०१

विश्वास-प्रस्तुतिः

त᳘दु होवाच कहो᳘डः कौ᳘षीतकिः॥
(र) अन᳘योर्व्वा᳘ ऽअयं द्या᳘वापृथिव्यो र᳘सो ऽस्य र᳘सस्य हुत्वा᳘ देवेभ्यो᳘ ऽथेमम᳘श्नामे᳘ति त᳘स्माद्वा᳘ ऽआग्रयणेष्ट्या᳘ यजत ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘दु होवाच कहो᳘डः कौ᳘षीतकिः॥
(र) अन᳘योर्व्वा᳘ ऽअयं द्या᳘वापृथिव्यो र᳘सो ऽस्य र᳘सस्य हुत्वा᳘ देवेभ्यो᳘ ऽथेमम᳘श्नामे᳘ति त᳘स्माद्वा᳘ ऽआग्रयणेष्ट्या᳘ यजत ऽइ᳘ति॥

मूलम् - Weber

त᳘दु होवाच कहो᳘डः 1 कौ᳘षीतकिः॥
अन᳘योर्वा᳘ अयं द्या᳘वापृथिव्यो र᳘सो ऽस्य र᳘सस्य हुत्वा᳘ देवेभ्यो᳘ ऽथेमम᳘श्नामे᳘ति त᳘स्माद्वा᳘ आग्रयणेष्ट्या᳘ यजत इ᳘ति॥

मूलम् - विस्वरम्

तदु होवाच कहोडः कोषीतकिः । अनयोर्वा अयं द्यावापृथिव्यो रसः । ‘अस्य रसस्य हुत्वा देवेभ्यः, अथेममश्नाम’ इति । तस्माद्वा आग्रयणेष्ट्या यजत इति ॥ १ ॥

सायणः

अथ विधित्सिताया आग्रयणेष्टेर्मतभेदेन प्रयोजनं दर्शयंस्तावद् कहोलस्य मतमुपन्यस्यति- तदु होवाचेति । ‘तत्’ तत्र, वक्ष्यमाणे आग्रयणेष्टिविषये ‘उवाच’ उक्तवान् ‘कौषीतकिः’ कुषीतकस्य पुत्रः । तामुक्तिं दर्शयति- अनयोरिति 2 । यो ऽयं व्रीहियवाद्योषध्यात्मको रसः, सः ‘अयम्’ अनयोः द्यावापृथिव्योः, ‘रसः’ द्युसम्बन्धिन्या वृष्ट्या भूमेरुत्पन्नत्वात् । ‘अस्य रसस्य’ । कर्मणि षष्ठी (पा. सू. २ । ३ । ६६) । इमं रसं देवेभ्यः प्रथमं ‘हुत्वा’ ‘अथ’ अनन्तरं हुतशिष्टम् ‘इमम्’ ‘अश्नाम’ भुञ्जामहे इत्यर्थः । तस्मादिति, आग्रयणेष्टिविधिः । यस्मादेवं कहोलेनोक्तम्, ‘तस्मात्’ नवान्नस्य हुतशिष्टत्वसिद्धये ‘आग्रयणेष्ट्या’ यष्टव्यमित्यर्थः ॥ १ ॥

Eggeling
  1. Now Kahoḍa Kaushītaki spake, ‘This sap (of the plants) truly belongs to those two, heaven and earth: having offered of this sap to the gods, we will eat it.’ ‘That is why the offering of first-fruits is performed.’

०२

विश्वास-प्रस्तुतिः

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) देवा᳘श्च वा ऽअ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽउभ᳘यीरो᳘षधीर्या᳘श्च मनु᳘ष्या उपजी᳘वन्ति या᳘श्च पश᳘वः कृत्य᳘येव त्वद्विषे᳘णेव त्वत्प्र᳘लिलिपुरु᳘तैवं᳘ चिद्देवा᳘नभि᳘भवेमे᳘ति त᳘तो न मनुष्या ऽआशुर्न᳘ पश᳘व ऽआ᳘लिलिशिरे ता᳘ हेमाः᳘ प्रजा ऽअ᳘नाशकेन नोत्प᳘राबभूवुः॥

मूलम् - श्रीधरादि

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
(ल्क्यो) देवा᳘श्च वा ऽअ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा ऽउभ᳘यीरो᳘षधीर्या᳘श्च मनु᳘ष्या उपजी᳘वन्ति या᳘श्च पश᳘वः कृत्य᳘येव त्वद्विषे᳘णेव त्वत्प्र᳘लिलिपुरु᳘तैवं᳘ चिद्देवा᳘नभि᳘भवेमे᳘ति त᳘तो न मनुष्या ऽआशुर्न᳘ पश᳘व ऽआ᳘लिलिशिरे ता᳘ हेमाः᳘ प्रजा ऽअ᳘नाशकेन नोत्प᳘राबभूवुः॥

मूलम् - Weber

त᳘दु होवाच या᳘ज्ञवल्क्यः॥
देवा᳘श्च वा अ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ततो᳘ ऽसुरा उभ᳘यीरो᳘शधीर्या᳘श्च मनुॗष्या उपजी᳘वन्ति या᳘श्च पश᳘वः कृत्य᳘येव त्वद्विषे᳘णेव त्वत्प्र᳘लिलिपुरुॗतैवं᳘ चिद्देवा᳘नभि᳘भवेमे᳘ति त᳘तो न मनुॗष्या आशुर्न᳘ पश᳘व आ᳘लिलिशिरे ता᳘ हेमाः᳘ प्रजा अ᳘नाशकेन नोत्प᳘राबभूवुः॥

मूलम् - विस्वरम्

तदु होवाच याज्ञवल्क्यः । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे । ततो ऽसुरा उभयीरोषधीः याश्च मनुष्या उपजीवन्ति, याश्च पशवः- कृत्ययेव त्वद्, विषेणेव त्वत्, प्रलिलिपुः उतैवं चिद्देवानभिभवेमेति । ततो न मनुष्या आशुः । न पशव आलिलिशिरे । ता हेमाः प्रजा अनाशकेन नोत्पराबभूवः ॥ २ ॥

सायणः

अथ याज्ञवल्क्याभिमतं प्रयोजनं दर्शयितुं प्रस्तौति- तदु होवाचेति । तत्रेतिहासमाचष्टे- देवाश्चेति । ‘प्राजापत्याः’ प्रजापतेः पुत्राः ‘पस्पृधिरे’ स्पर्द्धां कृतवन्तः । “अपस्पृधेथामानृचुः”- (पा. सू. ६ । १ । ३६) इति क्वचित् सम्प्रसारणेन निपातनस्योपलक्षणार्थत्वात् लिट्यपि स्पृधेः सम्प्रसारणम् । उभयीरोषधीरिति । उभयविधा ह्योषधयः- मनुष्यान्नभूता व्रीहियवाद्याः पश्वन्नभूतास्तृणाद्याश्च, ताः सर्वाः ‘कृत्ययेव त्वत्’ त्वच्छब्द एकशब्दपर्यायो ऽविभक्तिकः । ‘त्वत्’ एकत्र ‘कृत्यया’ व्यापादयन् ‘इव’ ‘त्वत्’ अन्यत्र ‘विषेण’ च ‘प्रलिलिपुः’ प्रकर्षेण लिप्ता अकुर्वन् । लेपनाभिप्रायमाह- उतैवमिति । ‘एवम्’ अपि ‘देवान्’ ‘अभिभवेम इति’ तिरस्कुर्यामेति । ‘ततः’ अनन्तरम् असुरकृतं विषलेपं ज्ञात्वा ‘मनुष्याः’ ‘न आशुः’ न बुभुजिरे, ‘पशवश्च’ ‘न’ भक्षयाञ्चक्रुः । केवलम् ‘अनाशकेन’ अनशनेन ‘ता इमाः’ सर्वाः ‘प्रजाः’ ‘पराबभूवुः’ पराभूता अभवन् ॥ २ ॥

Eggeling
  1. And Yājñavalkya also spake:–The gods and the Asuras, both of them sprung from Prajāpati, once contended for superiority. The Asuras then defiled, partly by magic, partly with poison, both kinds of plants–those on which men and beasts subsist–hoping that in this way they might over come the gods. In consequence of this neither did men eat food, nor did beasts graze; and from want of food these creatures well-nigh perished 3.

