०१
विश्वास-प्रस्तुतिः
प्रजा᳘पतिं वै᳘ भूतान्यु᳘पासीदन्॥
(न्प्र) प्रजा वै᳘ भूता᳘नि व्वि᳘ नो धेहि य᳘था जी᳘वामे᳘ति त᳘तो देवा᳘ यज्ञोपवीति᳘नो भूत्वा᳘ दक्षिणं जान्वाच्यो᳘पासीदंस्ता᳘नब्रवीद्यज्ञो वो᳘ ऽन्नममृतत्वं᳘ व ऽऊ᳘र्ग्वः सू᳘र्यो वो ज्यो᳘तिरिति॥
मूलम् - श्रीधरादि
प्रजा᳘पतिं वै᳘ भूतान्यु᳘पासीदन्॥
(न्प्र) प्रजा वै᳘ भूता᳘नि व्वि᳘ नो धेहि य᳘था जी᳘वामे᳘ति त᳘तो देवा᳘ यज्ञोपवीति᳘नो भूत्वा᳘ दक्षिणं जान्वाच्यो᳘पासीदंस्ता᳘नब्रवीद्यज्ञो वो᳘ ऽन्नममृतत्वं᳘ व ऽऊ᳘र्ग्वः सू᳘र्यो वो ज्यो᳘तिरिति॥
मूलम् - Weber
प्रजा᳘पतिं वै᳘ भूतान्यु᳘पासीदन्॥
प्रजा वै᳘ भूता᳘नि वि᳘ नो धेहि य᳘था जी᳘वामे᳘ति त᳘तो देवा᳘ यज्ञोपवीति᳘नो भूत्वा᳘ दक्षिणं जान्वाच्यो᳘पासीदंस्ता᳘नब्रवीद्यज्ञो वो᳘ ऽन्नममृतत्वं᳘ व ऊ᳘र्ग्वः सूर्यो वो ज्यो᳘तिरिति॥
मूलम् - विस्वरम्
अथ पिण्डपितृयज्ञः ।
प्रजापतिं वै भूतान्युपासीदन् । प्रजा वै भूतानि । ‘वि नो धेहि यथा जीवाम’ इति । ततो देवा यज्ञोपवीतिनो भूत्वा दक्षिणं जान्वाच्योपासीदन् । तानब्रवीत्- ‘यज्ञो वो ऽन्नम्, अमृतत्वं वः, ऊर्ग्वः, सूर्यो वो ज्योतिः’ इति ॥ १ ॥
सायणः
अथामावास्यायां पिण्डपितृयज्ञस्य 1 मासि मासि कर्त्तव्यतां विधित्सुस्तदर्थमाख्यायिकामाह- प्रजापतिं वा इति । भवन्ति सद्भावं प्रतिपद्यन्त इति ‘भूतानि’ । ‘प्रजाः’ देवपितृमनुष्याद्या वक्ष्यमाणाः । तासामभिप्रायमाह- वि न इति । ‘नः’ अस्मान् ‘विधेहि’ त्वमित्थं कुरु- त्वमित्थं कुरु इत्याज्ञापय । ‘यथा’ येन प्रकारेण वयं ‘जीवाम’ जीवनवन्तो भवेम ‘इति’ अनेनाभिप्रायेणेत्यर्थः ।
ततो देवा इत्यादि । प्रजापतेरुपासनहेतुत्वेनोपसदनसमये देवादिभिय्यद्यल्लिङ्गं धृतम्, तत्तल्लिङ्गानुसारेण तेषां देवादीनां यज्ञादिविशेषभाक्त्वं प्रजापतिर्जीवनहेतुत्वेनोपदिष्टवानिति प्रघट्टकार्थः । यज्ञो वो ऽन्नमिति । हे देवाः ! ‘वः’ युष्माकं ‘यज्ञः’ ‘अन्नम्,’ अतो युष्माकमेव ‘अमृतत्वम्’; ‘ऊर्क् बलं’ च ‘वः’ युष्माकमेव; ‘सूर्यः’ एव ‘वः’ युष्माकं ‘ज्योतिः’ ‘इति’ ।
एवं यज्ञोपवीतित्वादिलिङ्गयुक्तान् देवान् प्रेक्ष्य, यज्ञादिचतुष्टयं प्रजापतिः तेषां जीवनहेतुत्वेनोपदिष्टवान् ॥ १ ॥
Eggeling
- Now the living beings once approached Prajāpati–beings doubtless mean creatures–and said, ‘Ordain unto us in what manner we are to live!’ Thereupon the gods, being properly invested with the sacrificial cord 2 and bending the right knee, approached him. To them he said, ‘The sacrifice (shall be) your food; immortality your sap; and the sun your light!’
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनं पित᳘रः॥
प्राचीनावीति᳘नः सव्यं जान्वाच्यो᳘पासीदंस्ता᳘नब्रवीन्मासि᳘ मासि वो᳘ ऽशनᳫं स्वधा᳘ वो मनोजवो᳘ वश्चन्द्र᳘मा वो ज्यो᳘तिरि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनं पित᳘रः॥
प्राचीनावीति᳘नः सव्यं जान्वाच्यो᳘पासीदंस्ता᳘नब्रवीन्मासि᳘ मासि वो᳘ ऽशनᳫं स्वधा᳘ वो मनोजवो᳘ वश्चन्द्र᳘मा वो ज्यो᳘तिरि᳘ति॥
मूलम् - Weber
अ᳘थैनम् पित᳘रः॥
प्राचीनावीति᳘नः सव्यं जान्वाच्यो᳘पासीदंस्ता᳘नब्रवीन्मासि᳘मासि वो᳘ ऽशनᳫं स्वधा᳘ वो मनोजवी᳘वश्चन्द्र᳘मा वो ज्यो᳘तिरि᳘ति॥
मूलम् - विस्वरम्
अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीदन् । तानब्रवीत्- ‘मासि-मासि वो ऽशनम्, स्वधा वः, मनोजवो वः, चन्द्रमा वो ज्योतिः’ इति ॥ २ ॥
सायणः
अथैनं पितर इत्यादि । अत्राप्येवं योज्यम् । मासि मासीति । प्रतिमासं दर्शे ऽनुष्ठीयमानं यत् पिण्डपितृयज्ञाख्यं हविः, तद् ‘वः’ युष्माकम् ‘अशनम्’; ‘स्वधा’-कारो ऽपि ‘वः’ युष्माकमसाधारणम्; मनस इव जवः ‘मनोजवः’ सो ऽपि युष्माकमेव । सोमलोकवर्त्तिनां युष्माकं ‘चन्द्रमाः’ एव ज्योतिः भवत्विति ॥ २ ॥
Eggeling
- Then the fathers approached, wearing the cord on the right shoulder, and bending the left knee. To them he said, ‘Your eating (shall be) monthly; your cordial (svadhā) your swiftness of thought; and the moon your light!’
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनं मनु᳘ष्याः॥
प्रा᳘वृता उ᳘प᳘स्थं कृत्वो᳘पासीदंस्ता᳘नब्रवीत्सायं᳘ प्रातर्वो᳘ ऽशनं प्रजा᳘ वो मृत्यु᳘र्वो ऽग्नि᳘र्वो ज्यो᳘तिरि᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनं मनु᳘ष्याः॥
प्रा᳘वृता उ᳘प᳘स्थं कृत्वो᳘पासीदंस्ता᳘नब्रवीत्सायं᳘ प्रातर्वो᳘ ऽशनं प्रजा᳘ वो मृत्यु᳘र्वो ऽग्नि᳘र्वो ज्यो᳘तिरि᳘ति॥
मूलम् - Weber
अ᳘थैनम् मनुॗष्याः॥
प्रा᳘वृता उप᳘स्थं कृत्वो᳘पासीदंस्ता᳘नब्रवीत्साय᳘म् प्रातर्वो᳘ ऽशनम् प्रजा᳘ वो मृत्यु᳘र्वो ऽग्नि᳘र्वो ज्यो᳘तिरिति॥
मूलम् - विस्वरम्
अथैनं मनुष्याः प्रावृता उपस्थं कृत्वोपासीदन् । तानब्रवीत्- ‘सायंप्रातर्वो ऽशनम् । प्रजा वः, मृत्युर्वः, अग्निर्वो ज्योतिः’ इति ॥ ३ ॥
सायणः
अथैनं मनुष्या इत्यादि । प्रावृताः उत्तरवाससा संवृताः कण्ठलम्बितवाससः 3, निवीतिन इत्यर्थः । अत एव तैत्तिरीयकम्- “निवीतं मनुष्याणाम्, प्राचीनावीतं पितृणाम्, उपवीतं देवानाम्” (तै. सं. २ । ५ । ११ । १) इति । उपस्थं कृत्वेति । यतः प्रजापतेरुपसदनसमये मनुष्यैरुपस्थप्रावरणमनुष्ठितम्, अत एवेदानीं भुक्त्यादिसमये उपस्थप्रावरणेनोपसीदन्ति । प्रजा व इति । प्रजायन्त इति ‘प्रजाः’ पुत्रपौत्रादिरूपाः । “उपसर्गे च संज्ञायाम्”- (पा. सू. ३ । २ । ९९) इति डप्रत्ययः । मृत्युर्व इति । देहारम्भकर्म्मोपजनितं मरणं ‘वः’ युष्माकमसाधारणो धर्म इत्यर्थः ॥ ३ ॥
Eggeling
- Then the men approached him, clothed and bending their bodies. To them he said, ‘Your eating (shall be) in the evening and in the morning; your offspring your death; and the fire (Agni) your light!’
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थैनं पश᳘व उ᳘पासीदन्॥
(दंस्ते᳘) ते᳘भ्यः स्वैषमेव᳘ चकार य᳘दैव᳘ यूयं᳘ कदा᳘ च ल᳘भाध्वै य᳘दि काले यद्य᳘नाकाले᳘ ऽथै᳘वाश्नाथे᳘ति त᳘स्मादेते᳘ यदैव᳘ कदा᳘ च ल᳘भन्ते यदि काले᳘ यद्य᳘नाकाले᳘ ऽथै᳘वाश्नन्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थैनं पश᳘व उ᳘पासीदन्॥
(दंस्ते᳘) ते᳘भ्यः स्वैषमेव᳘ चकार य᳘दैव᳘ यूयं᳘ कदा᳘ च ल᳘भाध्वै य᳘दि काले यद्य᳘नाकाले᳘ ऽथै᳘वाश्नाथे᳘ति त᳘स्मादेते᳘ यदैव᳘ कदा᳘ च ल᳘भन्ते यदि काले᳘ यद्य᳘नाकाले᳘ ऽथै᳘वाश्नन्ति॥
मूलम् - Weber
अ᳘थैनम् पश᳘व उ᳘पासीदन्॥
ते᳘भ्यः स्वैष᳘मेव᳘ चकार य᳘दैव᳘ यूयं᳘ कदा᳘ च लभाध्वै य᳘दि काले यद्य᳘नाकाले᳘ ऽथैॗवाश्नाथे᳘ति त᳘स्मादेते᳘ यॗदैव कदा᳘ च ल᳘भन्ते य᳘दि काले यद्य᳘नाकाले᳘ ऽथैॗवाश्नन्ति 4 ॥
मूलम् - विस्वरम्
अथैनं पशव उपासीदन् । तेभ्यः स्वैषमेव चकार- ‘यदैव यूयं कदा च लभाध्वै- यदि काले, यद्यनाकाले- अथैवाश्नाथ’ इति । तस्मादेते यदैव कदा च लभन्ते- यदि काले, यद्यनाकाले- अथैवाश्नन्ति ॥ ४ ॥
सायणः
गवादिपशूनामपि प्रजापत्युपसदनं, तत्कृतजीवनक्षयजनितं मरणं तदशनकॢप्तिञ्चाह- अथैनं पशव इत्यादिना । स्वैषमेवेति । यथा देवपितृमनुष्याणां यज्ञादिरूपां तत्कॢप्तिं चकार, तथैव गवादिपशूनामपि तदुचिताहारकॢप्तिं कृतवानित्यर्थः । तत्प्रकारं दर्शयति-यदैवेति । गवाद्याः पशवो यूयं ‘यदा कदा च’ काले अकाले वा तृणादिरूपमाहारजातं ‘लभाध्वै’, ‘अथ’ अनन्तरमेव तत् लब्धं तृणाद्याहारजातम् ‘अश्नाथ’ । ‘इति’- शब्दः प्रजापतिवाक्यपरिसमाप्तौ । तस्मादेत इत्यादि । यस्मादेवं प्रजापतेः सकाशात् लब्धवराः, ‘तस्मात्’ ‘एते’ गवाद्याः पशवः तृणाद्याहारं ‘यदा एव कदा च लभन्ते’, ‘काले’ वा ‘अकाले’ वा, ‘अथ’ अनन्तरमेव तद् भक्षयन्ति; न त्वस्मदादिवत् सायम्प्रातरादिकालविशेषमपेक्षन्त इत्यर्थः ॥ ४ ॥
Eggeling
- Then the beasts approached him. To them he granted their own choice, saying, ‘Whensoever ye shall find anything, whether in season or out of season,
ye shall eat it!’ Hence whenever they find anything, whether in season or out of season, they eat it.
