०१

विश्वास-प्रस्तुतिः

य᳘त्र वै᳘ प्रजा᳘पतिः प्रजाः᳘ ससृजे᳘॥
स य᳘त्राग्नि᳘ᳫँ᳭ स᳘सृजे स᳘ इदं᳘ जातः स᳘र्व्वमेव द᳘ग्धुं दध्र ऽइ᳘त्ये᳘वाबिल᳘मेव ता यास्त᳘र्हि प्रजा᳘ ऽआसुस्ता᳘ हैनᳫँ᳭ स᳘म्पेष्टुं दध्रिरे सो᳘ ऽतितिक्षमाणः पु᳘रुषमे᳘वाभ्ये᳘याय॥

मूलम् - श्रीधरादि

य᳘त्र वै᳘ प्रजा᳘पतिः प्रजाः᳘ ससृजे᳘॥
स य᳘त्राग्नि᳘ᳫँ᳭ स᳘सृजे स᳘ इदं᳘ जातः स᳘र्व्वमेव द᳘ग्धुं दध्र ऽइ᳘त्ये᳘वाबिल᳘मेव ता यास्त᳘र्हि प्रजा᳘ ऽआसुस्ता᳘ हैनᳫँ᳭ स᳘म्पेष्टुं दध्रिरे सो᳘ ऽतितिक्षमाणः पु᳘रुषमे᳘वाभ्ये᳘याय॥

मूलम् - Weber

य᳘त्र वै᳘ प्रजा᳘पतिः प्रजाः᳘ ससृजे॥
स य᳘त्राग्नि᳘ᳫं᳘ ससृजे स᳘ इदं᳘ जातः स᳘र्वमेव द᳘ग्धुं दध्र इ᳘त्येॗवाबिल᳘मेव ता यास्त᳘र्हि प्रजा᳘ आसुस्ता᳘ हैनᳫं स᳘म्पेष्टुं दध्रिरे सो᳘ ऽतितिक्षमाणः पु᳘रुषमेॗवाभ्ये᳘याय॥

मूलम् - विस्वरम्

यत्र वै प्रजापतिः प्रजाः ससृजे । स यत्राग्निं ससृजे स इदं जातः सर्वमेव दग्धुं दध्रे । इत्येवाबिलमेव ताः- यास्तर्हि प्रजा आसुः । ता हैनं सम्पेष्टुं दध्रिरे । सो ऽतितिक्षमाणः पुरुषमेवाभ्येयाय ॥ १ ॥

सायणः

अथैतयोर्गार्हपत्याहवनीययोरग्न्योरुपस्थानं विधित्सुः प्राग्विहिते आधानाग्निहोत्रे समुच्चित्य क्रमेण स्तौति- यत्र वा इत्यादिना । यदा खलु प्रजापतिः प्रजाः सृष्टवान्, तदा ‘अग्निम्’ इममपि ससर्ज । ‘सः’ च ‘जातः’ अग्निः ‘सर्वम्’ ‘इदं’ जगत् ‘दग्धुम्’ ‘दध्रे’ उद्युक्तो बभूव, ‘इति’ इदं सर्वं जगद् व्याकुलमभूदित्यर्थः । ता हैनमिति । ‘एनम्’ अग्निम् । सो ऽतितिक्षमाण इत्यादि । ‘अतितिक्षमाणः’ प्रजाभिश्चिकीर्षितं पेषणमसहमानः कर्माधिकारिणं ‘पुरुषम्’ अभिजगामेत्यर्थः ॥ १ ॥

Eggeling
  1. Now when Prajāpati, in creating living beings, created Agni, the latter, as soon as born, sought to burn everything here: and so everybody tried to get out of his way 1. The creatures then existing sought to crush him. Being unable to endure this, he went to man.

०२

विश्वास-प्रस्तुतिः

स होवा᳘च॥
न वा ऽअह᳘मिदं᳘ तितिक्षे ह᳘न्त त्वा प्रविशा᳘नि तं᳘ मा जनयित्वा᳘ बिभृ᳘हि स य᳘थैव मां त्व᳘मस्मिल्ँ᳘लोके᳘ जनयित्वा᳘ भरिष्य᳘स्येवमेवाहं त्वा᳘ममु᳘ष्मिल्ँ लोके᳘ जनयित्वा᳘ भरिष्यामी᳘ति॥

मूलम् - श्रीधरादि

स होवा᳘च॥
न वा ऽअह᳘मिदं᳘ तितिक्षे ह᳘न्त त्वा प्रविशा᳘नि तं᳘ मा जनयित्वा᳘ बिभृ᳘हि स य᳘थैव मां त्व᳘मस्मिल्ँ᳘लोके᳘ जनयित्वा᳘ भरिष्य᳘स्येवमेवाहं त्वा᳘ममु᳘ष्मिल्ँ लोके᳘ जनयित्वा᳘ भरिष्यामी᳘ति॥

मूलम् - Weber

स होवाच॥
न वा᳘ अह᳘मिदं᳘ तितिक्षे ह᳘न्त त्वा प्रविशा᳘नि त᳘म् मा जनयित्वा᳘ बिभृहि स य᳘थैव मां त्व᳘मस्मिं᳘लोके जनयित्वा᳘ भरिष्य᳘स्येव᳘मेॗवाहं त्वा᳘ममु᳘ष्मिंलोके᳘ जनयित्वा᳘ भरिष्यामी᳘ति तथे᳘ति तं᳘ जनयिॗत्वाबिभः॥

मूलम् - विस्वरम्

स होवाच- “न वा अहमिदं तितिक्षे, हन्त त्वा प्रविशानि, तं मा जनयित्वा बिभृहि स यथैव मां त्वमस्मिंल्लोके जनयित्वा भरिष्यसि एवमेवाहं त्वाममुष्मिंल्लोके जनयित्वा भरिष्यामीति ॥ २ ॥

सायणः

स होवाचेति । अभिगम्य किमुक्तवानिति, तदाह- न वा अहमिति । ‘तितिक्षे’ सोढुं शक्नोमि । निगदसिद्धमन्यत् ॥ २ ॥

Eggeling
  1. He said, ‘I cannot endure this: come, let me enter into thee! Having reproduced me, maintain me; and as thou wilt reproduce and maintain me in this world, even so will I reproduce and maintain thee in yonder world!’ He (man) replied, ‘So be it.’ And having reproduced him, he maintained him.

०३

विश्वास-प्रस्तुतिः

तथे᳘ति तं᳘ जनयित्वा ऽबिभः॥ स य᳘दग्नी᳘ ऽआधत्ते त᳘देनं जनयति तं᳘ जनयित्वा᳘ बिभर्ति स य᳘था है᳘वैष᳘ एत᳘मस्मिल्ँ᳘लोके᳘ जनयित्वा बिभ᳘र्त्येव᳘मु है᳘वैष᳘ ऽएत᳘ममु᳘ष्मिल्ँ लोके᳘ जनयित्वा᳘ बिभर्त्ति॥

मूलम् - श्रीधरादि

तथे᳘ति तं᳘ जनयित्वा ऽबिभः॥ स य᳘दग्नी᳘ ऽआधत्ते त᳘देनं जनयति तं᳘ जनयित्वा᳘ बिभर्ति स य᳘था है᳘वैष᳘ एत᳘मस्मिल्ँ᳘लोके᳘ जनयित्वा बिभ᳘र्त्येव᳘मु है᳘वैष᳘ ऽएत᳘ममु᳘ष्मिल्ँ लोके᳘ जनयित्वा᳘ बिभर्त्ति॥

मूलम् - Weber

स य᳘दग्नी᳘ आधत्ते॥
त᳘देनं जनयति तं᳘ जनयित्वा᳘ बिभर्ति स य᳘था हैॗवैष᳘ एत᳘मस्मिं᳘लोके᳘ जनयित्वा᳘ बिभ᳘र्त्येव᳘मु हैॗवैष᳘ एत᳘ममु᳘ष्मिंलोके᳘ जनयित्वा᳘ बिभर्ति॥

मूलम् - विस्वरम्

तथेति तं जनयित्वा ऽबिभः । स यदग्नी आधत्ते- तदेनं जनयति- तं जनयित्वा बिभर्ति । स यथा हैवैष एतमस्मिल्ँ लोके जनयित्वा बिभर्ति, एवमु हैवैष एतममुष्मिल्ँ लोके जनयित्वा बिभर्ति ॥ ३ ॥

सायणः

एवमग्निना प्रार्थितः, ‘तथा’ ‘इति’ अङ्गीकृत्य पुरुषेण तथैवानुष्ठितमिति दर्शयति- स यदग्नी इत्यादिना ॥ ३ ॥

Eggeling
  1. Now when he establishes the two fires, he reproduces that (Agni); and having reproduced him, he maintains him; and as he reproduces and maintains him in this world, even so does he (Agni) reproduce and maintain him in yonder world.