०३

विश्वास-प्रस्तुतिः

(स्त) तद्वै᳘ देवाः᳘ शुश्रुवुः॥
(र᳘) अ᳘नाशकेन ह वा᳘ ऽइमाः᳘ प्रजाः प᳘राभवन्ती᳘ति ते᳘ होचुर्ह᳘न्तेद᳘मासा᳘मपजि᳘घाᳫँ᳭ सामे᳘ति केने᳘ति यज्ञे᳘नैवे᳘ति यज्ञे᳘न ह स्म वै त᳘द्देवाः᳘ कल्पयन्ते य᳘देषां क᳘ल्प्यमास᳘ ऽर्षयश्च॥

मूलम् - श्रीधरादि

(स्त) तद्वै᳘ देवाः᳘ शुश्रुवुः॥
(र᳘) अ᳘नाशकेन ह वा᳘ ऽइमाः᳘ प्रजाः प᳘राभवन्ती᳘ति ते᳘ होचुर्ह᳘न्तेद᳘मासा᳘मपजि᳘घाᳫँ᳭ सामे᳘ति केने᳘ति यज्ञे᳘नैवे᳘ति यज्ञे᳘न ह स्म वै त᳘द्देवाः᳘ कल्पयन्ते य᳘देषां क᳘ल्प्यमास᳘ ऽर्षयश्च॥

मूलम् - Weber

तद्वै᳘ देवाः᳘ शुश्रुवुः॥
अ᳘नाशकेन ह वा᳘ इमाः᳘ प्रजाः प᳘राभवन्ती᳘ति ते᳘ होचुर्ह᳘न्तेद᳘मासा᳘मपजि᳘घांसामे᳘ति केने᳘ति यज्ञे᳘नैवे᳘ति यज्ञे᳘न ह स्म वै त᳘द्देवाः᳘ कल्पयन्ते य᳘देषां क᳘ल्पमास᳘र्षयश्च॥

मूलम् - विस्वरम्

तद्वै देवाः शुश्रुवुः- अनाशकेन ह वा इमाः प्रजाः पराभवन्ति इति । ते होचुः ‘हन्तेदमासामपजिघांसाम’ इति । केनेति ? यज्ञेनैवेति । यज्ञेन ह स्म वै तद्देवाः कल्पयन्ते यदेषां कल्प्यमास, ऋषयश्च ॥ ३ ॥

सायणः

तद्वै देवाः शुश्रुवुरिति । देवाश्च तत्सर्वमाकर्ण्य केनोपायेन असुरकृतमुपद्रवं परिहरामेति विचार्य, यज्ञेनैवेति निश्चित्य, ‘एषां’ मनुष्यादीनां ‘यत्’ ‘कल्प्यं’ कल्पनीयं सम्पाद्यम् ‘आस’ तत् अकल्पयन् । न केवलं देवा एव, ‘ऋषयः’ अप्येवमेव अकल्पयन् ॥ ३ ॥

Eggeling
  1. Now the gods heard as to how these creatures were perishing from want of food. They spake unto one another, ‘Come, let us rid them 4 of this!’–‘By what means?’–‘By means of the sacrifice.’ By means of the sacrifice the gods then accomplished all that they wanted to accomplish 5; and so did the R̥shis.

०४

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
क᳘स्य न ऽइदं᳘ भविष्यती᳘ति ते म᳘म ममे᳘त्येव न᳘ सम्पादया᳘ञ्चक्रुस्ते हा᳘सम्पाद्योचुराजि᳘मे᳘वास्मि᳘न्नजामहै स यो᳘ न ऽउज्जेष्य᳘ति त᳘स्य न ऽइदं᳘ भविष्यती᳘ति तथे᳘ति त᳘स्मिन्नाजि᳘माजन्त॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
क᳘स्य न ऽइदं᳘ भविष्यती᳘ति ते म᳘म ममे᳘त्येव न᳘ सम्पादया᳘ञ्चक्रुस्ते हा᳘सम्पाद्योचुराजि᳘मे᳘वास्मि᳘न्नजामहै स यो᳘ न ऽउज्जेष्य᳘ति त᳘स्य न ऽइदं᳘ भविष्यती᳘ति तथे᳘ति त᳘स्मिन्नाजि᳘माजन्त॥

मूलम् - Weber

ते᳘ होचुः॥
क᳘स्य न इद᳘म् भविष्यती᳘ति ते म᳘म-ममे᳘त्येव न᳘ सम्पादयां᳘ चक्रुस्ते हा᳘सम्पाद्योचुराजि᳘मेॗवास्मि᳘न्नजामहै स यो᳘ न उज्जेष्य᳘ति त᳘स्य न इद᳘म् भविष्यती᳘ति तथे᳘ति त᳘स्मिन्नाजि᳘माजन्त॥

मूलम् - विस्वरम्

ते होचुः- कस्य न इदं भविष्यतीति । ते- ‘मम मम’ इत्येव न सम्पादयाञ्चक्रुः। ते हासम्पाद्योचुः- आजिमेव अस्मिन्नजामहै, स यो न उज्जेष्यति- तस्य न इदं भविष्यतीति । तथेति । तस्मिन्नाजिमाजन्त ॥ ४॥

सायणः

ते होचुरित्यादि । प्रजानामशनकॢप्तिसाधनम् । ‘इदं’ हविः ‘नः’ अस्माकं मध्ये ‘कस्य भविष्यति ?’ ‘इति’ विचारिते ‘ते’ सर्वे देवाः ‘मम’ इदं- ‘मम’ इदम् ‘इति’ एवं ‘न सम्पादयाञ्चक्रुः’ सम्पादनं संमतिं नासादितवन्तः । ‘ते’ च देवाः इत्थं परस्परं विप्रतिपत्तिं प्राप्य ‘आजिम्’ आजिधावनम् तत्प्राप्त्युपायमेवाकल्पयन् । आजिर्नाम गन्तव्यावधिभूतः पदार्थः, तम् अस्मिन् 6 पदार्थे निष्पन्ने सति ‘अजामहै’ धावाम । “अज गतिक्षेपणयोः” (धा. पा. भ्वा. प. २३०) इति । तथा च ‘नः’ अस्माकं मध्ये ‘यः’ उज्जेष्यति, ‘तस्य’ ‘इदं’ ‘हविः’ ‘भविष्यति’ इति एवं विचार्य, ‘तथा’ ‘इति’ अङ्गीकृत्य, ‘तस्मिन्’ विषये त आजिधावनं कृतवन्तः ॥ ४ ॥

Eggeling
  1. They then said, ‘To which of us shall this belong?’ They did not agree (each of them exclaiming), ‘Mine (it shall be)!’ Not having come to an agreement, they said, ‘Let us run a race for this (sacrifice): whichever of us beats (the others), his it shall be!’ ‘So be it!’ they said, and they ran a race.

०५

विश्वास-प्रस्तुतिः

ता᳘विन्द्राग्नी ऽउ᳘दजयताम्॥
त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवतीन्द्राग्नी᳘ ह्यस्य भागधे᳘यमुद᳘जयतां तौ य᳘त्रेन्द्राग्नी᳘ ऽउज्जिगीवा᳘ᳫँ᳘ सौ तस्थ᳘तुस्तद्वि᳘श्वे देवा᳘ ऽअन्वा᳘जग्मुः॥

मूलम् - श्रीधरादि

ता᳘विन्द्राग्नी ऽउ᳘दजयताम्॥
त᳘स्मादैन्द्राग्नो द्वा᳘दशकपालः पुरोडा᳘शो भवतीन्द्राग्नी᳘ ह्यस्य भागधे᳘यमुद᳘जयतां तौ य᳘त्रेन्द्राग्नी᳘ ऽउज्जिगीवा᳘ᳫँ᳘ सौ तस्थ᳘तुस्तद्वि᳘श्वे देवा᳘ ऽअन्वा᳘जग्मुः॥

मूलम् - Weber

ता᳘विन्द्राग्नी उ᳘दजयताम्॥
त᳘स्मादैन्द्राग्नौ द्वा᳘दशकपालः पुरोडा᳘शो भवतीन्द्राग्नी ह्य᳘स्य भागधे᳘यमुद᳘जयतां तौ य᳘त्रेन्द्राग्नी᳘ उज्जिगीवा᳘ᳫं᳘सौ तस्थ᳘तुस्तद्वि᳘श्वे देवा᳘ अन्वा᳘जग्मुः॥

मूलम् - विस्वरम्

ताविन्द्राग्नी उदजयताम् । तस्मादैन्द्राग्नो द्वादशकपालः पुराडाशो भवति । इन्द्राग्नी ह्यस्य भागधेयमुदजयताम् । तौ यत्रेन्द्राग्नी उज्जिगीवांसौ तस्यतुः- तद् विश्वेदेवा अन्वाजग्मुः ॥ ५ ॥

सायणः

ताविन्द्राग्नी इति । ‘तौ’ प्रसिद्धौ ‘इन्द्राग्नी’आजिधावनेन तद्धविः ‘उदजयताम्’ यस्मादेवं तस्मादेव कारणात् ‘अन्यान्’ देवान् परित्यज्य आग्रयणेष्टौ प्रथमं हविः इन्द्राग्निदेवताकम्, द्वादशसु कपालेषु संस्कृतं पुरोडाशात्मकं भवति । अनेनाभिप्रायेग ऐन्द्राग्नयागः प्रथमः कर्त्तव्य इति विधिरुन्नीतो भवति ॥

वैश्वदेवचरुरूपं द्वितीयं हविर्विधातुं विश्वेषां देवानामाजिसम्बन्धमाह- यत्रेति 7 । ‘यत्र’ यस्मिन् समये ‘उज्जिगीवांसौ उज्जितवन्तौ ‘इन्द्राग्नी, तस्थतुः’ । जयतेर्लिटः क्वसौ “सन्लिटोर्जेः" (पा. सू. ७ । ३ । ५७) इति अभ्यासादुत्तरस्य जकारस्य कुत्वम्, ‘तत्’ तस्मिन् समये विश्वेदेवानाम गणरूपा देवाः इन्द्राग्नी ‘अन्वाजग्मुः’ आगतवन्तः । प्रथममिन्द्राग्नी आजिं प्राप्तवन्तौ तदनन्तरं विश्वेदेवाः प्राप्नुवन्नित्यर्थः ॥ ५ ॥

Eggeling
  1. Indra and Agni won, and hence that Indra-Agni cake on twelve potsherds 8; Indra and Agni having won a share in it. And where Indra and Agni were standing when they had won, thither all the gods followed them.

