०१

विश्वास-प्रस्तुतिः

स᳘ᳫं᳘स्थिते यज्ञे᳘॥
दक्षिणतः᳘ परी᳘त्य पूर्णपात्रं नि᳘नयति त᳘था ह्यु᳘दग्भ᳘वति त᳘स्माद्दक्षिणतः᳘ परी᳘त्य पूर्णपात्रं नि᳘नयति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो यजते᳘ सो ऽस्यैष᳘ यज्ञो᳘ देवलोक᳘मे᳘वाभिप्रै᳘ति त᳘दनू᳘ची द᳘क्षिणा यां द᳘दाति᳘ सैति द᳘क्षिणामन्वार᳘भ्य य᳘जमानः॥

मूलम् - श्रीधरादि

स᳘ᳫं᳘स्थिते यज्ञे᳘॥
दक्षिणतः᳘ परी᳘त्य पूर्णपात्रं नि᳘नयति त᳘था ह्यु᳘दग्भ᳘वति त᳘स्माद्दक्षिणतः᳘ परी᳘त्य पूर्णपात्रं नि᳘नयति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो यजते᳘ सो ऽस्यैष᳘ यज्ञो᳘ देवलोक᳘मे᳘वाभिप्रै᳘ति त᳘दनू᳘ची द᳘क्षिणा यां द᳘दाति᳘ सैति द᳘क्षिणामन्वार᳘भ्य य᳘जमानः॥

मूलम् - Weber

स᳘ᳫं᳘स्थिते यज्ञे᳟॥
दक्षिणतः᳘ परी᳘त्य पूर्णपात्रं नि᳘नयति त᳘था ह्यु᳘दग्भ᳘वति त᳘स्माद्दक्षिणतः᳘ परी᳘त्य पूर्णपात्रं नि᳘नयति देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जतेॗ सो ऽस्यैष᳘ यज्ञो᳘ देवलोक᳘मेॗवाभिप्रै᳘ति त᳘दनू᳘ची द᳘क्षिणा यां द᳘दातिॗ सैति द᳘क्षिणामन्वार᳘भ्य य᳘जमानः॥

मूलम् - विस्वरम्

अथ याजमानो विष्णुक्रमः ।

संस्थिते यज्ञे दक्षिणतः परीत्य पूर्णपात्रं निनयति । तथा ह्युदग् भवति । तस्माद्दक्षिणतः परीत्य पूर्णपात्रं निनयति । ‘देवलोके मे ऽप्यसद्’ इति वै यजते- यो यजते । सो ऽस्यैष यज्ञो देवलोकमेवाभिप्रैति । तदनूची दक्षिणा- यां ददाति, सैति । दक्षिणामन्वारभ्य यजमानः ॥ १ ॥

सायणः

संस्थिते यज्ञे । याजमानकर्माभिधायि ब्राह्मणमेतत् । ‘दक्षिणतः परीत्य’ अध्वर्युः ‘निनयति’ ‘हि’ यतः, ‘तथा’ कृते ‘उदग् भवति’, परीत्येत्युक्ते दक्षिणादागत्य निनयनायोदगागमनं भवति । उदपात्रनिनयनस्यानुवादो न सर्वतो विधिः । कुतः ? “अथ विष्णुक्रमान् क्रमते”- इति (श० प० १ । ९ । ३ । ८) परतः ‘अथ’- शब्देनानन्तर्यवचनं संयुज्य पदार्थान्तराणां विधानात् । तथा ह्युदगित्ययं दक्षिणतः परीत्येत्यर्थवादो ऽयम् । पूर्णनिनयने देवलोके मे ऽप्यसदित्यादि । अयं यज्ञः ‘असत्’ भवतु । एवमर्थं यजमानो ‘यजते’ ‘यो यजते’ स यज्ञो ऽस्य यजमानस्य ‘देवलोकमेवाभिप्रैति’ । मां संस्कृतवानसौ, अतो मया प्रत्युपकरणीयमित्यभिप्रायः । ‘तदनूची’ दक्षतेः समृद्ध्यर्थस्य (भ्वा० आ० धा० पा० ६०९) दक्षिणारूपम् । यज्ञसमृद्ध्यर्थं यज्ञमनु विलग्ना दक्षिणैति । ‘दक्षिणामन्वारभ्य’ सा हि परिक्रमार्था; ऋत्विङ्निष्पादिता परिक्रीयते, यथान्यत्रापि परिक्रयसम्बद्धः परिक्रेता, एवमत्रापि ॥ १ ॥

[संस्थिते समाप्ते यज्ञे पूर्णपात्रासादितं जलं निनयति अर्थादध्वर्युर्यजमानाञ्जलौ । यजमानो ऽपि तदञ्जलिना प्रतिगृह्णातीति वक्ष्यति । यो दर्शपूर्णमासात्मना यजते, मम यज्ञो ऽयं देवलाके ऽपि असत् । लेट् लिङर्थे, स्यादित्यर्थः । एष यज्ञो ऽस्य देवलोकमेव, आभिमुख्येन एति । तस्मादन्वगञ्चनशीलामन्वाहार्यलक्षणशीलां यां दक्षिणां ददाति सा देवलोकमेति । ततो दक्षिणां समृद्धिस्वरूपामन्वारभ्य यजमानो देवलोकमेत्येव ॥ १ ॥]

परिशिष्टम् – कतिचित्पुस्तकेषु- एतत्काण्डस्थान्तिमब्राह्मणगतानामेतासां कण्डिकानां हरिस्वामिकृतं भाष्यमन्यथा दृश्यते । तत्तत्तत्कण्डिकानामधो ऽत्र परिशिष्टरूपेण विद्वद्वराणां समालोचनार्थं संगृह्यते ॥

Eggeling
  1. The sacrifice being now complete, he (the Adhvaryu) walks round (the fire) to the south, and pours out a vessel (of water); for thus it is (poured out) towards north: therefore he pours it out after walking round to the south, He who sacrifices, doubtless, sacrifices with a desire that he also may obtain a place in the world of the gods. That sacrifice of his then goes forth towards the world of the gods: after it follows the fee which he gives (to the priests), and holding on to the priests’ fee (follows) the sacrificer.

