०१
विश्वास-प्रस्तुतिः
कृ᳘त्तिकास्वग्नी ऽआ᳘दधीत॥
(तै) एता वा᳘ ऽअग्निनक्षत्रं यत्कृ᳘त्तिकास्तद्वै स᳘लोम᳘ यो ऽग्निनक्षत्रे ऽग्नी᳘ ऽआद᳘धातै त᳘स्मात्कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - श्रीधरादि
कृ᳘त्तिकास्वग्नी ऽआ᳘दधीत॥
(तै) एता वा᳘ ऽअग्निनक्षत्रं यत्कृ᳘त्तिकास्तद्वै स᳘लोम᳘ यो ऽग्निनक्षत्रे ऽग्नी᳘ ऽआद᳘धातै त᳘स्मात्कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - Weber
कृ᳘त्तिकास्वग्नी आ᳘दधीत॥
एता वा᳘ अग्निनक्षत्रं यत्कृ᳘त्तिकास्तद्वै स᳘लोमॗ यो ऽग्निनक्षत्रे ऽग्नी᳘ आद᳘धातै त᳘स्मात्कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - विस्वरम्
अथ नक्षत्रब्राह्मणम् ।
कृत्तिकास्वग्नी आदधीत । एता वा अग्निनक्षत्रं यत् कृत्तिकाः । तद्वै सलोम- यो ऽग्निनक्षत्रे ऽग्री आदधातै । तस्मात् कृत्तिकास्वादधीत ॥ १ ॥
सायणः
कर्मणः कालसापेक्षत्वादाधानस्य नक्षत्रं विधत्ते- कृत्तिकास्वित्यादिना (का. श्रौ. सू. ४ । १७६) । ‘अग्नी’ गार्हपत्याहवनीयावित्यर्थः । अग्निदेवताकत्वादग्निनक्षत्रं कृत्तिकाख्यम् । श्रयते हि- “कृत्तिका 1 नक्षत्रमग्निर्देवता” इति । तस्मिन्नग्निनक्षत्रे ऽग्न्याधानं ‘सलोम’ सदृशं, योग्यमिति यावत् ॥ १ ॥
Eggeling
- He may set up the two fires 2 under the Kr̥ttikās; for they, the Kr̥ttikās, are doubtless Agni’s asterism, so that if he sets up his fires under Agni’s asterism, (he will bring about) a correspondence (between his fires and the asterism): for this reason he may set up his fires under the Kr̥ttikās.
०२
विश्वास-प्रस्तुतिः
(तै᳘) ए᳘कं द्वे त्री᳘णि॥
चत्वारी᳘ति वा᳘ ऽअन्या᳘नि न᳘क्षत्राण्य᳘थैता᳘ एव भूयिष्ठा यत्कृत्तिकास्त᳘द्भूमा᳘नमे᳘वैतदु᳘पैति त᳘स्मात्कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - श्रीधरादि
(तै᳘) ए᳘कं द्वे त्री᳘णि॥
चत्वारी᳘ति वा᳘ ऽअन्या᳘नि न᳘क्षत्राण्य᳘थैता᳘ एव भूयिष्ठा यत्कृत्तिकास्त᳘द्भूमा᳘नमे᳘वैतदु᳘पैति त᳘स्मात्कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - Weber
ए᳘कं द्वे त्री᳘णि॥
चत्वारीति वा᳘ अन्या᳘नि न᳘क्षत्राण्य᳘थैता᳘ एव भू᳘यिष्ठा यत्कृत्तिकास्त᳘द्भूमा᳘नमेॗवैतदु᳘पैति त᳘स्मात्कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - विस्वरम्
एकं द्वे त्रीणि चत्वारीति वा अन्यानि नक्षत्राणि । अथैता एव भूयिष्ठाः यत् कृत्तिकाः तद् भूमानमेवैतदुपैति । तस्मात् कृत्तिकास्वादधीत ॥ २ ॥
सायणः
अथैतस्य नक्षत्रस्य बहुवोपजीवनेन प्रशंसति- एकमिति । कृत्तिकातः ‘अन्यानि नक्षत्राणि एक-द्वि-त्रि-चतुः–सङ्ख्याधिष्ठानान्यल्पीयांसि, कृत्तिकास्तु षट्सङ्ख्याधिष्ठानयोगात् ‘भूयिष्ठाः’ बहुतराः । तत्रार्द्रादीनाम् 1 ‘एकम्’ अधिष्ठानम्, फल्गुन्यादीनां ‘द्वे’ अश्विन्यादीनां ‘त्रीणि’ पुनर्वस्वादीनां ‘चत्वारि’ । ‘तत्’ तस्मात्, एभ्यो भूयिष्ठनक्षत्राधानात् यजमानो ऽपि ‘भूमानं’ बहुत्वमेवोपगच्छतीत्यर्थः ॥ २ ॥
Eggeling
- Moreover, the other lunar asterisms (consist of) one, two, three or four (stars), so that the Kr̥ttikās are the most numerous (of asterisms) 3: hence he thereby obtains an abundance. For this reason he may set up his fires under the Kr̥ttikās.
०३
विश्वास-प्रस्तुतिः
(तै᳘) एता᳘ ह वै प्रा᳘च्यै दिशो न᳘ च्यवन्ते॥
स᳘र्व्वाणि ह वा᳘ ऽअन्यानि नक्षत्राणि प्रा᳘च्यै दिश᳘श्च्यवन्ते तत्प्रा᳘च्यामे᳘वास्यैत᳘द्दिश्या᳘हितौ भवतस्त᳘स्मात् कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - श्रीधरादि
(तै᳘) एता᳘ ह वै प्रा᳘च्यै दिशो न᳘ च्यवन्ते॥
स᳘र्व्वाणि ह वा᳘ ऽअन्यानि नक्षत्राणि प्रा᳘च्यै दिश᳘श्च्यवन्ते तत्प्रा᳘च्यामे᳘वास्यैत᳘द्दिश्या᳘हितौ भवतस्त᳘स्मात् कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - Weber
एता᳘ ह वै प्रा᳘च्यै दिशो न᳘ च्यवन्ते॥
स᳘र्वाणि ह वा᳘ अन्या᳘नि न᳘क्षत्राणि प्रा᳘च्यै दिश᳘श्च्यवन्ते तत्प्रा᳘च्यामेॗवास्यैत᳘द्दिश्याहितौ भवतस्त᳘स्मात्कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - विस्वरम्
एता ह वै प्राच्यै दिशो न च्यवन्ते । सर्वाणि ह वा अन्यानि नक्षत्राणि प्राच्यै दिशश्च्यवन्ते | तत्प्राच्यामेवास्यैतद्दिश्याहितौ भवतः । तस्मात्- कृत्तिकास्वादधीत ॥ ३ ॥
सायणः
नियतदिक्सम्बन्धवशेनैताः प्रशंसति- एता ह वा इति । ‘प्राच्यै’ प्राच्याः ‘दिशः’ सकाशात् ‘न च्यवन्ते’ दक्षिणत उत्तरतो वा विक्षेपवशान्न चलन्ति, किन्तु नियमेन शुद्धप्राच्यामेवोद्यन्ति; ‘अन्यानि’ तु ‘नक्षत्राणि’ प्राचीदिग्भागाद् दक्षिणत उत्तरतो वा विक्षेपवशाञ्चलन्ति, प्राचीदिग्भागाद् दक्षिणत उत्तरतश्च नियमेन परिवर्त्तन्ते । तत् प्राच्यामित्यादि । निगदसिद्धम् ॥ ३ ॥
Eggeling
- And again, they do not move away from the eastern quarter, whilst the other asterisms do move from the eastern quarter. Thus his (two fires) are established in the eastern quarter: for this reason he may set up his fires under the Kr̥ttikās.