०६

विश्वास-प्रस्तुतिः

क्षत्रं वा᳘ ऽइन्द्राग्नी᳘॥
व्वि᳘शो व्वि᳘श्वे देवा य᳘त्र वै᳘ क्षत्र᳘मुज्ज᳘यत्यन्वा᳘भक्ता वै त᳘त्र विट्तद्वि᳘श्वान्देवा᳘नन्वा᳘भजतां त᳘स्मादेष᳘ व्वैश्वदेव᳘श्चरु᳘र्भवति॥

मूलम् - श्रीधरादि

क्षत्रं वा᳘ ऽइन्द्राग्नी᳘॥
व्वि᳘शो व्वि᳘श्वे देवा य᳘त्र वै᳘ क्षत्र᳘मुज्ज᳘यत्यन्वा᳘भक्ता वै त᳘त्र विट्तद्वि᳘श्वान्देवा᳘नन्वा᳘भजतां त᳘स्मादेष᳘ व्वैश्वदेव᳘श्चरु᳘र्भवति॥

मूलम् - Weber

क्षत्रं वा᳘ इन्द्राग्नी॥
वि᳘शो वि᳘श्वे देवा य᳘त्र वै᳘ क्षत्र᳘मुज्ज᳘यत्यन्वा᳘भक्ता वै त᳘त्र विट्तद्वि᳘श्वान्देवा᳘नन्वा᳘भजतां त᳘स्मादेष᳘ वैश्वदेव᳘श्चरु᳘र्भवति॥

मूलम् - विस्वरम्

क्षत्रं वा इन्द्राग्नी, विशो विश्वेदेवाः । यत्र वै क्षत्रमुज्जयति अन्वाभक्ता वै तत्र विट् । तद् विश्वान्देवानन्वाभजताम् । तस्मादेष वैश्वदेवश्वरुर्भवति ॥ ६॥

सायणः

वैश्वदेवस्य हविषः ऐन्द्राग्नानन्तर्य्ये कारणान्तरमाह- क्षत्रं वा इति । देवेषु मध्ये ‘इन्द्राग्नी’ ‘क्षत्रं’ क्षत्रियजातिः, ‘विश्वे देवाः’ ‘विशः’ वैश्यजातिः । ‘यत्र’ खलु ‘क्षत्रं’ क्षत्रियो राष्ट्रादिकम् 7 ‘उज्जयति,’ ‘तत्र’ ‘विट्’ वैश्यजातिरपि ‘अन्वाभक्ता’ भवति; यस्मादेवं लोके, ‘तत्’ तस्मात् ताविन्द्राग्नी स्वर्विशः ‘विश्वान् देवान्’ ‘अन्वाभजताम्’ अन्वाभक्तान् कुरुताम् । तस्मादित्यादि वैश्वदेवयागविधिः ॥ ६ ॥

Eggeling
  1. Now, Indra and Agni are the Kshatra (nobility), and all the gods (or, the All-gods) are the Viś (common Āryan people); and wherever the Kshatra conquers, there the Viś is allowed to share. Thus they (Indra and Agni) allowed the Viśve Devāḥ (the All-gods) a share (in the offering); and hence that pap of boiled (rice or barley) grain (offered) to the All-gods.

०७

विश्वास-प्रस्तुतिः

तं वै᳘ पुराणा᳘नां कुर्यादि᳘त्याहुः॥
क्षत्रं वा᳘ ऽइन्द्राग्नी ने᳘त्क्ष᳘त्र᳘मभ्यारोह᳘याणी᳘ति तौ वा᳘ ऽउभा᳘वेव न᳘वानाᳫँ᳭स्यातां यद्धि᳘ पुरोडा᳘श ऽइ᳘तरश्चरुरि᳘तरस्ते᳘नैव᳘ क्षत्रम᳘नभ्यारूढं त᳘स्मादुभा᳘वेव न᳘वानाᳫँ᳭ स्याताम्॥

मूलम् - श्रीधरादि

तं वै᳘ पुराणा᳘नां कुर्यादि᳘त्याहुः॥
क्षत्रं वा᳘ ऽइन्द्राग्नी ने᳘त्क्ष᳘त्र᳘मभ्यारोह᳘याणी᳘ति तौ वा᳘ ऽउभा᳘वेव न᳘वानाᳫँ᳭स्यातां यद्धि᳘ पुरोडा᳘श ऽइ᳘तरश्चरुरि᳘तरस्ते᳘नैव᳘ क्षत्रम᳘नभ्यारूढं त᳘स्मादुभा᳘वेव न᳘वानाᳫँ᳭ स्याताम्॥

मूलम् - Weber

तं वै᳘ पुराणा᳘नां कुर्यादि᳘त्याहुः॥
क्षत्रं वा᳘ इन्द्राग्नी ने᳘त्क्षत्र᳘मभ्यारोह᳘याणीति तौ वा᳘ उभा᳘वेव न᳘वानाᳫं स्यातां यद्धि᳘ पुरोडा᳘श इ᳘तरश्चरुरि᳘तरस्ते᳘नैव᳘ क्षत्रम᳘नभ्यारूढं त᳘स्मादुभा᳘वेव न᳘वानाᳫं स्याताम्॥

मूलम् - विस्वरम्

तं वै पुराणानां कुर्यादित्याहुः । क्षत्रं वा इन्द्राग्नी नेत्क्षत्रमभ्यारोहयाणि इति । तौ वा उभावेव नवानां स्याताम्- यद्धि पुरोडाश इतरः, चरुरितरः । तेनैव क्षत्रमनभ्यारूढम् । तस्मादुभावेव नवानां स्याताम् ॥ ७ ॥

सायणः

तस्य यागस्य पुराणव्रीहिनिष्पाद्यत्वं पूर्वपक्षत्वेन प्रतिपादयति- तं वा इति । ‘पुराणानां’ पुरातनानां व्रीहीणां सम्बन्धिनं ‘तं’ वैश्वदेवं चरुं ‘कुर्यात्’ ‘इति आहुः’ अभिज्ञाः कथयन्ति 7क्षत्रं वा इति । तदुपपादनम्- नेत् क्षत्रमिति । नैव क्षत्रियजातेरुपरि वैश्यजातिं तत्समत्वेन, ‘आरोहयाणि’ आरूढां करवाणीति; सर्वथा हि क्षत्रियवैश्ययोर्वैषम्येन भवितव्यमित्यर्थः । प्रकारान्तरेण वैषम्यं दर्शयन्नुभयोरपि हविषोर्नवधान्यप्रकृतित्वमाह- तौ वा उभावेव नवानामिति । यद्धीति । ‘यत्’ यतः तयोरन्यतरः पुरोडाशः, अन्यतरश्चरुः; ‘तेनैव’ वैलक्षण्येन विशा ‘क्षत्रम् अनभ्यारूढम्’ क्षत्रियजातिरनभ्यारूढा भवति । तस्मादित्यादि, प्रतिज्ञापूरणार्थं निगमनम् ॥ ७ ॥

Eggeling
  1. ‘Let him prepare it from old (grain) 9,’ say some; ‘for Indra and Agni are the Kshatra (and he should therefore use old grain for the Vaiśvadeva pap) lest he (the sacrificer) should exalt (the Viś) to the level of the Kshatra.’ Nevertheless let both (the cake and caru) consist of new (grain); for (by the very fact that) the one is a cake and the other a pap, the nobility is not equalled (by the people): hence they should both consist of new (grain).

