०१
विश्वास-प्रस्तुतिः
सू᳘र्य्यो ह वा᳘ ऽअग्निहोत्र᳘म्॥
तद्य᳘देत᳘स्या ऽअ᳘ग्न आ᳘हुतेरुदैत्त᳘स्मात्सू᳘र्य्यो ऽअग्निहोत्र᳘म्॥
मूलम् - श्रीधरादि
सू᳘र्य्यो ह वा᳘ ऽअग्निहोत्र᳘म्॥
तद्य᳘देत᳘स्या ऽअ᳘ग्न आ᳘हुतेरुदैत्त᳘स्मात्सू᳘र्य्यो ऽअग्निहोत्र᳘म्॥
मूलम् - Weber
सू᳘र्यो ह वा᳘ अग्निहोत्रम्॥
तद्य᳘देत᳘स्या अ᳘ग्र आ᳘हुतेरुदैत्त᳘स्मात्सू᳘र्यो ऽग्निहोत्रम्॥
मूलम् - विस्वरम्
सूर्यो ह वा अग्निहोत्रम् । तद्यदेतस्या अग्रे आहुतेरुदैत्, तस्मात्सूर्यो ऽग्निहोत्रम् ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्म्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
सायम्प्रातर्होमयोः 1 कालविशेषं विधित्सुरग्निहोत्रं सूर्यात्मना प्रशंसति- सूर्य्यो हेति । तदुपपादयति- एतस्या इति । प्रजापतिना प्रथमं हुताया इत्यर्थः ॥ १ ॥
Eggeling
- The Agnihotra, doubtless, is the Sun. It is because he rose in front (agre) of that offering 2, that the Agnihotra is the Sun.
०२
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
य᳘ इदं त᳘स्मिन्निह सति᳘ जुहवानीत्य᳘थ य᳘त्प्रातरनुदिते जुहो᳘ति य᳘ ऽइदं त᳘स्मिन्निह᳘ सति᳘ जुहवानी᳘ति त᳘स्माद्वै सू᳘र्य्यो ऽग्निहोत्रमि᳘त्याहुः॥ [शतम् १०००]
मूलम् - श्रीधरादि
(ᳫँ᳭) स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
य᳘ इदं त᳘स्मिन्निह सति᳘ जुहवानीत्य᳘थ य᳘त्प्रातरनुदिते जुहो᳘ति य᳘ ऽइदं त᳘स्मिन्निह᳘ सति᳘ जुहवानी᳘ति त᳘स्माद्वै सू᳘र्य्यो ऽग्निहोत्रमि᳘त्याहुः॥ [शतम् १०००]
मूलम् - Weber
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
य᳘ इदं त᳘स्मिन्नि᳘ह सति᳘ जुहवानीत्य᳘थ य᳘त्प्रातर᳘नुदिते जुहो᳘ति य᳘ इदं त᳘स्मिन्निह᳘ सति᳘ जुहवानी᳘ति त᳘स्माद्वै सू᳘र्यो ऽग्निहोत्रमि᳘त्याहुः॥
मूलम् - विस्वरम्
स यत्सायमस्तमिते जुहोति- य इदं तस्मिन्- इह सति जुहवानीति । अथ यत् प्रातरनुदिते जुहेति- य इदं तस्मिन्- इह जुहवानीति । तस्माद्वै सूर्यो ऽग्निहोत्रमित्याहुः ॥ २ ॥
सायणः
प्रकारान्तरेण सूर्य्यात्मिकतां ब्रुवन् सायंप्रातर्होमयोः कालविशेषं विधत्ते- स यदिति । ‘यः’ यजमानः ‘इह’ अग्नौ तस्मिन् सूर्य्ये ‘सति’ ‘इदं’ हविः जुहवानि इति मन्यते, सः सायमग्निहोत्रमस्तमिते 1 कुर्य्यात्, प्रातर्होमञ्चानुदिते 3, अनुदितो हि सूर्य्यो ऽग्निनैकीभूतो वर्त्तते; “अग्निं वाव आदित्यः सायं प्रविशति”- (तै० ब्रा० २ । १ । ३ । ९) इति श्रुतेः । यस्मादेवमग्निहोत्रं सूर्य्यसम्बद्धम् तस्मात् तादात्म्येन स्तुतिः ॥ २ ॥
Eggeling
- When he offers in the evening after sunset, he does so thinking, ‘I will offer, while he is here, who is this (offering);’ and when he offers in the morning before sunrise, he does so thinking, ‘I will offer, while he is here, who is this (offering):’ and for this reason, they say, the Agnihotra is the Sun.
०३
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ य᳘दस्तमे᳘ति॥
त᳘दग्ना᳘वेव यो᳘नौ ग᳘र्भो भूत्वा प्र᳘विशति तं ग᳘र्भं भ᳘वन्तमिमाः स᳘र्व्वाः प्रजा अ᳘नुग᳘र्भा भवन्तीलिता हि᳘ शेरे᳘ सञ्जानाना ऽअ᳘थ यद्रा᳘त्रिस्तिर᳘ ऽए᳘वैत᳘त्करो᳘ति तिर᳘ ऽइव हि ग᳘र्भाः॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ य᳘दस्तमे᳘ति॥
त᳘दग्ना᳘वेव यो᳘नौ ग᳘र्भो भूत्वा प्र᳘विशति तं ग᳘र्भं भ᳘वन्तमिमाः स᳘र्व्वाः प्रजा अ᳘नुग᳘र्भा भवन्तीलिता हि᳘ शेरे᳘ सञ्जानाना ऽअ᳘थ यद्रा᳘त्रिस्तिर᳘ ऽए᳘वैत᳘त्करो᳘ति तिर᳘ ऽइव हि ग᳘र्भाः॥
मूलम् - Weber
अ᳘थ य᳘दस्तमे᳘ति॥
त᳘दग्ना᳘वेव यो᳘नौ ग᳘र्भो भूत्वा प्र᳘विशति तं ग᳘र्भम् भ᳘वन्तमिमाः स᳘र्वाः प्रजा अ᳘नु ग᳘र्भा भवन्तीलिता 4 हि᳘ शेरे᳘ संजानाना अ᳘थ यद्रा᳘त्रिस्तिर᳘ एवैत᳘त्करोति तिर᳘ इव हि ग᳘र्भाः॥
मूलम् - विस्वरम्
अथ यदस्तमेति, तदग्नावेव योनौ गर्भो भूत्वा प्रविशति । तं गर्भं भवन्तमिमाः सर्वाः प्रजा अनुगर्भा भवन्ति ईलिता हि शेरे सञ्जानानाः । अथ यद् रात्रिः, तिर एवैतत्करोति । तिर इव हि गर्भाः ॥ ३ ॥
सायणः
…रात्रौ सूर्य्यस्याग्न्यवस्थानं प्रतिपादयति- अथ यदिति । सूर्यस्य गर्भभावमनु रात्रौ ‘सर्व्वाः प्रजाः’ ‘गर्भा’ एव ‘भवन्ति’ । तासां गर्भसाम्यमाह- ईलिता हीति । रात्रौ हि सर्वाः प्रजाः ‘सञ्जानानाः’ समानमेकविधं ज्ञानं प्राप्ताः ‘ईलिताः’ स्तुता हृष्टाः ‘शेरे’ शेरते । “लोपस्त आत्मनेपदेषु” इति तलोपः (पा. सू. ७ । १ । ४१) पुनरपि गर्भसाम्यमाह- अथ यदिति । गर्भरूपेणाग्नावस्थितं सूर्यं रात्रिः ‘तिर एव’ तिरोहितमाच्छादितं करोति । यस्तदेवं तस्मात् असौ ‘गर्भः’ ‘तिर इव हि’ लौकिकगर्भस्य प्रसिद्धिर्हि शब्देनोक्ता ॥ ३ ॥
Eggeling
- And when he sets, then he, as an embryo, enters that womb, the fire; and along with him thus becoming an embryo, all these creatures become embryos; for, being coaxed, they lie down contented 5.
The reason, then, why the night envelops that (sun), is that embryos also are, as it were, enveloped.
०४
विश्वास-प्रस्तुतिः
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
ग᳘र्भमेवैतत्स᳘न्तमभिजुहो᳘ति ग᳘र्भᳫँ᳭ स᳘न्तमभि᳘करोति स यद्गर्भᳫँ᳭ स᳘न्तमभिजुहोति त᳘स्मादिमे ग᳘र्भा अ᳘नश्नन्तो जीवन्ति॥
मूलम् - श्रीधरादि
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
ग᳘र्भमेवैतत्स᳘न्तमभिजुहो᳘ति ग᳘र्भᳫँ᳭ स᳘न्तमभि᳘करोति स यद्गर्भᳫँ᳭ स᳘न्तमभिजुहोति त᳘स्मादिमे ग᳘र्भा अ᳘नश्नन्तो जीवन्ति॥
मूलम् - Weber
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
ग᳘र्भमेॗवैतत्स᳘न्तमभिजुहो᳘ति ग᳘र्भᳫं स᳘न्तमभि᳘करोति स यद्ग᳘र्भᳫं स᳘न्तमभिजुहो᳘ति त᳘स्मादिमे ग᳘र्भा अ᳘नश्नन्तो जीवन्ति॥
मूलम् - विस्वरम्
स यत् सायमस्तमिते जुहोति- गर्भमेवैतत्सन्तमभिजुहोति, गर्भं सन्तमभि करोति । स यद्गर्भं सन्तमभिजुहोति- तस्मादिमे गर्भा अनश्नन्तो जीवन्ति ॥ ४ ॥
सायणः
एवं गर्भरूपत्व प्रतिपाद्य अस्तमिते होममुपपादयति- स यत्सायमिति । गर्भं सन्तमिति । अस्तमयात्, पूर्वं हि सूर्यस्याकाशे ऽवस्थानाद् गर्भभावो नास्ति, तदूर्ध्वन्तु अग्नौ गर्भरूपेण प्रविशन्तम् ‘अभि’ होमं कुर्वन् परस्मिन् दिवसे पुनर्जनयितुं वर्द्धयति । यद् गर्भमित्यादि । यस्माद् गर्भभूतस्य सूर्यस्य रात्रावग्निहोत्रहविषा वर्द्धनम्, तस्मादेवञ्जातीया इतरे गर्भाः ‘अनश्नन्तः’ अशनमकुर्वन्तो ऽपि ‘जीवन्ति’ वर्द्धन्ते ॥ ४ ॥
Eggeling
- Now when he offers in the evening after sunset, he offers for the good of that (sun) in the embryo state, he benefits that embryo; and since he offers for the good of that (sun) in the embryo state, therefore embryos here live without taking food.
०५
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘त्प्रातर᳘नुदिते जुहो᳘ति॥
प्र᳘जनयत्ये᳘वैनमेत᳘त्सो ऽयं ते᳘जो भूत्वा व्विभ्रा᳘जमान ऽउदेति श᳘श्वद्ध वै नो᳘दियाद्य᳘दस्मिन्नेतामा᳘हुतिं न᳘ जुहुयात्त᳘स्माद्वा ऽएतामा᳘हुतिं जुहोति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘त्प्रातर᳘नुदिते जुहो᳘ति॥
प्र᳘जनयत्ये᳘वैनमेत᳘त्सो ऽयं ते᳘जो भूत्वा व्विभ्रा᳘जमान ऽउदेति श᳘श्वद्ध वै नो᳘दियाद्य᳘दस्मिन्नेतामा᳘हुतिं न᳘ जुहुयात्त᳘स्माद्वा ऽएतामा᳘हुतिं जुहोति॥
मूलम् - Weber
अ᳘थ य᳘त्प्रातर᳘नुदिते जुहो᳘ति॥
प्र᳘जनयत्येॗवैनमेतॗत्सो ऽयं ते᳘जो भूत्वा᳘ विभ्राजमान उ᳘देति श᳘श्वद्ध वै नो᳘दियाद्य᳘दस्मिन्नेतामा᳘हुतिं न᳘ जुहुयात्त᳘स्माद्वा एतामा᳘हुतिं जुहोति॥
मूलम् - विस्वरम्
अथ यत् प्रातरनुदिते जुहोति- प्रजनयत्येवैनमेतत्सो ऽयं तेजो भूत्वा विभ्राजमान उदेति । शश्वद्ध वै नोदियाद्- यदस्मिन्नेतामाहुतिं न जुहुयात् । तस्माद्वा एतामाहुतिं जुहोति ॥ ५ ॥
सायणः
…एवं सायंहोमस्य गर्भवृद्धिहेतुतामभिधाय, प्रातर्होमस्य तज्जननहेतुत्वमुपपादयन्, तस्य ततः प्रागेवानुदिते कर्त्तव्यतामाह- अथ यत् प्रातरिति । अन्वयव्यतिरेकाभ्यां प्रातराहुतेर्जननहेतुतामुपपादयति- सो ऽयमिति । तेजो भूत्वेति । आहुत्या वर्द्धितस्तेजस्वी भूत्वेत्यर्थः । शश्वद्ध वा इति । नित्यमेवेत्यर्थः 6 ॥ ५ ॥
Eggeling
- And when he offers in the morning before sunrise, then he produces that (sun-child) and, having become a light, it rises shining. But, assuredly, it would not rise, were he not to make that offering: this is why he performs that offering.
०६
विश्वास-प्रस्तुतिः
स यथा᳘ ऽहिस्त्वचो᳘ निर्मुच्ये᳘त॥
(तै) एवᳫँ᳭ रा᳘त्रेः पाप्मनो नि᳘र्मुच्यते य᳘था ह वा ऽअ᳘हिस्त्वचो᳘ निर्मुच्ये᳘तैवᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते य᳘ ऽएवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ जुहोति त᳘देत᳘स्यैवा᳘नु प्र᳘जातिमिमाः स᳘र्व्वाः प्रजा ऽअ᳘नु प्र᳘जायन्ते व्वि हि᳘ सृज्य᳘न्ते यथार्थम्॥
मूलम् - श्रीधरादि
स यथा᳘ ऽहिस्त्वचो᳘ निर्मुच्ये᳘त॥
(तै) एवᳫँ᳭ रा᳘त्रेः पाप्मनो नि᳘र्मुच्यते य᳘था ह वा ऽअ᳘हिस्त्वचो᳘ निर्मुच्ये᳘तैवᳫँ᳭ स᳘र्व्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते य᳘ ऽएवं᳘ व्विद्वा᳘नग्निहोत्रं᳘ जुहोति त᳘देत᳘स्यैवा᳘नु प्र᳘जातिमिमाः स᳘र्व्वाः प्रजा ऽअ᳘नु प्र᳘जायन्ते व्वि हि᳘ सृज्य᳘न्ते यथार्थम्॥
मूलम् - Weber
स यथा᳘हिस्त्वचो᳘ निर्मुच्ये᳘त॥
एवं रा᳘त्रेः पाप्म᳘ना नि᳘र्मुच्यते य᳘था ह वा अ᳘हिस्त्वचो᳘ निर्मुच्ये᳘तैवᳫं स᳘र्वस्मात्पाप्म᳘नो नि᳘र्मुच्यते य᳘ येवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति त᳘देत᳘स्यैवा᳘नु प्र᳘जातिमिमाः स᳘र्वाः प्रजा अ᳘नु प्र᳘जायन्ते वि हि᳘ सृज्य᳘न्ते यथार्थम्॥
मूलम् - विस्वरम्
स यथा ऽहिस्त्वचो निर्मुच्येत- एवं रात्रेः पाप्मनो निर्मुच्यते । यथा ह वा अहिस्त्वचो निर्मुच्येत- एवं सर्वस्मात्पाप्मनो निर्मुच्यते- य एवं विद्वानग्निहोत्रं जुहोति । तदेतस्यैवानु प्रजातिमिमाः सर्वाः प्रजा- अनु प्रजायन्ते । वि हि सृज्यन्ते यथार्थम् ॥ ६ ॥
सायणः
उद्यतः सूर्यस्य तेजःप्राप्तिं दृष्टान्तेनोपपादयति- स यथेति । रात्रेः पाप्मन इति । रात्रिरूपात् तेजःप्रतिबन्धकात् पापादित्यर्थः । एवं सूर्य्याग्निहोत्रहोमात्ययनिर्मोकं प्रतिपाद्य विदुषो ऽपि प्रतिपादयति- यथा ह वा इति । वि हि सृज्यन्त इति । अनुदितहोमान्ते सूर्यस्योदये सति ‘यथार्थं’ यथाप्रयोजनं ‘सर्वाः प्रजाः’ विसृज्यन्ते प्रवर्त्तन्त इत्यर्थः ॥ ६ ॥
Eggeling
- Even as a snake frees itself from its skin, so does it (the sun-child) free itself from the night, from evil: and, verily, whosoever, knowing this, offers the Agnihotra, he frees himself from all evil, even as a snake frees itself from its skin; and after his birth all these creatures are born; for they are set free according to their inclination.
