०१

विश्वास-प्रस्तुतिः

अग्नौ᳘ ह वै᳘ देवाः॥
स᳘र्व्वान्पशून्नि᳘दधिरे ये᳘ च ग्राम्या ये᳘ चारण्या᳘ व्विजयं᳘ व्वोपप्रैष्य᳘न्तः कामचार᳘स्य वा का᳘मायायं᳘ नो गो᳘पिष्ठो गोपायदि᳘ति वा॥

मूलम् - श्रीधरादि

अग्नौ᳘ ह वै᳘ देवाः॥
स᳘र्व्वान्पशून्नि᳘दधिरे ये᳘ च ग्राम्या ये᳘ चारण्या᳘ व्विजयं᳘ व्वोपप्रैष्य᳘न्तः कामचार᳘स्य वा का᳘मायायं᳘ नो गो᳘पिष्ठो गोपायदि᳘ति वा॥

मूलम् - Weber

अग्नौ᳘ ह वै᳘ देवाः᳟॥
स᳘र्वान्पशून्नि᳘दधिरे ये᳘ च ग्राम्या ये᳘ चारण्या᳘ विजयं᳘ वोपप्रैष्य᳘न्तः कामचार᳘स्य वा का᳘मायायं᳘ नो गो᳘पिष्ठो गोपायदि᳘ति वा॥

मूलम् - विस्वरम्

अग्नौ ह वै देवाः सर्वान् पशून्निदधिरे- ये च ग्राम्याः, ये चारण्या विजयं वोपप्रैष्यन्तः, कामचारस्य वा कामाय- ‘अयं नो गोपिष्ठो गोपायद्’ इति वा ॥ १ ॥

सायणः

अथ सायङ्कालीनमग्न्युपस्थानं विधित्सुस्तदर्थमाख्यायिकामाह- अग्नौ हेति । एतच्च पुनराधानब्राह्मणे (श. प. २ कां. २ अ. ३ ब्रा. २- ३ कं.) व्याख्यातम् । तत्र हि ‘ऋतून् प्रविवेश,’ अत्र तु ‘रात्रिं प्रविवेश’ इत्येतावान् विशेषः । तमेतदित्यादि । ‘प्रत्यायत्याम्’ आगामिन्यां ‘रात्रौ’ ‘सायं’-काले ‘तम्’ अग्निं देवाः ‘उपातिष्ठन्त’ 1 । उपस्थानप्रकारमाह- देहि न इति ॥ १ ॥ २ ॥

Eggeling
  1. Once on a time the gods deposited with Agni all their beasts, both domestic and wild; either because they were about to engage in battle or from a desire of free scope, or because they thought that he (Agni) would protect them as the best protector.

०२

विश्वास-प्रस्तुतिः

ता᳘नु हाग्निर्नि᳘चकमे॥
तैः᳘ सङ्गृ᳘ह्य रात्रिं प्र᳘विवेश पु᳘नरे᳘म इ᳘ति देवा ऽएद᳘ग्निं तिरो᳘भूतं ते᳘ ह व्विदा᳘ञ्चक्रुरिह वै प्रा᳘विक्षद्रा᳘त्रिं वै प्रा᳘विक्षदि᳘ति त᳘मेत᳘त्प्रत्यायत्याᳫं᳭रा᳘त्रौ सायमु᳘पातिष्ठन्त देहि᳘ नः पशून्पु᳘नर्नः पशून्देहीति ते᳘भ्यो ऽग्निः᳘ पशून्पु᳘नरददात्॥

मूलम् - श्रीधरादि

ता᳘नु हाग्निर्नि᳘चकमे॥
तैः᳘ सङ्गृ᳘ह्य रात्रिं प्र᳘विवेश पु᳘नरे᳘म इ᳘ति देवा ऽएद᳘ग्निं तिरो᳘भूतं ते᳘ ह व्विदा᳘ञ्चक्रुरिह वै प्रा᳘विक्षद्रा᳘त्रिं वै प्रा᳘विक्षदि᳘ति त᳘मेत᳘त्प्रत्यायत्याᳫं᳭रा᳘त्रौ सायमु᳘पातिष्ठन्त देहि᳘ नः पशून्पु᳘नर्नः पशून्देहीति ते᳘भ्यो ऽग्निः᳘ पशून्पु᳘नरददात्॥

मूलम् - Weber

ता᳘नु हाग्निर्नि᳘चकमे॥
तैः᳘ सम्गृ᳘ह्य रात्रिम् प्र᳘विवेश पु᳘नरे᳘म इ᳘ति देवा ए᳘दग्निं᳘ तिरो᳘भूतं ते᳘ ह विदां᳘ चक्रुरिह वै प्रा᳘विक्षद्रा᳘त्रिं वै प्रा᳘विक्षदिति त᳘मेत᳘त्प्रत्यायत्यां रा᳘त्रौ सायमु᳘पातिष्ठन्त देहि᳘ नः पशून्पु᳘नर्नः पशू᳘न्देही᳘ति ते᳘भ्यो ऽग्निः᳘ पशून्पु᳘नरददात्॥

मूलम् - विस्वरम्

तानु हाग्निर्निचकमे । तैः सङ्गृह्य रात्रिं प्रविवेश । ‘पुनरेम’- इति देवा एदग्निं तिरोभूतम् । ते ह विदाञ्चक्रुः- इह वै प्राविक्षद्, रात्रिं वै प्राविक्षदिति । तमेतत् प्रत्यायत्यां रात्रौ सायमुपातिष्ठन्त-‘देहि नः पशून् पुनर्नः पशून् देहि’ इति । तेभ्यो ऽग्निः पशून् पुनरददात् ॥ २ ॥

सायणः

[व्याख्यानं प्रथमे]

Eggeling
  1. Now Agni coveted them, and seizing them he entered the night with them. ‘Let us go back thither,’ said the gods, and betook themselves to where Agni was concealed. Now they knew that he had entered there, that he had entered the night; and when the night returned in the evening, they approached him and said, ‘Give us our beasts! give us back our beasts!’ Agni then gave them back their beasts.

०३

विश्वास-प्रस्तुतिः

(त्त᳘) त᳘स्मै कमग्नी ऽउ᳘पतिष्ठेत॥
(ता) अग्नी वै᳘ दाता᳘रौ ता᳘वे᳘वैत᳘द्याचते सायमु᳘पतिष्ठेत सायᳫँ᳭ हि᳘ देवा᳘ ऽउपा᳘तिष्ठन्त दत्तो᳘ हैवा᳘स्मा ऽएतौ᳘ पशून्य᳘ ऽएवं᳘ व्विद्वा᳘नुपति᳘ष्ठते॥

मूलम् - श्रीधरादि

(त्त᳘) त᳘स्मै कमग्नी ऽउ᳘पतिष्ठेत॥
(ता) अग्नी वै᳘ दाता᳘रौ ता᳘वे᳘वैत᳘द्याचते सायमु᳘पतिष्ठेत सायᳫँ᳭ हि᳘ देवा᳘ ऽउपा᳘तिष्ठन्त दत्तो᳘ हैवा᳘स्मा ऽएतौ᳘ पशून्य᳘ ऽएवं᳘ व्विद्वा᳘नुपति᳘ष्ठते॥

मूलम् - Weber

त᳘स्मै कमग्नी उ᳘पतिष्ठेत॥
अग्नी वै᳘ दाता᳘रौ ता᳘वेॗवैत᳘द्याचते सायमु᳘पतिष्ठेत सायᳫं हि देवा᳘ उपा᳘तिष्ठन्त दत्तो᳘ हैवा᳘स्मा एतौ᳘ पषून्य᳘ एवं᳘ विद्वा᳘नुपति᳘ष्ठते॥

मूलम् - विस्वरम्

तस्मै कमग्नी उपतिष्ठेत । अग्नी वै दातारौ । तावेवैतद्याचते । सायमुपतिष्ठेत । सायं हि देवा उपातिष्ठन्त । दत्तो हैवास्मा एतौ पशून्- य एवं विद्वानुपतिष्ठते ॥ ३ ॥

सायणः

यस्मादेवमग्न्युपस्थानात् पशवो देवैर्लब्धाः, तस्माद् यजमानो ऽपि तदुपस्थानं कुर्यादिति विधत्ते- तस्मा इति । तस्मै पशुप्राप्तिलक्षणाय फलाय । ‘कम्’ इति वाक्यपूरणे 1 । अन्यन्निगदसिद्धम् । दत्तो हैवेति । य एवं सायमग्नी उपतिष्ठेतैव तस्मै यजमानाय तावग्नी अभिमतं फलं प्रयच्छत इत्यर्थः । एवमुपस्थानविधिः ॥ ३ ॥

Eggeling
  1. For this then let him respectfully approach the two fires: the fires are givers, and thereby he supplicates them. Let him approach them in the evening, for in the evening the gods approached (Agni). And whosoever, knowing this, approaches (the two fires), to him, indeed, they grant cattle.

०४

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अथ य᳘स्मा᳘न्नोपति᳘ष्ठेत॥
(तो) उभ᳘ये ह वा᳘ ऽइदम᳘ग्रे स᳘हासुर्देवा᳘श्च मनु᳘ष्याश्च तद्य᳘द्ध स्म मनु᳘ष्याणां न भ᳘वति त᳘द्ध स्म देवा᳘न्याचन्त ऽइदं वै᳘ नो नास्तीदं᳘ नो ऽस्त्वि᳘ति ते त᳘स्या ऽएव᳘ यो᳘च्ञा᳘यै द्वे᳘षेण देवा᳘स्तिरो᳘भूता ने᳘द्धिन᳘सानि नेद्द्वे᳘ष्यो᳘ ऽसानी᳘ति त᳘स्मान्नो᳘पतिष्ठेत॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अथ य᳘स्मा᳘न्नोपति᳘ष्ठेत॥
(तो) उभ᳘ये ह वा᳘ ऽइदम᳘ग्रे स᳘हासुर्देवा᳘श्च मनु᳘ष्याश्च तद्य᳘द्ध स्म मनु᳘ष्याणां न भ᳘वति त᳘द्ध स्म देवा᳘न्याचन्त ऽइदं वै᳘ नो नास्तीदं᳘ नो ऽस्त्वि᳘ति ते त᳘स्या ऽएव᳘ यो᳘च्ञा᳘यै द्वे᳘षेण देवा᳘स्तिरो᳘भूता ने᳘द्धिन᳘सानि नेद्द्वे᳘ष्यो᳘ ऽसानी᳘ति त᳘स्मान्नो᳘पतिष्ठेत॥

मूलम् - Weber

अथ य᳘स्माॗन्नोपति᳘ष्ठेत॥
उभ᳘ये ह वा᳘ इदम᳘ग्रे सॗहासुर्देवा᳘श्च मनुॗष्याश्च तद्य᳘द्ध स्म मनुॗष्याणां न भ᳘वति त᳘द्ध स्म देवा᳘न्याचन्त इदं वै᳘ नोॗ नास्तीदं᳘ नो ऽस्त्वि᳘ति ते त᳘स्या एव᳘ याञ्च्या᳘यै द्वे᳘षेण देवा᳘स्तिरो᳘भूता ने᳘द्धिन᳘सानि नेद्द्वेष्यो᳘ ऽसानी᳘ति त᳘स्मान्नो᳘पतिष्ठेत॥

मूलम् - विस्वरम्

अथ यस्मान्नोपतिष्ठेत । उभये ह वा इदमग्रे सहासुः- देवाश्च, मनुष्याश्च । तद्यद्ध स्म मनुष्याणां न भवति- तद्ध स्म देवान् याचन्ते- ‘इदं वै नो नास्तीदं नो ऽस्तु’ इति । ते तस्या एव याच्ञायै द्वेषेण देवास्तिरोभूताः- ‘नेद्धिनसानि, नेद्द्वेष्यो ऽसानि’ इति । तस्मान्नोपतिष्ठेत ॥ ४ ॥

सायणः

एवमुपस्थानं 1 विधाय उपस्थानानुपस्थानपक्षौ पूर्वपक्षसिद्धान्तत्वेन प्रतिपादयति- अथ यस्मादिति । यस्मात् अग्न्युपस्थानं न कर्त्तव्यम्, तत्कारणमुच्यते । देवाः खलु पुरा मनुष्यैः सार्द्धमिह लोके निवसन्तः तद्याचनेन पीडिताः सन्तस्तिरोभूताः, अतो ऽग्निरपि उपस्थानेन याच्यमानस्तिरोभवति, याचितफलस्याप्रदानेन नैव यजमानं ‘हिनसानि,’ अत एव द्वेष्यो ऽपि न भवानीत्यनेनाभिप्रायेणेत्यर्थः । यस्मादेवं तस्मान्नोपस्थेयो ऽग्निरिति पूर्वपेक्षः 2 ॥ ४ ॥

Eggeling
  1. Then as to why he should not approach them. Now in the beginning both the gods and men were together here. And whatever did not belong to the men, for that they importuned the gods, saying, ‘This is not ours: let it be ours!’ Being indignant

at this importunity, the gods then disappeared. Hence (it may be argued) one should not approach (the fires), fearing lest he should offend them, lest he should become hateful to them.

०५

विश्वास-प्रस्तुतिः

(ता᳘) अ᳘थ य᳘स्मादु᳘पैव ति᳘ष्ठेत॥
यज्ञो वै᳘ देवा᳘नामाशीर्य᳘जमानस्य तद्वा᳘ ऽएष᳘ ऽएव᳘ यज्ञो यदा᳘हुतिराशी᳘रेव य᳘जमानस्य तद्य᳘दे᳘वास्या᳘त्र त᳘दे᳘वैत᳘दुपति᳘ष्ठमानः कुरुते त᳘स्मादु᳘पैव᳘ तिष्ठेत॥

मूलम् - श्रीधरादि

(ता᳘) अ᳘थ य᳘स्मादु᳘पैव ति᳘ष्ठेत॥
यज्ञो वै᳘ देवा᳘नामाशीर्य᳘जमानस्य तद्वा᳘ ऽएष᳘ ऽएव᳘ यज्ञो यदा᳘हुतिराशी᳘रेव य᳘जमानस्य तद्य᳘दे᳘वास्या᳘त्र त᳘दे᳘वैत᳘दुपति᳘ष्ठमानः कुरुते त᳘स्मादु᳘पैव᳘ तिष्ठेत॥

मूलम् - Weber

अ᳘थ य᳘स्मादु᳘पैव ति᳘ष्ठेत॥
यज्ञो वै᳘ देवा᳘नामाशीर्य᳘जमानस्य तद्वा᳘ एष᳘ एव᳘ यज्ञो यदा᳘हुतिराशी᳘रेव य᳘जमानस्य तद्य᳘देॗवास्या᳘त्र त᳘देॗवैत᳘दुपति᳘ष्ठमानः कुरुते त᳘स्मादु᳘पैव᳘ तिष्ठेत॥

मूलम् - विस्वरम्

अथ यस्मादुपैव तिष्ठेत । यज्ञो वै देवानामाशीर्यजमानस्य । तद्वा एष एव यज्ञो यदाहुतिः । आशीरेव यजमानस्य तद्- यदेवास्यात्र । तदेवैतदुपतिष्ठमानः कुरुते । तस्मादुपैव तिष्ठेत ॥ ५ ॥

सायणः

अथ यस्मादित्यादि । यस्मात् कारणादग्न्युपस्थानं कर्त्तव्यम् तदुच्यते- ‘देवानां’ सम्बन्धी यो ‘यज्ञः,’ स हि यजमानस्य ‘आशीः’- फलप्रार्थनरूपः; ‘तत्’ तथा सति यैषा ऽग्निहोत्राहुतिः ‘एष एव यज्ञः’ सैव यजमानस्याशीः । तद्यदेवेत्यादि । यजमानस्य यत्, तदाशीरूपं फलम्; तदेवास्मिन्नग्निहोत्रे ऽग्निमुपतिष्ठमानः कुरुत इत्यर्थः ॥ ५ ॥

Eggeling
  1. Then as to why he should nevertheless approach (the fires). The sacrifice, assuredly, belongs to the gods, and the prayer for blessing to the sacrificer. Now the (Agnihotra) libation, doubtless, is the same as the sacrifice; and what he does 3 in now approaching (the fires), that indeed is the sacrificer’s prayer for blessing.

०६

विश्वास-प्रस्तुतिः

(ता᳘) अ᳘थ य᳘स्मा᳘न्नोपति᳘ष्ठेत॥
यो वै᳘ ब्राह्मणं᳘ वाश᳘ᳫँ᳘समानो ऽनुच᳘रति क्षत्रि᳘यं व्वा ऽयं᳘ मे दास्यत्ययं᳘ मे गृहा᳘न्करिष्यती᳘ति यो वै तं व्वा᳘द्येन वा क᳘र्म्मणा व्वाभिरि᳘राधयिषति त᳘स्मै वै स दे᳘यं मन्यते᳘ ऽथ य आ᳘ह किं नु त्वं म᳘मासि यो᳘ मे न द᳘दासी᳘तीश्वर᳘ ऽएनं द्वे᳘ष्टोरीश्वरो᳘ निर्व्वेदं ग᳘न्तोस्त᳘स्मान्नो᳘पतिष्ठेतैतदि᳘त्त्वे᳘वैष᳘ ऽएतं᳘ याचते य᳘दिन्धे य᳘ज्जुहोति त᳘स्मान्नो᳘पतिष्ठेत॥

मूलम् - श्रीधरादि

(ता᳘) अ᳘थ य᳘स्मा᳘न्नोपति᳘ष्ठेत॥
यो वै᳘ ब्राह्मणं᳘ वाश᳘ᳫँ᳘समानो ऽनुच᳘रति क्षत्रि᳘यं व्वा ऽयं᳘ मे दास्यत्ययं᳘ मे गृहा᳘न्करिष्यती᳘ति यो वै तं व्वा᳘द्येन वा क᳘र्म्मणा व्वाभिरि᳘राधयिषति त᳘स्मै वै स दे᳘यं मन्यते᳘ ऽथ य आ᳘ह किं नु त्वं म᳘मासि यो᳘ मे न द᳘दासी᳘तीश्वर᳘ ऽएनं द्वे᳘ष्टोरीश्वरो᳘ निर्व्वेदं ग᳘न्तोस्त᳘स्मान्नो᳘पतिष्ठेतैतदि᳘त्त्वे᳘वैष᳘ ऽएतं᳘ याचते य᳘दिन्धे य᳘ज्जुहोति त᳘स्मान्नो᳘पतिष्ठेत॥

मूलम् - Weber

अ᳘थ य᳘स्माॗन्नोपति᳘ष्ठेत॥
यो वै᳘ ब्राह्मणं᳘ वा श᳘ᳫं᳘समानो ऽनुच᳘रति क्षत्रि᳘यं वाय᳘म् मे दास्यत्यय᳘म् मे गृहा᳘न् करिष्यती᳘ति यो वै तं वा᳘द्येन वा क᳘र्मणा वाभिरि᳘राधयिषति त᳘स्मै वै स दे᳘यम् मन्यते᳘ ऽथ य आ᳘ह किं नु त्वम् म᳘मासि यो᳘ मे न द᳘दासी᳘तीश्वर एनं द्वे᳘ष्टोरीश्वरो᳘ निर्वेदं ग᳘न्तोस्त᳘स्मान्नो᳘पतिष्ठेतैतदिॗत्त्वेॗवैष᳘ एत᳘ याचते य᳘दिन्द्धे 4 य᳘ज्जुहो᳘ति त᳘स्मान्नो᳘पतिष्ठेत॥

