०१

विश्वास-प्रस्तुतिः

वसन्तो᳘ ग्रीष्मो᳘ वर्षाः॥
(स्ते᳘) ते᳘ देवा᳘ ऽऋत᳘वः शर᳘द्धेमन्तः शि᳘शिरस्ते᳘ पित᳘रो य᳘ ए᳘वापूर्य᳘ते ऽर्द्धमासः स᳘ देवा᳘ यो ऽपक्षीय᳘ते स᳘ पितरो᳘ ऽहरेव᳘ देवा रा᳘त्रिः पित᳘रः पु᳘नर᳘ह्नः पूर्व्वाह्णो᳘ देवा᳘ ऽअपराह्णः पित᳘रः॥

मूलम् - श्रीधरादि

वसन्तो᳘ ग्रीष्मो᳘ वर्षाः॥
(स्ते᳘) ते᳘ देवा᳘ ऽऋत᳘वः शर᳘द्धेमन्तः शि᳘शिरस्ते᳘ पित᳘रो य᳘ ए᳘वापूर्य᳘ते ऽर्द्धमासः स᳘ देवा᳘ यो ऽपक्षीय᳘ते स᳘ पितरो᳘ ऽहरेव᳘ देवा रा᳘त्रिः पित᳘रः पु᳘नर᳘ह्नः पूर्व्वाह्णो᳘ देवा᳘ ऽअपराह्णः पित᳘रः॥

मूलम् - Weber

वसन्तो᳘ ग्रीष्मो᳘ वर्षाः᳟॥
ते᳘ देवा᳘ ऋत᳘वः शर᳘द्धेमन्तः शि᳘शिरस्ते᳘ पित᳘रो य᳘ एॗवापूर्य᳘ते ऽर्धमासः स᳘ देवाॗ यो ऽपक्षीय᳘ते स᳘ पितरो᳘ ऽहरेव᳘ देवा रा᳘त्रिः पित᳘रः पु᳘नर᳘ह्नः पूर्वाह्णो᳘ देवा᳘ अपराह्णः᳘ पित᳘रः॥

मूलम् - विस्वरम्

अथ ऋतुब्राह्मणम् ।

वसन्तो ग्रीष्मो वर्षाः- ते देवा ऋतवः शरद् हेमन्तः शिशिरः- ते पितरः । य एवापूर्यते ऽर्द्धमासः स देवाः । यो ऽपक्षीयते, स पितरः । अहरेव देवाः । रात्रिः पितरः । पुनरह्नः पूर्वाह्णो देवाः । अपराह्णः पितरः ॥ १ ॥

सायणः

अथाधानस्य वसन्ताद्यृतुषु फलसिद्ध्यर्थं वसन्तादीनां देवपित्रात्मना द्वेधा विभागमाह- वसन्त इत्यादिना । वसन्ताद्यृतुत्रये देवानां सूर्यदर्शनादहर्भवतीति तेषां तादात्म्यम्; शारदादीनां तद्वैलक्षण्यात् पितृरूपत्वम् । य एवापूर्यत- इत्यादि । निगदसिद्धम् ॥ १ ॥

Eggeling
  1. The spring, the summer, and the rains, these seasons (represent) the gods; and the autumn, the winter, and the dewy season represent the fathers. That half-moon which increases represents the gods, and that which decreases represents the fathers. The day represents the gods, and the night represents the fathers. And, further, the forenoon represents the gods, and the afternoon the fathers.

०२

विश्वास-प्रस्तुतिः

(स्ते) ते वा᳘ ऽएत ऽऋत᳘वः॥
(वो) देवाः᳘ पित᳘रः स यो᳘ हैवं᳘ व्विद्वान्दे᳘वाः पि᳘तर ऽइ᳘ति ह्व᳘यत्या᳘ हास्य देवा᳘ देवहू᳘यं ग᳘च्छन्त्या᳘ पित᳘रः पितृहू᳘यम᳘वन्ति हैनं देवा᳘ देवहूये᳘ ऽवन्ति पित᳘रः पितृहू᳘ये य᳘ ऽएवं᳘ व्विद्वान्दे᳘वाः पि᳘तर ऽइ᳘ति ह्व᳘यति॥