०४
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ य᳘स्मान्न कृ᳘त्तिकास्वाद᳘धीत᳘॥
(र्क्षा) ऋक्षाणाᳫंह वा᳘ ऽएता अ᳘ग्रे प᳘त्न्य आसुः सप्त ऽर्षी᳘नु ह स्म वै᳘ पुर᳘ ऽर्क्षा इत्या᳘चक्षते ता᳘ मिथुने᳘न᳘ व्यार्ध्यन्तामी᳘ ह्युत्तरा᳘हि सप्त ऽर्ष᳘य उद्यन्ति पुर एता अ᳘शमिव वै तद्यो᳘ मिथुने᳘न व्यृद्धः स ने᳘न्मिथुने᳘न व्यृ᳘द्ध्या ऽइ᳘ति त᳘स्मान्न कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ य᳘स्मान्न कृ᳘त्तिकास्वाद᳘धीत᳘॥
(र्क्षा) ऋक्षाणाᳫंह वा᳘ ऽएता अ᳘ग्रे प᳘त्न्य आसुः सप्त ऽर्षी᳘नु ह स्म वै᳘ पुर᳘ ऽर्क्षा इत्या᳘चक्षते ता᳘ मिथुने᳘न᳘ व्यार्ध्यन्तामी᳘ ह्युत्तरा᳘हि सप्त ऽर्ष᳘य उद्यन्ति पुर एता अ᳘शमिव वै तद्यो᳘ मिथुने᳘न व्यृद्धः स ने᳘न्मिथुने᳘न व्यृ᳘द्ध्या ऽइ᳘ति त᳘स्मान्न कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - Weber
अ᳘थ य᳘स्मान्न कृ᳘त्तिकास्वाद᳘धीत॥
ऋक्षाणाᳫं ह वा᳘ एता अ᳘ग्रे प᳘त्न्य आसुः सप्तर्षी᳘नु ह स्म वै᳘ पुर᳘र्क्षा 4 इत्या᳘चक्षते ता᳘ मिथुने᳘न व्यार्ध्यन्तामीॗ ह्युत्तरा᳘हि सप्तर्ष᳘य उद्य᳘न्ति पुर᳘ एता अ᳘शमिव वै तद्यो᳘ मिथुने᳘नॗ व्यृद्धः स ने᳘न्मिथुने᳘न व्यृ᳘ध्या इ᳘ति त᳘स्मान्न कृ᳘त्तिकास्वा᳘दधीत॥
मूलम् - विस्वरम्
अथ यस्मात्- न कृत्तिकास्वादधीत । ऋक्षाणां ह वा एता अग्रे पत्न्य आसुः । सप्तर्षीनु ह स्म वै पुरर्क्षा इत्याचक्षते । ता मिथुनेन व्यार्ध्यन्त । अमी ह्युत्तराहि सप्तर्षय उद्यन्ति, पुर एताः । अशमिव वै तत्- यो मिथुनेन व्यृद्धः । स नेन्मिथुनेन व्यृद्धयै इति । तस्मात्- न कृत्तिकास्वादधीत ॥ ४ ॥
सायणः
कृत्तिकास्वाधानपक्षं मिथुनव्यृद्धिहेतुत्वान्निषेधति- अथ यस्मादिति । ‘यस्माद्’ वक्ष्यमाणदोषो ऽस्ति, तस्मात् ‘कृत्तिकासु न आदधीत’ । को ऽसौ दोषः ? तमुपन्यस्यति- ऋक्षाणां हेति । ऋक्षशब्दार्थमाह- सप्तर्षीनिति । ‘ऋक्षं’ नक्षत्रम्; तद्रूपेणावस्थानात् । इह ‘ऋक्ष’-शब्देन सप्तर्षयो ऽभिधीयन्ते पुर 5 ऋक्षा इति पुरेत्यस्य “ऋत्यकः” (पा. सू. ६-१-१२८) इति प्रकृतिभावो ह्रस्वश्च । ‘व्यार्द्ध्यन्त’ विगतर्द्धिका अभवन् । वृद्धिमेव देशभेदोदयेन स्पष्टयति- अमी हीति । ‘अमी’ खलु ‘सप्तर्षयः’ ‘उत्तराहि’ । “आहि च दूरे”- (पा. सू. ५ । ३ । ३७) इति । ‘आहि’ प्रत्ययः । दूरदेशे उत्तरदिग्भागे ‘उद्यन्ति’ । ‘एताः’ कृत्तिकाः ‘पुरः’ पूर्वस्यां दिशि । अत 6 एव तासां विभिन्नदेशावस्थानेन पुरुषसम्भोगविरहान्मिथुनव्यृद्धिः । तच्चासमीचीनमित्याह- अशमिव वै तदिति । अतः कृत्तिकास्वाधानं कुर्वन्नपि तद्वत् मिथुनेन व्यृद्ध्यते, अतो ‘न इत्’ नैवाहं ‘मिथुनेन’ ‘व्यृद्ध्यै’ व्यृद्धो भवानीत्यभिप्रेत्य तत्र नादधीतेत्यर्थः ॥ ४ ॥
Eggeling
- On the other hand (it is argued) why he should not set up the fires under the Kr̥ttikās. Originally, namely, the latter were the wives of the Bears (r̥ksha); for the seven R̥shis 7 were in former times
called the R̥kshas (bears). They were, however, precluded from intercourse (with their husbands), for the latter, the seven R̥shis, rise in the north, and they (the Kr̥ttikās) in the east. Now it is a misfortune for one to be precluded from intercourse (with his wife): he should therefore not set up his fires under the Kr̥ttikās, lest he should thereby be precluded from intercourse.
०५
विश्वास-प्रस्तुतिः
त᳘द्वैव᳘ दधीत॥
(ताग्नि) अग्निर्व्वा᳘ ऽएता᳘सां मिथुन᳘मग्नि᳘नैता᳘ मिथुने᳘न स᳘मृद्धास्त᳘स्मा᳘दैव दधीत॥
मूलम् - श्रीधरादि
त᳘द्वैव᳘ दधीत॥
(ताग्नि) अग्निर्व्वा᳘ ऽएता᳘सां मिथुन᳘मग्नि᳘नैता᳘ मिथुने᳘न स᳘मृद्धास्त᳘स्मा᳘दैव दधीत॥
मूलम् - Weber
तॗद्वैव᳘ दधीत॥
अग्निर्वा᳘ एता᳘सां मिथुन᳘मग्नि᳘नैता᳘ मिथुने᳘न स᳘मृद्धास्त᳘स्माॗदैव दधीत॥
मूलम् - विस्वरम्
तद्वैव दधीत | अग्निर्वा एतासां मिथुनम् । अग्निनैता मिथुनेन समृद्धाः । तस्मादैव दधीत ॥ ५ ॥
सायणः
अथैतद्दोषं परिहरन्नाधानपक्षमेव निगमयति- तद्वैवेति । ‘तत् उ 5 आ एव’ तस्मिन्नपि 6 नक्षत्रे आदधीतैव । अग्निर्वा इत्यादि । स्पष्टम् 8 ॥ ५ ॥
Eggeling
- But he may nevertheless set up (his fire under the Kr̥ttikās); for Agni doubtless is their mate, and it is with Agni that they have intercourse: for this reason he may set up (the fire under the Kr̥ttikās).
०६
विश्वास-प्रस्तुतिः
रोहिण्यामग्नी ऽआ᳘दधीत॥
रोहिण्या᳘ᳫं᳘ ह वै᳘ प्रजा᳘पतिः प्रजा᳘कामो ऽग्नी ऽआ᳘दधे स᳘ प्रजा᳘ असृजत ता᳘ अस्य प्रजाः᳘ सृष्टा ए᳘करूपा उ᳘पस्तब्धास्तस्थू रो᳘हिण्य इवैव तद्वै᳘ रोहिण्यै᳘ रोहिणीत्वं᳘ बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘ एवं᳘ विद्वा᳘न् रोहिण्यामाधत्ते॥
मूलम् - श्रीधरादि
रोहिण्यामग्नी ऽआ᳘दधीत॥
रोहिण्या᳘ᳫं᳘ ह वै᳘ प्रजा᳘पतिः प्रजा᳘कामो ऽग्नी ऽआ᳘दधे स᳘ प्रजा᳘ असृजत ता᳘ अस्य प्रजाः᳘ सृष्टा ए᳘करूपा उ᳘पस्तब्धास्तस्थू रो᳘हिण्य इवैव तद्वै᳘ रोहिण्यै᳘ रोहिणीत्वं᳘ बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘ एवं᳘ विद्वा᳘न् रोहिण्यामाधत्ते॥
मूलम् - Weber
रोहिण्या᳘मग्नी आ᳘दधीत॥
रोहिण्या᳘ᳫं᳘ ह वै᳘ प्रजा᳘पतिः प्रजा᳘कामो ऽग्नी आ᳘दधे स᳘ प्रजा᳘ असृजत ता᳘ अस्य प्रजाः᳘ सृष्टा ए᳘करूपा उ᳘पस्तब्धास्तस्थू रो᳘हिण्य इवैव तद्वै᳘ रोहिण्यै᳘ रोहिणीत्व᳘म् बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘ एवं᳘ विद्वा᳘न्रोहिण्या᳘माधत्ते᳟॥
मूलम् - विस्वरम्
रोहिण्यामग्नी आदधीत । रोहिण्यां ह वै प्रजापतिः प्रजाकामो ऽग्नी आदधे स प्रजा असृजत । ता अस्य प्रजाः सृष्टा एकरूपा उपस्तब्धास्तस्थुः, रोहिण्य इवैव । तद्वै रोहिण्यै रोहिणीत्वम् । बहुर्हैव प्रजया पशुभिर्भवति- य एवं विद्वान् रोहिण्यामाधत्ते ॥ ६ ॥
सायणः
नक्षत्रान्तरं विधाय प्रशंसति- रोहिण्यामिति । ‘आदधे’ आधानं कृतवान् । ‘उपस्तब्धाः’ प्रतिबद्धगतयो विनाशरहिताः पुत्रपौत्रादिरूपेणैकरूपा अविच्छिन्नप्रवाहाः ‘तस्थुः’ स्थितवत्यः । ताश्च ‘रोहिण्यः’ स्वर्गादिलोकारोहणसाधनभूता इव स्थिताः । एतदुपजीवनेन नामनिर्वचनं करोति- तद्वा इति । स्पष्टार्थमन्यत् ॥ ६ ॥
Eggeling
- He may also set up his fires under (the asterism of Rohiṇī. For under Rohiṇī it was that Prajāpati, when desirous of progeny (or creatures), set up his fires. He created beings, and the creatures produced by him remained invariable and constant 9, like (red) cows (rohiṇī): hence the cow-like nature of Rohiṇī. Rich in cattle and offspring therefore he becomes whosoever, knowing this, sets up his fires under Rohiṇī.