मूलम् - विस्वरम्

अथ यस्मान्नोपतिष्ठेत । यो वै ब्राह्मणं वाशंसमानो ऽनुचरति, क्षत्रियं वा- अयं मे दास्यति, अयं मे गृहान् करिष्यतीति । यो वै तं वाद्येन वा, कर्मणा वा अभिरिराधयिषति । तस्मै वैस देयं मन्यते । अथ य आह- किं नु त्वं ममासि, यो मे न ददासीति । ईश्वर एनं द्वेष्टोः, ईश्वरो निर्वेदं गन्तोः । तस्मान्नोपतिष्ठेत । एतदित्त्वेवैष एतं याचते- यदिन्धे, यज्जुहोति, तस्मान्नोपतिष्ठेत ॥ ६ ॥

सायणः

पुनरप्यनुपस्थानपक्षं प्रकारान्तरेण प्रतिपादयति- अथ यस्मादित्यादिना । यो वै ब्राह्मणमित्यादि । ब्राह्मणक्षत्रिययोरन्यतरमाशंसमानः फलाभिलाषी पुरुषः ‘अनुचरति’ अनुवर्त्तते । तस्याभिप्रायमाह- अयं म इति । यश्चैवमनुचरति पुरुषः, तं ब्राह्मणादिं ‘वाद्येन’ वदनीयेन स्तुतिशब्देन, ‘कर्मणा वा’ परिचरणलक्षणेन ‘अभिरिराधयिषति’ अभिराधयितुं सेवितुमिच्छति ‘तस्मै’ पुरुषायैव ‘सः’ ब्राह्मणादिः प्रभुः धनं देयं दातव्यं ‘मन्यते’ । यस्त्वेवं निष्ठुरं भाषते, सः ‘एनं’ ब्राह्मणादिं प्रभुं ‘द्वेष्टोः’ (पा. सू. ३ । ४ । १३) विद्वेषणं कर्तुम् ‘ईश्वरः’ समर्थः स्यात्, तथा ‘निर्वेदं’ मनस्तापं ‘गन्तोः’ गन्तुम् ‘ईश्वरः’ स्यात् । निष्ठुरभाषणप्रकारमाह- किं न्विति । हे देवदत्त ! यस्त्वं मह्यं न ददासि, स त्वं मम किं चासि ? न किञ्चिदपि भवसि, त्वया किं प्रयोजनमित्यर्थः । एवं समन्त्रकहोमेनाग्नेराराधनमेव कार्यं, तदुपस्थानन्तु फलप्रार्थनरूपत्वेन निष्ठुरभाषणवदपराधहेतुरिति न कर्त्तव्यमित्याह- एतदिति । होमसमिन्धनाभ्यामग्निं प्राप्य पुनरुपस्थानेनैव याचते, याचनं चायुक्तमित्यनुपस्थानपक्षो ज्यायानित्यर्थः (तै. सं. १ कां. ५ प्र. ९ अ. ६-७ खं.) ॥ ६ ॥

Eggeling
  1. And again, why he should not approach (the fires). Whosoever follows either a Brāhman or Kshatriya, praising him, thinking, ‘He will give me gifts, he will build me a house,’ to him, if he strives to please him both in speech and deed, that (master of his) will think himself bound to give gifts. Whosoever, on the other hand, says, ‘What art thou to me, that givest me nothing?’ him that (master) is likely to hate, to become disgusted with. Hence one should not approach (the fire); for by kindling and offering in it, he already supplicates it, and he should not therefore approach (and importune it again).

०७

विश्वास-प्रस्तुतिः

(ता᳘) अ᳘थ य᳘स्मादु᳘पैव ति᳘ष्ठेत॥
(तो) उत वै या᳘चन्दाता᳘रं ल᳘भत ऽए᳘वो᳘तो भर्त्ता᳘ भा᳘र्य्यं ना᳘नुबुध्यते स᳘ य᳘दैवा᳘ह भा᳘र्य्यो वै᳘ ते ऽस्मि बिभृहि मेत्य᳘थैनं व्वेदा᳘थैनं भा᳘र्य्यं मन्यते त᳘स्मादु᳘पैव᳘ तिष्ठेतेदमित्तु स᳘मस्तं य᳘स्मादुपति᳘ष्ठेत॥

मूलम् - श्रीधरादि

(ता᳘) अ᳘थ य᳘स्मादु᳘पैव ति᳘ष्ठेत॥
(तो) उत वै या᳘चन्दाता᳘रं ल᳘भत ऽए᳘वो᳘तो भर्त्ता᳘ भा᳘र्य्यं ना᳘नुबुध्यते स᳘ य᳘दैवा᳘ह भा᳘र्य्यो वै᳘ ते ऽस्मि बिभृहि मेत्य᳘थैनं व्वेदा᳘थैनं भा᳘र्य्यं मन्यते त᳘स्मादु᳘पैव᳘ तिष्ठेतेदमित्तु स᳘मस्तं य᳘स्मादुपति᳘ष्ठेत॥

मूलम् - Weber

अ᳘थ य᳘स्मादु᳘पैव ति᳘ष्ठेत॥
उत वै या᳘चन्दाता᳘रं ल᳘भत एॗवोॗतो भर्ता᳘ भार्यं᳘ ना᳘नुबुध्यते स᳘ यॗदैवा᳘ह भाॗर्यो वै᳘ ते ऽस्मि बिभृहि मेत्य᳘थैनं वेदा᳘थैनम् भार्य᳘म् मन्यते त᳘स्मादु᳘पैव᳘ तिष्ठेतेदमित्तु स᳘मस्तं य᳘स्मादुपति᳘ष्ठेत॥

मूलम् - विस्वरम्

अथ यस्मादुपैव तिष्ठेत । उत वै याचन्दातारं लभत एव, उतो भर्त्ता भार्य्यं नानुबुध्यते । स यदैवाह- ‘भार्य्यो वै ते ऽस्मि, बिभृहि मा’ इति । अथैनं वेद, अथैनं भार्य्यं मन्यते । तस्मादुपैव तिष्ठेत- इदमित्तु समस्तम् । यस्मादुपतिष्ठेत ॥ ७ ॥

सायणः

अथ यस्मादित्यादि । लोके हि ‘यावत्’ पुरुषो ‘दातारं’ प्राप्नोति, स च ‘भर्त्ता’ पोषकः प्रभुः ‘भार्य्यं’ पोष्यं याचकं स्वतो ‘नानुबुध्यते’, ‘सः’ चैव याचकः एवम् ‘आह’ विज्ञापयति- हे स्वामिन् ! अहं ‘ते’ त्वया ‘भार्यः’ पोष्यः ‘अस्मि’, ‘मा’ मां ‘बिभृहि’ पोषय ‘इति’ । एवं विज्ञापनानन्तरमेव ‘एनं’ याचकं पुरुषं ‘वेद’ जानाति । अनन्तरञ्च ‘एनं’ ‘भार्यं’ पोष्यं ‘मन्यते’ तस्मात् ऋग्विधानरूपं स्वामिभूतस्याग्नेरुपस्थानं न दोषाय किञ्चित् । ‘इदमित्’ इदमेव ‘समस्तं’, सम्पूर्णमित्यर्थः 5 ॥ ७॥

Eggeling
  1. And again, why he should nevertheless approach (the fires). He alone that asks finds a giver; and the master, moreover, knows nothing of his dependent. But when the latter says, ‘I am thy dependent: support me!’ then he does know him, and feels himself bound to support him. Let him therefore approach (the fires). This then is the

whole (argument) as to why one should approach (the fires).

०८

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्व्वा᳘ ऽएष᳘ भूत्वा॥
या᳘वत ऽई᳘ष्टे या᳘वदेनम᳘नु त᳘स्य रे᳘तः सिञ्चति य᳘दग्निहोत्रं᳘ जुहो᳘तीद᳘मे᳘वैतत्स᳘र्व्वमुपति᳘ष्ठमानो ऽनुविकरो᳘तीदᳫँ᳭ स᳘र्व्वमनुप्र᳘जनयति॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्व्वा᳘ ऽएष᳘ भूत्वा॥
या᳘वत ऽई᳘ष्टे या᳘वदेनम᳘नु त᳘स्य रे᳘तः सिञ्चति य᳘दग्निहोत्रं᳘ जुहो᳘तीद᳘मे᳘वैतत्स᳘र्व्वमुपति᳘ष्ठमानो ऽनुविकरो᳘तीदᳫँ᳭ स᳘र्व्वमनुप्र᳘जनयति॥

मूलम् - Weber

प्रजा᳘पतिर्वा᳘ एष᳘ भूत्वा॥
या᳘वत ई᳘ष्टे या᳘वदेनम᳘नु त᳘स्य रे᳘तः सिञ्चति य᳘दग्निहोत्रं᳘ जुहो᳘तीद᳘मेॗवैतत्स᳘र्वमुपति᳘ष्ठमानो ऽनुविकरो᳘तीदᳫं सर्वमनुप्र᳘जनयति॥

मूलम् - विस्वरम्

प्रजापतिर्वा एष भूत्वा- यावत ईष्टे, यावदेनमनु तस्य रेतः सिञ्चति- यदग्निहोत्रं जुहोति- इदमेवैतत् सर्वमुपतिष्ठमानो ऽनुविकरोति, इदं सर्वमनु प्रजनयति ॥ ८ ॥

सायणः

यस्माच्चान्यस्मात् कारणात् अग्न्युपस्थानमवश्यं कर्त्तव्यं तदुच्यते- प्रजापतिर्वा इति । अग्निहोत्रहोमो हि रेतःसेकस्थानीयः; गर्भाशये निषिक्तस्य रेतसः हस्तपादादिमत्त्वेन यद्विशिष्टरूपकरणम्, तदग्न्युपस्थानसाध्यम् । अतो ऽग्निमुपतिष्ठमानो यजमानः सर्वमिदं निषिक्तं विशिष्टरूपं कुर्वन् ‘अनुप्रजनयति’ अनुक्रमेणोत्पादयति । तस्मादवश्यमग्न्युपस्थानं कर्त्तव्यमित्यर्थः ॥ ८ ॥

Eggeling
  1. Now that (fire) being Prajāpati,–when the Agnihotra is offered, he casts the seed of all that he rules over, of all that is after his manner: and by approaching (the fire) one imitates (him in) all this, one reproduces all this 6.

०९

विश्वास-प्रस्तुतिः

स वा ऽउ᳘पवत्या प्र᳘तिपद्यते॥
(त ऽ) इयं वा ऽउ᳘प द्वये᳘नेयमु᳘प य᳘द्धीदं कि᳘ञ्च जा᳘यते ऽस्यां तदु᳘पजायते᳘ ऽथ य᳘न्न्यृच्छ᳘त्यस्या᳘मेव तदु᳘पोप्यते तद᳘ह्ना रा᳘त्र्या भू᳘योभूय ऽए᳘वाक्षय्यं᳘ भवति त᳘दक्षय्ये᳘णै᳘वैत᳘द्भूम्ना प्र᳘तिपद्यते॥

मूलम् - श्रीधरादि

स वा ऽउ᳘पवत्या प्र᳘तिपद्यते॥
(त ऽ) इयं वा ऽउ᳘प द्वये᳘नेयमु᳘प य᳘द्धीदं कि᳘ञ्च जा᳘यते ऽस्यां तदु᳘पजायते᳘ ऽथ य᳘न्न्यृच्छ᳘त्यस्या᳘मेव तदु᳘पोप्यते तद᳘ह्ना रा᳘त्र्या भू᳘योभूय ऽए᳘वाक्षय्यं᳘ भवति त᳘दक्षय्ये᳘णै᳘वैत᳘द्भूम्ना प्र᳘तिपद्यते॥

मूलम् - Weber

स वा उ᳘पवत्या प्र᳘तिपद्यते॥
इयं वा उ᳘प द्वये᳘नेयमु᳘प य᳘द्धीदं किं᳘ च जा᳘यते ऽस्यां तदु᳘पजायते᳘ ऽथ य᳘न्न्यृछ᳘त्यस्या᳘मेव 7 तदु᳘पोप्यते तद᳘ह्ना रा᳘त्र्या भू᳘यो-भूय एॗवाक्षय्य᳘म् भवति त᳘दक्षय्ये᳘णैॗवैत᳘द्भूम्ना प्र᳘तिपद्यते॥

मूलम् - विस्वरम्

स वा उपवत्या प्रतिपद्यते- इयं वा उप द्वयेनेयमुप । यद्धीदं किञ्च जायते- अस्यां तदुपजायते- अथ यत् न्यृच्छति- अस्यामेव तदुपोप्यते । तदह्ना रात्र्या भूयो- भूय एवाक्षय्यं भवति, तदक्षय्येणैवैतद् भूम्ना प्रतिपद्यते ॥ ९ ॥

सायणः

तत्र प्रथमाया ऋचो लिङ्गविशेषमुपन्यस्य प्रशंसति- स वा इति । ‘उपवत्या’ उपशब्दयुक्तया ऋचा (वा. सं. ३ । ११) । इयं वा इत्यादि । ‘इयं वा उप’ यो ऽयमुपेत्युपसर्गः, इयं भूमिरेव सः ‘द्वयेन’ द्विप्रकारेण ‘इयं’ भूमिः उपशब्दवाच्या । तत्प्रकारद्वयं दर्शयति- यद्धीदमिति । ‘यत्’ किञ्च जायमानं, ‘तत्’ सर्वम् ‘अस्याम्’ ‘उपजायते’ । ‘यत्’ ‘न्यृच्छति’ नितरामार्त्तिं प्राप्नोति, ‘तत्’ अपि ‘अस्याम्’ एव ‘उपोष्यते’ निलीयते । अतो जायमानेन लीयमानेन चेयं भूमिरूपगम्यत इति उपशब्दवाच्या या इत्यर्थः । यत्रेदं जायमानं लीयमानं यत्तद्भूय एव अहोरात्राभ्याम् अक्षय्यं भवति तत्सम्बद्धोपशब्दयुक्तः प्रतिपद्यमानः क्षयरहितेनैव भूम्ना ‘प्रतिपद्यते’ उपस्थानं प्रारभ्यत 8 इत्यर्थः ॥ ९ ॥

Eggeling
  1. He begins to pray 9 with the verse (Vāj. S. III, 11) containing the word ‘upon (upa).’ Now the word ‘upon’ means this (earth), and that in a twofold way: for whatever is produced here, that is produced upon (upa-jan) this (earth); and whatever decays, that is buried (upa-vap 10) in this (earth): hence there is here imperishable, ever-increasing abundance, and with that imperishable abundance he begins.

१०

विश्वास-प्रस्तुतिः

स᳘ ऽआह॥
(हो) उपप्रय᳘न्तो ऽअध्वरमि᳘त्यध्वरो वै᳘ यज्ञ᳘ ऽउपप्रय᳘न्तो यज्ञमि᳘त्ये᳘वैत᳘दाह म᳘न्त्रं व्वोचेमाग्न᳘य ऽइ᳘ति म᳘न्त्रमु ह्य᳘स्मा ऽएत᳘द्वक्ष्यन्भ᳘वत्यारे᳘ ऽअस्मे᳘ च शृण्वत ऽइ᳘ति यद्य᳘प्यस्म᳘दारकादस्यथ न ऽएत᳘च्छृ᳘ण्वे᳘वैव᳘मेवैत᳘न्मन्यस्वे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

स᳘ ऽआह॥
(हो) उपप्रय᳘न्तो ऽअध्वरमि᳘त्यध्वरो वै᳘ यज्ञ᳘ ऽउपप्रय᳘न्तो यज्ञमि᳘त्ये᳘वैत᳘दाह म᳘न्त्रं व्वोचेमाग्न᳘य ऽइ᳘ति म᳘न्त्रमु ह्य᳘स्मा ऽएत᳘द्वक्ष्यन्भ᳘वत्यारे᳘ ऽअस्मे᳘ च शृण्वत ऽइ᳘ति यद्य᳘प्यस्म᳘दारकादस्यथ न ऽएत᳘च्छृ᳘ण्वे᳘वैव᳘मेवैत᳘न्मन्यस्वे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स᳘ आह॥
उपप्रय᳘न्तो अध्वरमि᳘त्यध्वरो वै᳘ यज्ञ᳘ उपप्रय᳘न्तो यज्ञमि᳘त्येॗवैत᳘दाह म᳘न्त्रं वोचेमाग्न᳘य इ᳘ति म᳘न्त्रमु ह्य᳘स्मा एत᳘द्वक्ष्यन्भ᳘वत्यारे᳘ अस्मे᳘ च शृण्वत इ᳘ति यद्य᳘प्यस्म᳘दारकादस्य᳘थ न एत᳘छूण्वेवैव᳘मेॗवैत᳘न्मन्यस्वे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ बृहदुपस्थानम् ।

स आह । (१) “उपप्रयन्तो अध्वरम्”- इति (वा. सं. ३। ११) । अध्वरो वै यज्ञः । उपप्रयन्तो यज्ञमित्येवैतदाह । “मन्त्रं वोचेमाग्नये”- इति (वा. सं. ३ । ११) । मन्त्रमु ह्यस्मा एतद्वक्ष्यन् भवति । “आरे अस्मे च शृण्वते”- इति (वा. सं. ३ । ११) यद्यप्यस्मदारकादसि अथ न एतच्छृण्वेव- एवमेवैतन्मन्यस्वेत्येवैतदाह ॥ १० ॥

सायणः

क्रमेणोपस्थानमन्त्रान् विधित्सुस्तावदुपवतीमृचं विधाय प्रशंसति- स आहेति । अध्वरो वै यज्ञ इत्यादि । सुगमम् । द्वितीयं पादमनूद्य तत्र मन्त्रशब्दो वक्ष्यमाणमन्त्रपर इति व्याचष्टे- मन्त्रमु ह्यस्मा इति । आरे अस्मे चेति । अस्मच्छब्दात् पञ्चम्यर्थे शेआदेश इति व्याचष्टे- अस्मदारकादिति ॥ १० ॥

Eggeling
  1. He prays, ‘Entering upon the worship–,’ worship (adhvara) doubtless means sacrifice: ’entering upon the sacrifice’ is what he means to say. ‘–Let us offer prayer to Agni–,’ for he is indeed about to offer prayer to him; ‘–to him who hears us even from afar!’ thereby he means to say, ‘Although thou art afar from us, yet do thou hear this our (prayer), do thou so far think well of it!’

११

विश्वास-प्रस्तुतिः

(हा) अग्नि᳘र्मूर्द्धा᳘ दिवः᳘॥
ककुत्पतिः पृथिव्या᳘ ऽअयम्॥ अपाᳫँ᳭ रे᳘ताᳫंसि जिन्वतीत्य᳘न्वेव᳘ धावति तद्य᳘था या᳘चन्कल्या᳘णं व्व᳘देदामुष्यायणो वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘त्येव᳘मेषा॥

मूलम् - श्रीधरादि

(हा) अग्नि᳘र्मूर्द्धा᳘ दिवः᳘॥
ककुत्पतिः पृथिव्या᳘ ऽअयम्॥ अपाᳫँ᳭ रे᳘ताᳫंसि जिन्वतीत्य᳘न्वेव᳘ धावति तद्य᳘था या᳘चन्कल्या᳘णं व्व᳘देदामुष्यायणो वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘त्येव᳘मेषा॥

मूलम् - Weber

अग्नि᳘र्मूर्धा᳘ दिवः᳟॥
ककुत्प᳘तिः पृथिव्या᳘ अय᳘म् अपां रे᳘तांसि जिन्वतीत्य᳘न्वेव᳘ धावति तद्य᳘था या᳘चन् कल्याणं व᳘देदामुष्यायणो वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा असी᳘त्येव᳘मेषा॥

मूलम् - विस्वरम्

(२) “अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति”- इति (वा. सं. ३ । १२) । अन्वेव धावति । तद्-यथा याचन् कल्याणं वदेद् ‘आमुष्यायणो वै त्वमसि, अलं वै त्वमेतस्मा असि’ इत्येवमेषा ॥ ११ ॥

सायणः

अथ द्वितीयामृचमग्न्युपस्थाने वक्तव्यत्वेन सिद्धवदनूद्य तात्पर्यमाह- अग्निर्मूद्धेति । अन्वेव धावतीति । अनुधावति अनुसृत्य 8 प्रशंसतीति यावत् । एतत् सदृष्टान्तमुपपादयति- तद्यथेति ॥ ११ ॥

Eggeling
  1. [He continues, Vāj. S. III, 12], ‘Agni, the head,

the summit of the sky; he, the lord of the earth, animates the seeds of the waters.’ He thereby follows (and praises) him:–even as a supplicant would speak politely, ‘Surely thou art the descendant of so and so! surely thou art able to do this!’ so (he does) by this (verse).