मूलम् - श्रीधरादि

(स्ते) ते वा᳘ ऽएत ऽऋत᳘वः॥
(वो) देवाः᳘ पित᳘रः स यो᳘ हैवं᳘ व्विद्वान्दे᳘वाः पि᳘तर ऽइ᳘ति ह्व᳘यत्या᳘ हास्य देवा᳘ देवहू᳘यं ग᳘च्छन्त्या᳘ पित᳘रः पितृहू᳘यम᳘वन्ति हैनं देवा᳘ देवहूये᳘ ऽवन्ति पित᳘रः पितृहू᳘ये य᳘ ऽएवं᳘ व्विद्वान्दे᳘वाः पि᳘तर ऽइ᳘ति ह्व᳘यति॥

मूलम् - Weber

ते वा᳘ एत᳘ ऋतवः॥
देवाः᳘ पित᳘रः स यो᳘ हैवं᳘ विद्वान्दे᳘वाः पि᳘तर इ᳘ति ह्व᳘यत्या᳘ हास्य देवा᳘ देवहू᳘यं ग᳘छन्त्या᳘ पित᳘रः पितृहू᳘यम᳘वन्ति हैनं देवा᳘ देवहूये᳘ ऽवन्ति पित᳘रः पितृहू᳘ये य᳘ एवं᳘ विद्वान्दे᳘वाः पि᳘तर इ᳘ति ह्व᳘यति॥

मूलम् - विस्वरम्

ते वा एत ऋतवः- देवाः, पितरः । स यो हैवं विद्वान् ‘देवाः पितरः’ इति ह्वयति- आ हास्य देवा देवहूयं गच्छन्ति, आ पितरः पितृहूयम् । अवन्ति हैनं देवा देवहूये, अवन्ति पितरः पितृहूये- य एवं विद्वान् ‘देवाः, पितरः’ इति ह्वयति ॥ २ ॥

सायणः

ते वा एत ऋतव इति । स यो हैवं विद्वानित्यादि । एवमृतूनां देवत्वं पितृत्वं च ‘सः’ ‘विद्वान्’ तान् 1 ऋतून् ‘देवाः पितरः’ ‘इति’ ‘ह्वयति’ व्यवहरेदित्यर्थः । तस्य फलमाह- आ हास्येति । ‘अस्य’ आह्वातुः ‘देवहूयं’ देवाह्वानं प्रति देवाः ‘आगच्छन्ति’ तथा ‘पितृहूयं’ पैतृकमाह्वानं प्रति पितरो ऽप्यागच्छन्ति आगताश्च ते स्वसम्बद्धे कर्मणि ‘एनम्’ आह्वातारम् ‘अवन्ति’ इत्यर्थः ॥ २ ॥

Eggeling
  1. Those seasons, then, are the gods and the fathers; and whosoever, knowing this, invokes them as the gods and fathers, with his invocation of the gods the gods comply, and with his invocation of the fathers the fathers comply. Him the gods favour at his invocation of the gods, and him the fathers favour at his invocation of the fathers, whosoever, knowing this, invokes (the seasons) as the gods and fathers.

०३

विश्वास-प्रस्तुतिः

स यत्रो᳘दङ्ङाव᳘र्त्तते॥
देवे᳘षु त᳘र्हि भवति देवांस्त᳘र्ह्यभि᳘गोपायत्य᳘थ य᳘त्र दक्षि᳘णाव᳘र्तते पितृ᳘षु त᳘र्हि भव᳘ति पितॄंस्त᳘र्ह्यभि᳘गोपायति॥

मूलम् - श्रीधरादि

स यत्रो᳘दङ्ङाव᳘र्त्तते॥
देवे᳘षु त᳘र्हि भवति देवांस्त᳘र्ह्यभि᳘गोपायत्य᳘थ य᳘त्र दक्षि᳘णाव᳘र्तते पितृ᳘षु त᳘र्हि भव᳘ति पितॄंस्त᳘र्ह्यभि᳘गोपायति॥

मूलम् - Weber

स यत्रो᳘दगाव᳘र्तते॥
देवे᳘षु त᳘र्हि भवति 2 देवांस्त᳘र्ह्यभि᳘गोपायत्य᳘थ य᳘त्र दक्षिणाव᳘र्तते पितृ᳘षु तर्हि भवति पितॄंस्त᳘र्ह्यभि᳘गोपायति॥