०७
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स यः᳘ पु᳘रा ऽऽदित्य᳘स्यास्तमया᳘त्॥
(दा) आहवनी᳘यमुद्ध᳘रत्येते वै व्वि᳘श्वे देवा᳘ रश्मयो᳘ यो ऽथ यत्प᳘रं भाः᳘ प्रजा᳘पतिर्व्वा स ऽइ᳘न्द्रो वै त᳘दु ह वै व्वि᳘श्वे देवा᳘ अग्निहोत्रं जु᳘ह्वतो गृहाना᳘गच्छन्ति स यस्या᳘नुद्धृतमाग᳘च्छन्ति त᳘स्माद्देवा᳘ ऽअपप्र᳘यन्ति तद्वा᳘ ऽअस्मै त᳘द्व्यृध्यते य᳘स्माद्देवा᳘ अपप्रय᳘न्ति तस्या᳘नु व्यृद्धिं य᳘श्च व्वे᳘द य᳘श्च ना᳘नुद्धृतमभ्य᳘स्तमगादि᳘त्याहुः॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स यः᳘ पु᳘रा ऽऽदित्य᳘स्यास्तमया᳘त्॥
(दा) आहवनी᳘यमुद्ध᳘रत्येते वै व्वि᳘श्वे देवा᳘ रश्मयो᳘ यो ऽथ यत्प᳘रं भाः᳘ प्रजा᳘पतिर्व्वा स ऽइ᳘न्द्रो वै त᳘दु ह वै व्वि᳘श्वे देवा᳘ अग्निहोत्रं जु᳘ह्वतो गृहाना᳘गच्छन्ति स यस्या᳘नुद्धृतमाग᳘च्छन्ति त᳘स्माद्देवा᳘ ऽअपप्र᳘यन्ति तद्वा᳘ ऽअस्मै त᳘द्व्यृध्यते य᳘स्माद्देवा᳘ अपप्रय᳘न्ति तस्या᳘नु व्यृद्धिं य᳘श्च व्वे᳘द य᳘श्च ना᳘नुद्धृतमभ्य᳘स्तमगादि᳘त्याहुः॥
मूलम् - Weber
स यः᳘ पुॗरादित्य᳘स्यास्तमया᳘त्॥
आहवनी᳘यमुद्ध᳘रत्येते वै वि᳘श्वे देवा᳘ रश्मयो᳘ ऽथ यत्प᳘रम् भाः᳘ प्रजा᳘पतिर्वा स इ᳘न्द्रो वैत᳘दु ह वै वि᳘श्वे देवा᳘ अग्निहोत्रं जु᳘ह्वतो गृहाना᳘गछन्तिस यस्या᳘नुद्धृतमाग᳘छन्ति त᳘स्माद्देवा अपप्र᳘यन्ति तद्वा᳘ अस्मै तॗद्व्यृध्यते य᳘स्माद्देवा᳘ अपप्रय᳘न्ति तस्या᳘नु व्यृद्धिं य᳘श्च वे᳘द य᳘श्च ना᳘नुद्धृतमभ्य᳘स्तमगादि᳘त्याहुः॥
मूलम् - विस्वरम्
स यः पुरा ऽऽदित्यस्यास्तमयादाहवनीयमुद्धरति । एते वै विश्वे देवा रश्मयः, यो ऽथ यत्परं भाः, प्रजापतिर्वा स इन्द्रो वा । तदु ह वै विश्वे देवा अग्निहोत्रं जुह्वतो गृहानागच्छन्ति । स यस्यानुद्धृतमागच्छन्ति, तस्माद् देवा अपप्रयन्ति । तद्वा अस्मै तद् व्यृध्यते- यस्माद् देवा अपप्रयन्ति । तस्यानु व्यृद्धिं यश्च वेद, यश्च न,- अनुद्धृतमभ्यस्तमगादित्याहुः ॥ ७ ॥
सायणः
…सायमग्निहोत्रस्याहवनीयविहरणमस्तमयात् प्रागेव कर्त्तव्यमिति विधिमभिप्रेत्य सिद्धवदनुवदति- स यः पुरेति । आहवनीयमुद्धरतीति । गार्हपत्यादाहवनीयं 7 प्रणयेदित्यर्थः । एतदुपपादयितुं यजमानगृहं प्रति देवानामागमनमाह- एते वा इत्यादिना । एते खलु सूर्यस्य ‘रश्मयः’ ‘विश्वे देवाः’ ‘अथ’ ‘यत्’ ‘परं भाः’ रश्मीनामुपर्यवस्थितं सूर्य्याख्यं ज्योतिः ‘स प्रजापतिर्वा इन्द्रो वा’ तत् ज्योतिः प्रजापत्यात्मकमिन्द्रात्मकं च विकल्पेन भवतीत्यर्थः । ‘ते ऽस्तमयात् प्रागवस्थिता विश्वे देवाः’ अग्निहोत्रिणो यजमानस्य ‘गृहान् आगच्छन्ति’ ते चागता आहवनीयानुद्धरणे सत्याश्रयाभावात् निवर्त्तन्ते, उद्धृते त्वाहवनीये तं प्रविश्य निविशन्त इत्याह- स यस्यानुद्धृतमित्यादिना । तद्वा अस्मा इति । आगतानां देवानां यदपगमनम् तेन अस्मै यजमानाय तद् अग्निहोत्रं व्यृद्ध्यते विगतर्द्धिकं भवतीत्यर्थः । तस्यानु व्यृद्धिमिति । ‘तस्य’ अग्निहोत्रस्य ‘व्यृद्धिम्’ अनुलक्ष्य, ‘यश्च’ एवं ‘वेद’, ‘यश्च’ ‘न वेद’ ते सर्वे अनुद्धृतमाहवनीयमभिलक्ष्य सूर्यो ऽस्तमगादिति सर्वे निन्दन्तीत्यर्थः ॥ ७ ॥
Eggeling
- Then, as to his taking out the Āhavanīya (from the Gārhapatya) before the setting of the sun;–the rays, doubtless, are all those gods; and what highest light there is, that, indeed, is either Prajāpati or Indra. Now all the gods approach the house of him who performs the Agnihotra: but whosesoever (offering) they approach before the fire has been taken out, from that the gods turn away, and he fails in it; and after the failure of that (offering) from which the gods turn away, people say, that, whether one knows it or not, the sun went down on account of that (fire) not having been taken out.
०८
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ यः᳘ पु᳘रा ऽऽदित्य᳘स्यास्तमया᳘त्॥
(दा) आहवनी᳘यमुद्ध᳘रति य᳘था श्रे᳘यस्यागमिष्य᳘त्यावसथेनो᳘प कॢप्तेनोपासीतैवं तत्स यस्यो᳘द्धृतमागच्छन्ति त᳘स्याहवनी᳘यं प्र᳘विशन्ति त᳘स्याहवनी᳘ये नि᳘विशन्ते॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ यः᳘ पु᳘रा ऽऽदित्य᳘स्यास्तमया᳘त्॥
(दा) आहवनी᳘यमुद्ध᳘रति य᳘था श्रे᳘यस्यागमिष्य᳘त्यावसथेनो᳘प कॢप्तेनोपासीतैवं तत्स यस्यो᳘द्धृतमागच्छन्ति त᳘स्याहवनी᳘यं प्र᳘विशन्ति त᳘स्याहवनी᳘ये नि᳘विशन्ते॥
मूलम् - Weber
अ᳘थ यः᳘ पुॗरादित्य᳘स्यास्तमया᳘त्॥
आहवनी᳘यमुद्ध᳘रति य᳘था श्रे᳘यस्यागमिष्य᳘त्यावसथेनो᳘पकॢप्तेनोपा᳘सीतैवं तत्स यस्यो᳘द्धृतमाग᳘छन्ति त᳘स्याहवनी᳘यम् प्र᳘विशन्ति त᳘स्याहवनी᳘ये नि᳘विशन्ते॥
मूलम् - विस्वरम्
अथ यः । पुरा ऽऽदित्यस्यास्तमयादाहवनीयमुद्धरति । यथा श्रेयस्यागमिष्यत्यावसथेनोपक्लृप्तेनोपासीत एवं तत् । स यस्योद्धृतमागच्छन्ति तस्याहवनीयं प्रविशन्ति तस्याहवनीये निविशन्ते ॥ ८ ॥
सायणः
अथ यः पुरेति । आवसथेनोपक्लृप्तेनेति । आवसन्त्यस्मिन्निनि ‘आवसथम्’ आसनम् । तेनोपक्लृप्तेन आयास्यन्तं श्रेयांसं यथोपासीत, ‘एवं’ ‘तत्’ अस्तमयात् प्राक्, आहवनीयोद्धरणमित्यर्थः । निविशन्त इति “नेर्विशः” (पा० सू० १ । ३ । १७) इत्यात्मनेपदम् ॥ ८ ॥
Eggeling
- And another reason why he takes out the Āhavanīya before the setting of the sun, is this. In like manner as, when one’s better comes to visit
one, he would honour him by trimming his house, so here: for whosesoever (offering) they approach, after the fire has been taken out, his Āhavanīya (house) they enter, in his Āhavanīya they repose.
०९
विश्वास-प्रस्तुतिः
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
(त्य) अग्ना᳘वे᳘वैभ्य ऽएतत्प्र᳘विष्टेभ्यो जुहोत्य᳘थ य᳘त्प्रातर᳘नुदिते जुहोत्य᳘प्रेतेभ्य ऽए᳘वैभ्य ऽएत᳘ज्जुहोति त᳘स्मादुदितहोमि᳘नां व्वि᳘च्छिन्नमग्निहोत्रं᳘ मन्यामह ऽइ᳘ति ह स्माहा᳘सुरिर्य᳘था शून्यमावसथ᳘माह᳘रेदेवं तदि᳘ति॥
मूलम् - श्रीधरादि
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
(त्य) अग्ना᳘वे᳘वैभ्य ऽएतत्प्र᳘विष्टेभ्यो जुहोत्य᳘थ य᳘त्प्रातर᳘नुदिते जुहोत्य᳘प्रेतेभ्य ऽए᳘वैभ्य ऽएत᳘ज्जुहोति त᳘स्मादुदितहोमि᳘नां व्वि᳘च्छिन्नमग्निहोत्रं᳘ मन्यामह ऽइ᳘ति ह स्माहा᳘सुरिर्य᳘था शून्यमावसथ᳘माह᳘रेदेवं तदि᳘ति॥
मूलम् - Weber
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
अग्ना᳘वेॗवैभ्य एतत्प्र᳘विष्टेभ्यो जुहोत्य᳘थ य᳘त्प्रातर᳘नुदिते जुहोत्य᳘प्रेतेभ्य एॗवैभ्य एत᳘ज्जुहोति त᳘स्मादुदितहोमि᳘नां वि᳘छिन्नमग्निहोत्र᳘म् मन्यामह इ᳘ति ह स्माहा᳘सुरिर्य᳘था शून्य᳘मावसथ᳘माह᳘रेदेवं तदि᳘ति॥
मूलम् - विस्वरम्
स यत् सायमस्तमिते जुहोति- अग्नावेवैभ्य एतत्प्रविष्टेभ्यो जुहोति । अथ यत्प्रातरनुदिते जुहोति- अप्रेतेभ्य एवैभ्य एतज्जुहोति । तस्मादुदितहोमिनां विच्छिन्नमग्निहोत्रं मन्यामह- इति ह स्माहासुरिः । यथा शून्यमावसथमाहरेद्- एवं तदिति ॥ ९ ॥
सायणः
…स यत् सायमित्यादि । निगदसिद्धम् । तस्मादुदितहोमिनामित्यादि । यस्मात् सूर्यरश्मिरूपा विश्वेदेवा उदयात् प्राक् अग्नौ आसते, उदिते च सूर्ये ततो ऽपगच्छन्ति, तस्मात् उदयात् परं प्रातर्होमं कुर्वताम् ‘अग्निहोत्रं विच्छिन्नम्’ एव भवति । कथं 8 विच्छिन्नमित्यत ऊर्द्वं दर्शयति- यथा शून्यमिति । ‘यथा’ आगते ऽतिथौ गृहापगते सति ‘शून्यं’ तदावासस्थानं प्रतिपन्नमिति न तपणीयान्नपानादिकम् ‘आहरेत्’ ‘एवं’ आहवनीयाद्रश्मिरूपेषु देवेषु ‘तत्’ उदितं सूर्यं प्रति गतेषु तदुद्देशेनाहवनीयहोम इत्यर्थः ॥ ९ ॥
Eggeling
- Now when he offers in the evening after the sun has set, he thereby offers to them after they have entered his fire-house; and when he offers in the morning before sunrise, he offers to them before they go away. Therefore Āsuri said, ‘The Agnihotra of those who offer after sunrise we regard as useless 9: it is as if one were to take food to an empty dwelling.’
१०
विश्वास-प्रस्तुतिः
द्वयं वा᳘ ऽइदं जी᳘वनम्॥
(म्मू) मूलि᳘ चै᳘वामूलं᳘ च त᳘दुभ᳘यं देवा᳘नाᳫँ᳭ स᳘न्मनु᳘ष्या ऽउ᳘पजीवन्ति पश᳘वो मूला ओ᳘षधयो मूलि᳘न्यस्ते᳘ पश᳘वो मूला ओ᳘षधीर्मूलि᳘नीर्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति॥
मूलम् - श्रीधरादि
द्वयं वा᳘ ऽइदं जी᳘वनम्॥
(म्मू) मूलि᳘ चै᳘वामूलं᳘ च त᳘दुभ᳘यं देवा᳘नाᳫँ᳭ स᳘न्मनु᳘ष्या ऽउ᳘पजीवन्ति पश᳘वो मूला ओ᳘षधयो मूलि᳘न्यस्ते᳘ पश᳘वो मूला ओ᳘षधीर्मूलि᳘नीर्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति॥
मूलम् - Weber
द्वयं वा᳘ इदं जीवनम्॥
मूलि᳘ चैॗवामूलं᳘ च त᳘दुभ᳘यं देवा᳘नाᳫं स᳘न्मनुॗष्या उ᳘पजीवन्ति पश᳘वो मूला ओ᳘षधयो मूलिन्यस्ते᳘ पश᳘वो मूला ओ᳘षधीर्मूलि᳘नीर्जॗग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति॥
मूलम् - विस्वरम्
द्वयं वा इदं जीवनम्- मूलि चैवामूलं च । तदुभयं देवानां सन्मनुष्या उपजीवन्ति । पशवो मूलाः, ओषधयो मूलिन्यः । ते पशवो मूला ओषधीर्मूलिनीर्जग्ध्वा ऽपः पीत्वा तत एष रसः सम्भवति ॥ १० ॥
सायणः
एतावेवास्तमितानुदितहोमौ प्रकारान्तरेण प्रशंसति- द्वयं वा इदमित्यादिना । देवानां सदिति । ‘देवानां’ स्वभूतं सदित्यथः । किं तत् ? मूलं किं वा मूलयुक्तम् ? एष रस इति । क्षीरात्मको रस इत्यर्थः ॥ १० ॥
Eggeling
- That which affords (the means of) subsistence is of two kinds; namely, either rooted or rootless. On both of these, which belong to the gods, men subsist. Now cattle are rootless and plants are rooted. From the rootless cattle eating the rooted plants and drinking water, that juice is produced.
११
विश्वास-प्रस्तुतिः
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
(त्य) अस्य र᳘सस्य जी᳘वनस्य देवे᳘भ्यो जुहवानि य᳘देषामिदᳫँ᳭ स᳘दुपजी᳘वाम ऽइ᳘ति स यत्त᳘तो रा᳘त्र्या᳘श्ना᳘ति हुतोच्छिष्ट᳘मेव त᳘न्निर᳘वत्तबल्यश्नाति हुतोच्छिष्ट᳘स्य᳘ ह्ये᳘वाग्निहोत्रं जुह्वदशिता॥
मूलम् - श्रीधरादि
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
(त्य) अस्य र᳘सस्य जी᳘वनस्य देवे᳘भ्यो जुहवानि य᳘देषामिदᳫँ᳭ स᳘दुपजी᳘वाम ऽइ᳘ति स यत्त᳘तो रा᳘त्र्या᳘श्ना᳘ति हुतोच्छिष्ट᳘मेव त᳘न्निर᳘वत्तबल्यश्नाति हुतोच्छिष्ट᳘स्य᳘ ह्ये᳘वाग्निहोत्रं जुह्वदशिता॥
मूलम् - Weber
स य᳘त्सायम᳘स्तमिते जुहो᳘ति॥
अस्य र᳘सस्य जी᳘वनस्य देवे᳘भ्यो जुहवानि य᳘देषामिदᳫं स᳘दुपजी᳘वाम इ᳘ति स यत्त᳘तो रा᳘त्र्याश्ना᳘ति हुतोछिष्ठ᳘मेव त᳘न्निर᳘वत्तबल्यश्नाति हुतोछिष्ट᳘स्यॗ ह्येॗवाग्निहोत्रं जुह्वदशिता॥
मूलम् - विस्वरम्
स यत् सायमस्तमिते जुहोति- अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि, यदेषामिदं सदुपजीवाम इति । स यत्ततो रात्र्या ऽश्नाति हुतोच्छिष्टमेव तन्निरवत्तबल्यश्नाति । हुतोच्छिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता ॥ ११ ॥
सायणः
स यत्सायमस्तमित इति । अस्य रसस्य जीवनस्येति । मूल्यमूलोभयनिष्पन्नस्य सर्वप्राणिजीवनहेतोः क्षीरात्मकस्य रसस्य भागं प्रथमं ‘देवेभ्यः’ तत्स्वामिभ्यः ‘जुहवानि’ पश्चात् तदुपभुक्तशेषैः सर्वे वयम् ‘उप जीवामः’ ‘इति’ अनेनाभिप्रायेण पयसा 10 ‘अग्निहोत्रं’ जुहुयादित्यर्थः । तस्य प्रयोजनमाह- स यदिति । ‘ततः’ अतो होमानन्तरं रात्र्या कालेन ‘यत्’ अशितं भवति, ‘तत्’ 11 सर्वं ‘हुतोच्छिष्टमेव’ भुक्तं भवति । निरवत्तबलीति । निष्कृष्यावत्तो बलिर्देवभागो यस्मात्, तन्निरवत्तबलि । एवम् ‘अग्निहोत्रं जह्वत्’ पुरुषः हुतोच्छिष्टस्यैव रात्रौ ‘अशिता’ भोक्ता भवति ॥ ११ ॥
Eggeling
- Now when he offers in the evening after sunset, he does so thinking, ‘I will offer to the gods of this life-giving juice: we subsist on this which belongs to them.’ And when he afterwards takes his evening meal, he eats what remains of the offering, and whereof oblative portions (bali) have been distributed all round 12; for he who performs the Agnihotra eats only what remains of the offering.