०७
विश्वास-प्रस्तुतिः
रोहिण्या᳘मु ह वै᳘ पश᳘वः॥
(वो) अग्नी ऽआ᳘दधिरे मनु᳘ष्याणां का᳘मᳫँ᳭ रोहेमे᳘ति ते᳘ मनु᳘ष्याणां का᳘ममरोहन्य᳘मु हैव त᳘त्पश᳘वो मनु᳘ष्येषु का᳘मम᳘रोहंस्त᳘मु हैव᳘ पशु᳘षु का᳘मᳫँ᳭रोहति य᳘ एवं᳘ विद्वा᳘न्रोहिण्यामाधत्ते᳘॥
मूलम् - श्रीधरादि
रोहिण्या᳘मु ह वै᳘ पश᳘वः॥
(वो) अग्नी ऽआ᳘दधिरे मनु᳘ष्याणां का᳘मᳫँ᳭ रोहेमे᳘ति ते᳘ मनु᳘ष्याणां का᳘ममरोहन्य᳘मु हैव त᳘त्पश᳘वो मनु᳘ष्येषु का᳘मम᳘रोहंस्त᳘मु हैव᳘ पशु᳘षु का᳘मᳫँ᳭रोहति य᳘ एवं᳘ विद्वा᳘न्रोहिण्यामाधत्ते᳘॥
मूलम् - Weber
रोहिण्या᳘मु ह वै᳘ पश᳘वः॥
अग्नी आ᳘दधिरे मनु᳘ष्याणां का᳘मं रोहेमे᳘ति ते᳘ मनु᳘ष्याणां का᳘ममरोहन्य᳘मु हैव त᳘त्पश᳘वो मनु᳘ष्येषु का᳘मम᳘रोहंस्त᳘मु हैव᳘ पशु᳘षु का᳘मं रोहति य᳘ एवं᳘ विद्वा᳘न्रोहिण्या᳘माध᳘त्ते॥
मूलम् - विस्वरम्
रोहिण्यामु ह वै पशवो ऽग्नी आदधिरे- मनुष्याणां कामं रोहेमेति । ते मनुष्याणां काममरोहन् । यमु हैव तत् पशवो मनुष्येषु काममरोहन्, तमु हैव पशुषु कामं रोहति- य एवं विद्वान् रोहिण्यामाधत्ते ॥ ७ ॥
सायणः
रोहिण्याधानं प्रकारान्तरेण प्रशंसति- रोहिण्यामु हेति । मनुष्याणां कामं रोहेमेति । ‘मनुष्याणां’ ‘कामः’ भोग्यवस्तुविषयः, तत्पूरणसामर्थ्ययोगेन 10 तं प्राप्नुयामेत्यर्थः । यमु हैवेति । रोहिण्याधानेन काम्यमानभोग्यवस्तुजातपूरणसामर्थ्यम् 11 ‘मनुष्येषु’ अवस्थितम् ‘यमु’ यमेव ‘कामं’ प्राक् प्राप्नुवन्, ‘तम्’ एव इदानीं ‘पशुषु’ अवस्थितं रोहिण्यामाधानतः प्राप्नोति 12 । एतमेव सर्वे जना उपजीव्यत्वेन कामयन्त इति भावः ॥ ७ ॥
Eggeling
- Under Rohiṇī, indeed, the cattle set up their fires, thinking that they might attain to (ruh) the desire (or love) of men. They did attain to the
desire of men; and whatever desire the cattle then obtained in regard to men, that same desire he obtains, in regard to cattle, whosoever, knowing this, sets up his fire under Rohiṇī.
०८
विश्वास-प्रस्तुतिः
मृगशी᳘र्षे ऽग्नी ऽआ᳘दधीत॥
(तै) एतद्वै᳘ प्रजा᳘पतेः शि᳘रो य᳘न्मृगशीर्षᳫं श्रीर्वैशि᳘रः श्रीर्हि वै शि᳘रस्तस्माद्यो᳘ ऽर्द्ध᳘स्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्द्धस्य शि᳘र इ᳘त्याहुः श्रि᳘यᳫँ᳭ ह गच्छति य᳘ एवं᳘ विद्वा᳘न् मृगशीर्ष᳘ ऽआधत्ते॥
मूलम् - श्रीधरादि
मृगशी᳘र्षे ऽग्नी ऽआ᳘दधीत॥
(तै) एतद्वै᳘ प्रजा᳘पतेः शि᳘रो य᳘न्मृगशीर्षᳫं श्रीर्वैशि᳘रः श्रीर्हि वै शि᳘रस्तस्माद्यो᳘ ऽर्द्ध᳘स्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्द्धस्य शि᳘र इ᳘त्याहुः श्रि᳘यᳫँ᳭ ह गच्छति य᳘ एवं᳘ विद्वा᳘न् मृगशीर्ष᳘ ऽआधत्ते॥
मूलम् - Weber
मृगशीॗर्षे ऽग्नी आ᳘दधीत॥
एतद्वै᳘ प्रजा᳘पतेः शि᳘रो य᳘न्मृगशीर्षं श्रीर्वै शि᳘रः श्रीर्हि वै शिरस्त᳘स्माद्यो᳘ ऽर्धस्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्धस्य शि᳘र इ᳘त्याहुः श्रि᳘यᳫं ह गछति य᳘ एवं᳘ विद्वा᳘न्मृगशीर्ष᳘ आधत्ते॥
मूलम् - विस्वरम्
मृगशीर्षे ऽग्नी आदधीत । एतद्वै प्रजापतेः शिरो यन्मृगशीर्षम् । श्रीर्वै शिरः श्रीर्हि वै शिरस्तस्मात्- यो ऽर्द्धस्य श्रेष्ठो भवति, असावमुष्यार्द्धस्य शिर इत्याहुः । श्रियं ह गच्छति- य एवं विद्वान् मृगशीर्ष आधत्ते ॥ ८ ॥
सायणः
नक्षत्रान्तरं विधाय प्रशंसति- मृगशीर्ष इति । एतद्वा इति । पुरा खलु प्रजापतिः मृगरूपमास्थाय 10 मृगीभूतां स्वदुहितरमेवोपागमत् 11 । एतत् ज्ञात्वा- अकार्यकारिणः प्रजापतेः शिरश्छेत्तुं देवाः कञ्चित् क्रोधमयं पुरुषं निर्माय प्रत्यतिष्ठिपन् । स चेषुणा तस्य शिरश्चिच्छेद । तच्च मृगशरीरमिषुच्छिन्नशिरश्चेत्येतदुभयमन्तरिक्षमुत्प्लुत्य 12 नक्षत्रात्मना ऽवस्थितं संदृश्यते । तथा चैतरेयके- “प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत्”- (ऐ० ब्रा० ३. ३. ९.) इत्युपक्रम्य “सो एवेषुस्त्रिकाण्डा”- इत्यन्तेनायमर्थः प्रतिपादितः । ईदृशी श्रुत्यन्तरप्रसिद्धिरत्र वैशब्देन द्योत्यते । श्रीर्वै शिर इत्यादि । व्याख्यातम् ॥ ८ ॥
Eggeling
- He may also set up his fires under (the asterism of) Mr̥gaśīrsha. For Mr̥gaśīrsha, indeed, is the head of Prajāpati 13; and the head (śiras) means excellence (śrī), for the head does indeed mean excellence: hence they say of him who is the most excellent (śreshṭḥa) of a community, that he is the head of that community. Excellence therefore he attains whosoever, knowing this, sets up his fire under Mr̥gaśīrsha.
०९
विश्वास-प्रस्तुतिः
(त्ते᳘ ऽथ) अ᳘थ य᳘स्मान्न᳘ मृगशीर्ष᳘ ऽआद᳘धीत॥
प्रजा᳘पतेर्वा᳘ एतच्छ᳘रीरं य᳘त्र वा᳘ ऽएनं तद᳘विध्यंस्तदि᳘षुणा त्रि᳘काण्डेनेत्याहुः स᳘ ऽएतच्छ᳘रीरमजहाद्वा᳘स्तु वै श᳘रीरमयज्ञियं नि᳘र्व्वीर्यं त᳘स्मान्न᳘ मृगशीर्ष ऽआ᳘दधीत॥
मूलम् - श्रीधरादि
(त्ते᳘ ऽथ) अ᳘थ य᳘स्मान्न᳘ मृगशीर्ष᳘ ऽआद᳘धीत॥
प्रजा᳘पतेर्वा᳘ एतच्छ᳘रीरं य᳘त्र वा᳘ ऽएनं तद᳘विध्यंस्तदि᳘षुणा त्रि᳘काण्डेनेत्याहुः स᳘ ऽएतच्छ᳘रीरमजहाद्वा᳘स्तु वै श᳘रीरमयज्ञियं नि᳘र्व्वीर्यं त᳘स्मान्न᳘ मृगशीर्ष ऽआ᳘दधीत॥
मूलम् - Weber
अ᳘थ य᳘स्मान्ना᳘ मृगशीर्ष᳘ आद᳘धीत॥
प्रजा᳘पतेर्वा᳘ एतछरीरं य᳘त्र वा᳘ एनं तदा᳘वेध्यंस्तदि᳘षुणा त्रि᳘काण्डेने᳘त्याहुः स᳘ एतछ᳘रीरमजहाद्वा᳘स्तु वै श᳘रीरमयज्ञियं नि᳘र्वीर्यं त᳘स्मान्न᳘ मृगशीर्ष आ᳘दधीत॥
मूलम् - विस्वरम्
अथ यस्मात्- न मृगशीर्ष आदधीत । प्रजापतेर्वा एतच्छरीरं यत्र वा एनं तदविध्यँस्तदिषुणा त्रिकाण्डेनेत्याहुः । स एतच्छरीरमजहात् । वास्तु वै शरीरमयज्ञियं निर्वीर्यम् । तस्मात्- न मृगशीर्ष आदधीत ॥ ९ ॥
सायणः
तदेतन्मृगशीर्षाख्यस्य नक्षत्रस्याधाने प्रजापतिशिरश्छेदसंभूतेस्तद्दोषादाधानं निषेधति- अथ यस्मान्नेति । मृगशीर्षाधानं न कार्यम्, अत्र हेतुः प्रतिपाद्यत इत्यर्थः । को ऽसौ हेतुः ? तमाह- प्रजापतेरिति । मृगशीर्षाख्यस्य नक्षत्रस्य प्रजापतिशरीरत्वमाह- ‘यत्र’ यस्मिन् समये ‘एनम्’ प्रजापतिं मृगरूपम्, 14 ‘तत्’ तेन स्वदुहितृगमनरूपेण दोषेण हेतुना देवाः ‘अविध्यन्’, ‘तत्’ तदानीं पत्रदारुशल्यरूपावयवत्रयोपेतेन 15 ‘इषुणा’ खलु तच्छिरश्छिन्नम् ‘इत्याहुः’ ब्रह्मवादिनः । ‘स ’ च प्रजापतिस्तदानीम् ‘एतच्छरीरम्’ त्यक्तवान् । अतो निरात्मकत्वात् ‘निर्वीर्यम्’ नक्षत्रात्मना ऽवस्थितं मृगशिरः ‘वास्तु’ शून्यस्थानम् । यत एवात्मना त्यक्तम्, अत एव ‘शरीरम्’ विशरणशीलम् अत एव च ‘अयज्ञियम्’ यज्ञानर्हम्, न हि मृतशरीरस्य यज्ञात्मत्वं सम्भवति । ‘तस्मात्’ तदात्मके मृगशीर्षाख्ये नक्षत्रे आधानं न युक्तमित्यर्थः ॥ ९ ॥
Eggeling
- On the other hand (it is argued) why one should not set up his fire under Mr̥gaśīrsha 16. The latter, indeed, is Prajāpati’s body. Now, when they (the gods) on that occasion pierced him 17 with what is called ’the three-knotted arrow,’ he abandoned that
body, for the body is a mere relic (or dwelling, vāstu), unholy and sapless. He should therefore not set up his fires under Mr̥gaśīrsha.