०५
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ हैनᳫँ᳭ श᳘श्वदप्य᳘सुरा ऽउ᳘पसेदुरि᳘त्याहुः॥
(स्ते᳘) ते᳘भ्यस्त᳘मश्च मायां᳘ च प्र᳘ददावस्त्य᳘है᳘वासुरमाये᳘तीव प᳘राभूता ह᳘ त्वेव ताः᳘ प्रजास्ता᳘ इमाः᳘ प्रजास्त᳘थैवो᳘पजीवन्ति य᳘थै᳘वाभ्यः प्रजा᳘पतिर्व्य᳘दधा᳘त्॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ हैनᳫँ᳭ श᳘श्वदप्य᳘सुरा ऽउ᳘पसेदुरि᳘त्याहुः॥
(स्ते᳘) ते᳘भ्यस्त᳘मश्च मायां᳘ च प्र᳘ददावस्त्य᳘है᳘वासुरमाये᳘तीव प᳘राभूता ह᳘ त्वेव ताः᳘ प्रजास्ता᳘ इमाः᳘ प्रजास्त᳘थैवो᳘पजीवन्ति य᳘थै᳘वाभ्यः प्रजा᳘पतिर्व्य᳘दधा᳘त्॥
मूलम् - Weber
अ᳘थ हैनं श᳘श्वदप्य᳘सुरा उ᳘पसेदुरि᳘त्याहुः॥
ते᳘भ्यस्त᳘मश्च मायां᳘ च प्र᳘ददावस्त्य᳘हैॗवासुरमाये᳘तीव प᳘राभूता हॗ त्वेव ताः᳘ प्रजास्ता᳘ इमाः᳘ प्रजास्त᳘थैवो᳘पजीवन्ति य᳘थैवाभ्यः प्रजा᳘पतिर्व्य᳘दधात्॥
मूलम् - विस्वरम्
अथ हैनं शश्वदप्यसुरा उपसेदुरित्याहुः । तेभ्यः तमश्च, मायां च प्रददौ । अस्त्यहैवासुरमायेतीव पराभूता ह त्वेव ताः प्रजाः । ता इमाः प्रजास्तथैवोपजीवन्ति- यथैवाभ्यः प्रजापतिर्व्यदधात् ॥ ५ ॥
सायणः
अथासुरकृतं प्रजापतावुपसदनं परोक्षेण निर्द्दिशति- अथ हैनमिति । ‘शश्वद्’ बहुकृत्वः ‘असुरा अपि’ ‘उपसेदुः’ उपसदनञ्चक्रुरित्यभिज्ञाः कथयन्ति । एवं देवपितृमनुष्यादीनामुपसदनमिव असुरकृतमुपसदनं जिज्ञासिष्यन्नाह- तेभ्यस्तमश्च मायाञ्चेति । परेषां दृष्ट्याच्छादकं 5 तमः, अघटनघटनशक्तिर्माया 6 । तदुभयं यस्मात् प्रजापतिरसुरेभ्यो दत्तवान्, तस्मात् इदानीमपि ‘असुरमाया’ असुरस्य स्वभूता मायेत्यस्ति व्यवहारः । अत एव ते मायाविन इत्याख्यायन्ते । पराभूता ह त्वेवेति । ‘ताः’ असुर्याः ‘प्रजाः’ देवादिवदन्नादीनां जीवनहेतूनां प्रजापतिसकाशादलाभात् केवलं तमोमायाभ्यां ग्रस्ताः सत्यः पराभवं प्राप्ता इत्यर्थः । इत्थं प्रजापतिना देवादिभ्यः कल्पितां वृत्तिं प्रदर्श्य, तदनतिक्रमेण तेषां जीवनं प्रतिपादयति- ता इमा इति । प्रजायन्त इति ‘प्रजाः’ प्रागनुक्रान्ताः ‘इमाः’ देवपितृमनुष्याद्याः, ‘यथा’ येन प्रकारेण “यज्ञो वो ऽन्नम्” इत्यादिना वृत्तिं प्रजापतिः कल्पितवान्, ‘तथैव’ व्यवस्थितां वृत्तिं नियमेन देवाद्या उपजीवन्ति ॥ ५ ॥
Eggeling
- Thereupon–so they say–the Asuras also straightway 7 approached him. To them he gave darkness (tamas) and illusion (māyā): for there is indeed what is called the illusion of the Asuras. Those creatures, it is true, have perished; but creatures still subsist here in the very manner which Prajāpati ordained unto them.
०६
विश्वास-प्रस्तुतिः
(न्नै) नैव᳘ देवा᳘ ऽअतिक्रा᳘मन्ति॥
न᳘ पित᳘रो न᳘ पश᳘वो मनु᳘ष्या ऽएवैके ऽतिक्रामन्ति त᳘स्माद्यो᳘ मनु᳘ष्याणां मे᳘द्यत्य᳘शुभे मेद्यति विहूर्च्छति हि न ह्य᳘यनाय चन भ᳘वत्य᳘नृतᳫँ᳭ हि᳘ कृत्वा मे᳘द्यति त᳘स्मादु सायंप्रातरा᳘श्येव᳘ स्यात्स यो᳘ हैवं᳘ विद्वा᳘न्त्सायंप्रातराशी भ᳘वति स᳘र्वᳫँ᳭ हैवा᳘युरेति य᳘दु ह किं᳘च व्वाचा᳘ व्याह᳘रति त᳘दु हैव᳘ भवत्येतद्धि᳘ देवसत्यं᳘ गोपाय᳘ति त᳘द्धैतत्तेजो ना᳘म ब्रा᳘ह्मणं य᳘ एत᳘स्य व्रत᳘ᳫँ᳭ शक्नोति च᳘रितुम्॥
मूलम् - श्रीधरादि
(न्नै) नैव᳘ देवा᳘ ऽअतिक्रा᳘मन्ति॥
न᳘ पित᳘रो न᳘ पश᳘वो मनु᳘ष्या ऽएवैके ऽतिक्रामन्ति त᳘स्माद्यो᳘ मनु᳘ष्याणां मे᳘द्यत्य᳘शुभे मेद्यति विहूर्च्छति हि न ह्य᳘यनाय चन भ᳘वत्य᳘नृतᳫँ᳭ हि᳘ कृत्वा मे᳘द्यति त᳘स्मादु सायंप्रातरा᳘श्येव᳘ स्यात्स यो᳘ हैवं᳘ विद्वा᳘न्त्सायंप्रातराशी भ᳘वति स᳘र्वᳫँ᳭ हैवा᳘युरेति य᳘दु ह किं᳘च व्वाचा᳘ व्याह᳘रति त᳘दु हैव᳘ भवत्येतद्धि᳘ देवसत्यं᳘ गोपाय᳘ति त᳘द्धैतत्तेजो ना᳘म ब्रा᳘ह्मणं य᳘ एत᳘स्य व्रत᳘ᳫँ᳭ शक्नोति च᳘रितुम्॥
मूलम् - Weber
नैव᳘ देवा᳘ अतिक्रा᳘मन्ति॥
न᳘ पित᳘रो न᳘ पश᳘वो मनुष्या एवैके ऽतिक्रामन्ति त᳘स्माद्यो᳘ मनुॗष्याणाम् मे᳘द्यत्य᳘शुभे मेद्यति विहू᳘र्छति हि न ह्य᳘यनाय चन भ᳘वत्य᳘नृतᳫं हि᳘ कृत्वा मे᳘द्यति त᳘स्मादु सायम्प्रातराश्येव᳘ स्यात्स यो᳘ हैवं᳘ विद्वा᳘न्त्सायम्प्रातराशी भ᳘वति स᳘र्वᳫं हैवा᳘युरेति य᳘दु ह किं᳘ च वाचा᳘ व्याह᳘रति त᳘दु हैव᳘ भवत्येतद्धि᳘ देवसत्यं᳘ गोपाय᳘ति तद्धैतत्ते᳘जो ना᳘म ब्रा᳘ह्मणं य᳘ एत᳘स्य व्रतं᳘ शक्नो᳘ति च᳘रितुम्॥
मूलम् - विस्वरम्
नैव देवा अतिक्रामन्ति, न पितरो, न पशवः, मनुष्या एवैके ऽतिक्रामन्ति । तस्माद्यो मनुष्याणां मेद्यति- अशुभे मेद्यति विहूर्च्छति हि न हि अयनाय चन भवति । अनृतं हि कृत्वा मेद्यति । तस्मादु सायंप्रातराश्येव स्यात् । स यो हैवं विद्वान् सायंप्रातराशी भवति- सर्वं हैवायुरेति । यदु ह किञ्च वाचा व्याहरति- तदु हैव भवति । एतद्धि देवसत्यं गोपायति । तद्धैतत् । तेजो नाम ब्राह्मणम्- य एतस्य व्रतं शक्नोति चरितुम् ॥ ६ ॥
सायणः
नैव देवा इति । न तु ते प्रजापतेराज्ञामतिक्रामन्ति। अथ मनुष्याणामशने नियमं विधित्सुरनियमप्रसक्तिं दर्शयितुं प्रजापतिक्लृप्तेरतिक्रममुपन्यस्यति- मनुष्या ऐवेति । ‘एके’ च नाम ‘मनुष्याः’ अज्ञानवशात् प्रजापतिना कल्पितां प्रागुदाहृतां वृत्तिम् ‘अतिक्रामन्ति’ यस्मादेवं ‘तस्मात्’ मनुष्याणां मध्ये ‘यः’ ‘मेद्यति’, स्निह्यति पुष्यतीति यावत् । “ञिमिदा स्नेहने”- (धा. पा. भ्वा. आ. ७४४) इति धातुः । स च मेद्यन्मनुष्यो ऽदनादिजनितमदवशेन 8 ‘अशुभे’ नरकपाताद्यनर्थहेतुभूते पापे ‘मेद्यति’ स्निह्यति, तात्पर्येण वर्त्तते । तस्मात् पापात् सः ‘विहूर्च्छति’ अधः पतति । ‘हुर्च्छा कौटिल्ये’- (धा. पा. भ्वा. प. २११) इति धातुः । अयनाय चनेति । ‘चन’- शब्दो ऽप्यर्थे । ‘अयनाय’ पुण्यलोकगमनायापि ‘न हि भवति’ । कुत इत्यत आह- अनृतं हीति । यस्मात् ‘अनृतम्’ असत्यम्, प्रतिषिद्धं ‘कृत्वा’ ‘मेद्यति’ प्रमत्तो 9 भवति । इत्थं प्रजापत्याज्ञातिक्रमेणानियमदर्शनात् मनुष्येषु नियमापेक्षा विद्यत इति तात्पर्यार्थः । औपोद्धातिकं नियमविधिं दर्शयति- तस्मादिति । सायम्प्रातरशितुं शीलमस्येति ‘सायम्प्रातराशी’ “सुप्यजातौ णिनिस्ताच्छील्ये”- (पा. सू. ३ । २ । ७८) इति णिनिः । ‘एव’-कारेण अन्तरा भोजनं निवार्यते । विहितमनूद्य प्रशंसति- स यो हैवमिति । यदु ह किञ्चेति । उक्तभोजनकालनियमवान् यदपि किञ्चिद् ‘वाचं’ ‘व्याहरति’ भाषते, तथैव यथार्थं भवति । ‘हि’ यस्माद्, असौ ‘एतत्’ ‘देवसत्यं’ देवेन प्रजापतिना कल्पितं सत्यं ‘गोपायति’ रक्षति । “गुपू रक्षणे”- (धा. पा. भ्वा ३९५) इति धातुः । “गुपूधूपविच्छि”- (पा. सू. ३ । १ । २८) इत्यायप्रत्ययः । ‘तद्ध’ तदेव सत्यं ‘तेजो नाम’ ‘तेजः’- शब्दवाच्यतया प्रसिद्धं ‘ब्राह्मणम्’ ब्राह्मणसम्बन्धि रूपम् । कः पुनरसावीदृग्विधं देवसत्यं गोपायतीति तमाह- य एतस्येति । ‘एतस्य’ प्रजापतेरुच्चरितरूपं ‘व्रतं’ ‘चरितुं’ ‘यः’ यजमानः ‘शक्नोति,’ स देवसत्यं गोपायतीति सम्बन्धः ॥ ६ ॥
Eggeling
- Neither the gods, nor the fathers, nor beasts transgress (this ordinance); some of the men alone transgress it. Hence whatever man grows fat; he grows fat in unrighteousness, since he totters and is unable to walk because of his having grown fat by doing wrong. One should therefore eat only in the evening and morning; and whosoever, knowing this, eats only in the evening and morning, reaches the full measure of life; and whatever he speaks, that is (true); because he observes that divine truth. For, verily, that is Brāhmanic lustre (tejas), when one knows to keep His (Prajāpati’s) law.