१२
विश्वास-प्रस्तुतिः
(ता᳘थ) अ᳘थ य᳘त्प्रातर᳘नुदिते जुहो᳘ति॥
(त्य) अस्य र᳘सस्य जी᳘वनस्य देवे᳘भ्यो जुहवानि य᳘देषामिदᳫँ᳭ स᳘दुपजी᳘वाम इ᳘ति स यत्ततो᳘ ऽह्नाश्ना᳘ति हुतोच्छिष्ट᳘मेव त᳘न्निर᳘वत्तबल्यश्नाति हुतोच्छिष्ट᳘स्य᳘ ह्ये᳘वाग्निहोत्रं जु᳘ह्वदशिता᳘॥
मूलम् - श्रीधरादि
(ता᳘थ) अ᳘थ य᳘त्प्रातर᳘नुदिते जुहो᳘ति॥
(त्य) अस्य र᳘सस्य जी᳘वनस्य देवे᳘भ्यो जुहवानि य᳘देषामिदᳫँ᳭ स᳘दुपजी᳘वाम इ᳘ति स यत्ततो᳘ ऽह्नाश्ना᳘ति हुतोच्छिष्ट᳘मेव त᳘न्निर᳘वत्तबल्यश्नाति हुतोच्छिष्ट᳘स्य᳘ ह्ये᳘वाग्निहोत्रं जु᳘ह्वदशिता᳘॥
मूलम् - Weber
अ᳘थ य᳘त्प्रातरनुदिते जुहो᳘ति॥
अस्य र᳘सस्य जी᳘वनस्य देवे᳘भ्यो जुहवानि य᳘देषामिदᳫं स᳘दुपजी᳘वाम इ᳘ति स यत्ततो᳘ ऽह्नाश्ना᳘ति हुतोछिष्ट᳘मेव त᳘न्निर᳘वत्तबल्यश्नाति हुतोछिष्ट᳘स्यॗ ह्येॗवाग्निहोत्रं जु᳘ह्वदशिता॥
मूलम् - विस्वरम्
अथ यत् प्रातरनुदिते जुहोति- अस्य रसस्य जीवनस्य देवेभ्यो जुहवानि- यदेषामिदं सदुपजीवाम इति । स यत्ततो ऽह्ना ऽश्नाति हुतोच्छिष्टमेव तन्निरवत्तबल्यश्नाति । हुतोच्छिष्टस्य ह्येवाग्निहोत्रं जुह्वदशिता ॥ १२ ॥
सायणः
प्रातर्होमे ऽप्येवमाह- अथ यदिति ॥ १२ ॥
Eggeling
- And when he offers in the morning before sunrise, he does so thinking, ‘I will offer to the gods of this life-giving juice: we subsist on this which belongs to them.’ And when he afterwards takes his meal in the day-time, he eats what remains of the
offering, and whereof oblative portions have been distributed all round; for he who performs the Agnihotra eats only what remains of the offering.
१३
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
स᳘मे᳘वान्ये᳘ यज्ञास्ति᳘ष्ठन्ते ऽग्निहोत्र᳘मेव न स᳘न्तिष्ठते᳘ ऽपि द्वा᳘दशसंव्वत्सरम᳘न्तवदेवा᳘थैत᳘दे᳘वानन्त᳘ᳫँ᳭ सायᳫँ᳭ हि᳘ हुत्वा व्वे᳘द प्रात᳘र्होष्यामी᳘ति प्रात᳘र्हुत्वा᳘ व्वेद पु᳘नः साय᳘ᳫँ᳘ होष्यामी᳘ति तदेत᳘द᳘नुपस्थितमग्निहोत्रं तस्या᳘नुपस्थितिमन्व᳘नुपस्थिता ऽइमाः᳘ प्रजाः प्र᳘जायन्ते᳘ ऽनुपस्थितो ह वै᳘ श्रिया᳘ प्रज᳘या प्र᳘जायते य᳘ ऽएव᳘मेतद᳘नुपस्थितमग्निहोत्रं व्वे᳘द॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
स᳘मे᳘वान्ये᳘ यज्ञास्ति᳘ष्ठन्ते ऽग्निहोत्र᳘मेव न स᳘न्तिष्ठते᳘ ऽपि द्वा᳘दशसंव्वत्सरम᳘न्तवदेवा᳘थैत᳘दे᳘वानन्त᳘ᳫँ᳭ सायᳫँ᳭ हि᳘ हुत्वा व्वे᳘द प्रात᳘र्होष्यामी᳘ति प्रात᳘र्हुत्वा᳘ व्वेद पु᳘नः साय᳘ᳫँ᳘ होष्यामी᳘ति तदेत᳘द᳘नुपस्थितमग्निहोत्रं तस्या᳘नुपस्थितिमन्व᳘नुपस्थिता ऽइमाः᳘ प्रजाः प्र᳘जायन्ते᳘ ऽनुपस्थितो ह वै᳘ श्रिया᳘ प्रज᳘या प्र᳘जायते य᳘ ऽएव᳘मेतद᳘नुपस्थितमग्निहोत्रं व्वे᳘द॥
मूलम् - Weber
त᳘दाहुः॥
स᳘मेॗवान्ये᳘ यज्ञास्ति᳘ष्ठन्ते ऽग्निहोत्र᳘मेव न सं᳘तिष्ठते᳘ ऽपि द्वा᳘दशसंवत्सरम᳘न्तवदेवा᳘थैत᳘देॗवानन्त᳘ᳫं᳘ सायᳫं हि᳘ हुत्वा वे᳘द प्रात᳘र्होष्यामी᳘ति प्रात᳘र्हुत्वा᳘ वेद पु᳘नः साय᳘ᳫं᳘ होष्यामी᳘ति त᳘देतद᳘नुपस्थितमग्निहोत्रं तस्या᳘नुपस्थितिमन्व᳘नुपस्थिता इमाः᳘ प्रजाः प्र᳘जायन्ते᳘ ऽनुपस्थितो ह वै᳘ श्रिया᳘ प्रज᳘या प्र᳘जायते य᳘ एव᳘मेतद᳘नुपस्थितमग्निहोत्रं वेद॥
मूलम् - विस्वरम्
तदाहुः । समेवान्ये यज्ञास्तिष्ठन्ते, अग्निहोत्रमेव न सन्तिष्ठते, अपि द्वादशसंवत्सरम्- अन्तवदेव, अथैतदैवानन्तम् । सायं हि हुत्वा वेद- प्रातर्होष्यामीति । प्रातर्हुत्वा वेद- पुनः सायं होष्यामीति । तदेतदनुपस्थितमग्निहोत्रम् । तस्यानुपस्थितिमन्वनुपस्थिता इमाः प्रजाः प्रजायन्ते । अनुपस्थितो ह वै श्रिया प्रजया प्रजायते- य एवमेतमदनुपस्थितमग्निहोत्रं वेद ॥ १३ ॥
सायणः
अग्निहोत्रहोमस्येतरयज्ञवैलक्षण्येनासंस्थितत्वं प्रतिपादयति- तदादुरिति । ‘अन्ये’ ज्योतिष्टोमादयो ‘यज्ञाः’ ‘संतिष्ठन्ते’ समाप्यन्त एव । यत्तु द्वादशसंवत्सरसाध्यं सत्रम्, तदप्यवसानवदेव; अग्निहोत्रं तु ‘अनन्तं’ अन्तरहितम् । तदेवानन्त्यं दर्शयति- सायं हीति । अस्त्वेवमग्निहोत्रस्यासंस्थितयज्ञत्वम् । किं तत इत्याह- तस्यानुपस्थितिमन्विति । अनुपस्थिताः परिसमाप्तिरहिताः । ‘श्रिया’ ‘अनुपस्थितः’ अपरिसमाप्तः, सर्वदा तद्युक्त इत्यर्थः ॥ १३ ॥
Eggeling
- Here now they say,–All other sacrifices come to an end, but the Agnihotra does not come to an end. Although that which lasts for twelve years is indeed limited, this (Agnihotra) is nevertheless unlimited, since, when one has offered in the evening, he knows that he will offer in the morning; and when one has offered in the morning, he knows that he will again offer in the evening. Hence that Agnihotra is unlimited, and in consequence of this its unlimitedness, creatures are here born unlimited. And, verily, he who thus knows the unlimitedness of the Agnihotra, is himself born unlimited in prosperity and offspring.
१४
विश्वास-प्रस्तुतिः
त᳘द्दुग्ध्वा᳘धिश्रयति॥
शृत᳘मसदि᳘ति त᳘दाहुर्यर्ह्यु᳘दन्तं त᳘र्हि जुहुयादि᳘ति तद्वै नो᳘दन्तं कुर्यादु᳘प ह दहेद्यदु᳘दन्तं कुर्याद᳘प्रजज्ञि वै रे᳘त ऽउ᳘पदग्धं त᳘स्मान्नो᳘दन्तं कुर्यात्॥
मूलम् - श्रीधरादि
त᳘द्दुग्ध्वा᳘धिश्रयति॥
शृत᳘मसदि᳘ति त᳘दाहुर्यर्ह्यु᳘दन्तं त᳘र्हि जुहुयादि᳘ति तद्वै नो᳘दन्तं कुर्यादु᳘प ह दहेद्यदु᳘दन्तं कुर्याद᳘प्रजज्ञि वै रे᳘त ऽउ᳘पदग्धं त᳘स्मान्नो᳘दन्तं कुर्यात्॥
मूलम् - Weber
त᳘द्दुग्ध्वा᳘धिश्रयति॥
शृतमसदि᳘ति त᳘दाहुर्यर्ह्यु᳘दन्तं त᳘र्हि जुहुयादि᳘ति तद्वै नो᳘दन्तं कुर्यादुप ह दहेद्यदु᳘दन्तं कुर्याद᳘प्रजज्ञि 13 वै रे᳘त उ᳘पदग्धं त᳘स्मान्नो᳘दन्तं कुर्यात्॥
मूलम् - विस्वरम्
तद्दुग्ध्वा ऽधिश्रयति । शृतमसदिति । तदाहुः यर्ह्युदन्तं तर्हि शृतं तर्हि जुहुयादिति । तद्वै नोदन्तं कुर्यात्, उप ह दहेद् यदुदन्तं कुर्यात्- अप्रजाज्ञि वै रेत उपदग्धम्- तस्मान्नोदन्तं कुर्यात् ॥ १४ ॥
सायणः
…एवं पयसो होमसाधनत्वं विधाय तस्य दोहनानन्तरमग्नावधिश्रयणं विधत्ते- तद्दुग्ध्वाधिश्रयतीति 14 । ‘शृतमसत्’ पक्वं भवेदित्यनेनाभिप्रायेणेत्यर्थः । “शृतं पाके” (पा. सू. ६ । १।२७) इति निपात्यते । कियदवधिकः पाक इत्याशङ्क्य तत्रैकं मतमुपन्यस्यति- तदाहुरिति । ‘यर्हि’ यस्मिन् काले तत् पयः ‘उदन्तं’ पाकवशादुद्गतान्तं बुदबुदवद् भवति, ‘तर्हि’ तस्मिन् काले तच्छृतं भवति । तदवस्थापन्नेन पयसा ‘जुहुयात्’ इत्यर्थः । तदेतन्निषिध्य पक्षान्तरमाह- तद्वा इति । उप ह दहेत् एव । को दोष इति, तत्राह- अप्रजज्ञीति । रेतः संस्तुतं ह्येतत् पयः तच्च ‘उपदग्धम्’, अप्रजज्ञि अप्रजननशीलम्, प्रजोत्पादकं न भवतीत्यर्थः ॥ १४ ॥
Eggeling
- Having milked 15 he puts that (milk) on (the Gārhapatya fire), because it has to be cooked. Here now they say, ‘When it rises to the brim, then we shall offer it!’ He must not however let it rise to the brim, since he would burn it, if he were to let it rise to the brim; and unproductive indeed is burnt seed: he must not, therefore, let it rise to the brim.
१५
विश्वास-प्रस्तुतिः
(द) अधिश्रि᳘त्यैव᳘ जुहुयात्॥
(द्य᳘) य᳘न्न्वे᳘वैत᳘दग्ने रे᳘तस्ते᳘न᳘ न्वेव᳘ शृतं य᳘द्वेनदग्ना᳘वधिश्र᳘यन्ति ते᳘नो ऽएव᳘ शृतं त᳘स्मादधिश्रि᳘त्यैव᳘ जुहुयात्॥
मूलम् - श्रीधरादि
(द) अधिश्रि᳘त्यैव᳘ जुहुयात्॥
(द्य᳘) य᳘न्न्वे᳘वैत᳘दग्ने रे᳘तस्ते᳘न᳘ न्वेव᳘ शृतं य᳘द्वेनदग्ना᳘वधिश्र᳘यन्ति ते᳘नो ऽएव᳘ शृतं त᳘स्मादधिश्रि᳘त्यैव᳘ जुहुयात्॥
मूलम् - Weber
अधिश्रि᳘त्यैव᳘ जुहुयात्॥
यॗन्न्वेॗवैत᳘दग्ने 16 रे᳘तस्ते᳘नॗ न्वेव᳘ शृतं य᳘द्वेनदग्ना᳘वधिश्र᳘यन्ति ते᳘नो एव᳘ शृतं त᳘स्मादधिश्रि᳘त्यैव᳘ जुहुयात्॥
मूलम् - विस्वरम्
अधिश्रित्यैव जुहुयात् । यन्न्वेवैतदग्ने रेतस्तेन न्वेव शृतम् । यद्वेनदग्नावधिश्रयन्ति तेनो एव शृतम् । तस्मादधिश्रित्यैव जुहुयात् ॥ १५ ॥
सायणः
कथं तर्हि दग्धव्यमित्याह 14- अधिश्रित्यैवेति । अधिश्रयणानन्तरमेव ‘जुहुयात्’, न तु पाकेनोदन्तं कुर्यात् । नन्वशृतस्य होमयोग्यत्वं नास्तीति चेत् तत्राह- यन्न्वेवेति । पयसो ऽग्निरेतस्त्वं प्रागाम्नातम्- “तस्याᳫं रेतः प्रासिञ्चत् तत् पयो ऽभवत्”- (श० प० २ का० २ अ० ४ ब्रा० १५ कं.) इति । तथा चाग्निरेतस्त्वादेव पयः शृतमेव सर्वदा । अतश्चाग्नावधिश्रयणमात्रादेव तच्छृतं भवतीति तदवस्थेनैव जुहुयादित्यर्थः ॥ १५ ॥
Eggeling
- He should not offer it without having put it on the fire; for since this is Agni’s seed, therefore it is hot (śr̥ta, ‘cooked’); and by putting it on the
fire, it is indeed heated: let him, therefore, offer (of the milk) only after he has put it on the fire.
१६
विश्वास-प्रस्तुतिः
(त्त) तद᳘वज्योतयति॥
शृतं᳘ व्वेदानीत्य᳘थापः᳘ प्रत्या᳘नयति शा᳘न्त्यै᳘ न्वेव र᳘सस्यो चैव᳘ सर्व्वत्वा᳘येदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौ᳘षध᳘यो जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वापः पीत्वा त᳘त एष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्व्वत्वा᳘य त᳘स्माद्य᳘द्येनं क्षीरं के᳘वलं पा᳘ने ऽभ्याभ᳘वेदुदस्तोकमा᳘श्चोतयितवै᳘ ब्रूयाच्छा᳘न्त्यै᳘ न्वेव र᳘सस्यो चैव᳘ सर्व्वत्वाय॥
मूलम् - श्रीधरादि
(त्त) तद᳘वज्योतयति॥
शृतं᳘ व्वेदानीत्य᳘थापः᳘ प्रत्या᳘नयति शा᳘न्त्यै᳘ न्वेव र᳘सस्यो चैव᳘ सर्व्वत्वा᳘येदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौ᳘षध᳘यो जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वापः पीत्वा त᳘त एष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्व्वत्वा᳘य त᳘स्माद्य᳘द्येनं क्षीरं के᳘वलं पा᳘ने ऽभ्याभ᳘वेदुदस्तोकमा᳘श्चोतयितवै᳘ ब्रूयाच्छा᳘न्त्यै᳘ न्वेव र᳘सस्यो चैव᳘ सर्व्वत्वाय॥
मूलम् - Weber
तद᳘वज्योतयति॥
शृतं᳘ वेदानीत्य᳘थापः᳘ प्रत्या᳘नयति शा᳘न्त्यैॗ न्वेव र᳘सस्यो चैव᳘ सर्वत्वा᳘येदᳫं हि᳘ यदा व᳘र्षत्यथौ᳘षधयो जायन्त ऽओ᳘षधीर्जॗग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्वत्वा᳘य त᳘स्माद्य᳘द्येनं क्षीरं के᳘वलम् पा᳘ने ऽभ्याभ᳘वेदुदस्तोकमा᳘श्चोतयितवै᳘ ब्रूयाछा᳘न्त्यैॗ न्वेव र᳘सस्यो चैव᳘ सर्वत्वाय॥
मूलम् - विस्वरम्
तदवज्योतयति- शृतं वेदानीति । अथापः प्रत्यानयति- शान्त्यै न्वेव, रसस्यो चैव सर्वत्वाय । इदं हि यदा वर्षति- अथौषधयो जायन्ते, ओषधीर्जग्ध्वा ऽपः पीत्वा तत एष रसः सम्भवति- तस्मादु रसस्यो चैव सर्वत्वाय । तस्माद् यद्येनं क्षीरं केवलं पाने ऽभ्याभवेत्- उदस्तोकमाश्चोतयितवै ब्रूयात्- शान्त्यै न्वेव रसस्यो चैव सर्वत्वाय ॥ १६ ॥
सायणः
तदवज्योतयतीति । ज्वालायुक्तेन दर्भाग्रेण अवाङ्मुखं प्रकाशतीत्यर्थः । अथापः प्रत्यानयतीत्यादि, स्पष्टम् । उदस्तोकमाश्चोतयितवा इति । उदकस्य बिन्दुराश्चोतयितव्य आसेक्तव्य इति ब्रूयादित्यर्थः ॥ १६॥
Eggeling
- He illumines it (with a burning straw) 17 in order that he may know when it is done. He then pours some water to it (with the sruva), both for the sake of appeasement, and in order to supplement the juice. For when it rains here; then plants spring up; and in consequence of the plants being eaten and the water drunk, this juice is produced: hence it is in order to supplement the juice (that he pours water to it); and therefore, if it should happen to him to have to drink pure milk, let him have one drop of water poured into it, both for the sake of appeasement, and in order to supplement the juice.