१२

विश्वास-प्रस्तुतिः

(षा᳘थै) अ᳘थैन्द्रा᳘ग्नी॥
(ग्न्यु) उभा᳘ वामिन्द्राग्नी ऽआहुव᳘ध्या ऽउभा रा᳘धसः सह᳘ मादय᳘ध्यै॥ उभा᳘ दाता᳘राविषाᳫँ᳘रयीणा᳘मुभा व्वा᳘जस्य सात᳘ये हुवे वामि᳘त्येष वा ऽइ᳘न्द्रो य᳘ एष त᳘पति स य᳘दस्तमे᳘ति त᳘दाहवनी᳘यं प्र᳘विशति त᳘दुभा᳘वे᳘वैत᳘त्सह स᳘न्ता ऽउपतिष्ठत ऽउभौ᳘ मे सह स᳘न्तौ दत्तमि᳘ति त᳘स्मादैन्द्राग्नी॥

मूलम् - श्रीधरादि

(षा᳘थै) अ᳘थैन्द्रा᳘ग्नी॥
(ग्न्यु) उभा᳘ वामिन्द्राग्नी ऽआहुव᳘ध्या ऽउभा रा᳘धसः सह᳘ मादय᳘ध्यै॥ उभा᳘ दाता᳘राविषाᳫँ᳘रयीणा᳘मुभा व्वा᳘जस्य सात᳘ये हुवे वामि᳘त्येष वा ऽइ᳘न्द्रो य᳘ एष त᳘पति स य᳘दस्तमे᳘ति त᳘दाहवनी᳘यं प्र᳘विशति त᳘दुभा᳘वे᳘वैत᳘त्सह स᳘न्ता ऽउपतिष्ठत ऽउभौ᳘ मे सह स᳘न्तौ दत्तमि᳘ति त᳘स्मादैन्द्राग्नी॥

मूलम् - Weber

अ᳘थैन्द्रा᳘ग्नी॥
उभा᳘ वामिन्द्राग्नी आहुव᳘ध्या उभा रा᳘धसः सह᳘ मादय᳘ध्यै उभा᳘ दाता᳘राविषां᳘ रयीणा᳘मुभा वा᳘जस्य सात᳘ये हुवे वामि᳘त्येष वा इ᳘न्द्रो य᳘ एष त᳘पति 11 स य᳘दस्तमे᳘ति त᳘दाहवनी᳘यम् प्र᳘विशति त᳘दुभा᳘वेॗवैत᳘त्सह स᳘न्ता उ᳘पतिष्ठत उभौ᳘ मे सह स᳘न्तौ दत्तामि᳘ति त᳘स्मादैन्द्राग्नी॥

मूलम् - विस्वरम्

अथैन्द्राग्नी (३) “उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराविषाँरयीणाम् । उभा वाजस्य सातये हुवे वाम्” इति (वा० सं० ३ । १३) । एष वा इन्द्रो य एष तपति । स यदस्तमेति तदाहवनीयं प्रविशति । तदुभावेवैतत् सह सन्ता उपतिष्ठते ‘उभौ मे सह सन्तौ दत्ताम्’ इति । तस्मादैन्द्राग्नी ॥ १२ ॥

सायणः

अथैन्द्राग्नीति । अग्निर्मूर्द्धेत्यनन्तरम्** उभा वाम्**- इतीन्द्राग्निदेवताका ऋक् अग्न्युपस्थाने प्रयोक्तव्येत्यर्थः । अस्यामृचि ‘इन्द्राग्नी’- शब्दस्य विविक्षितमर्थमाह- एष वा इन्द्र इति ॥ १२ ॥

Eggeling
  1. Thereupon the verse to Indra and Agni (Vāj. S. III, 13), ‘You two, O Indra and Agni, I will invoke; you two I will delight together with kindly office; you two, the givers of strength and wealth,–you two I invoke for the obtainment of strength!’ Indra, doubtless, is the same as that burning (sun); when he sets, then he enters the Āhavanīya;–hence he now approaches these two that are thus united, thinking, ‘May the two, united, grant me favours:’ this is why the Indra-Agni (verse is muttered).

१३

विश्वास-प्रस्तुतिः

अयं᳘ ते यो᳘निर्ऋत्वि᳘यः॥
(यो) यतो जातो ऽअ᳘रोचथाः॥ तं᳘ जानन्नग्न᳘ ऽआ᳘रोहा᳘था नो व्वर्द्धया रयिमि᳘ति पुष्टं वै᳘ रयिर्भू᳘यो भूय ऽएव न इदं᳘ पुष्टं᳘ कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

अयं᳘ ते यो᳘निर्ऋत्वि᳘यः॥
(यो) यतो जातो ऽअ᳘रोचथाः॥ तं᳘ जानन्नग्न᳘ ऽआ᳘रोहा᳘था नो व्वर्द्धया रयिमि᳘ति पुष्टं वै᳘ रयिर्भू᳘यो भूय ऽएव न इदं᳘ पुष्टं᳘ कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अयं᳘ ते यो᳘निरृत्वि᳘यः॥
य᳘तो जातो अ᳘रोचथाः तं᳘ जान᳘न्नग्न आ᳘रोहा᳘था नो वर्धया रयिमि᳘ति पुष्टं वै᳘ रयिर्भू᳘यो भूय एव᳘ न इद᳘म् पुष्टं᳘ कुर्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

(४) “अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्द्धया रयिम्”- इति (वा. सं. ३ । १४) । पुष्टं वै रयिः । भूयो-भूय एव न इदं पुष्टं कुरु- इत्येवैतदाह ॥ १३॥

सायणः

चतुर्थीमृचं पठित्वा स्तौति- अयं त इति । पुष्टं वा इति । यदत्र रयिशब्दवाच्यम्, तत् पुष्टिहेतुभूतं धनम् । भूयो भूय एवेत्यादि, मन्त्रगत- ‘वर्द्धय’- पदाभिप्रायकथनम् ॥ १३ ॥

Eggeling
  1. [He continues, ib. 14 seq.], ‘This is thy natural womb, whence born thou shonest forth: knowing this, arise, O Agni, and increase our substance!’–substance, doubtless, means affluence: ‘grant to us ever-increasing affluence!’ is what he thereby says.

१४

विश्वास-प्रस्तुतिः

(हा) अय᳘मिह᳘ प्रथमः᳘॥
(मो᳘) धायि धातृ᳘भिर्हो᳘ता य᳘जिष्ठो ऽअध्वरेष्वी᳘ड्यः॥ यम᳘प्नवानो भृ᳘गवो व्विरुरुचुर्व्व᳘नेषु चित्रं᳘ व्वि᳘भ्वं व्विशे᳘व्विश ऽइत्य᳘न्वेव᳘ धावति तद्य᳘था या᳘चन्कल्या᳘णं व्व᳘देदामुष्यायणो वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘त्येव᳘मेषा य᳘थो ऽए᳘वैष त᳘थो ऽए᳘वैनमेतदाह यदा᳘ह व्वि᳘भ्वं व्विशे᳘व्विश ऽइ᳘ति व्विभू᳘र्ह्येष᳘ व्विशे᳘ व्विशे॥

मूलम् - श्रीधरादि

(हा) अय᳘मिह᳘ प्रथमः᳘॥
(मो᳘) धायि धातृ᳘भिर्हो᳘ता य᳘जिष्ठो ऽअध्वरेष्वी᳘ड्यः॥ यम᳘प्नवानो भृ᳘गवो व्विरुरुचुर्व्व᳘नेषु चित्रं᳘ व्वि᳘भ्वं व्विशे᳘व्विश ऽइत्य᳘न्वेव᳘ धावति तद्य᳘था या᳘चन्कल्या᳘णं व्व᳘देदामुष्यायणो वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा ऽअसी᳘त्येव᳘मेषा य᳘थो ऽए᳘वैष त᳘थो ऽए᳘वैनमेतदाह यदा᳘ह व्वि᳘भ्वं व्विशे᳘व्विश ऽइ᳘ति व्विभू᳘र्ह्येष᳘ व्विशे᳘ व्विशे॥

मूलम् - Weber

अय᳘मिह᳘ प्रथमः᳟॥
धायि धातृ᳘भिर्हो᳘ता य᳘जिष्ठो अध्वरेष्वी᳘ड्यः यम᳘प्नवानो भृ᳘गवो विरुरुचुर्व᳘नेषु चित्रं᳘ विभ्वं᳘ विशे᳘ विश इत्य᳘न्वेव᳘ धावति तद्य᳘था या᳘चन् कल्या᳘णं व᳘देदामुष्यायणो वै त्व᳘मस्य᳘लं वै त्व᳘मेत᳘स्मा असी᳘त्येव᳘मेषा य᳘थो एॗवैष त᳘थो एॗवैनमेत᳘दाह यदा᳘ह विभ्वं᳘ विशे᳘ विश इ᳘ति विभू᳘र्ह्येष᳘ विशे᳘ विशे॥

मूलम् - विस्वरम्

(५) “अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशे-विशे”- इति (वा. सं. ३ । १५) । अन्वेव धावति तद्- यथा याचन् कल्याणं वदेत्- आमुष्यायणो वै त्वमसि, अलं वै त्वमेतस्मा असि इति- एवमेषा । यथो एवैष तथो एवैनमेतदाह- यदाह- ‘विभ्वं विशेविशे’ इति । विभूर्ह्येष विशे-विशे ॥ १४ ॥

सायणः

अथ तस्मिन्नुपस्थाने पञ्चमीमृचं विधाय तात्पर्यं कथयति- अयमिहेति । विभूह्येष इति । ‘विशे-विशे’ सर्वस्यै प्रजायै ‘एषः’ अग्निः ‘विभूः’ तत्तदभीष्टप्रदाने समर्थ इत्यर्थः ॥ १४ ॥

Eggeling
  1. ‘First was he founded by the founders here, the best offering priest, worthy of praise at the sacrifices; he whom Apnavāna and the Bhr̥gus kindled 12, shining brightly in the wood, and spreading from house to house:’–even as a supplicant would speak politely, ‘Surely thou art the descendant of so and so! surely thou art able to do this!’ so in this (verse). And what he (Agni) really is, as such he speaks of him when he says ‘spreading from house to house,’ for he does indeed spread from house to house.

१५

विश्वास-प्रस्तुतिः

(शे ऽअ) अस्य᳘ प्रत्नाम्॥
(म᳘) अ᳘नु द्यु᳘तᳫँ᳭शुक्रं᳘ दुदुह्रे ऽअ᳘ह्रयः। प᳘यः सहस्रसामृ᳘षिमि᳘ति परमा वा᳘ ऽएषा᳘ सनीनां य᳘त्सहस्रसनिस्त᳘देतस्यैवा᳘वरुद्ध्यै त᳘स्मादाह प᳘यः सहस्रसामृ᳘षिमि᳘ति॥

मूलम् - श्रीधरादि

(शे ऽअ) अस्य᳘ प्रत्नाम्॥
(म᳘) अ᳘नु द्यु᳘तᳫँ᳭शुक्रं᳘ दुदुह्रे ऽअ᳘ह्रयः। प᳘यः सहस्रसामृ᳘षिमि᳘ति परमा वा᳘ ऽएषा᳘ सनीनां य᳘त्सहस्रसनिस्त᳘देतस्यैवा᳘वरुद्ध्यै त᳘स्मादाह प᳘यः सहस्रसामृ᳘षिमि᳘ति॥

मूलम् - Weber

अस्य᳘ प्रत्नाम्॥
अ᳘नु द्यु᳘तं शुक्रं दुदुह्रे अ᳘ह्रयः प᳘यः सहस्रसामृ᳘षिमि᳘ति परमा वा᳘ एषा᳘ सनीनां य᳘त्सहस्रसनिस्त᳘देत᳘स्यैवा᳘वरुद्धै त᳘स्मादाह प᳘यः सहस्रसामृ᳘षिमि᳘ति॥

मूलम् - विस्वरम्

“अस्य प्रत्नामनुद्युतम्, शुक्रं दुदुह्रे अहयः । पयः सहस्रसामृषिम्”- इति (वा. सं. ३ । १६) परमा वा एषा सनीनां यत्- सहस्रसनिः । तदेतस्यैवावरुध्यै तस्मादाह पयः सहस्रसामृषिमिति ॥ १५ ॥

सायणः

षष्ठीमृचं विधाय प्रशंसति- अस्येति । परमा वा एषा इति । ‘सनीनां’ दानानां मध्ये ‘यत्’ ‘सहस्रसनिः’ सहस्रसङ्ख्याकस्य धनस्य दानं ‘एषा’ ‘परमा’ सर्वोत्कृष्टा सनिः । एताश्च षडृचो मन्त्रकाण्डे 13 एव व्याख्याता इति नात्र पुनर्व्याख्यायन्ते ॥ १५ ॥

Eggeling
  1. ‘In accordance with his old (pratna) splendour, the dauntless have milked the shining juice from the wise one that giveth a hundredfold.’ The richest of gifts, indeed, is the hundredfold gift; and in order to obtain that (giver) he says, ’the wise one that giveth a hundredfold.’

१६

विश्वास-प्रस्तुतिः

त᳘देत᳘त्समाहा᳘र्य्यᳫँ᳭ षडृचम्॥
तस्यो᳘पवती प्रथमा᳘ प्रत्न᳘वत्युत्तमा᳘वोचाम तद्य᳘स्मादु᳘पवत्य᳘थाद᳘ एव᳘ प्रत्नं या᳘वन्तो᳘ ह्येव सना᳘ग्रे देवास्ता᳘वन्त एव᳘ देवास्त᳘स्माददः᳘ प्रत्नं त᳘दिमे᳘ ऽएवा᳘न्तरेण स᳘र्व्वे का᳘मास्ते᳘ ऽअस्मा ऽइमे᳘ सञ्जानाने स᳘र्व्वान्का᳘मान्त्स᳘न्नमतः॥

मूलम् - श्रीधरादि

त᳘देत᳘त्समाहा᳘र्य्यᳫँ᳭ षडृचम्॥
तस्यो᳘पवती प्रथमा᳘ प्रत्न᳘वत्युत्तमा᳘वोचाम तद्य᳘स्मादु᳘पवत्य᳘थाद᳘ एव᳘ प्रत्नं या᳘वन्तो᳘ ह्येव सना᳘ग्रे देवास्ता᳘वन्त एव᳘ देवास्त᳘स्माददः᳘ प्रत्नं त᳘दिमे᳘ ऽएवा᳘न्तरेण स᳘र्व्वे का᳘मास्ते᳘ ऽअस्मा ऽइमे᳘ सञ्जानाने स᳘र्व्वान्का᳘मान्त्स᳘न्नमतः॥

मूलम् - Weber

त᳘देत᳘त्समाहा᳘र्यं षडृचम्॥
तस्यो᳘पवती प्रथमा᳘ प्रत्न᳘वत्युत्तमा᳘वोचाम तद्य᳘स्मादु᳘पवत्य᳘था᳘द᳘ एव᳘ प्रत्नं या᳘वन्तोॗ ह्येव सना᳘ग्रे देवास्ता᳘वन्त एव᳘ देवास्त᳘स्माददः᳘ प्रत्नं त᳘दिमे᳘ एवा᳘न्तरेण स᳘र्वे का᳘मास्ते᳘ अस्मा इमे᳘ संजानाने स᳘र्वान् का᳘मान्त्सं᳘नमतः॥

मूलम् - विस्वरम्

तदेतत् समाहार्य्यं षडृचम् । तस्योपवती प्रथमा, प्रत्नवत्युत्तमा । अवोचाम तद्- यस्मादुपवती । अथाद एवं प्रत्नम् । यावन्तो ह्येव सनाग्रे देवाः- तावन्त एव देवाः । तस्माददः प्रत्नम् । तदिमे एवान्तरेण सर्वे कामाः- ते अस्मा इमे सञ्जानाने सर्वान् कामान्त्सन्नमतः ॥ १६ ॥

सायणः

अथैता ऋचः समूहीकृत्य प्रथमोत्तमयोर्लिङ्गविशेषोपजीवनेन, स्तौति- तदेतदिति । ‘समाहार्यम्’ एकैकामृचं प्रदेशान्तरे पठित्वा समाहृत्य समुदायीकृतमेतत् ‘षडृचं’ सूक्तम् । ‘तस्य’ ‘प्रथमा’ ‘उपवती’ ‘उत्तमा’ तु ‘प्रत्नवती’ प्रत्नशब्दयुक्ता । तत्रोपवती भूम्यात्मिकेत्येतत् प्रागेव ‘अवोचाम’ नेतः परं तत् प्रतिपाद्यत इत्यर्थः । अथाद एवेति । ‘अदः’ द्युलोक एव ‘प्रत्नम्’ । तस्य प्रत्नशब्दाभिधेयतामुपपादयति 13- यावन्त इति । ‘सना’ इति निपातः पुरेत्यस्यार्थे । ‘यावन्त एव’ हि ‘अग्रे’ ‘सना’ सनातनाः ‘देवाः,’ ‘तावन्त एव देवाः’ इदानीमपि; ‘तस्मात्’ तदाश्रयभूता द्यौः पुरातनत्ववाचिना प्रत्नशब्देनोच्यत इत्यर्थः । तदिमे एवेति । ‘इमे’ द्यावापृथिव्यौ ‘अन्तरेण’ **“अग्निर्मूर्द्धा” **- इत्यादिमन्त्रप्रतिपाद्याः ‘सर्वे कामाः’ अवस्थिताः । ते अस्मा इत्यादि, स्पष्टम् ॥ १६ ॥

Eggeling
  1. This is a hymn of six verses collected (from the R̥k); the first of them containing (the word) ‘upon,’ and the last containing (the word) ‘old’ (pratna). And this we recited, because she (the earth) is the one that contains the (word) ‘upon;’ and that which is ‘old’ doubtless is yonder (sky), for as many gods as there were ‘of old,’ in the beginning, so many gods there are now, and hence the ‘old’ means yonder (sky). Now within these two (worlds) all desires are contained; and these two are in accord with each other for his (the sacrificer’s) benefit, and concede all his wishes.