०४

विश्वास-प्रस्तुतिः

तन्न᳘ साम्यु᳘द्वासयेत॥
सामि᳘ हास्मै स᳘ ग्लायति स य᳘था है᳘वैष᳘ ऽएत᳘स्मा ऽअस्मिल्ँ᳘लोके᳘ सामि᳘ ग्ला᳘यत्येव᳘मु है᳘वैष᳘ एत᳘स्मा ऽअमु᳘ष्मिल्ँ लोके᳘ सामि᳘ ग्लायति त᳘स्मान्न᳘ साम्यु᳘द्वासयेत॥

मूलम् - श्रीधरादि

तन्न᳘ साम्यु᳘द्वासयेत॥
सामि᳘ हास्मै स᳘ ग्लायति स य᳘था है᳘वैष᳘ ऽएत᳘स्मा ऽअस्मिल्ँ᳘लोके᳘ सामि᳘ ग्ला᳘यत्येव᳘मु है᳘वैष᳘ एत᳘स्मा ऽअमु᳘ष्मिल्ँ लोके᳘ सामि᳘ ग्लायति त᳘स्मान्न᳘ साम्यु᳘द्वासयेत॥

मूलम् - Weber

तन्न᳘ साम्यु᳘द्वासयेत॥
सामि᳘ हास्मै स᳘ ग्लायति स य᳘था हैॗवैष᳘ एत᳘स्मा अस्मिं᳘लोके᳘ सामि ग्ला᳘यत्येव᳘मु हैॗवैष᳘ एत᳘स्मा अमु᳘ष्मिंलोके᳘ सामि᳘ ग्लायति त᳘स्मान्न᳘ साम्यु᳘द्वासयेत॥

मूलम् - विस्वरम्

तन्न साम्युद्वासयेत । सामि हास्मै स ग्लायति । स यथा हैवैष एतस्मा अमुष्मिल्ँ लोके सामि ग्लायति- एवमु हैवैष एतस्मा अमुष्मिल्ँ लोके सामि ग्लायति । तस्मान्न साम्युद्वासयेत ॥ ४ ॥

सायणः

एवमग्न्याधानेन जनितस्याग्नेर्भरणं विधाय, तस्य भरणात् प्राक् उद्वासनं निषेधति- तन्नेति । ‘सामि’ मध्ये यद्यग्निम् ‘उद्वासयेत्’ विसृजेत, तर्हि ‘अस्मै’ यजमानाय ‘सः’ अग्निः ‘सामि’ अर्द्धग्लानियुक्तो भवति । स यथेत्यादि । इह लोके येयमग्निग्लानिः, सा आमुष्मिकयजमानग्लानेर्हेतुर्भवतीत्यर्थः । तस्मादामरणान्तम् अग्निर्द्धार्य इति निगमयति- तस्मादिति । (का. 2 श्रौ. सू. २ ॥ १०८) ॥ ४ ॥

Eggeling
  1. One must not, therefore, remove it (the sacrificial fire from the hearth) prematurely, for too

soon it languishes for him; and as it languishes for him too soon in this world, even so does it languish for him too soon in yonder world: one must not, therefore, remove it prematurely.

०५

विश्वास-प्रस्तुतिः

स य᳘त्र म्रिय᳘ते॥
य᳘त्रैनमग्ना᳘वभ्याद᳘धति त᳘दे᳘षो ऽग्नेर᳘धिजायते स᳘ ऽएष᳘ पुत्रः स᳘न्पिता᳘ भवति॥

मूलम् - श्रीधरादि

स य᳘त्र म्रिय᳘ते॥
य᳘त्रैनमग्ना᳘वभ्याद᳘धति त᳘दे᳘षो ऽग्नेर᳘धिजायते स᳘ ऽएष᳘ पुत्रः स᳘न्पिता᳘ भवति॥

मूलम् - Weber

स य᳘त्र म्रियते॥
य᳘त्रैनमग्ना᳘वभ्याद᳘धति त᳘देॗषो ऽग्नेर᳘धिजायते स᳘ एष᳘ पुत्रः स᳘न्पिता᳘ भवति॥

मूलम् - विस्वरम्

स यत्र म्रियते- यत्रैनमग्नावभ्यादधति- तदेषो ऽग्नेरधिजायते । स एष पुत्रः सन् पिता भवति ॥ ५ ॥

सायणः

स यत्रेतियत्रैनमग्नाविति । ‘एनं’ मृतं यजमानं पैतृमेधिकविधिना अग्नौ प्रक्षिपन्तीत्यर्थः । ‘सः’ ‘एषः’ अग्निः । पुत्रः सन् पिता भवतीति । यजमानस्य जीवनावस्थायामाधानेनोत्पादितत्वादग्निस्तस्य पुत्रः, मरणार्दूर्ध्वन्तु तस्मादग्नेर्यजमानस्य जननात् पुत्र एव तस्य पिता भवतीत्यर्थः ॥ ५ ॥

Eggeling
  1. And when he dies, and they place him on the (funeral) fire, then he is reproduced from out of the fire; and he (Agni) who heretofore was his son 3, now becomes his father.

०६

विश्वास-प्रस्तुतिः

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
(ᳫँ᳭) शतमिन्नु᳘ शर᳘दो ऽअ᳘न्ति देवा य᳘त्रा नश्चक्रा᳘ जर᳘सं तनू᳘नाम्॥ पुत्रा᳘सो य᳘त्र पित᳘रो भ᳘वन्ति मा᳘ नो मध्या᳘रीरिषता᳘युर्ग᳘न्तोरि᳘ति पुत्रो᳘ ह्येष सन्त्स पु᳘नः पिता भ᳘वत्येतन्नु तद्य᳘स्मादग्नी ऽआद᳘धीत॥

मूलम् - श्रीधरादि

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
(ᳫँ᳭) शतमिन्नु᳘ शर᳘दो ऽअ᳘न्ति देवा य᳘त्रा नश्चक्रा᳘ जर᳘सं तनू᳘नाम्॥ पुत्रा᳘सो य᳘त्र पित᳘रो भ᳘वन्ति मा᳘ नो मध्या᳘रीरिषता᳘युर्ग᳘न्तोरि᳘ति पुत्रो᳘ ह्येष सन्त्स पु᳘नः पिता भ᳘वत्येतन्नु तद्य᳘स्मादग्नी ऽआद᳘धीत॥

मूलम् - Weber

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तं॥
शतमिन्नु᳘ शर᳘दो अ᳘न्ति देवा य᳘त्रा नश्चक्रा᳘ जर᳘सं तनू᳘नाम् पुत्रा᳘सो य᳘त्र पित᳘रो भ᳘वन्ति मा᳘ नो मध्या᳘ रीरिषता᳘युर्ग᳘न्तोरि᳘ति पुत्रोॗ ह्येष सन्त्स 4 पु᳘नः पिता भ᳘वत्येतन्नु तद्य᳘स्मादग्नी᳘ आदधीत॥

मूलम् - विस्वरम्

तस्मादेतदृषिणाभ्यनूक्तम्- “शतमिन्नु शरदो अन्ति देवाः । यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति । मा नो मध्या रीरिषतायुर्गन्तोः”- इति । (वा. सं. अ. २५ मं. २२) पुत्रो ह्येष सन्त्सः पुनः पिता भवति । एतन्नु तद्- यस्मादग्नी आदधीत ॥ ६ ॥

सायणः

ननु पुत्रस्य सतः पितृत्वं विरुद्धमित्याशङ्क्य काञ्चिदृचं संवादयति- तस्मादिति । ‘ऋषिणा’ मन्त्रेण । स च “शतमिन्नु शरदः” इत्यादिकः (ऋ. सं. १ । ७९ । ९) । तस्य चायमर्थः- हे ‘देवाः !’ ‘अन्ति’ अन्तिके, मनुष्याणां समीपे आयुष्ट्वेन परिकल्पिताः ‘शतं’ शतसङ्ख्याका एव ‘शरदः’ संवत्सराः खलु ‘यत्र’ यस्मिन् आयुषि शतसंवत्सरे ‘तनूनां’ शरीराणां ‘जरसं’ जरां ‘चक्रा’ कृतवन्तः; ‘यत्र’ च ‘पुत्रासः’ सन्तो ऽपि अपत्योत्पादनेन पितरो भवन्ति, ‘नः’ अस्माकं तत् आयुः ‘गन्तोः’ गमनात् पूर्वं ‘मध्या’ मध्ये मा रीरिषत हिंसनं मा कृषत इति । पुत्रो ह्येष सन्निति । मानुषस्य यजमानस्य ‘एषः’ अग्निः आधानादुत्पन्नतया ‘पुत्रः सन्’ देवशरीरमापन्नस्य तस्योत्पादनेन ‘पुनः पिता भवति’ ‘इति’ ‘एतत्’ खलु ‘ऋषिणा’ ‘अभ्यनूक्तम्’ इत्यर्थः ॥ ६ ॥

Eggeling
  1. Hence it has been said by the R̥shis (Rig-veda I, 89, 9), ‘A hundred autumns (may there he) before us, O gods, during which ye complete the life-time of our bodies, during which sons become fathers! do not cut us off, midway, from reaching the full term of life!’ for he (Agni) who is the son, now in his turn becomes the father: this, then, is why one must establish the fires.