०८

विश्वास-प्रस्तुतिः

त᳘ ऽउ ह व्वि᳘श्वेदेवा᳘ ऽऊचुः॥
(र) अन᳘योर्वा᳘ ऽअयं द्या᳘वापृथिव्यो र᳘सो ह᳘न्तेमे᳘ ऽअस्मि᳘न्नाभ᳘जामे᳘ति ता᳘भ्यामेतं᳘ भाग᳘मकल्पयन्नेतं᳘ द्यावापृथि᳘व्यमे᳘ककपालं पुरोडाशं त᳘स्माद्द्यावापृथि᳘व्य ऽए᳘ककपालः पुरोडा᳘शो भवति त᳘स्येय᳘मेव᳘ कपा᳘लमे᳘केव᳘ हीयं त᳘स्मादे᳘ककपालो भवति॥

मूलम् - श्रीधरादि

त᳘ ऽउ ह व्वि᳘श्वेदेवा᳘ ऽऊचुः॥
(र) अन᳘योर्वा᳘ ऽअयं द्या᳘वापृथिव्यो र᳘सो ह᳘न्तेमे᳘ ऽअस्मि᳘न्नाभ᳘जामे᳘ति ता᳘भ्यामेतं᳘ भाग᳘मकल्पयन्नेतं᳘ द्यावापृथि᳘व्यमे᳘ककपालं पुरोडाशं त᳘स्माद्द्यावापृथि᳘व्य ऽए᳘ककपालः पुरोडा᳘शो भवति त᳘स्येय᳘मेव᳘ कपा᳘लमे᳘केव᳘ हीयं त᳘स्मादे᳘ककपालो भवति॥

मूलम् - Weber

त᳘ उ ह वि᳘श्वे देवा᳘ ऊचुः॥
अन᳘योर्वा᳘ अयं द्या᳘वापृथिव्यो र᳘सो ह᳘न्तेमे᳘ अस्मि᳘न्नाभ᳘जामे᳘ति ता᳘भ्यामेत᳘म् भाग᳘मकल्पयन्नेतं᳘ द्यावापृथि᳘व्यमे᳘ककपालम् पुरोडाशं त᳘स्माद्द्यावापृथि᳘व्य ए᳘ककपालः पुरोडा᳘शो भवति त᳘स्येय᳘मेव᳘ कपा᳘लमे᳘केवॗ हीयं त᳘स्मादे᳘ककपालो भवति॥

मूलम् - विस्वरम्

त उ ह विश्वेदेवा ऊचुः- अनयोर्वा अयं द्यावापृथिव्यो रसः- हन्तेमे अस्मिन्नाभजामेति । ताभ्यामेतं भागमकल्पयन्- एतं द्यावापृथिव्यमेककपालं पुरोडाशम् । तस्माद् द्यावापृथिव्य एककपालः पुरोडाशो भवति । तस्येयमेव कपालम्, एकेव हीयम् । तस्मादेककपालो भवति ॥ ८ ॥

सायणः

अथ तस्यामेवाग्रयणेष्टौ तृतीयं द्यावापृथिव्यं हविर्विधातुमाह- त उ हेति । ते ऽपि ‘विश्वेदेवाः’ ‘ऊचुः’ उक्तवन्तः । कथमिति, नवधान्यरूपं हविः अनयोः द्यावापृथिव्योः अयं रसः, इति प्रागुपपादितम् । ‘हन्त’- इत्यनुकम्पायाम् । ‘अस्मिन्’ नवहविषि ‘इमे’ द्यावापृथिव्यौ वयम् ‘आभजाम’ प्रापयामेत्यर्थः । ते च ‘ताभ्यां’ द्यावापृथिवीभ्याम् ‘एतं’ हविर्भागम् ‘अकल्पयन्’ य एष द्यावापृथिव्य एककपालः पुरोडाशः, तम् । तस्मादिति, द्यावापृथिव्ययागविधिः । तस्य द्यावापृथिव्यस्य हविषः एकस्मिन्नेव कपाले संस्कारमुपपादयति- तस्येयमेवेति । तस्य ‘इयं’ भूमिः ‘एव’ ‘कपालम्’ पुरोडाशश्रपणाधिष्ठानम्; ‘हि’ यस्मात् ‘इयम्’ ‘एकेव’ एकाकारेव भवति, ‘तस्मात्’ तद्देवत्यः पुरोडाशो ऽपि ‘एककपालः’ इति 10 कर्तव्य इत्यर्थः ॥ ८ ॥

Eggeling
  1. The All-gods spake, ‘This sap (of the rice and barley plants) truly belongs to those two, heaven and earth: let us, then, allow those two a share in it!’ They accordingly assigned that share to them, to wit, the cake on one potsherd offered to heaven

and earth 11. This is why there is a cake on one potsherd (kapāla) for heaven and earth. Now this (earth) is, doubtless, the cup (depository, kapāla) of that (sap) 12; and she indeed is one only: hence (the cake) consists of one potsherd.

०९

विश्वास-प्रस्तुतिः

त᳘स्य परिचक्षा᳘॥
य᳘स्यै वै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्य᳘ते सर्व᳘त्रैव᳘ स्विष्टकृ᳘दन्वा᳘भक्तो᳘ ऽथैतᳫँ᳭ स᳘र्व्वमेव᳘ जुहोति न᳘ स्विष्टकृते᳘ ऽवद्यति सा᳘ परिचक्षो᳘तो हुतः᳘ पर्या᳘वर्तते॥

मूलम् - श्रीधरादि

त᳘स्य परिचक्षा᳘॥
य᳘स्यै वै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्य᳘ते सर्व᳘त्रैव᳘ स्विष्टकृ᳘दन्वा᳘भक्तो᳘ ऽथैतᳫँ᳭ स᳘र्व्वमेव᳘ जुहोति न᳘ स्विष्टकृते᳘ ऽवद्यति सा᳘ परिचक्षो᳘तो हुतः᳘ पर्या᳘वर्तते॥

मूलम् - Weber

त᳘स्य परिचक्षा॥
य᳘स्यै वै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्य᳘ते सर्व᳘त्रैव᳘ स्विष्टकृ᳘दन्वा᳘भक्तो᳘ ऽथैतᳫं स᳘र्वमेव᳘ जुहोति न᳘ स्विष्टकृते᳘ ऽवद्यति सा᳘ परिचॗक्षोॗतो हुतः᳘ पर्या᳘वर्तते॥

मूलम् - विस्वरम्

तस्य परिचक्षा । यस्यै वै कस्यै च देवतायै हविर्गृह्यते सर्वत्रैव स्विष्टकृदन्वाभक्तः । अथैतं सर्वमेव जुहोति- न स्विष्टकृते ऽवद्यति । सा परिचक्षा । उतो हुतः । पर्यावर्तते ॥ ९ ॥

सायणः

आज्येनैव द्यावापृथिव्योर्यागं विधित्सुः पुरोडाशपक्षे दोषमुपन्यस्यति- तस्य परिचक्षेति । ‘तस्य’ एककपालस्य पुरोडाशस्य काचित् ‘परिचक्षा’ निन्दा विद्यते । तामेव दर्शयति- यस्या इति । सर्वेषु हि यागेषु ‘स्विष्टकृद्’ यागः ‘अन्वाभक्तः’ अनुप्राप्तो ऽस्ति; “शेषात् स्विष्टकृते समवद्यति”- इतीष्टशिष्टप्रतिपत्तित्वेन तस्य विहितत्वात् । अथैवं सति अत्रैककपालं पुरोडाशं ‘सर्वमेव 10 जुहोति’ हविरन्तरवत् स्विष्टकृन्नाम्ने ऽग्नये ‘न अवद्यति’ अतो ऽस्यैककपालस्य स्विष्टकृद्यागाभावात् ‘सा’ एव ‘परिचक्षा’ निन्दा । दोषान्तरमप्याह- उतो हुत इति । ‘उत उ’ अपि च अग्नौ ‘हुतः’ सन् एककपालः पुरोडाशः यदि ‘पर्य्यावर्त्तते’ पर्य्यावर्त्तेत ॥ ९ ॥

Eggeling
  1. An offence (is thereby committed) by him 13; since, for whatever deity sacrificial food may be taken out, the Svishṭakr̥t (Agni, the maker of good offering) is invariably allowed a share in it after (the respective deity). But that (cake) he offers entire, and he does not cut off a portion for the Svishṭakr̥t this is an offence, and consequently (that cake), when offered, turns upside down.