१०
विश्वास-प्रस्तुतिः
त᳘द्वैव᳘ दधीत॥
न वा᳘ ऽएत᳘स्य देव᳘स्य वा᳘स्तु᳘ नायज्ञियं न श᳘रीरमस्ति य᳘त्प्रजा᳘पतेस्त᳘स्मा᳘दैव᳘ दधीत पु᳘नर्व्वस्वोः पुनराधे᳘यमा᳘दधीते᳘ति॥
मूलम् - श्रीधरादि
त᳘द्वैव᳘ दधीत॥
न वा᳘ ऽएत᳘स्य देव᳘स्य वा᳘स्तु᳘ नायज्ञियं न श᳘रीरमस्ति य᳘त्प्रजा᳘पतेस्त᳘स्मा᳘दैव᳘ दधीत पु᳘नर्व्वस्वोः पुनराधे᳘यमा᳘दधीते᳘ति॥
मूलम् - Weber
तॗद्वैव᳘ दधीत॥
न वा᳘ एत᳘स्य देव᳘स्य वा᳘स्तुॗ नायज्ञियं न शरीरमस्ति य᳘त्प्रजा᳘पतेस्त᳘स्माॗदैव᳘ दधीत पु᳘नर्वस्वोः पुनराधे᳘यमा᳘दधीते᳘ति॥
मूलम् - विस्वरम्
तद्वैव दधीत । न वा एतस्य देवस्य वास्तु, नायज्ञियम्, न शरीरमस्ति; यत्- प्रजापतेः । तस्मादैव दधीत । पुनर्वस्वोः पुनराधेयमादधीतेति ॥ १० ॥
सायणः
इमं दोषं परिहरन् प्रागुक्तमेव पक्षं निगमयति- तद्वैवेति । देवस्येति । मनुष्येण त्यक्तस्य शरीरस्य हि वास्त्वादिरूपत्वम् । अयं हि प्रजापतिर्देवः, तेन त्यक्तस्य 14 तत्त्वाभावात् वास्त्वादिरूपो दोषो नास्ति; मृगरूपस्य तस्य शिरः स्वमहिम्नैव नक्षत्ररूपेण 15 सम्पन्नम्, न खलु मानुषं शिरस्तथा भवितुमर्हति । तस्मात् तत् सवीर्यमेवेति तत्राधाने नोक्तदोष इत्यर्थः ।
पुनर्वस्वाख्यस्य नक्षत्रस्य लिङ्गवशात् पुनराधेयविषयतामाह 18- पुनर्वस्वोरिति । आहितानामप्यग्नीनां पुनर्निमित्तवशादाधानं 19 पुनराधेयम् । (पुनर्वस्वोरिति द्विवचनं पुष्याभिप्रायम्) नक्षत्रं चैतत् नष्टस्य वसुनः पुनःप्राप्तिहेतुत्वात् पुनर्वस्वाख्यम् । तथा च तैत्तिरीयके स्पष्टमाम्नातम्- “स पुनर्वस्वोरग्निमादधीत, पुनरेवैनं वामं वसूपावर्तते”- (तै. ब्रा. १. १. २. ३.) इति ॥ १० ॥
Eggeling
११
विश्वास-प्रस्तुतिः
फ᳘ल्गुनीष्वग्नी ऽआ᳘दधीत॥
(तै) एता वा᳘ ऽइन्द्रनक्षत्रं यत्फ᳘ल्गुन्यो᳘ ऽप्यस्य प्र᳘तिनाम्न्यो᳘ ऽर्जुनो ह वै नामे᳘न्द्रो यदस्य गु᳘ह्यं नामा᳘र्जुन्यो वै ना᳘मैतास्ता᳘ एत᳘त्परो᳘ ऽक्षमा᳘चक्षते फ᳘ल्गुन्य इ᳘ति को᳘ ह्येतस्या᳘र्हति गु᳘ह्यं ना᳘म ग्रहीतुमि᳘न्द्रो वै य᳘जमानस्तत्स्व᳘ ऽए᳘वैतन्न᳘क्षत्रे ऽग्नी आ᳘धत्त ऽइ᳘न्द्रो यज्ञस्य देव᳘तैते᳘नो हास्यैतत्से᳘न्द्रमग्न्योधे᳘यं भवति पू᳘र्वयोरा᳘दधीत पुरस्तात्क्रतु᳘र्है᳘वास्मे भवत्यु᳘त्तरयोरा᳘दधीत श्वःश्रेयस᳘ᳫँ᳘ हैवा᳘स्मा ऽउत्तरा᳘वद्भ᳘वति॥
मूलम् - श्रीधरादि
फ᳘ल्गुनीष्वग्नी ऽआ᳘दधीत॥
(तै) एता वा᳘ ऽइन्द्रनक्षत्रं यत्फ᳘ल्गुन्यो᳘ ऽप्यस्य प्र᳘तिनाम्न्यो᳘ ऽर्जुनो ह वै नामे᳘न्द्रो यदस्य गु᳘ह्यं नामा᳘र्जुन्यो वै ना᳘मैतास्ता᳘ एत᳘त्परो᳘ ऽक्षमा᳘चक्षते फ᳘ल्गुन्य इ᳘ति को᳘ ह्येतस्या᳘र्हति गु᳘ह्यं ना᳘म ग्रहीतुमि᳘न्द्रो वै य᳘जमानस्तत्स्व᳘ ऽए᳘वैतन्न᳘क्षत्रे ऽग्नी आ᳘धत्त ऽइ᳘न्द्रो यज्ञस्य देव᳘तैते᳘नो हास्यैतत्से᳘न्द्रमग्न्योधे᳘यं भवति पू᳘र्वयोरा᳘दधीत पुरस्तात्क्रतु᳘र्है᳘वास्मे भवत्यु᳘त्तरयोरा᳘दधीत श्वःश्रेयस᳘ᳫँ᳘ हैवा᳘स्मा ऽउत्तरा᳘वद्भ᳘वति॥
मूलम् - Weber
फ᳘ल्गुनीष्वग्नी आ᳘दधीत॥
एता वा᳘ इन्द्रनक्षत्रं यत्फ᳘ल्गुन्यो᳘ ऽप्यस्य प्र᳘तिनाम्न्यो᳘ ऽर्जुनो ह वै नामे᳘न्द्रो य᳘दस्य गुह्यं नामा᳘र्जुन्यो वै ना᳘मैतास्ता᳘ एत᳘त्परो᳘ ऽक्षमा᳘चक्षते फ᳘ल्गुन्य इ᳘ति कोॗ ह्येतस्या᳘र्हति गु᳘ह्यं ना᳘म ग्रहीतुमि᳘न्द्रो वै य᳘जमानस्तत्स्व᳘ एॗवैतन्न᳘क्षत्रे ऽग्नी आ᳘धत्त इ᳘न्द्रो यज्ञ᳘स्य देव᳘तैते᳘नो हास्यैतत्से᳘न्द्रमग्न्योधे᳘यं भवति पू᳘र्वयोरा᳘दधीत पुरस्तात्क्रतु᳘र्हैॗवास्मे भवत्यु᳘त्तरयोरा᳘दधीत श्वःश्रेयस᳘ᳫं᳘ हैवा᳘स्मा उत्तरा᳘वद्भवति॥
मूलम् - विस्वरम्
फल्गुनीष्वग्नी आदधीत । एता वा इन्द्रनक्षत्रं यत् फल्गुन्यः । अप्यस्य प्रतिनाम्न्यः । अर्जुनो ह वै नामेन्द्रो यदस्य गुह्यं नाम अर्जुन्यो वै नामैताः । ता एतत् परोक्षमाचक्षते- फल्गुन्य इति । को ह्येतस्यार्हति गुह्यं नाम ग्रहीतुम् । इन्द्रो वै यजमानः । तत् स्व एवैतन्नक्षत्रे ऽग्नी आधत्ते । इन्द्रो यज्ञस्य देवता । एतेनो हास्यैतत् सेन्द्रमग्न्याधेयं भवति । पूर्वयोरादधीत- पुरस्तात्क्रतुर्हैवास्मै भवति । उत्तरयोरादधीत- श्वःश्रेयसं हैवास्मा उत्तरावद् भवति ॥ ११ ॥
सायणः
नक्षत्रान्तरं विधाय प्रशंसति- फल्गुनीष्वग्नी इति । पूर्वोत्तरयोः फल्गुन्याख्ययोर्नक्षत्रयोः प्रत्येकमधिष्ठानद्वित्वयोगाद्बहुत्वम् 14 । फल्गुनीनामोपजीवनेन प्रशंसति- एता वा इति । कथमस्य नक्षत्रस्येन्द्रसम्बन्ध इत्यत आह- अप्यस्येति । ‘अस्य’ इन्द्रस्य प्रतिनिधिभूताः फल्गुन्यः सम्भाव्यन्ते । ‘अपिः’ सम्भावनार्थः । प्रतिनिधित्वं च समानशब्दाभिधेयत्वादित्याह- अर्जुनो हेति । ‘अर्जुनः’ ‘इति’ हि इन्द्रस्य रहस्यं नाम; अत एव खलु तत्पुत्रे पाण्डवमध्यमे तन्नामप्रवृत्तिः । अर्जुनफल्गुनशब्दौ च पर्यायौ; “अर्जुनः फल्गुनः पार्थः”- इति समानार्थतया परिगणनात् । ‘अर्जुन्यः’ एव ‘एताः’, पारोक्ष्येण ‘फल्गुन्य इति’ उच्यन्ते । ननु किं पारोक्ष्येणेत्यत आह- कोर्हतीति । अतः फल्गुनीशब्दस्य परम्परयेन्द्रोपलक्षकत्वात् तन्नामकं नक्षत्रम् । इन्द्रो वा इत्यादि । स्पष्टम् । फल्गुनीषु पूर्वोत्तरत्वमुपजीव्य तद्विहितमाधानं प्रशंसति- पूर्वयोरित्यादिना 22 । पुरस्तात् क्रतुरिति । पूर्वस्मिन्नागामिनि काले ऽग्निष्टोमादिलक्षणः ‘क्रतुः’ शीघ्रं सिद्ध्यतीत्यर्थः । श्वःश्रेयसमित्यादि । उक्तार्थम् ॥ ११ ॥
Eggeling
- He may also set up his fires under the Phalgunīs. They, the Phalgunīs, are Indra’s asterism 23, and even correspond to him in name; for indeed Indra is also called Arjuna, this being his mystic name; and they (the Phalgunīs) are also called Arjunīs. Hence he overtly calls them Phalgunīs, for who dares to use his (the god’s) mystic name? Moreover, the sacrificer himself is Indra, so that he in that case sets up his fires under his own asterism. Indra is the deity of the sacrifice; and accordingly his Agnyādheya is thereby brought
into relation with Indra. He may set up the fires under the first (Pūrva-phalgunīs)–whereby an advancing (successful) sacrifice accrues to him; or he may set them up under the second (Uttara-phalgunīs)–whereby a progressive (uttarāvat) improvement accrues to him.