०२

विश्वास-प्रस्तुतिः

स᳘ ऽएष᳘ देवया᳘नो वा पितृया᳘णो वा प᳘न्थाः॥
(स्त᳘) स्त᳘दुभय᳘तो ऽग्निशिखे᳘ समो᳘षन्त्यौ तिष्ठतः प्र᳘ति त᳘मोषतो यः᳘ प्रत्युष्यो᳘ ऽत्यु त᳘ᳫँ᳘सृजते᳘ यो ऽतिसृ᳘ज्यः शा᳘न्तिरा᳘पस्त᳘देत᳘मे᳘वैतत्प᳘न्थानᳫँशमयति॥

मूलम् - श्रीधरादि

स᳘ ऽएष᳘ देवया᳘नो वा पितृया᳘णो वा प᳘न्थाः॥
(स्त᳘) स्त᳘दुभय᳘तो ऽग्निशिखे᳘ समो᳘षन्त्यौ तिष्ठतः प्र᳘ति त᳘मोषतो यः᳘ प्रत्युष्यो᳘ ऽत्यु त᳘ᳫँ᳘सृजते᳘ यो ऽतिसृ᳘ज्यः शा᳘न्तिरा᳘पस्त᳘देत᳘मे᳘वैतत्प᳘न्थानᳫँशमयति॥

मूलम् - Weber

स᳘ एष᳘ देवया᳘नो वा पितृया᳘णो वा प᳘न्थाः॥
त᳘दुभय᳘तो ऽग्निशिखे᳘ समो᳘षन्त्यौ तिष्ठतः प्र᳘ति त᳘मोषतो यः᳘ प्रत्युष्यो᳘ ऽत्यु त᳘ᳫं᳘ सृजतेॗ यो ऽतिसृं᳘ज्यः शा᳘न्तिरा᳘पस्त᳘देत᳘मेॗवैतत्प᳘न्थानं शमयति॥

मूलम् - विस्वरम्

स एष देवयानो वा पितृयाणो वा पन्थाः । तदुभयतो ऽग्निशिखे समोषन्त्यौ तिष्ठतः । प्रति तमोषतो- यः प्रत्युष्यः, अत्यु त सृजेते यो ऽतिसृज्यः । शान्तिरापः । तदेतमेवैतत्पन्थानं शमयति ॥ २ ॥

सायणः

स एष देवयानः । आत्मयाजिनस्तस्य कुणपादिमोक्षप्राप्तेः, देवयाजिनः पितृलोकः पन्थाः । एवञ्च केवलकर्मिणः पुनरावृत्तिर्दर्शिता । यतस्त्वत्रायमेव ‘अन्वावर्त्तते’- इत्युपसंहारः (श० प० १ । ९ । ३ । २० ) अपि हि न ऋषेर्वचः श्रुतम्- “द्वे सृती अशृणवं पितणाम्” इत्युपक्रम्य, ज्ञानसमुच्चितकर्मिणः पुनरावृत्तिर्दर्शिता- “ते य एवमेतद्विदुः"- इत्यादिना (श० प० १४ । ९ । १ । ४-१९) । ‘वा’- शब्दो व्यवस्थितः ‘तदुभयतः’ ‘अग्निशिखे’ अग्निज्वाले ‘ओषन्त्यौ’ भस्मसात्कुर्वन्त्यौ ‘सन्तिष्ठतः’ । दहनान्मुक्तिरित्यर्थः । ज्ञानसहकारिकर्मकारी यजमानः ‘अतिसृज्यः’ । ज्ञानिनश्चोष्णं पन्थानञ्च उष्णशमनसमर्थाभिरद्भिः शमयति । शान्तिसाधनं ‘शान्तिः’ । ज्ञानसमुच्चितकर्मफलमलक्षालकं भवतीति सम्मतम् । केवलस्य स्वर्गादिफलं तु कार्यारम्भादौपचारिकमिति यदि 1 फलभोगाय देवलोकं यजमानो याति, स देव एव । स एष देवफलभोगार्थं देवानेति; “देवो भूत्वा देवानप्येति" इति वचनात् । पितॄँश्च केवलात्कर्मणः । ‘तदुभयतः’ तत्र उभयतः, उभयोरपि मार्गयोः ‘अग्निशिखे’ सूर्यरश्मयः ‘ओषतः’ दहतः । यो ऽकृतकृत्यः, तमोषतः; यस्तु कृतनियतकर्मा, तमतिसृजतः । परन्त्वनेन पूर्णसेकेन शान्ते जाते ‘यः’ ‘प्रत्युष्यः’ “उष दाहे” (धा० पा० भ्वा० प० ६९७) प्रतिदहनार्हः ‘तं’ ‘प्रत्योषतः’ प्रतिदहतः । यथा दर्शितयज्ञादावेष एवाग्निसंयोगो निमित्तमिति, एवं तदपि ते प्रदीप्ते दहतः । ‘अतिसृजेते’ अतिसर्जनम् विसर्जनम् ॥ २ ॥

[देवलोकप्राप्तौ प्रसंगान्मार्गान्तरं श्रुतिरेवाह- स एषः । स यज्ञो देवयानः देवैः प्रापणीयः, पितृभिः प्रापणीयः पितृयाणः । देवयानो ऽग्निहोत्रिणामध्वा स्वर्गगमनाय; पितृयाणो ऽन्यमनुष्याणामध्वा । तदुभयतः अग्नेराहवनीयादेः देवयानपितृयाणौ शिखे ऊर्ध्वज्वाले ओषन्त्यौ सन्तिष्ठतः । अपां शान्तिस्वरूपत्वात् तन्निनयनेन शान्तो भवति देवपथः ॥ २ ॥]

Eggeling
  1. That same path leads either to the gods or to the fathers 2. On both sides two flames are ever burning: they scorch him who deserves to be scorched, and allow him to pass who deserves to pass 3. Now, water is (a means of) lustration: hence he thereby lustrates that path.

