳘जनयति॥
यो᳘षा पय᳘स्या रे᳘तो व्वा᳘जिनं तद्वा᳘ ऽअनुष्ठ्या य᳘न्मिथुनाज्जायते तदेनमेस्मान्मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मादेषा᳘ ऽत्र पय᳘स्या भवति॥
मूलम् - Weber
मिथुनादिद्वा᳘ एनमेतत्प्र᳘जनयति॥
यो᳘षा पयॗस्या रे᳘तो वा᳘जिनं तद्वा᳘ अनुष्ठ्या य᳘न्मिथुनाज्जा᳘यते त᳘देनमेत᳘स्मान्मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मादेषा᳘त्र पयॗस्या भवति॥
मूलम् - विस्वरम्
मिथुनादिद्वा एनमेतत्प्रजनयति । योषा पयस्या, रेतो वाजिनम् । तद्वा अनुष्ठ्या- यन्मिथुनात्प्रजननात्प्रजनयति । तस्मादेषा ऽत्र पयस्या भवति ॥ २१ ॥
सायणः
पयस्योत्पत्त्यनुनिष्पादिनो वाजिनस्यापि होमं विधित्सुः पयस्यावाजिने सम्भूय स्तौति- मिथुनादिति । ‘एनं’ चन्द्रं ‘मिथुनात्’ एव हि खलु ‘एतत्’ ‘प्रजनयति’ उत्पादयति । किन्तर्हि मिथुनम् ? पयस्या हि स्त्रीलिङ्गत्वात् ‘योषा’ स्त्री, ‘वाजिनं’ हि ‘रेतः’ पुरुषस्य वीर्यस्थानीयम्, ‘तत्’ खलु ‘अनुष्ठ्या’ अनुष्ठानात् सम्यक् ‘यत्’ यत्र खलु स्त्रीपुंसलक्षणात् ‘मिथुनात्’ ‘जायते’ ॥ २१ ॥
Eggeling
- It is through union that he produces him: the curds (payasyā, fem.) are female, and the whey is seed. Now what is produced by union is (produced) properly: hence he thereby produces him by a productive union; and therefore there is an offering of curds.
२२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ व्वाजिभ्यो व्वा᳘जिनं जुहोति॥
(त्यृ) ऋत᳘वो वै᳘ व्वाजि᳘नो रे᳘तो व्वा᳘जिनं त᳘दृतु᳘ष्वे᳘वैतद्रे᳘तः सिच्यते त᳘दृत᳘वो रे᳘तः सिक्त᳘मिमाः᳘ प्रजाः प्र᳘जनयन्ति त᳘स्माद्वाजि᳘भ्यो व्वा᳘जिनं जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ व्वाजिभ्यो व्वा᳘जिनं जुहोति॥
(त्यृ) ऋत᳘वो वै᳘ व्वाजि᳘नो रे᳘तो व्वा᳘जिनं त᳘दृतु᳘ष्वे᳘वैतद्रे᳘तः सिच्यते त᳘दृत᳘वो रे᳘तः सिक्त᳘मिमाः᳘ प्रजाः प्र᳘जनयन्ति त᳘स्माद्वाजि᳘भ्यो व्वा᳘जिनं जुहोति॥
मूलम् - Weber
अ᳘थ वाजि᳘भ्यो वा᳘जिनं जुहोति॥
ऋत᳘वो वै᳘ वाजि᳘नो रे᳘तो वा᳘जिनं त᳘द्वनुॗष्ठ्येवैतद्रे᳘तः सिच्यते त᳘दृत᳘वो रे᳘तः सिक्त᳘मिमाः᳘ प्रजाः प्र᳘जनयन्ति त᳘स्माद्वाजि᳘भ्यो वा᳘जिनं जुहोति॥
मूलम् - विस्वरम्
अथ वाजिभ्यो वाजिनं जुहोति । ऋतवो वै वाजिनः, रेतो वाजिनम् । तदृतुष्वेवैतद्रेतः सिच्यते । तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति । तस्माद्वाजिभ्यो वाजिनं जुहोति ॥ २२ ॥
सायणः
इत्थं वाजिनस्य मिथुनसम्पत्त्यर्थत्वमुक्त्वा तस्य होमं विधत्ते- अथ वाजिभ्य इति । विहितं वाजिनहोमं प्रजोत्पत्तिहेतुत्वेन स्तौति- ऋतवो वा इति । ‘ऋतवः’ खलु वाजिशब्दाभिधेयाः । तेभ्यः वाजिनहोमात् ऋतुष्वेव सर्वप्रजोत्पत्तिकारणं ‘रेतः’ ‘सिक्तं’ भवति; तस्माच्च रेतसः सकाशात् ते ‘ऋतवः’ सर्वाः ‘प्रजाः’ उत्पादयन्तीत्यर्थः ॥ २२ ॥
Eggeling
- He then offers the whey 29 to the (divine) Coursers. Now the Coursers are the seasons, and the whey is seed: and thus the seed is cast properly, and the seasons bring forth the seed so cast in the form of these creatures. This is why he offers the whey to the Coursers.