१७
विश्वास-प्रस्तुतिः
(या᳘थ) अ᳘थ चतुरु᳘न्नयति॥
चतुर्द्धा व्विहित᳘ᳫँ᳘ हीदं पयो᳘ ऽथ समि᳘धमादा᳘योदा᳘द्रवति समिद्धहोमा᳘यैव सो᳘ ऽनुपसाद्य पू᳘र्व्वामा᳘हुतिं जुहोति स य᳘दुपसाद᳘येद्य᳘था य᳘स्मा ऽअ᳘शनमाहरिष्यन्त्स्यात्त᳘दन्तरा᳘ निदध्या᳘देवं तद᳘थ यद᳘नुपसाद्य य᳘था य᳘स्मा ऽअ᳘शनमाह᳘रेत्त᳘स्मा ऽआहृ᳘त्यै᳘वोपनिदध्या᳘देवं त᳘दुपसाद्यो᳘त्तरां᳘ ना᳘नावीर्ये ऽए᳘वैने ऽएत᳘त्करोति म᳘नश्च ह वै व्वा᳘क्चैते ऽआ᳘हुति तन्म᳘नश्चै᳘वैतद्वा᳘चं च व्या᳘वर्तयति त᳘स्मादिदं म᳘नश्च व्वा᳘क्च समान᳘मेव सन्ना᳘नेव॥
मूलम् - श्रीधरादि
(या᳘थ) अ᳘थ चतुरु᳘न्नयति॥
चतुर्द्धा व्विहित᳘ᳫँ᳘ हीदं पयो᳘ ऽथ समि᳘धमादा᳘योदा᳘द्रवति समिद्धहोमा᳘यैव सो᳘ ऽनुपसाद्य पू᳘र्व्वामा᳘हुतिं जुहोति स य᳘दुपसाद᳘येद्य᳘था य᳘स्मा ऽअ᳘शनमाहरिष्यन्त्स्यात्त᳘दन्तरा᳘ निदध्या᳘देवं तद᳘थ यद᳘नुपसाद्य य᳘था य᳘स्मा ऽअ᳘शनमाह᳘रेत्त᳘स्मा ऽआहृ᳘त्यै᳘वोपनिदध्या᳘देवं त᳘दुपसाद्यो᳘त्तरां᳘ ना᳘नावीर्ये ऽए᳘वैने ऽएत᳘त्करोति म᳘नश्च ह वै व्वा᳘क्चैते ऽआ᳘हुति तन्म᳘नश्चै᳘वैतद्वा᳘चं च व्या᳘वर्तयति त᳘स्मादिदं म᳘नश्च व्वा᳘क्च समान᳘मेव सन्ना᳘नेव॥
मूलम् - Weber
अ᳘थ चतुरु᳘न्नयति॥
चतुर्धाविहित᳘ᳫं᳘ हीदम् पयो᳘ ऽथ समि᳘धमादा᳘योदा᳘द्रवति समिद्धहोमा᳘यैव सो᳘ ऽनुपसाद्य पू᳘र्वामा᳘हुतिं जुहोति स य᳘दुपसाद᳘येद्य᳘था य᳘स्मा अ᳘शनमाहरिश्यन्त्स्यात्त᳘दन्तरा᳘ निदध्या᳘देवं तद᳘थ यद᳘नुपसाद्य य᳘था य᳘स्मा अ᳘शनमाह᳘रेत्त᳘स्मा आहृ᳘त्यैॗवोपनिदध्या᳘देवं त᳘दुपसाद्यो᳘त्तरां ना᳘नावीर्ये एॗवैने एत᳘त्करोति म᳘नश्च ह वै वा᳘क्चैते आ᳘हुति तन्म᳘नश्चैॗवैतद्वा᳘चं च व्या᳘वर्तयति त᳘स्मादिदम् म᳘नश्च वा᳘क्च समान᳘मेव सन्ना᳘नेव॥
मूलम् - विस्वरम्
अथ चतुरुन्नयति, चतुर्द्धा विहितं हीदं पयः । अथ समिधमादायोदाद्रवति- समिद्धहोमायैव । सो ऽनुपसाद्य पूर्वामाहुतिं जुहोति । स यदुपसादयेद् यथा यस्मा अशनमाहरिष्यन्त्स्यात्, तदन्तरा निदध्याद् एवं तत् । अथ यदनुपसाद्य- यथा यस्मा अशनमाहरेत् तस्मा आहृत्यैवोपनिदध्याद् एवं तत् । उपसाद्योत्तरां नानावीर्ये एवैने एतत् करोति । मनश्च ह वै वाक् चैते आहुती । तन्मनश्चैवैतद्वाचं च व्यावर्तयति । तस्मादिदं मनश्च वाक् च समानमेव सन्नानेव ॥ १७ ॥
सायणः
अथ चतुरुन्नयतीति 18 । चतुर्द्धा विहितं हीति । चतुर्भ्यः स्तनेभ्यो दुग्धत्वात् चतुर्द्धा विहितत्वम् । समिद्धहोमायैवेति । समिद्धे ऽग्नौ होमार्थमुन्नीतपयस्कायां वैकङ्कत्यां स्रुचि एकां समिधमुपरि निधाय गार्हपत्यदेशादाहवनीयं प्रतिगच्छेदित्यर्थः । गत्वा च तस्मिन्नाहवनीयापरभागे होमद्रव्यम् ‘अनुपसाद्य’ अभिधाय, हस्ते धृत्वैव गार्हपत्यदेशादाहवनीयं प्रतिसृत्यैव पूर्वामाहुतिं जुहुयात् “होष्यन्नुपसादयति”- इति यदुपसादनं तैत्तिरीयके 19 समाम्नातम् । तदनूद्य तस्यायुक्ततां दृष्टान्तेनोपपादयति- स यदुपसादयेदिति । अन्तरा निदध्यादिति, भोक्तमुपविष्टस्य पुरःस्थितं पात्रमप्राप्य मध्ये मार्गे अशनं दित्सितमन्नादिकं निदध्यात् ‘एवं’ ‘तत्’ उपसादनमित्यर्थः । अनुपसादनस्यानुगुण्यमाह- यदनुपसाद्येति । एवं प्रथमामाहुतिं हुत्वा उपसादनपुरस्सरमेव द्वितीयामाहुतिं जुहुयादिति विधत्ते- उपसाद्योत्तरामिति । जुहोतीत्यनुषङ्गः । एवमनुपसादनोपसादनलक्षणधर्मभेदादेते आहुती ‘नानावीर्य्ये’ नानासामर्थ्ये एव करोतीत्यर्थः । एते अनुप्रसादनोपसादने प्रकारान्तरेण प्रशंसति- मनश्च ह वा इति । ‘व्यावर्त्तयति’ धर्मभेदेन पृथक् करोतीत्यर्थः ॥ १७ ॥
Eggeling
- Thereupon he ladles four times (milk with the sruva into the Agnihotra ladle 20), for in a fourfold way was that milk supplied 21. He then takes a kindling-stick (samidh), and hastes up (to the Āhavanīya, with the ladle) to make the libation on the burning (stick) 22. He offers the first libation
(pūrvāhuti) without putting down (the spoon) beside (the fire, on the grass-bunch). For, were he to put it down beside (the fire), it would be as if, in taking food to somebody, one were to put it down on one’s way thither. But when (he makes the libation) without previously putting it down, it is as if, in taking food to somebody, one puts it down only after taking it to him. The second (libation he then makes) after putting it down: he thereby makes these two (libations) of various vigour. Now these two: libations are mind and speech: hence he thereby separates mind and speech from each other; and thus mind and speech, even while one and the same (samāna), are still distinct (nānā).
१८
विश्वास-प्रस्तुतिः
स वै द्वि᳘रग्नौ᳘ जुहोति॥
द्विरु᳘पमार्ष्टि᳘ द्विः प्रा᳘श्नाति चतुरु᳘न्नयति तद्द᳘श द᳘शाक्ष᳘रा वै᳘ व्विरा᳘ड् विराड् वै यज्ञस्त᳘द्विरा᳘जमे᳘वैत᳘द्यज्ञ᳘मभिस᳘म्पादयति॥
मूलम् - श्रीधरादि
स वै द्वि᳘रग्नौ᳘ जुहोति॥
द्विरु᳘पमार्ष्टि᳘ द्विः प्रा᳘श्नाति चतुरु᳘न्नयति तद्द᳘श द᳘शाक्ष᳘रा वै᳘ व्विरा᳘ड् विराड् वै यज्ञस्त᳘द्विरा᳘जमे᳘वैत᳘द्यज्ञ᳘मभिस᳘म्पादयति॥
मूलम् - Weber
स वै द्वि᳘रग्नौ᳘ जुहोति॥
द्विरु᳘पमार्ष्टि द्विः प्रा᳘श्नाति चतुरु᳘न्नयति तद्द᳘श द᳘शाक्षरा वै᳘ विरा᳘ड्विराड्वै᳘ यज्ञस्त᳘द्विरा᳘जमेॗवैत᳘द्यज्ञ᳘मभिस᳘म्पादयति॥
मूलम् - विस्वरम्
स वै द्विरग्नौ जुहोति, द्विरुपमार्ष्टि, द्विः प्राश्नाति, चतुरुन्नयति, तद्दश । दशाक्षरा वै विराट् | विराड् वै यज्ञः । तद्विराजमेवैतद्यज्ञमभिसम्पादयति ॥ १८ ॥
सायणः
होमोपमार्जनप्राशनोन्नयनानां सङ्ख्यां समुच्चित्य प्रशंसति- स वै द्विरिति । विराड् वै यज्ञ इति । सर्वप्रकृतिभूतस्याग्निष्टोमस्य शतस्तोत्रियायोगेन विराट्सम्पत्तेर्यज्ञस्य विराट्त्वमित्यर्थः । अनयोः स्तुत्योपमार्जनप्राशनयोरविहितयोः स्तोतुमयोग्यत्वात् तयोर्विधिरुन्नेतव्यः ॥ १८ ॥
Eggeling
- Twice he offers in the fire, twice he wipes (the spout of the spoon), twice he eats (of the milk), and four times he ladles 23;–these are ten (acts), for
of ten syllables consists the virāj stanza, and the sacrifice is virāj (shining): he thereby converts the sacrifice into the virāj.
१९
विश्वास-प्रस्तुतिः
स य᳘दग्नौ᳘ जुहो᳘ति॥
त᳘द्देवे᳘षु जुहोति त᳘स्माद्देवाः᳘ सन्त्य᳘थ य᳘दुपमा᳘र्ष्टि त᳘त्पितृ᳘षु चौ᳘षधीषु च जुहोति त᳘स्मात्पित᳘रश्चौ᳘षधयश्च सन्त्य᳘थ य᳘द्धुत्वा᳘ प्राश्ना᳘ति त᳘न्मनु᳘ष्येषु जुहोति त᳘स्मान्मनु᳘ष्याः सन्ति॥
मूलम् - श्रीधरादि
स य᳘दग्नौ᳘ जुहो᳘ति॥
त᳘द्देवे᳘षु जुहोति त᳘स्माद्देवाः᳘ सन्त्य᳘थ य᳘दुपमा᳘र्ष्टि त᳘त्पितृ᳘षु चौ᳘षधीषु च जुहोति त᳘स्मात्पित᳘रश्चौ᳘षधयश्च सन्त्य᳘थ य᳘द्धुत्वा᳘ प्राश्ना᳘ति त᳘न्मनु᳘ष्येषु जुहोति त᳘स्मान्मनु᳘ष्याः सन्ति॥
मूलम् - Weber
स य᳘दग्नौ᳘ जुहो᳘ति॥
त᳘द्देवे᳘षु जुहोति त᳘स्माद्देवाः᳘ सन्त्य᳘थ य᳘दुपमा᳘र्ष्टि त᳘त्पितृ᳘षु चौ᳘षधीषु च जुहोति त᳘स्मात्पित᳘रश्चौ᳘षधयश्च सन्त्य᳘थ य᳘द्धुत्वा᳘ प्राश्ना᳘ति त᳘न्मनुॗष्येषु जुहोति त᳘स्मान्मनुॗष्याः सन्ति॥
मूलम् - विस्वरम्
स यदग्नौ जुहोति- तद्देवेषु जुहोति- तस्माद्देवाः सन्ति । अथ यदुपमार्ष्टि- तत्पितृषु, चौषधीषु च जुहोति- तस्मात्पितरश्चौषधयश्च सन्ति । अथ यद्धुत्वा प्राश्नाति- तन्मनुष्येषु जुहोति- तस्मान्मनुष्याः सन्ति ॥ १९ ॥
सायणः
तेषां होमोपमार्जनप्राशनानामुपयोगमाह- स यदिति । देवाः सन्तीति । अग्नौ प्रक्षिप्तेनाग्निहोत्रहविषोपचितावयवाः सन्तः सर्वदा विद्यन्त इत्यर्थः । पितृषु चौषधीषु चेति । तत्र प्रथमोपमार्जनेन ओषधीनां तृप्तिः द्वितीयेन पितॄणामिति द्रष्टव्यम् । ओषधयश्च सन्तीति । सर्वदा विद्यन्त इत्यर्थः ॥ १९ ॥
Eggeling
- Now what he offers up in the fire, that he offers to the gods; and thereby the gods are (admitted to the sacrifice) 24. And what he wipes off (the spoons), that he offers to the fathers and plants; and thereby the fathers and plants are (admitted). And what he eats after offering, that he offers to men; and thereby men are (admitted).
२०
विश्वास-प्रस्तुतिः
या वै᳘ प्रजा᳘ यज्ञे᳘ ऽनन्वाभक्ताः॥
प᳘राभूता वै ता एव᳘मे᳘वैतद्या᳘ ऽइमाः᳘ प्रजा अ᳘पराभूतास्ता᳘ यज्ञमुख ऽआ᳘भजति ते᳘नो ह पश᳘वो ऽन्वा᳘भक्ता य᳘न्मनु᳘ष्यान᳘नु पश᳘वः॥
मूलम् - श्रीधरादि
या वै᳘ प्रजा᳘ यज्ञे᳘ ऽनन्वाभक्ताः॥
प᳘राभूता वै ता एव᳘मे᳘वैतद्या᳘ ऽइमाः᳘ प्रजा अ᳘पराभूतास्ता᳘ यज्ञमुख ऽआ᳘भजति ते᳘नो ह पश᳘वो ऽन्वा᳘भक्ता य᳘न्मनु᳘ष्यान᳘नु पश᳘वः॥
मूलम् - Weber
या वै᳘ प्रजा᳘ यज्ञे᳘ ऽनन्वाभक्ताः॥
प᳘राभूता वै ता᳘ एव᳘मेॗवैतद्या᳘ इमाः᳘ प्रजा अ᳘पराभूतास्ता᳘ यज्ञमुख आ᳘भजति ते᳘नो ह पश᳘वो ऽन्वा᳘भक्ता य᳘न्मनुॗष्यान᳘नु पश᳘वः॥
मूलम् - विस्वरम्
या वै प्रजा यज्ञे ऽनन्वाभक्ताः- पराभूता वै ताः । एवमेवैतत्- या इमाः प्रजा अपराभूतास्ता यज्ञमुख आभजति । तेनो ह पशवो ऽन्वाभक्ताः- यन्मनुष्याननु पशवः ॥ २० ॥
सायणः
या वै प्रजा इति । ‘अनन्वाभक्ताः’ भागरहिताः, ‘ताः पराभूताः’ खलु । अत एव प्राशने सति ‘या इमाः’ सर्वाः प्रजाः ‘यज्ञमुखे’ यज्ञानां मुखभूते ऽग्निहोत्रे यजमान आहुतिभागयुक्ताः करोतीत्यर्थः । कस्तर्हि पशूनां भाग इति, तत्राह- तेनो हेति । ‘मनुष्यान् अनु’ मनुष्याधीनतया यतो गवाद्याः ‘पशवः’ तिष्ठन्ति, तेनैव कारणेन मनुष्यद्वारा ते ऽपि भागयुक्ता इत्यर्थः ॥ २० ॥
Eggeling
- Verily, the creatures that are not allowed to take part in the sacrifice are forlorn; to those creatures that are not forlorn he thus offers a share at the opening of the sacrifice; and thus beasts (cattle) are made to share in it along with (men), since beasts are behind men 25.