०३

विश्वास-प्रस्तुतिः

पूर्णं नि᳘नयति॥ स᳘र्व्वं वै᳘ पूर्णᳫँस᳘र्व्वेणै᳘वैनमेत᳘च्छमयति सन्ततम᳘व्यवच्छिन्नं नि᳘नयति स᳘न्ततेनै᳘वैनमेतद᳘व्यवच्छिन्नेन शमयति॥

मूलम् - श्रीधरादि

पूर्णं नि᳘नयति॥ स᳘र्व्वं वै᳘ पूर्णᳫँस᳘र्व्वेणै᳘वैनमेत᳘च्छमयति सन्ततम᳘व्यवच्छिन्नं नि᳘नयति स᳘न्ततेनै᳘वैनमेतद᳘व्यवच्छिन्नेन शमयति॥

मूलम् - Weber

पूर्णं नि᳘नयति स᳘र्वं वै᳘ पूर्णᳫं स᳘र्वेणैॗवैनमेत᳘छमयति संततम᳘व्यवछिन्नं नि᳘नयति सं᳘ततेनै᳘वैनमेतद᳘व्यवछिन्नेन षमयति॥

मूलम् - विस्वरम्

पूर्णं निनयति । सर्वं वै पूर्णम् । सर्वेणैवैनमेतच्छमयति । सन्ततमव्यवच्छिन्नं निनयति । सन्ततेनैवैनमेतदव्यवच्छिन्नेन शमयति ॥ ३ ॥

सायणः

पूर्णम् । अपां पूर्णम्; ‘शान्तिरापः’- इति वचनात् (श. प. १ कां. ९ अ. ३ ब्रा. २ कं.) उदकस्यैवं तावदाधिदैविकं निनयनस्य प्रयोजनम् (का. श्रौ. सू. ३ । १६२) ॥ ३ ॥

[पूर्णम् । अर्थाज्जलेन निनयनधर्माच्च पूर्णम् । सन्ततमव्यवच्छिन्नम्, अनवखण्डितेन धारानिनयनेन ॥ ३ ॥]

“पूर्णपात्रं निनयति परीत्य संततं यजमानो ऽञ्जलिना प्रतिगृह्णाति संवर्चसेति” इति ॥

Eggeling
  1. A full (vessel) he pours out, because full means all: hence he thereby lustrates that (path) by means of the All. He pours it out continuously, uninterruptedly: hence he thereby lustrates that (path) in a continuous, uninterrupted manner.

०४

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ पूर्णपात्रं᳘ निन᳘यति॥
यद्वै᳘ यज्ञ᳘स्य मिथ्या᳘ क्रिय᳘ते᳘ व्य᳘स्य त᳘द्वृहन्ति क्षण्व᳘न्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयति त᳘दद्भिः स᳘न्दधाति॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ पूर्णपात्रं᳘ निन᳘यति॥
यद्वै᳘ यज्ञ᳘स्य मिथ्या᳘ क्रिय᳘ते᳘ व्य᳘स्य त᳘द्वृहन्ति क्षण्व᳘न्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयति त᳘दद्भिः स᳘न्दधाति॥

मूलम् - Weber

य᳘द्वेव᳘ पूर्णपात्रं᳘ निन᳘यति॥
यद्वै᳘ यज्ञ᳘स्य मिथ्या᳘ क्रिय᳘ते व्य᳘स्य त᳘द्वृहन्ति क्षण्वन्ति शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयति त᳘दद्भिः सं᳘दधाति॥

मूलम् - विस्वरम्

यद्वेव पूर्णपात्रं निनयति । यद्वै यज्ञस्य मिथ्या क्रियते- व्यस्य तद्वृहन्ति, क्षण्वन्ति । शान्तिरापः । तदद्भिः शान्त्या शमयति, तदद्भिः संदधाति ॥ ४ ॥

सायणः

अधियज्ञं दर्शयन्नाह- यद्वेवेति । ‘यद्वै मिथ्या क्रियते यज्ञस्य’ अकरणमन्यथाकरणञ्च, ‘तद्विवृहन्ति’ व्यर्थं कुर्वन्ति ‘यज्ञीया आपः क्षण्वन्ति, ‘क्षणु हिंसायाम्’ (धा० पा० त० उ० ३) हिंसन्ति, दुःखायन्तीत्यर्थः ॥ ४ ॥ ५ ॥

[यद्वेव । यज्ञस्य यत्किञ्चिन्मिथ्या प्रमादादिना क्रियते । व्यस्य तदिति । अस्य यजमानस्य तन्मिथ्याकृतं विवृहन्ति विनाशयति, यज्ञः सम्पूर्णो भवति; क्षण्वन्ति हिनस्ति, तत् मिथ्यादि न दुःखायतीत्यर्थः । शान्तिराप इति समानम् ॥ ४ ॥]

[पूर्णम् । एतत् मिथ्याकृतं सन्दधाति सन्धितं करोति । सन्ततमनवखण्डितम् । तेन यज्ञस्यानुसन्धानं भवतीति शेषः ॥ ५ ॥]

Eggeling
  1. And again why he pours out a vessel (of water) is: where anything is done wrongly at the sacrifice, there they tear or wound it; and–water being (a means of) lustration–he lustrates it by that (means of) lustration, water; he heals it with water.