१७

विश्वास-प्रस्तुतिः

स वै त्रिः᳘ प्रथमां ज᳘पति॥
त्रि᳘रुत्तमां᳘ त्रिवृ᳘त्प्रायणा हि᳘ यज्ञा᳘स्त्रिवृ᳘दुदयनास्त᳘स्मात्त्रिः᳘ प्रथमां ज᳘पति त्रि᳘रुत्तमाम्॥

मूलम् - श्रीधरादि

स वै त्रिः᳘ प्रथमां ज᳘पति॥
त्रि᳘रुत्तमां᳘ त्रिवृ᳘त्प्रायणा हि᳘ यज्ञा᳘स्त्रिवृ᳘दुदयनास्त᳘स्मात्त्रिः᳘ प्रथमां ज᳘पति त्रि᳘रुत्तमाम्॥

मूलम् - Weber

स वै त्रिः᳘ प्रथमां ज᳘पति॥
त्रि᳘रुत्तमां᳘ त्रिवृ᳘त्प्रायणा हि᳘ यज्ञा᳘स्त्रिवृ᳘दुदयनास्त᳘स्मात्त्रिः᳘ प्रथमां ज᳘पति त्रि᳘रुत्तमाम्॥

मूलम् - विस्वरम्

स वै त्रिः प्रथमां जपति, त्रिरुत्तमाम् । त्रिवृत्- प्रायणा हि यज्ञाः, त्रिवृदुदयनाः । तस्मात् त्रिः प्रथमां जपति, त्रिरुत्तमाम् ॥ १७ ॥

सायणः

प्रथमोत्तमयोस्त्रिर्जपं विधाय प्रशंसति- स वै त्रिः प्रथमां जपतीति । अस्य षडृचस्य सूक्तस्य ‘उपप्रयन्त’- इतीयं प्रथमा, ‘अस्य प्रत्नाम्’- इतीयमुत्तमा; उपस्थानकाले तयोस्त्रिर्जपः 13 कार्यः । यतः ‘यज्ञाः’ ‘त्रिवृत्प्रायणाः’ त्रिवृत्प्रारम्भाः, निर्वापप्रोक्षणसामिधेन्यनुवचनादिषु तथा त्रिवृदुदयनास्त्रिवृत्समाप्तायाः आज्यप्रउगादि शस्त्रसमाप्तिषु परिधानीयायाः त्रिरावृत्तिदर्शनादित्यर्थः ॥ १७ ॥

Eggeling
  1. Thrice he mutters the first (verse) and thrice the last; for of threefold beginning are sacrifices, and of threefold termination: therefore he mutters thrice the first and the last (verses).

१८

विश्वास-प्रस्तुतिः

य᳘द्ध वा ऽअ᳘त्राग्निहोत्रं जु᳘ह्वत्॥
(द्वा᳘) व्वा᳘द्येन वा क᳘र्मणा वा मिथ्या᳘ करो᳘त्यात्म᳘नस्तद᳘वद्यत्या᳘युषो वा व्व᳘र्चसो वा प्रजा᳘यै वा॥

मूलम् - श्रीधरादि

य᳘द्ध वा ऽअ᳘त्राग्निहोत्रं जु᳘ह्वत्॥
(द्वा᳘) व्वा᳘द्येन वा क᳘र्मणा वा मिथ्या᳘ करो᳘त्यात्म᳘नस्तद᳘वद्यत्या᳘युषो वा व्व᳘र्चसो वा प्रजा᳘यै वा॥

मूलम् - Weber

य᳘द्ध वा अ᳘त्राग्निहोत्रं जु᳘ह्वत्॥
वा᳘द्येन वा क᳘र्मणा वा मिथ्या᳘ करो᳘त्यात्म᳘नस्तद᳘वद्यत्या᳘युषो वा व᳘र्चसो वा प्रजा᳘यै वा॥

मूलम् - विस्वरम्

यद्ध वा अत्राग्निहोत्रं जुह्वत्- वाद्येन वा कर्मणा वा मिथ्या करोति,- आत्मनस्तदवद्यति- आयुषो वा, वर्चसो वा, प्रजायै वा ॥ १८ ॥

सायणः

“तनूप अग्ने ऽसि”- इत्यादिमन्त्रैराहवनीयोपस्थानं विधित्सुस्तन्निवर्त्तुं 14 (?) दोषमुपन्यसति यद्ध वा इति । अग्निहोत्रहोमं कुर्वन् ‘वाद्येन वा’ व्यवहारसाध्येन मन्त्रोच्चारणेन, शरीरसाध्येन ‘कर्म्मणा वा,’ ‘यत्’ ‘मिथ्या करोति’ अन्यथा ऽनुतिष्ठति, ‘तत्’ तेन ‘आत्मनः’ यजमानस्य ‘आयुषः’ जीवनस्य, ‘वर्चसः’ तेजसः, ‘प्रजायै’ प्रजायाश्च ‘अवद्यति’ खण्डयति । ‘वा’- शब्दश्चार्थे ॥ १८ ॥

Eggeling
  1. Now, in offering the Agnihotra, whatever mistake one commits, either in word or deed, thereby he injures either his own body, or his life, or his vigour, or his offspring.

१९

विश्वास-प्रस्तुतिः

त᳘दु ख᳘लु तनूपा᳘ ऽअ᳘ग्ने ऽसि॥
त᳘न्वं मे पाह्यायुर्दा᳘ ऽअग्ने ऽस्या᳘युर्मे देहि व्वर्चोदा᳘ ऽअग्ने ऽसि व्व᳘र्चो मे देहि॥ अ᳘ग्ने य᳘न्मे त᳘न्वा ऊनं त᳘न्म ऽआ᳘पृणे᳘ति॥

मूलम् - श्रीधरादि

त᳘दु ख᳘लु तनूपा᳘ ऽअ᳘ग्ने ऽसि॥
त᳘न्वं मे पाह्यायुर्दा᳘ ऽअग्ने ऽस्या᳘युर्मे देहि व्वर्चोदा᳘ ऽअग्ने ऽसि व्व᳘र्चो मे देहि॥ अ᳘ग्ने य᳘न्मे त᳘न्वा ऊनं त᳘न्म ऽआ᳘पृणे᳘ति॥

मूलम् - Weber

त᳘दु ख᳘लु तनूपा᳘ अग्ने ऽसि॥
तन्वं᳘ मे पाह्यायुर्दा᳘ अग्ने ऽस्या᳘युर्मे देहि वर्चोदा᳘ अग्ने ऽसि व᳘र्चो मे देहि अ᳘ग्ने य᳘न्मे तॗन्वा ऊनं त᳘न्म आ᳘प्रणे᳘ति॥

मूलम् - विस्वरम्

तदु खलु- “तनूपा अग्ने ऽसि- तन्वं मे पाहि, आयुर्दा अग्ने ऽसि- आयुर्मे देहि, वर्चोदा अग्ने ऽसि- वर्चो मे देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण”- इति (वा० सं० ३ । १७) इति ॥ १९ ॥

सायणः

अथैतद्दोषपरिहाराय तदुचितमन्त्रकरणकोपस्थानमाह- तदु खल्विति । ‘तत्’ तत्र खलु दोषे सतीत्यर्थः ॥ १९ ॥

Eggeling
  1. Accordingly (he mutters the texts, V. S. III, 17), ‘Thou, O Agni, art the protector of bodies: protect my body! Thou, O Agni, art the giver of life: give me life! Thou, O Agni, art the giver of vigour: give me vigour! O Agni, what defect there is in my body, supply that for me!’

२०

विश्वास-प्रस्तुतिः

य᳘द्ध वा ऽअ᳘त्राग्निहोत्रं जु᳘ह्वत्॥
(द्वा᳘) व्वा᳘द्येन वा क᳘र्मणा वा मिथ्या᳘ करो᳘त्यात्म᳘नस्तद᳘वद्यत्या᳘युषो वा व्व᳘र्चसो वा प्रजा᳘यै वा त᳘न्मे पु᳘नरा᳘प्याय᳘येत्ये᳘वैत᳘दाह त᳘थो हास्यैतत्पु᳘नरा᳘प्यायते॥

मूलम् - श्रीधरादि

य᳘द्ध वा ऽअ᳘त्राग्निहोत्रं जु᳘ह्वत्॥
(द्वा᳘) व्वा᳘द्येन वा क᳘र्मणा वा मिथ्या᳘ करो᳘त्यात्म᳘नस्तद᳘वद्यत्या᳘युषो वा व्व᳘र्चसो वा प्रजा᳘यै वा त᳘न्मे पु᳘नरा᳘प्याय᳘येत्ये᳘वैत᳘दाह त᳘थो हास्यैतत्पु᳘नरा᳘प्यायते॥

मूलम् - Weber

य᳘द्ध वा अ᳘त्राग्निहोत्रं जु᳘ह्वत्॥
वा᳘द्येन वा क᳘र्मणा वा मिथ्या᳘ करोॗत्यात्म᳘नस्तद᳘वद्यत्या᳘युषो वा व᳘र्चसो वा प्रजा᳘यै वा त᳘न्मे पु᳘नरा᳘प्याय᳘येत्येॗवैत᳘दाह तथो हास्यैतत्पु᳘नरा᳘प्यायते॥

मूलम् - विस्वरम्

यद्ध वा अत्राग्निहोत्रं जुह्वत्- वाद्येन वा कर्मणा वा मिथ्या करोति आत्मनस्तदवद्यति- आयुषो वा, वर्चसो वा, प्रजायै वा- तन्मे पुनराप्यायय- इत्येवैतदाह । तयो हास्यैतत् पुनराप्यायते ॥ २० ॥

सायणः

यद्ध वा इत्याद्युक्तार्थम् । तन्म इत्यादि । यदेतन्मिथ्याकरणेनायुरित्यादि खण्डितम्, हे अग्ने ! ‘तत्’ तच्च मदीयम् ‘पुनः’ ‘आप्यायय’ वर्द्धयेति “तन्म आ पृण”- इति मन्त्रभागस्य व्याख्यानम् ॥ २० ॥

Eggeling
  1. And whatever mistake he commits, in offering the Agnihotra, either in word or deed, thereby he

injures either his own body, or his life, or his vigour, or his offspring: ‘make that up for me!’ he thereby says; and accordingly that (defect) is again made up for him.

२१

विश्वास-प्रस्तुतिः

(त ऽइ᳘) इ᳘न्धानास्त्वा॥
शतᳫँ᳭ हि᳘मा द्युम᳘न्तᳫँ᳭ स᳘मिधीमही᳘ति शतं᳘ व्वर्षा᳘णि जीव्यास्मे᳘त्ये᳘वैत᳘दाह ता᳘वत्त्वा महा᳘न्तᳫँ᳭ स᳘मिधीमही᳘ति यदा᳘ह द्युम᳘न्तᳫँ᳭ स᳘मिधीमही᳘ति व्व᳘यस्वन्तो व्वयस्कृ᳘तᳫँ᳭ स᳘हस्वन्तः सहस्कृ᳘तमि᳘ति व्व᳘यस्वन्तो व्व᳘यं भूया᳘स्म व्वयस्कृत्त्वं᳘ भूया ऽइ᳘त्ये᳘वैत᳘दाह स᳘हस्वन्तो व्व᳘यं भूया᳘स्म सहस्कृत्त्वं᳘ भूया ऽइ᳘त्ये᳘वैत᳘दाहा᳘ग्ने सपत्नद᳘म्भनम᳘दब्धासो ऽअ᳘दाभ्यमि᳘ति त्व᳘या व्वय᳘ᳫँ᳘ सप᳘त्नान्पा᳘पीयसः क्रियास्मे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त ऽइ᳘) इ᳘न्धानास्त्वा॥
शतᳫँ᳭ हि᳘मा द्युम᳘न्तᳫँ᳭ स᳘मिधीमही᳘ति शतं᳘ व्वर्षा᳘णि जीव्यास्मे᳘त्ये᳘वैत᳘दाह ता᳘वत्त्वा महा᳘न्तᳫँ᳭ स᳘मिधीमही᳘ति यदा᳘ह द्युम᳘न्तᳫँ᳭ स᳘मिधीमही᳘ति व्व᳘यस्वन्तो व्वयस्कृ᳘तᳫँ᳭ स᳘हस्वन्तः सहस्कृ᳘तमि᳘ति व्व᳘यस्वन्तो व्व᳘यं भूया᳘स्म व्वयस्कृत्त्वं᳘ भूया ऽइ᳘त्ये᳘वैत᳘दाह स᳘हस्वन्तो व्व᳘यं भूया᳘स्म सहस्कृत्त्वं᳘ भूया ऽइ᳘त्ये᳘वैत᳘दाहा᳘ग्ने सपत्नद᳘म्भनम᳘दब्धासो ऽअ᳘दाभ्यमि᳘ति त्व᳘या व्वय᳘ᳫँ᳘ सप᳘त्नान्पा᳘पीयसः क्रियास्मे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

इ᳘न्धानास्त्वा॥
शतᳫं हि᳘मा द्यु᳘मन्तᳫं स᳘मिधीमही᳘ति शतं᳘ वर्षा᳘णि जीव्यास्मे᳘त्येॗवैत᳘दाह ता᳘वत्त्वा महा᳘न्तᳫं स᳘मिधीमही᳘ति यदा᳘ह द्युम᳘न्तᳫं स᳘मिधीमही᳘ति व᳘यस्वन्तो वयस्कृ᳘तᳫं स᳘हस्वन्तः सहस्कृ᳘तमि᳘ति व᳘यस्वन्तो वय᳘म् भूया᳘स्म वयस्कृत्त्व᳘म् भूया इ᳘त्येॗवैत᳘दाह स᳘हस्वन्तो वय᳘म् भूया᳘स्म सहस्कृत्त्व᳘म् बूया इ᳘त्येॗवैतदाहा᳘ग्ने सपत्नद᳘म्भनम᳘दब्धासो अ᳘दाभ्यमि᳘ति त्व᳘या वय᳘ᳫं᳘ सप᳘त्नान्पा᳘पीयसः क्रियास्मे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“इन्धानास्त्वा शतं हिमा द्युमन्तं समिधीमहि”- इति (वा० सं० ३ । १८) । शत वर्षाणि जीव्यास्म- इत्येवैतदाह । तावत् त्वा महान्तं समिधीमहीति । यदाह- द्युमन्तं समिधीमहीति । “वयस्वन्तो वयस्कृतम्, सहस्वन्तः सहस्कृतम्”- इति (वा० सं० ३ । १८) । वयस्वन्तो वयं भूयास्म, वयस्कृत् त्वं भूयाः- इत्येवैतदाह । सहस्वन्तो वयं भूयास्म, सहस्कृत् त्वं भूया इत्येवैतदाह । “अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम्”- इति (वा० सं० ३ । १८) । त्वया वयं सपत्नान् पापीयसः क्रियास्म- इत्येवैतदाह ॥ २१ ॥

सायणः

इन्धानास्त्वेत्यादि । “शतँहिमाः”- इत्यस्य तात्पर्यमाह शतं वर्षाणीति । शतसंवत्सरजीवनवन्तो भूयास्प्रेत्यर्थः । तैत्तिरीयके ऽप्येतद् विशदीकृतम्- “शत हिमाँ इत्याह शतं त्वा हेमन्तानिन्धिषीयेति वा- चैतदाह” इति (तै० सं० १ । ५ । ८ । ५ ।) । द्युमन्तमिति मन्त्रपरभागस्यार्थमाह- तावत्त्वेति । ‘तावत्’ शतसंवत्सरजीवनावधि, हे अग्ने ! त्वां ‘द्युमन्तं’ दीप्तिमन्तं ‘महान्तं’ ‘समिधीमहि’, सन्दीपयेमेत्यर्थः । वयस्वन्तो वयस्कृतमित्यादि । वय इत्यन्ननाम । (निघ० २ । ७ । ७) प्रभूतान्नयुक्ता भूत्वा वयसो ऽन्नस्य कर्तारं त्वामुपतिष्ठेमहि । एवं ‘सहस्वन्तः’- इत्यत्रापि योजना । उभयत्र विशेषणद्वयमपि विधेयाभिप्रायमिति व्याचष्टे- वयस्वन्तो वयमिति । वयः अन्नं करोतीति वयस्कृत्, सहः शत्रूणामभिभवनं तद्वन्तः सहस्वन्तः, तादृशं सहः शत्रुविषयकमभिभवनं करोतीति सहस्कृत् । अग्ने सपत्नदंभनमित्यादि । सपत्नो दभ्यते हिंस्यते ऽनेनेति सपत्नदम्भनो ऽग्निः । तथा च ‘त्वया’ ‘वयं’ ‘सपत्नान्’ शत्रून् ‘पापीयसः’ अतिशयेन निकृष्टान् ‘क्रियास्म’ करवामेति विशेषणतात्पर्यकथनम् ॥ २१ ॥

Eggeling
  1. [He continues, Vāj. S. III, 18], ‘Kindled, we enkindle thee, the brilliant one, a hundred winters–;’ he thereby says, ‘may we live a hundred years;’ and ‘so long we enkindle thee, the great one,’ he says, when he says ‘we enkindle thee, the brilliant one.’ ‘–We, the vigorous–thee, the invigorating; we, the strong–thee, the giver of strength–;’ whereby he says, ‘may we be vigorous, mayest thou be invigorating! may we be strong, mayest thou be a giver of strength!’ ‘–We, the uninjured–thee, the uninjurable injurer of enemies!’ whereby he says, ‘by thine aid may we render our enemies utterly miserable!’

२२

विश्वास-प्रस्तुतिः

चि᳘त्रावसो स्वस्ति᳘ ते पार᳘मशीये᳘ति॥
त्रि᳘रेत᳘ज्जपति रा᳘त्रिर्व्वै᳘ चित्रा᳘वसुः सा᳘ हीय᳘ᳫँ᳭ सङ्गृ᳘ह्येव चित्रा᳘णि व्व᳘सति त᳘स्मान्ना᳘रका᳘च्चित्रं᳘ ददृशे॥

मूलम् - श्रीधरादि

चि᳘त्रावसो स्वस्ति᳘ ते पार᳘मशीये᳘ति॥
त्रि᳘रेत᳘ज्जपति रा᳘त्रिर्व्वै᳘ चित्रा᳘वसुः सा᳘ हीय᳘ᳫँ᳭ सङ्गृ᳘ह्येव चित्रा᳘णि व्व᳘सति त᳘स्मान्ना᳘रका᳘च्चित्रं᳘ ददृशे॥

मूलम् - Weber

चि᳘त्रावसो स्वस्ति᳘ ते पार᳘मशीयेति॥
त्रि᳘रेत᳘ज्जपति रा᳘त्रिर्वै᳘ चित्रा᳘वसुः साॗ हीय᳘ᳫं᳘ संगृ᳘ह्येव चित्रा᳘णि व᳘सति त᳘स्मान्ना᳘रका᳘च्चित्रं᳘ ददृशे॥

मूलम् - विस्वरम्

“चित्रावसो स्वस्ति ते पारमशीय” इति (वा. सं. ३ । १८) । त्रिरेतज्जपति । रात्रिर्वै चित्रावसुः । सा हीयं सङ्गृह्येव चित्राणि वसति । तस्मान्नारकाच्चित्रं ददृशे ॥ २२ ॥

सायणः

“चित्रावसो”- इत्यादिमन्त्रस्य त्रिर्जपं विधत्ते (का. श्रौ. सू. ४ । २७६)- चित्रेतिरात्रिर्वा इत्यादि । ‘हि’ यस्मात् ‘सा इयं रात्रिः’ ग्रहनक्षत्रादीनि ‘चित्राणि’ ‘संगृह्य इव वसति,’ ‘तस्मात्’ ‘चित्रावसुः’ रात्रेर्नामधेयम् । अत एव इदानीमपि रात्रौ नमसि ‘तारकालक्षणं 15 चित्रं’ ‘ददृशे’ दृश्यते ॥ २२ ॥

Eggeling
  1. ‘O thou, rich in lights, may I safely reach thine end!’ this he mutters thrice. She that is rich in lights (citrāvasu) doubtless is the night, since the latter, as it were, rests (vas) after gathering together the lights (citrā): hence (at night) one does not see clearly (citram) from afar.

