०१
विश्वास-प्रस्तुतिः
एता᳘ ह वै᳘ देव᳘ता यो᳘ ऽस्ति॥
त᳘स्मिन्वसन्ती᳘न्द्रो यमो रा᳘जा नडो᳘ नैषिधो᳘ ऽनश्नन्त्साङ्गमनो᳘ ऽसन्पाᳫ᳭सवः॥
मूलम् - श्रीधरादि
एता᳘ ह वै᳘ देव᳘ता यो᳘ ऽस्ति॥
त᳘स्मिन्वसन्ती᳘न्द्रो यमो रा᳘जा नडो᳘ नैषिधो᳘ ऽनश्नन्त्साङ्गमनो᳘ ऽसन्पाᳫ᳭सवः॥
मूलम् - Weber
एता᳘ ह वै᳘ देव᳘ता यो᳘ ऽस्ति॥
त᳘स्मिन्वसन्ती᳘न्द्रो यमो रा᳘जा नडो᳘ नैषिधो᳘ ऽनश्नन्त्सांगमनो᳘ ऽसन्पांसवः॥
मूलम् - विस्वरम्
उपस्थानम् ।
एता ह वै देवता- यो ऽस्ति तस्मिन्वसन्ति- इन्द्रो, यमो, राजा नडो नैषिधः, अनश्नन्त्साङ्गमनः, असन् पांसवः ॥ १ ॥
सायणः
अथाग्न्युपस्थानं विधित्सुस्तेषामग्नीनाञ्च दैवतरूपतामाह- एता ह वा इति । ‘यो ऽस्ति’ यो यजमानो विद्यते, तस्मिन् ‘एताः’ वक्ष्यमाणा देवता निवसन्ति । ताश्च 1 “इन्द्रः, यमः, नडः, नैषिधः" इति । निषधदेशाधिपतिर्नलः प्रसिद्धो राजा । ‘अनश्नन्त्सङ्गमनः’ 2 इति सभ्यो ऽग्निरुच्यते ‘असन् पांसवः’- इत्यावसथ्यः ॥ १ ॥
Eggeling
०२
विश्वास-प्रस्तुतिः
(स्त) तद्वा᳘ ऽएष᳘ ऽएवे᳘न्द्रः॥
(न्द्रो) य᳘दाहवनीयो᳘ ऽथैष᳘ ऽएव गा᳘र्हपत्यो यमो राजा᳘ ऽथैष᳘ ऽएव᳘ नडो᳘ नैषिधो य᳘दन्वाहार्य्यप᳘चनस्तद्य᳘देतम᳘हरहर्दक्षिणत᳘ ऽआह᳘रन्ति त᳘स्मादाहुर᳘हरहर्व्वै᳘ नडो᳘ नैषिधो᳘ यमᳫँ᳭ रा᳘जानं दक्षिणत उ᳘पनयतीति॥
मूलम् - श्रीधरादि
(स्त) तद्वा᳘ ऽएष᳘ ऽएवे᳘न्द्रः॥
(न्द्रो) य᳘दाहवनीयो᳘ ऽथैष᳘ ऽएव गा᳘र्हपत्यो यमो राजा᳘ ऽथैष᳘ ऽएव᳘ नडो᳘ नैषिधो य᳘दन्वाहार्य्यप᳘चनस्तद्य᳘देतम᳘हरहर्दक्षिणत᳘ ऽआह᳘रन्ति त᳘स्मादाहुर᳘हरहर्व्वै᳘ नडो᳘ नैषिधो᳘ यमᳫँ᳭ रा᳘जानं दक्षिणत उ᳘पनयतीति॥
मूलम् - Weber
तद्वा᳘ एष᳘ एवे᳘न्द्रः॥
य᳘दाहवनीयो᳘ ऽथैष᳘ एव गा᳘र्हपत्यो यमो राजा᳘थैष एव᳘ नडो᳘ नैषिधो य᳘दन्वाहार्यप᳘चनस्तद्य᳘देतम᳘हरहर्दक्षिणत᳘ आह᳘रन्ति त᳘स्मादाहुर᳘हरहर्वै᳘ नडो᳘ नैषिधो᳘ यमं रा᳘जानं दक्षिणत उ᳘पनयतीति॥
मूलम् - विस्वरम्
तद्वा एष एवेन्द्रो- यदाहवनीयः । अथैष एव गार्हपत्यो यमो राजा । अथैष एव नडो नैषिधोयदन्वाहार्यपचनः । तद्यदेतमहरहर्दक्षिणत आहरन्ति । तस्मादाहुः- अहरहर्वै नडो नैषिधो यमं राजानं दक्षिणत उपनयतीति ॥ २ ॥
सायणः
एवं 1 तच्छिष्टानां स्वरूपप्रतिपादनं तद्वा इत्यादिना क्रियते । ‘अन्वाहार्यपचनः’ अग्निः, ‘एष एव’ ‘नडः’ नलः, ‘नैषिधः’- इति निर्द्दिष्टः । निषिधराजस्य च नलस्य, दक्षिणाम्नेश्च साम्यमाह- तद्यदिति । अग्निहोत्रहोमकाले ‘एतम्’ अन्वाहार्यपचनं ‘यद्’ यस्मात् ‘दक्षिणतः अहरहः आहरन्ति’ तस्मादेव ‘नैषिधः’ नलो ऽपि यमस्य राज्ञः ‘दक्षिणतः’ उपगच्छतीति लोकप्रसिद्धिरित्यर्थः ॥ २ ॥
Eggeling
- Now Indra, in truth, is the same as the Āhavanīya; and king Yama is the same as the Gārhapatya; and Naḍa Naishadha is the same as the Anvāhāryapacana (Dakshiṇa fire); and because day by day they take that (fire) to the south, therefore indeed they say that day by day Naḍa Naishadha carries king Yama 5 (further) south.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘ ऽएष᳘ सभा᳘यामग्निः᳘॥
(रे) एष᳘ ऽएवा᳘नश्नन्त्साङ्गमनस्तद्य᳘देतम᳘नशित्वेवोपसङ्ग᳘च्छन्ते त᳘स्मादेषो᳘ ऽनश्नन्न᳘थ य᳘देतद्भ᳘स्मोद्धृत्य परावपन्त्येष᳘ ऽएवा᳘सन्पाᳫंसवः स यो᳘ हैव᳘मेतद्वे᳘दैवं म᳘य्येता᳘ देवता व्वसन्ती᳘ति स᳘र्व्वान्है᳘वैताल्ँ᳘लोकाञ्ज᳘यति स᳘र्व्ँ वाल्लोका᳘ननुस᳘ञ्चरति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘ ऽएष᳘ सभा᳘यामग्निः᳘॥
(रे) एष᳘ ऽएवा᳘नश्नन्त्साङ्गमनस्तद्य᳘देतम᳘नशित्वेवोपसङ्ग᳘च्छन्ते त᳘स्मादेषो᳘ ऽनश्नन्न᳘थ य᳘देतद्भ᳘स्मोद्धृत्य परावपन्त्येष᳘ ऽएवा᳘सन्पाᳫंसवः स यो᳘ हैव᳘मेतद्वे᳘दैवं म᳘य्येता᳘ देवता व्वसन्ती᳘ति स᳘र्व्वान्है᳘वैताल्ँ᳘लोकाञ्ज᳘यति स᳘र्व्ँ वाल्लोका᳘ननुस᳘ञ्चरति॥
मूलम् - Weber
अ᳘थ य᳘ एष᳘ सभा᳘यामग्निः᳟॥
एष᳘ एवा᳘नश्नन्त्सांगमनस्तद्य᳘देतम᳘नशित्वेवोपसंग᳘छन्ते त᳘स्मादेषो᳘ ऽनश्नन्न᳘थ य᳘देतद्भ᳘स्मोद्धृ᳘त्य पराव᳘पन्त्येष᳘ एवा᳘सन्पांसवः स यो᳘ हैव᳘मेतद्वे᳘दैवम् म᳘य्येता᳘ देव᳘ता वसन्ती᳘ति स᳘र्वान्हैॗवैतां᳘लोकाञ्ज᳘यति स᳘र्वालोका᳘ननुसं᳘चरति॥