०५

विश्वास-प्रस्तुतिः

पूर्णं नि᳘नयति॥
स᳘र्व्वं वै᳘ पूर्णᳫँ᳭ स᳘र्व्वेणै᳘वैतत्स᳘न्दधाति स᳘न्ततम᳘व्यवच्छिन्नं नि᳘नयति स᳘न्ततेनै᳘वैतद᳘व्यवच्छिन्नेन स᳘न्दधाति॥

मूलम् - श्रीधरादि

पूर्णं नि᳘नयति॥
स᳘र्व्वं वै᳘ पूर्णᳫँ᳭ स᳘र्व्वेणै᳘वैतत्स᳘न्दधाति स᳘न्ततम᳘व्यवच्छिन्नं नि᳘नयति स᳘न्ततेनै᳘वैतद᳘व्यवच्छिन्नेन स᳘न्दधाति॥

मूलम् - Weber

पूर्णं नि᳘नयति॥
स᳘र्वं वै᳘ पूर्णᳫं स᳘र्वेणैॗवैतत्सं᳘दधाति सं᳘ततम᳘व्यवछिन्नं नि᳘नयति सं᳘ततेनैॗवैतद᳘व्यवछिन्नेन सं᳘दधाति॥

मूलम् - विस्वरम्

पूर्णं निनयति । सर्वं वै पूर्णम् । सर्वेणैवैतत्संदधाति । सन्ततमव्यवच्छिन्नं निनयति । सन्ततेनैवैतदव्यवच्छिन्नेन संदधाति ॥ ५ ॥

सायणः

[व्याख्यानं चतुर्थे]

Eggeling
  1. A full (vessel) he pours out, because full means all: hence he thereby heals it by means of the All. Continuously, uninterruptedly he pours it out: hence he thereby heals it in a continuous (lasting), uninterrupted manner.

०६

विश्वास-प्रस्तुतिः

त᳘दञ्जलि᳘ना प्र᳘तिगृह्णाति॥
सं व्व᳘र्च्चसा प᳘यसा स᳘न्तनू᳘भिर᳘गन्महि म᳘नसा स᳘ᳫँ᳘शिवे᳘न॥ त्व᳘ष्टा सुद᳘त्रो वि᳘दधातु रायो᳘ ऽनुमार्ष्टु त᳘न्वो यद्वि᳘लिष्टमि᳘ति यद्वि᳘वृढं तत्सं᳘दधाति॥

मूलम् - श्रीधरादि

त᳘दञ्जलि᳘ना प्र᳘तिगृह्णाति॥
सं व्व᳘र्च्चसा प᳘यसा स᳘न्तनू᳘भिर᳘गन्महि म᳘नसा स᳘ᳫँ᳘शिवे᳘न॥ त्व᳘ष्टा सुद᳘त्रो वि᳘दधातु रायो᳘ ऽनुमार्ष्टु त᳘न्वो यद्वि᳘लिष्टमि᳘ति यद्वि᳘वृढं तत्सं᳘दधाति॥

मूलम् - Weber

त᳘दञ्जलि᳘ना प्र᳘तिगृह्णाति॥
सं व᳘र्चसा प᳘यसा सं᳘ तनू᳘भिर᳘गन्महि म᳘नसा सं᳘ शिवे᳘न त्व᳘ष्टा सुद᳘त्रो वि᳘दधातु रायो᳘ ऽनुमार्ष्टु त᳘न्नो यद्वि᳘लिष्टमि᳘ति यद्वि᳘वृढं तत्सं᳘दधाति॥

मूलम् - विस्वरम्

तदञ्जलिना प्रतिगृह्णाति- “सं वर्च्चसा पयसा सन्तनूभिरगन्महि मनसा सं शिवेन । त्वष्टा सुदत्रो विदधातु रामो ऽनुमार्ष्टु तन्वो यद्विलिष्टम्”- (वा० सं० २ । २४ ।) इति । यद्विवृढं तत् संदधाति ॥ ६ ॥

सायणः

तदञ्जलिना । (का० श्रौ० सू० ३ । १६२) यद्यपि “अनुमार्ष्टु तन्वो यद्विलिष्टम्”- इति लिङ्गात् मुखोपस्पर्शनाङ्गता मन्त्रस्य प्रतिभाति तथापि वाक्यात्प्रतिग्रहणांगता । तथाहि “यद्विवृढं तत्सन्दधाति” इति ग्रहणार्थवाद एव परतो दृश्यते, अर्थवादान्तराभावात्; अथशब्देन च मुखोपस्पर्शनस्य व्यवधानार्थवादान्तरदर्शनाच्च । लिङ्गं चाविरुद्धमेव; मुखबद्धस्तयोरपि शरीरैकदेशत्वात् । यद्विवृढमिति । यजमानस्यैव यज्ञो वर्तते; तत्रैव स्थितस्य ‘यद्विवृढं तत्सन्दधाति’- इत्यभिप्रायः । कण्वानान्तु 4 “तदञ्जलिना प्रतिगृह्णाति- तत्र जपति संवर्चसेति” । गृह्णतो यज्ञवीर्यमत्र च जप्यमानः प्रतिग्रहणाय स्पर्शने ऽपि प्रकाशयिष्यति । कः पुनः प्रतिगृह्णाति ? यजमानः; अध्वर्योर्निनयने व्यापृतत्वात्, अन्यः को ऽपीति सिद्धे आशीर्लिङ्गत्वान्मन्त्रस्य यजमान एव । तथाच यज्ञस्य “यद्विवृढं तत्सन्दधातीति” उपपत्त्या, अत उत्तरत्र च (श. प. १ कां ९ अ. ३ ब्रा. ७ कं.) “एतदु चैवैतत् कर्म कुरुते”- इति मन्त्रवाक्यशेषैरेव च सवमेवातः परं याजमानमित्यवसीयते ॥ ६ ॥

Eggeling
  1. He (the sacrificer) intercepts it with his open hands held together, while reciting the text (Vāj. S. II, 24),

‘We have united with lustre, with vigour, with the bodies 5, with the happy spirit. May Tvashṭr̥, the dispenser of boons, grant us riches, and make even what was injured in our body!’ What was torn, that he thereby heals.