०७
विश्वास-प्रस्तुतिः
तद्वा᳘ ऽएत᳘त्॥
(न्मा) मासि᳘ मास्येव᳘ पितृ᳘भ्यो द᳘दतो य᳘दैवैष न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे᳘ ऽथैभ्यो ददात्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स᳘ एताᳫँ᳭ रा᳘त्रिं क्षीयते त᳘स्मिन्क्षीणे᳘ ददाति त᳘थैभ्यो᳘ ऽसमदं करोत्य᳘थ यद᳘क्षीणे दद्या᳘त्सम᳘दᳫँ᳭ ह कुर्याद्देवे᳘भ्यश्च पितृ᳘भ्यश्च त᳘स्माद्य᳘दै᳘वैष न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे᳘ ऽथैभ्यो ददाति॥
मूलम् - श्रीधरादि
तद्वा᳘ ऽएत᳘त्॥
(न्मा) मासि᳘ मास्येव᳘ पितृ᳘भ्यो द᳘दतो य᳘दैवैष न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे᳘ ऽथैभ्यो ददात्येष वै सो᳘मो रा᳘जा देवा᳘नाम᳘न्नं य᳘च्चन्द्र᳘माः स᳘ एताᳫँ᳭ रा᳘त्रिं क्षीयते त᳘स्मिन्क्षीणे᳘ ददाति त᳘थैभ्यो᳘ ऽसमदं करोत्य᳘थ यद᳘क्षीणे दद्या᳘त्सम᳘दᳫँ᳭ ह कुर्याद्देवे᳘भ्यश्च पितृ᳘भ्यश्च त᳘स्माद्य᳘दै᳘वैष न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे᳘ ऽथैभ्यो ददाति॥
मूलम् - Weber
तद्वा᳘ एत᳘त्॥
मासि᳘ मास्येव᳘ पितृ᳘भ्यो द᳘दतो यॗदैॗवैष न पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे ऽथैभ्यो ददात्येष वै सो᳘मो रा᳘जा देवा᳘नामन्नं᳘ य᳘च्चन्द्र᳘माः स᳘ एतां रा᳘त्रिं क्षीयते त᳘स्मिन्क्षीणे᳘ ददाति त᳘थैभ्यो᳘ समदं करोत्य᳘थ यद᳘क्षीणे दद्या᳘त्सम᳘दᳫं ह कुर्याद्देवे᳘भ्यश्च पितृ᳘भ्यश्च त᳘स्माद्यॗदैॗवैष न᳘ पुर᳘स्तान्न᳘ पश्चा᳘द्ददृशे᳘ ऽथैभ्यो ददाति॥
मूलम् - विस्वरम्
तद्वा एतन्मासि मास्येव पितृभ्यो ददतो- यदैवैष न पुरस्तात् न पश्चात् ददृशे- अथैभ्यो ददाति । एष वै सोमो राजा देवानामन्नं- यच्चन्द्रमाः- स एतां रात्रिं क्षीयते । तस्मिन्क्षीणे ददाति । तथैभ्यो ऽसमदं करोति । अथ यदक्षीणे दद्यात्- समदं ह कुर्याद्, देवेभ्यश्च पितृभ्यश्च । तस्माद्यदैवैष न पुरस्तात् न पश्चाद् ददृशे ऽथैभ्यो ददाति ॥ ७॥
सायणः
इत्थं पिण्डपितृयज्ञस्य मासि मासि कर्त्तव्यतां “मासि मासि वो ऽशनं स्वधा वः”- (श. प. २ का० १ ब्रा० २ कं.) इत्यादिना प्रजापतिवाक्येन प्रतिपाद्येदानीं तं विधत्ते- तद्वा एतदिति । ‘मासि मासि’ प्रतिमासम् “नित्यवीप्सयोः”- (पा० सू० ८ । १ । ४) इति द्विर्वचनम् । जीवतां हि मनुष्याणां सायम्प्रातरशनं विहितम्, मरणादूर्ध्वं वस्वादिरूपेभ्यः 10 पितृभावं 11 प्राप्तेभ्यस्तेभ्यो मासि मास्येव पितृयज्ञरूपमशनं दातव्यमित्यभिप्रायः । स च पितृयज्ञो ऽमावास्यायामेव कर्त्तव्यो नान्यस्यां तिथाविति प्रतिपादयति- यदैवैष इति । ‘यदा’ यस्मिन्नेव काले ‘एषः’ चन्द्रः ‘न’ ‘पुरस्तात्’ पूर्वस्यां दिशि, ‘पश्चात्’ पश्चिमायामपि ‘न’ ‘ददृशे’ दृश्यते ‘अथ’ अनन्तरमेव ‘एभ्यः’ पितृभ्यः पिण्डान् दद्यात् । पुरस्तात् पश्चात् न ददृशे, इत्येतदुपपादयति- एष वा इति । ‘यत्’ यः ‘चन्द्रमाः’ नभसि दृश्यते, ‘एषः’ खलु ‘राजा’ राजमानः ‘सोमः’ ‘देवानामन्नम्’ इति; “यमादित्या अँशुमाप्याययन्ति"- (तै० सं० २ । ४ । १४ । २ ।) इति मन्त्रवर्णात् । ‘सः’ (वरुणः) ‘एताम्’ अमावास्यादिवससम्बन्धिनीं ‘रात्रिं’ प्राप्य ‘क्षीयते’ क्षीणो भवति । तस्मिन् क्षीणे सति यः पितृभ्यो हविर्दद्यात्, तथा च सति एभ्यः पितृभ्यो देवैः साकम् ‘असमदं’ कलहं न ‘करोति’ ‘अथ’ ‘यद्’ यदि ‘अक्षीणे’ दृश्यमाने तस्मिन् सोमे चतुर्दश्यां प्रतिपदि वा पितृभ्यो हविर्दद्यात् तदा देवेभ्यः पितृभ्यश्च कलहं कुर्यात्; सोमस्य देवानामन्नत्वेन भोक्तुं देवैरपि सन्निधानात् दीयमानहविर्विषयः कलहो भवेदित्यर्थः । तस्मादिति, निगमनम् ॥ ७ ॥
Eggeling
- Now that (lustre) indeed belongs to him who presents (food) to the fathers once a month. When that (moon) is not seen either in the east or in the west, then he presents (food) to them; for that moon doubtless is king Soma, the food of the gods. Now during that night (of new moon) it fails them, and when it fails, he presents (food to them), and thereby establishes concord (between the gods and fathers). But were he to present (food) to them when it is not failing, he would indeed cause a quarrel between the gods and fathers: hence he presents
(food) to them when that (moon) is not seen either in the east or in the west.
०८
विश्वास-प्रस्तुतिः
स वा᳘ ऽअपराह्णे ददाति॥
पूर्वाह्णो वै᳘ देवा᳘नां मध्य᳘न्दिनो मनु᳘ष्याणामपराह्णः᳘ पितॄणां त᳘स्मादपराह्णे ददाति॥
मूलम् - श्रीधरादि
स वा᳘ ऽअपराह्णे ददाति॥
पूर्वाह्णो वै᳘ देवा᳘नां मध्य᳘न्दिनो मनु᳘ष्याणामपराह्णः᳘ पितॄणां त᳘स्मादपराह्णे ददाति॥
मूलम् - Weber
स वा᳘ अपराह्णे᳘ ददाति॥
पूर्वाह्णो वै᳘ देवा᳘नाम् मध्य᳘न्दिनो मनुॗष्याणामपराह्णः᳘ पितॄणां त᳘स्मादपराह्णे᳘ ददाति॥
मूलम् - विस्वरम्
स वा अपराह्णे ददाति । पूर्वाह्णो वै देवानाम्, मध्यन्दिनो मनुष्याणाम्, अपराह्णः पितॄणाम् । तस्मादपराह्णे ददाति ॥ ८ ॥
सायणः
अपराह्णकालं विधायोपपादयति- स वा इति । अह्नः पञ्चधा विभक्तस्य चतुर्थो भागो ऽपराह्णः, तस्मिन् पिण्डपितृयज्ञो ऽनुष्ठेयः । अत एव सूत्र्यते कात्यायनेन- “अपराह्णे पिण्डपितृयज्ञः, चन्द्रादर्शने ऽमावास्यायामिति 10 ॥ ८ ॥
Eggeling
- He presents it in the afternoon. The forenoon, doubtless, belongs to the gods; the mid-day to men; and the afternoon to the fathers: therefore he presents (food to the fathers) in the afternoon.
०९
विश्वास-प्रस्तुतिः
स᳘ जघ᳘नेन गा᳘र्हपत्यं॥
प्राचीनावीती᳘ भूत्वा᳘ दक्षिणा᳘सीन ऽएतं᳘ गृह्णा᳘ति स त᳘त ए᳘वोपोत्थायो᳘त्तरेणान्वाहार्यप᳘चनं दक्षिणा ति᳘ष्ठन्न᳘वहन्ति सकृ᳘त्फली᳘करोति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृ᳘त्फली᳘करोति॥
मूलम् - श्रीधरादि
स᳘ जघ᳘नेन गा᳘र्हपत्यं॥
प्राचीनावीती᳘ भूत्वा᳘ दक्षिणा᳘सीन ऽएतं᳘ गृह्णा᳘ति स त᳘त ए᳘वोपोत्थायो᳘त्तरेणान्वाहार्यप᳘चनं दक्षिणा ति᳘ष्ठन्न᳘वहन्ति सकृ᳘त्फली᳘करोति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृ᳘त्फली᳘करोति॥
मूलम् - Weber
स᳘ जघ᳘नेन गा᳘र्हपत्यम्॥
प्राचीनावीती᳘ भूत्वा᳘ दक्षिणा᳘सीन एतं᳘ ग्रृह्णाति स त᳘त एॗवोपोत्थायो᳘त्तरेणान्वाहार्यप᳘चनं दक्षिणा ति᳘ष्ठन्न᳘वहन्ति सकृ᳘त्फली᳘क᳘रोति सकृ᳘दुॗ ह्येव पराञ्चः पित᳘रस्त᳘स्मात्सकृ᳘त्फली᳘करोति॥
मूलम् - विस्वरम्
स जघनेन गार्हपत्यं प्राचीनावीती भूत्वा दक्षिणासीन एतं गृह्णाति । स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति । सकृत्फलीकरोति । सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति ॥ ९ ॥
सायणः
तत्र हविर्ग्रहणप्रकारमाह- स जघनेन गार्हपत्यमिति । गार्हपत्यस्य पश्चिमदेशे व्रीहिपूर्णस्य निर्वापार्थस्य शकटस्य दक्षिणतः आसीनः प्राचीनावीती एवं 12 पितृयज्ञार्थं हविर्गृह्णीयात् । मन्त्रस्याविहितत्वात् तूष्णीमेवैतद् ग्रहणम् । अत एव सूत्रितञ्च- “अपरेण गार्हपत्यं चरुमपूर्णं स्रुवं स्रुचं वा तूष्णीं गृहीत्वा”- इति 13 । चर्वर्थं गृहीतानां व्रीहीणामवहननं 14 विधाय प्रशंसति- स तत एवेत्यादिना । ‘ततः’ तस्मात् हविर्ग्रहणस्थानात् । उत्तरेणेति । दक्षिणाग्नेरदूरेण उत्तरत इत्यर्थः । “एनबन्यतरस्याम्-” (पा. सू. १ । ३ । ३५) इत्येनप् । “एनपा द्वितीया”- (पा. सू. २ । ३ । ३१) इति द्वितीया । दक्षिणा तिष्ठन्निति । दक्षिणतस्तिष्ठन् “दक्षिणादाच्”- (पा. सू. ५ । ३ । ३६) इति आच् प्रत्ययः ।
ऐष्टिकहविष इव फलीकरणस्य त्रित्वं प्रसक्तमपवदितुं सकृत्त्वं विधत्ते 15- सकृदिति । एकवारमेव फलीकुर्यात्, न तु त्रिः । तत्र हेतुमाह- सकृदु ह्येवेति । ‘हि’ यस्मादु ‘सकृत्’ एकवारमेव ‘पराञ्चः’ पराञ्चो गताः प्रेताः ‘पितरः’ अभवन्, न तेषां पुनरावृत्तिरस्ति, अतस्तेषां सकृत्त्वमसाधारणो धर्मः ॥ ९ ॥
Eggeling
- While seated behind the Gārhapatya, with his face turned toward the south 16, and the sacrificial cord on his right shoulder, he takes that (material for the offering from the cart) 17. Thereupon he rises from thence and threshes (the rice) while standing north of the Dakshiṇa fire and facing the south. Only once he cleans (the rice) 18; for it is once for all that the fathers have passed away, and therefore he cleans it only once.
१०
विश्वास-प्रस्तुतिः
त᳘ᳫं᳭ श्रपयति॥
त᳘स्मिन्न᳘धिश्रित ऽआ᳘ज्यं प्रत्या᳘नयत्यग्नौ᳘ वै᳘ देवे᳘भ्यो जु᳘ह्वत्युद्धरन्ति मनु᳘ष्येभ्यो᳘ ऽथैव᳘ पितॄणां त᳘स्माद᳘धिश्रित ऽआ᳘ज्यं प्रत्या᳘नयति॥
मूलम् - श्रीधरादि
त᳘ᳫं᳭ श्रपयति॥
त᳘स्मिन्न᳘धिश्रित ऽआ᳘ज्यं प्रत्या᳘नयत्यग्नौ᳘ वै᳘ देवे᳘भ्यो जु᳘ह्वत्युद्धरन्ति मनु᳘ष्येभ्यो᳘ ऽथैव᳘ पितॄणां त᳘स्माद᳘धिश्रित ऽआ᳘ज्यं प्रत्या᳘नयति॥
मूलम् - Weber
तं᳘ श्रपयति॥
त᳘स्मिन्न᳘धिश्रित आ᳘ज्यम् प्र᳘त्या᳘नयत्यग्नौ वै᳘ देवे᳘भ्यो जु᳘ह्वत्यु᳘द्धरन्ति मनुॗष्येभ्यो᳘ ऽथैव᳘ पितॄणां त᳘स्माद᳘धिश्रित आ᳘ज्यम् प्रत्या᳘नयति॥
मूलम् - विस्वरम्
तं श्रपयति- तस्मिन्नधिश्रित आज्यं प्रत्यानयति । अग्नौ वै देवेभ्यो जुह्वति, उद्धरन्ति मनुष्येभ्यः, अथैव पितॄणाम् । तस्मादधिश्रित आज्यं प्रत्यानयति ॥ १० ॥
सायणः
श्रपणं विधत्ते 12- तमिति । सकृत्फलीकृतांस्तण्डुलान् स्थाल्यां प्रक्षिप्य, तं चरुं दक्षिणाग्नौ श्रपयेदित्यर्थः । उद्वासनात् प्रागेव तस्मिंश्चरौ अभिधारणं विधत्ते- तस्मिन्निति । ‘अधिश्रिते’ अग्नेरुपरि स्थापिते ‘तस्मिन्’ चरौ पक्वे सति ‘आज्यं’ ‘प्रत्यानयति’ प्रतिक्षिपति । तदेतदुपपादयति- अग्नौ वा इति । देवार्थं यदाज्यम्, तत् ‘अग्नौ’ ‘जुह्वति’ यजमानाः । देवेभ्यो यदाज्यं देयं तत् होमेनैव दीयत इत्यर्थः । उद्धरन्तीति । ‘मनुष्येभ्यः’ देयं यत् (आज्यम्), तत् तेषां पुरस्तात् भोजनपात्रेषु ‘उद्धरन्ति’ उद्धृत्य पुरतः स्थापयन्तीत्यर्थः । अथैवमिति । ‘अथ’- शब्द उक्तवैलक्षण्ये । पितॄणां तु एवमधिश्रितावस्थायामेव चरावाज्यमवनेयमिति यथोक्तम्, एवमेव पितृभ्य आज्यं देयम्, न त्वग्नौ होमेनापि पुरस्तादुद्धरणेनापि । ‘तस्मादिति’ प्रतिज्ञातनिगमनम् ॥ १० ॥
Eggeling
- He then boils it. While it stands on the (Dakshiṇa) fire, he pours some clarified butter on it;–for the gods they pour the offering into the fire; for men they take (the food) off the fire; and for the fathers they do in this very manner: hence, they pour the ghee on it while it stands on the fire.