मूलम् - विस्वरम्
अथ य एष सभायामग्निः- एष एवानश्नन्त्साङ्गमनः । तद् यदेतमनशित्वेवोपसङ्गच्छन्ते- तस्मादेषो ऽनश्नन् । अथ यदेतद् भस्मोद्धृत्य परावपन्ति, एष एवासन् पांसवः । स यो हैवमेतद्वेद- ‘एवं मय्येता देवता वसन्तीति’ सर्वान् हैवैताँलोकान् जयति, सर्वांल्लोकाननुसञ्चरति ॥ ३ ॥
सायणः
अथ य एष सभायामग्निः, एष एवानश्नन्निति 1 । ‘एषः’ सभ्यो ऽग्निः, अनशित्वैव प्रातः सभ्यैः सङ्गम्यत इति व्युत्पत्त्या अनश्नन्त्सङ्गमनसंबन्धात्सङ्गमन इति च पदद्वयेन प्रतिपाद्यत इत्यर्थः । भस्मोद्धृत्येति 2 । गार्हपत्याहवनीयादिगतं भस्म उद्गृह्य यत्, प्रातरेव आवसथे ‘परावपन्ति’ । एष एवासन्निति । मस्मनः पांसुतुल्यत्वात् ‘पांसवः’ भस्मरूपाः पांसुसम्बन्धिनश्च । एवं पञ्चानामग्नीनामिन्द्रादिदेवतात्मकत्वं प्रतिपाद्य एतद्वेत्तुः फलमाह- स य इति ॥ ३ ॥
Eggeling
- And again what fire there is in the hall (sabhā), that is the same as Anaśnat Sāṅgamana: Anaśvat (not eating) it is for the reason that people
approach it before they eat. And that (place) where they throw the ashes they remove (from the fireplaces) is the same as Asat Pāṁsava. And whosoever knows this, thus gains all those worlds, traverses all those worlds, thinking, ‘In me those gods reside.’
०४
विश्वास-प्रस्तुतिः
ते᳘षामुपस्था᳘नम्॥
य᳘देव᳘ सायं᳘ प्रात᳘राहवनी᳘यमु᳘प च ति᳘ष्ठत ऽउ᳘प चा᳘स्ते त᳘देव त᳘स्योपस्था᳘नम᳘थ य᳘देव᳘ प्रतिपरे᳘त्य गा᳘र्हपत्यमा᳘स्ते वा शे᳘ते वा त᳘देव त᳘स्योपस्था᳘नम᳘थ य᳘त्रैव᳘ संव्र᳘जन्नन्वाहार्यप᳘चनमुपस्म᳘रेत्त᳘देव तं म᳘नसो᳘पतिष्ठेत᳘ तदेव त᳘स्योपस्था᳘नम्॥
मूलम् - श्रीधरादि
ते᳘षामुपस्था᳘नम्॥
य᳘देव᳘ सायं᳘ प्रात᳘राहवनी᳘यमु᳘प च ति᳘ष्ठत ऽउ᳘प चा᳘स्ते त᳘देव त᳘स्योपस्था᳘नम᳘थ य᳘देव᳘ प्रतिपरे᳘त्य गा᳘र्हपत्यमा᳘स्ते वा शे᳘ते वा त᳘देव त᳘स्योपस्था᳘नम᳘थ य᳘त्रैव᳘ संव्र᳘जन्नन्वाहार्यप᳘चनमुपस्म᳘रेत्त᳘देव तं म᳘नसो᳘पतिष्ठेत᳘ तदेव त᳘स्योपस्था᳘नम्॥
मूलम् - Weber
ते᳘षामुपस्था᳘नम्॥
य᳘देव᳘ साय᳘म् प्रात᳘राहवनी᳘यमु᳘प 6 च ति᳘ष्ठत उ᳘प चा᳘स्ते त᳘देव त᳘स्योपस्था᳘नम᳘थ य᳘देव᳘ प्रतिपरे᳘त्य गा᳘र्हपत्यमा᳘स्ते वा शे᳘ते वा त᳘देव त᳘स्योपस्था᳘नम᳘थ य᳘त्रैव᳘ संव्र᳘जन्नन्वाहार्यप᳘चनमुपस्म᳘रेत्त᳘देव तम् म᳘नसो᳘पतिष्ठेत त᳘देव त᳘स्योपस्था᳘नम्॥
मूलम् - विस्वरम्
“तेषामुपस्थानम्” । यदेव सायं- प्रातराहवनीयमुपं च तिष्ठते, उप चास्ते- तदेव तस्योपस्थानम् । अथ यदेव प्रतिपरेत्य गार्हपत्यम् आस्ते वा शेते वा- तदेव तस्योपस्थानम् । अथ यत्रैव संव्रजन्नन्वाहार्यपचनमुपस्मरेत्- तदेव तं मनसोपतिष्ठेत, तदेव तस्योपस्थानम् ॥ ४ ॥
सायणः
तेषामुपस्थानमिति । वक्ष्यत इति शेषः । आहवनीयस्य समीपे ऽवस्थानमासनं 7 वा क्रियते; ‘तदेव तस्योपस्थानम्’ तस्याग्नेस्तदेवोपस्थानमित्यर्थः । प्रतिपरेत्य आवहनीयागारात् प्रतिनिवर्त्य गर्हिपत्यसमीपे यदासनं वा शयनं वा क्रियते ‘तदेव तस्योपस्थानम्’ । संव्रजन्निति । यत्र देशान्तरे प्रवसद्यजमानः अहरहः पाठकसमये तत्साधनभूतं स्वकीयान्वाहार्यपचनं स्यात्, तत्रैव ‘तं मनसोपतिष्ठेत’ ‘तदेव तस्योपस्थानम्’ 8 अग्निहोत्रं स्वाङ्गस्यापि तस्य सम्पद्यत इत्यर्थः ॥ ४ ॥
Eggeling
- Now as to rendering homage to (upasthāna, lit. standing near) these (fires). When in the evening and morning (after the Agnihotra) he stands by the Āhavanīya, and sits down by it, that is the homage rendered to that (fire). And when, on stepping back to the Gārhapatya, he either sits or lies down, that is the homage rendered to that (fire). And when, in walking (out of the sacrificial ground), he remembers the Anvāhāryapacana, and thus, in his mind, tarries near it, that is the homage rendered to that (fire).