२३
विश्वास-प्रस्तुतिः
स वै᳘ पश्चा᳘दिव यज्ञ᳘स्य जुहोति॥
पश्चाद्वै᳘ परी᳘त्य व्वृषा यो᳘षाम᳘धिद्रवति त᳘स्याᳫँ᳭ रे᳘तः सिञ्चति स वै प्रा᳘गेवा᳘ग्रे जुहोत्य᳘ग्ने व्वीही᳘त्यनुव्व᳘षट्करोति त᳘त्स्विष्टकृद्भाजनᳫँ᳭ स वै प्रा᳘गेव᳘ जुहोति॥
मूलम् - श्रीधरादि
स वै᳘ पश्चा᳘दिव यज्ञ᳘स्य जुहोति॥
पश्चाद्वै᳘ परी᳘त्य व्वृषा यो᳘षाम᳘धिद्रवति त᳘स्याᳫँ᳭ रे᳘तः सिञ्चति स वै प्रा᳘गेवा᳘ग्रे जुहोत्य᳘ग्ने व्वीही᳘त्यनुव्व᳘षट्करोति त᳘त्स्विष्टकृद्भाजनᳫँ᳭ स वै प्रा᳘गेव᳘ जुहोति॥
मूलम् - Weber
स वै᳘ पश्चा᳘दिव यज्ञ᳘स्य जुहोति॥
पश्चाद्वै᳘ परीत्य वृ᳘षा यो᳘षाम᳘धिद्रवति त᳘स्यां रे᳘तः सिञ्चति स वै प्रा᳘गेवा᳘ग्रे जुहोत्य᳘ग्ने वीहा᳘त्यनुव᳘षट्करोति त᳘त्स्विष्टकृद्भाजनᳫं स वै प्रा᳘गेव᳘ जुहोति॥
मूलम् - विस्वरम्
स वै पश्चादिव यज्ञस्य जुहोति । पश्चाद्वै परीत्य वृषा योषामधिद्रवति- तस्यां रेतः सिञ्चति । स वै प्रागेवाग्रे जुहोति । “अग्ने वीहि” इति । अनुवषट्करोति । तत् स्विष्टकृद्भाजनम् । स वै प्रागेव जुहोति ॥ २३ ॥
सायणः
तस्य वाजिनहोमस्य कालं विधातुं स्तौति- स वा इति । ‘यज्ञस्य पश्चात्’ भागे प्रस्तरपरिधिप्रहरणोत्तरकालं वाजिनहोमः कर्त्तव्यः । अत एवोक्तं कात्यायनेन- “वाजिनं निषिच्योत्करे करोति, ०-० प्रहृत्य तृणं तेन चरति, विमुच्य वा स्रुचौ”- (का . श्रौ. सू. ४ । १११-११३) इति । आपस्तम्बो ऽप्याह स्म- “परीधीन् प्रहृत्य, संस्रवान्तं कृत्वा, वाजिनपात्रमुपस्तीर्य” इत्यादि । शिष्टं स्पष्टम् । होमे विशेषं विधत्ते- स वा इति । ‘सः’ खलु अध्वर्युः ‘अग्रे’ प्रथमं ‘प्रागेव’ प्रागपवर्गमल्पं वाजिनं ‘जुहोति’ “अग्ने वीहि”- ‘इति’ (ऐ. ब्रा. १ । ४ । ५) यदा होता ‘अनुवषट् करोति’ तदा स्विष्टकृत्स्थानीयं वाजिनशेषमुत्तरपूर्वस्यां दिशि जुहोति । स वै प्रागेवेति, प्रधानहोमस्य निगमनम् ॥ २३ ॥
Eggeling
- He offers, as it were, behind the sacrifice: for it is from behind that the male approaches and impregnates the female. He first offers in the east. With ‘O Agni, accept . . . !’ he repeats the Vashat,–this is in lieu of the Svishṭakr̥t; and (the latter) 30 he offers in the east.