११
विश्वास-प्रस्तुतिः
स᳘ उद्वा᳘स्याग्नौ द्वे ऽआ᳘हुती जुहोति देवे᳘भ्यः॥
(भ्यो) देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्तते य ऽआ᳘हिताग्निर्भ᳘वति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते᳘ ऽथैत᳘त्पितृयज्ञे᳘नेवाचारीत्त᳘दु देवे᳘भ्यो नि᳘ह्नुते स᳘ देवैः प्र᳘सूतो᳘ ऽथैत᳘त्पितृ᳘भ्यो ददाति त᳘स्मादुद्वा᳘स्याग्नौ द्वे᳘ आहुती जुहोति᳘ देवे᳘भ्यः॥
मूलम् - श्रीधरादि
स᳘ उद्वा᳘स्याग्नौ द्वे ऽआ᳘हुती जुहोति देवे᳘भ्यः॥
(भ्यो) देवान्वा᳘ ऽएष᳘ ऽउपा᳘वर्तते य ऽआ᳘हिताग्निर्भ᳘वति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते᳘ ऽथैत᳘त्पितृयज्ञे᳘नेवाचारीत्त᳘दु देवे᳘भ्यो नि᳘ह्नुते स᳘ देवैः प्र᳘सूतो᳘ ऽथैत᳘त्पितृ᳘भ्यो ददाति त᳘स्मादुद्वा᳘स्याग्नौ द्वे᳘ आहुती जुहोति᳘ देवे᳘भ्यः॥
मूलम् - Weber
स᳘ उद्वा᳘स्याग्नौ द्वे आ᳘हुती जुहोति देवे᳘भ्यः॥
देवान्वा᳘ एष᳘ उपावर्तते य आ᳘हिताग्निर्भ᳘वति यो᳘ दर्शपूर्णमासा᳘भ्यां य᳘जते ऽथैत᳘त्पितृयज्ञे᳘नेवाचारीत्त᳘दु नि᳘ह्नुते स᳘ देवैः प्र᳘सूतो᳘ ऽथैत᳘त्पितृ᳘भ्यो ददाति त᳘स्मादुद्वा᳘स्याग्नौ द्वे आ᳘हुती जुहोति देवे᳘भ्यः॥
मूलम् - विस्वरम्
स उद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः । देवान्वा एष उपावर्तते- य आहिताग्निर्भवति, यो दर्शपूर्णमासाभ्यां यजते । अथैतत् पितृयज्ञेनेवाचारीत् । तत् उ देवेभ्यो निह्नुते । स देवैः प्रसूतः- अथैतत्पितृभ्यो ददाति । तस्मादुद्वास्याग्नौ द्वे आहुती जुहोति देवेभ्यः ॥ ११ ॥
सायणः
अथ तस्य चरोरुद्वासनपूर्वकं होमं विधत्ते- स उद्वास्येति । उद्वासनानन्तरं ‘देवेभ्यः’ देवार्थम् ‘अग्नौ’ ‘द्वे आहुती’ जुहुयात् । यद्यपि ‘अग्नये,’ ‘सोमाय’ इति द्वयोरेवात्र होमः, तथापि देवेभ्य इति सामान्याभिप्रायेण बहुवचनम् । अत एव सूत्र्यते- “श्रपयित्वा ऽभिघार्योद्वास्य मेक्षणेन जुहोति अग्नय इति सोमायेति च”- इति 19 ॥
ननु पित्रर्थेन हविषा देवेभ्यो होमो ऽनुपपन्न इत्याशङ्क्योपपादयति- देवान् वा इत्यादिना । ‘यः आहिताग्निः’, ‘यः’ च दर्शपूर्णमासयाजी ‘एषः’ यजमानो ‘देवान्’ ‘उपावर्त्तते’ उपाहृतः, अतस्तेभ्यो देवेभ्यो हविरवश्यं देयमिति भावः । अथैतदिति । ‘अथ’- शब्दो ऽत्र वैपरीत्यद्योतकः । ‘एतत्’ एतर्हि दैविकं कर्म परित्यज्य पित्र्येण कर्मणा ‘अचारीत्’ पित्र्यं कर्म कृतवानित्यर्थः । तथा सत्यन्यदीयकर्मानुष्ठानेन देवानां कोपः स्यात् अतस्तन्निवृत्तये पित्र्ये ऽपि कर्मणि ‘देवेभ्यः’ होमेन तदपराधं ‘निह्नुते’ अपनयति, प्रीणयति वा । एवं होमेन तोषितैः ‘देवैः’ ‘प्रसूतः’ अनुज्ञातः ‘सः’ यजमानः ‘अथ’ अनन्तरमेव ‘एतत्’ हविः ‘पितृभ्यः’ दद्यात् । उक्तमर्थं निगमयति- तस्मादिति ॥ ११ ॥
Eggeling
- After removing it (from the fire) he offers to the gods two libations in the fire. For, in establishing his sacrificial fires, and in performing the new and full-moon sacrifice, that (householder) resorts to the gods. Here, however, he is engaged in a
sacrifice to the fathers: hence he thereby propitiates the gods, and being permitted by the gods, he presents that (food) to the fathers. This is why, on removing (the rice), he offers to the gods two libations in the fire.
१२
विश्वास-प्रस्तुतिः
स वा᳘ ऽअग्न᳘ये च सो᳘माय च जु᳘होति॥
स य᳘दग्न᳘ये जुहो᳘ति सर्व᳘त्र᳘ ह्ये᳘वाग्नि᳘रन्वा᳘भक्तो᳘ ऽथ यत्सो᳘माय जुहो᳘ति पितृदेव᳘त्यो वै सो᳘मस्त᳘स्मादग्न᳘ये च सो᳘माय च जुहोति॥
मूलम् - श्रीधरादि
स वा᳘ ऽअग्न᳘ये च सो᳘माय च जु᳘होति॥
स य᳘दग्न᳘ये जुहो᳘ति सर्व᳘त्र᳘ ह्ये᳘वाग्नि᳘रन्वा᳘भक्तो᳘ ऽथ यत्सो᳘माय जुहो᳘ति पितृदेव᳘त्यो वै सो᳘मस्त᳘स्मादग्न᳘ये च सो᳘माय च जुहोति॥
मूलम् - Weber
स वा᳘ अग्न᳘ये च सो᳘माय च जु᳘होति॥
स य᳘दग्न᳘ये जुहो᳘ति सर्व᳘त्रॗ ह्येॗवाग्नि᳘रन्वा᳘भक्तो᳘ ऽथ यत्सो᳘माय जुहो᳘ति पितृदेवॗत्यो वै सो᳘मस्त᳘स्मादग्न᳘ये च सो᳘माय च जुहोति॥
मूलम् - विस्वरम्
स वा अग्नये च सोमाय च जुहोति । स यदग्नये जुहोति- सर्वत्र ह्येवाग्निरन्वाभक्तः । अथ यत् सोमाय जुहोति । पितृदेवत्यो वै सोमः तस्मादग्नये च सोमाय च जुहोति ॥ १२ ॥
सायणः
देवेभ्य इति साधारण्येनोक्तं विशिनष्टि- स वा इति । इतरान् देवान् परित्यज्य अग्नेः सोमस्य च हवने कारणमाह- स यदग्नय इति । ‘सर्वत्र’ देवेषु च सर्वेषु कर्मसु ‘अग्निः’ अन्वाभक्तः अनुप्रविष्टो भवति, न ह्यग्निमन्तरेण दैविकं पित्र्यं वा किञ्चित् कर्म निष्पद्यते, अतो ऽत्राग्नेर्होमो युक्त इत्यर्थः । पितृदेवत्यो वा इत्यादि । यतः “चन्द्रमा वो ज्योतिः”- इति प्रजापतिः पितॄणां ज्योतिष्ट्वेन चन्द्रमसं कल्पितवान्, अतः स ‘सोमः’ पितृदेवत्यः । अत एव धूमादिमार्गेण पितॄणां चन्द्रलोकप्राप्तिराम्नाता- ‘चन्द्रमसमेव ते सर्वे गच्छन्ति’- (छा० उप० ५ । १० । ५) इति । यत एवम्, अतः पित्र्ये कर्मणि सोमाय हवनं युक्तमित्यर्थः ॥ १२ ॥
Eggeling
- He offers both to Agni and Soma 20. To Agni he offers, because Agni is allowed a share in every (offering); and to Soma he offers, because Soma is sacred to the fathers. This is why he offers both to Agni and Soma.
१३
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
(त्य) अग्न᳘ये कव्यवा᳘हनाय स्वा᳘हा सो᳘माय पितृम᳘ते स्वाहे᳘त्यग्नौ मे᳘क्षणमभ्या᳘दधाति त᳘त्स्विष्टकृद्भाजनम᳘थ द᳘क्षिणेनान्वाहार्यप᳘चनᳫँ᳭ सकृदु᳘ल्लिखति त᳘द्वेदिभाजनᳫँ᳭सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदु᳘ल्लिखति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
(त्य) अग्न᳘ये कव्यवा᳘हनाय स्वा᳘हा सो᳘माय पितृम᳘ते स्वाहे᳘त्यग्नौ मे᳘क्षणमभ्या᳘दधाति त᳘त्स्विष्टकृद्भाजनम᳘थ द᳘क्षिणेनान्वाहार्यप᳘चनᳫँ᳭ सकृदु᳘ल्लिखति त᳘द्वेदिभाजनᳫँ᳭सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदु᳘ल्लिखति॥
मूलम् - Weber
स᳘ जुहोति 21 ॥
अग्न᳘ये कव्यवा᳘हनाय स्वा᳘हा सो᳘माय पितृम᳘ते स्वाहे᳘त्यग्नौ मे᳘क्षणमभ्या᳘दधाति त᳘त्स्विष्टकृद्भाजनम᳘थ द᳘क्षिणेनान्वाहार्यप᳘चनᳫं सकृदु᳘ल्लिखति त᳘द्वेदिभाजन᳘ᳫं᳘ सकृ᳘दुॗ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदु᳘ल्लिख᳘ति॥
मूलम् - विस्वरम्
स जुहोति- “अग्नये कव्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहा”- (वा. सं. २ । २९) इति । अग्नौ मेक्षणमभ्यादधाति- तत् स्विष्टकृद्भाजनम् । अथ दक्षिणेनान्वाहार्यपचनं सकृदुल्लिखति- तद् वेदिभाजनम् । सकृदु ह्येव पराञ्चः पितरः । तस्मात्सकृदुल्लिखति ॥ १३ ॥
सायणः
उक्तदेवतयोर्होममन्त्रौ विधत्ते- स जुहोतीति । ‘कव्यं’ पित्र्यं हविः, तद् वहति पितॄन् प्रापयतीति ‘कव्यवाहनः’। “कव्यपुरीषपुरीष्येषु” (पा० सू० ३ । २ । ६५) इति ञ्युट् । एतच्च पितॄणामग्नेरसाधारणं नामधेयम् । अत एवाम्नायते- “त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणां, सहरक्षा असुराणाम्” (तै० सं० २ । ५ । ८ । ६) इति । ‘कव्यवाहनाय अग्नये’ इदं हविः ‘स्वाहा’ सुहुतमस्तु । पितृगणैर्युक्ताय ‘सोमाय’ इदं हविः ‘स्वाहा’ सुहुतमस्तु ।
मेक्षणस्याग्नौ प्रक्षेपं विधत्ते- अग्नाविति 22 । चरुमालोड्य येन काष्ठेन गृहीत्वा हूयते, तत् ‘मेक्षणम्’ । ‘तत्’ अभ्याधानं ‘स्विष्टकृद्भाजनम्’ अस्य होमस्य स्विष्टकृत्स्थानीयम् ॥
अथ पिण्डप्रदानाय स्थानविशेषं तत्संस्कारञ्च विधाय प्रशंसति- अथ दक्षिणेनेति 22 । ‘अथ’- शब्दो ऽत्रान्यप्रतिषेधार्थः । दक्षिणाग्नेरदूरेण स्फ्येन ‘सकृदुल्लिखति’ एकयत्नेन दक्षिणप्राचीं लेखां कुर्यात् । ‘तत्’ उल्लिखितं स्थलं ‘वेदिभाजनं’ वेदिस्थानीयम्, तत्कार्यकरमित्यर्थः । सकृदु ह्येवेत्यादि, उक्तार्थम् ॥ १३ ॥
Eggeling
- He offers 23 with the formulas (Vāj. S. II, 29 a, b), ‘To Agni, the bearer of what is meet for the wise, svāhā!’ ‘To Soma, accompanied by the fathers, svāhā 24!’ He then puts the pot-ladle on the fire,–that being in lieu of the Svishṭakr̥t 25. Thereupon he draws (with the wooden sword) one line (furrow) south of the Dakshiṇa fire 26,–that
being in lieu of the altar: only one line he draws, because the fathers have passed away once for all.