१०

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
पर्या᳘भूद्वा᳘ ऽअयमे᳘ककपालो मोहिष्य᳘ति राष्ट्रमि᳘ति᳘ नास्य सा᳘ परिच᳘क्षा ऽऽहवनी᳘यो वा आ᳘हुतीनाम् प्रतिष्ठा स य᳘दाहवनी᳘यम् प्राप्या᳘पि दश कृ᳘त्वः पर्याव᳘र्तेत न तदा᳘द्रियेत यदि᳘ त्वन्ये व्व᳘दन्ति कस्त᳘त्सन्धमुपेयात्त᳘स्मादा᳘ज्यस्यैव᳘ यजेदा᳘ज्यᳫँ᳭ ह वा᳘ ऽअन᳘योर्द्या᳘वापृथिव्योः᳘ प्रत्य᳘क्षᳫँ᳭ र᳘सस्त᳘त्प्रत्य᳘क्षमे᳘वैने ऽएतत्स्वे᳘न र᳘सेन मे᳘धेन प्रीणाति त᳘स्मादा᳘ज्यस्यैव᳘ यजेत्॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
पर्या᳘भूद्वा᳘ ऽअयमे᳘ककपालो मोहिष्य᳘ति राष्ट्रमि᳘ति᳘ नास्य सा᳘ परिच᳘क्षा ऽऽहवनी᳘यो वा आ᳘हुतीनाम् प्रतिष्ठा स य᳘दाहवनी᳘यम् प्राप्या᳘पि दश कृ᳘त्वः पर्याव᳘र्तेत न तदा᳘द्रियेत यदि᳘ त्वन्ये व्व᳘दन्ति कस्त᳘त्सन्धमुपेयात्त᳘स्मादा᳘ज्यस्यैव᳘ यजेदा᳘ज्यᳫँ᳭ ह वा᳘ ऽअन᳘योर्द्या᳘वापृथिव्योः᳘ प्रत्य᳘क्षᳫँ᳭ र᳘सस्त᳘त्प्रत्य᳘क्षमे᳘वैने ऽएतत्स्वे᳘न र᳘सेन मे᳘धेन प्रीणाति त᳘स्मादा᳘ज्यस्यैव᳘ यजेत्॥

मूलम् - Weber

तदाहुः॥
पर्या᳘भूद्वा᳘ अयमे᳘ककपालो मोहिष्य᳘ति राष्ट्रमि᳘तिॗ नास्य सा᳘ परिचॗक्षाहवनी᳘यो वा आ᳘हुतीनाम् प्रतिष्ठा स य᳘दाहवनी᳘यम् प्राप्या᳘पि दश कृ᳘त्वः पर्याव᳘र्तेत न तदा᳘द्रियेत यदीत्त्व᳘न्ये 14 व᳘दन्ति कस्त᳘त्संधमु᳘पेयात्त᳘स्मादा᳘ज्यस्यैव᳘ यजेदा᳘ज्यᳫं ह वा᳘ अन᳘योर्द्या᳘वापृथिव्योः᳘ प्रत्य᳘क्षं र᳘सस्त᳘त्प्रत्य᳘क्षमेॗवैने एतत्स्वे᳘न र᳘सेन मे᳘धेन प्रीणाति त᳘स्मादा᳘ज्यस्यैव᳘ यजेत्॥

मूलम् - विस्वरम्

तदाहुः- पर्याभूद्वा अयमेककपालो, मोहिष्यति राष्ट्रमिति- नास्य सा परिचक्षा । आहवनीयो वा आहुतीनां प्रतिष्ठा । स यदाहवनीयं प्राप्य अपि दशकृत्वः पर्यावर्तेत न तदाद्रियेत । यदि त्वन्ये वदन्ति, कस्तत्सन्धमुपेयात् । तस्मादाज्यस्यैव यजेत् । आज्यं ह वा अनयोर्द्यावापृथिव्योः प्रत्यक्षं रसः । तत् प्रत्यक्षमेवैने एतत्स्वेन रसेन मेधेन प्रीणाति । तस्मादाज्यस्यैव यजेत् ॥ १० ॥

सायणः

तदाहुरिति । ‘तत्’ तत्र विषये ‘आहुः’ ब्रह्मवादिनः कथयन्ति । किमिति- ‘अयम्’ ‘एककपालः’ ‘पर्याभूत्’ पर्यावृत्तो ऽभूत्, तेन पर्यावर्त्तनेन ‘राष्ट्रम्’ एव पर्यावृत्तं सत् ‘मोहिष्यति’ मूढं भविष्यतीति । नायं दोषः । परिहरति- नास्येति । अस्यैककपालस्य । पर्यावृत्तिरूपा ‘परिचक्षा’ निन्दा न भवतीत्यत आह- आहवनीय इति । स वा आहवनीयो हि सर्वाहुतीनामाधारभूतः । तत्प्राप्तेः पूर्वं पर्यावर्तने दोषः, तदुत्तरकालन्तु ‘अपि’ ‘दशकृत्वः दशवारं’ ‘पर्यावर्तेत’ । ‘तत्’ तत्र आदरो नैव कर्त्तव्यः । देवतोद्देशेन हविषः 15 प्रक्षिप्तत्वादित्यभिप्रायः । तस्मात् स्विष्टकृद्यागाभावकृता एव निन्दा परिशिष्यते, तत्परिहाराय पक्षान्तरमाह- यदीति । ‘यदि तु’ ‘अन्ये’ शाखिनः ‘वदन्ति’ ‘कः’ नाम ‘तत्’ उक्तदोषसन्धानं कर्तुम् ‘उपेयात्’ उपगच्छेत् । अतो दोषसहित एककपालपक्षः परित्याज्यः । किन्तर्हि द्यावापृथिव्यस्य यागस्य द्रव्यम् तदाह- तस्मादिति । यदेतत् ध्रुवास्थमाज्यं सर्वयज्ञसाधारणम् तस्य ‘आज्यस्य एव’ सकाशात् चतुरवत्तमवदाय द्यावापृथिव्योर्यजेतेत्यर्थः । इममर्थं प्रशंसति- आज्यं हेति । प्रत्यक्षं रस इति । आज्यस्य द्रवत्वगुणयोगात् प्रत्यक्षरसत्वम्; व्रीहियवादेस्तु धान्यस्य काठिन्यात् परोक्षत्वम् 16मेधेनेति । सारभूतेनेत्यर्थः ।

निन्दाया उत्तरस्य प्रशंसार्थमभिप्रेत्य कात्यायनेन तत् पक्षद्वयमपि सूत्रितम्- “द्यावापृथिवीय एककपालः । आज्यस्य वा” इति (का. श्रौ. सू० ४ । १६०- १६१) । आपस्तम्बो ऽपि- “अपि वैककपालेन कुर्वीत, आज्येन द्यावापृथिवी यजेत”- इत्युक्तवान् ॥ १० ॥

Eggeling
  1. Hence they say, ‘That (cake) contained on one potsherd has turned upside down: it will throw the kingdom into disorder.’ No offence (is, however, committed) by him, for the Āhavanīya is the support of oblations; and if, after reaching the Āhavanīya, (the cake) were to turn upside down ten times, he need not heed it. And if others ask as to who would care to incur (the result of) such a combination (of errors), let him offer nothing but butter; for clarified butter is manifestly the sap of

those two, heaven and earth, so that he thereby manifestly gladdens those two with their own sap or essence: hence he need offer nothing but butter.

११

विश्वास-प्रस्तुतिः

(दे) एते᳘न वै᳘ देवाः᳘॥
(०) यज्ञे᳘ने᳘ष्ट्वोभ᳘यीनामो᳘षधीनां या᳘श्च मनु᳘ष्या ऽउपजी᳘वन्ति या᳘श्च पश᳘वः कृत्या᳘मिव त्वद्विष᳘मिव त्वद᳘पजघ्नुस्त᳘त ऽआ᳘श्नन्मनु᳘ष्या ऽआ᳘लि᳘शन्त पशवः॥

मूलम् - श्रीधरादि

(दे) एते᳘न वै᳘ देवाः᳘॥
(०) यज्ञे᳘ने᳘ष्ट्वोभ᳘यीनामो᳘षधीनां या᳘श्च मनु᳘ष्या ऽउपजी᳘वन्ति या᳘श्च पश᳘वः कृत्या᳘मिव त्वद्विष᳘मिव त्वद᳘पजघ्नुस्त᳘त ऽआ᳘श्नन्मनु᳘ष्या ऽआ᳘लि᳘शन्त पशवः॥

मूलम् - Weber

एते᳘न वै᳘ देवाः᳟ 17
यज्ञे᳘नेॗष्ट्वोभ᳘यीनामो᳘षधीनां या᳘श्च मनुॗष्या उपजी᳘वन्ति या᳘श्च पश᳘वः कृत्या᳘मिव त्वद्विष᳘मिव त्वद᳘पजघ्रुस्त᳘त आ᳘श्नन्मनुष्या आ᳘लिशन्त पशवः॥

मूलम् - विस्वरम्

एतेन वै देवाः । यज्ञेनेष्ट्वा, उभयीनामोषधीनां- याश्च मनुष्या उपजीवन्ति, याश्च पशवः- कृत्यामिव त्वत्, विषमिव त्वद्-अपजघ्नुः । तत- आश्नन् मनुष्याः, आलिशन्त पशवः ॥ ११ ॥

सायणः

अस्या आग्रयणेष्टेरनाश्रितदोषनिर्हरणहेतुत्वं प्रतिपादयितुं पुरावृत्तमुदाहरति- एतेनेति । ‘याश्च’ व्रीहियवाद्या ओषधीः ‘मनुष्याः’ ‘उपजीवन्ति’ ‘याश्च’ तृणाद्याः ‘पशवः’ ‘उपजीवन्ति’ तासाम् ‘उभयीनाम्’ ओषधीनाम्, इति सम्बन्धः । कृत्यामिव त्वदिति । ओषधीषु कृत्या-विषादिकं यत् असुरैः प्रलिप्तम्, तदनेन यागेन देवा अपहतवन्त इत्यर्थः । तत इत्यादि । ततो देवैरन्नस्य निर्दोषकरणात् मनुष्याः ‘आश्नन्’ अभुञ्जत, ‘पशवश्च’ तृणादिकम् ‘आलिशन्त’ अभक्षयन् । “लिश अल्पीभावे” (धा. पा. दि. आ. ७३) इत्ययं धातुः, अत्र तृणादेरल्पीभवनहेतौ भक्षणे वर्त्तते ॥ ११ ॥

Eggeling
  1. By performing that same sacrifice, the gods removed the magic spell as well as the poison from both kinds of plants,–those on which men and beasts subsist; and henceforward the men ate food and the cattle grazed.