२४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ दि᳘शो व्या᳘घारयति॥
दि᳘शः प्र᳘दिश ऽआदि᳘शो व्विदि᳘श ऽउद्दि᳘शो दिग्भ्यः स्वाहे᳘ति प᳘ञ्च दि᳘शः प᳘ञ्च ऽर्त᳘वस्त᳘दृतु᳘भिरे᳘वैतद्दि᳘शो मिथुनी᳘करोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ दि᳘शो व्या᳘घारयति॥
दि᳘शः प्र᳘दिश ऽआदि᳘शो व्विदि᳘श ऽउद्दि᳘शो दिग्भ्यः स्वाहे᳘ति प᳘ञ्च दि᳘शः प᳘ञ्च ऽर्त᳘वस्त᳘दृतु᳘भिरे᳘वैतद्दि᳘शो मिथुनी᳘करोति॥
मूलम् - Weber
अ᳘थ दि᳘शो व्या᳘घारयति॥
दि᳘शः प्र᳘दिश आदि᳘शो 31 विदि᳘श उद्दि᳘शो दिग्भ्यः स्वाहे᳘ति प᳘ञ्च दि᳘शः प᳘ञ्च ऽर्त᳘वस्त᳘दृतु᳘भिरेॗवैतद्दि᳘शो मिथुनी᳘करोति॥
मूलम् - विस्वरम्
अथ दिशो व्याघारयति । “दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा”- इति । पञ्च दिशः । पञ्चवर्तवः । तदृतुभिरेवैतद्दिशो मिथुनीकरोति ॥ २४ ॥
सायणः
हुतशिष्टेन वाजिनेन दिग्व्याघारणं विधत्ते- अथ दिशो व्याघारयतीति । दीर्घधारया ऽग्नौ प्राच्यादिदिक्षु पातनम्, व्याघारणम् । तन्मन्त्राः- “दिशः प्रदिशः” इत्यादयः । अनेन वाजिनेन ‘दिशः’ तृप्ता भवन्तु । एवमुत्तरत्रापि योज्यम् । प्रधानभूताः ‘दिशः’, दिङ्मध्यवर्तिन्यः ‘प्रदिशः’, ईषद्दिशः ‘आदिशः’, ‘विदिशः’ आग्नेयादिकोणदिशः, ‘उद्दिशः’ ऊर्ध्वा दिशः । एवं पञ्चभिर्मन्त्रैः स्वाहाकारान्तैः प्राच्यादिक्रमेण पञ्चसु दिक्षुव्याघारार्थं “दिग्भ्यः स्वाहा”- इति षष्ठेन पूर्वार्द्धे जुहुयात् । तदुक्तं सूत्रकृता- “वाजिनशेषेण दिशो व्याघारयति, दिश इति प्रतिमन्त्रम्; प्रदक्षिणं पुरस्तात् प्रथममुत्तमाभ्यां मध्ये पूर्वार्द्धे च"- (का. श्रौ. सू. ४ । ११६-११७) तदेतद् व्याघारणं प्रशंसति- पञ्च दिशः, पञ्च ऋतव इति ॥ २४ ॥
Eggeling
- He then sprinkles (the whey) in the several quarters, with the texts (Vāg’. S. VI, 19 b-g), ‘The quarters!–The fore-quarters (pra-diś)!–The by-quarters (ā-diś)!–The intermediate quarters (vi-diś)! The upper quarters (ud-diś)!–To the quarters,–Svāhā 32!’ Five are the quarters, and five the
seasons: he thus effects a union between the quarters and the seasons 33.