०७

विश्वास-प्रस्तुतिः

तद्वा᳘ ऽएष एव᳘ मृत्युः॥
(र्य᳘) स᳘ ऽएष त᳘पति तद्य᳘देष᳘ ऽएव᳘ मृत्युस्त᳘स्माद्या᳘ ऽएत᳘स्मादर्व्वा᳘च्यः प्रजास्ता᳘ म्रियन्ते᳘ ऽथ याः प᳘राच्यस्ते᳘ देवास्त᳘स्मादु᳘ ते ऽमृ᳘तास्त᳘स्येमाः स᳘र्व्वाः प्रजा᳘ रश्मि᳘भिः प्राणे᳘ष्वभि᳘हितास्त᳘स्मादु रश्म᳘यः प्राणा᳘नभ्य᳘वतायन्ते॥

मूलम् - श्रीधरादि

तद्वा᳘ ऽएष एव᳘ मृत्युः॥
(र्य᳘) स᳘ ऽएष त᳘पति तद्य᳘देष᳘ ऽएव᳘ मृत्युस्त᳘स्माद्या᳘ ऽएत᳘स्मादर्व्वा᳘च्यः प्रजास्ता᳘ म्रियन्ते᳘ ऽथ याः प᳘राच्यस्ते᳘ देवास्त᳘स्मादु᳘ ते ऽमृ᳘तास्त᳘स्येमाः स᳘र्व्वाः प्रजा᳘ रश्मि᳘भिः प्राणे᳘ष्वभि᳘हितास्त᳘स्मादु रश्म᳘यः प्राणा᳘नभ्य᳘वतायन्ते॥

मूलम् - Weber

तद्वा᳘ एष᳘ एव᳘ मृत्युः॥
स᳘ एष त᳘पति तद्य᳘देष एव᳘ मृत्युस्त᳘स्माद्या᳘ एत᳘स्मादर्वाच्यः प्रजास्ता᳘ म्रियन्ते᳘ ऽथ याः प᳘राच्यस्ते᳘ देवास्त᳘स्मादुॗ ते ऽमृ᳘तास्त᳘स्येमाः स᳘र्वाः प्रजा रश्मि᳘भिः प्राणे᳘ष्वभि᳘हितास्त᳘स्मादु रश्म᳘यः प्राणा᳘नभ्य᳘वतायन्ते॥

मूलम् - विस्वरम्

तद्वा एष एव मृत्युः- य एष तपति । तद् यदेष एव मृत्युः- तस्माद्, या एतस्मादर्वाच्यः प्रजास्ता म्रियन्ते । अथ याः पराच्यस्ते देवाः । तस्मादु ते ऽमृताः । तस्येमाः सर्वाः प्रजा रश्मिभिः प्राणेष्वभिहिताः । यथा ऽश्वो ऽश्वाभिधान्या वाभीशुभिर्वा- एवमस्येमाः सर्वाः प्रजा रश्मिभिः प्राणेष्वभिहिताः । तस्मादु रश्मयः प्राणानभ्यवतायन्ते ॥ ७ ॥

सायणः

अग्निहोत्रहोमस्यामृतत्वप्राप्तिसाधनत्वं वक्तुं सूर्यस्य मृत्युरूपतां प्रतिपादयति- तद्वा एष एवेति । रश्मिभिरिति । सूर्यस्य किरणैः प्राणेषु बद्धा इत्यर्थः । तत्र दृष्टान्तः- यथेति । अश्वो ऽभिधीयते बध्यते ऽनयेत्यश्वाभिधानी, तया; अभीशवो ऽन्या रज्जवस्ताभिर्वेत्यर्थः । तस्मादु रश्मय इति । यस्मात् सूर्यरश्मिभिः प्राणेषु प्रजा बद्धाः तस्मादेव कारणात् ते ‘रश्मयः’ ‘प्रजानां प्राणान्’ ‘अभि’-लक्ष्य ‘अवतायन्ते’ अवसार्य्यन्ते ॥ ७ ॥

Eggeling
  1. Now yonder burning (sun) doubtless is no other than Death; and because he is Death, therefore the creatures that are on this side of him die. But those that are on the other side of him are the gods, and they are therefore immortal. It is by the rays (or reins, thongs, raśmi) of that (sun) that all these creatures are attached to the vital airs (breaths or life), and therefore the rays extend down to the vital airs.

०८

विश्वास-प्रस्तुतिः

स य᳘स्य काम᳘यते॥
त᳘स्य प्राण᳘मादायो᳘देति स᳘ म्रियते स यो᳘ हैतं मृत्युम᳘नतिमुच्या᳘थामुं᳘ लोकमे᳘ति य᳘था है᳘वास्मिल्ँ᳘लोके न᳘ संय᳘तमाद्रिय᳘ते यदा᳘ य᳘दैव काम᳘यते᳘ ऽथ मार᳘यत्येव᳘मु है᳘वामु᳘ष्मिल्ँ लोके पु᳘नः पुनरेव प्र᳘मारयति॥

मूलम् - श्रीधरादि

स य᳘स्य काम᳘यते॥
त᳘स्य प्राण᳘मादायो᳘देति स᳘ म्रियते स यो᳘ हैतं मृत्युम᳘नतिमुच्या᳘थामुं᳘ लोकमे᳘ति य᳘था है᳘वास्मिल्ँ᳘लोके न᳘ संय᳘तमाद्रिय᳘ते यदा᳘ य᳘दैव काम᳘यते᳘ ऽथ मार᳘यत्येव᳘मु है᳘वामु᳘ष्मिल्ँ लोके पु᳘नः पुनरेव प्र᳘मारयति॥

मूलम् - Weber

स य᳘स्य काम᳘यते॥
तस्य प्राण᳘मादायोदेति स म्रियते 5 स यो᳘ हैत᳘म् मृत्युम᳘नतिमुच्या᳘थामुं᳘ लोकमे᳘ति य᳘था हैॗवास्मिं᳘लोके न संय᳘तमाद्रिय᳘ते यदा᳘ यॗदैव काम᳘यते᳘ ऽथ मार᳘यत्येव᳘मु हैॗवामु᳘ष्मिंलोके पु᳘नःपुनरेव प्र᳘मारयति॥

मूलम् - विस्वरम्

स यस्य कामयते- तस्य प्राणमादायोदेति- स म्रियते । स यो हैतं मृत्युमनतिमुच्य, अथामुं लोकमेति- यथा हैवास्मिल्ँ लोके न संयतमाद्रियते- यदा यदैव कामयते- अथ मारयति- एवमु हैवामुष्मिल्ँ लोके पुनः पुनरेव प्रमारयति ॥ ८ ॥

सायणः

स यस्येत्यादि । निगदसिद्धम् । स यो हैतमिति । ‘एतं’ सूर्यात्मकं मृत्युम् ‘अनतिमुच्य’ अनतिक्रम्य ‘यः’ स्वर्गं प्राप्नोति, ‘सः’ भूलोक इव तत्रापि ‘पुनरेव’ मार्यते, न त्वमृतत्वप्राप्तिस्तस्येत्यर्थः ॥ ८ ॥

Eggeling
  1. And the breath of whomsoever he (the sun) wishes he takes and rises, and that one dies. And whosoever goes to yonder world not having escaped that Death, him he causes to die again and again in yonder world, even as, in this world, one regards not him that is fettered, but puts him to death whenever one wishes.