२३

विश्वास-प्रस्तुतिः

(श ऽ) एते᳘नो ह स्म वा ऽऋ᳘षयः॥
(यो) रा᳘त्रेः स्वस्ति᳘ पार᳘ᳫँ᳘ समश्नुवत᳘ ऽएते᳘नो ह स्मैनान्रा᳘त्रेर्नाष्ट्रा र᳘क्षाᳫँ᳭सि न᳘ व्विन्दन्त्येते᳘नो ऽए᳘वैष᳘ एतद्रा᳘त्रेः स्वस्ति᳘ पार᳘ᳫँ᳭ समश्नुत᳘ ऽएते᳘नो ऽएनᳫँ᳭ रा᳘त्रेर्नाष्ट्रा र᳘क्षाᳫँ᳭सि न᳘ व्विन्दन्त्येता᳘वन्नु ति᳘ष्ठञ्जपति॥

मूलम् - श्रीधरादि

(श ऽ) एते᳘नो ह स्म वा ऽऋ᳘षयः॥
(यो) रा᳘त्रेः स्वस्ति᳘ पार᳘ᳫँ᳘ समश्नुवत᳘ ऽएते᳘नो ह स्मैनान्रा᳘त्रेर्नाष्ट्रा र᳘क्षाᳫँ᳭सि न᳘ व्विन्दन्त्येते᳘नो ऽए᳘वैष᳘ एतद्रा᳘त्रेः स्वस्ति᳘ पार᳘ᳫँ᳭ समश्नुत᳘ ऽएते᳘नो ऽएनᳫँ᳭ रा᳘त्रेर्नाष्ट्रा र᳘क्षाᳫँ᳭सि न᳘ व्विन्दन्त्येता᳘वन्नु ति᳘ष्ठञ्जपति॥

मूलम् - Weber

एते᳘न ह स्म वा ऋ᳘षयः॥
रा᳘त्रेः स्वस्ति᳘ पार᳘ᳫं᳘ समश्नुव᳘त एते᳘नो ह स्मैनान्रा᳘त्रेर्नाष्ट्रा र᳘क्षांसि न᳘ विन्दन्त्येते᳘नो 16 एॗवैष᳘ एतद्रा᳘त्रेः स्वस्ति᳘ पार᳘ᳫं᳘ समश्नुत᳘ एते᳘नो एनं रा᳘त्रेर्नाष्ट्रा र᳘क्षांसि न᳘ विन्दन्त्येता᳘वन्नु ति᳘ष्ठञ्जपति॥

मूलम् - विस्वरम्

एतेन ह स्म वा ऋषयो रात्रेः स्वस्ति पारं समश्नुवते, एतेनो ह स्मैनान् रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्ति । एतेनो एवैष एतद् रात्रेः स्वस्ति पारं समश्नुते, एतेनो एनं रात्रेर्नाष्ट्रा रक्षांसि न विन्दन्ति । एतावन्नु तिष्ठन् जपति ॥ २३ ॥

सायणः

अस्य मन्त्रजपस्य प्रयोजनं वक्तुं पुरावृत्तमुदाहरति- एतेनेति । ‘एतेन’ “चित्रावसो”- इति मन्त्रेण ‘रात्रेः’ ‘पारम्’ अवसानं ‘स्वस्ति’ क्षेमेण ‘समश्नुवते स्म’ सम्प्राप्नुवन् । तथा ‘एनान्’ ऋषीन् एतन्मन्त्रजपेनैव रात्रेः प्रीणनात् तत्सम्बन्धिनो राक्षसादयो ‘न विन्दन्ति’ ‘नाविन्दन्’ नालभन्त । इदानीन्तनस्यापि इमं मन्त्रमग्न्युपस्थाने जपतो यजमानस्य तत्फलमाह- एतेनो एवेति । एतावन्न्विति । “उपप्रयन्त”- इत्यारभ्य “चित्रावसो”- इत्येतावत्पर्यन्तमाहवनीयस्य समीपे ‘तिष्ठन्’ जपेत् (का. श्रौ. सू. ४ । २७६) ॥ २३ ॥

Eggeling
  1. Now it was by means of this same (text) that the R̥shis reached safely the end of the night; and because of it the evil spirits, the Rakshas, did not find them: by it, therefore, he also now reaches safely the end of the night; and because of it the evil spirits, the Rakshas, find him not.–This much he mutters while standing.

२४

विश्वास-प्रस्तुतिः

(त्य) अथा᳘सीनः॥
सं त्व᳘मग्ने सू᳘र्य्यस्य व्व᳘र्चसागथा ऽइ᳘ति᳘ तद्य᳘दस्तं य᳘न्नादित्य᳘ ऽआहवनी᳘यं प्रविश᳘ति ते᳘नैत᳘दाह समृ᳘षीणाᳫँ᳭ स्तुतेने᳘ति तद्य᳘दुपति᳘ष्ठते ते᳘नैत᳘दाह सं᳘प्रिये᳘ण धाम्नेत्या᳘हुतयो वा᳘ ऽअस्य प्रियं धामा᳘हुतिभिरेव त᳘दाह सम᳘हमा᳘युषा संव्व᳘र्चसा सं᳘प्रज᳘या स᳘ᳫँ᳭ रायस्पो᳘षेण ग्मिषीये᳘ति य᳘था त्व᳘मेतैः᳘ सम᳘गथा ऽएव᳘महमा᳘युषा व्व᳘र्चसा प्रज᳘या रायस्पो᳘षेणे᳘ति य᳘द्भूम्ने᳘ति त᳘देव᳘मह᳘मेतैः स᳘ङ्गच्छा ऽइ᳘त्येवैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य) अथा᳘सीनः॥
सं त्व᳘मग्ने सू᳘र्य्यस्य व्व᳘र्चसागथा ऽइ᳘ति᳘ तद्य᳘दस्तं य᳘न्नादित्य᳘ ऽआहवनी᳘यं प्रविश᳘ति ते᳘नैत᳘दाह समृ᳘षीणाᳫँ᳭ स्तुतेने᳘ति तद्य᳘दुपति᳘ष्ठते ते᳘नैत᳘दाह सं᳘प्रिये᳘ण धाम्नेत्या᳘हुतयो वा᳘ ऽअस्य प्रियं धामा᳘हुतिभिरेव त᳘दाह सम᳘हमा᳘युषा संव्व᳘र्चसा सं᳘प्रज᳘या स᳘ᳫँ᳭ रायस्पो᳘षेण ग्मिषीये᳘ति य᳘था त्व᳘मेतैः᳘ सम᳘गथा ऽएव᳘महमा᳘युषा व्व᳘र्चसा प्रज᳘या रायस्पो᳘षेणे᳘ति य᳘द्भूम्ने᳘ति त᳘देव᳘मह᳘मेतैः स᳘ङ्गच्छा ऽइ᳘त्येवैत᳘दाह॥

मूलम् - Weber

अथा᳘सीनः॥
सं त्व᳘मग्ने सू᳘र्यस्य व᳘र्चसा गथा इ᳘ति तद्य᳘दस्तं य᳘न्नादित्य᳘ आहवनी᳘यम् प्रविश᳘ति ते᳘नैत᳘दाह समृ᳘षीणाᳫं स्तुतेने᳘ति तद्य᳘दुपति᳘ष्ठते ते᳘नैत᳘दाह स᳘म् प्रिये᳘णधाम्नेत्या᳘हुतयो वा᳘ अस्य प्रियं धामा᳘हुतिभिरेव त᳘दाह सम᳘हमा᳘युषा सं व᳘र्चसा स᳘म् प्रज᳘या सं᳘ रायस्पो᳘षेण ग्मिषीये᳘ति य᳘था त्व᳘मेतैः᳘ सम᳘गथा एव᳘महमा᳘युषा व᳘र्चसा प्रज᳘या रायस्पो᳘षेणे᳘ति य᳘द्भूम्ने᳘ति त᳘देव᳘मह᳘मेतैः सं᳘गछा इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथासीनः । “सं त्वमग्ने सूर्य्यस्य वर्चसागथाः”- इति (वा. सं. ३ । १९) । तद्यदस्तं यन्नादित्य आहवनीयं प्रविशति । तेनैतदाह ** “समृषीणां स्तुतेन”- (वा. सं. ३ । १९) इति । तद् यदुपतिष्ठते तेनैतदाह । ** “सं प्रियेण धाम्ना”- (वा. सं. ३ । १९) । आहुतयो वा अस्य प्रियं धाम । आहुतिभिरेव तदाह । **“समहमायुषा सं वर्चसा सं प्रजया सं रायस्पोषेण ग्मिषीय” **- (वा. सं. ३ । १९) इति । यथा त्वमेतैः समगथाः- एवमहमायुषा वर्चसा प्रजया रायस्पोषेणेति । यद्भूम्नोते- तदेवमहमेतैः सङ्गच्छा- इत्येवैतदाह ॥ २४ ॥

सायणः

अथासीन इति । (का. श्रौ. सू. ४ । २७७) वक्ष्यमाणान् “सं त्वमग्ने”- इत्यादिकान् मन्त्रान् तत्रैवासीनो जपेदित्यर्थः । हे ‘अग्ने ! त्वं सूर्यस्य’ ‘वर्च्चसा’ तेजसा ‘समगथाः’ सङ्गतवानसि ‘इति’ प्रतीयमानमिमं मन्त्रार्थमुपपादयति- तद् यदस्तं यन्निति । ‘अस्तं यन्’ अस्तं गच्छन्नित्यर्थः । सूर्यस्य रात्रावाहवनीयप्रवेशः “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा”- इति होममन्त्रार्थकथनप्रस्तावे प्रतिपादितः । समृषीणामित्यादि । ‘ऋषीणां’ सम्बन्धि यत् ‘स्तुतं’ स्तोत्रं तेन सङ्गतवानसीति मन्त्रवाक्यार्थः ।

एतर्हि प्रकृताग्न्युपस्थानाभिप्रायमाह- तद्यदिति । आहुतयो वा अस्येति । ‘अस्य’ अग्नेः आज्यदधिक्षीरादिद्रव्यसाध्याः ‘आहुतयो वा’ आहुतय एव ‘प्रियं धाम’ तज्ज्योतिर्मयं 17 शरीरम् । तथा चाहुतिभिरेव सङ्गतवानसीत्यर्थः । समहमायुषेत्यादि । हे अग्ने ! यथा त्वमेतैरायुरादिभिः ‘समगथाः’ सङ्गतवानसि । गमेर्लुङि “गातिस्था”- (पा. सू. २ । ४ ।७७) इति च्लेर्लुक् “अनुदात्तोपदेश”- (पा. सू. ६ । ४ । ३७) इत्यनुनासिकलोपः । एवम् ‘अहम्’ अपि एतैः सङ्गच्छेयेत्यर्थः । यद् भूम्नेति । ‘रायस्पोषेण’- इत्यस्य व्याख्यानम् ‘भूम्ना’ धनकनकादिबहुत्वेनेत्युक्ते यावानर्थो भवति, रायस्पोषेणेत्यनेन तावानर्थः प्रतिपाद्यत इत्यर्थः ॥ २४ ॥

Eggeling
  1. Thereupon, while seated, (he mutters, Vāj. S. III, 19 seq.), ‘Thou, O Agni, hast attained to Sūrya’s lustre–;’ this he says, because, in setting, the sun enters the Āhavanīya; ‘–to the praise

of the R̥shis–;’ this he says, because he himself now approaches (and worships, praises, the fire); ‘–to the favourite abode (or dainty);’ his (Agni’s) favourite abode doubtless are the offerings: ’to offerings’ he thereby says. ‘–May I attain to long life, to lustre, to offspring, to increase of wealth!’ whereby he says, ‘Even as thou didst attain to those (qualities), so may I attain to long life, lustre, offspring, affluence,–that is to say, to prosperity.’

२५

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ गा᳘मभ्यैति॥
(त्य᳘) अ᳘न्ध स्था᳘न्धो वो भक्षीय म᳘ह स्थ म᳘हो वो भक्षी᳘येति या᳘नि वो व्वी᳘र्य्याणि या᳘नि वो म᳘हाᳫँ᳭सि ता᳘नि वो भक्षीये᳘त्ये᳘वैत᳘दाहो᳘र्ज स्थो᳘र्जं वो भक्षीये᳘ति र᳘स स्थ र᳘सं वो भक्षीये᳘त्ये᳘वैत᳘दाह रायस्पो᳘ष स्थ रायस्पो᳘षं वो भक्षीये᳘ति भूमा᳘ स्थ भूमा᳘नं वो भक्षिये᳘त्ये᳘वैत᳘दाह॥ [शतम् ११००]

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ गा᳘मभ्यैति॥
(त्य᳘) अ᳘न्ध स्था᳘न्धो वो भक्षीय म᳘ह स्थ म᳘हो वो भक्षी᳘येति या᳘नि वो व्वी᳘र्य्याणि या᳘नि वो म᳘हाᳫँ᳭सि ता᳘नि वो भक्षीये᳘त्ये᳘वैत᳘दाहो᳘र्ज स्थो᳘र्जं वो भक्षीये᳘ति र᳘स स्थ र᳘सं वो भक्षीये᳘त्ये᳘वैत᳘दाह रायस्पो᳘ष स्थ रायस्पो᳘षं वो भक्षीये᳘ति भूमा᳘ स्थ भूमा᳘नं वो भक्षिये᳘त्ये᳘वैत᳘दाह॥ [शतम् ११००]

मूलम् - Weber

अ᳘थ गा᳘मभ्यैति॥
अ᳘न्ध स्था᳘न्धो वो भक्षीय म᳘ह स्थ म᳘हो वो भक्षी᳘येति या᳘नि वो वीॗर्याणि या᳘नि वो म᳘हांसि ता᳘नि वो भक्षीये᳘त्येॗवैत᳘दाहो᳘र्ज स्थो᳘र्ज वो भक्षीये᳘ति र᳘स स्थ र᳘सं वो भक्षीये᳘त्येॗवैत᳘दाह रायस्पो᳘ष स्थ रायस्पो᳘षं वो भक्षीये᳘ति भूमा᳘ स्थ भूमा᳘नं वो भक्षिये᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ गामभ्यैति- “अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीय”- इति (वा. सं. ३ । २०) । यानि वो वीर्याणि, यानि वो महांसि, तानि वो भक्षीय- इत्येवैतदाह । “ऊर्ज स्थोर्जं वो भक्षीय”- इति (वा. सं. ३ । २०) । रस स्थ रसं वो भक्षीय- इत्येवैतदाह । “रायस्पोष स्थ रायस्पोषं वो भक्षीय”- इति (वा० सं० ३ । २०) । भूमा स्थ भूमानं वो भक्षीय- इत्येवैतदाह ॥ २५ ॥

सायणः

अथ गामभ्यैतीति18 । अग्निहोत्रहोमार्थस्य पयसो दोग्ध्री या गौः, ताम् “अन्ध स्थान्धो वो भक्षीय”- इति मन्त्रेण अभिगच्छेदित्यर्थः । अन्धःशब्दो ऽन्नवाची (निरु. २ । ७ । १ । निरु. ५ । १ । १) तेन च तज्जनितं वीर्यं लक्ष्यत इति व्याचष्टे- यानि वो वीर्य्याणीति । हे गावः ! यूयम् ‘अन्धः स्थ’ क्षीरान्नरूपा भवथ, अतस्तदुपभोगजनितानि ‘वः’ युष्मत्सम्बन्धीनि ‘वीर्याणि’ ‘महाᳫसि’ तेजांसि, ‘तानि’ ‘भक्षीय’ सम्भजेयेत्यर्थः । रस स्थेति “ऊर्ज्ज बलप्राणनयोः”- (धा. पा. चु. प. १६) इत्यस्मात् धातोर्निष्पन्न ‘ऊर्क्’- शब्दो बलकरं रसमाचष्ट इत्यभिप्रायः । भूमा स्थेति । ‘रायस्पोष’- शब्दस्य भूमार्थत्वं प्रागाम्नातम्- “रायस्पोषेणेति यद् भूम्नेतीति” (श. प. ब्रा. २ कां. ३ अ. ४ ब्रा. २४ कं.) ॥ २५ ॥

Eggeling
  1. He then approaches the cow 19, with the text (Vāj. S. III, 20), ‘Food ye are: may I enjoy your food! wealth ye are: may I enjoy your wealth!’–whereby he means to say, ‘whatever energies are yours, whatever riches are yours, may I enjoy them.’–‘Strength ye are: may I enjoy your strength!’ whereby he says, ‘sap ye are: may I enjoy your sap!’–‘Affluence ye are: may I enjoy your affluence!’ whereby he says, ‘abundance ye are: may I enjoy your abundance!’

२६

विश्वास-प्रस्तुतिः

रे᳘वती र᳘मध्वमि᳘ति रेव᳘न्तो हि᳘ पश᳘वस्त᳘स्मादाह रे᳘वती र᳘मध्वमि᳘त्यस्मिन्यो᳘नावस्मि᳘न्गो᳘ष्ठे ऽस्मिल्ँलो᳘के᳘ ऽस्मिन्क्ष᳘ये॥ इ᳘हैव᳘ स्त मा᳘पगाते᳘त्यात्म᳘न ऽए᳘वैत᳘दाह म᳘देव मा᳘पगातेति॥

मूलम् - श्रीधरादि

रे᳘वती र᳘मध्वमि᳘ति रेव᳘न्तो हि᳘ पश᳘वस्त᳘स्मादाह रे᳘वती र᳘मध्वमि᳘त्यस्मिन्यो᳘नावस्मि᳘न्गो᳘ष्ठे ऽस्मिल्ँलो᳘के᳘ ऽस्मिन्क्ष᳘ये॥ इ᳘हैव᳘ स्त मा᳘पगाते᳘त्यात्म᳘न ऽए᳘वैत᳘दाह म᳘देव मा᳘पगातेति॥

मूलम् - Weber

रे᳘वती र᳘मध्वमि᳘ति रेव᳘न्तो हि᳘ पश᳘वस्त᳘स्मादाह रे᳘वती र᳘मध्वमि᳘त्यस्मिन्यो᳘नावस्मि᳘न् गोॗष्ठे ऽस्मिं᳘लोॗके ऽस्मिन् क्ष᳘ये॥
इ᳘हैव᳘ स्त मा᳘पगाते᳘त्यात्म᳘न एॗवैत᳘दाह म᳘देव मा᳘पगातेति॥

मूलम् - विस्वरम्

“रेवती रमध्वम्”- इति (वा. सं. ३ । २१) । रेवन्तो हि पशवः । तस्मादाह रेवती रमध्वमिति । “अस्मिन्योनावस्मिन् गोष्ठे ऽस्मिंल्लोके ऽस्मिन् क्षये । इहैव स्त मापगात” इति (वा. सं. ३ । २१) । आत्मन एवैतदाह- मदेव मापगातेति ॥ २६ ॥

सायणः

रेवती रमध्वमितीति । रेवन्तो हीत्यादि । ‘रेवन्तः’ रयिमन्तः, पुत्रपौत्राद्यभिवृद्ध्या धनयुक्ताः पशवो रयिमन्तः “रयेर्मतौ बहुलम्” (पा. सू. ६ । १ । ३४ वा.) इति संप्रसारणम् । आत्मन एवेति । अस्मिन्निति मन्त्रगतेदंशब्देन सन्निहितवाचिना स्वसम्बद्धगृहगोष्ठानि विशेषेण आत्मनः ‘एव’ स्वस्यैव एतत् फलमाशास्यत इत्यर्थः । हे गावः ! यूयम् ‘इहेव’ मदीये गोष्ठादौ ‘स्त’ भवत, ‘मापगात’ मा अपगच्छतेति मन्त्रभागस्यार्थः । तत्रापगमनावधेरनुपादानात् तमुपन्यस्य योजयति- मदेवेति । मत्सकाशादेव मापगच्छतेत्यर्थः ॥ २६ ॥

Eggeling
  1. ‘Ye prosperous ones, disport yourselves–;’ cattle are prosperous: therefore he says, ‘ye prosperous ones, disport yourselves–;’ ‘–in this seat, in this fold, in this place, in this homestead: remain here, go not from hence!’ this he says with reference to himself,–‘go not away from me!’