२५
विश्वास-प्रस्तुतिः
तद्वै प᳘ञ्चैव᳘ भक्षयन्ति॥
होता चाध्वर्यु᳘श्च ब्रह्मा᳘ चाग्नी᳘च्च य᳘जमानः प᳘ञ्च वा᳘ ऽऋत᳘वस्त᳘दृतूना᳘मे᳘वैत᳘द्रूपं क्रिय᳘ते त᳘दृतु᳘ष्वे᳘वैतद्रे᳘तः सिक्तं प्र᳘तिष्ठापयति प्रथमो य᳘जमानो भक्षयति प्रथमो रे᳘तः प᳘रिगृह्णानीत्य᳘थो ऽअ᳘प्युत्तमो म᳘य्युत्तमे रे᳘तः प्र᳘तितिष्ठादित्यु᳘पहूत उ᳘पह्वयस्वे᳘ति सो᳘ममेवैत᳘त्कुर्व्वन्ति॥
मूलम् - श्रीधरादि
तद्वै प᳘ञ्चैव᳘ भक्षयन्ति॥
होता चाध्वर्यु᳘श्च ब्रह्मा᳘ चाग्नी᳘च्च य᳘जमानः प᳘ञ्च वा᳘ ऽऋत᳘वस्त᳘दृतूना᳘मे᳘वैत᳘द्रूपं क्रिय᳘ते त᳘दृतु᳘ष्वे᳘वैतद्रे᳘तः सिक्तं प्र᳘तिष्ठापयति प्रथमो य᳘जमानो भक्षयति प्रथमो रे᳘तः प᳘रिगृह्णानीत्य᳘थो ऽअ᳘प्युत्तमो म᳘य्युत्तमे रे᳘तः प्र᳘तितिष्ठादित्यु᳘पहूत उ᳘पह्वयस्वे᳘ति सो᳘ममेवैत᳘त्कुर्व्वन्ति॥
मूलम् - Weber
तद्वै प᳘ञ्चैव᳘ भक्षयन्ति॥
हो᳘ता चाध्वर्यु᳘श्च ब्रह्मा᳘ चाग्नी᳘च्च य᳘जमानः प᳘ञ्च वा᳘ ऋत᳘वस्त᳘दृतूना᳘मेॗवैत᳘द्रूपं᳘ क्रिय᳘ते त᳘दृतु᳘ष्वेॗवैतद्रे᳘तः सिक्तम् प्र᳘तिष्ठापयति प्रथमो य᳘जमानो भक्षयति प्रथमो रे᳘तः प᳘रिगृह्णानीत्य᳘थो अ᳘प्युत्तमो म᳘य्युत्तमे रे᳘तः प्र᳘तितिष्ठादित्यु᳘पहूत उ᳘पह्वयस्वे᳘ति सो᳘ममेॗवैत᳘त्कुर्वन्ति॥
मूलम् - विस्वरम्
तद्वै पञ्चैव भक्षयन्ति- होता च, अध्वर्युश्व, ब्रह्मा च, अग्नीच्च यजमानः । पञ्च वा ऋतवः । तदृतूनामेवैतद्रूपं क्रियते । तदृतुष्वेवैतद्रेतः सिक्तं प्रतिष्ठापयति । प्रथमो यजमानो भक्षयति । प्रथमो रेतः परिगृह्णानीति । अथो अप्युत्तमः । मय्युत्तमे रेतः प्रतितिष्ठादिति । उपहूतः । उपह्वयस्व इति । सोममेवैतत्कुर्वन्ति ॥ २५ ॥ इति दाक्षायणेष्टिः ।
सायणः
यजमानपञ्चमानामृत्विजां भक्षणं विधत्ते- तद्वै पञ्चैवेति 34 । तद्भक्षणं प्रशंसति- पञ्च वा ऋतव इति । “हेमन्तशिशिरयोः समासेन”- (ऐ. ब्रा. १ । १ । १) इति ऋतूनां पञ्चत्वम् । यदेव पञ्चानामृत्विजां भक्षणम्, एतत् पञ्चसङ्ख्यानामृतूनामेव रूपं क्रियते । ‘तत्’ तस्मात् ‘ऋतुषु’ प्राक् ‘सिक्तं रेतः’ ‘प्रतिष्ठापयति’ प्रतिष्ठितं करोति ॥
