०१

विश्वास-प्रस्तुतिः

अ᳘थ हु᳘ते ऽग्निहोत्र उ᳘पतिष्ठते॥
भूर्भु᳘वः स्व᳘रि᳘ति त᳘त्सत्ये᳘नै᳘वैतद्वा᳘चं स᳘मर्धयति यदा᳘ह भूर्भु᳘वः स्वरि᳘ति त᳘या स᳘मृद्धया᳘शिषमा᳘शास्ते सुपो᳘षः पो᳘षैरि᳘ति तत्पु᳘ष्टिमा᳘शास्ते॥

मूलम् - श्रीधरादि

अ᳘थ हु᳘ते ऽग्निहोत्र उ᳘पतिष्ठते॥
भूर्भु᳘वः स्व᳘रि᳘ति त᳘त्सत्ये᳘नै᳘वैतद्वा᳘चं स᳘मर्धयति यदा᳘ह भूर्भु᳘वः स्वरि᳘ति त᳘या स᳘मृद्धया᳘शिषमा᳘शास्ते सुपो᳘षः पो᳘षैरि᳘ति तत्पु᳘ष्टिमा᳘शास्ते॥

मूलम् - Weber

अ᳘थ हु᳘ते ऽग्निहोत्र उ᳘पतिष्ठते॥
भूर्भु᳘वः स्व᳘रि᳘ति त᳘त्सत्ये᳘नैॗवैतद्वा᳘चᳫं स᳘मर्धयति यदा᳘ह भूर्भु᳘वः स्वरि᳘ति त᳘या स᳘मृद्धया᳘शिषमा᳘शास्ते सुपो᳘षः पो᳘षैरि᳘ति तत्पु᳘ष्टिमा᳘शास्ते॥

मूलम् - विस्वरम्

अथ क्षुल्लकोपस्थानमासुरिदृष्टम् ।

अथ हुते ऽग्निहोत्र उपतिष्ठते- “भूर्भुवः स्वः”- (वा० सं० ३ । ३७) इति । तत्सत्येनैवैतद्वाचं समर्धयति । यदाह- भूर्भुवः स्वरिति । तया समृद्धया ऽऽशिषमाशास्ते । “सुप्रजाः प्रजाभिः स्याम्"- इति (वा० सं० ३ । ३७) । तत्प्रजामाशास्ते । “सुवीरो वीरैः”- इति (वा० सं० ३ । ३७) । तद्वीरानाशास्ते । “सुपोषः पोषैः”- इति (वा० सं० ३ । ३७) । तत्पुष्टिमाशास्ते ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्म्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ ४ ॥

एवमग्निहोत्रहोमोपस्थानं विधाय लघूपस्थानमन्त्रानपि दर्शयति- अथ हुत इति । अग्निहोत्रहोमानन्तरं “भूर्भुवः स्वः, सुप्रजाः" 1- ‘इति’ अनेनैव मन्त्रेण आहवनीयम् ‘उपतिष्ठते’ । पूर्वोक्तादुपस्थानमन्त्रजातादस्य 2 मन्त्रस्यातिशयमाह- तत् सत्येनेति । सत्यरूपा ह्येता व्याहृतयः त्रयीसारत्वात् । तथा चाम्नातम्- “भूरित्यृग्वेदाद्, भुव इति यजुर्वेदात्, स्वरिति सामवेदात्”- इति (ऐ. ब्रा. १ । १ । ७ ।) । एवं व्याहृतिरूपेण 3 ‘सत्येनैव’ इमां मन्त्ररूपां ‘वाचं’ ‘समर्द्धयति’ । ‘तया’ च ‘समृद्धया’ वाचा प्रागुक्तां सर्वामपि ‘आशिषम्’ ‘आशास्ते’ प्रार्थयत इत्यर्थः । तदाशासनप्रकारं दर्शयति- सुप्रजा इति । ‘प्रजाभिः’ पुत्रपौत्रादिरूपाभिः ‘सुप्रजाः’ शोभनप्रजोपेतः ‘स्याम्’ । एकः प्रजाशब्दो ऽनुवादः । एवं सुवीरो वीरैरिति । वीर्यवन्तः पुत्राः वीराः; तेषां प्रजाशब्देन परिगृहीतत्वे ऽपि पुनः प्राधान्यख्यापनार्थं पृथगाशासनमिति द्रष्टव्यम् ॥ १ ॥

Eggeling
  1. Now after the performance of the Agnihotra he (optionally 4) .approaches the fires with (Vāj. S. III, 37), ‘Earth! ether! sky!’ In saying ‘Earth! ether! sky!’ he renders his speech auspicious by means of the truth, and with that (speech) thus rendered propitious he invokes a blessing:–‘May I be well supplied with offspring!’ whereby he prays for offspring; ‘–well supplied with men!’ whereby he prays for men (heroes); ‘–well supplied with viands!’ whereby he prays for prosperity.

०२

विश्वास-प्रस्तुतिः

यद्वा᳘ अदो᳘ दीर्घ᳘मग्न्युपस्थान᳘म्॥
आशी᳘रेव᳘ साशी᳘रियं त᳘देता᳘वतै᳘वैतत्स᳘र्वमाप्नोति त᳘स्मादेते᳘नैवो᳘पतिष्ठेतैते᳘न᳘ न्वेव᳘ वयमु᳘पचराम इ᳘ति ह स्माहा᳘सुरिः॥

मूलम् - श्रीधरादि

यद्वा᳘ अदो᳘ दीर्घ᳘मग्न्युपस्थान᳘म्॥
आशी᳘रेव᳘ साशी᳘रियं त᳘देता᳘वतै᳘वैतत्स᳘र्वमाप्नोति त᳘स्मादेते᳘नैवो᳘पतिष्ठेतैते᳘न᳘ न्वेव᳘ वयमु᳘पचराम इ᳘ति ह स्माहा᳘सुरिः॥

विश्वास-प्रस्तुतिः

यद्वा᳘ ऽअदो᳘ दीर्घ᳘मग्न्युपस्थान᳘म्॥
(मा) आशी᳘रेव᳘ साशी᳘रियं त᳘देता᳘वतै᳘वैतत्स᳘र्व्वमाप्नोति त᳘स्मादेते᳘नैवो᳘पतिष्ठेतैते᳘न᳘ न्वेव᳘ व्वयमु᳘पचराम इ᳘ति ह स्माहा᳘सुरिः॥

मूलम् - श्रीधरादि

यद्वा᳘ ऽअदो᳘ दीर्घ᳘मग्न्युपस्थान᳘म्॥
(मा) आशी᳘रेव᳘ साशी᳘रियं त᳘देता᳘वतै᳘वैतत्स᳘र्व्वमाप्नोति त᳘स्मादेते᳘नैवो᳘पतिष्ठेतैते᳘न᳘ न्वेव᳘ व्वयमु᳘पचराम इ᳘ति ह स्माहा᳘सुरिः॥

मूलम् - Weber

यद्वा᳘ अदो᳘ दीर्घ᳘मग्न्युपस्थान᳘म्॥
आशी᳘रेवॗ साशी᳘रियं त᳘देता᳘वतैॗवैतत्स᳘र्वमाप्नोति त᳘स्मादेते᳘नैवो᳘पतिष्ठेतैते᳘नॗ न्वेव᳘ वयमु᳘पचराम इ᳘ति ह स्माहा᳘सुरिः॥

मूलम् - विस्वरम्

यद्वा अदो दीर्घमग्न्युपस्थानम्- आशीरेव सा । आशीरियम् । तदेतावतैवैतत्सर्वमाप्नोति । तस्मादेतेनैवोपतिष्ठेत । एतेन न्वेव वयमुपचराम इति ह स्माहासुरिः ॥ २ ॥