१२

विश्वास-प्रस्तुतिः

(वो᳘ ऽथ) अ᳘थ य᳘देष᳘ ऽएते᳘न य᳘जते॥
तन्ना᳘ह᳘ न्वे᳘वैत᳘स्य त᳘था क᳘श्चन᳘ कृत्य᳘येव त्वद्विषे᳘णेव त्वत्प्रलिम्पती᳘ति देवा᳘ ऽअकुर्वन्नि᳘ति᳘ त्वे᳘वैष᳘ ऽएत᳘त्करोति य᳘मु चैव᳘ देवा᳘ भागम᳘कल्पयन्त त᳘मु चै᳘वैभ्य ऽएष᳘ ऽएत᳘द्भागं᳘ करोतीमा᳘ ऽउ चै᳘वैत᳘दुभ᳘यीरो᳘षधीर्या᳘श्च मनु᳘ष्या उपजी᳘वन्ति या᳘श्च पश᳘वस्ता᳘ ऽअनमीवा᳘ अकिल्विषाः᳘ कुरुते ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषा᳘ ऽइ᳘माः᳘ प्रजा ऽउ᳘पजीवन्ति त᳘स्माद्वा᳘ ऽएष᳘ ऽएते᳘न यजते॥

मूलम् - श्रीधरादि

(वो᳘ ऽथ) अ᳘थ य᳘देष᳘ ऽएते᳘न य᳘जते॥
तन्ना᳘ह᳘ न्वे᳘वैत᳘स्य त᳘था क᳘श्चन᳘ कृत्य᳘येव त्वद्विषे᳘णेव त्वत्प्रलिम्पती᳘ति देवा᳘ ऽअकुर्वन्नि᳘ति᳘ त्वे᳘वैष᳘ ऽएत᳘त्करोति य᳘मु चैव᳘ देवा᳘ भागम᳘कल्पयन्त त᳘मु चै᳘वैभ्य ऽएष᳘ ऽएत᳘द्भागं᳘ करोतीमा᳘ ऽउ चै᳘वैत᳘दुभ᳘यीरो᳘षधीर्या᳘श्च मनु᳘ष्या उपजी᳘वन्ति या᳘श्च पश᳘वस्ता᳘ ऽअनमीवा᳘ अकिल्विषाः᳘ कुरुते ता᳘ ऽअस्यानमीवा᳘ ऽअकिल्विषा᳘ ऽइ᳘माः᳘ प्रजा ऽउ᳘पजीवन्ति त᳘स्माद्वा᳘ ऽएष᳘ ऽएते᳘न यजते॥

मूलम् - Weber

अ᳘थ य᳘देष᳘ एते᳘न य᳘जते॥
तन्ना᳘हॗ न्वेॗवैत᳘स्य 18 त᳘था क᳘श्चन᳘ कृत्य᳘येव त्वद्विषे᳘णेव त्वत्प्रलिम्पती᳘ति देवा᳘ अकुर्वन्नि᳘तिॗ त्वेॗवैष᳘ एत᳘त्करोति य᳘मु चैव᳘ देवा᳘ भागम᳘कल्पयन्त त᳘मु चैॗवैभ्य एष᳘ एत᳘द्भागं᳘ करोतीमा᳘ उ चैॗवैत᳘दुभ᳘यीरोषधीर्या᳘श्च मनुॗष्या उपजी᳘वन्ति या᳘श्च पश᳘वस्ता᳘ अनमीवा᳘ अकिल्विषाः᳘ कुरुते ता᳘ अस्यानमीवा᳘ अकिल्विषा᳘ इमाः᳘ प्रजा उ᳘पजीवन्ति त᳘स्माद्वा एष᳘ एते᳘न यजते॥

मूलम् - विस्वरम्

अथ यदेष एतेन यजते- तन्नाह न्वेवैतस्य तथा कश्चन- कृत्ययेव त्वद्, विषेणेव त्वत्, प्रलिम्पतीति देवा अकुर्वन् । इति त्वेवैष एतत्करोति । यमु चैव देवा भागमकल्पयन्त- तमु चैवैभ्य एष एतद्भागं करोति । इम उ चैवैतदुभयीरोषधीः- याश्च मनुष्या उपजीवन्ति याश्च पशवः-ता अनमीवा अकिल्बिषाः कुरुते । ता अस्यानमीवा अकिल्बिषा इमाः प्रजा उपजीवन्ति । तस्माद्वा एष एतेन यजते ॥ १२ ॥

सायणः

एवं पुरावृत्तमुदाहृत्य दृष्टान्तेनेदानीन्तनानुष्ठाने ऽपि नवान्नाश्रितदोषनिर्हरणहेतुत्वं प्रतिपादयति- अथेति । ‘अथ’ इदानीं ‘यत्’ यस्मात् कारणात् ‘एषः’ यजमानः ‘एतेन’ आग्रयणेन ‘यजते’ ‘अह’ ‘नु’ ‘एव’ इति त्रयो निपाता अवधारणार्थाः । ‘तत्’ तस्मादेव कारणात् ‘एतस्य’ यजमानस्य ‘तथा’ तथैव ओषधीषु कत्यया विषेण च न को ऽपि द्वेष्टा ‘प्रलिम्पति’ प्रश्लेषयति । “लिप उपदेहे”- (धा. पा. तु. प. १५२) इति धातुः । “शे मुचादीनाम्” (पा. सू. ७ । १ । १९)- इति नुम् । देवा इत्यादि । ‘देवाः’ खलु पुरा ‘इति’ एवम् ‘अकुर्वन्’ ‘एषः’ यजमानो ऽपि ‘इति त्वेव’ एवमेव तु ‘करोति’ । एतदेव विवृणोति- यमु चैवेति । अनमीवा अकिल्बिषा इति । अमीवा रोगाः, तद्रहिताः; अकिल्बिषाः, किल्बिषं रोगनिदानं पापं, तद्रहिताश्च ‘कुरुते’ । ता अस्येति, प्रयोजनान्वाख्यानम् ॥ १२ ॥

Eggeling
  1. Now when he performs that sacrifice, he does so either for the reason that no one will then defile (the plants) either by magic or poison; or because the gods did so. And whatever share the gods assigned (to themselves), that share he thereby makes over to them. Moreover, he thereby renders wholesome and faultless both kinds of plants,–those on which men and beasts subsist; and these creatures subsist on those wholesome and faultless (plants) of his: this is why he performs that sacrifice.

१३

विश्वास-प्रस्तुतिः

त᳘स्य प्रथमजो गौर्द᳘क्षिणा॥
(णा ऽग्र्य᳘) अग्र्य᳘मिव᳘ हीदᳫँ᳭ स य᳘दीजानः स्या᳘द्दर्शपूर्णमासा᳘भ्यां वा य᳘जेताथैते᳘न यजेत य᳘द्यु ऽअ᳘नीजानः स्या᳘च्चातुष्प्राश्य᳘मे᳘वैत᳘मोद᳘नमन्वाहार्यप᳘चने पचेयुस्तं᳘ ब्राह्मणा᳘ ऽअश्नीयुः॥

मूलम् - श्रीधरादि

त᳘स्य प्रथमजो गौर्द᳘क्षिणा॥
(णा ऽग्र्य᳘) अग्र्य᳘मिव᳘ हीदᳫँ᳭ स य᳘दीजानः स्या᳘द्दर्शपूर्णमासा᳘भ्यां वा य᳘जेताथैते᳘न यजेत य᳘द्यु ऽअ᳘नीजानः स्या᳘च्चातुष्प्राश्य᳘मे᳘वैत᳘मोद᳘नमन्वाहार्यप᳘चने पचेयुस्तं᳘ ब्राह्मणा᳘ ऽअश्नीयुः॥

मूलम् - Weber

त᳘स्य प्रथमजो गौर्द᳘क्षिणा॥
अग्र्य᳘मिवॗ 19 हीदᳫं स य᳘दीजानः स्या᳘द्दर्शपूर्णमासा᳘भ्यां वा य᳘जेताथैते᳘न यजेत य᳘द्यु अ᳘नीजानः स्या᳘च्चातुष्प्राश्य᳘मेॗवैत᳘मोदन᳘मन्वाहार्यप᳘चने पचेयुस्त᳘म् ब्राह्मणा᳘ अश्नीयुः॥