यजमानस्य प्राथम्यं विधत्ते- प्रथमो यजमान 35 इति । ऋत्विग्भ्यः ‘प्रथमः’ पूर्वभावी सन् अहं ‘रेतः’ ‘परिगृह्णानि’ स्वीकरवाणि ‘इति’ अनेनाभिप्रायेण यजमानस्य प्रथमभक्षणमित्यर्थः ॥
पक्षान्तरमाह- अथो अप्युत्तम इति । पक्षान्तरद्योतकः ‘अथो’- शब्दः । ऋत्विजाम् ‘उत्तमः’ चरमभावी सन् यजमानो भक्षयेत् । एवमपि विरोधो नास्तीति ‘अपि’- शब्दस्यार्थः । ‘उत्तमे’ चरमभाविनि यजमाने कृत्स्नं ‘रेतः’ ‘प्रतितिष्ठात्’ प्रतितिष्ठेत्, न मामतिवर्त्तत, इत्यनेनाभिप्रायेण यजमानस्य चरमभक्षणमित्यर्थः 36 ॥
अथ मन्त्रानुज्ञापनपूर्वकं तद्भक्षणं कर्त्तव्यमिति विधत्ते- उपहूत इति । “उपहूतः”-इत्यनुज्ञामन्त्रः, “उपह्वयस्व”- इत्यनुज्ञापनमन्त्रः । एतच्च द्वादशलक्षण्यां तृतीये निर्णीतम् । कात्यायनेनाप्युक्तम्- “उपहूयस्वेत्यामन्त्र्यामन्त्र्य भक्षणमुपहूत इति प्रसूतः”- इति 37 । एवञ्च सति ‘एतद्’ वाजिनम् ऋत्विजः ‘सोममेव’ सोमसदृशमेव ‘कुर्वन्ति’ उपहवसाधनं हि सोमधर्म्मः 38 ॥ २९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थाध्यायस्य चतुर्थं ब्राह्मणम् ॥ ४ ॥ ४ ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः ॥ आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजाः रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण 39 विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थो ऽध्यायः समाप्तः ॥ २ ॥ ४ ॥
Eggeling
- Five partake of that (whey remaining in the spoon),–viz. the Hotr̥, the Adhvaryu, the Brahman, the Āgnīdhra, and the Sacrificer; for five are the seasons, so that the characteristic nature of the seasons is thereby obtained; and the seed that is cast is firmly implanted in the seasons. The sacrificer partakes of it first, thinking, ‘May I first obtain seed!’ But also last (he partakes of it) 40, thinking, ‘May seed remain in me last of all!’ By saying, ‘Invited,–invite thou 41!’ they make it (the whey to resemble) the Soma.