सायणः

प्रागुक्तोपस्थानेनास्य समानकार्यकारित्वात् विकल्पमाह- यदिति । ‘अदः’ पूर्वोक्तं ‘दीर्घं’ बहुकर्त्तव्योपेतं बहुमन्त्रसाध्यं यदग्न्युपस्थानम्, तत् ‘आशीः’ फलप्रार्थनम् ‘एव’ । तथा “भूर्भुवः स्वः”- इति मन्त्रसाध्यमुपस्थानमपि तादृगाशीर्युक्तम् । ‘तत्’ ततः ‘एतावतैव’ उपस्थानेन ‘एतत्’ प्रागुक्तं ‘सर्वं’ फलम् ‘आप्नोति’ । अस्मिन्नुपस्थाने ऋषिवचनं संवादयति- एतेन न्वेवेति । ‘एतेनैव’ लघूपस्थानेनैव ‘वयम्’ अग्निम् ‘उपचरामः’ ‘इति’ । यस्मादेवम् ‘आसुरिः’ महर्षिः ‘आह स्म’ उक्तवान्, ‘तस्मात्’ इदमेवोपस्थानं कर्त्तव्यमित्यर्थः । अत एव सूत्र्यते- “भूर्भुवः स्वरिति वोभौ” (का . श्रौ. सू. ४ । २८५) इति ॥ २ ॥

Eggeling
  1. That long (form of) fire-worship is a prayer for blessing, and so is this (short) one a prayer for blessing: hence even with this much he obtains all, and he may therefore worship the fires with it. ‘Therewith, indeed, we perform,’ so spake Āsuri.

०३

विश्वास-प्रस्तुतिः

अ᳘थ प्रवत्स्यन्॥
गा᳘र्हपत्यमेवा᳘ग्र उ᳘पतिष्ठते᳘ ऽथाहवनी᳘यं॥

मूलम् - श्रीधरादि

अ᳘थ प्रवत्स्यन्॥
गा᳘र्हपत्यमेवा᳘ग्र उ᳘पतिष्ठते᳘ ऽथाहवनी᳘यं॥

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ प्रवत्स्यन्॥
(न्गा᳘) गा᳘र्हपत्यमेवा᳘ग्र ऽउ᳘पतिष्ठते᳘ ऽथाहवनी᳘यम्॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ प्रवत्स्यन्॥
(न्गा᳘) गा᳘र्हपत्यमेवा᳘ग्र ऽउ᳘पतिष्ठते᳘ ऽथाहवनी᳘यम्॥

मूलम् - Weber

अ᳘थ प्रवत्स्यन्॥
गा᳘र्हपत्यमेवा᳘ग्र उ᳘पतिष्ठते᳘ ऽथाहवनी᳘यं॥

मूलम् - विस्वरम्

प्रवत्स्यदुपस्थानम् ।

अथ प्रवत्स्यन् गार्हपत्यमेवाग्र उपतिष्ठते- अथाहवनीयम् ॥ ३ ॥

सायणः

अथ प्रवासं करिष्यता यजमानेन कर्त्तव्यमुपस्थानं दशयति- अथ प्रवत्स्यन्निति 5 । ‘प्रवत्स्यन्’ प्रवासं करिष्यन् । विहिते गार्हपत्याहवनीयोपस्थाने ॥ ३ ॥

Eggeling
  1. Now, when he is about to set out on a journey 6, he approaches first the Gārhapatya, and thereupon the Āhavanīya.

०४

विश्वास-प्रस्तुतिः

स गा᳘र्हपत्यमु᳘पतिष्ठते॥
न᳘र्य प्रजा᳘म् मे पाही᳘ति प्रजा᳘या हैष᳘ ईष्टे त᳘त्प्रजा᳘मे᳘वास्मा एतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - श्रीधरादि

स गा᳘र्हपत्यमु᳘पतिष्ठते॥
न᳘र्य प्रजा᳘म् मे पाही᳘ति प्रजा᳘या हैष᳘ ईष्टे त᳘त्प्रजा᳘मे᳘वास्मा एतत्प᳘रिददाति गु᳘प्त्यै॥

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स गा᳘र्हपत्यमु᳘पतिष्ठते॥
न᳘र्य प्रजां᳘ मे पाही᳘ति प्रजा᳘या हैष᳘ ईष्टे त᳘त्प्रजा᳘मे᳘वास्मा ऽएतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स गा᳘र्हपत्यमु᳘पतिष्ठते॥
न᳘र्य प्रजां᳘ मे पाही᳘ति प्रजा᳘या हैष᳘ ईष्टे त᳘त्प्रजा᳘मे᳘वास्मा ऽएतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - Weber

स गा᳘र्हपत्यमु᳘पतिष्ठते॥
न᳘र्य प्रजा᳘म् मे पाही᳘ति प्रजा᳘या हैष᳘ ईष्टे त᳘त्प्रजा᳘मेॗवास्मा एतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - विस्वरम्

स गार्हपत्यमुपतिष्ठते । “नर्य प्रजां मे पाहि”- इति (वा० सं० ३ । ३७) । प्रजाया हैष ईष्टे । तत् प्रजामेवास्मा एतत् परिददाति गुप्त्यै ॥ ४ ॥

सायणः

तत्र गार्हपत्योपस्थानमनूद्य मन्त्रं विधत्ते- स गार्हपत्यमिति । मन्त्रस्य तात्पर्यमाह- प्रजाया इति । एष हि गार्हपत्यः ‘प्रजाया ईष्टे’; कृत्स्नाग्नियोनिभूतत्वात् । अतः ‘अस्मै’ गार्हपत्याय प्रजाया रक्षणार्थं परिदानं क्रियत इत्यर्थः ॥ ४ ॥

Eggeling
  1. The Gārhapatya he approaches with the text (Vāj. S. III, 37 b seq.), ‘Thou, that art friendly to man, protect my offspring!’ He (Agni Gārhapatya), truly, is the guardian of offspring; and therefore he now makes over to him his offspring for protection.

०५

विश्वास-प्रस्तुतिः

अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
शं᳘स्य पशू᳘न्मे पाही᳘ति पशूनां᳘ हैष᳘ ईष्टे त᳘त्पशू᳘ने᳘वास्मा एतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - श्रीधरादि

अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
शं᳘स्य पशू᳘न्मे पाही᳘ति पशूनां᳘ हैष᳘ ईष्टे त᳘त्पशू᳘ने᳘वास्मा एतत्प᳘रिददाति गु᳘प्त्यै॥

विश्वास-प्रस्तुतिः

(प्त्या ऽ) अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
श᳘ᳫं᳭स्य पशू᳘न्मे पाही᳘ति पशूना᳘ᳫँ᳭ हैष᳘ ईष्टे त᳘त्पशू᳘ने᳘वास्मा ऽएतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - श्रीधरादि

(प्त्या ऽ) अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
श᳘ᳫं᳭स्य पशू᳘न्मे पाही᳘ति पशूना᳘ᳫँ᳭ हैष᳘ ईष्टे त᳘त्पशू᳘ने᳘वास्मा ऽएतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - Weber

अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
श᳘ᳫं᳘स्य पशू᳘न्मे पाही᳘ति पशूना᳘ᳫं᳘ हैष᳘ ईष्टे त᳘त्पशू᳘नेॗवास्मा एतत्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - विस्वरम्

अथाहवनीयमुपतिष्ठते- “शंस्य पशून्मे पाहि” इति (वा० सं० ३ । ३७) । पशूनां हैष ईष्टे । तत् पशूनेवास्मा एतत् परिददाति गुप्त्यै ॥ ५ ॥

सायणः

प्रवत्स्यतो यदाहवनीयोपस्थानं विहितम्, तदनूद्य मन्त्रं विधत्ते- अथाहवनीयमिति । पशूनां हेत्यादि, निगदसिद्धम् ॥ ५ ॥

Eggeling
  1. He then approaches the Āhavanīya, with ‘Thou, that art worthy of praise, protect my cattle!’ He (Agni), truly, is the guardian of cattle, and therefore he now makes over to him his cattle for protection 7.