मूलम् - विस्वरम्

तस्य प्रथमजो गौर्दक्षिणा । अग्र्यमिव हीदम् । स यदीजानः स्यात्- दर्शपूर्णमासाभ्यां वा यजेत- अथैतेन यजेत । यद्यु अनीजानः स्यात्- चातुष्प्राश्यमेवैतमोदनमन्वाहार्यपचने पचेयुः, तं ब्राह्मणा अश्नीयुः ॥ १३ ॥

सायणः

दक्षिणां विधत्ते- तस्य प्रथमज इति । ‘तस्य’ आग्रयणस्य ‘प्रथमजः’ तस्मिन् संवत्सरे यजमानस्य गोष्ठे यो वत्सो जायते, सः ‘गौः’ अस्य यागस्य दक्षिणात्वेन देय इत्यर्थः 20 । कुत इत्यत आह- अग्र्यमिवेति । अग्रे भवम् अग्र्यम् । “अग्राद् यत् । घच्छौ च”- (पा. सू. ४ । ४ । ११६- ११७) इति । ‘इदम्’ आग्रयणाख्यं ‘हि’ हविः ‘अग्र्यम्’, प्रथमजो वत्सश्चाग्र्यः; अतस्तस्याग्रयणदक्षिणात्वमुचितमिति भावः ।

ईजानानीजानयोराग्रयणविषयां व्यवस्थां दर्शयति- स यदिति । ‘यद्’ यदि ‘सः’ यजमानः ‘ईजानः’ सोमयागेनेष्टवान् ‘स्यात्’ । यजेर्लिटः कानच् (पा. सू. ३ । ६ । १०६) केवलं हविर्यज्ञयाजी सन् ‘दर्शपूर्णमासाभ्याम्’ एव ‘यजेत’, ‘अथ’ अनन्तरमेव ‘एतेन’ आग्रयणेन ‘यजेत’, न प्रागित्यर्थः । किन्तर्हि तदा कुर्यादिति, तत्राह- यद्यु इति । यदि तु दर्शपूर्णमासादिभिः ‘अनीजानः’ अनिष्टवान् ‘स्यात्’ तदा स यजमानः ‘चातुष्प्राश्यं’ चतुर्भिः ब्राह्मणैः प्राशितव्यं ‘तम्’ ‘ओदनम्’ अन्नं दक्षिणाग्नौ पक्त्वा, ब्राह्मणेभ्यो दद्यात् 21; ‘ब्राह्मणाः’ च ‘तम्’ ‘अश्नीयुः’ भुञ्जीरन् ॥ १३ ॥

Eggeling
  1. The priests’ fee for this (sacrifice) consists of the first-born calf (of the season); for that is, as it were, the first-fruits (of the cattle). If he has already performed the new and full-moon offerings, let him first perform those offerings 22, and thereupon the present (offering of first-fruits). If, on the other hand, he has not yet performed (the new and full-moon offerings), let them cook a cātushprāśya 23 pap on the southern fire, and let the priests eat it.

१४

विश्वास-प्रस्तुतिः

(र्द्व) द्वया वै᳘ देवा᳘ देवाः॥
(ऽ) अ᳘हैव देवा ऽअ᳘थ ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳘ सो ऽनूचानास्ते᳘ मनुष्यदेवास्तद्य᳘था व्वषट्कृत᳘ᳫँ᳘ हुत᳘मेव᳘मस्यैत᳘द्भवति त᳘त्रो य᳘च्छक्नुयात्त᳘द्दद्या᳘न्नादक्षिण᳘ᳫँ᳘ हविः᳘ स्यादि᳘ति ह्याहु᳘र्नाग्निहोत्रे᳘ जुहुयात्सम᳘दᳫँ᳭ ह कुर्याद्य᳘दग्निहोत्रे᳘ जुहुया᳘दन्यद्वा᳘ ऽआग्रयण᳘मन्य᳘दग्निहोत्रं त᳘स्मा᳘न्नाग्निहोत्रे᳘ जुहुयात्॥

मूलम् - श्रीधरादि

(र्द्व) द्वया वै᳘ देवा᳘ देवाः॥
(ऽ) अ᳘हैव देवा ऽअ᳘थ ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳘ सो ऽनूचानास्ते᳘ मनुष्यदेवास्तद्य᳘था व्वषट्कृत᳘ᳫँ᳘ हुत᳘मेव᳘मस्यैत᳘द्भवति त᳘त्रो य᳘च्छक्नुयात्त᳘द्दद्या᳘न्नादक्षिण᳘ᳫँ᳘ हविः᳘ स्यादि᳘ति ह्याहु᳘र्नाग्निहोत्रे᳘ जुहुयात्सम᳘दᳫँ᳭ ह कुर्याद्य᳘दग्निहोत्रे᳘ जुहुया᳘दन्यद्वा᳘ ऽआग्रयण᳘मन्य᳘दग्निहोत्रं त᳘स्मा᳘न्नाग्निहोत्रे᳘ जुहुयात्॥

मूलम् - Weber

द्वया वै᳘ देवा᳘ देवाः॥
अ᳘हैव᳘ देवा अ᳘थ ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचानास्ते᳘ मनुष्यदेवास्तद्य᳘था वषट्कृत᳘ᳫं᳘ 24 हुत᳘मेव᳘मस्यैत᳘द्भवति त᳘त्रो य᳘छक्नुयात्त᳘द्दद्याॗन्नादक्षिणा᳘ᳫं᳘ हविः᳘ स्यादि᳘ति ह्याहुॗर्नाग्निहोत्रे᳘ जुहुयात्सम᳘दᳫं ह कुर्याद्य᳘दग्निहोत्रे᳘ जुहुया᳘दन्यद्वा᳘ आग्रयण᳘मन्य᳘दग्निहोत्रं त᳘स्माॗन्नाग्निहोत्रे᳘ जुहुयात्॥

मूलम् - विस्वरम्

द्वया वै देवाः- देवा अहैव देवाः, अथ ये ब्राह्मणाः शुश्रुवांसो ऽनूचानास्ते मनुष्यदेवाः । तद् यथा वषट्कृतं हुतम्, एवमस्यैतद्भवति । तत्रो यच्छक्नुयात्- तद् दद्यात्- नादक्षिणं हविः स्यादिति ह्याहुः । नाग्निहोत्रे जुहुयात् । समदं ह कुर्याद्- यदग्निहोत्रे जुहुयात् । अन्यद्वा आग्रयणम्, अन्यदग्निहोत्रम् । तस्मान्नाग्निहोत्रे जुहुयात् ॥ १४ ॥

सायणः

ब्राह्मणभोजनस्यापि यागात्मकत्वमुपपादयति- द्वया वा इति । अहैवेति, द्वावपि निपाताववधारणार्थौ । ‘शुश्रुवांसः’ श्रुतवन्तः, बहुश्रुतार्था इत्यर्थः; ‘अनूचानाः’ अनुगतानुष्ठानपराः, य एवंगुणाः, ‘ते’ मनुष्यदेवाः मनुष्यरूपा देवाः । ‘तत्’ तथा सति ‘यथा’ वषट्कारेण देवेभ्यो दत्तम्, स्वाहाकारेण ‘हुतं’ च भवति, एवमेव ‘अस्य’ अनीजानस्य यजमानस्य ‘एतत्’ ब्राह्मणभोजनं भवतीत्यर्थः ।

यागे व भोजने ऽपि दक्षिणादानं विधत्ते- तत्रो इति । ‘तत्र’ ब्राह्मणभोजनकाले ऽपि ‘यत्’ किञ्चित् अपि दातुं ‘शक्नुयात्’, ‘तत् दद्यात्’; ब्राह्मणेभ्यो दत्तं ‘हविः’ ‘अदक्षिणं’ दक्षिणारहितं ‘न स्यात्’ ‘इति’ अनेनाभिप्रायेणेत्यर्थः ॥

केचित्त्वाग्रयणेष्टावधिकृतस्यानीजानस्य नवधान्येनाग्निहोत्रहोममभिदधते । अत एव सूत्रितं कात्यायनेन- “नवैः सायम्प्रातरग्निहोत्रहोमः"- इति 25 । आपस्तम्बेनाप्युक्तम्- “अपि वा नवानां यवानां सायम्प्रातर्जुहुयात्”- इति । तदत्र निराकरोति- नाग्निहोत्र इति । अग्निहोत्रकर्मणि नवं हविर्न जुहुयात् । ‘यद्’ यदि ‘जुहुयात्’, तदा इन्द्राग्न्यादीनामाग्रयणदेवतानामग्निहोत्रदेवगणैः सह ‘समदं’ कलहं ‘कुर्यात्’ । असमुच्चयहेतुभूतं पृथक्त्वं दर्शयति- अन्यद्वा इति । ‘आग्रयणम्’ आग्रयणाख्यं कर्म, अग्निहोत्रात् ‘अन्यत्’; ‘अग्निहोत्रं’ त्वाग्रयणात् ‘अन्यत्’; इति एतत्प्रकरणभेदात् नामधेयभेदाच्चावसितम् । शब्दान्तराभ्याससंख्यागुणप्रकरणनामधेयानि इह कर्मभेदे प्रमाणत्वेन जैमिनिनोपन्यस्तानि ॥ १४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥ (२-४-३) ॥

Eggeling
  1. Verily, there are two kinds of gods: for the gods themselves, assuredly, are gods; and those priests who have studied, and teach Vedic lore, are the human gods. And in like manner as that is offered whereon the Vashat has been pronounced, so is that (offering of first-fruits consecrated by the feeding of the priests). Let him also, at this (sacrifice), give as much as is in his power, for no offering, they say, should be without a dakshiṇā. At the Agnihotra (performed at the time of the Āgrayaṇeshṭi) let him not offer (milk obtained from the eating of new corn) 26; for were he to offer such at the Agnihotra, he would cause a conflict (between the deities of the two offerings). The Āgrayaṇa is one thing, and the Agnihotra is another: let him, therefore, not offer (new material) at the Agnihotra.