२७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ गा᳘मभि᳘मृशति॥
सᳫँ᳭ हि᳘तासि व्विश्वरूपी᳘ति व्विश्व᳘रूपा ऽइव हि᳘ पश᳘वस्त᳘स्मादाह व्विश्वरूपी᳘त्यूर्जा मा᳘विश गौपत्येने᳘त्यूर्जे᳘ति यदा᳘ह र᳘सेने᳘ति त᳘दाह गौपत्येने᳘ति यदा᳘ह भूम्ने᳘ति त᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ गा᳘मभि᳘मृशति॥
सᳫँ᳭ हि᳘तासि व्विश्वरूपी᳘ति व्विश्व᳘रूपा ऽइव हि᳘ पश᳘वस्त᳘स्मादाह व्विश्वरूपी᳘त्यूर्जा मा᳘विश गौपत्येने᳘त्यूर्जे᳘ति यदा᳘ह र᳘सेने᳘ति त᳘दाह गौपत्येने᳘ति यदा᳘ह भूम्ने᳘ति त᳘दाह॥

मूलम् - Weber

अ᳘थ गा᳘मभि᳘मृशति॥
संहिॗतासि विश्वरूपी᳘ति विश्व᳘रूपा इव हि᳘ पश᳘वस्त᳘स्मादाह विश्वरूपी᳘त्यूर्जा मा᳘विश गौपत्येने᳘त्यूर्जे᳘ति यदा᳘ह र᳘सेने᳘ति त᳘दाह गौपत्येने᳘ति यदा᳘ह भूम्ने᳘ति त᳘दाह॥

मूलम् - विस्वरम्

अथ गामभिमृशति- “संहितासि विश्वरूपी”- इति (वा. सं. ३ । २२) । विश्वरूपा इव हि पशवः । तस्मादाह- विश्वरूपीति । “ऊर्जा माविश गौपत्येन”- इति (वा. सं. ३ । ३२) ऊर्जेति यदाह- रसेनेति तदाह । गौपत्येनेति यदाह- भूम्नेति तदाह ॥ २७ ॥

सायणः

समन्त्रकं गोस्पर्शनं विधाय प्रशंसति- अथ गामिति 20 । ‘विश्वानि’ सर्वाणि, शुक्लकृष्णादीनि रूपाणि यस्याः सा विश्वरूपीति व्युत्पत्तिमभिप्रेत्य 21 व्याचष्टे- विश्वरूपा इव हीति ॥ २७ ॥

Eggeling
  1. He then touches the cow, with the text (Vāj. S. III, 22 a), ‘Motley thou art, of all shapes;’–for cattle are indeed of all shapes: therefore he calls her all-shaped; ‘–come to me with sap and possession of cattle!’ when he says ‘with sap,’ he means

to say ‘with juice;’ and when he says with possession of cattle,’ he means to say ‘with abundance.’

२८

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ गा᳘र्हपत्यमभ्यै᳘ति॥
स गा᳘र्हपत्यमु᳘पतिष्ठत उ᳘प त्वाग्ने दिवे᳘ दिवे दो᳘षावस्तर्द्धिया᳘ व्वयम्॥ न᳘मो भ᳘रन्त ऽए᳘मसी᳘ति न᳘म ए᳘वास्मा ऽएत᳘त्करोति य᳘थैनं न᳘ हिᳫँ᳭ स्यात्॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ गा᳘र्हपत्यमभ्यै᳘ति॥
स गा᳘र्हपत्यमु᳘पतिष्ठत उ᳘प त्वाग्ने दिवे᳘ दिवे दो᳘षावस्तर्द्धिया᳘ व्वयम्॥ न᳘मो भ᳘रन्त ऽए᳘मसी᳘ति न᳘म ए᳘वास्मा ऽएत᳘त्करोति य᳘थैनं न᳘ हिᳫँ᳭ स्यात्॥

मूलम् - Weber

अ᳘थ गा᳘र्हपत्यमभ्यै᳘ति॥
स गा᳘र्हपत्यमु᳘पतिष्ठत उ᳘प त्वाग्ने दिवे᳘ दिवे दो᳘षावस्तर्धिया᳘ वयम् नमो भ᳘रन्त ए᳘मसी᳘ति न᳘म एॗवास्मा एत᳘त्करोति य᳘थैनं 22 न᳘ हिंस्यात्॥

मूलम् - विस्वरम्

अथ गार्हपत्यमभ्यैति । स गार्हपत्यमुपतिष्ठते- “उप त्वाग्ने दिवे दिवे दोषावस्तर्द्धिया वयम् । नमो भरन्त एमसि”- इति (वा० सं० ३ । २२) । नम एवास्मा एतत् करोति- यथैनं न हिंस्यात् ॥ २८ ॥

सायणः

एवमाहवनीयस्य समन्त्रकमुपस्थानं सप्रपञ्चं 20 विधाय, गार्हपत्यस्य 21 तद् विधत्ते- अथ गार्हपत्यमभ्यैतीत्यादिना 23नम एवास्मा इति । **“नमो भरन्तः” **- इति नमस्कारस्य सम्पाद्यत्वावगमात् अतिक्रमजनितापराधनिवृत्तये ऽरमै गार्हपत्याय नमस्कारमेव करोतीत्यर्थः । इतरथा हि प्रथमाग्निं गार्हपत्यमतिक्रम्य आहवनीयस्योपस्थानकरणात् स गार्हपत्यः क्रुद्धः सन् ‘यथैनं’ यजमानं ‘न हिंस्यात्’, तथा नमस्कारः क्रियत इत्यर्थः ॥ २८ ॥

Eggeling
  1. He then steps up to the Gārhapatya, and renders homage to it, with the text (ib. 22 b), ‘Thee, O Agni, illuminer of the night 24, we approach day by day with prayer, paying homage unto thee.’ He thus renders homage to it in order that it may not injure him.

२९

विश्वास-प्रस्तुतिः

(द्रा᳘) रा᳘जन्तमध्वरा᳘णाम्॥
गोपा᳘मृत᳘स्य दी᳘दिविम्॥ व्वर्द्धमानᳫँ᳭ स्वे द᳘म ऽइ᳘ति स्वं वै᳘ त ऽइदं यन्म᳘म त᳘न्नो भू᳘यो-भूय ऽएव᳘ कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(द्रा᳘) रा᳘जन्तमध्वरा᳘णाम्॥
गोपा᳘मृत᳘स्य दी᳘दिविम्॥ व्वर्द्धमानᳫँ᳭ स्वे द᳘म ऽइ᳘ति स्वं वै᳘ त ऽइदं यन्म᳘म त᳘न्नो भू᳘यो-भूय ऽएव᳘ कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

रा᳘जन्तमध्वरा᳘णाम्॥
गोपा᳘मृत᳘स्य दी᳘दिविं वर्धमानᳫं स्वे द᳘म इ᳘ति स्वं वै᳘ त इदं यन्म᳘म त᳘न्नो भू᳘यो भूय एव᳘ कुर्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्द्धमानं स्वे दमे”- इति । (वा० सं० ३ । २३) । स्वं वै त इदं- यन्मम । तन्नो भूयो भूय एव कुर्वित्येवैतदाह ॥ २९ ॥

सायणः

एवं प्रथमाया ऋचस्तात्पर्यमभिधाय द्वितीयामृचं पठित्वा तात्पर्यविशेषमाह- राजन्तमध्वराणामिति । स्वं वा इत्यादि । दम इति गृहनाम । (निघं. ३ । ४ । १२) यन्मदीयं गृहं हे अग्ने ! ‘ते’ तव स्वभूतम्, अतस्तथाविधं गृहं ‘नः’ अस्माकं पुनः- पुनः कुर्विति “स्वे दमे”- इति मन्त्रपदयोर्विवक्षितो ऽर्थः इति भावः ॥ २९ ॥

Eggeling
  1. [He continues, ib. 23 seq.], ‘Thee that rulest over the sacrifices, the brilliant guardian of the sacred rite, thriving in thine own house;’–whereby he means to say, ’thine own house is this (house) of mine: make it ever more flourishing for us!’

३०

विश्वास-प्रस्तुतिः

स᳘ नः। पि᳘तेव सूनवे᳘ ऽग्ने सूपायनो᳘ भव॥
स᳘चस्वा नः स्वस्त᳘य ऽइ᳘ति य᳘था पिता᳘ पुत्रा᳘य सूपच᳘रो᳘ नै᳘वैनं के᳘नचन᳘ हिन᳘स्त्येवं᳘ नः सूपच᳘र एधि᳘ मैव᳘ त्वा के᳘नचन᳘ हिᳫँ᳭ सिष्मे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

स᳘ नः। पि᳘तेव सूनवे᳘ ऽग्ने सूपायनो᳘ भव॥
स᳘चस्वा नः स्वस्त᳘य ऽइ᳘ति य᳘था पिता᳘ पुत्रा᳘य सूपच᳘रो᳘ नै᳘वैनं के᳘नचन᳘ हिन᳘स्त्येवं᳘ नः सूपच᳘र एधि᳘ मैव᳘ त्वा के᳘नचन᳘ हिᳫँ᳭ सिष्मे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स᳘ नः पिॗतेव सूनवे॥
अ᳘ग्ने सूपायनो᳘ भव स᳘चस्वा नः स्वस्त᳘य इ᳘ति य᳘था पिता᳘ पुत्रा᳘य सूपच᳘रोॗ नैॗवैनं के᳘न चन᳘ हिन᳘स्त्येवं᳘ नः सूपच᳘र एधिॗ मैव त्वा के᳘न चन᳘ हिंसिष्मे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“स नः पितेव सूनवे ऽग्ने सूपायनो भव ॥ सचस्वा नः स्वस्तये”- इति । (वा० सं० ३ । २४) । यथा पिता पुत्राय सूपचरो-नैवैनं केनचन हिनस्ति- एवं नः सूपचर एधि, मैव त्वा केनचन हिंसिष्म- इत्येतदाह ॥ ३० ॥

सायणः

स नः पितेवेति । गार्हपत्योपस्थाने तृतीया । तत्र “पितेव सूनवे”- इति दृष्टान्तसिद्धमर्थं निष्कृष्यानुवदति- यथा पितेति । ‘सूपचरः’ सुष्ठु उपचरितुं नमस्कारादिभिरुपचारैः पुत्रस्य सेवितुं योग्य एव भवति । स च पुत्रः ‘एनं’ पितरं केनचिदपि साधनेन ‘नैव’ ‘हिनस्ति’ बाधते । एवं गार्हपत्याग्ने ! त्वं ‘नः’ अस्माकं ‘सूपचरः एधि’ सुष्ठूपचरितुं योग्यो भव; वयमपि त्वां केनचिदपि साधनेन ‘मैव हिँ सिष्म’ इति योजना ॥

एते चोपत्वाग्ने इत्यादिका मन्त्राः, वक्ष्यमाणाश्चाग्ने त्वमित्यादिकाः; सर्व एव संहितायां 25 व्याख्यातत्वाद् ग्रन्थविस्तरभयादत्र पुनर्न व्याख्यायन्ते ॥ ३० ॥

Eggeling
  1. ‘O Agni, be thou accessible unto us, even as a father is to his son! lead us unto well-being!’–whereby he says, ‘As a father is easy of access to his son, and the latter in no wise injures him, so be thou easy of access to us, and may we in no wise injure thee!’

३१

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ द्वि᳘पदाः॥
(ऽ) अ᳘ग्ने त्वं᳘ नो ऽअ᳘न्तम ऽउत᳘ त्राता᳘ शिवो᳘ भवा व्वरू᳘थ्यः। व्व᳘सुरग्निर्व्व᳘सुश्रवा ऽअ᳘च्छानक्षि द्युम᳘त्तमᳫँ᳭ रयिं᳘ दाः॥ तं᳘ त्वा शोचिष्ठ दीदिवः सुम्ना᳘य नून᳘मीमहे स᳘खिभ्यः। स᳘ नो बोधि श्रुधी ह᳘वमुरुष्या᳘णो ऽअघायतः᳘ समस्मादि᳘ति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ द्वि᳘पदाः॥
(ऽ) अ᳘ग्ने त्वं᳘ नो ऽअ᳘न्तम ऽउत᳘ त्राता᳘ शिवो᳘ भवा व्वरू᳘थ्यः। व्व᳘सुरग्निर्व्व᳘सुश्रवा ऽअ᳘च्छानक्षि द्युम᳘त्तमᳫँ᳭ रयिं᳘ दाः॥ तं᳘ त्वा शोचिष्ठ दीदिवः सुम्ना᳘य नून᳘मीमहे स᳘खिभ्यः। स᳘ नो बोधि श्रुधी ह᳘वमुरुष्या᳘णो ऽअघायतः᳘ समस्मादि᳘ति॥

मूलम् - Weber

अ᳘थ द्वि᳘पदाः॥
अ᳘ग्ने त्वं᳘ नो अ᳘न्तम उत᳘ त्राता᳘ शिवो᳘ भवा वरूथ्यः᳘ व᳘सुरग्निर्व᳘सुश्रवा अ᳘छा नक्षि द्युम᳘त्तमं रयिं᳘ दाः तं᳘ त्वा शोचिष्ठ दीदिवः सुम्ना᳘य 26 नून᳘मीमहे स᳘खिभ्यः स᳘ नो बोधि श्रुधी 27 ह᳘वमुरुष्या᳘ णो अघायतः᳘ समस्मादि᳘ति॥

मूलम् - विस्वरम्

अथ द्विपदाः । “अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । वसुरग्निर्वसुश्रवा अच्छानक्षि द्युमत्तमं रयिं दाः ॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः । स नो बोधि श्रुधी हवमुरुष्याणो अघायतः समस्मात्”- इति (वा० सं० ३ । २५ । २६) ॥ ३१ ॥

सायणः

अथ चतसृभिर्द्विपदाभिर्गार्हपत्यस्योपस्थानमाह- अथ द्विपदा इत्यादि । अथ “उपत्वाग्ने” इत्यादि (वा० सं० ३ । २२-२३-२४) गायत्रीणामनन्तरं गार्हपत्योपस्थाने ‘द्विपदाः’ प्रयोक्तव्याः । तत्र, “अग्ने त्वम्”- इति प्रथमा, “वसुरग्निः”- इति द्वितीया, “तं त्वा शोचिष्ठ”- इति तृतीया, “स नो बोधि”- इति चतुर्थी ॥ ३१ ॥

Eggeling
  1. Then the dvipadā verses (Vāj. S. III, 25, 26), ‘O Agni, be ever nigh unto us, a kindly guardian and protector! as wealthy Agni, famed for wealth, come hither and bestow on us glorious riches! Thee, the most bright and resplendent, we now approach for happiness to our friends: be with us, hear our call, and keep us safe from every evil-doer!’

३२

विश्वास-प्रस्तुतिः

यद्वा᳘ ऽआहवनी᳘यमुपति᳘ष्ठते॥
पशूँस्त᳘द्याचते त᳘स्मात्त᳘मुच्चावचैश्छ᳘न्दोभिरु᳘पतिष्ठत ऽउच्चावचा᳘ ऽइव हि᳘ पशवो᳘ ऽथ यद्गा᳘र्हपत्यं पु᳘रुषांस्त᳘द्याचते त᳘द्गायत्रं᳘ प्रथमं᳘ त्रिचं᳘ गायत्रं वा᳘ ऽअग्नेश्छ᳘न्दः स्वे᳘नै᳘वैनमेतच्छ᳘न्दसोपप᳘रैति॥

मूलम् - श्रीधरादि

यद्वा᳘ ऽआहवनी᳘यमुपति᳘ष्ठते॥
पशूँस्त᳘द्याचते त᳘स्मात्त᳘मुच्चावचैश्छ᳘न्दोभिरु᳘पतिष्ठत ऽउच्चावचा᳘ ऽइव हि᳘ पशवो᳘ ऽथ यद्गा᳘र्हपत्यं पु᳘रुषांस्त᳘द्याचते त᳘द्गायत्रं᳘ प्रथमं᳘ त्रिचं᳘ गायत्रं वा᳘ ऽअग्नेश्छ᳘न्दः स्वे᳘नै᳘वैनमेतच्छ᳘न्दसोपप᳘रैति॥

मूलम् - Weber

यद्वा᳘ आहवनी᳘यमुपति᳘ष्ठते॥
पशूंस्त᳘द्याचते त᳘स्मात्त᳘मुच्चावचैश्छ᳘न्दोभिरु᳘पतिष्ठत उच्चावचा᳘ इव हि᳘ पशवो᳘ ऽथ यद्गा᳘र्हपत्यम् पु᳘रुषांस्त᳘द्याचते त᳘द्गायत्र᳘म् प्रथमं᳘ त्रिचं᳘ गायत्रं वा᳘ अग्नेश्छ᳘न्दः स्वे᳘नैॗवैनमेतच्छ᳘न्दसोपप᳘रैति॥

मूलम् - विस्वरम्

यद्वा आहवनीयमुपतिष्ठते- पशूंस्तद्याचते । तस्मात्तमुच्चावचैश्छन्दोभिरुपतिष्ठते- उच्चावचा इव हि पशवः । अथ यद् गार्हपत्यं- पुरुषांस्तद्याचते । तद् गायत्रं प्रथमं त्रिचम् । गायत्रं वा अग्नेश्छन्दः । स्वेनैवैनमेतच्छन्दसोपपरैति ॥ ३२ ॥

सायणः

द्विपदाभिर्गार्हपत्योपस्थानस्य पुरुषप्राप्तिहेतुतां वक्तुमाहवनीयोपस्थानस्य पशुप्राप्तिहेतुतामाह-यद्वा आहवनीयमिति । उच्चावचैरिति । न्यूनाधिकपरिमाणयुक्तैः “उपप्रयन्त” इत्यादिमन्त्रैर्गायत्र्यादिच्छन्दोभिरित्यर्थः । अथ यद् गार्हपत्यमित्यादि । “उपत्वाग्ने” इत्यादिभिः ‘यद्’ ‘गार्हपत्यम्’ उपतिष्ठते, तेनोपस्थानेन ‘पुरुषान्’ पुत्रपौत्रादीनेव ‘याचते’ प्रार्थयत इत्यर्थः । तच्च पुरुषप्रार्थनं द्विपदाभिरेवेति वक्तुमुपत्वाग्न इति गायत्रतृचस्य प्रयोजनमाह- गायत्र वा अग्नेश्छन्द इति । प्रजापतिमुखात् सहोत्पन्नत्वादित्यर्थः (तै० सं० ७ कां. १ । १ । ४ ।) ‘उपपरैतिः’ उपप्राप्नोति ॥ ३२ ॥

Eggeling
  1. Now when he approaches the Āhavanīya, he prays for cattle: he therefore approaches it with metres great and small, since cattle are of great and small size. And when he approaches the Gārhapatya,

he prays for men: hence the first tristich is in the gāyatrī metre, since the gāyatrī is Agni’s metre, and he thus approaches him with his own metre.