०६

विश्वास-प्रस्तुतिः

अ᳘थ प्र᳘ वा व्र᳘जति प्र᳘ वा धावयति॥
स य᳘त्र वे᳘लाम् म᳘न्यते त᳘त्स्यन्त्त्वा वा᳘चं वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र वे᳘लाम् म᳘न्यते तद्वा᳘चं यछति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

मूलम् - श्रीधरादि

अ᳘थ प्र᳘ वा व्र᳘जति प्र᳘ वा धावयति॥
स य᳘त्र वे᳘लाम् म᳘न्यते त᳘त्स्यन्त्त्वा वा᳘चं वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र वे᳘लाम् म᳘न्यते तद्वा᳘चं यछति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

विश्वास-प्रस्तुतिः

(प्त्या ऽ) अ᳘थ प्र᳘ वा व्व्र᳘जति प्र᳘ वा धावय᳘ति॥
स यत्र व्वे᳘लां म᳘न्यते त᳘त्स्यत्त्वा व्वा᳘चं व्वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र व्वे᳘लां म᳘न्यते तद्वा᳘चं यच्छति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

मूलम् - श्रीधरादि

(प्त्या ऽ) अ᳘थ प्र᳘ वा व्व्र᳘जति प्र᳘ वा धावय᳘ति॥
स यत्र व्वे᳘लां म᳘न्यते त᳘त्स्यत्त्वा 5 व्वा᳘चं व्वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र व्वे᳘लां म᳘न्यते तद्वा᳘चं यच्छति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

मूलम् - Weber

अ᳘थ प्र᳘ वा व्र᳘जति प्र᳘ वा धावयति॥
स य᳘त्र वे᳘लाम् म᳘न्यते त᳘त्स्यन्त्त्वा 8 वा᳘चं वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र वे᳘लाम् म᳘न्यते तद्वा᳘चं यछति स यद्य᳘पि राजा᳘न्तरेण स्याॗन्नैव तमु᳘पेयात्॥

मूलम् - विस्वरम्

अथ प्र वा व्रजति, प्र वा धावयति । स यत्र वेलां मन्यते तत्स्यत्त्वा वाचं विसृजते । अथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति । स यद्यपि राजान्तरेण स्यात्- नैव तमुपेयात् ॥ ६ ॥

सायणः

अथ प्र वा व्रजतीति 5 । एवं गार्हपत्याहवनीययोः समन्त्रकमुपस्थानं कृत्वा, वाहनरहितश्चेत् स्वयं ‘प्रव्रजति’ गच्छति; वाहनसहितश्चेत् अश्वरथादीन् ‘धावयति’ प्रगमयति । ‘सः’ च गच्छन् ‘यत्र’ यस्मिन् देशे ‘वेलां’ स्वनिवासग्राममर्यादां ‘मन्यते’, तत्स्थानप्राप्तिपर्यन्तं वाचंयमो गत्वा, तदनन्तरं ‘वाचं विसृजेत्’ न तु ततः प्रागित्यर्थः । पुनरागमनसमये ऽपि तत्स्थानप्रभृति अग्निसमीपगमनपर्यन्तं वाग्यमनं विधत्ते- अथ प्रोष्येति 9 । ‘प्रोष्य’ प्रवासं कृत्वा पुनरागत्य यत्र ग्राममर्यादां मन्यते, तत्र वाचंयमो भवेत् । एवं वाग्यतस्य यजमानस्य अग्न्यागारस्य च मध्ये यदि राजा आगच्छेत्, ‘तम्’ अपि नैव ‘उपेयात्’ उपगच्छेत् । वाग्यमनानन्तरं राजादिपूज्यजनसन्निधाने ऽपि तदनादरेण अग्निगतमनस्क एव तत्समीपं गच्छेदित्यर्थः 10 । तदेतद् विस्पष्टमापस्तम्बेन सूत्रितम्- “आरादग्निभ्यो वाचं यच्छति, यद्येनं राजा पिता ऽऽचार्यो वा ऽन्तरेणाग्नीन् स्याच्छदिर्दर्शने नैनमाद्रियेत”- इति (आप. श्रौ. सू. २५ । ५ । ६ ।) ॥ ६ ॥

Eggeling
  1. Thereupon he walks or drives off; and having got as far as what he considers to be the boundary 11, he breaks silence. And when he returns from his journey he maintains silence from the moment he sees what he considers to be the boundary. And even though there be a king inside (one’s house), one must not go to him (or any other person before one has rendered homage to the fires).

०७

विश्वास-प्रस्तुतिः

स᳘ आहवनी᳘यमेवा᳘ग्र उ᳘पतिष्ठते॥
अ᳘थ गा᳘र्हपत्यं गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्र᳘तिष्ठा त᳘द्गृहे᳘ष्वे᳘वैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

स᳘ आहवनी᳘यमेवा᳘ग्र उ᳘पतिष्ठते॥
अ᳘थ गा᳘र्हपत्यं गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्र᳘तिष्ठा त᳘द्गृहे᳘ष्वे᳘वैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति॥

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ ऽआहवनी᳘यमेवा᳘ग्र ऽउ᳘पतिष्ठते॥
(ते᳘ ऽथ) अ᳘थ गा᳘र्हपत्यं गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ ऽआहवनी᳘यमेवा᳘ग्र ऽउ᳘पतिष्ठते॥
(ते᳘ ऽथ) अ᳘थ गा᳘र्हपत्यं गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - Weber

स᳘ आहवनी᳘यमेवा᳘ग्र उ᳘पतिष्ठते॥
अ᳘थ गा᳘र्हपत्यं गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्र᳘तिष्ठा त᳘द्गृहे᳘ष्वेॗवैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

स आहवनीयमेवाग्र उपतिष्ठते- अथ गार्हपत्यम् । गृहा वै गार्हपत्यः, गृहा वै प्रतिष्ठा । तद् गृहेष्वेवैतत्प्रतिष्ठायां प्रतितिष्ठति ॥ ७ ॥

सायणः

प्रवत्स्यन्नुपस्थानवैपरीत्यमागतोपस्थानस्य विधत्ते- इति । आहवनीयस्यैव प्रथममुपस्थानं पश्चाद् गार्हपत्यस्येत्यर्थः । गार्हपत्योपस्थानस्य पश्चाद्भावं प्रतिपादयति- गृहा वा इति । सर्वाग्नीनां योनित्वात् गृहपतिना संयुक्तत्वाच्च गार्हपत्यस्य गृहशब्दाभिधेयत्वम् ॥ ७ ॥

Eggeling
  1. He first approaches the Āhavanīya fire, and thereupon the Gārhapatya. The Gārhapatya doubtless is a house (gr̥hāḥ), and a house is a safe resting-place: so that he thereby (finally 12) establishes himself in a house, that is, in a safe resting-place.