२१
विश्वास-प्रस्तुतिः
त᳘दु होवाच या᳘ज्ञवल्क्यः᳘॥
(ल्क्यो᳘) न वै᳘ यज्ञ᳘ इव म᳘न्तवै᳘ पाकयज्ञ᳘ ऽइ᳘व वा ऽइतीदᳫँ᳭ हि य᳘दन्यस्मिन्यज्ञे᳘ स्रुच्य᳘वद्यति स᳘र्वं त᳘दग्नौ᳘ जुहोत्य᳘थैत᳘दग्नौ᳘ हु᳘त्वोत्सृप्याचामति नि᳘र्लेढि त᳘दस्य᳘ पाकयज्ञ᳘स्येवे᳘ति त᳘दस्य त᳘त्पश᳘व्यᳫँ᳭ रूपं᳘ पश᳘व्यो हि᳘ पाकयज्ञः᳘॥
मूलम् - श्रीधरादि
त᳘दु होवाच या᳘ज्ञवल्क्यः᳘॥
(ल्क्यो᳘) न वै᳘ यज्ञ᳘ इव म᳘न्तवै᳘ पाकयज्ञ᳘ ऽइ᳘व वा ऽइतीदᳫँ᳭ हि य᳘दन्यस्मिन्यज्ञे᳘ स्रुच्य᳘वद्यति स᳘र्वं त᳘दग्नौ᳘ जुहोत्य᳘थैत᳘दग्नौ᳘ हु᳘त्वोत्सृप्याचामति नि᳘र्लेढि त᳘दस्य᳘ पाकयज्ञ᳘स्येवे᳘ति त᳘दस्य त᳘त्पश᳘व्यᳫँ᳭ रूपं᳘ पश᳘व्यो हि᳘ पाकयज्ञः᳘॥
मूलम् - Weber
त᳘दु होवाच या᳘ज्ञवल्क्यः॥
न वै᳘ यज्ञ᳘ इव म᳘न्तवै᳘ पाकयज्ञ᳘ इव वा इ᳘तीदᳫं हि य᳘दन्य᳘स्मिन्यज्ञे᳘ स्रुच्य᳘वद्य᳘ति स᳘र्वं त᳘दग्नौ᳘ जुहोत्य᳘थैत᳘दग्नौ᳘ हुॗत्वोत्सृप्या᳘चामति नि᳘र्लेढि त᳘दस्य पाकयज्ञ᳘स्येवे᳘ति त᳘दस्य त᳘त्पशव्यं᳘ रूपम् पशॗव्यो हि पाकयज्ञः॥
मूलम् - विस्वरम्
तदु होवाच याज्ञवल्क्यः- न वै यज्ञ इव मन्तवै पाकयज्ञ इव वा इति, इदं हि यदन्यस्मिन्यज्ञे स्रुच्यवद्यति सर्वं तदग्नौ जुहोति । अथैतदग्नौ हुत्वोत्सृप्याचामति, निर्लेढि । तदस्य पाकयज्ञस्येवेति । तदस्य तत्पशव्यं रूपम् । पशव्यो हि पाकयज्ञः ॥ २१ ॥
सायणः
अस्याग्निहोत्रस्य याज्ञवल्क्याभिमतं पाकयज्ञत्वमुपन्यस्यति- तदु होवाचेति । न खल्वग्निहोत्रहोमो दर्शपूर्णमासादियज्ञवत् केवलयज्ञत्वेन मन्तव्यः, अयं खलु पाकयज्ञ इव भवति ‘इति’- शब्दो वाक्यसमाप्तौ । एतदुपपादयति- इदं हीति 26 । इदं खलग्निहोत्रं वक्ष्यमाणरूपम् ‘तत्र पशव्यावदानादिकं (कर्म) केवलो यज्ञधर्म्मः अग्नौ किञ्चिद्धुत्वा किञ्चिदवशेषमुत्सृप्य बहिर्निर्गम्य आचमननिर्लेहनादिकः पाकयज्ञधर्मः, तस्याग्निहोत्रस्य पाकयज्ञस्य सतो रूपम् । अस्त्वेवम्, किं तत इत्याह- तदस्येति । ‘तत्’ पाकयज्ञियम् ‘अस्य’ अग्निहोत्रस्य ‘रूपं पशव्यम्’ पशुभ्यो हितम्, पशुप्राप्तिसाधनमित्यर्थः ॥ २१ ॥
Eggeling
- On this point Yājñavalkya said, ‘It (the Agnihotra) must not be looked upon as a (havis-) sacrifice, but as a domestic sacrifice (pākayajña); for while in any other (havis-)sacrifice he pours into the fire all that he cuts off (from the sacrificial dish and puts) into the offering spoon,–here, after offering and stepping outside 27, he sips water and licks out (the milk); and this indeed (is a characteristic) of the domestic offering.’ This then is the animal
characteristic 28 of that (Agnihotra), for the domestic offering pertains to beasts (or cattle).
२२
विश्वास-प्रस्तुतिः
सैषै᳘काहुति᳘रेवा᳘ग्रे॥
या᳘मेवामूं᳘ प्रजा᳘पतिर᳘जुहोद᳘थ य᳘देत᳘ ऽएत᳘त्प᳘श्चेवा᳘ध्रियन्ताग्नि᳘र्यो ऽयं प᳘वते सू᳘र्य्यस्त᳘स्मादेषा᳘ द्वितीया᳘हुतिर्हूयते॥
मूलम् - श्रीधरादि
सैषै᳘काहुति᳘रेवा᳘ग्रे॥
या᳘मेवामूं᳘ प्रजा᳘पतिर᳘जुहोद᳘थ य᳘देत᳘ ऽएत᳘त्प᳘श्चेवा᳘ध्रियन्ताग्नि᳘र्यो ऽयं प᳘वते सू᳘र्य्यस्त᳘स्मादेषा᳘ द्वितीया᳘हुतिर्हूयते॥
मूलम् - Weber
सैषै᳘काहुति᳘रेवा᳘ग्रे॥
या᳘मेवामू᳘म् प्रजा᳘पतिर᳘जुहोद᳘थ य᳘देत᳘ एत᳘त्पॗश्चेवा᳘ध्रियन्ताग्निॗर्यो ऽयम् प᳘वते सू᳘र्यस्त᳘स्मादेषा᳘ द्वितीया᳘हुतिर्हूयते॥
मूलम् - विस्वरम्
सैषैकाहुतिरेवाग्रे यामेवामूं प्रजापतिरजुहोत् । अथ यदेतत्पश्चेवाध्रियन्त अग्निर्यो ऽयं पवते सूर्यस्तस्मादेषा द्वितीयाहुतिर्हूयते ॥ २२ ॥
सायणः
सैषेत्यादि । ‘अमूं’ विप्रकृष्टां ‘याम्’ आहुतिं ‘प्रजापतिः’ सृष्टिकाले प्रथमम् ‘अजुहोत्’ ‘सैषा’ ‘एका’ अग्निहोत्रस्य पूर्वाहुतिः । अनन्तरञ्च ‘यदेते’ अग्निवायुसूर्याः ‘पश्चा’ पश्चात् ‘इव’ ‘आध्रियन्त’ अवस्थिताः अतस्तदनुप्रीतय एषा द्वितीयाहुतिरित्यर्थः ॥ २२ ॥
Eggeling
२३
विश्वास-प्रस्तुतिः
सा या पूर्वा᳘हुतिः᳘॥
साग्निहोत्र᳘स्य देव᳘ता त᳘स्मात्त᳘स्यै जुहोत्य᳘थ यो᳘त्तरा स्विष्टकृद्भाजन᳘मेव सा त᳘स्मात्ता᳘मुत्तरार्द्धे जुहोत्येषा हि दि᳘क् स्विष्टकृतस्त᳘न्मिथुना᳘यैवैषा᳘ द्वितीया᳘हुतिर्हूयते द्वन्द्वᳫँ᳭ हि मिथुनं᳘ प्रज᳘ननम्॥
मूलम् - श्रीधरादि
सा या पूर्वा᳘हुतिः᳘॥
साग्निहोत्र᳘स्य देव᳘ता त᳘स्मात्त᳘स्यै जुहोत्य᳘थ यो᳘त्तरा स्विष्टकृद्भाजन᳘मेव सा त᳘स्मात्ता᳘मुत्तरार्द्धे जुहोत्येषा हि दि᳘क् स्विष्टकृतस्त᳘न्मिथुना᳘यैवैषा᳘ द्वितीया᳘हुतिर्हूयते द्वन्द्वᳫँ᳭ हि मिथुनं᳘ प्रज᳘ननम्॥
मूलम् - Weber
सा या पूर्वा᳘हुतिः᳟᳟॥
साग्निहोत्र᳘स्य देव᳘ता त᳘स्मात्त᳘स्यै जुहोत्य᳘थ यो᳘त्तरा स्विष्टकृद्भाजन᳘मेव सा त᳘स्मात्ता᳘मुत्तरार्धे जुहोत्येषा हि दि᳘क् स्विष्टकृ᳘तस्त᳘न्मिथुना᳘यैॗवैषा᳘ द्वितीया᳘हुतिर्हूयते द्वन्द्वᳫं हि᳘ मिथुन᳘म् प्रज᳘ननम्॥
मूलम् - विस्वरम्
सा या पूर्वाहुतिः साग्निहोत्रस्य देवता । तस्मात्तस्यै जुहोति । अथ योत्तरा- स्विष्टकृद्भाजनमेव सा । तस्मात्तामुत्तरार्द्धे जुहोति, एषा हि दिक् स्विष्टकृतः । तन्मिथुनायैवैषा द्वितीयाहुतिर्हूयते । द्वन्द्वं हि मिथुनं प्रजननम् ॥ २३ ॥
सायणः
तत्र पूर्वाहुतिरग्निहोत्रस्य प्रधानदेवताप्रीतिकरीत्याह- सा येति । द्वितीया तु स्विष्टकृत्स्थानीयेत्याह- अथ येति । एषा हि दिगिति । ‘स्विष्टकृतः’ स्विष्टकृदाहुतेः ‘उत्तरार्द्धे’ यथाक्रमेण “भूतञ्चैव भविष्यच्च”- इत्यादि वक्ष्यमाणद्वयात्मक इत्यर्थः ॥ २३ ॥
Eggeling
- What first libation (pūrvāhuti) is made, that is the deity of the Agnihotra 31, and to that (deity) it is accordingly offered; and what second one (uttarāhuti) is made, that indeed is equivalent to the Svishṭakr̥t (Agni, the maker of good offering); whence he offers it on the north part (of the fire), since that is the region of the Svishṭakr̥t 32. Moreover, this second libation is made in order to effect a pairing, for a couple forms a productive pair.
२४
विश्वास-प्रस्तुतिः
त᳘द्द्वय᳘मे᳘वैते ऽआ᳘हुती॥
भूतं᳘ चैव᳘ भविष्य᳘च्च जातं᳘ च जनिष्यमाणं चा᳘गतं चा᳘शा चाद्य᳘ च श्व᳘श्च त᳘द्द्वय᳘मेवा᳘नु᳘॥
मूलम् - श्रीधरादि
त᳘द्द्वय᳘मे᳘वैते ऽआ᳘हुती॥
भूतं᳘ चैव᳘ भविष्य᳘च्च जातं᳘ च जनिष्यमाणं चा᳘गतं चा᳘शा चाद्य᳘ च श्व᳘श्च त᳘द्द्वय᳘मेवा᳘नु᳘॥
मूलम् - Weber
त᳘द्द्वय᳘मेॗवैते आ᳘हुती॥
भूतं᳘ चैव᳘ भविष्य᳘च्च जातं᳘ च जनिष्य᳘माणं चा᳘गतं चाशा चाद्य᳘ च श्व᳘श्च त᳘द्द्वय᳘मेवानु 33 ॥
मूलम् - विस्वरम्
तद् द्वयमेवैते आहुती भूतं चैव भविष्यच्च, जातं च जनिष्यमाणं च, आगतं च आशा च, अद्य च श्वश्च, तद्द्वयमेवानु ॥ २४ ॥
सायणः
तद् द्वयमेवेति । भूतमित्यादि । ‘भूतम्’ अतीतकालावच्छिन्नम् ‘भविष्यत्’ आगामिकालावच्छिन्नम् । एवं जातादिषु योज्यम् । आशा चेति । आशागोचरं प्राप्तव्यमित्यर्थः । अद्य च श्वश्चेति । वर्त्तमानानागतकालौ । एवं बहुविधं ‘तद् द्वयमेवानु’ तद्भागरूपे यथाक्रममेते आहुती भवत इत्यर्थः ॥ २४ ॥
Eggeling
- These two libations, then, form a duad: the past and the future, the born and the to-be-born, the actual 34 and the hope, the to-day and the morrow,–(these are) after the manner of that duad.
२५
विश्वास-प्रस्तुतिः
(न्वा᳘) आ᳘त्मैव᳘ भूत᳘म्॥
(म) अद्धा हि तद्य᳘द्भू᳘त᳘म᳘द्धो तद्य᳘दात्मा᳘ प्र᳘जैव᳘ भविष्यद᳘नद्धा हि तद्य᳘द्भविष्यद᳘नद्धो तद्य᳘त्प्र᳘जा᳘॥
मूलम् - श्रीधरादि
(न्वा᳘) आ᳘त्मैव᳘ भूत᳘म्॥
(म) अद्धा हि तद्य᳘द्भू᳘त᳘म᳘द्धो तद्य᳘दात्मा᳘ प्र᳘जैव᳘ भविष्यद᳘नद्धा हि तद्य᳘द्भविष्यद᳘नद्धो तद्य᳘त्प्र᳘जा᳘॥
मूलम् - Weber
आॗत्मैव᳘ भूत᳘म्॥
अद्धा हि तद्य᳘द्भू᳘त᳘मॗद्धो तद्य᳘दात्मा᳘ प्रॗजैव᳘ भविष्यद᳘नद्धा हि तद्य᳘द्भविष्यद᳘नद्धो तद्य᳘त्प्रजा॥
मूलम् - विस्वरम्
आत्मैव भूतम् । अद्धा हि तद्- यद्भूतम् अद्धो तद्- यदात्मा । प्रजैव भविष्यत् । अनद्धा हि तद्- यद्भविष्यत् अनद्धो तद्- यत् प्रजा ॥ २५ ॥
सायणः
अथ तयोराहुत्योः समन्त्रकामन्त्रकत्वे विधास्यन् भूतभविष्यदादिद्वन्द्वस्यात्मप्रजारूपत्वम्, अद्धानद्धारूपत्वं च दर्शयति- आत्मैव भूतमित्यादिना । आत्मा स्वयं पिता ‘एव’ भूतम्, यच्च भूतम् तद् ‘अद्धा’; अनुभूतत्वात् प्रत्यक्षम् । एवमात्मनो भूतस्य च अद्धात्वसाम्यादात्मा भूतमिति तादात्म्यमित्यर्थः । “प्रजैव भविष्यदिति” प्रतिज्ञा । तदुपपादनम्- अनद्धा हीत्यादि । ‘अनद्धा’ अप्रत्यक्षम्; प्रजाभविष्यतोरप्रत्यक्षत्वसाम्यात् तादात्म्यमित्यर्थः ॥ २५ ॥
Eggeling
- The past is the self, for certain is that which is past, and certain also is that which is a self. The future, on the other hand, is progeny; for uncertain is that which is to be, and uncertain also is progeny.
२६
विश्वास-प्रस्तुतिः
(जा᳘ ऽऽत्मै) आ᳘त्मैव᳘ जात᳘म्॥
(म) अद्धा हि तद्य᳘ज्जातमद्धो तद्य᳘दात्मा᳘ प्र᳘जैव᳘ जनिष्य᳘माणम᳘नद्धा हि तद्य᳘ज्जनिष्य᳘माणमनद्धो तद्य᳘त्प्र᳘जा᳘॥
मूलम् - श्रीधरादि
(जा᳘ ऽऽत्मै) आ᳘त्मैव᳘ जात᳘म्॥
(म) अद्धा हि तद्य᳘ज्जातमद्धो तद्य᳘दात्मा᳘ प्र᳘जैव᳘ जनिष्य᳘माणम᳘नद्धा हि तद्य᳘ज्जनिष्य᳘माणमनद्धो तद्य᳘त्प्र᳘जा᳘॥
मूलम् - Weber
आॗत्मैव जात᳘म्॥
अद्धा हि तद्य᳘ज्जात᳘मॗद्धो तद्य᳘दात्मा᳘ प्रॗजैव᳘ जनिष्य᳘माणम᳘नद्धा हि तद्य᳘ज्जनिष्य᳘माणम᳘नद्धो तद्य᳘त्प्रजा॥
मूलम् - विस्वरम्
आत्मैव जातम् । अद्धा हि तद्- यज्जातम् अद्धो तद्- यदात्मा । प्रजैव जनिष्यमाणम् । अनद्धा हि तद्- यज्जनिष्यमाणम् । अनद्धो यद्- यत्प्रजा ॥ २६ ॥
सायणः
एवम् आत्मैव जातमित्यादिषु द्वन्द्वान्तरेषु योजना ॥ २६ ॥
Eggeling
- The born is the self, for certain is that which is born, and certain also is the self. The to-be-born,
on the other hand, is progeny; for uncertain is what is to be born, and uncertain also is progeny.