०७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ मु᳘खमु᳘पस्पृशते॥
द्वयं तद्य᳘स्मान्मुखमुपस्पृश᳘ते ऽमृ᳘तं वा ऽआ᳘पो ऽमृ᳘तेनै᳘वैतत्स᳘ᳫं᳘स्पृशत ऽएत᳘दु चै᳘वैतत्क᳘र्म्मात्म᳘न्कुरुते त᳘स्मान्मु᳘खमु᳘पस्पृशते᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ मु᳘खमु᳘पस्पृशते॥
द्वयं तद्य᳘स्मान्मुखमुपस्पृश᳘ते ऽमृ᳘तं वा ऽआ᳘पो ऽमृ᳘तेनै᳘वैतत्स᳘ᳫं᳘स्पृशत ऽएत᳘दु चै᳘वैतत्क᳘र्म्मात्म᳘न्कुरुते त᳘स्मान्मु᳘खमु᳘पस्पृशते᳘॥

मूलम् - Weber

अ᳘थ मु᳘खमु᳘पस्पृशते॥
द्वयं तद्यस्मान्मु᳘खमुपस्पृश᳘ते ऽमृ᳘तं वा आ᳘पो ऽमृ᳘तेनैॗवैतत्स᳘ᳫं᳘स्पृशत एत᳘दु चैॗवैतत्क᳘र्मात्म᳘ङ्कुरुते त᳘स्मान्मु᳘खमु᳘पस्पृशते॥

मूलम् - विस्वरम्

अथ मुखमुपस्पृशते । इयं तद्- यस्मान्मुखमुपस्पृशते । अमृतं वा आपः । अमृतेनैवैतत्संस्पृशते । एतदु चैव- एतत्कर्म्मात्मन् कुरुते । तस्मान्मुखमुपस्पृशते ॥ ७ ॥

सायणः

अथ मुखम् । “मुखं विमृष्टे” (का० श्रौ० सू० ३ । १६३) । “एतदु चैवैतत्कर्मात्मन् कुरुते”- इति शेषाद्यजमान आत्मीयमेव मुखमद्भिरुपस्पृशत इति गम्यते । यस्मात् कारणान्मुखं स्पृशति, ‘तद् द्वयम्’ द्वे ते कारणे इत्यर्थः । तत्रैकं तावत्- ‘अमृतेनैवैतदात्मानं संस्पृशते’- इति । कथमद्भिः संस्पृश्यमाने अमृतेन संस्पृञ्जते ? तदाह- अमृतं वा आपः इति । यत्ते देवानामन्नममृतम्, ता आपः; आप एव हि शुद्धतमा अमृतमित्यभिप्रायः । अमृतसंस्पर्शनं यजमानेन कर्तव्यमित्येकं कारणम् । अपरमपि- एतच्च कर्म आत्मनि ‘कुरुते’ यजमानः । कथम् ? यज्ञो वा आपः; आपश्च संश्लेषणहेतुरित्यभिप्रायः ॥ ७ ॥

Eggeling
  1. He then touches his face (with the water in his hands). The reason why he thus touches his face is twofold: water means ambrosia, and with ambrosia he accordingly touches himself; also he thereby transfers to himself that sacred work (the sacrifice): for these reasons he touches his face.

०८

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ विष्णुक्रमा᳘न्क्रमते॥
देवान्वा᳘ ऽएष᳘ प्रीणाति यो य᳘जत ऽएते᳘न यज्ञे᳘न ऽर्ग्भि᳘रिव त्वद्य᳘जुर्भिरिव त्वदा᳘हुतिभिरिव त्वत्स᳘ देवा᳘न्प्रीत्वा ते᳘ष्वपित्वी᳘ भवति ते᳘ष्वपित्वी᳘ भूत्वा ता᳘ने᳘वाभिप्र᳘क्रामति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ विष्णुक्रमा᳘न्क्रमते॥
देवान्वा᳘ ऽएष᳘ प्रीणाति यो य᳘जत ऽएते᳘न यज्ञे᳘न ऽर्ग्भि᳘रिव त्वद्य᳘जुर्भिरिव त्वदा᳘हुतिभिरिव त्वत्स᳘ देवा᳘न्प्रीत्वा ते᳘ष्वपित्वी᳘ भवति ते᳘ष्वपित्वी᳘ भूत्वा ता᳘ने᳘वाभिप्र᳘क्रामति॥

मूलम् - Weber

अ᳘थ विष्णुक्रमा᳘न् क्रमते॥
देवान्वा᳘ एष᳘ प्रीणाति यो य᳘जत एते᳘न यज्ञे᳘न ऽर्ग्भि᳘रिव त्वद्य᳘जुर्भिरिव त्वदा᳘हुतिभिरिव त्वत्स᳘ देवा᳘न्प्रीत्वा ते᳘ष्वपित्वी᳘ भवति ते᳘ष्वपित्वी᳘ भूत्वा ता᳘नेवाभिप्र᳘क्रामति॥