०८

विश्वास-प्रस्तुतिः

स᳘ आहवनी᳘यमु᳘पतिष्ठते॥
आ᳘गन्म विश्व᳘वेदसमस्म᳘भ्यं वसुवि᳘त्तमम् अ᳘ग्ने सम्राडभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यछस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - श्रीधरादि

स᳘ आहवनी᳘यमु᳘पतिष्ठते॥
आ᳘गन्म विश्व᳘वेदसमस्म᳘भ्यं वसुवि᳘त्तमम् अ᳘ग्ने सम्राडभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यछस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

विश्वास-प्रस्तुतिः

स᳘ ऽआहवनी᳘यमु᳘पतिष्ठते॥
(त ऽआ᳘) आ᳘गन्म व्विश्व᳘वेदसमस्म᳘भ्यं व्वसुवि᳘त्तमम्॥ अ᳘ग्ने सम्राडभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यच्छस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - श्रीधरादि

स᳘ ऽआहवनी᳘यमु᳘पतिष्ठते॥
(त ऽआ᳘) आ᳘गन्म व्विश्व᳘वेदसमस्म᳘भ्यं व्वसुवि᳘त्तमम्॥ अ᳘ग्ने सम्राडभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यच्छस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - Weber

स᳘ आहवनी᳘यमु᳘पतिष्ठते॥
आ᳘गन्म विश्व᳘वेदसमस्म᳘भ्यं वसुवि᳘त्तमम् अ᳘ग्ने सम्राडभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यछस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - विस्वरम्

स आहवनीयमुपतिष्ठते- “आगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राडभि द्युम्नमभि सह आयच्छस्व”- इति (वा. सं. ३ । ३८) । अथोपविश्य तृणान्यपलुम्पति ॥ ८ ॥

सायणः

तत्र प्रथमकर्त्तव्यमाहवनीयोपस्थानं समन्त्रकं दर्शयति- स आहवनीयम् इति । मन्त्रस्य चायमर्थः- हे ‘सम्राट्’ सम्यग्राजमान ‘अग्ने !’ ‘विश्ववेदसं’ सर्वधनोपेतम्, ‘अस्मभ्यं’ अस्मदर्थं ‘वसुवित्तमं’ वसुनः धनस्य लम्भयितृतमं त्वाम् ‘आगन्म’ आगमाम । त्वं च ‘द्युम्नं’ धनं, ‘सहः’ पराभिभवहेतुभूतं बलं च ‘अभ्यायच्छस्व’ अभिगमयेत्यर्थः ॥

समिदाधानं विधत्ते- अथेति 13 । उपस्थानानन्तरमाहवनीयसमीपे उपविश्य ‘तृणानि’ तृणोपलक्षितानि समिदादीनि ‘अपलुम्पति’ प्रच्छिद्य तस्मिन्नग्नौ प्रक्षिपेत् । “लुप्लृ छेदने” (वा. पा. तु. उ. १५०) ॥ ८ ॥

Eggeling
  1. He approaches the Āhavanīya fire, with the text (Vāj. S. III, 38 seq.), ‘We have approached (thee), the all-knowing, the most liberal dispenser of

goods: O Agni, sovereign lord, bestow on us lustre and strength!’ Having then sat down he sweeps the blades of grass 14 (into the fire).

०९

विश्वास-प्रस्तुतिः

अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
अय᳘मग्निर्गृह᳘पतिर्गा᳘र्हपत्यःप्रजा᳘या वसुवि᳘त्तमः अ᳘ग्ने गृहपते ऽभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यछस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पत्येतन्नु ज᳘पेनैते᳘न᳘ न्वेव भू᳘यिष्ठा इवो᳘पतिष्ठन्ते॥

मूलम् - श्रीधरादि

अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
अय᳘मग्निर्गृह᳘पतिर्गा᳘र्हपत्यःप्रजा᳘या वसुवि᳘त्तमः अ᳘ग्ने गृहपते ऽभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यछस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पत्येतन्नु ज᳘पेनैते᳘न᳘ न्वेव भू᳘यिष्ठा इवो᳘पतिष्ठन्ते॥

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
(ते ऽय᳘) अय᳘मग्नि᳘र्गृह᳘पतिर्गा᳘र्हपत्यः प्रजा᳘या व्वसुवि᳘त्तमः। अ᳘ग्ने गृहपते ऽभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यच्छस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पत्येतन्नु ज᳘पेनैते᳘न᳘ न्वेव भू᳘यिष्ठा ऽइवो᳘पतिष्ठन्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
(ते ऽय᳘) अय᳘मग्नि᳘र्गृह᳘पतिर्गा᳘र्हपत्यः प्रजा᳘या व्वसुवि᳘त्तमः। अ᳘ग्ने गृहपते ऽभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यच्छस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पत्येतन्नु ज᳘पेनैते᳘न᳘ न्वेव भू᳘यिष्ठा ऽइवो᳘पतिष्ठन्ते॥

मूलम् - Weber

अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
अय᳘मग्निर्गृह᳘पतिर्गा᳘र्हपत्यःप्रजा᳘या वसुवि᳘त्तमः अ᳘ग्ने गृहपते ऽभि᳘ द्युम्न᳘मभि स᳘ह आ᳘यछस्वेत्य᳘थोपवि᳘श्य तृ᳘णान्य᳘पलुम्पत्येतन्नु ज᳘पेनैते᳘नॗ न्वेव भू᳘यिष्ठा इवो᳘पतिष्ठन्ते॥

मूलम् - विस्वरम्

अथ गार्हपत्यमुपतिष्ठते । “अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वस्तुवित्तमः । अग्ने गृहपते ऽभिद्युम्नमभि सह आयच्छस्व”- इति (वा० सं. ३ । ३९) । अथोपविश्य तृणान्यपलुम्पति । एतन्नु जपेनैतेन न्वेव भूयिष्ठा इवोपतिष्ठन्ते ॥ ९ ॥

सायणः

आगतस्य यजमानस्य गार्हपत्योपस्थानं समन्त्रकं विधत्ते- अथेति । मन्त्रार्थस्तु- ‘गृहपतिः’ गृहाणां पालयिता, गृहपतिना संयुक्तः ‘अयमग्निः’ अस्मदीयायाः प्रजायाः ‘वसुवित्तमः’ वसुनो धनस्य लम्भयितृतम इति परोक्षकृतः पूर्वो ऽर्द्धर्च्चः । उत्तरस्तु प्रत्यक्षकृतः । हे ‘अग्ने गृहपते !’ । अभि द्युम्नमित्यादि । पूर्ववद् योज्यम् ॥ ९ ॥

Eggeling
  1. Thereupon he approaches the Gārhapatya, with the text, ‘He, Agni Gārhapatya, is the lord of the house, the most liberal dispenser of goods to our offspring: O Agni, lord of the house, bestow on us lustre and strength!’ Having then sat down, he sweeps off the blades of grass. In this way (householders) mostly approach the fires with muttered prayer.