०९

विश्वास-प्रस्तुतिः

स य᳘त्सायम᳘स्तमिते द्वे ऽआ᳘हुती जुहो᳘ति॥
त᳘देता᳘भ्यां पू᳘र्व्वाभ्यां पद्भ्या᳘मेत᳘स्मिन्मृत्यौ प्र᳘तितिष्ठत्य᳘थ य᳘त्प्रातर᳘नुदिते द्वे ऽआ᳘हुती जुहो᳘ति त᳘देता᳘भ्याम᳘पराभ्यां पद्भ्या᳘मेत᳘स्मिन्मृत्यौ प्र᳘तितिष्ठित स᳘ ऽएनमेष᳘ ऽउद्य᳘न्ने᳘वादायो᳘देति त᳘देतं᳘ मृत्युम᳘तिमुच्यते᳘ सै᳘षाग्निहोत्रे᳘ मृत्योर᳘तिमुक्तिर᳘ति ह वै᳘ पुनर्मृत्युं᳘ मुच्यते य᳘ एव᳘मेता᳘मग्निहोत्रे᳘ मृत्योर᳘तिमुक्तिं व्वेद॥

मूलम् - श्रीधरादि

स य᳘त्सायम᳘स्तमिते द्वे ऽआ᳘हुती जुहो᳘ति॥
त᳘देता᳘भ्यां पू᳘र्व्वाभ्यां पद्भ्या᳘मेत᳘स्मिन्मृत्यौ प्र᳘तितिष्ठत्य᳘थ य᳘त्प्रातर᳘नुदिते द्वे ऽआ᳘हुती जुहो᳘ति त᳘देता᳘भ्याम᳘पराभ्यां पद्भ्या᳘मेत᳘स्मिन्मृत्यौ प्र᳘तितिष्ठित स᳘ ऽएनमेष᳘ ऽउद्य᳘न्ने᳘वादायो᳘देति त᳘देतं᳘ मृत्युम᳘तिमुच्यते᳘ सै᳘षाग्निहोत्रे᳘ मृत्योर᳘तिमुक्तिर᳘ति ह वै᳘ पुनर्मृत्युं᳘ मुच्यते य᳘ एव᳘मेता᳘मग्निहोत्रे᳘ मृत्योर᳘तिमुक्तिं व्वेद॥

मूलम् - Weber

स य᳘त्सायम᳘स्तमिते द्वे आ᳘हुती जुहो᳘ति॥
त᳘देता᳘भ्याम् पू᳘र्वाभ्याम् पद्भ्या᳘मेत᳘स्मिन्मृत्यौ प्र᳘तितिष्ठत्य᳘थ य᳘त्प्रातर᳘नुदिते द्वे आ᳘हुती जुहो᳘ति त᳘देता᳘भ्याम᳘पराभ्याम् पद्भ्या᳘मेत᳘स्मिन्मृत्यौ प्र᳘तितिष्ठित स᳘ एनमेष उद्य᳘न्नेॗवादायो᳘देति त᳘देत᳘म् मृत्युम᳘तिमुच्यतेॗ सैॗषाग्निहोत्रे᳘ मृत्योर᳘तिमुक्तिर᳘ति ह वै᳘ पुनर्मृत्यु᳘म् मुच्यते य एव᳘मेता᳘मग्निहोत्रे᳘ मृत्योर᳘तिमुक्तिं वे᳘द॥

मूलम् - विस्वरम्

स यत् सायमस्तमिते द्वे आहुती जुहोति- तदेताभ्यां पूर्वाभ्यां पद्भ्यामेतस्मिन् मृत्यौ प्रतितिष्ठति । अथ यत् प्रातरनुदिते द्वे आहुती जुहोति- तदेताभ्यामपराभ्यां पद्भ्यामेतस्मिन् मृत्यो प्रतितिष्ठति । स एनमेष उद्यन्नेवादायोदेति । तदेतं मृत्युमतिमुच्यते । सैषाग्निहोत्रे मृत्योरतिमुक्तिः । अति ह वै- पुनर्मृत्युं मुच्यते- य एतामग्निहोत्रे मृत्योरतिमुक्तिं वेद ॥ ९ ॥

सायणः

कथं तर्हि तस्य मृत्योरतिमोक इति, तत्राह- स यदिति । सायम्प्रातरग्निहोत्रहोमे द्वे द्वे आहुती हूयेते, अतस्ताभिश्चतसृभिराहुतिभिः तस्मिन् सूर्यात्मके ‘मृत्यौ’ विषयभूते सति, यजमानः प्रतितिष्ठति । ‘स एषः’ सूर्यः ‘एनं’ यजमानं रश्मिभिः ‘आदाय’ एव ‘उदेति,’ स च ‘एतं’ मृत्युम् अतीत्य ‘मुच्यते’ इत्यर्थः । एवमग्निहोत्रे मृत्योरतिमुक्तिं प्रतिपाद्य, तद्वेदितुः फलमाह- अति हेति ॥ ९ ॥

Eggeling
  1. Now when, in the evening after sunset, he offers two libations, then he firmly plants himself on that Death with those fore-feet of his; and when, in the morning before sunrise, he offers two libations, then he plants himself on that Death with those hind-feet of his. And when he (the sun) rises, then, in rising, he takes him up and thus he (the sacrificer) escapes that Death. This, then, is the release from death in the Agnihotra: and, verily, he who knows that release from death in the Agnihotra, is freed from death again and again.

१०

विश्वास-प्रस्तुतिः

य᳘था वा ऽइ᳘षोर᳘नीकम्॥
(मे) एवं᳘ यज्ञा᳘नामग्निहोत्रं ये᳘न वा ऽइ᳘षोर᳘नीकमे᳘ति स᳘र्व्वा वै तेने᳘षुरेत्येते᳘नो हास्य स᳘र्व्वे यज्ञक्रत᳘व एतं᳘ मृत्युम᳘तिमुक्ताः॥

मूलम् - श्रीधरादि

य᳘था वा ऽइ᳘षोर᳘नीकम्॥
(मे) एवं᳘ यज्ञा᳘नामग्निहोत्रं ये᳘न वा ऽइ᳘षोर᳘नीकमे᳘ति स᳘र्व्वा वै तेने᳘षुरेत्येते᳘नो हास्य स᳘र्व्वे यज्ञक्रत᳘व एतं᳘ मृत्युम᳘तिमुक्ताः॥

मूलम् - Weber

य᳘था वा इ᳘षोरनीकम्॥
एवं᳘ यज्ञा᳘नामग्निहोत्रं ये᳘न वा इ᳘षोर᳘नीकमे᳘ति स᳘र्वा वै तेने᳘षुरेत्येते᳘नो हास्य स᳘र्वे यज्ञक्रत᳘व एत᳘म् मृत्युम᳘तिमुक्ताः॥

मूलम् - विस्वरम्

यथा वा इषोरनीकम्- एवं यज्ञानामग्निहोत्रम् । येन वा इषोरनीकमेति, सर्वा वै तेनेषुरेति । एतेनो हास्य सर्वे यज्ञक्रतवः- एतं मृत्युमतिमुक्ताः ॥ १० ॥

सायणः

एवमग्निहोत्रद्वारा इतरयज्ञेष्वतिमुक्तिः सिद्धेति दर्शयति- यथा वा इत्यादिना । ‘यथा’ खलु ‘इषोः’ वाणस्य ‘अनीकम्’ मुखम् प्रधानम्, ‘एवम्’ एव ‘यज्ञानामग्निहोत्रम्’ । ‘येन’ खलु लक्षणेन ‘इषोरनीकं’ शल्यरूपम् ‘एति’ प्राप्नोति ‘तेन’ ‘सर्वा इषुः’ प्राप्नोति एवम् अग्निहोत्रसम्बद्धाः सर्वे दर्शपूर्णमासादयः यज्ञक्रतवः तद्द्वारा सूर्यात्मकं ‘मृत्युम्’ अतिक्रान्ता इत्यर्थः ॥ १० ॥

Eggeling
  1. What the arrow-head is to the arrow, that the Agnihotra is to sacrifices. For whither the head of the arrow flies, thither the whole arrow flies: and so are all his works of sacrifice freed by this (Agnihotra) from that Death.

११

विश्वास-प्रस्तुतिः

(ऽ) अहोरात्रे᳘ ह वा᳘ ऽअमु᳘ष्मिल्ँ लोके᳘ परिप्ल᳘वमाने॥
पु᳘रुषस्य सुकृतं᳘ क्षिणुतो ऽर्व्वा᳘चीनं वा ऽअ᳘तो ऽहोरात्रे त᳘थो हास्याहोरात्रे᳘ सुकृतं न᳘ क्षिणुतः॥

मूलम् - श्रीधरादि

(ऽ) अहोरात्रे᳘ ह वा᳘ ऽअमु᳘ष्मिल्ँ लोके᳘ परिप्ल᳘वमाने॥
पु᳘रुषस्य सुकृतं᳘ क्षिणुतो ऽर्व्वा᳘चीनं वा ऽअ᳘तो ऽहोरात्रे त᳘थो हास्याहोरात्रे᳘ सुकृतं न᳘ क्षिणुतः॥

मूलम् - Weber

अहोरात्रे᳘ ह वा᳘ अमु᳘ष्मिंलोके᳘ परिप्ल᳘वमाने॥
पु᳘रुषस्य सुकृतं᳘ क्षिणुतो ऽर्वाची᳘नं वा अ᳘तो ऽहोरात्रे त᳘थो हास्याहोरात्रे᳘ सुकृतं न᳘ क्षिणुतः॥

मूलम् - विस्वरम्

अहोरात्रे ह वा अमुष्मिल्ँ लोके परिप्लवमाने पुरुषस्य सुकृतं क्षिणुतः । अर्वाचीनं वा अतो ऽहोरात्रे, तथो हास्याहोरात्रे सुकृतं न क्षिणुतः ॥ ११ ॥

सायणः

एवं मृत्योरतिमुक्तिरहोरात्राभ्यामपि यजमानेन ज्ञातव्येति प्रतिपादयति- अहोरात्रे हेति । ‘परिप्लवमाने’ पर्य्यावर्त्तमाने ‘अहोरात्रे’ आमुष्मिकं स्वर्गादिसुखहेतुभूतं ‘सुकृते’ कर्म्म ‘क्षिणुतः’ क्षपयतः । यदा तु विद्वान् उदीरितरीत्या सूर्यमतिक्रम्य वर्त्तते, तदा ‘अहोरात्रे’ एवाधीने भवतः; तथा चाहोरात्रानाक्रान्तत्वाद् विदुषः सुकृतं न क्षीयत इत्यर्थः ॥ ११ ॥

Eggeling
  1. Now day and night, revolving, destroy (the fruit of) man’s righteousness in yonder world. But day and night are on this side (of the sun) from him (after he has gone up to heaven); and so day and night do not destroy (the fruit of) his righteousness.