मूलम् - विस्वरम्

अथ विष्णुक्रमान् क्रमते । देवान्वा एष प्रीणाति- यो यजते- एतेन यज्ञेन- ऋग्भिरिव त्वद्, यजुर्भिरिव त्वद्, आहुतिभिरिव त्वत् । स देवान् प्रीत्वा तेष्वपित्वी भवति । तेष्वपित्वी भूत्वा तानेवाभिप्रक्रामति ॥ ८ ॥

सायणः

अथ विष्णुक्रमान् । (का० श्रौ० सू० ३ । १६४ ।) 6 विष्णोः यज्ञस्य सम्प्रवेशमिव दत्त्वा ‘देवान् प्रोत्वा’, देवेषु मध्ये ‘अपित्वी’ भागी ‘भूत्वा’ च उपैति विष्णुक्रमैर्देवयाजीत्यर्थः । ‘अनुपसर्गाद्वा’ इति (पा० सू० १ । ३ । ४३) क्रमेरात्मनेपदम् ॥ ८ ॥

[अथ विष्णुक्रमान् । विष्णोयज्ञस्य क्रमणं विष्णुक्रमस्तं विष्णुप्रवेशमेव कुरुते । देवान्वा । देवानेतान् एष यजमानः प्रीतान् करोति, यो हविर्यज्ञं संस्थापयति । त्वच्छन्दः समुच्चये । ऋगादिभिर्देवान् प्रीत्वा तेषु देवेषु मध्ये भागवान् भवति । भागित्वं प्राप्य तान् विष्णुक्रमानेव सवताभावेन प्रक्रामति ॥ ८ ॥]

Eggeling
  1. He now strides the (three) Vishṇu-strides. He who sacrifices assuredly gratifies the gods. In gratifying the gods by that sacrifice–partly by rics, partly by yajus, partly by oblations–he acquires a share among them; and having acquired a share among them, he goes to them.

०९

विश्वास-प्रस्तुतिः

य᳘द्वेव᳘ व्विष्णुक्रमान्क्र᳘मते॥
यज्ञो वै व्वि᳘ष्णुः स᳘ देवे᳘भ्य ऽइमां व्वि᳘क्रान्तिं व्वि᳘चक्रमे᳘ यैषामियं व्वि᳘क्रान्तिरिद᳘मेव᳘ प्रथमे᳘न पदे᳘न पस्पारा᳘थेद᳘मन्त᳘रिक्षं द्विती᳘येन दि᳘वमुत्तमे᳘नैता᳘म्वे᳘वैष᳘ ऽएत᳘स्मै व्वि᳘ष्णुर्यज्ञो व्वि᳘क्रान्तिं व्वि᳘क्रमते त᳘स्माद्विष्णुक्रमा᳘न्क्रमते तद्वा᳘ ऽइत᳘ ऽएव᳘ पराची᳘नं भू᳘यिष्ठा ऽइव क्रमन्ते॥

मूलम् - श्रीधरादि

य᳘द्वेव᳘ व्विष्णुक्रमान्क्र᳘मते॥
यज्ञो वै व्वि᳘ष्णुः स᳘ देवे᳘भ्य ऽइमां व्वि᳘क्रान्तिं व्वि᳘चक्रमे᳘ यैषामियं व्वि᳘क्रान्तिरिद᳘मेव᳘ प्रथमे᳘न पदे᳘न पस्पारा᳘थेद᳘मन्त᳘रिक्षं द्विती᳘येन दि᳘वमुत्तमे᳘नैता᳘म्वे᳘वैष᳘ ऽएत᳘स्मै व्वि᳘ष्णुर्यज्ञो व्वि᳘क्रान्तिं व्वि᳘क्रमते त᳘स्माद्विष्णुक्रमा᳘न्क्रमते तद्वा᳘ ऽइत᳘ ऽएव᳘ पराची᳘नं भू᳘यिष्ठा ऽइव क्रमन्ते॥

मूलम् - Weber

य᳘द्वेव᳘ विष्णुक्रमान् क्र᳘मते॥
यज्ञो वै वि᳘ष्णुः स देवे᳘भ्य इमां वि᳘क्रान्तिं वि᳘चक्रमेॗ यैषामियं वि᳘क्रान्तिरिद᳘मेव᳘ प्रथमे᳘न पदे᳘न पस्पारा᳘थेद᳘मन्त᳘रिक्षं द्विती᳘येन दि᳘वमुत्तमे᳘नैता᳘म्वेॗवैष᳘ एत᳘स्मै वि᳘ष्णुर्यज्ञो वि᳘क्रान्तिं वि᳘क्रमते त᳘स्माद्विष्णुक्रमा᳘न् क्रमते तद्वा᳘ इत᳘ एव᳘ पराची᳘नम् भू᳘यिष्ठा इव क्रमन्ते॥

मूलम् - विस्वरम्

यद्वेव विष्णुक्रमान् क्रमते । यज्ञो वै विष्णुः । स देवेभ्य इमां विक्रान्तिं विचक्रमे- यैषामियं विक्रान्तिः । इदमेव प्रथमेन पदेन पस्पार, अथेदमन्तरिक्षं द्वितीयेन, दिवमुत्तमेन, एताम्वेवैष एतस्मै विष्णुर्यज्ञो विक्रान्तिं विक्रमते । तस्माद्विष्णुक्रमान् क्रमते । तद्वा इत एव पराचीनं भूयिष्ठा इव क्रमन्ते ॥ ९ ॥