१४
विश्वास-प्रस्तुतिः
(त्य) अ᳘थ पर᳘स्तादु᳘ल्मुकं नि᳘दधाति॥
स यद᳘निधायो᳘ल्मुकम᳘थैत᳘त्पितृभ्यो दद्या᳘दसुररक्षसा᳘नि हैषामेतद्वि᳘मथ्नीरंस्त᳘थो हैत᳘त्पितॄणा᳘मसुररक्षसा᳘नि न व्वि᳘मथ्नते त᳘स्मात्परस्तादु᳘ल्मुकं नि᳘दधाति॥
मूलम् - श्रीधरादि
(त्य) अ᳘थ पर᳘स्तादु᳘ल्मुकं नि᳘दधाति॥
स यद᳘निधायो᳘ल्मुकम᳘थैत᳘त्पितृभ्यो दद्या᳘दसुररक्षसा᳘नि हैषामेतद्वि᳘मथ्नीरंस्त᳘थो हैत᳘त्पितॄणा᳘मसुररक्षसा᳘नि न व्वि᳘मथ्नते त᳘स्मात्परस्तादु᳘ल्मुकं नि᳘दधाति॥
मूलम् - Weber
अ᳘थ पर᳘स्तादु᳘ल्मुकं नि᳘दधाति॥
स यद᳘निधायो᳘ल्मुकम᳘थैत᳘त्पितृ᳘भ्यो दद्या᳘दसुररक्षसा᳘नि हैषामेतद्वि᳘मथ्नीरंस्त᳘थो हैत᳘त्पितॄणा᳘मसुररक्षसा᳘नि न वि᳘मथ्नते त᳘स्मात्पर᳘स्तादु᳘ल्मुकं नि᳘दधाति॥
मूलम् - विस्वरम्
अथ परस्तादुल्मुकं निदधाति । स यदनिधायोल्मुकमथैतत् पितृभ्यो दद्यात्- असुररक्षसान् हैषामेतद्विमथ्नीरन् । तथो हैतत् पितॄणामसुररक्षसानि न विमथ्नते । तस्मादुल्मुकं निदधाति ॥ १४ ॥
सायणः
उल्लिखितप्रदेशस्यान्ते अग्नेर्निधानं विधत्ते- अथ परस्तादिति । ‘परस्तात्’ परस्मिन् विप्रकृष्टे, पर्यन्ते इत्यर्थः । विपक्षे बाधविधानपुरस्सरमेतदुल्मुकनिधानमुपपादयति- स यदिति 22 । सुरविरोधीनि रक्षांसि ‘असुररक्षसानि’, ‘एषां’ पितॄणां स्वभूतम् ‘एतत्’ पिण्डरूपं हविः ‘विमथ्नीरन्’ अपहरेयुः । तथो हेति । तथा चोल्मुकनिधाने सतीत्यर्थः । ‘न विमथ्नते’ नापहरन्ति । “मन्थ विलोडने-” (धा० पा० भ्वा० प० ४२) इति धातुः ॥ १४ ॥
Eggeling
- He then lays down a firebrand at the farther (south) end (of the line). For were he to present that (food) to the fathers, without having laid down a firebrand, the Asuras and Rakshas would certainly tamper with it. And thus the Asuras and Rakshas do not tamper with that (food) of the fathers: this is why he lays down the firebrand at the farther end (of the line).
१५
विश्वास-प्रस्तुतिः
स नि᳘दधाति॥
ये᳘ रूपा᳘णि प्रतिमुञ्च᳘माना ऽअ᳘सुराः स᳘न्तः स्वध᳘या च᳘रन्ति॥ परापु᳘रो निपु᳘रो ये भ᳘रन्त्यग्निष्टाल्ँ᳘लोकात्प्र᳘णुदात्यस्मादि᳘त्यग्निर्हि र᳘क्षसामपहन्ता त᳘स्मादेवं नि᳘दधाति॥
मूलम् - श्रीधरादि
स नि᳘दधाति॥
ये᳘ रूपा᳘णि प्रतिमुञ्च᳘माना ऽअ᳘सुराः स᳘न्तः स्वध᳘या च᳘रन्ति॥ परापु᳘रो निपु᳘रो ये भ᳘रन्त्यग्निष्टाल्ँ᳘लोकात्प्र᳘णुदात्यस्मादि᳘त्यग्निर्हि र᳘क्षसामपहन्ता त᳘स्मादेवं नि᳘दधाति॥
मूलम् - Weber
स नि᳘दधाति॥
ये᳘ रूपा᳘णि प्रतिमुञ्च᳘माना अ᳘सुराः स᳘न्तः स्वधया च᳘रन्ति परापु᳘रो निपु᳘रो ये भ᳘रन्त्यग्निष्टां᳘लोकात्प्र᳘णुदात्यस्मादि᳘त्यग्निर्हि र᳘क्षसामपहन्ता त᳘स्मादेवं नि᳘दधाति॥
मूलम् - विस्वरम्
स निदधाति “ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टान् लोकात्प्रणुदात्यस्मात्”- (वा. सं. २ । ३०) इति । अग्निर्हि रक्षसामपहन्ता तस्मादेवं निदधाति ॥ १५ ॥
सायणः
विहिते उल्मुकनिधाने मन्त्रं विधत्ते- स निदधातीति । यदेतदुल्मुकनिधानं विहितम्, तत् “ये रूपाणि-” इत्यनेन मन्त्रेण कर्त्तव्यमित्यर्थः । मन्त्रार्थस्तु- ‘ये’ ‘असुराः’ मायावशात् पितॄणां रूपाणि ‘प्रतिमुञ्चमानाः’ धारयन्तः सन्तः पित्रर्थं दीयमानया ‘स्वधया’ सह ‘चरन्ति’ वर्त्तन्ते । ‘ये’ च पूर्वं ‘परापुरः निपुरः’ पूरणपिण्डदानेन युक्ताः संतो ‘भरन्ति’ हविर्हरन्ति । परापुरो निपुर इति, परा-नि-पूर्वात् पृणोतेः सम्पदादिलक्षणे भावे क्विपि बहुव्रीहिः; स च धातुरत्र पिण्डविषये दाने वर्त्तते । अत एवोक्तमाश्वलायनेन- “तस्यां पिण्डान् निपृणीयात् पराचीनपाणिः”- (आ० श्रौ० सू० २ । ६ । १५) इति । पुत्रपदनिर्वचनप्रसङ्गे यास्केनाप्युक्तम्- “पुत्रः, पुरु त्रायते; निपरणाद्वा, पुं नरकं ततस्त्रायत इति वा” (निरु० २ । ३ । २ ।) इति । यद्वा ‘पराः’ प्रभूताः ‘पुरः’ शरीराणि येषां ते ‘परापुरः’; ‘नि’ निकृष्टा अल्पाः ‘पुरः’ शरीराणि येषां ते ‘निपुरः’ ; माहाकाया अल्पकायाश्चेत्यर्थः । एवं प्रच्छन्नवेषा असुरा ये सन्ति, ‘तान्’ ‘अस्मात्’ ‘लोकात्’ पिण्डपितृयज्ञस्थानात् ‘अग्निः’ ‘प्रणुदाति’ । लेट्याडागमः, (पा० सू० ३ । ४ । ९४) प्रणुदत्वित्यर्थः । रक्षोनिहन्तृत्वमग्नेः प्रसिद्धमिति व्याचष्टे- अग्निर्हीति । ‘एवं निदधाति’ अग्निशब्दोपेतेन मन्त्रेण निदध्यादित्यर्थः ॥ १५ ॥
Eggeling
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोदपात्र᳘मादाया᳘वनेजयति॥
(त्य᳘) अ᳘साव᳘वनेनिक्ष्वे᳘त्येव य᳘जमानस्य पित᳘रम᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था ऽशिष्यते᳘ ऽभिषिञ्चे᳘देवं तत्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोदपात्र᳘मादाया᳘वनेजयति॥
(त्य᳘) अ᳘साव᳘वनेनिक्ष्वे᳘त्येव य᳘जमानस्य पित᳘रम᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था ऽशिष्यते᳘ ऽभिषिञ्चे᳘देवं तत्॥
मूलम् - Weber
अ᳘थोदपात्र᳘मादाया᳘वनेजयति॥
अ᳘साव᳘वनेनिक्ष्वे᳘त्येव य᳘जमानस्य पित᳘रम᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘थाशिष्यते᳘ ऽभिषिञ्चे᳘देवं तत्॥
मूलम् - विस्वरम्
अथोदपात्रमादायावनेजयति- “असाववनेनिक्ष्व” इत्येव यजमानस्य पितरम् । असाववनेनिक्ष्वेति पितामहम् । असाववनेनिक्ष्वेति प्रपितामहम् । तद् यथा ऽशिष्यते अभिषिञ्चेदेवं तत् ॥ १६ ॥
सायणः
पिण्डदानस्य प्राच्याङ्गत्वेनावनेजनं विधत्ते- अथोदपात्रमिति 30 । ‘उदपात्रम्’ उदकपूर्णं पात्रम् । “एकहलादौ पूरयितव्ये ऽन्यतरस्याम्”- (पा. सू. ६ । ३ । ५९) इत्युदकशब्दस्योदभावः । “असाववनेनिक्ष्व” 31- इत्यवनेजनमन्त्रः । तत्रादश्शब्दस्थाने सम्बुद्ध्यन्तं पित्रादीनां यथाक्रमं नाम निर्द्देष्टव्यम्, -हे यज्ञशर्म्मन् मम पितः ! ‘अवनेनिक्ष्व’ दास्यमानं पिण्डं भोक्तुम् आत्मीयौ पाणी शोधयेति मन्त्रार्थः । “णिजिर् शौचपोषणयोः" (धा. पा. जु. उ. ११)- इति धातुः । एवं पितामहप्रपितामहविषयौ मन्त्रौ योज्यौ ।
अस्यावनेजनस्य पिण्डदानात् प्राक्कर्त्तव्यतां दृष्टान्तेनोपपादयति- तद्यथेति । ‘अशिष्यते’ भोक्ष्यमाणाय पुरुषाय यथा ‘अभिषिञ्चेत्’ उदकं हस्ते ददाति, ‘एवम्’ एव तत् पितॄणामवनेजनमित्यर्थः ॥ १६ ॥
Eggeling
- He then takes the water-pitcher and makes (the fathers) wash (their hands ) 32, merely 33 saying, ‘N.N., wash thyself!’ (naming) the sacrificer’s father; ‘N.N., wash thyself!’ (naming) his grandfather; ‘N.N., wash thyself!’ (naming) his great-grandfather. As one would pour out water (for a guest) when he is about to take food, so in this case.
१७
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ सकृदाच्छिन्ना᳘न्युपमूलं᳘ दिना᳘नि भवन्ति॥
(न्त्य᳘) अ᳘ग्रमिव वै᳘ देवा᳘नां म᳘ध्यमिव मनु᳘ष्याणां मू᳘लमिव पितॄणां त᳘स्मादुपमूलं᳘ दिना᳘नि भवन्ति सकृदाच्छिन्ना᳘नि भवन्ति सकृदु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदाच्छिन्ना᳘नि भवन्ति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ सकृदाच्छिन्ना᳘न्युपमूलं᳘ दिना᳘नि भवन्ति॥
(न्त्य᳘) अ᳘ग्रमिव वै᳘ देवा᳘नां म᳘ध्यमिव मनु᳘ष्याणां मू᳘लमिव पितॄणां त᳘स्मादुपमूलं᳘ दिना᳘नि भवन्ति सकृदाच्छिन्ना᳘नि भवन्ति सकृदु᳘ ह्येव प᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदाच्छिन्ना᳘नि भवन्ति॥
मूलम् - Weber
अ᳘थ सकृदाछिन्ना᳘न्युपमूलं᳘ दिना᳘नि भवन्ति॥
अ᳘ग्रमिव वै᳘ देवा᳘नाम् म᳘ध्यमिव मनुॗष्याणाम् मू᳘लमिव पितॄणां त᳘स्मादुपमूलं᳘ दिना᳘नि भवन्ति सकृदाछिन्ना᳘नि भवन्ति सकृ᳘दुॗ ह्येवप᳘राञ्चः पित᳘रस्त᳘स्मात्सकृदाछिन्ना᳘नि भवन्ति॥
मूलम् - विस्वरम्
अथ सकृदाच्छिन्नान्युपमूलं दिनानि भवन्ति । अग्रमिव देवानाम्, मध्यमिव मनुष्याणाम्, मूलमिव पितॄणाम् । तस्मादुपमूलं दिनानि भवन्ति । सकृदाच्छिन्नानि भवन्ति । सकृदु ह्येव पराञ्चः पितरः । तस्मात् सकृदाच्छिन्नानि भवन्ति ॥ १७॥
सायणः
अथ तस्मिन्नुल्लिखिते स्थाने बर्हिः स्तरितुं तत्सम्पादनं विधत्ते- अथ सकृदाच्छिन्नानीति 34 । एकयत्नेन च्छिन्नानि । ‘उपमूलं’ मूलसमीपे । ‘दिनानि’ खण्डितानि बर्हीषि पितृयज्ञार्थानि ‘भवन्ति’, एवंगुणविशिष्टानि बर्हीष्याहर्त्तव्यानीत्यर्थः । मूलसमीपे छेदनमुपपादयति- अग्रमिवेत्यादिना । अत एव तैत्तिरीयके ऽप्याम्नायते “यत् परुषि दिनं तद् देवानां, यदन्तरा तन्मनुष्याणां, यत् समूलं तत् पितृणाम्"- इति । छेदनगतं सकृत्त्वमनूद्य स्तौति- सकृदाच्छिन्नानीति ॥ १७ ॥
Eggeling
- Now those (stalks of sacrificial grass) are severed with one stroke, and cut off near the root;–the top belongs to the gods, the middle part to men, and the root-part to the fathers: therefore they are cut off near the root. And with one stroke they are severed, because the fathers have passed away once for all.