०५
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थ प्रातः॥
(र᳘) अ᳘नशित्वा मुहूर्त्त᳘ᳫँ᳘ सभा᳘यामासित्वा᳘पि का᳘मं प᳘ल्ययेत᳘ त᳘देव तस्योपस्था᳘नम᳘थ य᳘त्रैव भस्मो᳘द्धृतमुपनिग᳘च्छेत्त᳘देव त᳘स्योपस्था᳘नमेव᳘मु हास्यैता᳘ देव᳘ता ऽउ᳘पस्थिता भवन्ति॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थ प्रातः॥
(र᳘) अ᳘नशित्वा मुहूर्त्त᳘ᳫँ᳘ सभा᳘यामासित्वा᳘पि का᳘मं प᳘ल्ययेत᳘ त᳘देव तस्योपस्था᳘नम᳘थ य᳘त्रैव भस्मो᳘द्धृतमुपनिग᳘च्छेत्त᳘देव त᳘स्योपस्था᳘नमेव᳘मु हास्यैता᳘ देव᳘ता ऽउ᳘पस्थिता भवन्ति॥
मूलम् - Weber
अ᳘थ प्रातः॥
अ᳘नशित्वा मुहूर्त᳘ᳫं᳘ सभा᳘यामासित्वा᳘पि का᳘मम् प᳘ल्ययेत त᳘देव त᳘स्योपस्था᳘नम᳘थ य᳘त्रैव भस्मो᳘द्धृतमुपनिग᳘छेत्त᳘देव त᳘स्योपस्था᳘नमेव᳘मु हास्यैता᳘ देव᳘ता उ᳘पस्थिता भवन्ति॥
मूलम् - विस्वरम्
अथ प्रातरनशित्वा मुहूर्तं सभायामासित्वापि कामं पल्ययेत- तदेव तस्योपस्थानम् । अथ यत्रैव भस्मोद्धृतमुपनिगच्छेत्- तदेव तस्योपस्थानम् । एवमु हास्यैता देवता उपस्थिता भवन्ति ॥ ५ ॥
सायणः
अथ प्रातरिति । सभायामासित्वेति । भोजनात् प्रागेव ‘मुहूर्तं’ ‘सभायाम्’ उपविश्य, पश्चात् यथेच्छं ‘पल्ययेत’ परिगमनं कुर्वीत 7 ‘तत्’ आसनं ‘तस्य’ सभ्याग्नेः ‘उपस्थानम्’ । उद्धृतमस्मोपनिगमनमेव आवसथ्योपस्थापनम् (का. श्रौ. सू. ४ । ३७७) ॥ ५ ॥
Eggeling
- And again, before taking food in the morning, having sat down for a moment in the hall, he may also, if he like, walk round (the Sabhya or hall-fire),–and this is the homage rendered to that (fire). And when he steps near where lie the ashes removed (from the fire-places) that is the homage rendered to that (fire). And thus homage has been rendered to those deities of his.
०६
विश्वास-प्रस्तुतिः
यजमानदेव᳘त्यो वै गा᳘र्हपत्यः॥
(त्यो᳘ ऽथै) अ᳘थैष᳘ भ्रातृव्यदेव᳘त्यो य᳘दन्वाहार्यप᳘चनस्त᳘स्मादेतं ना᳘हरहरा᳘हरेयुर्न᳘ ह वा᳘ ऽअस्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ व्विदु᳘ष ऽएतं ना᳘हरहराह᳘रन्त्यन्वाहार्यप᳘चनो वा᳘ ऽएषः᳘॥
मूलम् - श्रीधरादि
यजमानदेव᳘त्यो वै गा᳘र्हपत्यः॥
(त्यो᳘ ऽथै) अ᳘थैष᳘ भ्रातृव्यदेव᳘त्यो य᳘दन्वाहार्यप᳘चनस्त᳘स्मादेतं ना᳘हरहरा᳘हरेयुर्न᳘ ह वा᳘ ऽअस्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ व्विदु᳘ष ऽएतं ना᳘हरहराह᳘रन्त्यन्वाहार्यप᳘चनो वा᳘ ऽएषः᳘॥
मूलम् - Weber
यजमानदेव᳘त्यो वै गा᳘र्हपत्यः॥
अ᳘थैष᳘ भ्रातृव्यदेव᳘त्यो य᳘दन्वाहार्यप᳘चनस्त᳘स्मादेतं ना᳘हरहरा᳘हरेयुर्न᳘ ह वा᳘ अस्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ विदु᳘ष एतं ना᳘हरहराह᳘रन्त्यन्वाहार्यप᳘चनो वा᳘ एषः᳟॥
मूलम् - विस्वरम्
यजमानदेवत्यो वै गार्हपत्यः । अथैष भ्रातृव्यदेवत्यो यदन्वाहार्यपचनः । तस्मादेतं नाहरहराहरेयुः न ह वा अस्य सपत्ना भवन्ति । यस्यैवं- विदुष एतं नाहरहराहरन्ति- अन्वाहार्यपचनो वा एषः ॥ ६ ॥
सायणः
यदेतदन्वाहार्यस्याहरहर्दक्षिणत आहरणम्, तदुपवसथ एवाहनि कर्त्तव्यं नान्यत्रेति विधित्सुराह- यजमानदेवत्यो वा इति । अहरहराहरणे 9 यजमानस्य शत्रुदेहसम्बन्धिता भवतीत्यर्थः । “अन्वाहार्यपचनः”- इति यौगिकी संज्ञा, तस्मात् सो ऽन्वाहार्यः ॥ ६ ॥
Eggeling
- Now the Gārhapatya (householder’s fire) has the sacrificer for its deity; and the Anvāhāryapacana (southern fire) has his foe for its deity: hence they should not take over that (southern fire) every day (from the Gārhapatya); and he indeed has no enemies, for whomsoever, knowing this, they do not take it over every day. Indeed, it is the Anvāhāryapacana 10.
०७
विश्वास-प्रस्तुतिः
(ऽ) उपवसथ᳘ ऽएवैनमा᳘हरेयुः॥
(र्य᳘) य᳘त्रै᳘वास्मिन्यक्ष्य᳘न्तो भ᳘वन्ति त᳘थो हास्यैषो᳘ ऽमोघाया᳘हृतो भ᳘वति॥
मूलम् - श्रीधरादि
(ऽ) उपवसथ᳘ ऽएवैनमा᳘हरेयुः॥
(र्य᳘) य᳘त्रै᳘वास्मिन्यक्ष्य᳘न्तो भ᳘वन्ति त᳘थो हास्यैषो᳘ ऽमोघाया᳘हृतो भ᳘वति॥
मूलम् - Weber
उपवसथ᳘ एॗवैनमा᳘हरेयुः॥
य᳘त्रैॗवास्मिन्यक्ष्य᳘न्तो भ᳘वन्ति त᳘थो हास्यैषो᳘ ऽमोघाया᳘हृतो भवति॥
मूलम् - विस्वरम्
उपवसथ एवैनमाहरेयुः । यत्रैवास्मिन्यक्ष्यन्तो भवन्ति । तथो हास्यैषो ऽमोघायाहृतो भवति ॥७॥
सायणः
उपवसथ 9 इति ओदनो यस्मिन्नहनि अग्नौ पक्तव्यः । तत्रैवोपवसथे ऽहनि तस्योद्धरणं 11 कर्त्तव्यमित्यर्थः । अमोघायेति 12 । सप्रयोजनायेत्यर्थः ॥ ७ ॥
Eggeling
- Let them only take it over on the fast-day (of the new and full-moon sacrifice), when they are about to sacrifice on this (the Āhavanīya fire): thus that (southern) one is taken over in order to prevent failure on his (the sacrificer’s) part.