-
नामफलगुणयोगात् कर्मोतरम् । पूर्वपक्षसूत्रमिदम् । गुणविधानं वा सन्निधिसंपद्वचनाभ्याम् । सिद्धांतसूत्रमिदम् । दर्शपूर्णमासावेव दाक्षायणधर्मकौ । न कर्मांतरं । प्रयोजनम् । दर्शपूर्णमासयोरक्रिया । का. श्रौ. सू. ४ । १०५ । १०६ । ↩︎
-
दाक्षायणयज्ञः प्रजापश्चन्नयशस्कामस्य । का. श्रौ. सू. ४ । १०४ । दाक्षायणयज्ञे कामनावानधिकारी । पर्यायेण च योगसिद्धिः । कामानां युगपदुत्पत्तेरसंभवात् । ↩︎
-
376:1 The Kāṇva text has:–Sa u vā ekena nāmnā vasishṭḥas, ‘and with one of his names he (Prajāpati) is indeed (called) Vasishṭḥa.’ ↩︎
-
स एतं Sây. स᳘ ये तं᳘ A prima मनु. ↩︎
-
विवचनमेव Sây. ↩︎
-
376:2 Vivacanam; vivācanam, Kāṇva recension. ↩︎
-
निर्वचनं Sây. ↩︎
-
‘व्यवहारलोके’ इति क्व. पा. । ↩︎
-
376:3 Viz. the Sautrāmaṇī-sacrifice, according to XII, 8, 2, 3. ↩︎
-
अग्नीषोमीयः पौर्णमास्यामैंद्राग्नो ऽमावास्यायाम् । सान्नाय्यवत्प्रातः । का० श्रौ० सू० ४ । १०७- १०८ । ↩︎
-
377:1 Viz. on the first day of the full moon a cake to Agni-Soma; on that of new moon a cake to Indra-Agni; and on the second day of either ceremony the (ordinary) cake to Agni. ↩︎
-
377:2 Or, ‘Now, as to the reason why’ (yad) here and in the sequel. ↩︎
-
377:3 See I, 6, 4, 9 seq. ↩︎
-
अमावास्यायां पयस्या मैत्रावरुणी । का० श्रौ० सू० ४-१०९ । ↩︎
-
तत्रैव दोहनँ शृते वा दध्यानयति । (का० श्रौ० सू० ४-१११) । दधनि वा दोहनमिति कर्कः । ↩︎
-
378:1 See I, 6, 2, 6, with note. ↩︎
-
378:2 On the upavasatha (fast-day, or day of preparation) preceding the Soma-sacrifice a he-goat is sacrificed to Agni and Soma. ↩︎
-
378:3 Compare II, 4, 3, 5 seq. ↩︎
-
379:1 In connection with the so-called udayanīyā ishṭi, or concluding offering, of the Soma-sacrifice, a barren cow, called anūbandhyā (literally, ’to be bound afterwards’), is offered to Mitra and Varuṇa. In default of such a cow, an ox, or even a dish of curds (payasyā) serves the same purpose. See Katy. Śr. X, 9, I2-15; Śat. Br. IV, 5, 2, 1 seq. ↩︎
-
379:2 See I, 6, 4, 1 2. ↩︎
-
379:3 Thus the frequently-occurring phrase ‘vyajayata yāsyeyam vijitis tām’ (literally, ‘he conquered that conquest which is now theirs’) has been translated throughout. ↩︎
-
379:4 On the derivation of amā-vāsyā (‘dwelling at home, or together’), see I, 6, 4, 3 seq. ↩︎
-
379:5 Or, ’the dwelling at home,’ or ‘(Indra’s) dwelling together (with Agni) means (Indra, the Vr̥tra-slayer) being far away.’ ↩︎
-
380:1 See I, 6, 4, 6 seq. ↩︎
-
वैन᳘छह A. ↩︎
-
‘मित्रावरुणदेवद्वयम्-’ इ. पा. क्व. । ↩︎
-
381:1 Or, to the offering of sour and sweet milk at full moon; see next note. The Kāṇva text has: ‘Now as to why the oblation of curds is here made exactly analogous (at the full and new-moon ceremonies).’ Perhaps it may also refer to the exact correspondence of the offering of curds to Mitra and Varuṇa at new moon and at the Soma-sacrifice. ↩︎
-