१२

विश्वास-प्रस्तुतिः

स य᳘था रथोपस्थे ति᳘ष्ठन्॥
(न्नु) उप᳘रिष्टाद्रथचक्रे᳘ पल्य᳘ङ्गमाने ऽउपावे᳘क्षेतैवं᳘ पर᳘स्तादर्व्वाची᳘नो ऽहोरात्रे᳘ उपा᳘वेक्षते न᳘ ह वा᳘ ऽअस्याहोरात्रे᳘ सुकृतं᳘ क्षिणुतो य᳘ ऽएव᳘मेता᳘महोरात्र᳘योर᳘तिमुक्तिं व्वे᳘द॥

मूलम् - श्रीधरादि

स य᳘था रथोपस्थे ति᳘ष्ठन्॥
(न्नु) उप᳘रिष्टाद्रथचक्रे᳘ पल्य᳘ङ्गमाने ऽउपावे᳘क्षेतैवं᳘ पर᳘स्तादर्व्वाची᳘नो ऽहोरात्रे᳘ उपा᳘वेक्षते न᳘ ह वा᳘ ऽअस्याहोरात्रे᳘ सुकृतं᳘ क्षिणुतो य᳘ ऽएव᳘मेता᳘महोरात्र᳘योर᳘तिमुक्तिं व्वे᳘द॥

मूलम् - Weber

स य᳘था रथोपस्थे ति᳘ष्ठन्॥
उप᳘रिष्टाद्रथचक्रे᳘ पल्य᳘ङ्यमाने उपावे᳘क्षेतैव᳘म् पर᳘स्तादर्वाची᳘नो ऽहोरात्रे᳘ उपा᳘वेक्षते न᳘ह वा᳘ अस्याहोरात्रे सुकृतं᳘ क्षिणुतो य᳘ एव᳘मेता᳘महोरात्र᳘योर᳘तिमुक्तिं वे᳘द॥

मूलम् - विस्वरम्

स यथा रथोपस्थे तिष्ठन्नुपरिष्टाद् रथचक्रे पल्यङ्गमाने उपावेक्षेत, एवं परस्तादर्वाचीनो ऽहोरात्रे उपावेक्षते, न ह वा अस्याहोरात्रे सुकृतं क्षिणुतः- य एवमेतामहोरात्रयोरतिमुक्तिं वेद ॥ १२ ॥

सायणः

एतदेव दृष्टान्तेनोपपादयति- स यथेति । ‘रथोपस्थे’ रथस्योत्सङ्गे ‘उपरिष्टात्’ ‘तिष्ठन्’ पल्यङ्गमाने पर्यावर्त्तमाने रथचक्रे ‘अर्वाचीनः’ अवाङ्मुखः ‘अवेक्षेत’ । एवं सूर्यमतिक्रम्य स्थितो विद्वानपि सूर्यमण्डलस्याधस्तात्पर्यावर्तमाने अहोरात्रे अवाङ्मुखो ऽवेक्षत इत्यर्थः । न ह वेत्याद्युक्तार्थम् ॥ १२ ॥

Eggeling
  1. And as, while standing inside a chariot, one would look down from above on the revolving chariot-wheels, even so does he look down from on high upon day and night: and, verily, day and night destroy not the reward of him who thus knows that release from day and night.

१३

विश्वास-प्रस्तुतिः

पू᳘र्व्वेणाहवनी᳘यं परीत्य॥
(त्या᳘) अ᳘न्तरेण गा᳘र्हपत्यं चैति न वै᳘ देवा᳘ मनु᳘ष्यं व्विदुस्त᳘ ऽएनमेतद᳘न्तरेणातिय᳘न्तं व्विदुरयं वै᳘ न ऽइदं᳘ जुहोती᳘त्यग्निर्व्वै᳘ पाप्म᳘नो ऽपहन्ता। ता᳘वस्याहवनी᳘यश्च गा᳘र्हपत्यश्चा᳘न्तरेणा᳘तियतः᳘ पाप्मा᳘नम᳘पहतः सो᳘ ऽपहतपाप्मा ज्यो᳘तिरेव᳘ श्रिया य᳘शसा भवति॥

मूलम् - श्रीधरादि

पू᳘र्व्वेणाहवनी᳘यं परीत्य॥
(त्या᳘) अ᳘न्तरेण गा᳘र्हपत्यं चैति न वै᳘ देवा᳘ मनु᳘ष्यं व्विदुस्त᳘ ऽएनमेतद᳘न्तरेणातिय᳘न्तं व्विदुरयं वै᳘ न ऽइदं᳘ जुहोती᳘त्यग्निर्व्वै᳘ पाप्म᳘नो ऽपहन्ता। ता᳘वस्याहवनी᳘यश्च गा᳘र्हपत्यश्चा᳘न्तरेणा᳘तियतः᳘ पाप्मा᳘नम᳘पहतः सो᳘ ऽपहतपाप्मा ज्यो᳘तिरेव᳘ श्रिया य᳘शसा भवति॥

मूलम् - Weber

पू᳘र्वेणाहवनी᳘यम् परीत्य॥
अ᳘न्तरेण गा᳘र्हपत्यं चैति न वै᳘ देवा᳘ मनुष्यं᳘ विदुस्त᳘ एनमेतद᳘न्तरेणातिय᳘न्तं विदुरयं वै᳘ न इदं᳘ जुहोती᳘त्यग्निर्वै᳘ पाप्म᳘नो ऽपहन्ता ता᳘वस्याहवनी᳘यश्च गा᳘र्हपत्यश्चा᳘न्तरेणातियतः᳘ पाप्मा᳘नम᳘पहतः सो᳘ ऽपहतपाप्मा ज्यो᳘तिरेव᳘ श्रिया य᳘शसा भवति॥

मूलम् - विस्वरम्

पूर्वेणाहवनीयं परीत्यान्तरेण गार्हपत्यं चैति । न वै देवा मनुष्यं विदुः । त एनमेतदन्तरेणातियन्तं विदुः- ‘अयं वै न इदं जुहोति’ इति । अग्निर्वै पाप्मनो ऽपहन्ता । तावस्याहवनीयश्च गार्हपत्यश्चान्तरेणातियतः पाप्मानमपहतः सो ऽपहतपाप्मा ज्योतिरेव श्रिया यशसा भवति ॥ १३ ॥

सायणः

होमार्थमन्तरागमनं विधाय प्रशंसति- पूर्वेणेति (का० श्रौ० सू० ४ । ३७३) । दक्षिणेन प्रवेशनमग्निहोत्रेष्टिषु । अयं प्रवेशे द्वारनियमः । आहवनीयस्य पुरस्तात् परिक्रम्य गार्हपत्याहवनीययोर्मध्ये गच्छेदित्यर्थः । तथा च सूत्रितम्- “अन्तरेणापराग्नी गत्वा दक्षिणेन वा प्रदक्षिणमाहवनीयं परीत्योपविशति यजमानः” (का० श्रौ० सू ४ । ३०७) इति । न वै देवा इत्यादि सुगमम् ॥ १३ ॥

Eggeling
  1. [The sacrificer] having gone round the Āhavanīya, (after entering) from the east 6, passes

between (it and) the Gārhapatya (to his seat). For the gods do not know (this) man 7; but when he now passes by them between (the fires), they know him, and think, ‘This is he that now offers to us.’ Moreover, Agni (the fire) is the repeller of evil; and these two, the Āhavanīya and Gārhapatya, repel the evil from him who passes between them; and the evil being repelled from him, he becomes a very light in splendour and glory.