मूलम् - विस्वरम्

स यत्रोदङ्ङावर्त्तते- देवेषु तर्हि भवति, देवाँस्तर्ह्यभिगोपायति । अथ यत्र दक्षिणावर्त्तते- पितृषु तर्हि भवति, पितस्तर्ह्यभिगोपायति ॥ ३ ॥

सायणः

आधानस्योदगयनं कालं विधित्सुद्वयोरप्यनयोर्देवपितृसम्बन्धं क्रमेणाह- स यत्रेति । ‘सः’ सूर्यो यस्मिन् काले दक्षिणगोलादुत्तरगोलं प्रति ‘उदङ्’ पर्यावर्त्तते, ‘तर्हि’ तदा, तस्मिन् समये मेरोरुपरिभागे ऽवस्थितानां देवानां स दृष्टिगोचरो भवतीति तेषु उदङ् ‘देवेषु’ प्रकाशको भवतीति । ‘अथ’ ‘यत्र’ यस्मिन् काले पुनरुत्तरगोलाद् दक्षिणगोलं पर्यावर्त्तते, 1 तदा दक्षिणदिगवस्थितस्य पितृलोकस्य प्रकाशकः सन् तेषु ‘पितृषु’ भवति ॥ ३ ॥

Eggeling
  1. Now when he (the sun) moves northwards, then he is among the gods, then he guards the gods; and when he moves southwards, then he is among the fathers, then he guards the fathers 3.

०४

विश्वास-प्रस्तुतिः

स यत्रो᳘दङ्ङाव᳘र्तते॥
त᳘र्ह्यग्नी ऽआ᳘दधीता᳘पहतपाप्मानो देवा अ᳘प पाप्मा᳘नᳫँ᳭ हते ऽमृ᳘ता देवा᳘ नामृतत्व᳘स्याशास्ति सर्व्वमायुरेति यस्त᳘र्ह्याधत्ते᳘ ऽथ य᳘त्र दक्षि᳘णाव᳘र्तते यस्त᳘र्ह्याधत्ते᳘ ऽनपहतपाप्मानः पित᳘रो न᳘ पाप्मानम᳘पहते म᳘र्त्याः पित᳘रः पुरा हा᳘युषो म्रियते यस्त᳘र्ह्याधत्ते॥

मूलम् - श्रीधरादि

स यत्रो᳘दङ्ङाव᳘र्तते॥
त᳘र्ह्यग्नी ऽआ᳘दधीता᳘पहतपाप्मानो देवा अ᳘प पाप्मा᳘नᳫँ᳭ हते ऽमृ᳘ता देवा᳘ नामृतत्व᳘स्याशास्ति सर्व्वमायुरेति यस्त᳘र्ह्याधत्ते᳘ ऽथ य᳘त्र दक्षि᳘णाव᳘र्तते यस्त᳘र्ह्याधत्ते᳘ ऽनपहतपाप्मानः पित᳘रो न᳘ पाप्मानम᳘पहते म᳘र्त्याः पित᳘रः पुरा हा᳘युषो म्रियते यस्त᳘र्ह्याधत्ते॥

मूलम् - Weber

स यत्रो᳘दगाव᳘र्तते॥
त᳘र्ह्यग्नी आदधीता᳘पहतपाप्मानो देवा अ᳘प पाप्मा᳘नᳫं हते ऽमृ᳘ता देवाॗ नामृतत्व᳘स्याॗशास्ति स᳘र्वमायुरेति यस्त᳘र्ह्याधत्ते᳘ ऽथ य᳘त्र दक्षिॗणाव᳘र्तते यस्त᳘र्ह्याधत्ते᳘ ऽनपहतपाप्मानः पित᳘रो न᳘ पाप्मा᳘नम᳘पहते म᳘र्त्याः पित᳘रः पुरा हा᳘युषो म्रियते यस्त᳘र्ह्याधत्ते॥