  1. कहोल Sây. ↩︎

  2. आग्रयणमैन्द्राग्नमग्रपाकस्य का. श्रौ. सू. ४ । १५६ । अग्रपाकशब्देन शरद्वसंतौ लक्ष्येते इति कर्कः । व्रीहीणां यवानां च । का. श्रौ. सू. ४ । १५७ । व्रीहिकाले व्रीहीणां यवकाले यवानां इति व्यवस्था । ↩︎

  3. 370:1 The Kāṇva text has: Tā etā ubhayyaḥ prajā anaśanena not parābabhūvuḥ. ↩︎

  4. 370:2 Viz. the plants, according to the reading of the Kāṇva text: Hantāsām oshadhīnāṁ kr̥tyāṁ tvad vishaṁ tvad apahanāmeti. ↩︎

  5. 370:3 The Kāṇva text reads kalpyam instead of kalpam. ↩︎

  6. ‘अस्मिन् हविषि निमित्ते सति’ इति पा. । ↩︎

  7. वैश्वदेवश्वरुः का. श्रौ. सू. ४ । १५८ । स च व्रीहिकाले व्रैहेयः । यवकाले यावः । स च पयसि कर्तव्य इत्याह विकल्पेन कात्यायनः ‘पयसि वा’ इति ४ । १५९ । पयःपक्षे प्राणीता धर्माः कार्या इति तत्रैव कर्कः । इदमेवाग्रयणं यद्यारण्येन क्रियते तदा सौम्यः श्यामाकश्चरुः कर्तव्य इत्याह सूत्रकारः ‘सौम्यः श्यामाकश्चरुरारण्यस्य’ इति । ४ । १७२ । स च कालनिर्देशात् शरद्येव भवतीति तत्र कर्कः । आरण्येनापि इदमाग्रयणं यदि ग्रीष्मर्तौ क्रियते तदा स च चरुर्वैणवः कर्तव्य इत्याह सूत्रकारः ‘वैणवो ग्रीष्मे’ ४ । १७३ । सो ऽपि सौम्य एव भवतीति तत्रैव कर्काशयः । तथा श्यामाकवैणवाग्रयणे च दक्षिणाभेदमप्याह सूत्रकारः ‘पुनः संस्कृतो रथो दक्षिणा क्षौमं मधुपर्को वर्षाधृतं वा वासः’ ४ । १७४ ॥ ↩︎ ↩︎ ↩︎

  8. 371:1 The MS. of the Kāṇva recension has: Tasmād esha aindrāgno daśakapālaḥ purolāśo bhavati. The commentary on Kāty. IV, 6, 1, on the other hand, makes it a cake on eleven potsherds. ↩︎

  9. 371:2 Or, he may do so. Kāty. IV, 6, 7 leaves the option between new and old grain. ↩︎

  10. द्यावापृथिवीय एककपालः । का. श्रौ. सू. ४ । १६० । अस्य वैश्वदेविकैककपालप्रकृतित्वम् । तेन सर्वहुतं । अपरिवर्तनं च प्राप्तम् । तदुभयमप्यनिष्टम् । अतः आज्यस्य वा यजेत- इत्यग्रिमसिद्धांतसूत्रेण द्यावापृथिवीययाग आज्येनैव- नैककपालेन वैश्वदेविकैककपालप्रकृतित्वात् । त्रेधा बर्हिः अहतवासः परिधानं चेहापि भवति । न नवप्रयाजादि ऐंद्राग्नवैश्वदेवविरोधात् । आज्येन यागे नाहतवासः परिधानादि भवति । पुरोडाशधर्मत्वेनाज्यधर्मत्वाभावात् । इति कर्काशयः । ↩︎ ↩︎

  11. 372:1 This is a ’low-voiced’ oblation, the invitatory and offering prayers thereat (with the exception of the concluding ‘Vaushaṭ’ and ‘Om’) being pronounced in a low tone. See p. 171, note 1; p. 192, note 1. ↩︎

  12. 372:2 The Kāṇva text has: ‘The reason why it consists of one kapāla is that this earth is a kapāla, and that she is one only.’ ↩︎

  13. 372:3 The Kāṇva recension has as follows:–As to this they say, ‘It should not be a one-cup cake, (because) therein a neglect is (involved).’ Even so (idaṁ nu): for whatever deity they take out sacrificial food, the Svishṭakr̥t is invariably made to share in it after (the respective deity). That (cake) they offer whole: this is consequently a neglect. Moreover, it turns round (paryābhavati). As to this they say, ‘That (cake) has turned upside down,’ &c. ↩︎

  14. व्यदी᳘त्वंन्ये B. यदीत्वन्ये B. ↩︎

  15. ‘हविषश्चोदितद्वारे’ इ. ‘हविषश्चोदनाधारे’ इ. च क्व. पा. । ↩︎

  16. ‘धान्यस्य काठिन्यपरोक्षत्वमिति’ क्व. पा. । ↩︎

  17. देवा᳘ । A. ↩︎

  18. तन्ना᳘हा᳘त्वो᳘वैत᳘स्य A. ↩︎

  19. अग्रियं Sây. ↩︎

  20. प्रथमजो गौर्दक्षिणा (का० श्रौ० सू० ४ । १६४) । प्रथमजः । प्रथमजन्मा । ↩︎

  21. दर्शपूर्णमासानीजानो दक्षिणाग्निपक्वं चातुष्प्राश्यं ब्राह्मणान् भोजयेत्किंचिद्दद्यात् (का. श्रौ. सू. ४ । १६६) आहिताग्निः सन् यावद्दर्शपैार्णमासौ न करोति । अथ चाग्रयणकालातिपत्तिर्भवति । तत्राग्रयणे विशेषो ऽयं कथ्यते । अस्य चातुष्प्राश्यकर्मण आग्रयणत्वात् पौर्णमास्यमावास्या वा कालः । इति कर्कः ↩︎

  22. 373:1 I do not know how to account for the vā. Sāyaṇa seems to take the passage thus:–‘If he be a Soma-sacrificer, or if he be performing the Darśapūrṇamāsa, [let him first perform that sacrifice, and] let him then perform the present one.’ The Oxford MS. of the Kāṇva text has:–Etat tasya karma ya ījāno vā syād darśapūrṇamāsābhyāṁ vā yajetātha yo ’nījāno ’nvāhāryapacana evaudanam cātushprāśyam pacet tam brāhmaṇebhya upanidadhyāt. ↩︎

  23. 373:2 See II, 1, 4, 4 seq. ↩︎

  24. व᳘षट्कृत᳘ᳫ᳘ A (the correct reading is व᳘षट्कृतᳫ). ↩︎

  25. अग्निहोत्रायणिनो नवैः सायम्प्रातरग्निहोत्रहोमः का. श्रौ. सू. ४ । १६७ । अग्निहोत्रायणिनः अग्निहोत्रेणैवाग्रयणं कर्तुमिच्छतः । अयं नवैः सायम्प्रातरग्निहोत्रहोमो नाग्रयणशब्दवाच्यः सायंप्रातर्ग्रहणादेव । अतश्च न यजनीयकालनियमः । यजनीयकालः पौर्णमास्यमावास्या वा इति कर्काशयः । ↩︎

  26. 374:1 Kāty. has the rules IV, 6, II: ‘In the case of one, who only performs the Agnihotra (and no longer the Darśapūrṇamāsa), the evening and morning Agnihotra-oblation (at the time of the Āgrayaṇa) is performed with new (corn).’ 12, ‘Or with the milk of (a cow) which has been fed with such (new corn).’ The Kāṇva text has: ‘Now at the Agnihotra also some offer (milk obtained from new corn), but let him not do so; for he would raise a quarrel were he to offer (such milk).’ ↩︎