२७
विश्वास-प्रस्तुतिः
(जा᳘ ऽऽत्मै) आ᳘त्मैवा᳘गतम्॥
(म) अद्धा हि तद्यदा᳘गतम᳘द्धो तद्य᳘दात्मा᳘ प्र᳘जैवाशा᳘नद्धा हि तद्य᳘दाशा᳘नद्धो तद्य᳘त्प्र᳘जा᳘॥
मूलम् - श्रीधरादि
(जा᳘ ऽऽत्मै) आ᳘त्मैवा᳘गतम्॥
(म) अद्धा हि तद्यदा᳘गतम᳘द्धो तद्य᳘दात्मा᳘ प्र᳘जैवाशा᳘नद्धा हि तद्य᳘दाशा᳘नद्धो तद्य᳘त्प्र᳘जा᳘॥
मूलम् - Weber
आ᳘त्मैवा᳘गतम्॥
अद्धा हि तद्यदा᳘गतमॗद्धो तद्य᳘दात्मा᳘ प्रॗजैॗवाशा᳘नद्धा हि तद्य᳘दाशा᳘नद्धो तद्य᳘त्प्रजा॥
मूलम् - विस्वरम्
आत्मैवागतम् । अद्धा हि तद्- यदागतम् अद्धो तद्- यदात्मा । प्रजैवाशा । अनद्धा हि तद्- यदाशा अनद्धो तद्- यत्प्रजा ॥ २७ ॥
सायणः
आत्मैवागतमिति । आत्मप्रजारूपेण अद्धानद्धारूपेण चाहुती स्तुत्वा हूयते, स चाद्धारूपो मन्त्रो ऽपि देवताप्रकाशकत्वात् तथा ॥ २७ ॥
Eggeling
- The actual is the self, for certain is what is actual, and certain also is the self. And hope is progeny, for uncertain is hope, and uncertain also is progeny.
२८
विश्वास-प्रस्तुतिः
(जा᳘ ऽऽत्मै) आ᳘त्मै᳘वा᳘द्य॥
(द्या) अद्धा हि तद्यद᳘द्या᳘द्धो तद्य᳘दात्मा᳘ प्र᳘जैव श्वो᳘ ऽनद्धा हि तद्यछ्वो᳘ ऽनद्धो तद्य᳘त्प्रजा॥
मूलम् - श्रीधरादि
(जा᳘ ऽऽत्मै) आ᳘त्मै᳘वा᳘द्य॥
(द्या) अद्धा हि तद्यद᳘द्या᳘द्धो तद्य᳘दात्मा᳘ प्र᳘जैव श्वो᳘ ऽनद्धा हि तद्यछ्वो᳘ ऽनद्धो तद्य᳘त्प्रजा॥
मूलम् - Weber
आॗत्मैॗवाद्य॥
अद्धा हि तद्य᳘दॗद्याद्धो तद्य᳘दात्मा᳘ प्रॗजैव श्वो᳘ ऽनद्धा हि तद्यछ्वो᳘ ऽनद्धो तद्य᳘त्प्रजा॥
मूलम् - विस्वरम्
आत्मैवाद्य । अद्धा हि तद्- यदद्य । अद्धो तद्यदात्मा । प्रजैव श्वः । अनद्धा हि तद्- श्वः अनद्धो तद्- यत्प्रजा ॥ २८ ॥
सायणः
आत्मैवाद्येति । अद्येति वर्त्तमानकालः, श्व इत्यागामिकालः ॥ २८ ॥
Eggeling
- The to-day is the self, for certain is what is to-day, and certain also is the self. The morrow is progeny, for uncertain is the morrow, and uncertain also is progeny.
२९
विश्वास-प्रस्तुतिः
सा या पूर्वाहुतिः᳘॥
सात्मा᳘नमभि᳘हूयते तां म᳘न्त्रेण जुहोत्यद्धा हि तद्यन्म᳘न्त्रो᳘ ऽद्धो तद्य᳘दात्मा᳘ ऽथ यो᳘त्तरा सा᳘ प्रजा᳘मभिहूयते तां᳘ तूष्णीं᳘ जुहोत्य᳘नद्धा हि तद्य᳘त्तूष्णीम᳘नद्धो तद्य᳘त्प्रजा॥
मूलम् - श्रीधरादि
सा या पूर्वाहुतिः᳘॥
सात्मा᳘नमभि᳘हूयते तां म᳘न्त्रेण जुहोत्यद्धा हि तद्यन्म᳘न्त्रो᳘ ऽद्धो तद्य᳘दात्मा᳘ ऽथ यो᳘त्तरा सा᳘ प्रजा᳘मभिहूयते तां᳘ तूष्णीं᳘ जुहोत्य᳘नद्धा हि तद्य᳘त्तूष्णीम᳘नद्धो तद्य᳘त्प्रजा॥
मूलम् - Weber
सा या पूर्वा᳘हुतिः॥
सात्मा᳘नमभि᳘ हूयते ताम् म᳘न्त्रेण जुहोत्यद्धा हि तद्यन्म᳘न्त्रोॗ ऽद्धो तद्य᳘दात्मा᳘ ऽथ यो᳘त्तरा सा᳘ प्रजा᳘मभि᳘ हूयते तां᳘ तूष्णीं᳘ जुहोत्य᳘नद्धा हि तद्य᳘त्तूष्णीमनद्धो तद्य᳘त्प्रजा॥
मूलम् - विस्वरम्
सा या पूर्वाहुतिः सात्मानमभिहूयते । तां मन्त्रेण जुहोति । अद्धा हि तद्- यन्मन्त्रः । अद्धो तद्- यदात्मा । अथ योत्तरा सा प्रजामभिहूयते । तां तूष्णीं जुहोति । अनद्धा हि तद्- यत्तूष्णीम् । अनद्धो तद्- यत् प्रजा ॥ २९ ॥
सायणः
सा या पूर्वाहुतिरिति । ‘तां’ पूर्वाहुतिं मन्त्रेण जुहुयादित्यर्थः । उत्तराहुतिस्तु भविष्यजनिष्यमाणा अनागताद्यात्मकप्रजास्थानीया, सा चानद्धारूपा; अमन्त्रकत्वमपि तथेति, तूष्णीं तु भविष्यज्जनिष्यमाणानागताद्यात्मकप्रजास्थानीया, सा चानद्धारूपा; अमन्त्रकमपि तथेति तूष्णीमेव 35 सां होतव्येत्यर्थः ॥ २९ ॥
Eggeling
- Now that first libation is offered on account of the self: he offers it with a sacred text, for certain is the sacred text, and certain also is the self. And that second one is offered on account of progeny: he offers it silently, for uncertain is what (is done) silently, and uncertain also is progeny.
३०
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
(त्य) अग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहेत्य᳘थ प्रातः सू᳘र्यो ज्यो᳘तिर्ज्यो᳘तिः सू᳘र्यः स्वाहे᳘ति त᳘त्सत्ये᳘नैव᳘ हूयते यदा᳘ ह्येव सू᳘र्यो ऽस्तमेत्य᳘थाग्निर्ज्यो᳘तिर्यदा सू᳘र्य ऽउदेत्य᳘थ सू᳘र्यो ज्यो᳘तिर्यद्वै सत्ये᳘न हूय᳘ते त᳘द्देवा᳘न्गच्छति॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
(त्य) अग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहेत्य᳘थ प्रातः सू᳘र्यो ज्यो᳘तिर्ज्यो᳘तिः सू᳘र्यः स्वाहे᳘ति त᳘त्सत्ये᳘नैव᳘ हूयते यदा᳘ ह्येव सू᳘र्यो ऽस्तमेत्य᳘थाग्निर्ज्यो᳘तिर्यदा सू᳘र्य ऽउदेत्य᳘थ सू᳘र्यो ज्यो᳘तिर्यद्वै सत्ये᳘न हूय᳘ते त᳘द्देवा᳘न्गच्छति॥
मूलम् - Weber
स᳘ जुहोति॥
अग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहेत्य᳘थ प्रातः सू᳘र्यो ज्यो᳘तिर्ज्योतिः सू᳘र्यः स्वाहे᳘ति त᳘त्सत्ये᳘नैव᳘ हूयते यदा ह्येवसू᳘र्यो ऽस्तमेत्य᳘थाग्निर्ज्यो᳘तिर्यदा सू᳘र्य उदेत्य᳘थ सू᳘र्यो ज्यो᳘तिर्यद्वै᳘ सत्ये᳘न हूय᳘ते त᳘द्देवा᳘न् गछति॥
मूलम् - विस्वरम्
स जुहोति- “अग्निर्ज्योतिर्ज्योज्यतिरग्निः स्वाहा”- (वा० सं० अ० ३ मं १०) इति । अथ प्रातः- “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा”- (वा० सं० अ० ३ मं. ११) इति । तत् सत्येनैव हूयते । यदा ह्येव सूर्यो ऽस्तमेति- अथाग्निर्ज्योतिः । यदा सूर्य उदेति- अथ सूर्यो ज्योतिः । यद्वै सत्येन हूयते तद् देवान् गच्छति ॥ ३० ॥
सायणः
कालद्वये ऽपि पूर्वस्या आहुतेः क्रमेण मन्त्रं दर्शयति- स जुहोतीति 36 । मन्त्रयोः सत्यरूपत्वमुपपादयितुमर्थसद्भावमाह- यदा हीत्यादिना । अस्तङ्गतः सूर्यो ऽग्निमेवानुप्रविशतीति रात्रावग्निर्ज्योतीरूपो भवति, पुनरुद्यन्तं सूर्यमग्निरनुप्रविशतीत्यहनि सूर्यो ज्योतीरूपो भवति । अतश्च कालद्वये अग्निर्ज्योतिः सूर्यो ज्योतिरिति (वा. सं. अ. ३ । १० । ११) यदेतन्मन्त्रवाक्यद्वयं तत् समवेतार्थत्वात् सत्यम् ॥ ३० ॥
Eggeling
- [In the evening] he offers (the first libation), with the text (Vāj. S. III, 9, 10), ‘Agni is the light, the light is Agni, Svāhā!’ and in the morning with, ‘Sūrya (the sun) is the light, the light is Sūrya, Svāhā!’ Thus offering is made with the truth; for, truly, when the sun goes down, then Agni (fire) is the light, and when the sun rises, then Sūrya is the light; and whatever is offered with the truth, that, indeed, goes to the gods.
३१
विश्वास-प्रस्तुतिः
त᳘दु हैत᳘देवा᳘रुणये ब्रह्मवर्च्चस᳘कामाय तक्षा᳘नूवाचाग्निर्व्व᳘र्चो ज्यो᳘तिर्व्व᳘र्च्चः सू᳘र्यो व्व᳘र्चो ज्यो᳘तिर्व्व᳘र्च्च ऽइति ब्रह्मवर्चसी᳘ हैव᳘ भवति य᳘ ऽएवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति॥
मूलम् - श्रीधरादि
त᳘दु हैत᳘देवा᳘रुणये ब्रह्मवर्च्चस᳘कामाय तक्षा᳘नूवाचाग्निर्व्व᳘र्चो ज्यो᳘तिर्व्व᳘र्च्चः सू᳘र्यो व्व᳘र्चो ज्यो᳘तिर्व्व᳘र्च्च ऽइति ब्रह्मवर्चसी᳘ हैव᳘ भवति य᳘ ऽएवं᳘ विद्वा᳘नग्निहोत्रं᳘ जुहो᳘ति॥
मूलम् - Weber
त᳘दु हैत᳘देवा᳘रुणये ब्रह्मवर्चस᳘कामाय तक्षा᳘नूवा᳘चाग्निर्व᳘र्चो ज्यो᳘तिर्व᳘र्चः सू᳘र्यो व᳘र्चो ज्यो᳘तिर्व᳘र्च इ᳘ति ब्रह्मवर्चसी᳘ हैव᳘ भवति य᳘ एवं᳘ विद्वा᳘नग्नि होत्रं᳘ जुहोति॥
मूलम् - विस्वरम्
तदु हैतदेवारुणये ब्रह्मवर्चसकामाय तक्षा- नूवाच- “अग्निर्वर्चो ज्योतिर्वचः सूर्यो वर्चो ज्योतिर्वर्चः”- (वा. सं. अ. ३ । १२) इति । ब्रह्मवर्चसी हैव भवति, य एवं विद्वानग्निहोत्रं जुहोति ॥ ३१ ॥
सायणः
अनयोः सायम्प्रातर्होमयोर्ब्रह्मवर्च्चसकामस्य कर्त्तव्यतोपन्यासपुरस्सरं मन्त्रविशेषौ दर्शयति- तदु हैतदिति । अग्निर्ज्योतिः सूर्यो ज्योतिरिति चत्वारो वर्च्चश्शब्दाभिधेयस्य तेजसः प्रतिपादकाः, अत एवाभ्यां मन्त्राभ्यां जुह्वतः पुरुषस्य ब्रह्मतेजः सम्पद्यत इत्यर्थः । तदुक्तं कात्यायनेन- “अग्निर्वर्च्च इति ब्रह्मवर्च्चसकामस्य”- इति (का. श्रौ. सू. ४ । ३२९) ॥ ३१ ॥
Eggeling
- Here now Takshan recited for Āruṇi 37, who wished to obtain holy lustre (brahmavarcasa, inspired nature), ‘Agni is lustre, light is lustre;’–‘Sūrya is lustre, light is lustre.’ Holy lustre, therefore, he obtains whosoever, knowing this, thus offers the Agnihotra.
३२
विश्वास-प्रस्तुतिः
तद्व᳘स्त्येव᳘ प्रज᳘ननस्येव रूप᳘म्॥
(म) अग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहे᳘ति त᳘दुभय᳘तो ज्यो᳘ती रे᳘तो देव᳘तया प᳘रिगृह्णात्युभयतः परिगृहीतं वै रे᳘तः प्र᳘जायते त᳘दुभय᳘त ऽए᳘वैत᳘त्परिगृ᳘ह्य प्र᳘जनयति॥
मूलम् - श्रीधरादि
तद्व᳘स्त्येव᳘ प्रज᳘ननस्येव रूप᳘म्॥
(म) अग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहे᳘ति त᳘दुभय᳘तो ज्यो᳘ती रे᳘तो देव᳘तया प᳘रिगृह्णात्युभयतः परिगृहीतं वै रे᳘तः प्र᳘जायते त᳘दुभय᳘त ऽए᳘वैत᳘त्परिगृ᳘ह्य प्र᳘जनयति॥
मूलम् - Weber
तद्व᳘स्त्येव᳘ प्रज᳘ननस्येव रूप᳘म्॥
अग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वा᳘हेति त᳘दुभय᳘तो ज्यो᳘ती रे᳘तो देवत᳘या प᳘रिगृह्णात्युभयतः परिगृहीतं वै रे᳘तः प्र᳘जायते त᳘दुभय᳘त एॗवैत᳘त्परिगृ᳘ह्य प्र᳘जनयति॥
मूलम् - विस्वरम्
तद्वस्त्येव प्रजननस्येव रूपम्- “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा”- (वा. सं. अ. ३. मं. १३) इति । तदुभयतो ज्योती रेतो देवतया परिगृह्णाति । उभयतः परिगृहीतं वै रेतः प्रजायते, तद् उभयत एवैतत्परिगृह्य प्रजनयति ॥ ३२ ॥
सायणः
तद्वस्त्येवेत्यादि । तस्मिन् होममन्त्रे प्रजननस्य रूपमिव ‘रूपम्’ विद्यते । ज्योतिश्शब्दाभिधेयं मध्ये ऽवस्थितं ‘रेतः’ ‘उभयतः’ ‘देवतया’ देवतावाचिपदाभ्यां ‘परिगृह्णाति’ उभयतः परिगृहीतत्वं रेतसः प्रजननरूपम् । अतः ** “अग्निर्ज्योतिः- “सूर्यो ज्योतिः”**- (वा. सं. अ. ३ । ९ । १ । २ ।) इति मन्त्रयोः प्रजननरूपसद्भावात् ताभ्यां होमे प्रजासम्पत्तिर्भवतीत्यर्थः ॥ ३२ ॥ ३३ ॥
Eggeling
- That (other text), however, has the characteristic form of generation. In saying, ‘Agni is the light, the light is Agni, Svāhā!’ he encloses that seed, the light, on both sides with the deity; and the seed, thus enclosed on both sides, is brought forth: thus enclosing it on both sides he causes it to be brought forth.
३३
विश्वास-प्रस्तुतिः
(त्य) अ᳘थ प्रातः॥
सू᳘र्यो ज्यो᳘तिर्ज्योतिः सू᳘र्यः स्वाहे᳘ति त᳘दुभय᳘तो ज्यो᳘ती रे᳘तो देवत᳘या प᳘रिगृह्णात्युभयतःपरिगृहीतं वै रे᳘तः प्र᳘जायते त᳘दुभय᳘त ए᳘वैत᳘त्परिगृह्य प्र᳘जनयति त᳘त्प्रज᳘ननस्य रूपम्॥
मूलम् - श्रीधरादि
(त्य) अ᳘थ प्रातः॥
सू᳘र्यो ज्यो᳘तिर्ज्योतिः सू᳘र्यः स्वाहे᳘ति त᳘दुभय᳘तो ज्यो᳘ती रे᳘तो देवत᳘या प᳘रिगृह्णात्युभयतःपरिगृहीतं वै रे᳘तः प्र᳘जायते त᳘दुभय᳘त ए᳘वैत᳘त्परिगृह्य प्र᳘जनयति त᳘त्प्रज᳘ननस्य रूपम्॥
मूलम् - Weber
अ᳘थ प्रातः॥
सू᳘र्यो ज्यो᳘तिर्ज्यो᳘तिः सू᳘र्यः स्वाहे᳘ति त᳘दुभय᳘तो ज्यो᳘ती रे᳘तो देवत᳘या प᳘रिगृह्णात्युभयतःपरिगृहीतं वै रे᳘तः प्र᳘जायते त᳘दुभय᳘त एॗवैत᳘त्परिगृ᳘ह्य प्र᳘जनयति त᳘त्प्रज᳘ननस्य रूपम्॥
मूलम् - विस्वरम्
अथ प्रातः “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा”- (वा. सं. अ. ३ । ९ । १ । २) इति । तदुभयतो ज्योती रेतो देवतया परिगृह्णाति । उभयतः परिगृहीतं वै रेतः प्रजायते, तद् उभयत एवै तत्परिगृह्य प्रजनयति । तत् प्रजननस्य रूपम् ॥ ३३ ॥
सायणः
[व्याख्यानं द्वात्रिंशत्तमे]
Eggeling
- And when, in the morning, he says, ‘Sūrya is the light, the light is Sūrya, Svāhā!’ he encloses that seed, the light, on both sides with the deity, and the seed, thus enclosed on both sides, is brought forth: thus enclosing it on both sides he causes it to be brought forth; and this, indeed, is the characteristic form of generation.