१४

विश्वास-प्रस्तुतिः

(त्यु) उत्तरतो वा᳘ ऽअग्निहोत्र᳘स्य द्वा᳘रम्॥
(ᳫँ᳭) स य᳘था द्वारा᳘ प्रप᳘द्येतैवं तद᳘थ यो᳘ दक्षिणत ऽएत्या᳘स्ते य᳘था बहिर्धा च᳘रेदेवं त᳘त्॥

मूलम् - श्रीधरादि

(त्यु) उत्तरतो वा᳘ ऽअग्निहोत्र᳘स्य द्वा᳘रम्॥
(ᳫँ᳭) स य᳘था द्वारा᳘ प्रप᳘द्येतैवं तद᳘थ यो᳘ दक्षिणत ऽएत्या᳘स्ते य᳘था बहिर्धा च᳘रेदेवं त᳘त्॥

मूलम् - Weber

उत्तरतो वा अग्निहोत्र᳘स्य द्वा᳘रम्॥
स य᳘था द्वारा᳘ प्रप᳘द्येतैवं तद᳘थ यो᳘ दक्षिणत एत्या᳘स्ते य᳘था बहिर्धा च᳘रेदेवं तत्॥

मूलम् - विस्वरम्

उत्तरतो वा अग्निहोत्रस्य द्वारम् । स यथा द्वारा प्रपद्येत- एवं तत् । अथ यो दक्षिणत एत्यास्ते- यथा बहिर्धा चरेद् एवं तत् ॥ १४ ॥

सायणः

उत्तरतो वा इति । यदेतद् ‘दक्षिणेन वा’ इति कात्यायनेन विकल्पेनोक्तम् तद् दूषयति- अथ य इति । अग्निहोत्रहोमार्थमुत्तरस्यां दिशि द्वारप्रवेशोपायः । तथा च उत्तरतः प्रवेशं विहाय गार्हपत्याहवनीययोर्मध्यमनतिक्रम्यैव ‘यः’ यजमानः दक्षिणस्यां दिशि एवागत्य आहवनीयसमीपे ‘आस्ते,’ सो ऽग्निहोत्रं प्रवेष्टुमशक्तो बहिरेवावतिष्ठते; यथा प्राकारपरिवृतस्याश्रमादेर्द्वारदेशमप्राप्य प्रवेष्टुमशक्तो बहिरवस्थितो भवति तद्वदित्यर्थः ॥ १४ ॥

Eggeling
  1. On the north side is the door of the Agnihotra 8: thus (he approaches it) as he would enter (a house) by a door. If, on the other hand, he were to sit down after approaching from the south, it would be as if he walked outside.

१५

विश्वास-प्रस्तुतिः

(न्नौ᳘) नौ᳘र्ह वा᳘ ऽएषा᳘ स्व᳘र्ग्या॥
य᳘दग्निहोत्रं᳘ त᳘स्या ऽएत᳘स्यै नावः᳘ स्व᳘र्ग्याया ऽआहवनी᳘यश्चैव गा᳘र्हपत्यश्च नौमण्डे ऽअ᳘थैष᳘ एव᳘ नावाजो य᳘त्क्षीर᳘होता॥

मूलम् - श्रीधरादि

(न्नौ᳘) नौ᳘र्ह वा᳘ ऽएषा᳘ स्व᳘र्ग्या॥
य᳘दग्निहोत्रं᳘ त᳘स्या ऽएत᳘स्यै नावः᳘ स्व᳘र्ग्याया ऽआहवनी᳘यश्चैव गा᳘र्हपत्यश्च नौमण्डे ऽअ᳘थैष᳘ एव᳘ नावाजो य᳘त्क्षीर᳘होता॥

मूलम् - Weber

नौ᳘र्ह वा᳘ एषा स्वॗर्ग्या॥
य᳘दग्निहोत्रं त᳘स्या एत᳘स्यै नावः᳘ स्वॗर्ग्याया आहवनी᳘यश्चैव गा᳘र्हपत्यश्च नौमण्डे अ᳘थैष एव᳘ नावाजो य᳘त्क्षीर᳘होता॥

मूलम् - विस्वरम्

नौर्ह वा एषा स्वर्ग्या- यदग्निहोत्रम् । तस्या एतस्यै नावः स्वर्ग्याया आहवनीयश्चैव गार्हपत्यश्च नौमण्डे । अथैष एव नावाजो यत्क्षीरहोता ॥ १५ ॥

सायणः

अर्थतदग्निहोत्रं नौरूपेण स्तुवन्नुत्तरतः प्रवेशं प्रतिपादयति- नौर्हेत्यादिना । नौमण्डे इति । ‘स्वर्ग्यायाः’ स्वर्गप्राप्तिहेतुभूतायास्तस्या अग्निहोत्ररूपायाः ‘नावः’ ‘आहवनीयगार्हपत्यौ’ ‘नौमण्डे’ उभे पार्श्वे, भित्ती इत्यर्थः । नावाज इति । नावमजति क्षिपति प्रेरयतीति नावाजः, (कर्णधारः) ॥ १५ ॥

Eggeling
  1. The Agnihotra, truly, is the ship (that sails) heavenwards. The Āhavanīya and Gārhapatya are the two sides 9 of that same heavenward-bound ship; and that milk-offerer is its steersman.

१६

विश्वास-प्रस्तुतिः

स यत्प्रा᳘ङुपोदै᳘ति॥
त᳘देनां प्रा᳘चीमभ्य᳘जति। स्वर्गं᳘ लोक᳘मभि त᳘या स्वर्गं᳘ लोकᳫँ᳭ स᳘मश्नुते त᳘स्या ऽउत्तरत᳘ ऽआरो᳘हण᳘ᳫँ᳭ सैनᳫं᳭ स्वर्गं᳘ लोकᳫं᳭ स᳘मापयत्य᳘थ यो᳘ दक्षिणत ऽएत्या᳘स्ते य᳘था प्र᳘तीर्णायामाग᳘च्छेत्स᳘ व्विहीये᳘त स त᳘त ऽएव᳘ बहिर्धा स्या᳘देवं᳘ तत्॥

मूलम् - श्रीधरादि

स यत्प्रा᳘ङुपोदै᳘ति॥
त᳘देनां प्रा᳘चीमभ्य᳘जति। स्वर्गं᳘ लोक᳘मभि त᳘या स्वर्गं᳘ लोकᳫँ᳭ स᳘मश्नुते त᳘स्या ऽउत्तरत᳘ ऽआरो᳘हण᳘ᳫँ᳭ सैनᳫं᳭ स्वर्गं᳘ लोकᳫं᳭ स᳘मापयत्य᳘थ यो᳘ दक्षिणत ऽएत्या᳘स्ते य᳘था प्र᳘तीर्णायामाग᳘च्छेत्स᳘ व्विहीये᳘त स त᳘त ऽएव᳘ बहिर्धा स्या᳘देवं᳘ तत्॥

मूलम् - Weber

स यत्प्रा᳘ङुपोदै᳘ति॥
तदेनाम् प्रा᳘चीमभ्य᳘जति स्वर्गं᳘ लोक᳘मभि त᳘या स्वर्गं᳘ लोकᳫं स᳘मष्नुते त᳘स्या उत्तरत᳘ आरो᳘हॗणᳫं सैनᳫं स्वर्गं᳘ लोकᳫं स᳘मापयत्य᳘थ यो᳘ दक्षिणत एत्या᳘स्ते य᳘था प्र᳘तीर्णायामाग᳘छेत्स᳘ विहीये᳘त स त᳘त एव᳘ बहिर्धा स्या᳘देवं तत्॥

मूलम् - विस्वरम्

स यत् प्राङुपोदैति- तदेनां प्राचीमभ्यजति- स्वर्गं लोकमभि । तया स्वर्गं लोकं समश्रुते । तस्या उत्तरत आरोहणम् । सैनं स्वर्गं लोकं समापयति । अथ यो दक्षिणत एत्यास्ते- यथा प्रतीर्णायामागच्छेत्, स विहीयेत, स तत एव बहिर्धा स्याद् एवं तत् ॥ १६ ॥

सायणः

स यत् प्राङित्यादि । प्राङ्मुखः सन् गार्हपत्यादाहवनीयं प्रति होमायोपगच्छन् ताम् ‘एनां’ नावं प्राच्यां दिशि अवस्थितं ‘स्वर्गम्’ ‘अभ्यजति’ अभिप्रेरयति । उत्तरत आरोहणमिति । आरुह्यते ऽनेनेत्यारोहणं प्रवेशद्वारम् । ततश्च उत्तरत आरुह्यमाणा सा अग्निहोत्ररूपा नौः एनं यजमानं ‘स्वर्गं लोकं’ सम्यक् प्रापयति । दक्षिणतः प्रवेशने दोषमाह- अथ य इति । नावि ‘प्रतीर्णायां’ सत्यां यस्तरीतुम् ‘आगच्छेत्’ ‘सः’ तत्रैव ‘विहीयेत’ त्यज्येत, ततश्च ‘बहिर्धा’ बाह्यो भवेत्; एवमेव ‘तत्’ दक्षिणतः प्रवेशनमित्यर्थः ॥ १६ ॥

Eggeling
  1. Now when he walks up towards the east, then he steers that (ship) eastwards towards the

heavenly world, and he gains the heavenly world by it. When ascended from the north it makes him reach the heavenly world; but if one were to sit down in it after entering from the south, it would be as if he tried to enter it after it has put off and he were left behind and remained outside.