१०

विश्वास-प्रस्तुतिः

स वै ख᳘लु तूष्णी᳘मेवो᳘पतिष्ठेत॥
इदं वै य᳘स्मिन्व᳘सति ब्राह्मणो᳘ वा रा᳘जा वा श्रे᳘यान्मनु᳘ष्यो᳘ न्वेव त᳘मेव᳘ नार्हति व᳘क्तुमिद᳘म् मे त्वं᳘ गोपाय᳘ प्राहं᳘ वत्स्यामीत्य᳘थास्मिन्नेते श्रे᳘यांसो वसन्ति देवा᳘ अग्न᳘यः क᳘ उ ता᳘नर्हति व᳘क्तुमिद᳘म् मे यूयं᳘ गोपायत᳘ प्राहं᳘ वत्स्यामी᳘ति॥

मूलम् - श्रीधरादि

स वै ख᳘लु तूष्णी᳘मेवो᳘पतिष्ठेत॥
इदं वै य᳘स्मिन्व᳘सति ब्राह्मणो᳘ वा रा᳘जा वा श्रे᳘यान्मनु᳘ष्यो᳘ न्वेव त᳘मेव᳘ नार्हति व᳘क्तुमिद᳘म् मे त्वं᳘ गोपाय᳘ प्राहं᳘ वत्स्यामीत्य᳘थास्मिन्नेते श्रे᳘यांसो वसन्ति देवा᳘ अग्न᳘यः क᳘ उ ता᳘नर्हति व᳘क्तुमिद᳘म् मे यूयं᳘ गोपायत᳘ प्राहं᳘ वत्स्यामी᳘ति॥

विश्वास-प्रस्तुतिः

स वै ख᳘लु तूष्णी᳘मेवो᳘पतिष्ठेत॥
(ते) इदं वै य᳘स्मिन्व᳘सति ब्राह्मणो᳘ वा रा᳘जा वा श्रे᳘यान्मनु᳘ष्यो᳘ ऽन्वेव त᳘मेव᳘ नार्हति व्व᳘क्तुमिदं᳘ मे त्वं᳘ गोपाय प्राहं᳘ व्वत्स्यामीत्य᳘थास्मिन्नेते श्रे᳘याᳫँ᳭सो व्व᳘सन्ति देवा᳘ ऽअग्न᳘यः क᳘ उ ता᳘नर्हति व्व᳘क्तुमिदं मे यूयं गोपायत प्राहं᳘ व्वत्स्यामी᳘ति॥

मूलम् - श्रीधरादि

स वै ख᳘लु तूष्णी᳘मेवो᳘पतिष्ठेत॥
(ते) इदं वै य᳘स्मिन्व᳘सति ब्राह्मणो᳘ वा रा᳘जा वा श्रे᳘यान्मनु᳘ष्यो᳘ ऽन्वेव त᳘मेव᳘ नार्हति व्व᳘क्तुमिदं᳘ मे त्वं᳘ गोपाय प्राहं᳘ व्वत्स्यामीत्य᳘थास्मिन्नेते श्रे᳘याᳫँ᳭सो व्व᳘सन्ति देवा᳘ ऽअग्न᳘यः क᳘ उ ता᳘नर्हति व्व᳘क्तुमिदं मे यूयं गोपायत प्राहं᳘ व्वत्स्यामी᳘ति॥

मूलम् - Weber

स वै ख᳘लु तूष्णी᳘मेवो᳘पतिष्ठेत॥
इदं वै य᳘स्मिन्व᳘सति ब्राह्मणो᳘ वा रा᳘जा वा श्रे᳘यान्मनुॗष्योॗ न्वेव त᳘मेवॗ नार्हति व᳘क्तुमिद᳘म् मे त्वं᳘ गोपायॗ प्राहं᳘ वत्स्यामीत्य᳘थास्मिन्नेते श्रे᳘यांसो वसन्ति देवा᳘ अग्न᳘यः क᳘ उ ता᳘नर्हति व᳘क्तुमिद᳘म् मे यूयं᳘ गोपायतॗ प्राहं᳘ वत्स्यामी᳘ति॥

मूलम् - विस्वरम्

स वै खलु तूष्णीमेवोपतिष्ठेत । इदं वै यस्मिन् वसति ब्राह्मणो वा राजा वा श्रेयान्मनुष्यः अन्वेव- तमेव नार्हति वक्तुम् ‘इदं मे त्वं गोपाय, प्राहं वत्स्यामि’ इति । अथास्मिन्नेते श्रेयांसो वसति- देवा अग्नयः । क उ तानर्हति वक्तुम्- ‘इदं मे यूयं गोपायत प्राहं वत्स्यामि’ इति ॥ १० ॥

सायणः

इत्थं प्रवत्स्यदुपस्थानमागतोपस्थानं च समन्त्रकं विधाय, तयोरमन्त्रकपक्षमप्याह- स वा इति 15इदं वा इत्यादि । इदं खलु लोके दृश्यते, -ब्राह्मणादीनामन्यतमः ‘श्रेयान्’ श्रेष्ठः पुरुषो ‘यस्मिन्’ एव जने ‘वसति’ सः ‘मनुष्यः’ ‘तं’ श्रेयांसम् अनुसृत्य वर्त्तमानः, मदीयम् ‘इदं’ गृहादिकं ‘त्वं गोपाय’, ‘अहं’ प्रवासं करिष्यामीति एवं नियोगतो ‘वक्तुं’ ‘नार्हति’; यथैवं लोके, तथा ‘अस्मिन्’ यजमाने ‘एते श्रेयांसो वसन्ति’; के पुनस्ते ? इति, उच्यते- यजमाने निवसन्तस्ते श्रेयांसः ‘अग्नयः’ गार्हपत्याद्याः । ‘क उ’ नाम ‘तान्’ ‘इदं मे यूयं गोपायत’ इत्येवं नियोगेन ‘वक्तुमर्हति’ । अतः ‘नर्य प्रजां मे शंस्य पशून् मे पाही’ त्येवं नियोगरूपतया मन्त्रो न प्रयोक्तव्य इत्यर्थः ॥ १० ॥

Eggeling
  1. However, one may also approach the fires silently,–and that for this reason:–If in the place (where one lives), a Brāhman or noble–in short, a better man–resides, one dares not say to him, ‘I am going on a journey, take care of this (property) of mine 16!’ Now in this (sacrificial ground) one’s betters indeed reside, viz. the divine Agnis: who, then, would dare to say to them, ‘I am going on a journey, take ye care of this (property) of mine!’

११

विश्वास-प्रस्तुतिः

म᳘नो ह वै᳘ देवा᳘ मनुष्य᳘स्या᳘जानन्ति॥
स᳘ वेद गा᳘र्हपत्यः परिदा᳘म् मेदमु᳘पागादि᳘ति तूष्णी᳘मे᳘वाहवनी᳘यमु᳘पतिष्ठते स᳘ वेदाहवनी᳘यः परिदां᳘ मेदमु᳘पागादिति॥

मूलम् - श्रीधरादि

म᳘नो ह वै᳘ देवा᳘ मनुष्य᳘स्या᳘जानन्ति॥
स᳘ वेद गा᳘र्हपत्यः परिदा᳘म् मेदमु᳘पागादि᳘ति तूष्णी᳘मे᳘वाहवनी᳘यमु᳘पतिष्ठते स᳘ वेदाहवनी᳘यः परिदां᳘ मेदमु᳘पागादिति॥

विश्वास-प्रस्तुतिः

म᳘नो ह वै᳘ देवा᳘ मनुष्यस्या᳘जानन्ति॥
स᳘ वेद गा᳘र्हपत्यः परिदां᳘ मेदमु᳘पागादि᳘ति तूष्णी᳘मे᳘वाहवनी᳘यमु᳘पतिष्ठते स᳘ व्वेदाहवनी᳘यः परिदां᳘ मेदमु᳘पागादिति॥

मूलम् - श्रीधरादि

म᳘नो ह वै᳘ देवा᳘ मनुष्यस्या᳘जानन्ति॥
स᳘ वेद गा᳘र्हपत्यः परिदां᳘ मेदमु᳘पागादि᳘ति तूष्णी᳘मे᳘वाहवनी᳘यमु᳘पतिष्ठते स᳘ व्वेदाहवनी᳘यः परिदां᳘ मेदमु᳘पागादिति॥

मूलम् - Weber

म᳘नो ह वै᳘ देवा᳘ मनुष्य᳘स्या᳘जानन्ति॥
स᳘ वेद गा᳘र्हपत्यः परिदा᳘म् मेदमु᳘पागादि᳘ति तूष्णी᳘मेॗवाहवनी᳘यमु᳘पतिष्ठते स᳘ वेदाहवनी᳘यः परिदां᳘ मेदमु᳘पागादिति॥