मूलम् - विस्वरम्

स यत्रोदङ्ङावर्त्तते, तर्ह्यग्नी आदधीत । अपहतपाप्मानो देवाः, अप पाप्मानं हते, अमृता देवाः- नामृतत्वस्याशास्ति, सर्वमायुरेति यस्तर्ह्याधत्ते । अथ यत्र दक्षिणावर्त्तते, यस्तर्ह्याधत्ते- अनपहतपाप्मानः पितरः, न पाप्मानमपहते । मर्त्याः पितरः पुरा हायुषो म्रियते- यस्तर्ह्याधते ॥ ४ ॥

सायणः

एवमुत्तरायणे दक्षिणायने च देवपितृसम्बन्धमभिधाय, तत्सम्बद्धमाधानमपि तत्रैव कार्यमिति विधत्ते- स यत्रेति । तदेतत् प्रशंसति- अपहतपाप्मान इति । देवानां पापराहित्यान्मरणधर्मराहित्याच्च तत्सम्बन्धिन्ययने ऽग्न्याधानकारिणो ऽपि तदुभयं सिद्ध्यतीत्यर्थः । दक्षिणायन आधातुरुक्तवैपरीत्यमाह- अथ यत्रेति ॥ ४ ॥

Eggeling
  1. When he (the sun) moves northwards, then one may set up his fires;–the gods have the evil dispelled

from them (by the sun): he (the sacrificer) therefore dispels the evil from himself;–the gods are immortal: he therefore, though there is for him no prospect of immortality, attains the (full measure of) life, whosoever sets up his fires during that time. Whosoever, on the other hand, sets up his fires when (the sun) moves southwards, he does not dispel the evil from him,–since the fathers have not the evil dispelled from them (by the sun). The fathers are mortal: hence he dies before (he has attained the full measure of) life, whosoever sets up his fires during that time.

०५

विश्वास-प्रस्तुतिः

ब्र᳘ह्मैव᳘ व्वसन्तः᳘॥
क्षत्रं᳘ ग्रीष्मो व्विडेव᳘ व्वर्षास्त᳘स्माद्ब्राह्मणो᳘ व्वसन्त ऽआदधीत ब्र᳘ह्म हि᳘ व्वसन्तस्त᳘स्मात्क्षत्रि᳘यो ग्रीष्म ऽआ᳘दधीत क्षत्रᳫँ᳭ हि᳘ ग्रीष्मस्त᳘स्मा᳘द्वै᳘श्यो व्वर्षास्वा᳘दधीत विड्ढि᳘ व्वर्षाः॥

मूलम् - श्रीधरादि

ब्र᳘ह्मैव᳘ व्वसन्तः᳘॥
क्षत्रं᳘ ग्रीष्मो व्विडेव᳘ व्वर्षास्त᳘स्माद्ब्राह्मणो᳘ व्वसन्त ऽआदधीत ब्र᳘ह्म हि᳘ व्वसन्तस्त᳘स्मात्क्षत्रि᳘यो ग्रीष्म ऽआ᳘दधीत क्षत्रᳫँ᳭ हि᳘ ग्रीष्मस्त᳘स्मा᳘द्वै᳘श्यो व्वर्षास्वा᳘दधीत विड्ढि᳘ व्वर्षाः॥

मूलम् - Weber

ब्र᳘ह्मैव᳘ वसन्तः᳟॥
क्षत्रं᳘ ग्रीष्मो वि᳘डेव᳘ वर्षास्त᳘स्माद्ब्राह्मणो᳘ वसन्त आ᳘दधीत ब्र᳘ह्म हि᳘ वसन्तस्त᳘स्मात्क्षत्रि᳘यो ग्रीष्म आ᳘दधीत क्षत्रᳫं हि᳘ ग्रीष्मस्त᳘स्माद्वै᳘श्यो वर्षास्वादधीत विड्ढि᳘ 4 वर्षाः॥

मूलम् - विस्वरम्

ब्रह्मैव वसन्तः, क्षत्रं ग्रीष्मो विडेव वर्षाः । तस्माद् ब्राह्मणो वसन्त आदधीत, ब्रह्म हि वसन्तः । तस्मात् क्षत्रियो ग्रीष्म आदधीत, क्षत्रं हि ग्रीष्मः । तस्माद् वैश्यो वर्षास्वादधीत, विड्ढि वर्षाः ॥ ५ ॥