१७

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ या᳘मेता᳘ᳫं᳘ समि᳘धमभ्याद᳘धाति से᳘ष्टका ये᳘न म᳘न्त्रेण जुहो᳘ति तद्य᳘जुर्येनैतामि᳘ष्टकमुपद᳘धाति यदा वा ऽइ᳘ष्टकोपधीयते ऽथा᳘हुतिर्हूयते त᳘दस्यो᳘पहितास्वेवे᳘ष्टकास्वेता ऽआ᳘हुतयो हूयन्ते या᳘ ऽएता᳘ ऽअग्निहोत्राहुत᳘यः॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ या᳘मेता᳘ᳫं᳘ समि᳘धमभ्याद᳘धाति से᳘ष्टका ये᳘न म᳘न्त्रेण जुहो᳘ति तद्य᳘जुर्येनैतामि᳘ष्टकमुपद᳘धाति यदा वा ऽइ᳘ष्टकोपधीयते ऽथा᳘हुतिर्हूयते त᳘दस्यो᳘पहितास्वेवे᳘ष्टकास्वेता ऽआ᳘हुतयो हूयन्ते या᳘ ऽएता᳘ ऽअग्निहोत्राहुत᳘यः॥

मूलम् - Weber

अ᳘थ या᳘मेता᳘ᳫं᳘ समि᳘धमभ्याद᳘धाति से᳘ष्टका ये᳘न म᳘न्त्रेण जुहो᳘ति तद्य᳘जुर्ये᳘नैतामि᳘ष्टकामुपद᳘धाति यदा वा इ᳘ष्टकोपधीयते ऽथा᳘हुतिर्हूयते त᳘दस्यो᳘पहितास्वेवे᳘ष्टकास्वेता आ᳘हुतयो हूयन्ते या᳘ एता᳘ अग्निहोत्राहुत᳘यः॥

मूलम् - विस्वरम्

अथ यामेतां समिधमभ्यादधाति- सेष्टका । येन मन्त्रेण जुहोति- तद् यजुः । येनैतामिष्टकामुपदधाति- यदा वा इष्टकोपधीयते- अथाहुतिर्हूयते- तदस्योपहितास्वेवेष्टकास्वेता आहुतयो हूयन्ते- या एता अग्निहोत्राहुतयः ॥ १७ ॥

सायणः

अथैतदग्निहोत्रं चित्याग्निसम्पत्त्या स्तौति- अथ यामिति । होमार्थं या समिदग्नौ आधीयते 10, ‘सा’ च ‘इष्टका’; ‘येन’ च मन्त्रेण अग्निहोत्रं ‘जुहोति’ ‘तद्’ एव इष्टकोपधानार्थं ‘यजुः’ । यदा वा इत्यादि । सायम्प्रातःकालेषु समिदाधानमेवेष्टकोपधानम् । तथा चयनसंस्कृते एवाग्नौ सायम्प्रातराहुतयः कार्त्स्न्येन हुता भवन्तीत्यर्थः ॥ १७ ॥

Eggeling
  1. And again, the stick which he puts on the fire (corresponds to) a brick, and the formula wherewith he offers is the Yajus-text wherewith he puts on that brick 11; and when the brick is put on, then a libation is made: hence those same libations of the Agnihotra are offered on his pile of bricks 12.

१८

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्व्वा᳘ ऽअग्निः᳘॥
संव्वत्सरो वै᳘ प्रजा᳘पतिः संव्वत्सरे᳘ संव्वत्सरे ह वा᳘ ऽअस्याग्निहोत्रं चि᳘त्येनाग्नि᳘ना स᳘न्तिष्ठते संव्वत्सरे᳘ संव्वत्सरे चि᳘त्यमग्नि᳘माप्नोति य᳘ ऽएवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘त्येत᳘दु हास्याग्निहोत्रं चित्येनाग्नि᳘ना स᳘न्तिष्ठते चि᳘त्यमग्नि᳘माप्नोति॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्व्वा᳘ ऽअग्निः᳘॥
संव्वत्सरो वै᳘ प्रजा᳘पतिः संव्वत्सरे᳘ संव्वत्सरे ह वा᳘ ऽअस्याग्निहोत्रं चि᳘त्येनाग्नि᳘ना स᳘न्तिष्ठते संव्वत्सरे᳘ संव्वत्सरे चि᳘त्यमग्नि᳘माप्नोति य᳘ ऽएवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘त्येत᳘दु हास्याग्निहोत्रं चित्येनाग्नि᳘ना स᳘न्तिष्ठते चि᳘त्यमग्नि᳘माप्नोति॥

मूलम् - Weber

प्रजा᳘पतिर्वा᳘ अग्निः᳟॥
संवत्सरो वै᳘ प्रजा᳘पतिः संवत्सरे᳘-संवत्सरे ह वा᳘ अस्याग्निहोत्रं चि᳘त्येनाग्निना सं᳘तिष्ठते संवत्सरे᳘-संवत्सरे चि᳘त्यमग्नि᳘माप्नोति य᳘ एवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘त्येत᳘दु हास्याग्निहोत्रं चित्येनाग्नि᳘ना सं᳘तिष्ठते चि᳘त्यमग्नि᳘माप्नोति॥

मूलम् - विस्वरम्

प्रजापतिर्वा अग्निः । संवत्सरो वै प्रजापतिः । संवत्सरे संवत्सरे ह वा अस्याग्निहोत्रं चित्येनाग्निना सन्तिष्ठते । संवत्सरे संवत्सरे चित्यमग्निमाप्नोति- य एवं विद्वानग्निहोत्रं जुहोति, एतदु हास्याग्निहोत्रं चित्येनाग्निना सन्तिष्ठते, चित्यमग्निमाप्नोति ॥ १८ ॥

सायणः

अथ चित्यस्याग्नेः संवत्सररूपतां ब्रुवन् तावत्कालसाध्यस्याग्निहोत्रहोमस्य तत्सम्पत्तिमुपपादयति- प्रजापतिर्वा इति । चित्यो ऽग्निः प्रजापतिना सृष्टत्वात् तदात्मकः, प्रजापतिश्च संवत्सरकालात्मकः; अतः संवत्सरपर्यन्तमभितिष्ठन्तमग्निहोत्रं 10 चित्येनाग्निना समानं सत् ‘संतिष्ठते’ समाप्तं भवति । तथा च एकैकसंवत्सराग्निहोत्रानुष्ठानेन चित्याग्न्यनुष्ठानं कृतं भवतीत्यर्थः ॥ १८ ॥

Eggeling
  1. The fire, assuredly, is Prajāpati,–and Prajāpati is the year. Year after year, therefore, is his Agnihotra consummated with the piled-up fire-altar; and year after year does he obtain the piled-up fire altar, whosoever, knowing this, offers the Agnihotra.

१९

विश्वास-प्रस्तुतिः

सप्त᳘ च वै᳘ शता᳘न्यशीतीनामृ᳘चः॥
(चो) व्विᳫँ᳭शति᳘श्च स य᳘त्सायं᳘ प्रात᳘रग्निहोत्रं᳘ जुहो᳘ति ते द्वे ऽआ᳘हुती ता ऽअस्य संव्वत्सर ऽआ᳘हुतयः स᳘म्पद्यन्ते॥

मूलम् - श्रीधरादि

सप्त᳘ च वै᳘ शता᳘न्यशीतीनामृ᳘चः॥
(चो) व्विᳫँ᳭शति᳘श्च स य᳘त्सायं᳘ प्रात᳘रग्निहोत्रं᳘ जुहो᳘ति ते द्वे ऽआ᳘हुती ता ऽअस्य संव्वत्सर ऽआ᳘हुतयः स᳘म्पद्यन्ते॥

मूलम् - Weber

सप्त᳘ च वै᳘ शता᳘न्यशीतीनामृ᳘चः॥
विंशति᳘श्च स य᳘त्साय᳘म् प्रात᳘रग्निहोत्रं᳘ जुहो᳘ति ते द्वे आहुती ता अस्य संवत्सर आ᳘हुतयः स᳘म्पद्यन्ते॥

मूलम् - विस्वरम्

सप्त च वै शतान्यशीतीनामृचो विंशतिश्च ७२० (५७६००) । स यत् सायंप्रातरग्निहोत्रं जुहोति- ते द्वे आहुती । ता अस्य संवत्सर आहुतयः सम्पद्यन्ते ॥ १९ ॥