१८
विश्वास-प्रस्तुतिः
ता᳘नि दक्षिणो᳘पस्तृणाति॥
त᳘त्र ददाति स वा ऽइ᳘ति ददाती᳘तीव वै᳘ देवे᳘भ्यो जु᳘ह्वत्यु᳘द्धरन्ति मनु᳘ष्येभ्यो᳘ ऽथैवं᳘ पितॄणां त᳘स्मादि᳘ति ददाति॥
मूलम् - श्रीधरादि
ता᳘नि दक्षिणो᳘पस्तृणाति॥
त᳘त्र ददाति स वा ऽइ᳘ति ददाती᳘तीव वै᳘ देवे᳘भ्यो जु᳘ह्वत्यु᳘द्धरन्ति मनु᳘ष्येभ्यो᳘ ऽथैवं᳘ पितॄणां त᳘स्मादि᳘ति ददाति॥
मूलम् - Weber
ता᳘नि दक्षिणो᳘पस्तृणाति॥
त᳘त्र ददाति स वा इ᳘ति ददाती᳘तीव वै᳘ देवे᳘भ्यो जु᳘ह्वत्यु᳘द्धरन्ति मनुॗष्येभ्यो᳘ ऽथैवं᳘ पितॄणां त᳘स्मादि᳘ति ददाति॥
मूलम् - विस्वरम्
तानि दक्षिणोपस्तृणाति । तत्र ददाति । स वा इति ददाति । इतीव वै देवेभ्यो जुह्वति, उद्धरन्ति मनुष्येभ्यः, अथैवं पितॄणाम् । तस्मादिति ददाति ॥ १८ ॥
सायणः
बर्हिषः स्तरणं विधत्ते- तानीति । ‘दक्षिणा’ दक्षिणतः, उल्लिखितप्रदेशे ‘तानि’ बर्हीषि ‘उपस्तृणाति’ । तथैव कात्यायनेन सूत्रितम्- “उपमूलं सकृदाच्छिन्नानि लेखायां कृत्वा”- (का. श्रौ. सू. ४ । ११) इति । पिण्डदानं विधत्ते- तत्रेति । ‘तत्र’ तस्मिन् बर्हिषा ऽऽस्तीर्णे देशे पिण्डान् दद्यादित्यर्थः । तत्र प्रकारविशेषमभिनयेन विधत्ते- स वा इतीति । ‘इति’ अनेन प्रकारेण अंगुष्टतर्जन्योर्मध्येन पित्र्येण तीर्थेनेत्यर्थः । देवमनुष्यसम्प्रदानके दाने तद्वैपरीत्यकथनेनोपपादयति- इतीव वै देवेभ्य इति । अनेन खलु प्रकारेण अंगुल्यग्रेण देवतीर्थेन ‘देवेभ्यः’ हवींषि ‘जुह्वति’ ‘मनुष्येभ्यः’ तु यथायोगं भोक्तव्यमन्नम् ‘उद्धरन्ति’ उद्धृत्य पात्रान्तरे स्थापयन्ति । न तु तत्र देवपित्रादितीर्थविशेषो ऽपेक्षितः । अथैवमिति । ‘अथ’- शब्द उक्तवैलक्षण्यद्योतनार्थः। देवमनुष्यषैलक्षण्येन एवमुक्तेन पित्र्येण तीर्थेन पितॄणां सम्बन्धि हविर्देयमित्यर्थः । तस्मादिति । प्रतिपादितार्थनिगमनम् ॥ १८ ॥
Eggeling
- He spreads them (along the line) with their tops towards the south. Thereon he presents [to the fathers the three (round) cakes of rice] 35. He presents them thus 36;–for to the gods they offer thus; for men they ladle out (the food in any way they please) 37; and in the case of the fathers they do in this very way: therefore he presents (the cakes to them) thus.
१९
विश्वास-प्रस्तुतिः
स᳘ ददाति॥
(त्य᳘) अ᳘सावेत᳘त्त ऽइ᳘त्येव य᳘जमानस्य पित्रे ये᳘ च त्वामन्वि᳘त्यु है᳘क ऽआहुस्त᳘दु त᳘था न᳘ ब्रूयात्स्वयं वै ते᳘षाᳫँ᳭ सह येषाᳫँ᳭ सह त᳘स्मादु ब्रूयाद᳘सावेत᳘त्त ऽइ᳘त्येव य᳘जमानस्य पित्रे᳘ ऽसावेत᳘त्त ऽइ᳘ति पितामहाया᳘सावेत᳘त्त ऽइ᳘ति प्र᳘पितामहाय तद्य᳘दितः प᳘राग्द᳘दाति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रः॥
मूलम् - श्रीधरादि
स᳘ ददाति॥
(त्य᳘) अ᳘सावेत᳘त्त ऽइ᳘त्येव य᳘जमानस्य पित्रे ये᳘ च त्वामन्वि᳘त्यु है᳘क ऽआहुस्त᳘दु त᳘था न᳘ ब्रूयात्स्वयं वै ते᳘षाᳫँ᳭ सह येषाᳫँ᳭ सह त᳘स्मादु ब्रूयाद᳘सावेत᳘त्त ऽइ᳘त्येव य᳘जमानस्य पित्रे᳘ ऽसावेत᳘त्त ऽइ᳘ति पितामहाया᳘सावेत᳘त्त ऽइ᳘ति प्र᳘पितामहाय तद्य᳘दितः प᳘राग्द᳘दाति सकृ᳘दु᳘ ह्येव प᳘राञ्चः पित᳘रः॥
मूलम् - Weber
स᳘ ददाति॥
अ᳘सावेत᳘त्त इ᳘त्येव य᳘जमानस्य पित्रे ये᳘ च त्वामन्वि᳘त्यु है᳘क आहुस्त᳘दु त᳘था न᳘ ब्रूयात्स्वयं वै ते᳘षाᳫं सह ये᳘षाᳫं सह त᳘स्मादु ब्रूयाद᳘सावेत᳘त्त इ᳘त्येव य᳘जमानस्य पित्रे᳘ ऽसावेत᳘त्त इ᳘ति पितामहाया᳘सावेत᳘त्त इ᳘ति प्र᳘पितामहाय तद्य᳘दितः प᳘राग्द᳘दाति सकृ᳘दुॗ ह्येव प᳘राञ्चः पित᳘रह्॥
मूलम् - विस्वरम्
स ददाति- असावेतत्ते इत्येव यजमानस्य पित्रे, ये च त्वामन्वित्यु हैक आहुः । तदु तथा न ब्रूयात् । स्वयं वै तेषां सह येषां सह । तस्मादु ब्रूयाद्- असावेतत्त इत्येव यजमानस्य पित्रे । असावेतत्त इति पितामहाय, असावेतत्त इति प्रपितामहाय । तद् यदितः पराग्ददाति- सकृदु ह्येव पराञ्चः पितरः ॥ १९ ॥
सायणः
पितृपितामहप्रपितामहानां विहिते पिण्डदाने मन्त्रान् विधत्ते- स ददातीत्यादिना । “असावेतत्ते”- (का० श्रौ० सू० ४ । ११) इति पिण्डदानमन्त्रः । तत्र ‘असौ’- इत्यस्य स्थाने पित्रादीनां नाम सम्बुद्ध्यन्तं निर्द्देष्टव्यम्। हे यज्ञशर्म्मन् ! ‘एतत्’ पिण्डरूपं हविः ‘ते’ तुभ्यं मया दीयत इति मन्त्रार्थः । “ये च त्वामनु”- इति 38 वक्ष्यमाणशाखान्तराभिमतमन्त्रशेषनिरासार्थः ‘एव’- कारः । अनेन च मन्त्रेण प्रथमं यजमानस्य पित्रे पिंडं दद्यात्; अनेनैव पितामहप्रपितामहयोरपि पिण्डदानम् । तत्रैकीयं मतमुपन्यस्य दूषयति- ये च त्वेति । तस्य च मन्त्रशेषस्यायमर्थः, हे पितः ! ‘त्वाम्’ ‘अनु’-सृत्य ‘ये वर्त्तन्ते तेभ्यश्चायं पिण्डः तृप्तिं करोत्विति । स्वयं वा इत्यादि । पित्रनन्तरभाविनां यच्छन्दनिर्द्दिष्टानां तेषां ‘स्वयं’ पिण्डदाता सहभावी भवति । तथा य एव एषां स्वयं सहभावी, तेभ्यः पिण्डदाने स्वात्मन पिण्डं दत्तवान् भवति । अतस्तत्प्रतिपादको “ये च त्वामनु”- इति मन्त्रभागो न वक्तव्य इत्यर्थः । प्रथमं पक्ष निगमयति- तस्मादिति । तद्यदित इत्यादि । अनेन हि क्रमेण ते पितृत्वं प्राप्ताः- प्रथमं प्रपितामहः, पश्चात् पितामहः, ततः पितेति; इमं क्रमं परित्यज्य पिण्डदाने ‘इतः’ पितृत आरभ्य प्रपितामहान्तं ‘पराक्’ पराचीनं पिण्डान् दद्यात्; यतस्ते पितरः सकृत्त्वपराक्त्वधर्मयुक्ता इत्यर्थः ॥ १९ ॥
Eggeling
- With, ‘N.N., this for thee!’ he presents (one cake) to the sacrificer’s father. Some add, ‘and for those who come after thee!’ but let him not say this, since he himself is one of those to whom (it would be offered) in common 39: let him
therefore merely say, ‘N.N., this for thee!’ as to the sacrificer’s father; ‘N.N., this for thee!’ as to his grandfather; and ‘N.N., this for thee!’ as to his great-grandfather. He presents (the food) in an order (directed) away from the present time, because it is away from hence that the fathers have once for all departed.
२०
विश्वास-प्रस्तुतिः
त᳘त्र जपति॥
(त्य᳘) अ᳘त्र पितरो मादयध्वं यथाभागमा᳘वृषायध्वमि᳘ति यथाभाग᳘मश्नीते᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
त᳘त्र जपति॥
(त्य᳘) अ᳘त्र पितरो मादयध्वं यथाभागमा᳘वृषायध्वमि᳘ति यथाभाग᳘मश्नीते᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
त᳘त्र जपति॥
अ᳘त्र पितरो मादयध्वं यथाभागमा᳘वृषायध्व्वमि᳘ति यथाभाग᳘मश्नीते᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
तत्र जपति- “अत्र पितरो मादयध्वं यथाभागमावृषायध्वम्”- (वा. सं. २ । ३१) इति । यथाभागमश्नीतेत्येवैतदाह ॥ २० ॥
सायणः
पिण्डदानानन्तरं मन्त्रजपं विधत्ते- तत्र जपतीति 38 । तद्गतं किञ्चित् पदं व्याचष्टे- अत्रेति । मन्त्रार्थस्तु- ‘अत्र’ अस्मिन् देशे हे ‘पितरः !’ ‘मादयध्वम्’ तृप्ता भवत, तदर्थं च ‘यथाभागं’ स्वं स्वं भागमनतिक्रम्य मया दत्तान् पिण्डान् ‘आवृषायध्वम्’ अश्नीतेति । वृषायध्वमित्यस्यैतदर्थपरतां श्रुतिः स्वयं व्याचष्टे- यथाभागमश्नीतेत्येवैतदाहेति ॥ २० ॥
Eggeling
- He then mutters (Vāj. S. II, 31 a), ‘Here, O fathers, regale yourselves: like bulls come hither, each to his own share!’ whereby he says, ‘Eat ye each his own share!’
२१
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थ प᳘राङ्पर्या᳘वर्तते॥
तिर᳘ इव वै᳘ पित᳘रो मनु᳘ष्येभ्यस्तिर᳘ इवै᳘त᳘द्भवति स वा ऽआत᳘मितोरासीते᳘त्याहुरेता᳘वान्ह्य᳘सुरि᳘ति स वै᳘ मुहूर्त᳘मे᳘वासित्वा॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थ प᳘राङ्पर्या᳘वर्तते॥
तिर᳘ इव वै᳘ पित᳘रो मनु᳘ष्येभ्यस्तिर᳘ इवै᳘त᳘द्भवति स वा ऽआत᳘मितोरासीते᳘त्याहुरेता᳘वान्ह्य᳘सुरि᳘ति स वै᳘ मुहूर्त᳘मे᳘वासित्वा॥
मूलम् - Weber
अ᳘थ प᳘राङ् पर्या᳘वर्तते॥
तिर᳘ इव वै᳘ पित᳘रो मनुॗष्येभ्यस्तिर᳘ इवैत᳘द्भवति स वा आ त᳘मितोरासीते᳘त्याहुरेता᳘वान्ह्य᳘सुरि᳘ति स वै᳘ मुहूर्त᳘मेवासित्वा॥
मूलम् - विस्वरम्
अथ पराङ् पर्यावर्त्तते । तिर इव वै पितरो मनुष्येभ्यः । तिर इवैतद्भवति । स वा आतमितोरासीतेत्याहुः । एतावान्ह्यसुरिति । स वै मुहूर्तमेवासित्वा ॥ २१ ॥
सायणः
जपानन्तरं परागावर्त्तनं विधत्ते- अथ पराङ् पर्यावर्त्तत इति । पराङ्मुखः सन् पिण्डाभिमुख्यं विहाय 40 पर्यावर्तेतेत्यर्थः । एतदुपपादयति- तिर इवेति । पितरो हि मनुष्येभ्यः तिरोभूताः; अन्तर्द्धानशक्तियोगात् । अतः पितॄणां तिरोधानेन भवितव्यम् । एतर्हि पिण्डदातरि पर्यावर्त्तमाने सति तेषां ‘तिर इव’ तिरोधानमिव भवति । पर्यावर्त्तनकालस्य परिमाणं विधत्ते- स वा इति । स खलु पर्यावर्तमानः ‘आतमितोः’ निरुद्धश्वासगतेरात्मनो यावत् तमनं ग्लानिः भवति, तावत् आसीत ‘इति’ केचित् ‘आहुः’ प्रतिपादयन्ति । “तमु ग्लानौ” 41 (धा० पा० दि० प० ९६) इत्यस्मात् “भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्”- (पा० सू० ३ । १६) इति तोसुन् प्रत्ययः । तत्रोपपत्तिमाह- एतावानिति । एतावत्परिमाणो भवति । तस्मादेतावन्तं कालमासीतेति । पक्षान्तरमाह- स वा इति । ‘सः’ खलु ‘मुहूर्तं’ द्वादशक्षणात्मको यो मुहूर्त्तसंज्ञकः कालः, तावत्पर्यन्तम् ‘एव’ आसीतेत्यर्थः । एवकारः पूर्वोक्तपक्षव्यवच्छेदार्थः । ‘आसित्वा’- इति ‘क्त्वा’- प्रत्ययः वक्ष्यमाणक्रियापेक्षः ॥ २१ ॥
Eggeling
- He then turns round (to the left), so as to face the opposite (north) side: for the fathers are far away from men; and thereby he also is far away (from the fathers). ‘Let him remain (standing with bated breath) until his breath fail,’ say some, ‘for thus far extends the vital energy.’ However 42, having remained so for a moment–
२२
विश्वास-प्रस्तुतिः
(त्वा᳘ ऽथो) अ᳘थोपपल्य᳘य्य जपति॥
(त्य᳘) अ᳘मीमदन्त पित᳘रो यथाभागमा᳘वृषायिषते᳘ति यथाभाग᳘माशिषुरि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
(त्वा᳘ ऽथो) अ᳘थोपपल्य᳘य्य जपति॥
(त्य᳘) अ᳘मीमदन्त पित᳘रो यथाभागमा᳘वृषायिषते᳘ति यथाभाग᳘माशिषुरि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
अ᳘थोपपल्य᳘य्य जपति॥
अ᳘मीमदन्त पित᳘रो यथाभागमा᳘वृषायिषते᳘ति यथाभाग᳘माशिषुरि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
अथोपपल्यय्य जपति । “अमीमदन्त पितरो यथाभागमावृषायिषत”- (वा० सं० २ । ३१) इति । यथाभागमाशिषुरित्येवैतदाह ॥ २२ ॥
सायणः
उक्तकालानन्तरं पर्यावर्त्तमानस्य मन्त्रजपं विधत्ते- अथेति 40 । ‘उपपल्यय्य’ पिण्डसमीपं परिप्राप्य । परिपूर्वादयतेर्ल्यपि “उपसर्गस्यायतौ"- (पा. सू. ८ । २ । १९ ।) इति लत्वम् । अमीमदन्तेति मन्त्रं जपेत् । अर्थस्तु- ‘पितरः’ पिण्डपितृदेवताः ‘अमीमदन्त’ तृप्ता अभूवन् । तृप्त्यर्थान्मादयतेर्ण्यन्ताल्लुङि चङि रूपम् । ते च ‘यथाभागं’ स्वं स्वं भागमनतिक्रम्य ‘आवृषायिषत’ अभुक्षत ‘इति’ तत्र ‘आवृषायिषत’- इति पदस्य विवक्षितमथमाह- यथेति । आङ्पूर्वो वृषयतिरभ्यवहारे वर्त्तते, तस्माल्लुङि बहुवचनान्तमेतत् पदम्, अतः ‘आशिषुः’ ‘इति’ तस्य व्याख्यानम् । “अशू भोजने”- (धा. पा. क्र्या. प. ५१) इत्यस्माल्लुङि बहुवचने आशिषुरिति रूपम् ॥ २२ ॥
Eggeling
- He again turns round (to the right) and mutters (Vāj. S. II, 31 b), ‘The fathers have regaled themselves: like bulls they have come each to his own share;’ whereby he means to say, ‘They have eaten each his own share 43.’