मूलम् - विस्वरम्

मनो ह वै देवा मनुष्यस्याजानन्ति । स वेद गार्हपत्यः- ‘परिदां मेदमुपागाद्’ इति । तूष्णीमेवाहवनीयमुपतिष्ठते । स वेदाहवनीयः- ‘परिदां मेदमुपागाद्’ इति ॥ ११ ॥

सायणः

मन्त्रप्रयोगाभावे ऽपि प्रजापालनादिविषया बुद्धिस्तेषां स्वयमेव भवतीत्याह- मनो ह वै देवा इति । ‘मनुष्यस्य’ ‘मनः’ यद्विषयं तत् सर्वं ‘देवाः’ स्वयमेव सर्वतो ‘जानन्ति’; अतः ‘सः’ ‘गार्हपत्यः’ अपि यजमानस्य मनोगतं स्वयमेव ‘वेद’ जानाति । किमिति, ‘परिदां’ परिदानं रक्षणम् उद्दिश्य ‘मा’ माम् ‘इदम्’ इदानीम् ‘उपागात्’ उपगतो ऽयं यजमान ‘इति’ । यस्मादेवं जानाति, तस्मात् स गार्हपत्यो ऽपि तूष्णीमेवोपस्थेयः । आहवनीयोपस्थानस्यापि 17 तूष्णीं कर्त्तव्यतामाह- तूष्णीमेवाहवनीयमित्यादिना । योजना तु पूर्ववत् ॥ ११-१३ ॥

Eggeling
  1. The gods assuredly see through the mind of man: that (Agni) Gārhapatya therefore knows that he (the householder) now approaches in order to give

himself up to him. Silently he approaches the Āhavanīya fire: that (Agni) Āhavanīya knows that he now approaches in order to give himself up to him.

१२

विश्वास-प्रस्तुतिः

अ᳘थ प्र᳘ वा व्र᳘जति प्र᳘ वा धावयति॥
स य᳘त्र वे᳘लो म᳘न्यते त᳘त्स्यन्त्त्वा वा᳘चं वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र वे᳘लाम् म᳘न्यते तद्वा᳘चं यछति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

मूलम् - श्रीधरादि

अ᳘थ प्र᳘ वा व्र᳘जति प्र᳘ वा धावयति॥
स य᳘त्र वे᳘लो म᳘न्यते त᳘त्स्यन्त्त्वा वा᳘चं वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र वे᳘लाम् म᳘न्यते तद्वा᳘चं यछति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्र᳘ वा व्व्र᳘जति प्र᳘ वा धावय᳘ति॥
स य᳘त्र वे᳘लां म᳘न्यते त᳘त्स्यत्त्वा व्वा᳘चं व्वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र व्वे᳘लां म᳘न्यते तद्वा᳘चं यच्छति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्र᳘ वा व्व्र᳘जति प्र᳘ वा धावय᳘ति॥
स य᳘त्र वे᳘लां म᳘न्यते त᳘त्स्यत्त्वा व्वा᳘चं व्वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र व्वे᳘लां म᳘न्यते तद्वा᳘चं यच्छति स यद्य᳘पि राजा᳘न्तरेण स्या᳘न्नैव तमु᳘पेयात्॥

मूलम् - Weber

अ᳘थ प्र᳘ वा व्र᳘जति प्र᳘ वा धावयति॥
स य᳘त्र वे᳘लो म᳘न्यते त᳘त्स्यन्त्त्वा वा᳘चं वि᳘सृजते᳘ ऽथ प्रो᳘ष्य परे᳘क्ष्य य᳘त्र वे᳘लाम् म᳘न्यते तद्वा᳘चं यछति स यद्य᳘पि राजा᳘न्तरेण स्याॗन्नैव तमु᳘पेयात्॥

मूलम् - विस्वरम्

अथ प्र वा व्रजति, प्र वा धावयति । स यत्र वेलां मन्यते तत् स्यत्त्वा वाचं विसृजते । अथ प्रोष्य परेक्ष्य यत्र वेलां मन्यते तद्वाचं यच्छति । स यद्यपि राजान्तरेण स्यात्, नैव तमुपेयात् ॥ १२ ॥

सायणः

[व्याख्यानं एकादशे]

Eggeling
  1. Thereupon he walks or drives off; and having got as far as what he considers the boundary line, he releases his speech. And when he returns from the journey, he maintains silence from the moment he sees what he considers to be the boundary. And even though there be a king inside (one’s house), one must not go to him.

१३

विश्वास-प्रस्तुतिः

स᳘ आहवनी᳘यमेवा᳘ग्र उ᳘पतिष्ठते॥
अ᳘थ गा᳘र्हपत्यं तूष्णी᳘मे᳘वाहवनी᳘यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति तूष्णी᳘मेव गा᳘र्हपत्यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - श्रीधरादि

स᳘ आहवनी᳘यमेवा᳘ग्र उ᳘पतिष्ठते॥
अ᳘थ गा᳘र्हपत्यं तूष्णी᳘मे᳘वाहवनी᳘यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति तूष्णी᳘मेव गा᳘र्हपत्यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

विश्वास-प्रस्तुतिः

(त्स) स᳘ आहवनी᳘यमेवा᳘ग्र ऽउ᳘पतिष्ठते॥
(ते᳘ ऽथ) अ᳘थ गा᳘र्हपत्यं तूष्णी᳘मे᳘वाहवनी᳘यमुपति᳘ष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति तूष्णी᳘मेव गा᳘र्हपत्यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - श्रीधरादि

(त्स) स᳘ आहवनी᳘यमेवा᳘ग्र ऽउ᳘पतिष्ठते॥
(ते᳘ ऽथ) अ᳘थ गा᳘र्हपत्यं तूष्णी᳘मे᳘वाहवनी᳘यमुपति᳘ष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति तूष्णी᳘मेव गा᳘र्हपत्यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - Weber

स᳘ आहवनी᳘यमेवा᳘ग्र उ᳘पतिष्ठते॥
अ᳘थ गा᳘र्हपत्यं तूष्णी᳘मेॗवाहवनी᳘यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति तूष्णी᳘मेव गा᳘र्हपत्यमु᳘पतिष्ठते तूष्णी᳘मुपवि᳘श्य तृ᳘णान्य᳘पलुम्पति॥

मूलम् - विस्वरम्

स आहवनीयमेवाग्र उपतिष्ठते- अथ गार्हपत्यम् । तूष्णीमेवाहवनीयमुपतिष्ठते, तूष्णीमुपविश्य तृणान्यपलुम्पति । तूष्णीमेव गार्हपत्यमुपतिष्ठते, तूष्णीमुपविश्य तृणान्यपलुम्पति ॥ १३ ॥

सायणः

[व्याख्यानं एकादशे]

Eggeling
  1. He first approaches the Āhavanīya, and thereupon the Gārhapatya. Silently he approaches the Āhavanīya; and silently he sits down and sweeps away the grass-blades. Silently he approaches the Gārhapatya; and silently he sits down and sweeps away the grass-blades.