सायणः

अथैतदग्निहोत्रं महदुक्थसम्पादनेन स्तौति- सप्त चेति । चित्यो ऽग्निः, महात्रतं साम, बृहतीसहस्रात्मकं महदुक्थं 13 चैतानि त्रीणि सहचराणि । तत्र चित्याग्निसम्पत्तिरुक्ता, महदुक्थसम्पत्तिस्त्वेवमवगन्तव्या [^२_८८];- तत्र हि गायत्री तृचाशीतिः; औष्णिही तृचाशीतिः, बार्हती तृचाशीतिरिति तिस्रस्तृचाशीतयो विहिताः, (ऐ. ब्रा. ५ अ. २ । २ अ. ३-४-५) तासां तिसृणां तृचाशीतीनां सम्भूय परिगणिता ऋचो विंशत्युत्तरसप्तशतसङ्ख्याका भवन्ति ॥

प्रतिदिवसमग्निहोत्रे सायमाहुतिरेका, प्रातराहुतिश्चैकेति द्वे आहुती; संवत्सरस्य च षष्ठ्युत्तरत्रिशतसङ्ख्याका अहोरात्राः, तेषु च क्रियमाणास्ता अग्निहोत्राहुतयो विंशत्युत्तरसप्तशतसङ्ख्याका भवन्ति । अतश्चैकस्मिन् ‘संवत्सरे’ ‘अस्य’ यजमानस्य ‘अग्निहोत्रं’ तृचाशीतित्रयात्मकमहदुक्थेन ‘सम्पद्यते’ सम्पन्नं भवतीत्यर्थः । एतज्ज्ञानपूर्वकानुष्ठानं प्रशंसति- संवत्सरे संवत्सर इति ॥ १९ ॥ २० ॥

Eggeling
  1. Seven hundred and twenty eighties of R̥k-verses (he should recite at the Agnihotra in the course of a year). When he offers the Agnihotra in the morning and evening, then there are two libations: hence those libations of his, in the course of a year, amount to–

२०

विश्वास-प्रस्तुतिः

सप्त᳘ चैव᳘ शता᳘नि व्विᳫँ᳭शति᳘श्च॥
संव्वत्सरे᳘ संव्वत्सरे ह वा᳘ ऽअस्याग्निहोत्रं मह᳘तोक्थे᳘न स᳘म्पद्यते संव्वत्सरे᳘ संव्वत्सरे मह᳘दुक्थ᳘माप्नोति य᳘ ऽएवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘त्येत᳘दु हास्याग्निहोत्रं᳘ मह᳘तोक्थे᳘न स᳘म्पद्यते मह᳘दुक्थ᳘माप्नोति॥

मूलम् - श्रीधरादि

सप्त᳘ चैव᳘ शता᳘नि व्विᳫँ᳭शति᳘श्च॥
संव्वत्सरे᳘ संव्वत्सरे ह वा᳘ ऽअस्याग्निहोत्रं मह᳘तोक्थे᳘न स᳘म्पद्यते संव्वत्सरे᳘ संव्वत्सरे मह᳘दुक्थ᳘माप्नोति य᳘ ऽएवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘त्येत᳘दु हास्याग्निहोत्रं᳘ मह᳘तोक्थे᳘न स᳘म्पद्यते मह᳘दुक्थ᳘माप्नोति॥

मूलम् - Weber

सप्त᳘ चैव᳘ शता᳘नि विंशति᳘श्च॥
संवत्सरे संवत्सरे ह वा᳘ अस्याग्निहोत्र᳘म् मह᳘तोक्थे᳘न स᳘म्पद्यते संवत्सरे᳘ संवत्सरे मह᳘दुक्थ᳘माप्नोति य᳘ एवं᳘ विद्वा᳘नग्निहोत्र᳘म् जुहो᳘त्येत᳘दु हास्याग्निहोत्र᳘म् मह᳘तोक्थे᳘न स᳘म्पद्यते मह᳘दुक्थ᳘माप्नोति॥

मूलम् - विस्वरम्

सप्त चैव शतानि विंशतिश्च । संवत्सरे-संवत्सरे ह वा अस्याग्निहोत्रं महतोक्थेन सम्पद्यते । संवत्सरे-संवत्सरे महदुक्थमाप्नोति- य एवं विद्वानग्निहोत्रं जुहोति- एतदु हास्याग्निहोत्रं महतोक्थेन सम्पद्यते- महदुक्थमाप्नोति ॥ २० ॥

सायणः

[व्याख्यानं नवदशे]

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे तृतीयाध्यायस्य तृतीयं ब्राह्मणम् (२-३-३) ॥

Eggeling
  1. Seven hundred and twenty. Thus, indeed, his Agnihotra is accomplished, year after year, with the great chant 14; and year after year does he obtain

the great chant, whosoever, knowing this, offers the Agnihotra.


  1. 342:1 Ity ābilam āsa, i.e. ’there was a (general rush) to a hole,’ (or perhaps ’to the outlet.’) ↩︎

  2. “धृष्टिरसीत्युपवेषमादायापाग्न इत्यंगारान् प्राचः करोति" इति सूत्रभाष्ये कर्कोद्धृता श्रुतिः । अपि च । अग्न्युत्सर्गे दोषो दृश्यते इत्युपक्रम्य “वीरहा वा स एष भवति यो ऽग्नीनुत्सृजति” इति। “वीरः अग्निः” । अग्निधारणं पुरुषधर्मः । ↩︎

  3. 343:1 Viz. inasmuch as the householder, by the Ādhāna, produces, generates Agni. ↩︎

  4. संत्स्य A. ↩︎

  5. सं᳘म्रियते AB., and यदा᳘ य᳘दैव᳘ A. (! instead of यदा᳘-यदैव᳘; the accent under the व is wanting by a misprint. ↩︎

  6. 344:1 According to Kāty. IV, 13, 12 [and Schol.], the householder [after taking out the fires and performing his regular twilight adoration (sandhyā), that is, muttering the Sāvitrī, Rig-veda III, 62, 10 (see Śat. Br. II, 3, 4, 39); when the sun has half disappeared or until it becomes visible; cf. Āśval. Gr̥hyas. XX, 3, 7] passes between the Gārhapatya and Dakshiṇa fires, or south of them, [enters the Āhavanīya house by the east door], circumambulates the fire from right to left (apadakshiṇam), and sits down in his place (south of the Āhavanīya fire and altar). The same circumambulation is performed by the wife, who thereupon sits down in her place, south-west of the Gārhapatya. ↩︎

  7. 345:1 Or, ’the gods are not aware of (this) man’ (na vai devā manushyaṁ viduḥ). The gods are supposed to be assembled around the altar; see I, 3, 3, 8. ↩︎

  8. 345:2 I do not understand this, there being no door on the north side of the Āhavanīya fire-house. According to the commentator this passage is directed against those who make the sacrificer betake himself to the Āhavanīya from (or along) the south; and he quotes the words ‘dakshiṇena vā’ from Kātyāyana, apparently IV, 13, 12, where it is said that the sacrificer, in going to the Āhavanīya, has to pass between the two western fires, ‘or south of them.’ ↩︎

  9. 345:3 ‘Naumaṇḍe’ ? according to the commentator = bhittī (the two walls or sides). The Petersb. Dict. proposes ’the two rudders (or oars).’ ↩︎

  10. मध्ये निगृह्योपविश्य समिधमादधात्यग्निज्योतिषं त्वा वायुमती प्राणवती ँ स्वर्ग्या ँ स्वर्ग्यायोपदधामि भास्वतीम् इति । का. श्रौ. सू. ४ । ३२७ । ↩︎ ↩︎

  11. 346:1 Viz. at the Agnicayana, or piling up of the brick-altars at the Soma-sacrifice. As to the putting on of the stick, see II, 3, i, 17. The Kāṇva text of the Vāj. S. (but not that of the Brāhm.) gives the formula ‘Agnijyotishaṁ (Sūryajyotishaṁ, in the morning) tvā vāyumatīm,’ &c. See Kāty. IV, 14, i3; 15, 9. ↩︎

  12. 346:2 After the completion of the fifth, and last, layer of the brick-altar, oblations of various materials are made thereon; especially the Śatarudriyahoma, consisting of 425 single oblations; Śat. Br. IX, 1, 1, 1 seq., 2, 1, 1 seq. ↩︎

  13. ‘बृहदुक्थं’ इति क्व. । ↩︎

  14. 346:3 The mahad (or, br̥had) uktha or great chant, which marks the conclusion of the Agnicayana, consists of 3 × 80 tr̥cas (strophes of three verses each), or together 720 verses. On the frequent use of number 80 in the fire-ritual, see Weber, Ind. Stud. XIII, p. 167. ↩︎