२३
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थोदपात्र᳘मादाया᳘वनेजयति॥
(त्य᳘) अ᳘साव᳘वनेनिक्ष्वे᳘त्येव य᳘जमानस्य पि᳘तरम᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था जक्षुषे ऽभिषिञ्चे᳘देवं तत्॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थोदपात्र᳘मादाया᳘वनेजयति॥
(त्य᳘) अ᳘साव᳘वनेनिक्ष्वे᳘त्येव य᳘जमानस्य पि᳘तरम᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वे᳘ति प्र᳘पितामहं तद्य᳘था जक्षुषे ऽभिषिञ्चे᳘देवं तत्॥
मूलम् - Weber
अ᳘थोदपात्र᳘मादाया᳘वनेजयति॥
अ᳘साव᳘वनेनिक्ष्वे᳘त्येव यजमानस्य पि᳘तरम᳘साव᳘वनेनिक्ष्वे᳘ति पितामहम᳘साव᳘वनेनिक्ष्वेति प्र᳘पितामहं तद्य᳘था जक्षु᳘षे ऽभिषिञ्चे᳘देवं तत्॥
मूलम् - विस्वरम्
अथोदपात्रमादायावनेजयति- “असाववनेनिक्ष्व” इत्येव यजमानस्य पितरम् । असाववनेनिक्ष्वेति पितामहम् । असाववनेनिक्ष्वेति प्रपितामहम्, तद् यथा जक्षुषे ऽभिषिञ्चेदेवं तत् ॥ २३ ॥
सायणः
पिण्डदानात् प्रागिवेदानीमपि पित्रादीनामुदकावनेजनं विधत्त- अथोदपात्रमिति 40 । “असाववनेनिक्ष्व” इति तन्मन्त्रः । तत्र तत्र त्रिष्वपि मन्त्रेषु ‘असौ’ इत्यस्य स्थाने पित्रादीनां नामानि क्रमेण निर्दिशेत् । अर्थस्तु प्रागेव दर्शितः । एतदवनेजनं लोकव्यवहारेणोपपादयति- तद्यथेति । ‘तत्’ तत्र विषये निदर्शनमभिधीयते । यथा ‘जक्षुषे’ भुक्तवते पुरुषाय मुखप्रक्षालनार्थं हस्ते उदकम् ‘अभिषिञ्चेत्’ ‘एवम्’ एव ‘तत्’ पिण्डदानानन्तरभावि जलावसेचनमित्यर्थः । ‘जक्षुषे’ इति अदेर्लिटः क्वसौ “लिट्यन्यतरस्याम्"- (पा. सू. २ । ४ । ४०) इति घसादेशः, पुनश्चतुर्थ्येकवचने सम्प्रसारणे च रूपम् ॥ २३ ॥
Eggeling
- Thereupon he takes the water-pitcher and makes them wash themselves 44, merely saying,
‘N.N., wash thyself 45!’ (naming) the sacrificer’s father; ‘N.N., wash thyself!’ (naming) his grandfather; ‘N.N., wash thyself!’ (naming) his great-grandfather. Even as one would pour out (water for a guest) when he has taken his meal, so here.
२४
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति॥
पितृदेव᳘त्या वै᳘ नीविस्त᳘स्मान्नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति यज्ञो वै न᳘मो यज्ञि᳘याने᳘वैनानेत᳘त्करोति षट् कृ᳘त्वो न᳘मस्करोति षड्वा᳘ ऽऋत᳘व ऋत᳘वः पित᳘रस्त᳘स्मात्षट्कृ᳘त्वो न᳘मस्करोति गृहा᳘न्नः पितरो दत्ते᳘ति गृहा᳘णाᳫं ह पित᳘र ऽईशत ऽए᳘षो ऽएत᳘स्याशीः क᳘र्मणो ऽथा᳘वजिघ्रति प्रत्यवधा᳘य पि᳘ण्डान्त्स᳘ यजमानभा᳘गो ऽग्नौ᳘ सकृदाच्छिन्ना᳘न्यभ्या᳘दधाति पु᳘नरु᳘ल्मुकम᳘पिसृजति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति॥
पितृदेव᳘त्या वै᳘ नीविस्त᳘स्मान्नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति यज्ञो वै न᳘मो यज्ञि᳘याने᳘वैनानेत᳘त्करोति षट् कृ᳘त्वो न᳘मस्करोति षड्वा᳘ ऽऋत᳘व ऋत᳘वः पित᳘रस्त᳘स्मात्षट्कृ᳘त्वो न᳘मस्करोति गृहा᳘न्नः पितरो दत्ते᳘ति गृहा᳘णाᳫं ह पित᳘र ऽईशत ऽए᳘षो ऽएत᳘स्याशीः क᳘र्मणो ऽथा᳘वजिघ्रति प्रत्यवधा᳘य पि᳘ण्डान्त्स᳘ यजमानभा᳘गो ऽग्नौ᳘ सकृदाच्छिन्ना᳘न्यभ्या᳘दधाति पु᳘नरु᳘ल्मुकम᳘पिसृजति॥
मूलम् - Weber
अ᳘थ नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति॥
पितृदेवॗत्या वै᳘ नीविस्त᳘स्मान्नीवि᳘मुद्वृ᳘ह्य न᳘मस्करोति यज्ञो वै न᳘मो यज्ञि᳘यानेॗवैनानेत᳘त्करोति षट् कृ᳘त्वो न᳘मस्करोति षड्वा᳘ ऋत᳘व ऋत᳘वः पित᳘रस्त᳘स्मात्षट् कृ᳘त्वो न᳘मस्करोति गृहा᳘न्नः पितरो दत्ते᳘ति गृहा᳘णाᳫं ह पित᳘र ईशत एॗषो एत᳘स्याशीः क᳘र्मणो ऽथा᳘वजिघ्रति प्रत्यवधा᳘य पि᳘ण्डान्त्स᳘ यजमानभाॗगो ऽग्नौ सकृदाछिन्ना᳘न्यभ्या᳘दधाति पु᳘नरु᳘ल्मुकम᳘पि सृजति॥
मूलम् - विस्वरम्
अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविः । तस्मान्नीविमुद्वृह्य नमस्करोति । यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति । षट् कृत्वो नमस्करोति । षड्वा ऋतवः । ऋतवः पितरः । तस्मात् षट्कृत्वो नमस्करोति । “गृहान्नः पितरो दत्त”- (वा. सं. २ । ३२) इति । गृहाणां ह पितर ईशते । एषो एतस्याशीः कर्मणः । अथावजिघ्रति प्रत्यवधाय पिण्डान् । स यजमानभागः । अग्नौ सकृदाच्छिन्नान्यभ्यादधाति । पुनरुल्मुकमपिसृजति ॥ २४ ॥ इति पिण्डपितृयज्ञाधिकारः ॥
सायणः
नमस्कारं विधत्ते- अथ नीविमिति 46 । ‘नीविः’ परिधानीयस्य वाससो दशा, ताम् ‘उद्वृह्य’ विस्रंस्य पितॄन् ‘नमस्करोति’ । तत्र विस्रंसने कारणमाह- पितृदेवत्येति । यतो ‘नीविः’ ‘पितृदेवत्या’ पितृदेवतार्था, पितॄणां तृप्तिकरीति यावत् । “देवतान्तात् तादर्थ्ये यत्” (पा. सू. ५ । ४ । २६) । ‘तस्मात्’ तां ‘नीविम्’- ‘उद्वृह्य’ विस्रंस्य प्रदर्श्य ते नमस्कर्त्तव्या इत्यर्थः । नीवेः पितृदेवत्यत्वं तैत्तिरीयके ऽप्याम्नातम्- “अग्नेस्तूषाधानं, वायोर्वातपानं पितृणां नीविः”- (तै. सं. ६ । १ । १ । ३) इत्यादि । नमस्कारस्य प्रयोजनमाह- यज्ञो वा इति । नमस्कारेण हि पूजा गम्यते, ‘यज्ञः’ पूजात्मकः; “यज देवपूजा”- (धा. पा. भ्वा. उ. १०२७) इति यजतेस्तदर्थत्वात् । अतो नमश्शब्दो यज्ञात्मकः । तेन नमस्कारेण ‘एनान्’ पितॄन् ‘यज्ञियान्’ यागार्हान् ‘एव’ ‘करोति’ । “यज्ञर्त्विग्भ्यां घखञौ”- (पा. सू. ५ । १ । ७१) इति अर्हार्थे घप्रत्ययः । विहितश्च नमस्कारो “नमो वः”- इति मन्त्रेण कर्त्तव्यः । उक्तं हि कात्यायनेन- “नीविं विस्रंस्य नमो व इत्यञ्जलिं करोति”- (का. श्रौ. सू. ६ । १५) इति । तस्मिंश्च मन्त्रे षड्भ्यो “नमः”- इति प्रयुज्यते, तत्सङ्ख्यामनूद्य स्तौति- षट्कृत्वः इति । “नमो वः पितरो रसाय” “नमो वः पितरः शोषाय”- इत्येवं षड्वारं नमस्कुर्यादित्यर्थः । ऋतवः पितर इति । वसन्ताद्यृतुषु प्रमीतस्य तत्तदनुरूपत्वप्राप्तेस्तादात्म्यव्यपदेशः । तथा चान्यत्र श्रूयते- “यस्मिन्नृतौ पुरुषः प्रमीयते, सो ऽस्यामुष्मिंल्लोके भवति- यदि वसन्ते प्रमीयते, वसन्तो भवति”- इत्यादि । तस्मात् तेषामृतूनां षट्सङ्ख्यात्वयोगात् तादात्म्यापन्नानां पितॄणां नमस्कारो ऽपि षड्वारः कर्त्तव्य इति युक्तमुक्तम्- “नमो वः पितरः” इति ।
नमस्कारमन्त्रो निगदव्याख्यात इत्यभिप्रेत्य तच्छेषमुपादाय व्याचष्टे- “गृहान्नः पितरो दत्त इति”- इति । शेषसहितस्य तस्य मन्त्रस्यायमर्थः- हे पितरः ! युष्मत्सम्बन्धिने ‘रसाय’ वसन्तर्त्तुजाताय नमो ऽस्तु । हे पितरः ! युष्मत्सम्बन्धिने ग्रीष्मजन्याय ‘शोषाय’ शोषणाय नमो ऽस्तु । एवमुत्तरत्रापि योज्यम् । ‘जीवः’ वर्षर्तौ वृष्ट्यर्थं क्रियमाणो वेगः । ‘स्वधा’- इति अन्ननाम, (निघं. २ । ७ । १७) व्रीह्यादिरूपमन्नञ्च शरदादिषु पच्यते; अतः शरदृतुसम्बन्धिने अन्नायेत्यर्थः । हेमन्तशिशिरयोर्हिमेन सर्वेषां पीडनात् तद्रूपौ पितृधर्मौ ‘घोरमन्यू’ । “नमो वः पितरः पितरो नमो वः"- इति व्यतिहारोक्तिरादरातिशयद्योतनार्था । एवं नमस्कृतान् पितॄन् प्रार्थयते- हे ‘पितरः’ ! ‘नः’ अस्मभ्यम् ‘गृहान्’ पुत्रपौत्रादिरूपान् ‘दत्त’ प्रयच्छत । पितॄणां दानसामर्थ्यं मन्त्रशेषस्य चाशीःपरत्वं स्पष्टमिति व्याचष्टे- गृहाणामिति । ‘पितरः’ खलु ‘गृहाणाम्’ ‘ईशते’ ईश्वरा भवन्ति । “अधीगर्थदयेशाम्”- (पा. सू. २ । ३ । ५२) इति कर्मणि षष्ठी । ‘एतस्य’ पिण्डपितृयज्ञाख्यस्य ‘कर्मणः’ ‘एषा’ ‘आशीः’ फलप्रार्थना ‘उ’ एवेत्यर्थः । पिण्डशेषस्यावघ्राणं विधत्ते- अथावजिघ्रतीति 47 । “घ्रा गन्धोपादाने”- (धा. पा. भ्वा. प. ५१) इत्यस्माल्लटि “पाघ्राध्मा”- (पा. सू. ७ । ३ । ७८) इति जिघ्रादेशः । तथा च अवघ्राणं ‘पिण्डान्’ पिण्डपात्रे ‘प्रत्यवधाय’ प्रतिक्षिप्य कर्त्तव्यम् । तच्चावघ्राणं ‘यजमानभागः’ यजमानस्य स्वकीयों ऽश इति विधेयभागापेक्षया पुंल्लिङ्गनिर्द्देशः । स्तीर्णस्य बर्हिषः प्रतिपत्तिं विधत्ते- अग्नाविति । ‘अभ्यादधाति’ प्रक्षिपतीत्यर्थः । उल्मुकस्यापि संसर्जनं विधत्ते- पुनरिति । “ये रूपाणि”- इति मन्त्रेण यदुल्मुकं पुरस्तात् पृथक् कृतम्, तदिदानीं पुनः संसृजेदित्यर्थः ॥ २४ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् ॥ (२-४-२)
Eggeling
- He then pulls down the tuck 48 (of the sacrificer’s garment) and performs obeisance. The tuck is sacred to the fathers (pitr̥devatyā): therefore he performs obeisance to them after pulling down the tuck. Now obeisance means worship (or sacrifice): hence he thereby renders them worthy of worship. Six times he performs obeisance; for there are six seasons, and the fathers are the seasons: for this reason he performs obeisance six times. He mutters (Vāj. S. II, 32 g), ‘Give us houses, O fathers!’ for the fathers are the guardians (īśate) of houses; and this is the prayer for blessing at this sacrificial performance. After the cakes have been put back (in the dish containing the remains of boiled rice) he (the sacrificer) smells at (the rice); this (smelling) being the sacrificer’s share. The
(stalks of sacrificial grass) cut with one stroke he puts on the fire; and he also again throws away the firebrand 49.