३३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ द्वि᳘पदाः॥
पुरुषच्छन्दसं वै द्वि᳘पदा द्विपाद्वा᳘ ऽअयं पु᳘रुषः पु᳘रुषानै᳘वैत᳘द्याचते पु᳘रुषान्हि या᳘चते त᳘स्माद्द्वि᳘पदाः पशुमा᳘ह्न वै पु᳘रुषवान्भवति य᳘ ऽएवं᳘ व्विद्वा᳘नुपति᳘ष्ठते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ द्वि᳘पदाः॥
पुरुषच्छन्दसं वै द्वि᳘पदा द्विपाद्वा᳘ ऽअयं पु᳘रुषः पु᳘रुषानै᳘वैत᳘द्याचते पु᳘रुषान्हि या᳘चते त᳘स्माद्द्वि᳘पदाः पशुमा᳘ह्न वै पु᳘रुषवान्भवति य᳘ ऽएवं᳘ व्विद्वा᳘नुपति᳘ष्ठते॥

मूलम् - Weber

अ᳘थ द्वि᳘पदाः॥
पुरुषछन्दसं वै द्वि᳘पदा द्विपाद्वा᳘ अयम् पु᳘रुषः पु᳘रुषानैॗवैत᳘द्याचते पु᳘रुषान्हि या᳘चते त᳘स्माद्द्वि᳘पदाः पशुमा᳘न्ह वै पु᳘रुषवान्भवति य᳘ एवं᳘ विद्वा᳘नुपति᳘ष्ठते॥

मूलम् - विस्वरम्

अथ द्विपदाः । पुरुषच्छन्दसं वै द्विपदाः । द्विपाद्वा अयं पुरुषः । पुरुषानेवैतद्याचते । पुरुषान् हि याचते- तस्माद् द्विपदाः । पशुमान् ह वै पुरुषवान् भवति- य एवं विद्वानुपतिष्ठते ॥ ३३ ॥

सायणः

अथ द्विपदा इति । पुरुषच्छन्दसं वा इति । पुरुषवत् पादद्वयोपेतत्वात् ‘द्विपदाः पुरुषच्छन्दसम्’ पुरुषसमानाकृतिकं छन्दः । छन्दश्शब्दादकारः समासान्तः (पा० सू० ५ । ४ । १०३) । पशुमान् ह वै पुरुषवानिति । आहवनीयगार्हपत्योपस्थानयोः समुच्चित्य प्रशंसा; गार्हपत्योपस्थानस्यापि पुरुषवत्पादद्वयोपेतत्वात् ॥ ३३॥

Eggeling
  1. Thereupon (he mutters) the dvipadā (two-footed) verses. The dvipadā, doubtless, is man’s metre, since man is two-footed, and men are therewith prayed for: and as he now prays for men, therefore (he uses) dvipadā verses. And whosoever, knowing this, approaches (the two fires), becomes possessed both of cattle and men.

३४

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ गा᳘मभ्यैति॥
(ती᳘) इ᳘ड ऽएह्य᳘दित ऽएहीती᳘डा हि गौर᳘दितिर्हि गौस्ता᳘मभि᳘मृशति का᳘म्या ऽएते᳘ति मनु᳘ष्याणा᳘ᳫं᳘ ह्ये᳘तासु का᳘माः प्र᳘विष्टास्त᳘स्मादाह का᳘म्या ऽएते᳘ति म᳘यि वः कामध᳘रणं भूयादि᳘त्यहं᳘ वः प्रियो᳘ भूयासमि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ गा᳘मभ्यैति॥
(ती᳘) इ᳘ड ऽएह्य᳘दित ऽएहीती᳘डा हि गौर᳘दितिर्हि गौस्ता᳘मभि᳘मृशति का᳘म्या ऽएते᳘ति मनु᳘ष्याणा᳘ᳫं᳘ ह्ये᳘तासु का᳘माः प्र᳘विष्टास्त᳘स्मादाह का᳘म्या ऽएते᳘ति म᳘यि वः कामध᳘रणं भूयादि᳘त्यहं᳘ वः प्रियो᳘ भूयासमि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ गा᳘मभ्यैति॥
इ᳘ड एह्य᳘दित एहीती᳘डा हि गौर᳘दितिर्हि गौस्ता᳘मभि᳘मृशति का᳘म्या एते᳘ति मनुॗष्याणाᳫं ह्येता᳘सु का᳘माः प्र᳘विष्टास्त᳘स्मादाह का᳘म्या एते᳘ति म᳘यि वः कामध᳘रणम् भूयादि᳘त्यहं᳘ वः प्रियो᳘ भूयासमि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ गामभ्यैति । “इड एह्यदित एहि”- इति (वा० सं ३ । २७) । इडा हि गौः, अदितिर्हि गौः- तामभिमृशति । “काम्या एत”- इति (वा० सं० ३ । २७) । मनुष्याणां ह्येतासु कामाः प्रविष्टाः । तस्मादाह काम्या एतेति । ** “मयि वः कामधरणं भूयात्”**- इति (वा० सं० ३ । २७) । अहं वः प्रियो भूयासमित्येवैतदाह ॥ ३४ ॥

सायणः

गोसमीपगमनं तदुपस्पर्शनञ्च समन्त्रकं विधत्ते- अथ गामभ्यैतीति 28 । इड एहीति । इडा ऽदितिशब्दौ गोनामत्वेन प्रसिद्धावित्यर्थः । कामाः प्रविष्टा इति । ‘मनुष्याणां’ क्षीरदध्यादिविषयाः ‘कामाः’ ‘हि’ यस्मात् ‘एतासु’ गोषु ‘प्रविष्टाः’ ‘तस्मात्’ एताः कामनाविषयत्वात् ‘काम्याः’ 29 इत्यर्थः ॥ ३४ ॥

Eggeling
  1. He then goes (again) to the cow, with the text (Vāj. S. III, 27), ‘O Iḍā, come hither! O Aditi, come hither!’ for both Iḍā and Aditi are cows. He touches her with, ‘Come hither, ye much-desired!’–for men’s wishes are fixed on them, and hence he says, ‘come hither, ye much-desired;’–‘Let there be for me the fulfilment of wishes from you!’ whereby he says, ‘may I be dear to you!’

३५

विश्वास-प्रस्तुतिः

(हा) अथा᳘न्तरेणाहवनी᳘यं च गा᳘र्हपत्यं च॥
प्राङ्ति᳘ष्ठन्नग्निमी᳘क्षमाणो जपति सोमा᳘नᳫँ᳭ स्व᳘रणं कृणुहि᳘ ब्रह्मणस्पते॥ कक्षी᳘वन्तं य᳘ ऽऔशिजः॥ यो᳘ रेवान्यो᳘ ऽअमीवहा᳘ व्वसुवि᳘त्पुष्टिव᳘र्द्धनः॥ स᳘ नः सिषक्तु य᳘स्तुरः॥ मा᳘नः श᳘ᳫँ᳘ सो ऽअ᳘ररुषो धूर्त्तिः प्र᳘णङ्म᳘र्त्यस्य र᳘क्षा णो॥ ब्रह्मणस्पत ऽइ᳘ति॥

मूलम् - श्रीधरादि

(हा) अथा᳘न्तरेणाहवनी᳘यं च गा᳘र्हपत्यं च॥
प्राङ्ति᳘ष्ठन्नग्निमी᳘क्षमाणो जपति सोमा᳘नᳫँ᳭ स्व᳘रणं कृणुहि᳘ ब्रह्मणस्पते॥ कक्षी᳘वन्तं य᳘ ऽऔशिजः॥ यो᳘ रेवान्यो᳘ ऽअमीवहा᳘ व्वसुवि᳘त्पुष्टिव᳘र्द्धनः॥ स᳘ नः सिषक्तु य᳘स्तुरः॥ मा᳘नः श᳘ᳫँ᳘ सो ऽअ᳘ररुषो धूर्त्तिः प्र᳘णङ्म᳘र्त्यस्य र᳘क्षा णो॥ ब्रह्मणस्पत ऽइ᳘ति॥

मूलम् - Weber

अथा᳘न्तरेणाहवनी᳘यं च गा᳘र्हपत्यं च॥
प्राङ् ति᳘ष्ठन्नग्निमी᳘क्षमाणो जपति सोमा᳘नᳫं स्व᳘रणं कृणुहि᳘ ब्रह्मणस्पते कक्षी᳘वन्तं य᳘ औशिजः यो᳘ रेवान्यो᳘ अमीवहा᳘ वसुवि᳘त्पुष्टिव᳘र्धनः स᳘ नः सिषक्तु य᳘स्तुरः मा᳘ नः श᳘ᳫं᳘सो अ᳘ररुषो धूर्तिः प्र᳘णङ्म᳘र्त्यस्य र᳘क्षा णो ब्रह्मणस्पत इ᳘ति॥

मूलम् - विस्वरम्

अथान्तरेणाहवनीयं च गार्हपत्यं च प्राङ् तिष्ठन्नग्निमीक्षमाणो जपति । “सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ॥ कक्षीवन्तं य औशिजः”- (वा. सं. ३ । २८ ।) “यो रेवान् यो अमीवहा वसुवित्पुष्टिवर्द्धनः । स नः सिषक्तु यस्तुरः”- (वा. सं. ३ । २९) “मानः शंसो अररुषो धूर्तिः प्रणङ् मर्त्यस्य रक्षा णो ब्रह्मणस्पते”- इति (वा. सं. ३ । ३०) ॥ ३५ ॥

सायणः

अथान्तरेणेत्यादि, निगदसिद्धम् ॥ ३५ ॥

Eggeling
  1. Thereupon, while standing between the Āhavanīya and Gārhapatya and looking eastward at the (former) fire, he mutters (Vāj. S. III, 28-30), ‘O Lord of prayer, make him sweet-voiced, the offerer of Soma, Kakshīvat, Uśij’s son!–Be he with us, he the opulent, the killer of woe, the bestower of wealth, the increaser of prosperity, he the nimble!–Let not the curse of the evil-doer reach us, nor the guile of the mortal: preserve us, O Lord of prayer!’

३६

विश्वास-प्रस्तुतिः

यद्वा᳘ ऽआहवनी᳘यमुपति᳘ष्ठते॥
दि᳘वं तदु᳘पतिष्ठते᳘ ऽथ यद् गा᳘र्हपत्यं पृथिवीं तद᳘थैत᳘दन्त᳘रिक्षमेषा हि दिग्बृ᳘हस्प᳘तेरे᳘ता᳘ᳫँ᳘ ह्येतद्दि᳘शमुपति᳘ष्ठते त᳘स्माद्बार्हस्पत्यं ज᳘पति॥

मूलम् - श्रीधरादि

यद्वा᳘ ऽआहवनी᳘यमुपति᳘ष्ठते॥
दि᳘वं तदु᳘पतिष्ठते᳘ ऽथ यद् गा᳘र्हपत्यं पृथिवीं तद᳘थैत᳘दन्त᳘रिक्षमेषा हि दिग्बृ᳘हस्प᳘तेरे᳘ता᳘ᳫँ᳘ ह्येतद्दि᳘शमुपति᳘ष्ठते त᳘स्माद्बार्हस्पत्यं ज᳘पति॥

मूलम् - Weber

यद्वा᳘ आहवनी᳘यमुपति᳘ष्ठते॥
दि᳘वं तदु᳘पतिष्ठते᳘ ऽथ यद्गा᳘र्हपत्यम् पृथिवीं तद᳘थैत᳘दन्त᳘रिक्षमेषा हि दिग्बृ᳘हस्प᳘तेरेॗतᳫं ह्येतद्दि᳘शमुपति᳘ष्ठते त᳘स्माद्बार्हस्पत्यं᳘ जपति॥

मूलम् - विस्वरम्

यद्वा आहवनीयमुपतिष्ठते- दिवं तदुपतिष्ठते । अथ यद् गार्हपत्यम्- पृथिवीं तद् । अथैतदन्तरिक्षम्- एषा हि दिग् बृहस्पतेः । एतां ह्येतद्दिशमुपतिष्ठते । तस्माद् बार्हस्पत्यं जपति ॥ ३६ ॥

सायणः

सोमानमित्यस्य जप्यस्य तृचस्य च प्रयोजनमाह- यद्वा इति । आहवनीयगार्हपत्योपस्थानाभ्यां द्यावापृथिव्योरुपस्थानं कृतं भवति । अनेन “सोमानम्” इति (वा. सं. ३ । २८-३०) तृचस्य जपेन द्यावापृथिव्योः मध्यवर्त्तिनो ऽन्तरिक्षस्योपस्थानं कृतं भवतीत्यर्थः 30 । तस्य देवताविशेषसम्बन्धं प्रशंसति- एषा हीति । द्यावापृथिव्योर्मध्ये वर्त्तमाना येयमूर्ध्वा ‘दिक्’ ‘एषा’ ‘बृहस्पतेः’ स्वभूता । अत एव तैत्तिरीयके समाम्नातम्- “ऊर्ध्वा दिग् बृहस्पतिर्देवता”- (तै. ब्रा. ३ । ११ । ५- ६) इति । नन्वेतत् तृचं ब्राह्मणस्पत्यम्, कथं बार्हस्पत्यम् ? इति । नैष दोषः; तयोर्भेदाभावात् । अत एव दाशतय्यां “गणानां त्वा”- (ऋ. सं. २ । २३) इत्यादिषु ब्राह्मणस्पत्यसूक्तेषु तत्र बृहस्पतिः स्तूयते ॥ ३६ ॥

Eggeling
  1. Now when he approaches the Āhavanīya, he approaches the sky; and when (he approaches) the Gārhapatya, (he approaches) the earth. Hereby now (he approaches) the ether, that being Br̥haspati’s region; and that region he thereby approaches: this is why he mutters the prayer to Br̥haspati.

३७

विश्वास-प्रस्तुतिः

म᳘हि त्रीणाम᳘वो ऽस्तु॥
द्युक्षं᳘ मित्र᳘स्यार्य्यम्णः᳘। दुराध᳘र्षं व्व᳘रुणस्य॥ न हि ते᳘षाममा᳘चन ना᳘ध्वसु व्वारणे᳘षु। ई᳘शे रिपु᳘रघ᳘शᳫँ᳭ सः॥ ते हि᳘ पुत्रा᳘सो ऽअ᳘दितेः प्र᳘ जीव᳘से म᳘र्त्त्याय। ज्यो᳘तिर्य्य᳘च्छन्त्य᳘जस्रमि᳘ति त᳘त्रास्ति ना᳘ध्वसु व्वारणेष्वि᳘त्येते᳘ ह वा ऽअ᳘ध्वानो व्वारणा य᳘ ऽइमे᳘ ऽन्तरेण द्या᳘वापृथिवी᳘ ऽए᳘तान् ह्येत᳘दुपति᳘ष्ठते त᳘स्मादाह ना᳘ध्वसु व्वारणेष्विति॥

मूलम् - श्रीधरादि

म᳘हि त्रीणाम᳘वो ऽस्तु॥
द्युक्षं᳘ मित्र᳘स्यार्य्यम्णः᳘। दुराध᳘र्षं व्व᳘रुणस्य॥ न हि ते᳘षाममा᳘चन ना᳘ध्वसु व्वारणे᳘षु। ई᳘शे रिपु᳘रघ᳘शᳫँ᳭ सः॥ ते हि᳘ पुत्रा᳘सो ऽअ᳘दितेः प्र᳘ जीव᳘से म᳘र्त्त्याय। ज्यो᳘तिर्य्य᳘च्छन्त्य᳘जस्रमि᳘ति त᳘त्रास्ति ना᳘ध्वसु व्वारणेष्वि᳘त्येते᳘ ह वा ऽअ᳘ध्वानो व्वारणा य᳘ ऽइमे᳘ ऽन्तरेण द्या᳘वापृथिवी᳘ ऽए᳘तान् ह्येत᳘दुपति᳘ष्ठते त᳘स्मादाह ना᳘ध्वसु व्वारणेष्विति॥

मूलम् - Weber

म᳘हि त्रीणाम᳘वो ऽस्तु॥
द्युक्ष᳘म् मित्र᳘स्यार्यम्णः᳘ दुराध᳘र्षं व᳘रुणस्य न हि ते᳘षाममा᳘ चन ना᳘ध्वसु वारणे᳘षु ई᳘शे रिपु᳘रघ᳘शंसः ते हि᳘ पुत्रा᳘सो अ᳘दितेः प्र᳘ जीव᳘से म᳘र्त्याय ज्यो᳘तिर्य᳘छन्त्यजस्रमि᳘ति त᳘त्रास्ति ना᳘ध्वसु वारणेष्वित्येति ह वा अ᳘ध्वानो वारणा य᳘ इमे᳘ ऽन्तरेण द्या᳘वापृथिवी᳘ एॗतान्ह्येत᳘दुपति᳘ष्ठते त᳘स्मादाह ना᳘ध्वसु वारणेष्विति॥

मूलम् - विस्वरम्

“महि त्रीणामवो ऽस्तु द्युक्षं मित्रस्यार्य्यम्णः । दुराधर्षं वरुणस्य”- (वा. सं. ३ । ३१) “न हि तेषाममा चन नाध्वसु वारणेषु । ईशे रिपुरघशंसः”- (वा० सं० ३ । ३२) ** “ते हि पुत्रासो अदितेः प्र जीवसे मर्त्याय । ज्योतिर्यच्छन्त्यजस्रम्”**- इति (वा. सं. ३ । ३३) तत्रास्ति नाध्वसु वारणेष्विति । एते ह वा अध्वानो वारणाः- य इमे ऽन्तरेण द्यावापृथिवी । एतान् ह्येतदुपतिष्ठते । तस्मादाह नाध्वसु वारणेष्विति ॥ ३७ ॥

सायणः

महि त्रीणामित्यादि । एतदपि सूक्तमन्तराग्नी तिष्ठन् जपेदित्यनुषङ्गेण वाक्यसमाप्तिः । अस्य तृचस्य प्रयोजनमाह- तत्रास्तीति । ‘तत्र’ तस्मिंस्तृचे ‘न अध्वसु वारणेष’- ‘इति’ ‘अस्ति,’ तस्याभिप्रायो वर्ण्यत इति शेषः । एते ह वा इत्यादि । द्यावापृथिव्योर्मध्ये य ‘इमे’ ‘अध्वानः’ वितताः ‘एते’ खलु पुरुषस्य फलप्राप्तिवारणाय भवन्ति, अतो द्यावापृथिवीसंस्तुतयोर्गार्हपत्याहवनीययोर्मध्ये स्थित्वा इमं तृचं जपन् ‘एतान्’ एव मार्गान् ‘उपतिष्ठते’ इत्यर्थः । एवमध्वनामुपस्थितत्वात् तं वारयितुं न को ऽपि ईश्वर इति “नाध्वसु वारणेषु”- इति मन्त्रपादस्यार्थः ॥ ३७ ॥

Eggeling
  1. [He continues, Vāj. S. III, 31-33], ‘May the

mighty, the heavenly, the unassailable favour of the three, Mitra, Aryaman, and Varuṇa, be (with us)! For the wicked enemy lords it not over them (that are protected by these gods), neither at home nor on dangerous paths: for those sons of Aditi bestow undying light on the mortal that he may live!’–In this (prayer) he says, ’nor on dangerous paths;’ for dangerous indeed are the paths that lie between heaven and earth: those he now walks, and therefore he says, ’nor on dangerous paths.’