१२
विश्वास-प्रस्तुतिः
ह᳘स्ते ऽग्नी ऽआ᳘दधीत॥
य᳘ इच्छेत्प्र᳘ मे दीयेतेति᳘ तद्वा᳘ ऽअनुष्ठ्या यद्ध᳘स्तेन प्रदीय᳘ते प्र᳘ है᳘वास्मै दीयते॥
मूलम् - श्रीधरादि
ह᳘स्ते ऽग्नी ऽआ᳘दधीत॥
य᳘ इच्छेत्प्र᳘ मे दीयेतेति᳘ तद्वा᳘ ऽअनुष्ठ्या यद्ध᳘स्तेन प्रदीय᳘ते प्र᳘ है᳘वास्मै दीयते॥
मूलम् - Weber
ह᳘स्ते ऽग्नीय् आ᳘दधीत॥
य᳘ इछेत्प्र᳘ मे दीयेते᳘ति तद्वा᳘ अनुष्ठ्या यद्ध᳘स्तेन प्रदीय᳘ते प्र᳘ हैॗवास्मै दीयते॥
मूलम् - विस्वरम्
हस्ते ऽग्नी आदधीत- य इच्छेत् ‘प्र मे दीयेतेति’ । तद्वा अनुष्ठ्या, यद्धस्तेन प्रदीयते । प्र हैवास्मै दीयते ॥ १२ ॥
सायणः
एवं परोक्षार्थमाधानस्य प्रपञ्च्य नक्षत्रार्थं नक्षत्रान्तरं प्रशंसति- हस्ते ऽग्नी 24 आदधीतेत्यादि । अयं मह्यं प्रदीयतामिति य इच्छेत् स हस्ते आदधीताग्नी । हस्तेन प्रदत्तं साक्षात् प्रदीयत एव । ‘ह’ इति पुरावृत्ते । ‘अनुष्ठ्या’- शब्दः साक्षाद्वाची । स्वहस्तेन ‘यत्’ खलु दानम्, ‘तद्’ एव ‘अनुष्ठ्या’ अनुष्ठानेन समीचीनम् । अतो हस्तनक्षत्रे अग्न्याधानात् परकर्त्तृकं हस्तेन दानं प्राप्नोतीति तात्पर्यार्थः ॥ १२ ॥
Eggeling
- Let him set up his fires under the asterism Hasta 25, whosoever should wish that (presents) should be offered him: then indeed (that will take place) forthwith; for whatever is offered with the hand (hasta), that indeed is given to him.
१३
विश्वास-प्रस्तुतिः
चित्रा᳘यामग्नी ऽआ᳘दधीत॥
देवा᳘श्च वा अ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘ ऽउभ᳘य ए᳘वामुं᳘ लोक᳘ᳫँ᳭समारुरुक्षा᳘ञ्चक्रुर्दि᳘वमेव ततो᳘ ऽसुरा रौहिणमि᳘त्यग्निं चिक्यिरे ऽने᳘नामुं᳘ लोक᳘ᳫँ᳭समा᳘रोक्ष्याम इति᳘॥
मूलम् - श्रीधरादि
चित्रा᳘यामग्नी ऽआ᳘दधीत॥
देवा᳘श्च वा अ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘ ऽउभ᳘य ए᳘वामुं᳘ लोक᳘ᳫँ᳭समारुरुक्षा᳘ञ्चक्रुर्दि᳘वमेव ततो᳘ ऽसुरा रौहिणमि᳘त्यग्निं चिक्यिरे ऽने᳘नामुं᳘ लोक᳘ᳫँ᳭समा᳘रोक्ष्याम इति᳘॥
मूलम् - Weber
चित्रा᳘यामग्नी आ᳘दधीत॥
देवा᳘श्च वा अ᳘सुराश्चोभ᳘ये प्राजापत्याः᳘ पस्पृधिरे त᳘ उभ᳘य एॗवामुं लोक᳘ᳫं᳘ समारुरुक्षां᳘ चक्रुर्दि᳘वमेव ततो᳘ ऽसुरा रौहिणमि᳘त्यग्निं᳘ चिक्यिरे 26 ऽने᳘नामुं᳘ लोक᳘ᳫं᳘ समा᳘रोक्ष्याम इ᳘ति॥
मूलम् - विस्वरम्
चित्रायामग्नी आदधीत । देवाश्च वा असुराश्चोभये प्राजापत्याः पस्पृधिरे । त उभय एवामुं लोकं समारुरुक्षाञ्चक्रुर्दिवमेव । ततो ऽसुरा रौहिणमित्यग्निं चिक्यिरे- “अनेनामुं लोकं समारोक्ष्याम” इति ॥ १३ ॥
सायणः
नक्षत्रान्तरं विधाय प्रशंसति- चित्रायामित्यादि 24 । आरुरुक्षाञ्चक्रुरिति । आरोढुमिच्छां कृतवन्त इत्यर्थः । अमुमिति ‘अदस्’- शब्देन पारोक्ष्येण यो लोको निर्द्दिष्टः, तं विशिनष्टि- दिवमेवेति । ‘ततः’ अनन्तरम् ‘असुराः’ ‘रौहिणमिति’ एतन्नामकं रोहणसाधनम् ‘अग्निं’ ‘चिक्ये’ 27 । व्यत्ययेनैकवचनम् (पा. सू. १ । ४ । ९) ‘चिक्यिरे’ चितवन्तः । अनेनेत्यादि । स्पष्टम् ॥ १३ ॥
Eggeling
- He may also set up his fires under Citrā. Now the gods and the Asuras, both of them sprung from Prajāpati, were contending for superiority. Both parties were desirous of rising to yonder world, the sky. The Asuras then constructed the fire (altar) called rauhiṇa (fit to ascend by), thinking, ‘Thereby we shall ascend (ā-ruh) to the sky 28.’
१४
विश्वास-प्रस्तुतिः
(ती᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षा᳘ञ्चक्रे॥
(क्र ऽ) इमं चेद्वा᳘ ऽइमे᳘ चिन्व᳘ते त᳘त एव᳘ नो ऽभि᳘भवन्ती᳘ति स᳘ ब्रा᳘ह्मणो᳘ ब्रुवाण᳘ एकेष्टकां᳘ प्रबध्ये᳘याय॥
मूलम् - श्रीधरादि
(ती᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षा᳘ञ्चक्रे॥
(क्र ऽ) इमं चेद्वा᳘ ऽइमे᳘ चिन्व᳘ते त᳘त एव᳘ नो ऽभि᳘भवन्ती᳘ति स᳘ ब्रा᳘ह्मणो᳘ ब्रुवाण᳘ एकेष्टकां᳘ प्रबध्ये᳘याय॥
मूलम् - Weber
इ᳘न्द्रो ह वा᳘ ईक्षां᳘ चक्रे॥
इमं चेद्वा᳘ इमे᳘ चिन्व᳘ते त᳘त एव᳘ नो ऽभि᳘भवन्ती᳘ति स᳘ ब्राह्मणो᳘ ब्रुवाण᳘ एकेष्टकां᳘ प्रबध्ये᳘याय॥
मूलम् - विस्वरम्
इन्द्रो वा ईक्षाञ्चक्रे ‘इमं चेद्वा इमे चिन्वते, तत एव नो ऽभिभवन्ति’ इति । स ब्राह्मणो ब्रुवाण एकेष्टकां प्रबध्येयाय ॥ १४ ॥
सायणः
इत्थं द्युलोकं समारुरुक्षतो ऽसुरानाकलय्य तेषां विभ्रेषणमिन्द्रश्चेतयति- इन्द्रो हेति । इमं चेदित्यादि । यम् ‘इमम्’ अग्निं वयं चेष्यामः, इममेव चेदसुरा अपि चिन्वीरन्, ‘ततः’ तस्मात् ‘एव’ साधनात् ‘नः’ अस्मान् ‘अभिभवन्तिः’ असुराः अभिभवितुं समर्था भवन्ति । ‘इति’ एवं विचार्य, ‘सः’ इन्द्रः ‘ब्राह्मणः’ भूत्वा असुरहितं ब्रुवाण एव ‘एकामिष्टकां’ ‘प्रबध्य’ गृहीत्वा ‘इयाय’ जगाम ॥ १४ ॥
Eggeling
- Indra then considered 29, ‘If they construct that (fire-altar), they will certainly prevail over us.’ He secured a brick and proceeded thither, passing himself off for a Brāhman.