०८
विश्वास-प्रस्तुतिः
नवावसिते᳘ वैनमा᳘हरेयुः॥
(स्त᳘) त᳘स्मिन्पचेयुस्त᳘द्ब्राह्मणा᳘ ऽअश्नीयुर्य᳘द्यु तन्न᳘ विन्देद्यत्प᳘चेद᳘पि गो᳘रेव᳘ दुग्धम᳘धिश्रयितवै᳘ ब्रूयात्त᳘स्मिन्ब्राह्मणान्पाययितवै᳘ ब्रूयात्पा᳘पीयाᳫँ᳭सो ह वा᳘ ऽअस्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ व्विदुष एवं᳘ कुर्व्व᳘न्ति त᳘स्मादेव᳘मेव᳘ चिकीर्षेत्॥
मूलम् - श्रीधरादि
नवावसिते᳘ वैनमा᳘हरेयुः॥
(स्त᳘) त᳘स्मिन्पचेयुस्त᳘द्ब्राह्मणा᳘ ऽअश्नीयुर्य᳘द्यु तन्न᳘ विन्देद्यत्प᳘चेद᳘पि गो᳘रेव᳘ दुग्धम᳘धिश्रयितवै᳘ ब्रूयात्त᳘स्मिन्ब्राह्मणान्पाययितवै᳘ ब्रूयात्पा᳘पीयाᳫँ᳭सो ह वा᳘ ऽअस्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ व्विदुष एवं᳘ कुर्व्व᳘न्ति त᳘स्मादेव᳘मेव᳘ चिकीर्षेत्॥
मूलम् - Weber
नवावसिते᳘ 9 वैनमा᳘हरेयुः॥
त᳘स्मिन्पचेयुस्त᳘द्ब्राह्मणा᳘ अश्नीयुर्य᳘द्यु तन्न᳘ विन्देद्यत्प᳘चेद᳘पि गो᳘रेव᳘ दुग्धमधिश्रयितवै᳘ ब्रूयात्त᳘स्मिन्ब्राह्मणान्पा᳘ययितवै᳘ ब्रूयात्पा᳘पीयांसो ह वा᳘ अस्य सप᳘त्ना भवन्ति य᳘स्यैवं᳘ विदु᳘ष एवं᳘ कुर्व᳘न्ति त᳘स्मादेव᳘मेव᳘ चिकीर्षेत्॥
मूलम् - विस्वरम्
नवावसथे वैनमाहरेयुः । तस्मिन् पचेयुः; तद् ब्राह्मणा अश्नीयुः । यद्यु तन्न विन्देद् यत् पचेद्, अपि गोरेव दुग्धमधिश्रयितवै ब्रूयात्, तस्मिन् ब्राह्मणान् पाययितवै ब्रूयात् । पापीयांसो ह वा अस्य सपत्ना भवन्ति, यस्यैवं- विदुष एवं कुर्वन्ति । तस्मादेवमेव चिकीर्षेत् ॥ ८ ॥
सायणः
पक्षान्तरमाह- नवावसथेवेति । नव आवसथो नवावसथः 9 नूतनं स्थानम् । प्राप्य ‘एनम्’ अन्वाहार्यपचनम् ‘आहरेयुः’ । आहरणप्रयोजनमाह- तस्मिन्निति 11 । यद्यु तन्नविन्देदिति 12 । पक्तव्यालाभे गोर्दुग्ध्वा पय एव तस्मिन्नग्नौ ‘अधिश्रथितवै’ अधिश्रयितुं ‘ब्रूयात्’ तुमर्थे तवै प्रत्ययः । (पा० सू० ३ । ४ । ९) एवञ्चान्वाहार्यपचनस्याहरहर्दक्षिणत आहरणमित्येकः पक्षः । यत्तु देशान्तरे प्रवसन् यजमानः अहरहः पाकसमये तत्साधनभूतं स्वकीयमन्वाहार्थपचनं स्मरेत् उपवसथ एवेति द्वितीयः; नवावसथे वेति तृतीयः । सूत्रकृता ऽप्युक्तम्- “आहरणमेकेषामुपवसथे नवावसथे वा तस्मिन् पचेयुरमांसम्, पाक्याभावे गोः पयो ऽधिश्रयितवै ब्रूयात् ‘इति’ एवमन्वाहार्यपचनस्य न प्रतिदिवसमाहरणं किंतूपवसथे नवावसथे वेति यदुक्तम् तस्य फलमाह- पापीयांस इति । अन्वाहार्यपचनस्य भ्रातृव्यस्थानीयत्वात् तस्य प्रतिदिवसमाहरणाभावात् शत्रुक्षयो भवतीत्यर्थः ॥ ८ ॥
Eggeling
- Or they may also take it over to a new dwelling; and let them then cook on it food (other than meat) for the priests to eat. And should he not be able to procure anything to cook, let him order the milk of a cow to be put thereon and let the priests be asked to drink it. And his enemies will indeed fare ill, for whomsoever, knowing this, they do so: let him, therefore, endeavour by all means to do so.
०९
विश्वास-प्रस्तुतिः
(त्त) तद्य᳘त्रैत᳘त्प्रथमᳫँ᳭ स᳘मिद्धो भ᳘वति॥
धूप्य᳘त ऽइव त᳘र्हि हैष᳘ भवति रुद्रः स यः᳘ काम᳘येत य᳘थेमा᳘ रुद्रः᳘ प्रजा ऽअ᳘श्रद्धयेव त्वत्स᳘हसेव त्वन्निघा᳘तमिव त्वत्स᳘चत ऽएवम᳘न्नमद्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ व्विद्वांस्त᳘र्हि जुहोति॥
मूलम् - श्रीधरादि
(त्त) तद्य᳘त्रैत᳘त्प्रथमᳫँ᳭ स᳘मिद्धो भ᳘वति॥
धूप्य᳘त ऽइव त᳘र्हि हैष᳘ भवति रुद्रः स यः᳘ काम᳘येत य᳘थेमा᳘ रुद्रः᳘ प्रजा ऽअ᳘श्रद्धयेव त्वत्स᳘हसेव त्वन्निघा᳘तमिव त्वत्स᳘चत ऽएवम᳘न्नमद्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ व्विद्वांस्त᳘र्हि जुहोति॥
मूलम् - Weber
तद्य᳘त्रैत᳘त्प्रथमᳫं स᳘मिद्धो भ᳘वति॥
धूप्य᳘त 13 इव त᳘र्हि हैष᳘ भवति रुद्रः स यः᳘ काम᳘येत य᳘थेमा᳘ रुद्रः᳘ प्रजा अ᳘श्रद्धयेव त्वत्स᳘हसेव त्वन्निघा᳘तमिव त्वत्स᳘चत एवम᳘न्नमद्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति हैॗवैतदन्ना᳘द्यं य᳘ एवं᳘ विद्वांस्त᳘र्हि जुहोति॥
मूलम् - विस्वरम्
तद्यत्रैतत् प्रथमं समिद्धो भवति- धूप्यत इव तर्हि हैष भवति रुद्रः । ‘स यः कामयेत’- यथेमा रुद्रः प्रजा अश्रद्धयेव त्वत्, सहसेव त्वत्, निघातमिव त्वत्, सचते- ‘एवमन्नमद्यामिति’ तर्हि ह स जुहुयात् । प्राप्नोति हैवैतदन्नाद्यं य एवं विद्वांस्तर्हि जुहोति ॥ ९ ॥
सायणः
अथाहवनीयाग्नेरवस्थाविशेषमुपजीव्य रुद्रवरुणेन्द्रादिदेवतारूपतां ब्रुवंस्तत्फलाय काम्यान् होमकालानाह- तद्यत्रैतदिति 14 । काष्टैः समिद्धो ऽग्निर्यदा प्रथमं धूमायमानो 15 भवति तस्मिन् समये एष रुद्रात्मको भवति । यथेमा रुद्र इति । ‘यथा’ खलु ‘रुद्रः’ ‘इमाः’ सर्वाः ‘प्रजाः’ ‘अश्रद्धयेव त्वत्’ अप्रियेणेव एकवारम्, ‘सहसेव त्वत्’ बलात्कारेणेव एकवारम्, तथा ‘निघातमिव त्वत्’ प्रजानां हननमिव एकवारम्, समवेति; ‘सचते’ समवेति; ‘एवम्’ एवाहं सर्वम् ‘अन्नम्’ उपसंहृत्य ‘अद्याम्’ भक्षयेयम् ‘इति’ ‘यः कामयेत’ ‘सः’ यजमानः ‘तर्हि’ तस्मिन् रुद्रावस्थे ऽग्नौ ‘जुहुयात्’ इत्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ ९ ॥