सायणः

…एवमुदगयनं विधाय तत्रापि ब्रह्मक्षत्रादिवर्णानुसारेण ऋतुव्यवस्थां करोति- ब्रह्मैव वसन्त इत्यादिना । वसन्ताद्या ऋतवः जात्या ब्रह्मक्षत्राद्यात्मकाः, अतस्तेषां क्रमेण तत्तज्जात्याधानकालत्वम् ॥ ५ ॥

Eggeling
  1. The spring is the priesthood, the summer the nobility, and the rainy season the common people (viś): a Brāhman therefore should set up his fires in spring, since the spring is the priesthood; and a Kshatriya should set them up in summer, since the summer is the nobility; and a Vaiśya should set them up in the rainy season, since the rainy season is the common people.

०६

विश्वास-प्रस्तुतिः

स यः᳘ काम᳘येत॥
ब्रह्मव्वर्च्चसी᳘ स्यामि᳘ति व्वसन्ते स आ᳘दधीत ब्रह्म वै᳘ व्वसन्तो᳘ ब्रह्मवर्च्चसी᳘ हैव᳘ भवति॥

मूलम् - श्रीधरादि

स यः᳘ काम᳘येत॥
ब्रह्मव्वर्च्चसी᳘ स्यामि᳘ति व्वसन्ते स आ᳘दधीत ब्रह्म वै᳘ व्वसन्तो᳘ ब्रह्मवर्च्चसी᳘ हैव᳘ भवति॥

मूलम् - Weber

स यः᳘ काम᳘येत॥
ब्रह्मवर्चसी᳘ स्यामि᳘ति वसन्ते स आ᳘दधीत ब्र᳘ह्म वै᳘ वसन्तो᳘ ब्रह्मवर्चसी᳘ हैव᳘ भवति॥

मूलम् - विस्वरम्

स यः कामयेत- ‘ब्रह्मवर्चसी स्याम्’ इति, वसन्ते स आदधीत । ब्रह्म वै वसन्तो, ब्रह्मवर्चसी हैव भवति ॥ ६ ॥

सायणः

एवं नित्यपक्षमभिधाय काम्यपक्षमाह- स य इति । ब्रह्मवर्चसी 5 हैवेति । ब्राह्मणजात्यात्मके वसन्त आधानात् क्षत्रियादिरपि ब्राह्मणतेजस्सम्पन्नो भवतीत्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ ६ ॥

Eggeling
  1. And whosoever 6 desires to become endowed with holy lustre (brahmavarcasin), let him set up his fires in spring,–for the spring is the priesthood,–and he will certainly become endowed with holy lustre.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यः᳘ काम᳘येत॥
क्षत्र᳘ᳫं᳘ श्रिया य᳘शसा स्यामि᳘ति ग्रीष्मे स ऽआ᳘दधीत क्षत्रं वै᳘ ग्रीष्मः᳘ क्षत्र᳘ᳫँ᳭ हैव᳘ श्रिया य᳘शसा भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यः᳘ काम᳘येत॥
क्षत्र᳘ᳫं᳘ श्रिया य᳘शसा स्यामि᳘ति ग्रीष्मे स ऽआ᳘दधीत क्षत्रं वै᳘ ग्रीष्मः᳘ क्षत्र᳘ᳫँ᳭ हैव᳘ श्रिया य᳘शसा भवति॥

मूलम् - Weber

अ᳘थ यः᳘ काम᳘येत॥
क्षत्रं᳘ श्रिया य᳘शसा स्यामि᳘ति ग्रीष्मे स आ᳘दधीत क्ष᳘त्रं वै᳘ ग्रीष्मः᳘ क्षत्र᳘ᳫं᳘ हैव᳘ श्रिया य᳘शसा भवति॥

मूलम् - विस्वरम्

अथ यः कामयेत- ‘क्षत्रं श्रिया, यशसा स्याम्’ इति, ग्रीष्मे स आदधीत । क्षत्रं वै ग्रीष्मः । क्षत्रं हैव श्रिया यशसा भवति ॥ ७ ॥

सायणः

अथ यः कामयेतेति । क्षत्रं 5 श्रियेति । क्षत्रियजातेरपि ‘श्रिया’ सम्पदा कीर्त्त्या च क्षत्रात्मकः स्यामिति कामयमानस्य ब्राह्मणादेः ग्रीष्म आधानकाल इत्यर्थः ॥ ७ ॥

Eggeling
  1. And whosoever desires to become a power (kshatra) 7 in prosperity and renown, let him set up his fires in summer,–for the summer is the nobility (kshatra),–and he will certainly become a power in prosperity and renown.