381:2 At the new-moon offering of the Dākshāyaṇa, the sānnāyya or payasyā offered to Mitra and Varuṇa is prepared in the ordinary way (as at the new-moon ceremony), by fresh (boiled or un-boiled) milk being added to the sour milk of the preceding night’s milking. At the full-moon offering, on the other hand, the sour and sweet milk remain separate, and constitute two different havis, or sacrificial dishes, dedicated to Indra. The terms san-nī (’to bring together’) and sānnāyya are here likewise applied to the offering of the separate substances. ↩︎
-
382:1 Before the oblations of curds are made, the whey is poured off into a vessel (then optionally sprinkled with butter), and placed on the utkara, or heap of rubbish. After the stalk of grass has been thrown into the fire (see I, 8, 3, 19), or after the dismissal of the spoons (I, 8, 3, 27), the Adhvaryu takes the whey and sprinkles the barhis (the grass covering on the altar) with it. He then pours the remaining whey into the juhū spoon and calls on the Hotr̥ to recite the invitatory prayer to the Coursers. Thereupon he betakes himself with the spoon to the north of the fire, calls on the Hotr̥ for the offering-formula, and at the two concluding Vashaṭs pours some of the whey into the east part of the fire. He then sits down and sprinkles the whey on the fire according to the several quarters, beginning in the east, and moving around from left to right (pradakshiṇam), with the respective texts, Vāj. S. VI, 19 b-e; after which he makes two more libations in the centre and east part of the fire, with VI, 19 f and g. ↩︎
-
382:2 The Kāṇva text has tadu instead of sa vai. On the oblation to Agni as ’the maker of good offering,’ see I, 7, 3, 1 seq. ↩︎
-
आदि᳘त्सो A. ↩︎
-
382:3 Svāhā is uttered after each formula,–‘The quarters, Svāhā!’ &c. ↩︎
-
383:1 R̥tūn evaitad digbhir mithunān karoti, Kāṇva recension. ↩︎
-
होत्रध्वर्युब्रह्माग्नीद्यजमानाः, का. श्रौ. सू. ४ । १२६ । ↩︎
-
प्रथमो वोभयतस्तु यजमानः, का. श्रौ. सू. ४। १२७ । ↩︎
-
ऋतूनां त्वा व्वाजिनां व्वाजिनं भक्षयामि व्वाज्यहं व्वाजिनस्योपहूतो भक्षयामीति वा । व्वाजे व्वाजी भूयासमिति वा. का. श्रौ. सू. ४ । १२३-१२५ । ↩︎
-
का. श्रौ. सू. ४ । ११९ । ↩︎
-
साधारणेषु वा सामर्थ्यात् । का. श्रौ. सू. ४ । १२२ । ↩︎
-
‘सायणामात्येन’- इ० पा० । ↩︎
-
383:2 The author does not express himself quite clearly. The sacrificer is to partake of the whey before the priests and also (or, as an alternative) after them. According to Kāty. IV, 4, 26-27, the sacrificer is to eat either last of all, or first and last. The Kāṇva text has: Prathamo yajamāno bhakshayati prathamo retaḥ parigr̥hṇāmīty athottamo mayy uttamaṁ retaḥ pratitishṭḥād iti,–accordingly he is to eat first and last. ↩︎
-
383:3 Each of them, in his respective order, takes the spoon, calls on the others in the same order with ‘O sacrificer (Hotr̥, Adhvaryu, &c.) invite!’ Their permission having been given by ‘Invited (thou art)!’ he then takes some of the whey, with one of the texts: ‘I eat thee, the courser (or whey, vāginam) of the seasons, the coursers!’ ‘I, the courser (or, mighty one) eat, invited, of the invited, to the whey.’ ‘May I be a racer in the race!’ Kāty. IV, 4, 13-15. ↩︎