Eggeling
- Now when it is first kindled, and there is as yet nothing but smoke, then indeed that(fire) is Rudra. And if anyone (Kshatriya) desires to consume food (belonging to others),–even as Rudra seeks after these creatures, now with distrust, now with violence, now in striking them down,–let him offer then: and, assuredly, he who, knowing this, offers then (when the fire has just been lighted), obtains that food.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्रैतत्प्र᳘दीप्ततरो भ᳘वति॥
त᳘र्हि हैष᳘ भवति व्व᳘रुणः स यः᳘ काम᳘येत य᳘थेमा व्व᳘रुणः प्रजा᳘ गृह्ण᳘न्निव त्वत्स᳘हसेव त्वन्निघा᳘तमिव त्वत्स᳘चत ऽएवमन्नम᳘द्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ विद्वांस्त᳘र्हि जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्रैतत्प्र᳘दीप्ततरो भ᳘वति॥
त᳘र्हि हैष᳘ भवति व्व᳘रुणः स यः᳘ काम᳘येत य᳘थेमा व्व᳘रुणः प्रजा᳘ गृह्ण᳘न्निव त्वत्स᳘हसेव त्वन्निघा᳘तमिव त्वत्स᳘चत ऽएवमन्नम᳘द्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ विद्वांस्त᳘र्हि जुहोति॥
मूलम् - Weber
अ᳘थ य᳘त्रैतत्प्र᳘दीप्ततरो भ᳘वति॥
त᳘र्हि हैष᳘ भवति व᳘रुणः स यः᳘ काम᳘येत य᳘थेमा व᳘रुणः प्रजा᳘ गृह्ण᳘न्निव त्वत्स᳘हसेव त्वन्निघा᳘तमिव त्वत्स᳘चत एवम᳘न्नमद्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति हैॗवैत᳘दन्ना᳘द्यं य᳘ एवं᳘ विद्वांस्त᳘र्हि जुहोति॥
मूलम् - विस्वरम्
अथ यत्रैतत्प्रदीप्ततरो भवति- तर्हि हैष भवति वरुणः । ‘स यः कामयेत-’ यथेमा वरुणः प्रजा गृह्णन्निव त्वत्, सहसेव त्वत्, निघातमिव त्वत्, सचते- ‘एवमन्नमद्यामिति’ तर्हि ह स जुहुयात् । प्राप्नोति हैवैतदन्नाद्यं- य एवं- विद्वांस्तर्हि जुहोति ॥ १० ॥
सायणः
अथ यत्रतत् प्रदीप्ततरो भवतीति 14 । प्रदीप्तास्वथ आहवनीयो वरुणात्मकः । ‘गृह्णन्निव’ त्वदिति । वरुणो हि पापीयसीः प्रजाः आत्मीयैः पाशैः ‘गृह्णन्निव’ भवति, तद्वदयमपि सर्वमन्नाद्यमुत्पादयत इत्यर्थः ॥ १० ॥
Eggeling
- And when it burns rather brightly, then indeed that (fire) is Varuṇa. And if any one desires to consume food,–even as Varuṇa seeks after these creatures, now, as it were, seizing on them, now with violence, now in striking them down,–let him offer then: and, assuredly, he who, knowing this, offers then, obtains that food.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्रैतत्प्र᳘दीप्तो भ᳘वति॥
(त्यु) उच्चै᳘र्धू᳘मः पर᳘मया जूत्या ब᳘ल्ब᳘ली᳘ति त᳘र्हि हैष᳘ भवती᳘न्द्रः स यः᳘ काम᳘येते᳘न्द्र ऽइव श्रिया य᳘शसा स्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ एवं᳘ व्विद्वांस्त᳘र्हि जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्रैतत्प्र᳘दीप्तो भ᳘वति॥
(त्यु) उच्चै᳘र्धू᳘मः पर᳘मया जूत्या ब᳘ल्ब᳘ली᳘ति त᳘र्हि हैष᳘ भवती᳘न्द्रः स यः᳘ काम᳘येते᳘न्द्र ऽइव श्रिया य᳘शसा स्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ एवं᳘ व्विद्वांस्त᳘र्हि जुहोति॥
मूलम् - Weber
अ᳘थ य᳘त्रैतत्प्र᳘दीप्तो भ᳘वति॥
उच्चै᳘र्धू᳘मः पर᳘मया जूत्या ब᳘ल्बलीति 16 त᳘र्हि हैष᳘ भवती᳘न्द्रः स यः᳘ काम᳘येते᳘न्द्रैव श्रिया य᳘शसा स्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति हैॗवैत᳘दन्ना᳘द्यं य᳘ एवं᳘ विद्वांस्त᳘र्हि जुहोति॥
मूलम् - विस्वरम्
अथ यत्रैतत् प्रदीप्तो भवति- उच्चैर्धूमः परमया जूत्या वल्वलति- तर्हि हैष भवतीन्द्रः स यः कामयेत- ‘इन्द्र इव श्रिया यशसा स्याम्’ इति । तर्हि ह स जुहुयात् । प्राप्नोति हैवैतदन्नाद्यं- य एवं विद्वांस्तर्हि जुहोति ॥ ११ ॥
सायणः
अथ यत्रैतत् प्रदीप्तो भवतीति 14 । उच्चैर्धूम इति । यस्यामवस्थायामाहवनीयः प्रदीप्तः सन्नुद्गतधूमो भूत्वा महता वेगेन ‘बल्बलि’- ‘इति’ एवं शब्दायते, तदवस्थो ऽग्निरिन्द्रात्मक इत्यर्थः ॥ ११ ॥
Eggeling
- And when it is in full blaze, and the smoke whirls upwards with the utmost speed, then indeed that (fire) is Indra. And if any one wishes to be like Indra in splendour and glory, let him offer then: and, assuredly, he who, knowing this, offers then, obtains that food (object).