३४
विश्वास-प्रस्तुतिः
त᳘दु होवाच जीवलश्चै᳘लकिः॥
(र्ग᳘) ग᳘र्भमेवा᳘रुणिः करो᳘ति न प्र᳘जनयती᳘ति स᳘ ऽएते᳘नैव᳘ सायं᳘ जुहुयात्॥
मूलम् - श्रीधरादि
त᳘दु होवाच जीवलश्चै᳘लकिः॥
(र्ग᳘) ग᳘र्भमेवा᳘रुणिः करो᳘ति न प्र᳘जनयती᳘ति स᳘ ऽएते᳘नैव᳘ सायं᳘ जुहुयात्॥
मूलम् - Weber
त᳘दु होवाच जीवलश्चै᳘लकिः॥
ग᳘र्भमेवा᳘रुणिः करो᳘ति न प्र᳘जनयती᳘ति स᳘ एते᳘नैव᳘ सायं जुहुयात्॥
मूलम् - विस्वरम्
तदु होवाच जीवलश्चैलकिः । “गर्भमेवारुणिः करोति न प्रजनयति” इति । स एतेनैव सायं जुहुयात् ॥ ३४ ॥
सायणः
तदु होवाचेत्यादि । एलकस्य पुत्रः ‘ऐलकिः,’ ‘जीवलः’ इति तस्य नाम । गर्भमेवेति । कालद्वये ऽपि ज्योतिश्शब्दस्य देवतावाचिपदगृहीतत्वात् रेतः परिगृहीतमन्तरवस्थितं गर्भावस्थमेव भवति; न तु प्रजारूपेणोत्पद्यत इत्यादिः तद्दोषोपन्यासः, स एतेनेत्यादिः तत्परिहारः ।
“अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा” (वा. सं. अ. ३ । ९ । ४) इत्येतेनैव सायं जुहुयात् । तेन गर्भो धृतो भवति । प्रातःकाले तु “ज्योतिः सूर्यः सूर्य्यो ज्योतिः 38 स्वाहा” – (वा. सं. अ. ३ । ९ । ५) इत्यनेन मन्त्रेण होमे सति रेतोरूपस्य ज्योतिश्शब्दस्य हिङ्करणात् 39 अन्तर्गतो गर्भो बहिः ‘प्रजातं भवति’ 40 ॥ ३४ ॥
Eggeling
- But Jīvala Cailaki said 41, ‘Āruṇi merely causes conception to take place, not birth: let him therefore offer with that (text, in par. 32) in the evening.
३५
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ प्रातः॥
(र्ज्यो᳘) ज्यो᳘तिः सूर्यः सू᳘र्यो ज्योतिः स्वाहे᳘ति त᳘द्बहिर्द्धा ज्यो᳘ती रे᳘तो देवत᳘या करोति बहिर्द्धा वै रे᳘तः प्र᳘जातं भवति त᳘देनत्प्र᳘जनयति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ प्रातः॥
(र्ज्यो᳘) ज्यो᳘तिः सूर्यः सू᳘र्यो ज्योतिः स्वाहे᳘ति त᳘द्बहिर्द्धा ज्यो᳘ती रे᳘तो देवत᳘या करोति बहिर्द्धा वै रे᳘तः प्र᳘जातं भवति त᳘देनत्प्र᳘जनयति॥
मूलम् - Weber
अ᳘थ प्रातः॥
ज्यो᳘तिः सूर्यः सू᳘र्यो ज्यो᳘तिः स्वाहे᳘ति त᳘द्बहिर्धा ज्यो᳘ती रे᳘तो देवत᳘या करो᳘ति बहिर्धा वै रे᳘तः प्र᳘जातम् भवति त᳘देनत्प्र᳘जनयति॥
मूलम् - विस्वरम्
अथ प्रातः “ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा”- (वा. सं. अ. ३ मं. ९) इति । तद् बहिर्द्धा ज्योती रेतो देवतया करोति । बहिर्द्धा वै रेतः प्रजातं भवति तदेनत् प्रजनयति ॥ ३५ ॥
सायणः
अथ प्रातरिति । स्पष्टम् ॥ ३५ ॥
Eggeling
- Then, in the morning, by the text, “The light is Sūrya, Sūrya is the light,” he places that seed, the light, outside by means of the deity; and the seed thus brought outside he causes to be born.’
३६
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र) अग्ना᳘वे᳘वैत᳘त्सायᳫँ᳭ सू᳘र्यं जुहो᳘ति सू᳘र्ये प्रात᳘रग्निमि᳘ति तद्वै त᳘दुदितहोमि᳘नामेव᳘ यदा᳘ ह्येव सू᳘र्यो ऽस्तमेत्य᳘थाग्निर्ज्यो᳘तिर्यदा सूर्य उदेत्य᳘थ सू᳘र्यो ज्यो᳘ति᳘र्नास्य सा᳘ परिच᳘क्षेय᳘मेव᳘ परिचक्षा यत्त᳘स्यै᳘ नाद्धा᳘ देव᳘तायै हूय᳘ते᳘ या ऽग्निहोत्र᳘स्य देव᳘ता ऽग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहे᳘ति त᳘त्र᳘ नाग्न᳘ये स्वाहेत्य᳘थ प्रातः सू᳘र्यो ज्यो᳘तिर्ज्यो᳘तिः सू᳘र्यः स्वाहे᳘ति त᳘त्र न सू᳘र्याय स्वाहे᳘ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र) अग्ना᳘वे᳘वैत᳘त्सायᳫँ᳭ सू᳘र्यं जुहो᳘ति सू᳘र्ये प्रात᳘रग्निमि᳘ति तद्वै त᳘दुदितहोमि᳘नामेव᳘ यदा᳘ ह्येव सू᳘र्यो ऽस्तमेत्य᳘थाग्निर्ज्यो᳘तिर्यदा सूर्य उदेत्य᳘थ सू᳘र्यो ज्यो᳘ति᳘र्नास्य सा᳘ परिच᳘क्षेय᳘मेव᳘ परिचक्षा यत्त᳘स्यै᳘ नाद्धा᳘ देव᳘तायै हूय᳘ते᳘ या ऽग्निहोत्र᳘स्य देव᳘ता ऽग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहे᳘ति त᳘त्र᳘ नाग्न᳘ये स्वाहेत्य᳘थ प्रातः सू᳘र्यो ज्यो᳘तिर्ज्यो᳘तिः सू᳘र्यः स्वाहे᳘ति त᳘त्र न सू᳘र्याय स्वाहे᳘ति॥
मूलम् - Weber
त᳘दाहुः॥
अग्ना᳘वेॗवैत᳘त्सायᳫं सू᳘र्यं जुहोति सू᳘र्ये प्रात᳘रग्निमि᳘ति तद्वै त᳘दुदितहोमि᳘नामेव᳘ यदाॗ ह्येव सू᳘र्यो ऽस्तमेत्य᳘थाग्निर्ज्यो᳘तिर्यदा सू᳘र्य उदेत्य᳘थ सू᳘र्यो ज्यो᳘तिॗर्नास्य सा᳘ परिचॗक्षेय᳘मेव᳘ परिचक्षा यत्त᳘स्यैॗ नाद्धा᳘ देव᳘तायै हूय᳘तेॗ याग्निहोत्र᳘स्य देव᳘ताग्निर्ज्यो᳘तिर्ज्यो᳘तिरग्निः स्वाहे᳘ति त᳘त्र नाग्न᳘ये स्वाहेत्य᳘थ प्रातः सू᳘र्यो ज्यो᳘तिज्यो᳘तिः सू᳘र्यः स्वाहे᳘ति त᳘त्र न सू᳘र्याय स्वाहे᳘ति॥
मूलम् - विस्वरम्
तदाहुः- अग्नावेवैतत्सायं सूर्यं जुहोति, सूर्ये प्रातरग्निमिति । तद्वै तदुदितहोमिनामेव । यदा ह्येव सूर्यो ऽस्तमेति- अथाग्निज्योतिः । यदा सूर्य उदेति- अथ सूर्यो ज्योतिः । नास्य सा परिचक्षा । इयमेव परिचक्षा- यत् तस्यै नाद्धा देवतायै हूयते या ऽग्निहोत्रस्य देवता । “अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा”- इति, तत्र नाग्नये स्वाहेति । अथ प्रातः । ** “सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा”**- इति तत्र न सूर्याय स्वाहेति ॥ ३६ ॥
सायणः
तदाहुरिति । अग्नावेवैतदिति । अग्निर्ज्योतिरिति मन्त्रेण जुह्वत् ‘अग्नावेव’ सन्तं सूर्यं ‘जुहोति’ तथा च ज्योतिश्शब्दः सूर्यवचनः । प्रातःकाले सूर्ये सन्तमग्निं जुहोति । अतः सूर्योज्योतिरिति ज्योतिश्शब्दो ऽग्निवचनः । अतो यथापठिताभ्यामेव मन्त्राभ्यां होम इत्यभिप्रायः । तदुदितहोमिनामित्यादि । ‘तत्’ उक्तविधानाम् ‘उदितहोमिनामेव,’ नानुदितहोमिनां सम्भवति । कथमिति चेत्, उच्यते- सूर्ये ह्यस्तङ्गते ‘अग्निः ज्योतिः’ प्रकाशमानो भवति, उदिते त्वाग्नेयतेजस्सङ्क्रमात् सूर्यश्च प्रकाशवान् भवति । तस्मात् “अग्निर्ज्योतिः सूर्यो ज्योतिः”- इति मन्त्रनिष्पाद्यस्याग्निहोत्रहोमस्य अग्नौ पूर्वोक्तरूपं (श० प० २ कां० २० प्र० १ ब्रा० ३४ कं.) गर्भमेव करोति, न प्रजनयतीति एवंरूपा निन्दा नास्तीत्यथः ।
तर्ह्युदितहोमपक्ष एवाश्रयणीय इत्याशङ्क्य 42 तत्र दोषान्तरमाह- इयमेव परिचक्षेति । ‘यद्’ यस्मात् ‘अग्नये स्वाहा’, ‘सूर्याय स्वाहा’ इति तस्यै देवतायै प्रत्यक्षं न हूयते, किन्तु “अग्निज्योतिः-सूर्य्यो ज्योतिः”- इति प्रथमान्तत्वेन सम्प्रदानविभक्तेरभावाद् देवतात्वस्य परोक्षमेवास्य पक्षस्य निन्देत्यर्थः ॥ ३६ ॥
Eggeling
- They also say, ‘In the evening he offers Sūrya in Agni, and in the morning he offers Agni in Sūrya 43.’ Such, indeed, is the case with those who offer after sunrise; for when the sun sets then Agni is the light, and when the sun rises then Sūrya is the light. Here no offence is committed on his (the sacrificer’s) part; but an offence is indeed committed where offering is not made distinctly to that deity (viz. Agni or Sūrya resp.), which is the deity of the Agnihotra.
He says 44, ‘Agni is the light, the light is Agni, Svāhā!’ and not, ‘To Agni Svāhā!’ and in the morning, ‘Sūrya is the light, the light is Sūrya, Svāhā!’ and not, ‘To Sūrya Svāhā!’
३७
विश्वास-प्रस्तुतिः
(त्य) अने᳘नैव᳘ जुहुयात्॥
(त्स) सजू᳘र्देवे᳘न सवित्रे᳘ति त᳘त्सवितृम᳘त्प्रसवा᳘य सजू रात्र्ये᳘न्द्रवत्ये᳘ति तद्रा᳘त्र्या मिथुनं᳘ करोति से᳘न्द्रं करोती᳘न्द्रो हि यज्ञ᳘स्य देव᳘ता जुषाणो᳘ ऽअग्नि᳘र्व्वेतु स्वाहे᳘ति त᳘दग्न᳘ये प्रत्य᳘क्षं जुहोति॥
मूलम् - श्रीधरादि
(त्य) अने᳘नैव᳘ जुहुयात्॥
(त्स) सजू᳘र्देवे᳘न सवित्रे᳘ति त᳘त्सवितृम᳘त्प्रसवा᳘य सजू रात्र्ये᳘न्द्रवत्ये᳘ति तद्रा᳘त्र्या मिथुनं᳘ करोति से᳘न्द्रं करोती᳘न्द्रो हि यज्ञ᳘स्य देव᳘ता जुषाणो᳘ ऽअग्नि᳘र्व्वेतु स्वाहे᳘ति त᳘दग्न᳘ये प्रत्य᳘क्षं जुहोति॥
मूलम् - Weber
अने᳘नैव᳘ जुहुयात्॥
सजू᳘र्देवे᳘न सवित्रे᳘ति त᳘त्सवितृम᳘त्प्रसवा᳘य सजू रात्र्ये᳘न्द्रवत्ये᳘ति तद्रा᳘त्र्या मिथुनं᳘ करोति से᳘न्द्रं करोती᳘न्द्रो हि᳘ यज्ञ᳘स्य देव᳘ता जुषाणो᳘ अग्नि᳘र्वेतु स्वाहेति त᳘दग्न᳘ये प्रत्य᳘क्षं जुहोति॥
मूलम् - विस्वरम्
अनेनैव जुहुयात्- “सजूर्देवेन सवित्रा”- (वा. सं. अ. ३ मं. १०) इति, तत् सवितृमत्प्रसवाय । “सजू रात्र्येन्द्रवत्या”- इति । तद् रात्र्या मिथुनं करोति । सेन्द्रं करोति, इन्द्रो हि यज्ञस्य देवता । “जुषाणः सूर्यो वेतु स्वाहा”- (वा. सं. अ. ३ मं. १०) इति, तद् अग्नये प्रत्यक्षं जुहोति ॥ ३७ ॥
सायणः
एवं निन्द्यनिन्दां प्रदर्श्य, अनिन्द्यं पक्षान्तरमाह- अनेनैवेति । तदुक्तम् सूत्रकृता- “प्रदीप्तामभिजुहोति अग्निर्ज्योतिरिति सजूरिति वा”- इति (वा० सं० अ० ३ । ९ । १०) (का० श्रौ० सू० ४ । ३२८) । तत् सवितृमदित्यादि, सुगमम् । प्रत्यक्षं जुहोतीति । ‘जुषाणः’ हविः सेवमानः ‘अग्निः’ ‘वेतु’ कामयतामिति प्रतिपादनात् अग्नेर्होमः प्रत्यक्ष इति प्रागुक्तात् पक्षाद् वैलक्षण्यमित्यर्थः । प्रातःकालीनमन्त्रे ऽप्येवं द्रष्टव्यम् ॥ ३७ ॥ ३८ ॥
Eggeling
- He may also offer (in the evening) with this text (Vāj. S. III, 10), ‘Along with the divine Savitr̥–,’ whereby it (the sacrifice) becomes possessed of Savitr̥ for his impulsion; ‘–along with the Night, wedded to Indra–,’ whereby he effects a union with the night, and makes it (the sacrifice) possessed of Indra, for Indra is the deity of the sacrifice; ‘–may Agni graciously accept! Svāhā!’ whereby he offers to Agni in a direct manner.
३८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प्रातः᳘॥
सजू᳘र्देवे᳘न सवित्रे᳘ति त᳘त्सवितृम᳘त्प्रसवा᳘य सजू᳘रुषसे᳘न्द्रवत्येत्यह्नेति वा तद᳘ह्ना वोष᳘सा वा मिथुनं᳘ करोति से᳘न्द्रं करोती᳘न्द्रो हि᳘ यज्ञ᳘स्य देव᳘ता जुषाणः सू᳘र्य्यो व्वेतु स्वाहे᳘ति तत्सू᳘र्य्याय प्रत्य᳘क्षं जुहोति त᳘स्मादेव᳘मेव᳘ जुहुयात्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प्रातः᳘॥
सजू᳘र्देवे᳘न सवित्रे᳘ति त᳘त्सवितृम᳘त्प्रसवा᳘य सजू᳘रुषसे᳘न्द्रवत्येत्यह्नेति वा तद᳘ह्ना वोष᳘सा वा मिथुनं᳘ करोति से᳘न्द्रं करोती᳘न्द्रो हि᳘ यज्ञ᳘स्य देव᳘ता जुषाणः सू᳘र्य्यो व्वेतु स्वाहे᳘ति तत्सू᳘र्य्याय प्रत्य᳘क्षं जुहोति त᳘स्मादेव᳘मेव᳘ जुहुयात्॥
मूलम् - Weber
अ᳘थ प्रातः᳟॥
सजू᳘र्देवे᳘न सवित्रे᳘ति त᳘त्सवितृम᳘त्प्रसवा᳘य सजू᳘रुषसे᳘न्द्रवत्येत्यह्ने᳘ति वा तद᳘ह्नां वोष᳘सां वा मिथुनं᳘ करोति से᳘न्द्र करोती᳘न्द्रो हि᳘ यज्ञ᳘स्य देव᳘ता जुषाणः सू᳘र्यो वेतु स्वाहे᳘ति तत्सू᳘र्याय प्रत्य᳘क्षं जुहोति त᳘स्मादेव᳘मेव᳘ जुहुयात्॥
मूलम् - विस्वरम्
अथ प्रातः “सजूर्देवेन सवित्रा”- (वा. सं. अ. ३ मं. १०) इति, तत् सवितृमत्प्रसवाय । “सजूरुषसन्द्रवत्या”- (वा. सं. अ. ३ मं. १०) इति, अह्ना- इति वा । तद् अह्ना वोषसा वा मिथुनं करोति । सेन्द्रं करोति । इन्द्रो हि यज्ञस्य देवता । ** “जुषाणः सूर्यो वेतु स्वाहा"**- (वा. सं. अ. ३ मं. १०) इति, तत् सूर्याय प्रत्यक्षं जुहोति । तस्मादेवमेव जुहुयात् ॥ ३८ ॥
सायणः
[व्याख्यानं सप्तत्रिंशत्तमे]
Eggeling
- And in the morning with, ‘Along with the divine Savitr̥–,’ whereby it becomes possessed of Savitr̥ for his impulsion; ‘–along with the Dawn, wedded to Indra,’ or ‘along with the Day . . . .–,’ whereby he effects a union either with the day or the dawn 45, and makes it (the sacrifice) possessed of Indra; for Indra is the deity of sacrifice; ‘–may Sūrya graciously accept! Svāhā!’ whereby he offers to Sūrya directly: hence he may offer in this way.