१५
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
ह᳘न्ताहमिमाम᳘प्युपद᳘धा ऽइ᳘ति तथे᳘ति तामु᳘पाधत्त ते᳘षामल्पका᳘देवाग्निर᳘सञ्चित ऽआस॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
ह᳘न्ताहमिमाम᳘प्युपद᳘धा ऽइ᳘ति तथे᳘ति तामु᳘पाधत्त ते᳘षामल्पका᳘देवाग्निर᳘सञ्चित ऽआस॥
मूलम् - Weber
स᳘ होवाच॥
ह᳘न्ताह᳘मिमाम᳘प्युपद᳘धा इ᳘ति तथे᳘ति तामु᳘पाधत्त ते᳘षामल्पका᳘देॗवाग्निर᳘संचित आस॥
मूलम् - विस्वरम्
स होवाच- ‘हन्ताहमिमामप्युपदधै’ इति । तथेति तामुपाधत्त । तेषामल्पकादेवाग्निरसञ्चित आस ॥ १५ ॥
सायणः
स होवाचेति । गत्वा च तान् असुरान् ‘उवाच’ । ‘अहम्’ अपि ‘इमाम्’ इष्टकां भवदीये ऽग्नौ ‘उपदधै’ उपधानं करवाणि ‘इति’ । ‘तथा’ ‘इति’ तैरनुज्ञातः, ‘ताम्’ इष्टकां तत्र ‘उपाधत्त’ । अन्यदीये चयने अन्यदीयेष्टकोपधानमशास्त्रीयमित्येतस्मात् ‘अल्पकादेव’ भ्रेषात् 30 ‘तेषाम्’ असुराणाम् ‘अग्निः’ असम्यक् चितो विकलो बभूव बभूव ॥ १५ ॥
Eggeling
- ‘Hark ye!’ he said, ‘I, too, will put on this (brick) for myself!’ ‘Very well,’ they replied. He put it on. That fire (altar) of theirs wanted but very little to be completely built up,–
१६
विश्वास-प्रस्तुतिः
(सा᳘) अ᳘थ होवाच॥
(चा) अन्वा᳘ ऽअहं तां᳘ दास्ये या म᳘मेहे᳘ति ता᳘मभिपद्या᳘बबर्ह त᳘स्यामा᳘बृढायामग्निर्व्य᳘वशशादाग्ने᳘र्व्यवशादमन्व᳘सुरा व्य᳘वशेदुः स ता᳘ ऽएवे᳘ष्टका व्व᳘ज्रान्कृत्वा᳘ ग्रीवाः प्र᳘चिच्छेद॥
मूलम् - श्रीधरादि
(सा᳘) अ᳘थ होवाच॥
(चा) अन्वा᳘ ऽअहं तां᳘ दास्ये या म᳘मेहे᳘ति ता᳘मभिपद्या᳘बबर्ह त᳘स्यामा᳘बृढायामग्निर्व्य᳘वशशादाग्ने᳘र्व्यवशादमन्व᳘सुरा व्य᳘वशेदुः स ता᳘ ऽएवे᳘ष्टका व्व᳘ज्रान्कृत्वा᳘ ग्रीवाः प्र᳘चिच्छेद॥
मूलम् - Weber
अ᳘थ होवाच॥
अन्वा᳘ अहं तां᳘ दास्ये या म᳘मेहे᳘ति ता᳘मभिपद्या᳘बबर्ह 31 त᳘स्यामा᳘वृढा 32 यामग्निर्व्य᳘वशशादाग्ने᳘र्व्यवशा 33 दमन्व᳘सुरा व्य᳘वशेदुः 34 स ता᳘ एवे᳘ष्ठ्का व᳘ज्रान् कृत्वा᳘ ग्रीवाः᳘ प्र᳘चिछेद॥
मूलम् - विस्वरम्
अथ होवाच- ‘अन्वा अहं तां दास्ये या ममेह’ इति । तामभिपद्याबबर्ह । तस्यामाबृढायामग्निर्व्यवशशाद । अग्नेर्व्यवशादमनु असुरा व्यवशेदुः । स ता एवेष्टका वज्रान् कृत्वा ग्रीवाः प्रचिच्छेद ॥ १६ ॥
सायणः
अथ होवाचेति । ‘अथ’ कालान्तरे स एव ब्राह्मणरूप इन्द्रस्तानसुरान् ‘उवाच’ । ‘इह’ अस्मिंश्चितिप्रदेशे ‘या’ ‘मम’ इष्टका, ‘ताम्’ अहम् ‘आदास्ये’ इत्युक्त्वा तत्समीपमभिप्राप्य, ‘ताम्’ इष्टकाम् ‘आबबर्ह’ उद्ययाम, तस्मात् स्थानादचालयदित्यर्थः । “बृहू उद्यमने” (तु. प. ६७) इति धातुः । ‘तस्यां’ चेष्टकायां चित्याग्नेः सकाशाच्चालितायां सत्याम्, सः ‘अग्निः’ ‘व्यवशशाद’ 30 विशीर्णो बभूव । तदनन्तरं तच्चेतारः ‘असुराः’ च ‘व्यवशेदुः’ 35 व्यवसन्नाः, शिथिला बभूवुः । स ता इत्यादि । ‘सः’ इन्द्रः ‘ताः’ चित्याग्निसंबद्धाः ‘इष्टकाः’ ‘एव’ ‘वज्रान्’ विधाय असुरसंबन्धिनीः ‘ग्रीवाः’ प्रचिच्छेद ॥ १६ ॥
Eggeling
- When he said, ‘I shall take back this (brick) which belongs to me.’ He took hold of it and pulled it out; and on its being pulled out, the fire-altar fell down; and along with the falling fire-altar the Asuras fell down. He then converted those bricks into thunderbolts and clove the (Asuras’) necks.
१७
विश्वास-प्रस्तुतिः
ते᳘ ह देवाः᳘ समे᳘त्योचुः॥
(श्चि) चित्रं वा᳘ ऽअभूम य ऽइ᳘यतः सप᳘त्नान᳘वधिष्मेति तद्वै᳘ चित्रा᳘यै चित्रात्वं᳘ चित्र᳘ᳫँ᳭ह भवति ह᳘न्ति सप᳘त्नान्ह᳘न्ति द्विष᳘न्तं भ्रा᳘तृव्यं य᳘ एवं᳘ विद्वां᳘श्चित्रा᳘यामाधत्ते त᳘स्मादेत᳘त्क्षत्रि᳘य एव न᳘क्षत्रमु᳘पेर्त्सेज्जि᳘घाᳫंसतीव᳘ ह्ये᳘ष᳘ सप᳘त्ना᳘न्वीव जि᳘गीषते॥
मूलम् - श्रीधरादि
ते᳘ ह देवाः᳘ समे᳘त्योचुः॥
(श्चि) चित्रं वा᳘ ऽअभूम य ऽइ᳘यतः सप᳘त्नान᳘वधिष्मेति तद्वै᳘ चित्रा᳘यै चित्रात्वं᳘ चित्र᳘ᳫँ᳭ह भवति ह᳘न्ति सप᳘त्नान्ह᳘न्ति द्विष᳘न्तं भ्रा᳘तृव्यं य᳘ एवं᳘ विद्वां᳘श्चित्रा᳘यामाधत्ते त᳘स्मादेत᳘त्क्षत्रि᳘य एव न᳘क्षत्रमु᳘पेर्त्सेज्जि᳘घाᳫंसतीव᳘ ह्ये᳘ष᳘ सप᳘त्ना᳘न्वीव जि᳘गीषते॥
मूलम् - Weber
त᳘ ह देवाः᳘ समे᳘त्योचुः॥
चित्र वा᳘ अभूम य इ᳘यतः सप᳘त्नान᳘वधिष्मे᳘ति तद्वै᳘ चित्रा᳘यै चित्रात्वं᳘ चित्रᳫं ह भवति ह᳘न्ति सप᳘त्नान्ह᳘न्ति द्विष᳘न्तं भ्रा᳘तृव्यं य᳘ एवं᳘ विद्वां᳘श्चित्रा᳘यामाधत्ते त᳘स्मादेत᳘त्क्षत्रि᳘य एव न᳘क्षत्रमु᳘पेर्त्सेज्जि᳘घांसतीवॗ ह्येष᳘ सप᳘त्नाॗन्वीव जि᳘गीषते॥
मूलम् - विस्वरम्
ते ह देवाः समेत्योचुः- ‘चित्रं वा अभूम, य इयतः सपत्नानवधिष्म’ इति । तद्वै चित्रायै चित्रात्वम् । चित्रं ह भवति, हन्ति सपत्नान्, हन्ति द्विषन्तं भ्रातृव्यम्, य एवं विद्वांश्चित्रायामाधत्ते । तस्मादेतत् क्षत्रिय एव नक्षत्रमुपेर्त्सेत् । जिघांसतीव ह्येष सपत्नान्, वीव जिगीषते ॥ १७ ॥
सायणः
चित्रानाम निर्वक्ति- ते ह देवा इति । चित्राख्येष्टका । ‘इयतः’ एतावतः ‘सपत्नान्’ ‘अवधिष्म’ अमस्तकांश्चकृम । तत् अस्या एवं चित्रहेतुत्वात् ‘चित्रा’ नाम सम्पन्नमित्यर्थः । चित्रं हेत्यादि निगदसिद्धम् । तस्मादेतदित्यादि । यस्मादुक्तरीत्या चित्रानक्षत्रस्य 36 शत्रुहननसाधनत्वम्, ‘तस्मात्’ आधाने क्षत्रिय एव, 35 ‘एतत्’ नक्षत्रं ‘उपेर्त्सेत्’ स्वीकुर्यात् । तत्र कारणमाह- जिघांसतीवेति । ‘एषः’ खलु क्षत्रियः यः अन्यान्- शत्रून् ‘जिघांसति’ हन्तुमिच्छति ‘इव’, तथा ‘विजिगीषते’ ‘इव’ विजेतुमिच्छतीव । तस्माच्छत्रुहननकामस्य क्षत्रियस्यैवैतन्नक्षत्रम्, नेतरस्येत्यर्थः ॥ १७ ॥
Eggeling
- Thereupon the gods assembled and said, ‘Wonderfully (citram) indeed it has fared with us who have slain so many enemies!’ Hence the wonderful nature (citrātva) 37 of the asterism
Citrā; and verily wonderfully it fares with him, and he slays his rivals, his spiteful enemy, whosoever, knowing this, sets up his fires under Citrā. A Kshatriya, therefore, should especially desire to take advantage of this asterism; since such a one is anxious to strike, to vanquish his enemies.