०८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यः᳘ का᳘मयेत॥
बहुः᳘ प्रज᳘या पशु᳘भिः स्यामि᳘ति व्वर्षा᳘सु स ऽआ᳘दधीत व्विड्वै᳘ व्वर्षा अ᳘न्नं व्वि᳘शो बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘ एवं᳘ व्विद्वा᳘न्वर्षा᳘स्वाधत्ते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यः᳘ का᳘मयेत॥
बहुः᳘ प्रज᳘या पशु᳘भिः स्यामि᳘ति व्वर्षा᳘सु स ऽआ᳘दधीत व्विड्वै᳘ व्वर्षा अ᳘न्नं व्वि᳘शो बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘ एवं᳘ व्विद्वा᳘न्वर्षा᳘स्वाधत्ते॥

मूलम् - Weber

अ᳘थ यः᳘ का᳘मयेत॥
बहुः᳘ प्रज᳘या पशु᳘भिः स्यामि᳘ति वर्षा᳘सु स आ᳘दधीत विड्वै᳘ वर्षा अ᳘न्नं वि᳘शो बहु᳘र्हैव प्रज᳘या पशु᳘भिर्भवति य᳘ एवं᳘ विद्वा᳘न्वर्षा᳘स्वाधत्ते॥

मूलम् - विस्वरम्

अथ यः कामयेत- ‘बहुः प्रजया पशुभिः स्याम्’ इति, वर्षासु स आदधीत । विड् वै वर्षाः, अन्नं विशः । बहुर्हैव प्रजया पशुभिर्भवति- य एवं विद्वान् वर्षास्वाधत्ते ॥ ८ ॥

सायणः

अथ यः कामयेतेति । बहुप्रजापश्वादिसमृद्धिकामस्य 5 वैश्यस्यापि तत्फलप्राप्तये वर्षास्वाधानं सम्पद्यत इत्यर्थः ॥ ८ ॥

Eggeling
  1. And whosoever may desire to be rich in progeny

and cattle, let him set up his fires in the rainy season 8,–for the rainy season is the common people, and the people means food,–and he certainly becomes rich in progeny and cattle, whosoever, knowing this, sets up his fires in the rainy season.

०९

विश्वास-प्रस्तुतिः

ते वा᳘ ऽएत᳘ ऽऋत᳘वः॥
(ऽ) उभ᳘य ऽएवा᳘पहतपाप्मानः सू᳘र्य्य ऽए᳘वैषां पाप्म᳘नो ऽपह᳘न्तोद्य᳘न्ने᳘वैषामुभ᳘येषां पाप्मा᳘नम᳘पहन्ति त᳘स्माद्य᳘दै᳘वैनं कदा च यज्ञ᳘ ऽउपन᳘मेद᳘थाग्नी ऽआ᳘दधीत न᳘ श्वःश्वमु᳘पासीत को हि᳘ मनु᳘ष्यस्य श्वो व्वे᳘द॥

मूलम् - श्रीधरादि

ते वा᳘ ऽएत᳘ ऽऋत᳘वः॥
(ऽ) उभ᳘य ऽएवा᳘पहतपाप्मानः सू᳘र्य्य ऽए᳘वैषां पाप्म᳘नो ऽपह᳘न्तोद्य᳘न्ने᳘वैषामुभ᳘येषां पाप्मा᳘नम᳘पहन्ति त᳘स्माद्य᳘दै᳘वैनं कदा च यज्ञ᳘ ऽउपन᳘मेद᳘थाग्नी ऽआ᳘दधीत न᳘ श्वःश्वमु᳘पासीत को हि᳘ मनु᳘ष्यस्य श्वो व्वे᳘द॥