३९
विश्वास-प्रस्तुतिः
(त्ते᳘) ते᳘ होचुः॥
को᳘ न इद᳘ᳫँ᳘ होष्यती᳘ति ब्राह्मण᳘ ऽएवे᳘ति ब्रा᳘ह्मणेदं᳘ नो जुहुधी᳘ति किं᳘ मे त᳘तो भविष्यती᳘त्यग्निहोत्रोच्छिष्ट᳘मेवे᳘ति स य᳘त्स्रुचि᳘ परिशिन᳘ष्टि त᳘दग्निहोत्रोच्छिष्टम᳘थ य᳘त्स्थाल्यां य᳘था परीणहो निर्व्व᳘पेदेवं तत्त᳘स्मात्तद्य᳘ ऽएव कश्च पिबेत्तद्वै ना᳘ब्राह्मणः पिबेदग्नौ᳘ ह्यधिश्र᳘यन्ति त᳘स्मान्नाब्राह्मणः पिबेत्॥
मूलम् - श्रीधरादि
(त्ते᳘) ते᳘ होचुः॥
को᳘ न इद᳘ᳫँ᳘ होष्यती᳘ति ब्राह्मण᳘ ऽएवे᳘ति ब्रा᳘ह्मणेदं᳘ नो जुहुधी᳘ति किं᳘ मे त᳘तो भविष्यती᳘त्यग्निहोत्रोच्छिष्ट᳘मेवे᳘ति स य᳘त्स्रुचि᳘ परिशिन᳘ष्टि त᳘दग्निहोत्रोच्छिष्टम᳘थ य᳘त्स्थाल्यां य᳘था परीणहो निर्व्व᳘पेदेवं तत्त᳘स्मात्तद्य᳘ ऽएव कश्च पिबेत्तद्वै ना᳘ब्राह्मणः पिबेदग्नौ᳘ ह्यधिश्र᳘यन्ति त᳘स्मान्नाब्राह्मणः पिबेत्॥
मूलम् - Weber
ते᳘ होचुः॥
को᳘ न इद᳘ᳫं᳘ होष्यती᳘ति ब्राह्मण᳘ एवे᳘ति ब्रा᳘ह्मणेदं᳘ नो जुहुधी᳘ति कि᳘म् मे ततो भविष्यती᳘त्यग्निहोत्रोछिष्ट᳘मेवे᳘ति स य᳘त्स्रुचि परिशिन᳘ष्टि त᳘दग्निहोत्रोछिष्टम᳘थ य᳘त्स्थाल्यां य᳘था परीण᳘हो निर्व᳘पेदेवं तत्त᳘स्मात्तद्य᳘ एव क᳘श्च पिबेत्तद्वै ना᳘ब्राह्मणः पिबेदग्नौ ह्य᳘धिश्र᳘यन्ति त᳘स्मान्ना᳘ब्राह्मणः पिबेत्॥
मूलम् - विस्वरम्
ते होचुः- “को न इदं होष्यति”- इति । ब्राह्मण एवेति । ब्राह्मण ! “इदं नो जुहुधि” इति, किं ? मे ततो भविष्यति" इति, “अग्निहोत्रोच्छिष्टमेव” इति । स यत् स्रुचि परिशिनष्टि तद्, अग्निहोत्रोच्छिष्टम् । अथ यत् स्थाल्याम्- यथा परीणहो निर्वपेद् एवं तत् । तस्मात्तद् य एव कश्च पिबेत् । तद्वै नाब्राह्मणः पिबेत् । अग्नौ ह्यधिश्रयन्ति । तस्मान्नाब्राह्मणः पिबेत् ॥ ३९ ॥
इति अग्निहोत्रे होमविधिः ।
सायणः
हुतशिष्टस्य स्थालीमध्यस्थपयसो ब्राह्मणानां पानं विधित्सुः ततो ऽन्य एव ब्राह्मणो ऽग्निहोत्रहोमस्याध्वर्युरिति प्रतिपादयति- ते होचुरित्यादिना । अथ यत् स्थाल्यामिति । अग्निहोत्रहोमसाधनभूतायां स्रुचि यत् हुतशिष्टम्, तस्यैव ‘द्विः प्राश्नोति’ 46 इति प्राशनं विहितम्; यत्तु स्थाल्यामवशिष्यते, तत् नाग्निहोत्रोच्छिष्टम् । तत्र दृष्टान्तः- यथा परीणह इति । परितो नद्धं परिश्रितं 47 धान्यपूर्णं शकटस्योपरि स्थापितम्; यथा तस्माद्धविषो निर्वापयितुं तद्गतं धान्यं न शेष्यते, किन्तु पुनरपि यागान्तरयोग्यमेव । ‘एवं’ ‘तत्’ स्थाल्यां पय इत्यर्थः । तथा चाध्वर्योरेव तत् पानमिति नियमाभावात् यः को ऽपि ब्राह्मणस्तत् पिबेदित्यर्थः 48 ॥ ३९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे तृतीयाध्यायस्य प्रथमं ब्राह्मणम् ॥ २-३-१ ॥
Eggeling
- They then spake, ‘Who shall offer this unto us?’–‘The priest (brāhmaṇa)!’–‘Priest, offer this unto us! What is to be my share then? The residue of the Agnihotra!’ Now what he leaves in
the ladle, that is the residue of the Agnihotra; and what remains in the pot, is as (the rice for oblations which) one takes out from the enclosed part (of the cart) 49. And if any one is to drink it, at least none but a Brāhman must drink it 50: for it is put on the fire (and thereby consecrated), and hence none but a Brāhman must drink it.
-
“उद्धरेति यजमानो ब्रूयात्सायंप्रातयोरग्निहोत्रे” । का. श्रौ. सू. ४ । १३ । १ ॥ ↩︎ ↩︎
-
327:1 Apparently an etymological play on the word agnihotra = agre hotrasya, cf. II, 2, 4, 2. ↩︎
-
“प्रातर्जुहोत्यनुदिते” । का. श्रौ. सू. ४ । १५ । १ । ↩︎
-
The ल of ईलित is remarkable enough, as it is else in the माध्यन्दिनशाखा regularly given by ड. ↩︎
-
327:2 Īlitā hi śere (śerate, Kāṇva rec.) saṁjānānāḥ. ↩︎
-
संति चात्र बहवः काम्यकालविषयः । तद्यथा- “प्रथमास्तमिते पर्युदयञ्च स्वर्गकामस्य, तमो ऽत्यये सायं जुहुयाद्वियति प्रातरायुष्कामस्य, अन्तःपशौ पशुकामस्य सायं प्रातः, शयाने श्रीकामस्य प्रातः” का. श्रौ. सू. ४ । १५ । १२-१५ तथैव होमायाग्न्यवस्था अपि बहुविधास्तत्रैवोक्ताः- “प्रथमसमिद्ध धूप्यमाने प्रजासु निहत्येव सहसान्नमत्स्यतः, भूयिष्ठार्चिषि गृहीत्वेव सहसा, प्रदीप्ततमं श्रीयशस्कामस्य, अर्चिःप्रत्यवाये मैत्रेणान्नमत्स्यतः अंगारेषु चाकश्यमानेषु ब्रह्मवर्चसकामस्य” इति का. श्रौ. सू. ४ । १५ । १६-२० ॥ ↩︎
-
गार्हपत्यादाहवनीयस्योद्धरणमनस्तमितानुदितयोः । इति का. श्रौ. सू. ४। १३ । ३ । ↩︎
-
कथं विच्छित्तिरित्येतद्दर्शयति । इति क्व. पु. पाठः । ↩︎
-
329:1 Vicchinna, ? lit. ‘cut off (from its recipient).’ ↩︎
-
“पयसा स्वर्गकामः पशुकामो वा” का. श्रौ. सू. ४ । ३६५ ॥ ↩︎
-
तत्सर्वं हुतोच्छिष्टमेव । इति क्व. पु. पाठः ॥ ↩︎
-
329:2 Bali is the technical term of the portions of the daily food that have to be assigned to all. creatures. ↩︎
-
जग्नि A. ↩︎
-
“पूर्वेणाहवनीयमाहृत्य गार्हपत्ये ऽधिश्रयत्युत्तरतो निरुह्याङ्गारान्” इति का. श्रौ. सू. ४ । ३१६ ॥ ↩︎ ↩︎
-
330:1 For other ceremonies preceding those above, see I, 3, 3, 13 seq. According to Kāty. IV, 14, 1 he has the Agnihotra cow–standing south of the sacrificial ground and facing the east or north–milked by anybody except a Sūdra. The vessel to be used is of earthenware, and must have been made by an Ārya. The Adhvaryu then takes the vessel, and having entered the Āhavanīya house by the east door and passed over to the Gārhapatya, puts it there on coals previously shifted northwards from the fire. ↩︎
-
य᳘न्वे᳘वि A. ↩︎
-
331:1 According to Kāty. IV, 14, 5 the Adhvaryu illumines the milk with a burning straw; pours some water to it with the sruva or dipping-spoon; then illumines it once more; and lifts up the pot three several times, putting it down each time further north of the fire. Thereupon he warms the two spoons; and wipes them with his hand; and having warmed them once more, he says to the sacrificer, ‘I ladle!’ The latter, while standing, replies, ‘Om, ladle!’ ↩︎
-
चतुरः स्रुवानुन्नयति । का. श्रौ. सू. ४ । ३२४ । ↩︎
-
उन्नीयोपसादयति, पृथिवीमेव प्रीणाति । होष्यन्नुपसादयति, अन्तरिक्षमेव प्रीणाति । हुत्वोपसादयति, दिवमेव प्रीणाति । तै. ब्रा. २ । १ । ५ । ८ । ↩︎
-
331:2 For the Agnihotra-havaṇī, or offering-spoon (sruc), used at the morning and evening libation, and made of Vikankata wood (Flacourtia Sapida), see p. 67, note 2. In the case of those who make five cuttings from the havis (pañcāvattin, cf. p. 192 note) he takes five sruva-fuls. Kāty. IV, 14, 10, Comm. ↩︎
-
331:3 Viz. by the four teats of the udder. Comm. ↩︎
-
331:4 While holding a billet or kindling-stick (samidh) over the (handle of) the milk-ladle, he [first holds the latter close over the Gārhapatya fire, and thereupon] takes it to the Āhavanīya, keeping it on a level with his mouth, except in the middle between the two fires, where he lowers it for a moment to the level of his navel. He then crouches down [bending his right knee, and looking eastwards, by the north-west corner of the Āhavanīya], puts the billet on [the centre of] the fire, and makes the first libation (pūrvāhuti) on the burning stick (see the formula, par. 30. The sacrificer, as usual, pronounces the dedicatory formula, viz. ‘This to Agni!’ and, ‘This to Sūrya!’ respectively). Thereupon he lays down the ladle on the kūrca [a grass-bunch, placed behind the Āhavanīya fire-place, to serve as a seat, and to wipe the hands on; according to others, a flat piece of Varaṇa wood], then takes it up again and silently makes the second libation (uttarāhuti) on the north part of the fire. Kāty. IV, 14, 12-17 with Schol. ↩︎
-
332:1 He ladles four sruva-fuls of milk into the Agnihotra ladle, and makes in the Āhavanīya fire two libations from this milk (so as to leave the larger quantity in the ladle to be eaten). He then wipes twice the spout of the ladle. [In each of the two other fires he thereupon makes likewise two libations with the sruva, of one spoonful each.] The milk left in the ladle he eats, on the completion of the six libations, by twice taking it out with his ring-finger. ↩︎
-
333:1 Tasmād devāḥ santi; anvābhaktāḥ (‘allowed to share in the sacrifice’) has probably to be supplied here from the next paragraph. ↩︎
-
333:2 Instead of this paragraph, the Kāṇva text reads: ‘Behind men are beasts; behind the gods are birds, plants, trees, and whatever else exists here. Thus he makes these creatures share in the sacrifice, those that are not forlorn here.’ Compare I, 5, 2, 4. ↩︎
-
उत्सृप्य निर्लेढ्याचम्योत्सिञ्चति देवाञ्जिन्व पितॄञ्जिन्व तृतीयामुदुक्षति सप्त ऋषीञ्जिन्वेति । का. श्रौ. सू. ४ । ३४१ । ↩︎
-
333:3 Utsr̥pya is variously explained by the commentators here and on Kāty. IV, 14, 27, as ‘having gone out,’ or ‘having slowly moved forward,’ or ‘having risen,’ or ‘having poured out (the milk).’ ↩︎
-
334:1 Paśavyaṁ rūpam,–that is to say, its relation to the paśu or animal sacrifice; and hence also to the iḍā at the haviryajña; cf. I, 7, 4, 19. ↩︎
-
334:2 See II, 2, 4, 4 seq. ↩︎
-
334:3 See II, 2, 4, 18. ↩︎
-
334:4 That is to say, it represents the chief offering at the haviryajña, which is followed by the (oblation to Agni) Svishṭakr̥t. See I, 7, 2, 1 seq. ↩︎
-
334:5 See I, 7, 3, 20. ↩︎
-
मेवा᳘नु A, and this is the correct reading. ↩︎
-
334:6 Āgatam, ‘what has arrived or come to pass,’ ’the accomplished.’ ↩︎
-
तूष्णिं द्वितीयाम् । का. श्रौ. सू । ४ ३३७ । ↩︎
-
प्रदीप्तामभिजुहोत्यग्निर्ज्योतिरिति सजूरिति वा । का. श्रौ. सू. । ४ । ३२८ । ↩︎
-
335:1 The Kāṇva text has,–Here now Daksha said to Āruṇi, ‘For one wishing to obtain brahmavarcasa one should offer with this text, “Agni is lustre, light is lustre;”–“Sūrya is lustre, light is lustre:” a brahmavarcasin, then, he becomes for whomsoever they so sacrifice.’ ↩︎
-
ज्योतिः सूर्य इति वा प्रातः । का. श्रौ. सू. । ४ । ३५५ । ↩︎
-
‘बहिर्धाकरणात्’ इ० पा० । ↩︎
-
‘प्रजायते भवति’ इ. पा. ↩︎
-
336:1 have made Jīvala’s speech extend to the end of par. 35, as is done, no doubt correctly, in the Kāṇva text. ↩︎
-
प्रातर्जुहोत्यनुदिते । का. श्रौ. सू. ४ । ३४६ । ↩︎
-
336:2 The Kāṇva has,–Now they say, ‘In the evening they offer Agni in Sūrya, and in the morning they offer Sūrya in Agni.’ But see the formulas (par. 30), where ’light’ is to be taken as Sūrya and Agni respectively. ↩︎
-
337:1 Here the Kāṇva text begins a new paragraph. The author’s object seems to be to show that those who offer the Agnihotra after sunrise, commit a mistake in not offering to Sūrya unmistakably; for while before sunrise, Sūrya is still reposing in Agni, and the oblation, in being poured into the fire, is consequently made to Sūrya directly, those offering after sunrise should rather use the formula ‘To Sūrya Svāhā!’ Cf. paragraph 9. ↩︎
-
337:2 Instead of ‘ahnāṁ voshasāṁ vā,’ I adopt ‘ahnā voshasā va,’ from the Kāṇva reading ‘ushasā vāhnā vā.’ ↩︎
-
अनामिकया द्विः प्राश्नाति । का. श्रौ. सू. ४ । ३४० । ↩︎
-
‘परिवीतम्’ इति क्व. पा. ↩︎
-
स्थाल्यां परिशिनष्टि तद्ब्राह्मणः पिबेत् । का. श्रौ. सू. ४ । ३२५ । ↩︎
-
338:1 Yathā parīṇaho nirvaped evam tat. The Kāṇva text has: Yathā (yayā MS.) koshṭḥā parīṇaho vā nirmimītaivaṁ tat. ↩︎
-
338:2 Or, ‘anybody may drink it, but none but a Brāhman may drink it.’ According to the Schol. on Katy. IV, 14, II, the milk which is left in the pot may be drunk by a Brāhman, but by no one else; not even in his own house is a Kshatriya or Vaiśya allowed to drink it. ↩︎