सायणः

यद्वेव विष्णुक्रमान् । यजमानशरीरस्थ एव ‘यज्ञो विष्णुः’ यजमानार्थं ‘विक्रमते’ । ‘तद्वै’ तत्र ‘इत एव’ लोकात् ‘पराचीनम्’ ऊर्ध्वम्, अन्तरिक्षं दिवमित्येवं ‘भूयिष्ठा इव’ बहुतमा इव ‘क्रमन्ते’ ॥ ९ ॥

[विष्णुरेव देवेभ्यो ऽर्थायेमां विष्णुक्रमलक्षणां विक्रान्तवान् । प्रथमेन पादेन पृथिवीक्रमलक्षणेन पस्पार । “स्पृ प्रीतिचलनयोः” लिट् । द्वितीयेन पादेनान्तरिक्षं विक्रान्तवान् । उत्तमेन दिवि क्रमणात्मकेन, एतां विष्णुक्रमात्मिकां यज्ञो विक्रमते । तस्माद्धेतोः विष्णुक्रमान् क्रमते इति ॥ ९ ॥]

Eggeling
  1. And again why he strides the Vishṇu-strides, is; Vishṇu, truly, is the sacrifice, by striding (vi-kram) he obtained for the gods that all-pervading power (vikrānti) which now belongs to them. By his first step he gained this same (earth), by the second this aërial expanse, and by his last (step) the sky. And this same pervading power Vishṇu, as the sacrifice, obtains by his strides for him (the sacrificer): for this reason he strides

the Vishṇu-strides. Now it is indeed from this (earth) that most (beings) go (upwards).

१०

विश्वास-प्रस्तुतिः

त᳘दु त᳘त्पृथिव्यां व्वि᳘ष्णुर्व्य᳘क्रᳫंस्त॥
गायत्रे᳘ण च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्वि᳘ष्मो ऽन्त᳘रिक्षे व्वि᳘ष्णुर्व्य᳘क्रᳫंस्त᳘ त्रै᳘ष्टुभेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्मो᳘ दिवि व्वि᳘ष्णु᳘र्व्यक्रᳫंस्त जा᳘गतेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘त्येव᳘मिमाल्ँ᳘लोका᳘न्त्समारुह्याथैषा ग᳘तिरेषा᳘ प्रतिष्ठा य᳘ ऽएष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते᳘ सुकृतो᳘ ऽथ यत्प᳘रं भाः᳘ प्रजा᳘पतिर्व्वा स᳘ स्वर्गो᳘ वा लोकस्त᳘देव᳘मिमाल्ँ᳘लोका᳘न्त्समारुह्या᳘थैतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ गच्छति पर᳘स्ता᳘त्त्वे᳘वार्व्वा᳘ङ् क्र᳘मेत य᳘ ऽइ᳘तो ऽनुशा᳘सनं चि᳘कीर्षेद्द्वयं तद्य᳘स्मात्पर᳘स्तादर्वाङ्क्र᳘मते॥

मूलम् - श्रीधरादि

त᳘दु त᳘त्पृथिव्यां व्वि᳘ष्णुर्व्य᳘क्रᳫंस्त॥
गायत्रे᳘ण च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्वि᳘ष्मो ऽन्त᳘रिक्षे व्वि᳘ष्णुर्व्य᳘क्रᳫंस्त᳘ त्रै᳘ष्टुभेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्मो᳘ दिवि व्वि᳘ष्णु᳘र्व्यक्रᳫंस्त जा᳘गतेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘त्येव᳘मिमाल्ँ᳘लोका᳘न्त्समारुह्याथैषा ग᳘तिरेषा᳘ प्रतिष्ठा य᳘ ऽएष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते᳘ सुकृतो᳘ ऽथ यत्प᳘रं भाः᳘ प्रजा᳘पतिर्व्वा स᳘ स्वर्गो᳘ वा लोकस्त᳘देव᳘मिमाल्ँ᳘लोका᳘न्त्समारुह्या᳘थैतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ गच्छति पर᳘स्ता᳘त्त्वे᳘वार्व्वा᳘ङ् क्र᳘मेत य᳘ ऽइ᳘तो ऽनुशा᳘सनं चि᳘कीर्षेद्द्वयं तद्य᳘स्मात्पर᳘स्तादर्वाङ्क्र᳘मते॥

मूलम् - Weber

त᳘दु त᳘त्पृथिव्यां वि᳘ष्णुर्व्य᳘क्रंस्त॥
गायत्रे᳘ण छ᳘न्दसा त᳘तो नि᳘र्भक्तोॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विॗष्मो ऽन्त᳘रिक्षे वि᳘ष्णुर्व्य᳘क्रंस्तॗ त्रैष्टुभेन छ᳘न्दसा त᳘तो नि᳘र्भक्तोॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्मो दि᳘वि वि᳘ष्णुर्व्य᳘क्रंस्त जा᳘गतेन छ᳘न्दसा त᳘तो नि᳘र्भक्तोॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्म इ᳘त्येव᳘मिमां᳘ल्लोका᳘न्त्समारुह्या᳘थैषा ग᳘तिरेषा᳘ प्रतिष्ठा य᳘ एष त᳘पति त᳘स्य ये᳘ रश्म᳘यस्ते᳘ सुकृतो᳘ऽथ यत्प᳘रम् भाः᳘ प्रजा᳘पतिर्वा स᳘ स्वर्गो᳘ वा लोकस्त᳘देव᳘मिमां᳘ल्लोका᳘न्त्समारुह्या᳘थैतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ गछति पर᳘स्ताॗत्त्वेॗदर्वाङ् क्र᳘मेत य᳘ इॗतो ऽनुशा᳘सनं चि᳘कीर्षेद्दूयं तद्य᳘स्मात्पर᳘स्तादर्वाङ् क्र᳘मते॥