मूलम् - Weber

ते वा᳘ एत᳘ ऋत᳘वः॥
उभ᳘य एवा᳘पहतपाप्मानः सू᳘र्य एॗवैषाम् पाप्म᳘नो ऽपहॗन्तोद्य᳘न्नेॗवैषामुभयेषाम् पाप्मा᳘नम᳘पहन्ति त᳘स्माद्यॗदैॗवैनं कदा᳘ च यज्ञ उपन᳘मेद᳘थाग्नी आदधीत न᳘ श्वःश्वमु᳘पासीत को हि᳘ मनु᳘ष्यस्य श्वो वे᳘द॥

मूलम् - विस्वरम्

ते वा एत ऋतवः- उभय एवापहतपाप्मानः । सूर्य एवैषां पाप्मनो ऽपहन्ता । उद्यन्नेवैषामुभयेषां पाप्मानमपहन्ति । तस्माद्- यदैवैनं कदा च यज्ञ उपनमेत्, अथाग्नी आदधीत । न श्वःश्वसुपासीत । को हि मनुष्यस्य श्वो वेद ॥ ९ ॥ इत्यग्न्याधानप्रकरणे तृतीयमृतुब्राह्मणम् ॥

सायणः

एवमयनविशेषमृतुविशेषं चाभिधाय पक्षान्तरं च वक्तुं सर्वेषामप्यृतूनां 9 पापसम्बन्धराहित्यमाह- ते वा एत इति । उभय एवेति । देवपितृसम्बन्धितया द्विधा प्रतिपादिता एवेत्यर्थः । पापराहित्ये कारणमाह- सूर्य एवेति । यस्मादेवं सर्वे ऽप्यृतवः पापराहित्येन शुद्धाः, ‘तस्मात्’ यस्मिन् कस्मिंश्चिदृतौ सोमयागमभिगच्छेत्, ‘अथ’ अनन्तरमेवाग्न्याधानं कुर्यात् । न श्वःश्वमुपासीतेति । ‘श्वः श्वः करवाणि’ इत्येवं कालान्तरप्रतीक्षां 10 न कुर्यात् । तत्र हेतुमाह- को हीति । ‘मनुष्यस्य’ ‘श्वः’ श्वःकालसम्बन्धि जीवनं ‘कः’ नाम ‘वेद’ जानीयात् ? आयुषो ऽस्थिरत्वादित्यर्थः ॥ ९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे प्रथमाध्याये तृतीयं ब्राह्मणम् ॥ १ ॥ ३ ॥

Eggeling
  1. [In the opinion of others] both these (classes of) seasons have the evil dispelled from them, for the sun is the dispeller of their evil, and as soon as he rises he dispels the evil from both these (classes of seasons). He should therefore set up his fires at any time, when he feels called upon to sacrifice; and should not put it off from one day to the morrow: for who knows the morrow of man 11?

  1. ‘तांस्तान्’ इति क्व० पा० । ↩︎ ↩︎

  2. भवति᳘ दे A. ↩︎

  3. 289:1 According to the Kāṇva text, it is the rising sun, that guards the god-seasons and father-seasons respectively. ↩︎

  4. विढ्ढि A. ↩︎

  5. “वसन्तो ब्राह्मणब्रह्मवर्चसकामयोः” का० श्रौ० सू० ४. १७९ । ↩︎ ↩︎ ↩︎

  6. 290:1 I.e. whatsoever Brāhman, as the Kāṇva text reads. ↩︎

  7. 290:2 Kshatraṁ śriyā yaśasā syām iti. The Kāṇva text reads: Kshatrasya pratimā syāṁ śriyā yaśaseti, ‘whosoever should wish to be an image of the kshatra in wealth and glory.’ ↩︎

  8. 291:1 The Black Yajus recommends śarad, autumn, for the Agnyādheya in the case of a Vaiśya. ↩︎

  9. “शिशिरः सार्ववर्णिकः”- इति च शाखान्तरम् । ↩︎

  10. ‘प्रतीक्षा न कार्या’ इति पा. । ↩︎

  11. 291:2 Ko hi manushyasya śvo veda. The Kāṇva text has: Na vai manushyaḥ śvastanam veda (veda) ko hi (!) tasmai manushyo yaḥ śvastanaṁ vidyāt, ‘in truth no man knows the morrow, for what man, that knows the morrow, is there for him?’ ↩︎