-
‘श्रुत्यर्थमनुविधित्सुना ऽऽचार्येण पौर्णमासमनुविहितमिदानीमवसरप्राप्तं दर्शस्यानुविधानं कर्त्तव्यम्, तत्र च प्राक्कालीनः पिण्ड पितृयज्ञः सो ऽनुविधेय इति (का. श्रौ. सू. ४ । १) भाष्ये कर्कः । ↩︎
-
361:1 Yajñopavītin, ‘sacrificially invested,’ i.e. wearing the sacrificial cord in the ordinary way, on the left shoulder and under the right arm. In any performance connected with the deceased ancestors, the cord has to be shifted from the left to the right shoulder and under the left arm (prācīnopavītin, lit. ’eastward invested’). ↩︎
-
‘केवलवीतवासस’ इति क्व. पाठः । ↩︎
-
अश्नीत Sây. ↩︎
-
दृष्ट्याच्छादकसामर्थ्यं’ इति ‘दृष्ट्याच्छादनं सामर्थ्यं’ इति च पा० । ↩︎
-
‘अघटितघटनशक्तिर्माया’ इति पा० । ↩︎
-
362:1 Śaśvat = ‘repeatedly,’ Comm.; śaśvad api, ’endlich auch (at last also),’ St. Petersb. Dict. ↩︎
-
‘पुरुषो’ इ. पा. । ↩︎
-
‘प्रसन्नो-’ इ. पा. । ↩︎
-
“वसून्वदन्ति वै पितॄन्रुद्रांश्चैव पितामहान् । प्रपितामहांस्त्वादित्याञ्छ्रुतिरेषा सनातनी ॥ १ ॥ ↩︎
-
का. श्रौ. सू. ४ । ४ । ↩︎
-
अपरेण गार्हपत्यं चरुमपूर्ण स्रुचं वा तूष्णीं गृहीत्वोत्तरेण दक्षिणाग्निमवहंति तिष्ठन् । का. श्रौ. सू. ४ । ४ ॥ ↩︎
-
सकृत्फलीकरोति । का. श्रौ. सू. ४ । ५ । ↩︎
-
363:1 Dakshiṇāsīnaḥ; the Commentator interprets it by ‘sitting south of the cart.’ ↩︎
-
363:2 The Kāṇva text has,–etaṁ caruṁ gr̥hṇāti, ‘he takes that pot, or potful, (of rice).’ Doubtless, he is to take from the cart the quantity of rice sufficient for the offerings and put it in the pot (caru). According to Kāty. IV, I, 5-7 he is to take the but-partly-filled pot, or a spoonful (or, according to the Schol., rather less than a spoonful). ↩︎
-
363:3 Compare the detailed account in I, 1, 4, 1 seq. ↩︎
-
का. श्रौ. सू. ४ । ६ । ↩︎
-
364:1 According to Taitt. Br. I, 3, 10, 3, some make a third oblation, viz. as Sāyaṇa states, to Yama (the chief of the fathers), with the formula, ‘To Yama, accompanied by the Aṅgiras and fathers, svadhā! namaḥ!’ see note 3. ↩︎
-
सनू᳘रु᳘??होव A. ↩︎
-
प्रास्य तद्दक्षिणेनोल्लिखत्यपहता इत्यपरेण वा । (का. श्रौ. सू. ४ । ७) अग्नौ मेक्षणं प्रास्य । अग्नेरेव दक्षिणेनापरेण वा स्फ्येनोलेखनमित्यर्थः । ↩︎ ↩︎ ↩︎
-
364:2 The commentary on Kāty. IV, 1, 7 supplies the following particulars:–Having removed the pot off the Dakshiṇa fire on the south side, the Adhvaryu takes it, along the east, to the north side of the fire. He then shifts the sacrificial cord to his left shoulder (as he is about to offer to gods), puts three sticks on the fire, and sitting down with his face towards the east offers some boiled rice with the pot-ladle (mekshaṇa). ↩︎
-
364:3 The Taittirīyas use svadhā! namaḥ instead of svāhā! They also offer first to Soma, with ‘To Soma, drank by the fathers’ (but cf. Taitt. Br. I, 6, 9, 5), and then to (Yama, and finally to) Agni. Taitt. Br. I, 3, 10, 2-3. ↩︎
-
364:4 See I, 7, 3, 1 seq. ↩︎
-
364:5 Or west (jaghanena) of the fire [from north to south], according to the Kāṇva text; optionally, according to Kāty. IV, 1, 8. Kāty. also gives the text ‘Expelled are the Asuras, the Rakshas, seated on the altar’ (Vāj. S. II, 29 c) to be muttered during the act. ↩︎
-
365:1 Or, as the Commentator takes svadhayā, ‘(attracted) by the svadhā (offering to the fathers).’ ↩︎
-
365:2 That is, according to the Schol., assuming the shapes of deceased ancestors. ↩︎
-
365:3 This explanation of the words parāpuraḥ and nipuraḥ, proposed by the Scholiast, is doubtful. ↩︎
-
उदपात्रेणावनेजयत्यपसव्य ँ सव्येन वोद्धरणसामर्थ्यात् । (का० श्रौ० सू० ४ । ९ ।) ↩︎
-
असाववनेनिक्ष्वेति यजमानस्य पितृप्रभृति त्रीन् । (का० श्रौ० सू० ४ । १०) यजमानस्येति अध्वर्युकर्तृकत्वे । ↩︎
-
365:4 The Adhvaryu (having again shifted the sacrificial cord to his right shoulder) pours water through the “fathers’ space” (pitr̥tīrtha, i.e. the space between the thumb and fore-finger), from right to left, into the line, at its beginning, centre, and end. Kāty. IV, 1, 10, and Schol. ↩︎
-
365:5 See paragraph 19. ↩︎
-
उपमूलँ सकृदाच्छिन्नानि लेखायां कृत्वा यथा ऽवनिक्तं पिंडान् ददात्यसावेतत्त इति । का० श्रौ० सू० ४ । ११ । उपमूलमिति अन्यपदविग्रहो नित्यसमासः । मूलसमीपे यानि सकृदाच्छिन्नानि तानि उपमूलं दिनानि बर्हिस्तृणानि । अन्यत्रापि तृणार्थे इत्युक्तत्वादिति कर्कः । ↩︎
-
366:1 According to the Paddhati on Kāty. the first ball is to be of the size of a fresh āmalaka, or fruit of the Emblic Myrobalan, and each of the two others is to be larger than the preceding one. ↩︎
-
366:2 Here the teacher indicated by gesture the part of the hand sacred to the fathers (see p. 365, note 4); and then in the same way that dedicated to the gods, viz. the tip of the fingers. ↩︎
-
366:3 The Kāṇva recension reads here also ’thus they take out (the food) for men;’ the part of the hand dedicated to man being, according to the commentary on Kāty. IV, 1, 10, the part about the little finger (kanishṭḥikāpradeśa). ↩︎
-
366:4 Svayaṁ vai teshāṁ saha yeshāṁ saha. According to the commentary, the author apparently means to say, that if he were to add, ‘and those who come after thee (i.e. after his father),’ he would include the sacrificer himself, and the latter would consequently offer the piṇḍa to himself. The form of the presentation-formula rejected by our author is the one adopted in Āśval. Śr. II, 6, 15, except that ‘atra’ is added there (‘who here come after thee’). The Kāṇva text mentions and rejects the two alternative readings, ‘ye ca tvām anvāñcaḥ’ and ‘yāṁś ca tvam anvaṅ asi’ (‘and those whom thou followest’). In Taitt. Br. I, 3, 10, no presentation-formula is mentioned at all. ↩︎
-
इदानींतनधातुपाठे तु ‘तमु कांक्षायां’ इति पाठो लभ्यते । ↩︎
-
367:1 The Kāṇva recension has tad u instead of sa vai. ↩︎
-
367:2 ‘Formerly the gods and men and fathers (deva-manushyāḥ pitaraḥ) drank visibly together, but now they do so invisibly.’ Śat. Br. III, 6, 2, 26. ↩︎
-
367:3 Viz. by pouring water on the obsequial cakes. According to Āśval. Sr. II, 7, 5, and other treatises, he also puts down some ointment, oil, or butter on the piṇḍas, saying, ‘(Father), N.N., anoint thyself!’ &c. see Donner, Piṇḍap., p. 25. ↩︎
-
368:1 See paragraph 19. ↩︎
-
इह सूत्रदाने पिण्डप्राशने ऊर्जधारादाने च मन्त्राः संहितायां पठ्यन्ते त इह न सन्ति । ↩︎
-
एतद्व इत्युपास्यति सूत्राणि प्रतिपिंडम् । का. श्रौ. सू. ४ । १६ । सूत्राणीति- बहुवचनोपदेशात्- त्रीणि त्रीणीति कर्कः । ऊर्णादशा वा । का. श्रौ. सू. ४। १७ । वयस्युत्तरे यजमानलोमानि वा ४ । १८ । उत्तरे वयसि पंचाशतादूर्ध्वमिति कर्कः । ऊर्जमित्यपो निषिंचति का. श्रौ. सू. ४- १९ ॥ पिंडमूलेषु- तर्पयत मे पितॄन् इति लिंगादिति कर्कः । अवधायावजिघ्रति यजमानः । का. श्रौ. सू. ४-२० । उल्मुकसकृदाच्छिन्नान्यग्नौ का. श्रौ. सू. ४ । २१ । अभ्यादधातीति वाक्यशेषः । पूर्वं सकृदाच्छिन्नानि- तत उल्मुकम् । अग्नौ, सकृदाच्छिन्नान्यग्नावभ्यादधाति पुनरुल्मुकमपिसृजतीति वचनात् । अजादित्वादल्पाक्षरत्वाच्च पूर्वनिपात इति कर्कः । ↩︎
-
368:2 Nīvim udvr̥hya = paridhānīyasya vāsaso daśā tām udvr̥hya visraṁsya, Sāyaṇa. According to Mahādeva, he (who presents the piṇḍas, viz. either the Adhvaryu or the sacrificer) has previously to put on a garment with a tuck (nīvimat paridhānam), i.e. with the daśā, or unwoven edge of the upper garment, tucked up under the waistband. This he is to pull out. Kātyāyana has the following rules: IV, I, 15, Having made (them) wash themselves as before, and having loosened (visraṁsya) the tuck, he makes obeisance with ‘adoration to your vigour, O fathers!’ &c. (Vāj. S. II, 32 a-f). [According to the Comm., he adds the formula, ‘Give us houses, O fathers! we will give to you of what is (ours).’ Vāj. S. II, 32, 9.] 16, With ‘Put on this your garment, O fathers!’ (Vāj. S. II, 32 h), he throws three threads (pieces of yarn), one on each cake. 17, Or, woollen fringe [or, wool or fringe (daśā), according to others]. 18, Or, hairs of the sacrificer (pulled out from the chest near the heart), if he is advanced in years. 19, He pours [the water, left in the pitcher, on the cakes] with ‘Ye (O waters) are a refreshing draught, ye, that bring sap, immortal ghee and milk and foaming mead: gladden my fathers!’ (Vāj. S. II, 34.) 20, [The Adhvaryu] having laid (the cakes on the dish) the sacrificer smells at them. 21, The firebrand and the once-cut stalks of grass (he throws) into the fire. 22, The wife, if desirous of a son, eats the middle cake with, ‘Bestow offspring on me, O fathers, a boy crowned with lotuses; that there may he a man here!’ (Vāj. S. II, 33.) [According to the comment, the other two cakes are thrown into the water or fire; or eaten by a priest.] For other variations, see Donner, Piṇḍapitr̥yajña. The Kāṇva recension, on the whole, agrees with our text. ↩︎
-
369:1 The Kāṇva text has as follows: ‘Therefore he says, Give us houses, O fathers!’ He then smells at the pot (ukhā): that is the sacrificer’s share. They again put down the cakes together (with the rice in the pot! samavadadhati). The once-severed (stalks of grass) they put on the fire. The firebrand he again shifts to (the fire; apy-arjati). ↩︎