१४

विश्वास-प्रस्तुतिः

अथा᳘तो गृहा᳘णामे᳘वोपचारः᳘॥
एत᳘द्ध वै᳘ गृह᳘पतेः प्रोषु᳘ष आ᳘गताद्गृहाः᳘ समु᳘त्त्रस्ता इव भवन्ति कि᳘मय᳘मिह वदिष्य᳘ति किं᳘ वा करिष्यती᳘ति स यो᳘ ह त᳘त्र किं᳘चिद्व᳘दति वा करो᳘ति वा त᳘स्माद्गृहाः प्र᳘त्रसन्ति त᳘स्येश्वरः कु᳘लं वि᳘क्षोब्धोर᳘थ यो᳘ ह त᳘त्र न व᳘दति न किं᳘ चन᳘ करो᳘ति तं᳘ गृहा᳘ उपसं᳘श्रयन्ते न वा᳘ अय᳘मि᳘हावादीन्न किं᳘ च᳘नाकरदि᳘ति स य᳘दिहा᳘पि सु᳘क्रुद्ध इव स्याछ्व᳘ एव त᳘तस्तत्कुर्याद्य᳘द्वदिष्य᳘न्वा करिष्य᳘न्वा स्या᳘देष᳘ उ गृहा᳘णामुपचारः᳘॥

मूलम् - श्रीधरादि

अथा᳘तो गृहा᳘णामे᳘वोपचारः᳘॥
एत᳘द्ध वै᳘ गृह᳘पतेः प्रोषु᳘ष आ᳘गताद्गृहाः᳘ समु᳘त्त्रस्ता इव भवन्ति कि᳘मय᳘मिह वदिष्य᳘ति किं᳘ वा करिष्यती᳘ति स यो᳘ ह त᳘त्र किं᳘चिद्व᳘दति वा करो᳘ति वा त᳘स्माद्गृहाः प्र᳘त्रसन्ति त᳘स्येश्वरः कु᳘लं वि᳘क्षोब्धोर᳘थ यो᳘ ह त᳘त्र न व᳘दति न किं᳘ चन᳘ करो᳘ति तं᳘ गृहा᳘ उपसं᳘श्रयन्ते न वा᳘ अय᳘मि᳘हावादीन्न किं᳘ च᳘नाकरदि᳘ति स य᳘दिहा᳘पि सु᳘क्रुद्ध इव स्याछ्व᳘ एव त᳘तस्तत्कुर्याद्य᳘द्वदिष्य᳘न्वा करिष्य᳘न्वा स्या᳘देष᳘ उ गृहा᳘णामुपचारः᳘॥

विश्वास-प्रस्तुतिः

(त्य) अथा᳘तो गृहा᳘णामे᳘वोपचारः᳘॥
(ऽ) एत᳘द्ध वै᳘ गृह᳘पतेः प्रोषु᳘ष ऽआ᳘गताद् गृहाः᳘ समु᳘त्त्रस्ता ऽइव भवन्ति कि᳘मय᳘मिह᳘ व्वदिष्य᳘ति किं᳘ वा करिष्यती᳘ति स यो ह त᳘त्र किं᳘ चिद्व᳘दति वा करो᳘ति वा त᳘स्माद्गृहाः प्र᳘त्रसन्ति त᳘स्येश्वरः कु᳘लं व्वि᳘क्षोब्धोर᳘थ यो᳘ ह त᳘त्र न व्व᳘दति न किं᳘ चन᳘ करो᳘ति तं᳘ गृहा᳘ उपस᳘ᳫँ᳘श्रयन्ते न वा᳘ ऽअय᳘मि᳘हावादीन्न किं᳘ च᳘नाकरदि᳘ति स य᳘दिहा᳘पि सु᳘क्रुद्ध इव स्याच्छ्व एव त᳘तस्त᳘त्कुर्याद्यद्वदिष्य᳘न्वा करिष्य᳘न्वा स्या᳘देष᳘ उ गृहा᳘णामुपचारः॥

मूलम् - श्रीधरादि

(त्य) अथा᳘तो गृहा᳘णामे᳘वोपचारः᳘॥
(ऽ) एत᳘द्ध वै᳘ गृह᳘पतेः प्रोषु᳘ष ऽआ᳘गताद् गृहाः᳘ समु᳘त्त्रस्ता ऽइव भवन्ति कि᳘मय᳘मिह᳘ व्वदिष्य᳘ति किं᳘ वा करिष्यती᳘ति स यो ह त᳘त्र किं᳘ चिद्व᳘दति वा करो᳘ति वा त᳘स्माद्गृहाः प्र᳘त्रसन्ति त᳘स्येश्वरः कु᳘लं व्वि᳘क्षोब्धोर᳘थ यो᳘ ह त᳘त्र न व्व᳘दति न किं᳘ चन᳘ करो᳘ति तं᳘ गृहा᳘ उपस᳘ᳫँ᳘श्रयन्ते न वा᳘ ऽअय᳘मि᳘हावादीन्न किं᳘ च᳘नाकरदि᳘ति स य᳘दिहा᳘पि सु᳘क्रुद्ध इव स्याच्छ्व एव त᳘तस्त᳘त्कुर्याद्यद्वदिष्य᳘न्वा करिष्य᳘न्वा स्या᳘देष᳘ उ गृहा᳘णामुपचारः॥

मूलम् - Weber

अथा᳘तो गृहा᳘णामेॗवोपचारः᳟॥
एत᳘द्ध वै᳘ गृह᳘पतेः प्रोषु᳘ष आ᳘गताद्गृहाः᳘ समु᳘त्त्रस्ता इव भवन्ति कि᳘मय᳘मिह वदिष्य᳘ति किं᳘ वा करिष्यती᳘ति स यो᳘ ह त᳘त्र किं᳘चिद्व᳘दति वा करो᳘ति वा त᳘स्माद्गृहाः प्र᳘त्रसन्ति त᳘स्येश्वरः कु᳘लं वि᳘क्षोब्धोर᳘थ यो᳘ ह त᳘त्र न व᳘दति न किं᳘ चन᳘ करो᳘ति तं᳘ गृहा᳘ उपसं᳘श्रयन्ते न वा᳘ अय᳘मिॗहावादीन्न किं᳘ चॗनाकरदि᳘ति स य᳘दिहा᳘पि सु᳘क्रुद्ध इव स्याछ्व᳘ एव त᳘तस्तत्कुर्याद्य᳘द्वदिष्य᳘न्वा करिष्य᳘न्वा स्या᳘देष᳘ उ गृहा᳘णामुपचारः᳟॥

मूलम् - विस्वरम्

अथातो गृहाणामेवोपचारः । एतद्ध वै गृहपतेः प्रोषुषः आगताद् गृहाः समुत्त्रस्ता इव भवन्ति- किमयमिह वदिष्यति, किं वा करिष्यतीति । स यो ह तत्र किञ्चिद्वदति वा करोति वा- तस्माद् गृहाः प्रत्रसन्ति । तस्येश्वरः कुलं विक्षोब्धोः । अथ यो ह तत्र न वदति, न किं चन करोति- तं गृहा उपसंश्रयन्ते- न वा अयमिहावादीत्, न किञ्चनाकरदिति । स यदिहापि सुक्रुद्ध इव स्यात्- श्व एव ततस्तत्कुर्यात्- यद् वदिष्यन्वा करिष्यन् वा स्याद् । एष उ गृहाणामुपचारः । इति अग्निहोत्रविधिः सम्पूर्णः ।

सायणः

एवं प्रवासादागतस्य यजमानस्याग्निविषयं कर्त्तव्यमुपदिश्य गृहविषयमपि तद् वक्तुं प्रतिजानीते- अथात इति 17 । उपचरणमुपचारः समाश्वासनं वक्ष्यत इति शेषः । “गृहामा बिभीत” इति (वा. सं. ३ । ४१) मन्त्रेणोपस्थानं भयसम्भावनामाह- एतद्ध वा इति । ‘प्रोषुषः’ प्रवासं कृतवतो यजमानात् ‘गृहाः’ ‘समुत्रस्ताः’ भीताः ‘इव’ भवन्ति । भीतिकारणमाह- किमयमिति । ‘अयं’ यजमानो ऽस्मद्विषयं ‘किं वदिष्यति’ ‘किं वा करिष्यति’ ‘इति’ अनेनाभिप्रायेण तेषां भयशङ्का । स यो हेत्यदि । ‘सः’ खलु यजमान आगत्य तत्र ‘गृहा मा बिभीत’ इत्येतन्मन्त्रेण उपस्थानं विना यत् किच्चिद् वदन् कुर्वन् वा भवति, अस्मद्विषये क्रुद्ध एवासौ वर्तत इति ‘तस्मात्’ यजमानाद् ‘गृहाः’ ‘प्रत्रसन्ति’ प्रकर्षेणोद्विजन्ते ॥