१८
विश्वास-प्रस्तुतिः
ना᳘ना ह वा᳘ ऽएतान्यग्रे क्षत्रा᳘ण्यासुः॥
(र्य᳘) यथै᳘वासौ सू᳘र्य्य ऽएवं ते᳘षामेष उद्य᳘न्नेव᳘ व्वीर्य्यं क्षत्रमा᳘दत्त त᳘स्मादादित्यो ना᳘म यदेषां व्वीर्य्यं क्षत्रमा᳘दत्त॥
मूलम् - श्रीधरादि
ना᳘ना ह वा᳘ ऽएतान्यग्रे क्षत्रा᳘ण्यासुः॥
(र्य᳘) यथै᳘वासौ सू᳘र्य्य ऽएवं ते᳘षामेष उद्य᳘न्नेव᳘ व्वीर्य्यं क्षत्रमा᳘दत्त त᳘स्मादादित्यो ना᳘म यदेषां व्वीर्य्यं क्षत्रमा᳘दत्त॥
मूलम् - Weber
ना᳘ना ह वा᳘ एतान्य᳘ग्रे क्षत्रा᳘ण्यासुः॥
य᳘थैॗवासौ सू᳘र्य एवं ते᳘षामेष᳘ उद्यॗन्नेव᳘ वीर्यं᳘ क्षत्रमा᳘दत्त त᳘स्मादादित्यो ना᳘म य᳘देषां वीर्यं᳘ क्षत्रमा᳘दत्त॥
मूलम् - विस्वरम्
नाना ह वा एतान्यग्रे क्षत्राण्यासुः- यथैवासौ सूर्यः; एवम् । तेषामेष उद्यन्नेव वीर्य्यं क्षत्रमादत्त । तस्मादादित्यो नाम- यदेषां वीर्य्यं क्षत्रमादत्त ॥ १८ ॥
सायणः
सूर्येणापहृतवीर्याणि कृत्तिकादिनक्षत्राण्यनादृत्य तेजस्विनि सूर्यात्मके नक्षत्र उद्यति सत्याधानं कार्यमित्याह- नाना ह वा इति । पुरा खलु कृत्तिकादिनक्षत्रमण्डलानि सूर्यमण्डलवत् तेजस्वीन्येव बभूवुः । ‘एषः’ खलु ‘सूर्यः’ ‘उद्यन्’ उदयं प्राप्नुवन् ‘क्षत्रं’ तेजः सामर्थ्यं चोदयमाप्नुवन् ‘एव’ ‘तेषां’ ‘वीर्यम्’ ‘आदत्त’ स्वीकृतवान् । ‘तस्मात्’ आदानात् 36 ‘आदित्यः’ इति उच्यते ॥ १८ ॥
Eggeling
- Originally these (nakshatras) were so many different powers (kshatra), just as that sun yonder. But as soon as he rose, he took from them (ā-dā) their energy, their power; therefore he (the sun) is called Āditya, because he took from them their energy, their power 38.
१९
विश्वास-प्रस्तुतिः
ते᳘ ह देवा᳘ ऊचुः॥
(र्या᳘) यानि वै᳘ ता᳘नि क्षत्राण्य᳘भूवन् न वै ता᳘नि क्षत्रा᳘ण्यभूवन्नि᳘ति तद्वै न᳘क्षत्राणां नक्षत्रत्वं त᳘स्मादु सू᳘र्य्यनक्षत्र ऽएव᳘ स्यादेष ह्ये᳘षां व्वीर्य्यं क्षत्रमा᳘दत्त य᳘द्यु न᳘क्षत्रकामः स्या᳘देतद्वा ऽअ᳘नपराद्धं᳘ न᳘क्षत्रं यत्सू᳘र्य्यः स᳘ एते᳘नैव᳘ पुण्याहे᳘न य᳘देते᳘षां न᳘क्षत्राणां काम᳘येत तदु᳘पेर्त्सेत्त᳘स्मादु सू᳘र्यनक्षत्र ऽएव᳘ स्यात्॥
मूलम् - श्रीधरादि
ते᳘ ह देवा᳘ ऊचुः॥
(र्या᳘) यानि वै᳘ ता᳘नि क्षत्राण्य᳘भूवन् न वै ता᳘नि क्षत्रा᳘ण्यभूवन्नि᳘ति तद्वै न᳘क्षत्राणां नक्षत्रत्वं त᳘स्मादु सू᳘र्य्यनक्षत्र ऽएव᳘ स्यादेष ह्ये᳘षां व्वीर्य्यं क्षत्रमा᳘दत्त य᳘द्यु न᳘क्षत्रकामः स्या᳘देतद्वा ऽअ᳘नपराद्धं᳘ न᳘क्षत्रं यत्सू᳘र्य्यः स᳘ एते᳘नैव᳘ पुण्याहे᳘न य᳘देते᳘षां न᳘क्षत्राणां काम᳘येत तदु᳘पेर्त्सेत्त᳘स्मादु सू᳘र्यनक्षत्र ऽएव᳘ स्यात्॥
मूलम् - Weber
ते᳘ ह देवा᳘ ऊचुः॥
यानि वै ता᳘नि क्षत्राण्य᳘भूवन्न वै ता᳘नि क्षत्रा᳘ण्यभूवन्निति तद्वै न᳘क्षत्राणां नक्षत्रत्वं त᳘स्मादु सू᳘र्यनक्षत्र एव᳘ स्यादेष ह्येषां वीर्यं᳘ क्षत्रमा᳘दत्त य᳘द्यु न᳘क्षत्रकामः स्या᳘देतद्वा अ᳘नपराद्धं 39 न᳘क्षत्रं यत्सू᳘र्यः स᳘ एते᳘नैव᳘ पुण्याहे᳘न य᳘देते᳘षां न᳘क्षत्राणां काम᳘येत तदु᳘पेर्त्सेत्त᳘स्मादु सू᳘र्यनक्षत्र एव᳘ स्यात्॥
मूलम् - विस्वरम्
ते ह देवा ऊचुः- ‘यानि वै तानि क्षत्राण्यभूवन्, न वै तानि क्षत्राण्यभूवन्’ इविः तद्वै नक्षत्राणां नक्षत्रत्वम् । तस्मादु सूर्यनक्षत्र एव स्यात्, एष ह्येषां वीर्य्यं क्षत्रमादत्त । यद्यु नक्षत्रकामः स्यात् । एतद्वा अनपराद्धं नक्षत्रं यत् सूर्यः । स एतेनैव पुण्याहेन यदेतेषां नक्षत्राणां कामयेत, तदुपेर्त्सेत् । तस्मादु सूर्यनक्षत्र एव स्यात् ॥ १९ ॥ इत्यग्न्याधानप्रकरणे नक्षत्रब्राह्मणम् ।
सायणः
नक्षत्रमिति नामधेयं निर्वक्ति- ते हेति । ‘यानि’ खलु पुरा ‘क्षत्राणि’ ‘अभूवन्,’ ‘तानि’ इदानीं सूर्येण क्षत्रगुणस्यापहृतत्वात्, न विद्यते क्षत्रमेषामिति व्युत्पत्त्या ‘नक्षत्राणि’ सम्पन्नानीत्यर्थः । “तथा नेमानि क्षत्राणीति” यास्कः । अपाहृततेजस्कत्वादिमानि क्षत्राणि न भवन्तीति नक्षत्रशब्दव्युत्पत्तिः । यस्मादेवं कृत्तिकादीन्यपहृतवीर्याणि, तस्मात् एव कारणात् सूर्यात्मके ‘एव’ तेजस्विनि नक्षत्रे आधानं स्यात् 40 । तत्र हेतुमाह- एष हीति । ‘हि’ यस्मात् ‘एषः’ सूयः ‘एषां’ नक्षत्राणां वीर्यादिकम् ‘आदत्ते’, तस्मात् सवीर्ये तस्मिन्नाधानं युज्यत इत्यर्थः । यदि च यजमानः तत्तत्पूजार्थं 41 नक्षत्रकामः स्यात्, तदानीमपि सूर्यात्मकमेव नक्षत्रमुपाददीतेत्याह- एतद्वा इति । ‘अनपराद्धम्’- इति हेतुगर्भविशेषणम् । यतस्तेजोवियोगलक्षणापराधरहितम्, अतस्तदेव सूर्यात्मकं नक्षत्रं कामयेतेत्यर्थः । तेन कृत्स्ननक्षत्रफलप्राप्तिमाह 42- स एतेनैवेति । ‘एतेनैव’ सूर्येणोद्यता पुण्यकालात्मना ‘तत्’ कृत्स्ननक्षत्राधानफलं 43 ‘उपेर्त्सेत्’ उपगच्छेत् । उपेर्त्सेत्-इत्युपपूर्वक ऋध्नोति (स्वा० प० २५) र्गत्यर्थः सन्नन्तः। “आप्ज्ञप्यृधामीत्” (पा० सू० ७. ४. ५५) इतीत्वम् । आधानार्थमुपगन्तुमिच्छेदित्यर्थः । ‘तस्मात्’ सूर्यात्मके एव नक्षत्र उद्यति सत्याधानं स्यात्, न रात्रावित्यर्थः ॥ १९ ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये द्वितीयकाण्डे प्रथमाध्याये द्वितीयं ब्राह्मणम् ॥ (२-१-२) ॥
Eggeling
- The gods then said, ‘They who have been powers, shall no longer (na) be powers (kshatra) 44!’ Hence the powerlessness (na-kshatratvam) of the nakshatras. For this reason also one need only take the sun for one’s nakshatra (star), since he took away from them their energy, their power. But if he (the sacrificer) should nevertheless be desirous of having a nakshatra (under which to set up his fires), then assuredly that sun is a faultless nakshatra for him; and through that auspicious day (marked by the rising and setting of the sun) he should endeavour to obtain the benefits of whichever of those asterisms he might desire. Let him therefore take the sun alone for his nakshatra 45.