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्रैत᳘त्प्रतितरा᳘मिव॥
तिर᳘श्चीवार्च्चिः᳘ सᳫँ᳭शा᳘म्यतो भ᳘वति त᳘र्हि हैष᳘ भवति मित्रः स यः᳘ काम᳘येत मैत्रे᳘णेदम᳘न्नमद्यामि᳘ति य᳘माहुः स᳘र्व्वस्य वा᳘ ऽअयं᳘ ब्राह्मणो᳘ मित्रं न वा᳘ ऽअयं क᳘ञ्चन᳘ हिनस्ती᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ व्विद्वांस्तर्हि जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्रैत᳘त्प्रतितरा᳘मिव॥
तिर᳘श्चीवार्च्चिः᳘ सᳫँ᳭शा᳘म्यतो भ᳘वति त᳘र्हि हैष᳘ भवति मित्रः स यः᳘ काम᳘येत मैत्रे᳘णेदम᳘न्नमद्यामि᳘ति य᳘माहुः स᳘र्व्वस्य वा᳘ ऽअयं᳘ ब्राह्मणो᳘ मित्रं न वा᳘ ऽअयं क᳘ञ्चन᳘ हिनस्ती᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ व्विद्वांस्तर्हि जुहोति॥
मूलम् - Weber
अ᳘थ य᳘त्रैतत्प्रतितरा᳘मिव॥
तिरॗश्चीवार्चिः᳘ संशा᳘म्यतो भ᳘वति त᳘र्हि हैष᳘ भवति मित्रः स यः᳘ काम᳘येत मैत्रे᳘णेदम᳘न्नमद्यामि᳘ति य᳘माहुः स᳘र्वस्य वा᳘ अय᳘म् ब्राह्मणो᳘ मित्रंन वा᳘ अयं कं᳘ चन᳘ हिनस्ती᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति हैॗवैत᳘दन्ना᳘द्यं य᳘ एवं᳘ विद्वांस्तर्हि जुहोति॥
मूलम् - विस्वरम्
अथ यत्रैतत् प्रतितरामिव तिरश्चीवार्चिः संशाम्यतो भवति, तर्हि हैष भवति मित्रः । स यः कामयेत- ‘मैत्रेणेदमन्नमद्यामिति’ यमाहुः- सर्वस्य वा अयं ब्राह्मणो मित्रम् । न वा अयं कंचन हिनस्तीति । तर्हि ह स जुहुयात् । प्राप्नोति हैवैतदन्नाद्यं- य एवं विद्वांस्तर्हि जुहोति ॥ १२ ॥
सायणः
अथ यत्रैतत् प्रतितरामिवेति 17 । काष्ठेषु दग्धेषु ‘संशाम्यतः’ अग्नेः ‘अर्च्चिः’ ‘प्रतितरां’ निकृष्टतराम् ‘इव’ ऊर्द्ध्वा ऽधोगमानाभवे 18 ‘तिरश्चीव’ भवति तदवस्थापन्न आहवनीयो मित्र इत्यर्थः । एतदवस्थहोमे योग्यमधिकारिणमाह- यमाहुरिति । ब्राह्मणस्य यजमानस्य होमकाले इत्यर्थः ॥ १२ ॥
Eggeling
- And when the flame of the waning (fire) gets lower and lower, and (burns) as it were sideways, then, indeed, that (fire) is Mitra. And if any one desires to consume food here through the kindness (maitra, of others),–as one of whom they say, ‘Truly, this Brahman is everybody’s friend, he harms not any one,’–let him offer (the Agnihotra) then: and, assuredly, he who, knowing this, offers then (when the fire gets low), obtains that food.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्रैतद᳘ङ्गाराश्चाकश्य᳘न्त ऽइव॥
त᳘र्हि हैष᳘ भवति ब्र᳘ह्म स यः᳘ काम᳘येत ब्रह्मवर्च्चसी᳘ स्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ व्विद्वांस्तर्हि जुहो᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्रैतद᳘ङ्गाराश्चाकश्य᳘न्त ऽइव॥
त᳘र्हि हैष᳘ भवति ब्र᳘ह्म स यः᳘ काम᳘येत ब्रह्मवर्च्चसी᳘ स्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति है᳘वैत᳘दन्ना᳘द्यं य᳘ ऽएवं᳘ व्विद्वांस्तर्हि जुहो᳘ति॥
मूलम् - Weber
अ᳘थ य᳘त्रैतद᳘ङ्गाराश्चाकश्य᳘न्त इव॥
त᳘र्हि हैष᳘ भवति ब्र᳘ह्म स यः᳘ काम᳘येत ब्रह्मवर्चसी᳘ स्यामि᳘ति त᳘र्हि ह स᳘ जुहुयात्प्रा᳘प्नोति हैॗवैत᳘दन्ना᳘द्यं य᳘ एवं᳘ विद्वांस्त᳘र्हि जुहो᳘ति॥
मूलम् - विस्वरम्
अथ यत्रैतदङ्गाराश्चाकश्यन्त इव- तर्हि हैष भवति ब्रह्म । स यः कामयेत- ‘ब्रह्मवर्चसी स्यामिति’ तर्हि ह स जुहुयात् । प्राप्नोति हैवैतदन्नाद्यं- य एवं विद्वांस्तर्हि जुहोति ॥ १३ ॥
सायणः
अथ यत्रैतदङ्गाराश्चाकश्यन्त 17 इवेति । सर्वासु ज्वालासु निवृत्तासु केवलमङ्गारा अत्यर्थं दीयन्ते; तस्यामवस्थायाम् ‘एषः’ अग्निः ‘ब्रह्म’ परब्रह्मात्मको ‘भवति’ ॥ १३ ॥
Eggeling
- And when the coals are glowing intensely, then, indeed, that (fire) is the Brahman. And if anybody wishes to become endowed with holy lustre (brahmavarcasin), let him offer then: and, assuredly, he who, knowing this, offers then, obtains that food (object).