३८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थैन्द्री᳘॥
(न्द्री᳘न्द्रो) इन्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता से᳘न्द्रमे᳘वैत᳘दग्न्युपस्थानं᳘ कुरुते कदा᳘ चन᳘ स्तरी᳘रसि᳘ नेन्द्र सश्चसि दाशु᳘ष ऽइ᳘ति य᳘जमानो वै᳘ दाश्वान्न य᳘जमानाय द्रुह्यसी᳘त्ये᳘वैत᳘दाहो᳘पोपेन्नु᳘ मघवन्भू᳘य ऽइन्नु᳘ ते दा᳘नं देव᳘स्य पृच्यत ऽइ᳘ति भू᳘यो भूय ऽएव᳘ न ऽइदं᳘ पुष्टं᳘ कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थैन्द्री᳘॥
(न्द्री᳘न्द्रो) इन्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता से᳘न्द्रमे᳘वैत᳘दग्न्युपस्थानं᳘ कुरुते कदा᳘ चन᳘ स्तरी᳘रसि᳘ नेन्द्र सश्चसि दाशु᳘ष ऽइ᳘ति य᳘जमानो वै᳘ दाश्वान्न य᳘जमानाय द्रुह्यसी᳘त्ये᳘वैत᳘दाहो᳘पोपेन्नु᳘ मघवन्भू᳘य ऽइन्नु᳘ ते दा᳘नं देव᳘स्य पृच्यत ऽइ᳘ति भू᳘यो भूय ऽएव᳘ न ऽइदं᳘ पुष्टं᳘ कुर्व्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थैन्द्री᳟॥
इन्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता से᳘न्द्रमेॗवैत᳘दग्न्युप्स्थानं᳘ कुरुते कदा᳘ चन᳘ स्तरी᳘रसिॗ नेन्द्र सश्चसि दाशु᳘ष इ᳘ति य᳘जमानो वै᳘ दाश्वान्न य᳘जमानाय द्रुह्यसी᳘त्येॗवैत᳘दाहो᳘पोपेन्नु᳘ मघवन्भू᳘य इन्नु᳘ ते दा᳘नं देव᳘स्य पृच्यत इ᳘ति भू᳘यो भूय एव᳘ न इद᳘म् पुष्टं᳘ कुर्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथैन्द्री । इन्द्रो वै यज्ञस्य देवता । सेन्द्रमेवैतदग्न्युपस्थानं कुरुते । “कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे”- इति (वा. सं. ३ । ३४) यजमानो वै दाश्वान्न यजमानाय द्रुह्यसि- इत्येवैतदाह । ** “उपोपेन्नु मघवन् भूय इन्नु ते दानं देवस्य पृच्यते”**- इति (वा. सं. ३ । ३४) । भूयो-भूय एव न इदं पुष्टं कुरु- इत्येवैतदाह ॥ ३८ ॥

सायणः

अथैन्द्रीत्यादि । ‘ऐन्द्री’ इन्द्रदेवताका “कदाचन स्तरीरसि”- इत्यादिका अग्न्युपस्थाने प्रयोक्तव्या । तथा च तदग्न्युपस्थानमिन्द्रसहितं सत् यज्ञात्मना निष्पद्यत इत्यर्थः । तत्र पूर्वार्द्धमनूद्य तात्पर्यमाह- कदाचनेति । यजमानो वै दाश्वानिति । “दाशृ दाने” (धा. पा. भ्वा ९१९) इत्यस्मात् “दाश्वान् साह्वान्" (पा. सू. ६ । १ । १२) इति निपातनात् हविषां दाता यजमानो दाश्वानित्युच्यते । तथा च ‘दाशुषे’ यजमानाय कदाचिदपि ‘स्तरीः’ हिंसकः ‘न असि’ न भवसि न द्रुह्यसीति तात्पर्यार्थकथनम् । उत्तरार्द्धं व्याचष्टे- उपोपेदिति । ‘हे मघवन्’ अस्मभ्यं दीयमानं त्वदीयं वनं ‘भूयो भूय एव’ ‘उपपृच्यते’ समीपं प्राप्नोति; तदिदमाम्नातम्- भूयो-भूय एवेति ॥ ३८ ॥

Eggeling
  1. Then follows a verse to Indra (Vāj. S. III, 34); for Indra is the deity of the sacrifice, and with Indra therefore he now connects the fire-worship: ‘At no time, O Indra, art thou barren; and never dost thou fail the worshipper–;’ the worshipper, doubtless, is the sacrificer: ’never dost thou harm the sacrificer,’ this is what he thereby says: ‘–but more and evermore is thy gift increased, O mighty god!’ thereby he says, ‘do thou make us ever more prosperous here!’

३९

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ सावित्री᳘॥
सविता वै᳘ देवा᳘नां प्रसविता त᳘थो हास्मा ऽएते᳘ सवितृ᳘प्रसूता एव स᳘र्व्वे का᳘माः स᳘मृध्यन्ते त᳘त्सवितुर्व्वरे᳘ण्यं भ᳘र्गो देव᳘स्य धीमहि॥ धि᳘यो यो᳘ नः प्रचोद᳘यादिति᳘॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ सावित्री᳘॥
सविता वै᳘ देवा᳘नां प्रसविता त᳘थो हास्मा ऽएते᳘ सवितृ᳘प्रसूता एव स᳘र्व्वे का᳘माः स᳘मृध्यन्ते त᳘त्सवितुर्व्वरे᳘ण्यं भ᳘र्गो देव᳘स्य धीमहि॥ धि᳘यो यो᳘ नः प्रचोद᳘यादिति᳘॥

मूलम् - Weber

अ᳘थ सावित्री॥
सविता वै᳘ देवा᳘नाम् प्रसविता त᳘थो हा᳘स्मा एते᳘ सवितृ᳘प्रसूता एव स᳘र्वे का᳘माः स᳘मृध्यन्ते त᳘त्सवितुर्व᳘रेण्यम् भ᳘र्गो देव᳘स्य धीमहि धि᳘यो यो᳘ नः प्रचोद᳘यादिति॥

मूलम् - विस्वरम्

अथ सावित्री । सविता वै देवानां प्रसविता । तथो हास्मा एते सवितृप्रसूता एव सर्वे कामाः समृध्यन्ते । “तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात्”- इति (वा. सं. ३ । ३५) ॥ ३९ ॥

सायणः

अथ सवितृदेवताकामृचं विधाय प्रशंसति- अथ सावित्रीति । का पुनरसौ सावित्री ? इति, तामाह- तत्सवितुरिति ॥ ३९ ॥

Eggeling
  1. Then follows a verse to Savitr̥ 31 (Vāj. S. III, 35),–for Savitr̥ is the impeller (prasavitr̥) of the gods; and thus all his (the sacrificer’s) wishes are fulfilled, impelled as they are by Savitr̥.–(He mutters), ‘May we obtain the glorious light of the divine Savitr̥, who, we trust, may inspire our prayers!’

४०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाग्नेयी॥
त᳘दग्न᳘य ऽए᳘वैत᳘दात्मा᳘नमन्ततः प᳘रिददाति गु᳘प्त्यै प᳘रि ते दूड᳘भो र᳘थो ऽस्मा᳘ २ँ॥ ऽअश्नोतु व्विश्व᳘तः। ये᳘न र᳘क्षसि दाशु᳘ष इ᳘ति य᳘जमाना वै᳘ दाश्वा᳘ᳫँ᳘सो यो᳘ ह वा᳘ ऽअस्या᳘नाधृष्य᳘तमो र᳘थस्ते᳘नैष᳘ य᳘जमानानभि᳘रक्षति स य᳘स्ते ऽनाधृष्यतमो र᳘थो ये᳘न य᳘जमानानभिर᳘क्षसि ते᳘न नः सर्व्व᳘तो ऽभि᳘गोपाये᳘त्ये᳘वैत᳘दाह त्रि᳘रेत᳘ज्जपति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाग्नेयी॥
त᳘दग्न᳘य ऽए᳘वैत᳘दात्मा᳘नमन्ततः प᳘रिददाति गु᳘प्त्यै प᳘रि ते दूड᳘भो र᳘थो ऽस्मा᳘ २ँ॥ ऽअश्नोतु व्विश्व᳘तः। ये᳘न र᳘क्षसि दाशु᳘ष इ᳘ति य᳘जमाना वै᳘ दाश्वा᳘ᳫँ᳘सो यो᳘ ह वा᳘ ऽअस्या᳘नाधृष्य᳘तमो र᳘थस्ते᳘नैष᳘ य᳘जमानानभि᳘रक्षति स य᳘स्ते ऽनाधृष्यतमो र᳘थो ये᳘न य᳘जमानानभिर᳘क्षसि ते᳘न नः सर्व्व᳘तो ऽभि᳘गोपाये᳘त्ये᳘वैत᳘दाह त्रि᳘रेत᳘ज्जपति॥

मूलम् - Weber

अ᳘थाग्नेयी॥
त᳘दग्न᳘य एॗवैत᳘दात्मा᳘नमन्ततः प᳘रिददाति गु᳘प्त्यै प᳘रि ते दूड᳘भो र᳘थो ऽस्मा᳘न् अश्नोतु विश्व᳘तः ये᳘न र᳘क्षसि दाशु᳘ष इ᳘ति य᳘जमाना वै᳘ दाश्वा᳘ᳫं᳘सो यो᳘ ह वा᳘ अस्यानाधृष्य᳘तमो र᳘थस्ते᳘नैष᳘ य᳘जमानानभि᳘रक्षति स य᳘स्ते ऽनाधृष्य᳘तमो र᳘थो ये᳘न य᳘जमानानभिर᳘क्षसि ते᳘न नः सर्व᳘तो ऽभि᳘गोपाये᳘त्येॗवैत᳘दाह त्रि᳘रेत᳘ज्जपति॥

मूलम् - विस्वरम्

अथाग्नेयी । तदग्नय एवैतदात्मानमन्ततः परिददाति गुप्त्यै । “परि ते दूडभो रथो ऽस्मा२ ॥ अश्नोतु विश्वतः । येन रक्षसि दाशुषः”- इति (वा. सं. ३ । ३६) । यजमाना वै दाश्वांसः । यो ह वा अस्यानाधृष्यतमो रथः- तेनैष यजमानानभिरक्षति । स यस्ते ऽनाधृष्यतमो रथो येन यजमानानभिरक्षसि, तेन नः सर्वतो ऽभिगोपाय- इत्येवैतदाह । त्रिरेतज्जपति ॥ ४० ॥

सायणः

अग्निदेवताकामृचं विधत्ते- अथाग्नेयीति । ‘परिददाति’ परिदानं रक्षणार्थं दानम् । तादथ्यमेव विव्रियते- गुप्त्या इति । यजमाना वा इत्यादि । धर्षितुमशक्यः, परैरप्रधृष्यो यो रथो विद्यते, ‘तेन’ रथेन ‘एषः’ अग्निः‘यजमानान् अभिरक्षति’ ॥

एवमग्नेः स्वभावमभिधाय मन्त्रे योजयति- स य इति । हे अग्ने ! ‘सः’ प्रसिद्धः ‘यः’ ‘रथः’ ‘ते’ त्वदीयः, शत्रुभिरप्रधृष्यो विद्यते ‘येन’ च ‘यजमानान्’ ‘अभितः’ सर्वतः ‘रक्षसि’, ’ तेन,’ ‘रथेन’ ‘नः’ अस्मान् सर्वतः अपि ‘अभिगोपाय’ इत्यर्थः । अस्या ऋचस्त्रिर्जपं विधत्ते- त्रिरेतदिति ॥ ४० ॥

Eggeling
  1. Thereupon a verse to Agni (Vāj. S. III, 36),–whereby he finally makes himself over to Agni for protection: ‘May thine unapproachable chariot, wherewith thou protectest the worshippers, encircle us on every side!’ The worshippers, doubtless, are

the sacrificers; and what unassailable chariot he (Agni) possesses, therewith he protects the sacrificers. Hence he thereby means to say, ‘what unassailable chariot thou possessest, wherewith thou protectest the sacrificers, therewith do thou guard us on every side.’ This (verse) he mutters thrice.

४१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ पुत्र᳘स्य ना᳘म गृह्णाति॥
(ती) इदं᳘ मे ऽयं᳘ व्वी᳘र्य्यं पु᳘त्रो ऽनुस᳘न्तनवदि᳘ति य᳘दि पुत्रो न स्याद᳘प्यात्म᳘न एव ना᳘म गृह्णीयात्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ पुत्र᳘स्य ना᳘म गृह्णाति॥
(ती) इदं᳘ मे ऽयं᳘ व्वी᳘र्य्यं पु᳘त्रो ऽनुस᳘न्तनवदि᳘ति य᳘दि पुत्रो न स्याद᳘प्यात्म᳘न एव ना᳘म गृह्णीयात्॥

मूलम् - Weber

अ᳘थ पुत्र᳘स्य ना᳘म गृह्णाति॥
इद᳘म् मे ऽयं᳘ वीर्यं᳘ पुॗत्रो ऽनुसं᳘तनवदि᳘ति य᳘दि पुत्रो न स्याद᳘प्यात्म᳘न एव ना᳘म गृह्णीयात्॥

मूलम् - विस्वरम्

अथ पुत्रस्य नाम गृह्णाति । ‘इदं मे ऽयं वीर्यं पुत्रो ऽनुसन्तनवद्’ इति । यदि पुत्रो न स्याद्- अप्यात्मन एव नाम गृह्णीयात् ॥ ४१ ॥ इति बृहदुपस्थानम् ।

सायणः

दर्शपूर्णमासयोरिवात्रापि पुत्रनामग्रहणं विधत्ते- अथ पुत्रस्येति 32 । ‘अयं’ मदीयः ‘पुत्रः’ ‘इदं’ यज्ञानुष्ठानलक्षणं ‘वीर्यम्’ ‘अनुसन्तनवत्’ अनुक्रमेण सन्तनुयात्, सन्ततमनवच्छिन्नं कुर्यात्, ‘इति’ अनेनाभिप्रायेण नामग्रहणम् । पुत्राभावे तु यजमानः स्वस्यैव ‘नाम’ गृह्णीयात् ॥ ४१ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे तृतीयाध्याये चतुर्थं ब्राह्मणम् ॥ (२–३–४)

वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥

धान्याद्रिं धन्यजन्मा 33 तिलभवमतुलः स्वर्णजं वर्णमुख्यः कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः ॥ आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजाः रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण 34 विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे तृतीयो ऽध्यायः समाप्तः ॥ ३ ॥

Eggeling
  1. He then pronounces his son’s name 35: ‘May this son (N.N.) carry on this manly deed of mine!’ Should he have no son, let him insert his own name.

  1. सायमाहुत्यःँ हुतायां यजमानो ऽग्नी उपतिष्ठते व्यात्सप्रेण । इति का. श्रौ. सू. ४ । २७४ । =उपप्रयंत=३=११= इत्यादि=परिते=३=३६ इत्यंतं=व्यात्सप्रोपस्थानं=बृहदुपस्थानं वा । ↩︎ ↩︎ ↩︎

  2. न वा विहितप्रतिषिद्धत्वाद्विकल्पः । का. श्रौ. सू. ४ । २७५. ↩︎

  3. 348:1 The Kāṇva text has: ‘And when he approaches (the fires), that (represents) the sacrificer’s wish for blessing: what there is here for him, that indeed he thereby makes his own (ātmani kurute).’ ↩︎

  4. यदिं᳘धि A. ↩︎

  5. एतदेवोपस्थानं वात्सप्रोपस्थानमुच्यते । उपप्रयन्तो ऽध्वरमित्यारभ्य परि ते दूडभ इत्यन्तं वात्सप्रोपस्थानम् । इति याज्ञिकदेवोक्तेः । तत्र च वत्सप्रीनामर्षिणा दृष्टं सूक्तं वात्सप्रम्, तदीयर्च्च एवास्योपस्थानस्य मन्त्रा इति बीजम् । ↩︎

  6. 349:1 Or, ’this All’ (idaṁ sarvam). The Kāṇva text has bhūmānam, ‘abundance,’ instead. ↩︎

  7. य᳘न्पृछ᳘ A. ↩︎

  8. ‘प्रारभते’ इति क्व० । ↩︎ ↩︎

  9. 349:2 The mode of approaching and worshipping the fires (agnyupasthāna) detailed in pars. 9-41 is ascribed to Vatsaprī (author of Rig-veda IX, 68; X, 45 and 46), and therefore termed vātsapraupasthāna. It is, however, also called mahopasthāna (or dīrghopasthāna), or great (long) worship, as distinguished from the so-called kshullakopasthāna (or laghūpasthāna), or little (short) worship, described in II, 4, 1, and ascribed to Āsuri. ↩︎

  10. 349:3 Or ‘upa-kīryate,’ according to the Kāṇva text. ↩︎

  11. एष᳘ तपति A. ↩︎

  12. 350:1 Or, as Grassmann, in his translation of the R̥ksaṁhitā, takes it, ‘he whom the active Bhr̥gus kindled.’ ↩︎

  13. कण्वसंहिताव्याख्यानावसर इति बोध्यम् । ↩︎ ↩︎ ↩︎

  14. ‘तन्निवर्तयितुम्’ इति पाठो युक्तः स्यात् । ↩︎

  15. मूले तु बहुषु पुस्तकेषु “तस्मान्नारकाच्चित्रं ददृशे” इत्येव पाठो ऽस्ति । भाष्ये तु “तारकालक्षणं चित्रं ददृशे, दृश्यते” इत्येव पाठो ऽस्ति । तेन बहुमूलप्रतिपुस्तकस्थः “तस्मान्नारकाच्चित्रं ददृशे” इत्येव मूले पाठस्तथैव स्थापितो ऽस्ति । कस्मिन्नपि पुस्तके ऽन्यथा नैवास्ति पाठः । ↩︎

  16. नाविन्दन् Sây. ↩︎

  17. ‘तेजोमयम्’ इति पाठः । ↩︎

  18. गां गच्छत्यंवस्थेति । इति का. श्रौ. सू. । ४ । २७८ । एतच्च सन्निधानात् कर्मोगभूतां गां प्रति गमनम् । सन्निहितप्रत्ययन्यायात् । एवं च सति गापेक्ष एवैतदुपस्थानं नान्यत्रेति कर्कः । ↩︎

  19. 353:1 Viz. the Agnihotra cow, which has supplied the milk for the morning and evening libation; or any cow, if other material than milk be used. ↩︎

  20. स ँ हितेत्यालभते गामेव । का. श्रौ. सू. ४ । २७९ । ↩︎ ↩︎

  21. ‘व्यक्तिम्’ इ० पा० । ↩︎ ↩︎

  22. य᳘थैनं᳘ न A. ↩︎

  23. गार्हपत्यं गत्वोपतिष्ठत उपत्वेति । कात्या० । ४ । २८० । ↩︎

  24. 354:1 Doshāvastar, ’the illuminer of the dusk;’ or perhaps, as Professor Ludwig proposes, ‘We approach thee, day by day, at dusk and dawn (in the evening and morning), with prayer.’ ↩︎

  25. कण्यसंहितायामिति बोध्यम् । ↩︎

  26. the संहिता (३.२६) reads सूम्ना᳘य. ↩︎

  27. श्रुधि A. ↩︎

  28. गां गच्छतीड एहीति । तामेव गां । का. श्रौ. सू. ४ । २८१ । ↩︎

  29. काम्या एतेत्यालभते । का. श्रौ. सू. ४ । २८२ । ↩︎

  30. सोमानमित्यनुदकं व्रतोपायनवत् । का. श्रौ. सू. ४- २८३ । ↩︎

  31. 356:1 Or, the Sāvitrī, that is, the sacred prayer to Savitr̥, the sun, also called Gāyatrī, Rig-veda III, 62, to. Cf. p. 344, note 1. ↩︎

  32. पौर्णमासवत् पुत्रनामग्रहणं । इति का. श्रौ. सू. ४ । २८४ । वत्युपदेशाच्च तंतत्रेत्वेत्यादि सर्वं प्रवर्तते । इत्येतन्नामग्रहणान्तं वात्सप्रम् । ↩︎

  33. ‘आज्यजन्मा’- इ० पा० । ↩︎

  34. ‘सायणापत्येन’- इ० पा० । ↩︎

  35. 357:1 See I, 9, 3, 21 ↩︎