-
“एतद्वा अग्नेनर्क्षत्रं यत् कृत्तिकाः” (तै० ब्रा० १. १. २.१) ↩︎ ↩︎
-
282:1 That is, the Gārhapatya and Āhavanīya, the two principal fires. ↩︎
-
282:2 Whilst the Kr̥ttikās, or Pleiades, are supposed to consist of seven (or, according to others, of six) stars. the remaining twenty-six nakshatras or lunar mansions, according to our author, vary between one and four stars. Hence the Kr̥ttikās are also called Bahulās, ’the numerous.’ In the later accounts, however, a larger number of stars is attributed to several nakshatras. Cf. Weber, Nakshatra, II, pp. 368, 381. The Kāṇva text has: ‘Other nakshatras are (i.e. consist of) four; and there is here an abundance, so that he thereby obtains abundance.’ ↩︎
-
पुरऽऋक्षा Sây. ↩︎
-
यद्यपि मूले ‘पुर ऽर्क्षाः’ इत्येव पाठ उपलभ्यते ऽथापि ‘पुर ऋक्षा’ इत्येव भाष्यसंमतः पाठ इति प्रतीयते । ↩︎ ↩︎
-
282:3 Saptarshi, or the seven R̥shis, is the designation of the constellation of Ursa Major, or the Wain. In the Rig-vela,. rikshāḥ (bears) occurs once (I, 24, 10), either in the same restricted sense, or in that of stars generally. ↩︎
-
“अमावास्यायामग्न्याधेयं"=“कृत्तिकारोहिणीमृगशिरःफल्गुनीषु” इति का. श्रौ. सू. ४।१७५-१७६ । ↩︎
-
283:1 ‘Tā asya prajāḥ sr̥shṭā ekarūpā upastabdhās tasthū rohiṇya iva.’ The Kāṇva text reads: Tam imāḥ prajāḥ sr̥shṭā rohiṇya ivopastabdhās tasthur ekarāpā iva. Sāyaṇa interprets upastabdhāḥ (‘propped up, erect,’ established) by ‘pratibaddhajātayaḥ (of continuous lineage),’ and ekarūpāḥ (‘uniform’) by ‘avicchinnapravāhāḥ (of uninterrupted flow or succession).’ In Taitt. Br. I, 1, 2, 2, it is stated that Prajāpati created Agni under (the asterism) Rohiṇī, and that the gods then set up that fire under the same asterism. ↩︎
-
‘काम्यमानं भोग्यवस्तुजातं पूरणसामर्थ्यायोगात्’ इति क्व. पा. । ↩︎ ↩︎
-
“यो रोहिण्यामग्निमाधत्ते, ऋध्नोत्येव” इति तै० ब्रा० १. १. २. २. । ↩︎ ↩︎
-
284:1 For the mythical allusions in this and the succeeding paragraphs, we have to compare Śat. Br. I, 7, 4, 1; Ait. Br. III, 33. According to the version of the myth given in the latter work, Prajāpati transformed himself into a roe-buck (r̥śya) and approached his own daughter (either the sky, or the dawn), who had assumed the shape of a doe (rohit). Out of their most fearful forms the gods then fashioned a divine being called Bhūtavat (i.e. Rudra), in order to punish Prajāpati for his incestuous deed. The latter was accordingly pierced by Bhūtavat’s arrow and bounded up to the sky, where he became the constellation called Mr̥ga (i.e. Mr̥gaśīrsha), while his daughter became the asterism Rohiṇī. The arrow on the other hand, with which Prajāpati was pierced, became the constellation called ’the three-knotted arrow (perhaps the girdle of Orion).’ ↩︎
-
“त्रिकाण्डा, अनीकं, शाल्यः, तेजनम् इत्यवयवत्रयोपेता”- इति ऐ. ब्रा. ३ । ३ । ९ सा. भाष्ये । ↩︎ ↩︎
-
284:2 The Black Yajus does not recommend this asterism for the performance of agnyādheya. ↩︎
-
284:3 The Kāṇva text reads, ‘When, on that occasion, that god (viz. Rudra) pierced him with the three-knotted arrow.’ ↩︎
-
“पुनराधेयमाधानाप्रतिज्ञातस्य" का. श्रौ. सू. ४. २५९. “पुनर्वस्वोः" का. श्रौ. सू. ४. २६३ ॥ ↩︎
-
‘पुनर्वस्वाभिज्ञवशात्’ इति क्व. पा. । ↩︎
-
285:1 Na vā etasya devasya vāstu nāyajñiyaṁ na śarīram asti.–Na vai tasya vāstu na nivīryaṁ nāyajñiyam asti, ‘for the relic of that (god) is neither sapless nor impure.’ Kāṇva recension. ↩︎
-
285:2 I.e. the repetition of the ādheya, or setting up of his fires, a ceremony which has to be performed in the event of the ādheya having proved unsuccessful; that is, in case he should not have prospered or even sustained losses. The direction has been inserted in this place on account of the position of Punarvasū, as the fifth mansion, between Mr̥gaśīrsha, the third, and (Pūrva and Uttara) Phalgunīs, the ninth and tenth mansions, in the original order of the nakshatras. ↩︎
-
“पूर्वयोः फल्गुन्योरग्निमादधीत” इत्यादि, “उत्तरयोः फल्गुन्योरग्निमादधीत” इत्यादि च तै० ब्रा० १. १. २. ४. । ↩︎
-
285:3 In Taitt. Br. I, 1, 2, 4, the Pūrve Phalgunī are assigned to Aryaman, and the Uttare Phalgunī to Bhaga. While, however, both these asterisms are there recommended for the agnyādheya, the Pūrve Phalgunī are rejected as unsuitable further on, in par. 8 (? a later addition). ↩︎
-
286:1 In the Taitt. Br. this asterism is not mentioned as suitable for the agnyādheya. The Āśv. Ś. II, 1, to omits both Hasta and Citrā; but permits the asterisms Viśākhe and Uttare Proshṭḥapade. ↩︎
-
चिक्ये Sây. ↩︎
-
भाष्यकारमते ‘चिक्ये’ इत्येव मूले न तु ‘चिक्यिरे’ इत्यनेन व्याख्यानेन प्रतीयते । ↩︎
-
286:2 In Taitt. Br. I, 1, 2, 4-6 this myth is related as follows: ‘There were Asuras, named Kālakañjas. They constructed a fire (altar) with a view to (gaining) the world of heaven. They put, every man of them, a brick to it. Indra, passing himself off for a Brāhman, put a brick on for himself, saying, “This one, Cītra (the wonderful or bright one) by name, is for me!” They climbed up to heaven; Indra, however, pulled out his brick, and they tumbled down. And they who tumbled down, became spiders: two of them flew up, and they became the two heavenly dogs.’ On this myth, Dr. A. Kuhn, ‘Über entwickelungsstufen der mythenbildung,’ p. 129, remarks: ‘The myth given in Homer’s Od. xi, 305-325, of Otos and Ephialtes, who, in order to fight the immortal gods, piled Ossa on Olympos, and Pelion on Ossa, of ἵν᾽ οὐρανὸς, and who are destroyed by Apollon, shows an obvious resemblance to these Indian myths; the more so, if we divest the latter of their Brāhmanical form, by which altar-bricks are substituted for mountains; and if we hear in mind that the later versions of the myth, e.g. in the well-known passage of Ovid, put the Gigantes in the place of the Aloades.’ See also Weber, Nakshatra, II, p. 372. ↩︎
-
287:1 The Kāṇva text here proceeds thus: The gods then were afraid and said, ‘If those (Asuras) complete (samāsyanti) that (fire-altar), they will prevail over us.’ Then Indra having fastened a brick with the lightning-band (ārkeṇa dāmnā) went thither passing himself off for a Brāhman. He said, ‘I, too, will put on this (brick) for myself.’ They said, ‘On then (upa hi)!’ He put it on. That (fire-altar) wanted but very little to be built up, when he said, ‘I shall take this (brick) which is mine,’ Take it then (ā hi)!’ they said. Then seizing it (tām abhihāya) he pulled it out. On its being pulled out the fire-altar tumbled down. On the fire-altar having tumbled down he made thunderbolts with those bricks and smote those (Asuras). Then the gods prevailed and the Asuras were worsted, &c. ↩︎
-
ववर्ह ↩︎
-
वृढा A. ↩︎
-
व्यवत्ससाद् (!) ↩︎
-
व्यवसेदुः Sây. ↩︎
-
287:2 Or, perhaps, its identity with (Indra’s brick) Citrā; cf. preceding note. ↩︎
-
288:1 The Kāṇva text reads: Tāni ha vā etāni kshatrāṇi nānaiva tepur yathāsau vā sūryaś candramā vā; teshāṁ hodyann evādityaḥ kshatraṁ vīryaṁ tegaḥ pralulopa, tad vaishām ādade. ↩︎
-
अनपरार्द्धं A. ↩︎
-
“सूर्यो नक्षत्रं कालोपलक्षणं यस्य सो ऽयं सूर्यनक्षत्रः । सूर्यापेक्षित एव काले आदधति । न नक्षत्रोपलक्षित इत्यर्थः । कथं तत्सूर्यकालं लक्षयति । उदगयनम्” इत्यादि- आह हरिस्वामी । ↩︎
-
‘तत्तस्मात् प्राप्त्यर्थम्’ इति पाठः । ↩︎
-
‘नक्षत्राणां प्राप्ति’ इति क्व० पा० । ↩︎
-
‘नक्षत्रे ऽप्याधानफल’- इति क्व० पा० । ↩︎
-
288:2 This etymology of nakshatra is of course quite fanciful. For Aufrecht’s probably correct derivation of the word from nakta-tra, ’night-protector,’ cf. Zeitschrift für vergl. Sprachf., VIII, pp. 71, 72. See also Weber, Nakshatra; II, p. 268. ↩︎
-
288:3 The Kāṇva text reads: Tasmān na nakshatram ādriyeta yadaivaisha kadā codīyād apy ādadhītaisha hi sarvāṇi kshatrāṇi yadyu nakshatrakāmaḥ syād upo āsīta nakshatram ahāsya bhavati no etasyānudayo ’sti tasmād v apy upaina(m ā)sīta, ‘he need therefore not attend to any nakshatra; but may set up his fires at any time when that (sun) rises, for he (the sun) is all the kshatras. Should he nevertheless be desirous of a nakshatra, let him approach (the sun) with veneration; for then there is a nakshatra for him, and that (sun) does not fail to rise: for this reason let him approach (the sun) with veneration.’ ↩︎