१४
विश्वास-प्रस्तुतिः
(त्ये) एते᳘षामे᳘कᳫँ᳭ संव्वत्सरमु᳘पेर्त्सेत्॥
(त्स्व) स्वयं जु᳘ह्वद्य᳘दि वास्यान्यो᳘ जुहुयाद᳘थ᳘ यो ऽन्य᳘थान्यथा जुहोति य᳘थापो᳘ वाभिख᳘नन्नन्य᳘द्वान्ना᳘द्यᳫँ᳭ स᳘ सामि᳘ निव᳘र्तेतैवं तद᳘थ यः सार्धं᳘ जुहो᳘ति य᳘थापो᳘ वाभिख᳘नन्नन्य᳘द्वान्ना᳘द्यं त᳘त्क्षिप्रे ऽभितृन्द्या᳘देवं तत्॥
मूलम् - श्रीधरादि
(त्ये) एते᳘षामे᳘कᳫँ᳭ संव्वत्सरमु᳘पेर्त्सेत्॥
(त्स्व) स्वयं जु᳘ह्वद्य᳘दि वास्यान्यो᳘ जुहुयाद᳘थ᳘ यो ऽन्य᳘थान्यथा जुहोति य᳘थापो᳘ वाभिख᳘नन्नन्य᳘द्वान्ना᳘द्यᳫँ᳭ स᳘ सामि᳘ निव᳘र्तेतैवं तद᳘थ यः सार्धं᳘ जुहो᳘ति य᳘थापो᳘ वाभिख᳘नन्नन्य᳘द्वान्ना᳘द्यं त᳘त्क्षिप्रे ऽभितृन्द्या᳘देवं तत्॥
मूलम् - Weber
एते᳘षामे᳘कᳫं संवत्सरमु᳘पेर्त्सेत्॥
स्वयं जु᳘ह्वद्य᳘दि वास्यान्यो᳘ जुहुयाद᳘थॗ यो ऽन्य᳘थान्यथा जुहो᳘ति य᳘थापो᳘ वाभिख᳘नन्नन्य᳘द्वान्ना᳘द्यᳫं स᳘ सामि᳘ निव᳘र्तेतैवं तद᳘थ यः᳘ सार्धं᳘ जुहो᳘ति य᳘थापो᳘ वाभिख᳘नन्नन्य᳘द्वान्ना᳘द्यं त᳘त्क्षिॗप्रे ऽभितृन्द्या᳘देवं तत्॥
मूलम् - विस्वरम्
एतेषामेकं संवत्सरमुपेर्त्सेत्- स्वयं जुह्वत्, यदि वा ऽस्यान्यो जुहुयात् । अथ यो ऽन्यथान्यथा जुहोति- यथा ऽपो वा ऽभिखनन्, अन्यद्वान्नाद्यम्, स सामि निवर्तेत- एवं तत् । अथ यः सार्द्धं जुहोति- यथा ऽपो वा ऽभिखनन्, अन्यद्वान्नाद्यम्- तत् क्षिप्रे ऽभितृन्द्यात् एवं तत् ॥ १४ ॥
सायणः
एतेषामेकमित्यादि । ‘एतेषां’ रुद्राद्यवस्थाविशेषाणां मध्ये ‘एक’ ‘संवत्सरं’ संवत्सरपर्यन्तं निरन्तरमनुतिष्ठेत् । ‘यदि’ यजमानः ‘स्वयम्’ एवाग्निहोत्रं ‘जुह्वत्’ भवति ‘अन्यो वा’ ‘अध्वर्युः जुहुयात्’, उभयोरप्येष संवत्सरनियमः 19 । यस्तु संवत्सरमध्ये उक्तनियमं परित्यज्य ‘अन्यथा’ प्रतिदिवसं प्रकारान्तरेण ‘जुहोति’, तस्य दोषं दृष्टान्तपुरस्सरमाह- यथेति । ‘अपः’ अभिलक्ष्य वापीकूपादिकं ‘खनन्’ ‘अन्यद्’ व्रीहियवादिकम्- ‘अन्नाद्यं वा’ सम्पादयन् ‘सामि’ अर्द्धकृते ‘यथा निवर्तेत’ ‘एवम्’ एव ‘तत्’ अन्यथा ऽग्निहोत्रहवनमित्यर्थः ।
संवत्सरपर्यन्तं निरन्तरमेकं पक्षं कुर्वतो यजमानस्योद्दिष्टफलप्राप्तिमाह- अथ य इति । ‘सार्द्धं’ सह, नैरन्तर्येण 20 ‘यः’ संवत्सरं ‘जुहोति’, सिद्धमन्यत् । ‘अन्नाद्यम्’ ‘अभितृणत्ति’ स उत्पादयतीत्यर्थः ॥ १४ ॥ १५ ॥
Eggeling
- Let him endeavour to adhere to some one of these (gods or fires) for a year, whether he (the householder) himself offer (the Agnihotra) or some one else offer for him. If, on the other hand, he offers now in this way, now in another, it is just as if, in digging for water or some other food, one were to leave off in the midst of it. But if he offers uniformly, it is just as if, in digging for water or some other food, one lays it open forthwith.
१५
विश्वास-प्रस्तुतिः
(द᳘) अ᳘भ्रयो ह वा᳘ ऽएता᳘ ऽअन्ना᳘द्यस्य यदा᳘हुतयः॥
(यो) अभि᳘ है᳘वैत᳘दन्ना᳘द्यं तृणत्ति य᳘ ऽएवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ जुहोति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘भ्रयो ह वा᳘ ऽएता᳘ ऽअन्ना᳘द्यस्य यदा᳘हुतयः॥
(यो) अभि᳘ है᳘वैत᳘दन्ना᳘द्यं तृणत्ति य᳘ ऽएवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ जुहोति॥
मूलम् - Weber
अ᳘भ्रयो ह वा᳘ एता᳘ अन्ना᳘द्यस्य यदा᳘हुतयः॥
अभि᳘ हैॗवैत᳘दन्ना᳘द्यं तृणत्ति य᳘ एवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति॥
मूलम् - विस्वरम्
अभ्रयो ह वा एता अन्नाद्यस्य यदाहुतयः । अभि हैवैतदन्नाद्यं तृणत्ति- य एवं विद्वानग्निहोत्रं जुहोति ॥ १५ ॥
सायणः
[व्याख्यानं चतुर्दशे]
Eggeling
- Indeed, these offerings are, as it were, the spades for (the digging up of) food; and, assuredly, whosoever, knowing this, offers the Agnihotra, procures food.
१६
विश्वास-प्रस्तुतिः
सा या पूर्व्वा᳘हुतिः॥
(स्ते᳘) ते᳘ देवा ऽअ᳘थ यो᳘त्तरा ते᳘ मनु᳘ष्या ऽअ᳘थ य᳘त्स्रुचि᳘ परिशिन᳘ष्टि ते᳘ पश᳘वः॥
मूलम् - श्रीधरादि
सा या पूर्व्वा᳘हुतिः॥
(स्ते᳘) ते᳘ देवा ऽअ᳘थ यो᳘त्तरा ते᳘ मनु᳘ष्या ऽअ᳘थ य᳘त्स्रुचि᳘ परिशिन᳘ष्टि ते᳘ पश᳘वः॥
मूलम् - Weber
सा या पूर्वा᳘हुतिः॥
ते᳘ देवा अ᳘थ यो᳘त्तरा ते᳘ मनुॗष्या अ᳘थ य᳘त्स्रुचि परिशिन᳘ष्टि ते᳘ पश᳘वः॥
मूलम् - विस्वरम्
सा या पूर्वाहुतिः- ते देवाः । अथ योत्तरा- ते मनुष्याः । अथ यत् स्रुचि परिशिनष्टि- ते पशवः ॥ १६ ॥
सायणः
पूर्वोत्तराहुतिद्रव्पयोरवशिष्टस्य चोत्तरोत्तरं भूयस्त्वं विधाय प्रतिपादयति- सा येत्यादिना ॥ १६ ॥ १७ ॥
Eggeling
- Now the first libation (pūrvāhuti) represents the gods, and the second (uttarāhuti) represents the men, and what remains in the ladle represents cattle.
१७
विश्वास-प्रस्तुतिः
स वै क᳘नीय ऽइव पू᳘र्व्वामा᳘हुतिं जुहोति॥
भू᳘य इवो᳘त्तरां भू᳘य इव स्रुचि परिशिनष्टि॥
मूलम् - श्रीधरादि
स वै क᳘नीय ऽइव पू᳘र्व्वामा᳘हुतिं जुहोति॥
भू᳘य इवो᳘त्तरां भू᳘य इव स्रुचि परिशिनष्टि॥
मूलम् - Weber
स वै क᳘नीय इव पूर्वामा᳘हुतिं जुहोति॥
भूय इवो᳘त्तराम् भू᳘य इव स्रुचि प᳘रिशिनष्टि॥
मूलम् - विस्वरम्
स वै कनीय इव पूर्वामाहुतिं जुहोति- भूय इवोत्तराम्, भूय इव स्रुचि परिशिनष्टि ॥ १७ ॥
सायणः
[व्याख्यानं षोडशे]
Eggeling
- Only a little he offers for the first libation, somewhat more for the second, and still more he leaves in the ladle.