अस्तु गृहाणां प्रत्रासः; को दोषः इत्यत आह- तस्येश्वर इति । ‘तस्य’ यजमानस्य ‘कुलं’ वंशं ‘विक्षोब्धोः’ विनष्टं कर्तुम् ‘ईश्वरः’ । ईश्वर इति व्यत्ययेनैकवचनम् (पा. सू. ३ । १ । ८५ । श्लो. वा.) । ईश्वराः, गृहाः समर्था भवन्ति । अथ यो हेत्यादि । यस्तु गृहानुपगत्य किमपि न वदति, न करोति च, मौनमेव केवलं भजते, ‘गृहा मा बिभीत’- इति मन्त्रेणोपस्थानं वा करोति, ‘तं’ यजमानं गृहाः ‘उपसंश्रयन्ते’ उपगच्छन्ति । उपसंश्रयतां तेषामभिप्रायमाह- न वा इति । ‘न’ खल्वयं यजमानः ‘इह’ अस्मिन् समये ‘किम्’ अपि ‘न’ ‘अवादीत्’, ‘किम्’ अपि च ‘न’ ‘अकरत्’ अकार्षीत्; यदि अस्मदपराधः स्यात्, तदा तद्विषयं वदिष्यति, यत् किञ्च करिष्यति च; तस्मात् अस्य यजमानस्य अस्मद्विषयः क्रोधो नास्तीत्यनेनाभिप्रायेण तमुपसंश्रयन्त इत्यर्थः ।

स यदिहापीत्यादि । ‘इह’ अस्मिन् गृहविषये यद्यपि ‘सः’ आगतो यजमानो ऽपराधश्रवणात् ‘क्रुद्धः’ ‘इव’ एव ‘स्यात्’ ‘ततः’ तस्मादागमनदिवसात् ‘श्वः’ अनन्तरदिवसे ‘एव’ ‘तत्’ वक्तव्यं कर्तव्यं वोपचारनिवृत्तये प्रयुञ्जीत; न त्वागमनदिवसे इत्यर्थः । तदुक्तं सूत्रकृता- “गृहा मा बिभीतेति गृहानुपतिष्ठते 18, क्षेमाय व इति प्रविशति, न हिंस्यात् गृह्यान् कामं श्वः 19” ॥ १४ ॥ [ ४. १.]

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ।

Eggeling
  1. Then as to the observances in regard to (the entering of) his house. Now when a householder comes home from a journey, his house trembles greatly for fear of him, thinking, ‘What will he say here? what will he do here?’ It is therefore for fear of him that speaks or does anything on this occasion that the house trembles and is liable to crush his family; but him who neither speaks nor does anything, his house receives with confidence, thinking, ‘He has not spoken here, he has not done anything here!’ And should he be ever so angry at anything on this occasion, let him rather do on the next day whatever he might wish to say or do. This then is the observance in regard to the house 20.

  1. भूर्भुवः स्वरिति वोभौ । का. श्रौ. सू. ४ । २८५ । उभावप्यग्नी भूर्भुवः स्वरित्यनेनोपतिष्ठते । क्रमस्तु पूर्वोक्त एव । क्रमांतराविधानात् । अस्य च वात्सप्रेण सह विकल्पः । एतच्च अगोपक्षे ऽपि भवति । अत्रोपस्थाने गां प्रति गमनस्य स्पर्शनस्य चाविधानात् । इति कार्कभाष्याशयः । ↩︎

  2. ‘मन्त्रगणादस्य’ इति ‘मन्त्रभावादस्य’ इति च क्व. पा. । ↩︎

  3. ‘एवं तद्व्याहृतिरूपेण’ इति क्व. । ↩︎

  4. 357:2 For this shorter form of worshipping the fires, see p. 349, note 2. ↩︎

  5. प्रवत्स्यन् सर्व्वान्नर्येति प्रतिमंत्रम् । का. श्रौ. सू. ४-२८६ । ↩︎ ↩︎ ↩︎

  6. 357:3 That is, a journey which will compel him to pass the night beyond the village boundary. ↩︎

  7. 358:1 The Vāj. S. gives also the formulas with which the Dakshiṇāgni should be approached, after the other two fires, by the householder, both in starting on, and returning from, his journey. See Kāty. IV, 12, 13; 18. The Kāṇva text does not allude to the Dakshiṇa fire any more than ours. ↩︎

  8. त᳘त्स्यत्वा AB. ↩︎

  9. एत्य च मत्या वाग्यमनम् । इति का. ४ । २८९ । ↩︎

  10. समित्पाणिरनुपेत्य केचिदुपतिष्ठन्तमाहवनीयगार्हपत्यदक्षिणाम्नीनागन्मेति प्रतिमन्त्रम् । इति कात्या. ४- २९० ॥ ↩︎

  11. 358:2 According to the Paddhati on Katy. IV, 12, he has to maintain silence as long as he can see the roof of one of his fire-houses; but according to the Śāṅkhāyana śākhā he has to do so only as long as he can see one of the fires. ↩︎

  12. 358:3 The Kāṇva text reads ‘antataḥ.’ ↩︎

  13. समित्परिसमूहनानि चोपविश्य । इति कात्या. ४-२९१ ॥ ↩︎

  14. 359:1 According to Kāty. IV, 12, 18-19 he [after performing ablutions, and lustrating the Āhavanīya and Dakshiṇa fire-places, and taking out these fires from the Gārhapatya] approaches the Āhavanīya, while holding pieces of fire-wood in his hand, and mutters the formula given above. He then sits down and silently puts on the fire a piece of wood and the grass that has fallen around the fire. According to the Kāṇva text he mutters the second half of the formula (‘O Agni,’ &c.) while sweeping the grass (into the fire). ↩︎

  15. तूष्णीं वोपस्थानं पूर्व्ववत् । इति कात्या० श्रौ. सू. ४- २९२ । ↩︎

  16. 359:2 In Taitt. Br. I, 1, 10, 6, a householder who is about to start on a journey is apparently recommended to entrust his house to a Brāhman, who may be staying in it. ↩︎

  17. ‘एवं प्रवत्स्यदुपस्थानस्यामन्त्रकपक्षमुक्त्वा ऽऽगतोपस्थानस्यापि तमाह-’ इति पाठः । ↩︎ ↩︎

  18. ‘गृहानुपैति’ इति का. श्रौ. सू. ४ । २९५ । ↩︎

  19. का. श्रौ. सू. ४ । २९६ ॥ ↩︎

  20. 360:1 The Kāṇva text here adds the formulas Vāj. S. III, 41-43, lines 1 and 2, wherewith he approaches (upatishṭḥate) the house. See Katy. IV, 12, 22. According to Katy. ib. 23, he then enters the house with the formula Vāj. S. III, 43, line 3, ‘For safety, for peace I resort to thee: be there kindliness, happiness, all-hail, and blessing!’ Thereupon, according to the Schol., he is to proceed in accordance with the rules laid down in the Gr̥hya-sūtras; cf. Pārask. G. I, 18; Āśv. G. I, 15, 9. ↩︎