१८
विश्वास-प्रस्तुतिः
स यत् क᳘नीय ऽइव पू᳘र्व्वामा᳘हुतिं जुहो᳘ति॥
क᳘नीयाᳫँ᳭सो हि᳘ देवा᳘ मनु᳘ष्येभ्यो᳘ ऽथ यद्भू᳘य ऽइवो᳘त्तरां भू᳘याᳫँ᳭सो हि᳘ मनु᳘ष्या देवेभ्यो᳘ ऽथ यद्भू᳘य ऽइव स्रुचि᳘ परिशिन᳘ष्टि भू᳘याᳫँ᳭सो हि᳘ पश᳘वो मनु᳘ष्येभ्यः क᳘नीयाᳫँ᳭सो ह वा᳘ ऽअस्य भा᳘र्या भ᳘वन्ति भू᳘याᳫँ᳭सः पश᳘वो य᳘ एवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति तद्वै स᳘मृद्धं य᳘स्य क᳘नीयाᳫँ᳭सो भा᳘र्या ऽअ᳘सन्भू᳘याᳫँ᳭सः पश᳘वः॥
मूलम् - श्रीधरादि
स यत् क᳘नीय ऽइव पू᳘र्व्वामा᳘हुतिं जुहो᳘ति॥
क᳘नीयाᳫँ᳭सो हि᳘ देवा᳘ मनु᳘ष्येभ्यो᳘ ऽथ यद्भू᳘य ऽइवो᳘त्तरां भू᳘याᳫँ᳭सो हि᳘ मनु᳘ष्या देवेभ्यो᳘ ऽथ यद्भू᳘य ऽइव स्रुचि᳘ परिशिन᳘ष्टि भू᳘याᳫँ᳭सो हि᳘ पश᳘वो मनु᳘ष्येभ्यः क᳘नीयाᳫँ᳭सो ह वा᳘ ऽअस्य भा᳘र्या भ᳘वन्ति भू᳘याᳫँ᳭सः पश᳘वो य᳘ एवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति तद्वै स᳘मृद्धं य᳘स्य क᳘नीयाᳫँ᳭सो भा᳘र्या ऽअ᳘सन्भू᳘याᳫँ᳭सः पश᳘वः॥
मूलम् - Weber
स यत्क᳘नीय इव पू᳘र्वामाहुतिं जुहो᳘ति॥
क᳘नीयांसो हि देवा᳘ मनुॗष्येभ्यो᳘ ऽथ यद्भू᳘य इवो᳘त्तराम् भू᳘यांसो हि᳘ मनुॗष्या देवेभ्यो᳘ ऽथ यद्भू᳘य इव स्रुचि᳘ परिशिन᳘ष्टि भू᳘यांसो हि᳘ पश᳘वो मनुॗष्येभ्यः क᳘नीयांसो ह वा᳘ अस्य भा᳘र्या भ᳘वन्ति भू᳘यांसः पश᳘वो य᳘ एवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति तद्वै स᳘मृद्धं य᳘स्य क᳘नीयांसो भा᳘र्या अ᳘सन्भू᳘यांसः पश᳘वः॥
मूलम् - विस्वरम्
स यत् कनीय इव पूर्वामाहुतिं जुहोति- कनीयांसो हि देवा मनुष्येभ्यः । अथ यद् भूय इवोत्तराम्- भूयांसो हि मनुष्या देवेभ्यः । अथ यद् भूय इव स्रुचि परिशिनष्टि- भूयांसो हि पशवो मनुष्येभ्यः । कनीयांसो ह वा अस्य भार्या भवन्ति; भूयांसः पशवः । य एवं विद्वानग्निहोत्रं जुहोति । तद्वै समृद्धम् । यस्य कनीयांसो भार्या असन्, भूयांसः पशवः ॥ १८ ॥
सायणः
स यत् कनीय इति । भार्या भवन्तीति । भर्त्तव्याः प्रजा भवन्तीत्यर्थः । तद्वै समृद्धमिति । यत्र खलु भोक्तणामल्पीयस्त्वम् भोग्यसम्पत्तिर्भूयसी, तत् खलु समृद्धमित्यर्थः 19 ॥ १८ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीयशतपथब्राह्मणभाष्ये द्वितीये काण्डे तृतीयाध्याये द्वितीयं ब्राह्मणम् । (२-३-२) ॥
Eggeling
- The reason why he offers only a little for the first libation, is that the gods are fewer than men; and why he offers somewhat more for the second libation, is that men are more numerous than the gods; and why he leaves still more in the ladle, is that cattle are more numerous than men. And, verily, whosoever, knowing this, offers the Agnihotra, his cattle will be more numerous than those (human beings) that have to be supported by him: for he, indeed, is in a prosperous condition whose cattle are more numerous than those (human beings) dependent on his support.
-
‘इन्द्रः यमः नलो नैषिधः’ इति । ‘तांश्चेन्द्राद्यान्नलो नैषधः’ इति च क्व. पा. । ↩︎ ↩︎ ↩︎
-
अनश्नन् किमपि हविरगृह्णन् संगमयति प्रापयति यजमानमग्निहोत्रफलमिति अनश्नन्सङ्गमन इति प्रसिद्धिः ॥ ↩︎ ↩︎
-
338:3 The commentator takes it, ‘in whatever (sacrificer) exists.’ The (Oxf. MS. of the) Kāṇva text has nothing corresponding to the second and third Brāhmaṇas. ↩︎
-
338:4 The printed text has Naishidha. See Weber, Ind. Stud. I, p. 225 seq. ↩︎
-
338:5 Here Yama is apparently taken as (the god of) death and destruction, caused, as Professor Weber suggests, by the warlike expeditions of Naḍa, king of Nishadha, in the south. ↩︎
-
प्रातराह A. ↩︎
-
सायं प्रातराहवनीयस्यासनोपस्थाने । का. श्रौ. सू. ४ । ३७४ । शय्यासनं वा गार्हपत्ये । क. श्रौ. सू. ४ । ३७५ ↩︎ ↩︎
-
संव्रजन्मनसोपस्मृत्य दक्षिणाग्निम् । का. श्रौ. सू. ४ ३७६ । ↩︎
-
339:1 That is, the fire on which the Anvāhārya mess of rice, the priests’ Dakshiṇa at the new and full-moon sacrifice, is cooked. See I, 2, 3, 5; p. 49, note 1. ↩︎
-
धूय्य᳘त A. ↩︎
-
‘प्रथमसमिद्धे धूप्यमाने ग्रजासु निहत्येव सहसान्नमत्स्यतः । का. श्रौ. सू. ४. ३६० । ↩︎ ↩︎ ↩︎
-
धूप्यत इव भवति । इ. क्व. पा. ॥ ↩︎
-
ब᳘ल्बली M. बल्वली AB. ↩︎
-
अर्चिः प्रत्यवाये मैत्रेणान्नमत्स्यतः । का. श्रौ. सू. ४ । ३६३ । ↩︎ ↩︎
-
ऊर्ध्वाध गमनेन रहित इव भवति । इति क्व. पाठः ↩︎
-
संवत्सरं जुहुयादेतेषामेकैकेन कामसंयोगे । का. श्रौ. सू. ४ । ३७१ ॥ ↩︎ ↩︎
-
सायं प्रातर्वा । का. श्रौ. सू.- ४ । ३७२ । ↩︎