मूलम् - विस्वरम्

तदु तत् “पृथिव्यां विष्णुर्व्यक्रंस्त गायत्रेण च्छन्दसा । ततो निर्भक्तो यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः । अन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन च्छन्दसा । ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । दिवि विष्णुर्व्यक्रंस्त जागतेन च्छन्दसा । ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः”- इत्येवमिमाल्लोँकान्त्समारुह्य- अथैषा गतिः, एषा प्रतिष्ठा- य एष तपति । तस्य ये रश्मयः- ते सुकृतः, अथ यत्परं भाः- प्रजापतिर्वा सः, स्वर्गो वा लोकः । तदेवमिमाल्ँ लोकान्त्समारुह्य- अथैतां गतिमेतां प्रतिष्ठां गच्छति । परस्तात् त्वेवार्वाङ् क्रमेत- य इतो ऽनुशासनं चिकीर्षेत् । द्वयं तद्- यस्मात् परस्तादर्वाङ् क्रमते ॥ १० ॥

सायणः

विष्णुक्रमणे मन्त्राः- “तदु तत् पृथिव्याम्”- इति प्रसन्ना । “इत्येवमिमाल्ँ लोकान्”- इति उत्तरपक्षस्यार्थवादः । गम्यत इति ‘गतिः’, प्रतितिष्ठन्त्यस्यामिति ‘प्रतिष्ठा’ ‘तस्य’ आदित्यस्य ‘ये रश्मयः’ कदम्बकेसरवदनन्तभेदाः, ‘ते सुकृतः’ ये पूर्वे यजमानाः तेजःशरीराः । उपरितनमेव ‘यद्’ यज्ञरूपः ‘प्रजापतिः’, ‘स्वर्गो वा लोकः अज्ञानानां कर्मकर्तॄणां प्रजानां पतिः, ज्ञानिनामुपभोग्यं स्थानम्, ‘तत्’ तत्र; ते गच्छन्तीत्यभिप्रायः । ‘भाः’ प्रकाशमात्रं सूर्यरूपम् । (पक्षान्तरोपन्यासः) “परस्तात् त्वेव” । ‘तु’- शब्दः स्वशब्दार्थे’ ‘एव’- इत्यवधारणार्थः । ‘इतः’ अस्मादेव लोकात् ‘अनुशासनम्’ अस्मिन्नेव लोके फलोपभोगं बहुकालमाशास्ते, सः ‘अर्वाङ्’ विक्रमणेनैव ‘यस्मात्’ अध्वर्यवः ‘परस्तात्’ क्रमेत, ‘तद्द्वयं’ कारणम् ॥ १० ॥

[तदु तत् पृथिव्यां । प्रसन्ना । इमान् पृथिव्यन्तरिक्षद्युसंज्ञकान्, एवं समारूढान् कृत्वा अनन्तरम् । विष्णुक्रमणस्यार्थवादः- एषा गतिः । गम्यत इति गतिः, प्रतिकूलं तिष्ठत्यस्यामिति प्रतिष्ठा । य एष आदित्यः तस्यादित्यस्य ये रश्मयः किरणकदम्बाः ते सुकृत इति । अथेति । परमुत्कृष्टं भासनं प्रजापतिर्वा, स एव स्वर्गो लोको निरुपद्रवत्वात् । एवम्प्रकारेण, यज्वा एतां गतिं प्रतिष्ठां प्राप्नोति । परस्तात्तु अर्वाङ् अर्वाञ्चनशीलः क्रमेत । इतो लोकादनुशासनं कर्तुमिच्छेत् । द्वयमिहामुत्रालक्षणमर्वाञ्चनञ्चेति ॥ १० ॥]

Eggeling
  1. Hence (he strides thrice) with the texts (Vāj. S. II, 25 a-c), ‘On the earth Vishṇu strode by means of the gāyatrī metre: excluded therefrom is he who hates us, and whom we hate!’ ‘In the air Vishṇu strode by means of the trishṭubh metre: excluded therefrom is he who hates us, and whom we hate!’ ‘In the sky Vishṇu strode by means of the jagatī metre: excluded therefrom is he who hates us, and whom we hate!’ When one has thus ascended these worlds, that is the goal, that the safe refuge: the rays of him (the sun) who burns there, are the righteous (departed) 7; and what highest light there is 8, that is Prajāpati or the heavenly world. Having then in this way ascended these worlds, he reaches that goal, that safe refuge. Now he who wishes to give instructions from hence, should come hitherwards from above. Twofold is the reason why he should come hitherwards from above:

११

विश्वास-प्रस्तुतिः

(ते ऽप) अपसरणतो᳘ ह वा ऽअ᳘ग्रे देवा ज᳘यन्तो ऽज᳘यन्॥
(न्दि᳘) दि᳘वमेवाग्रे᳘ ऽथेद᳘मन्त᳘रिक्षम᳘थे᳘तो ऽनपसरणा᳘त्सप᳘त्नाननुदन्त त᳘थो ऽए᳘वैष᳘ एत᳘दपसरणत᳘ ऽएवा᳘ग्रे ज᳘यञ्जयति दि᳘वमेवाग्रे᳘ ऽथेद᳘मन्त᳘रिक्षम᳘थे᳘तो ऽनपसरणा᳘त्सप᳘त्नान्नुदत ऽइयं वै᳘ पृथिवी᳘ प्रतिष्ठा त᳘दस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - श्रीधरादि

(ते ऽप) अपसरणतो᳘ ह वा ऽअ᳘ग्रे देवा ज᳘यन्तो ऽज᳘यन्॥
(न्दि᳘) दि᳘वमेवाग्रे᳘ ऽथेद᳘मन्त᳘रिक्षम᳘थे᳘तो ऽनपसरणा᳘त्सप᳘त्नाननुदन्त त᳘थो ऽए᳘वैष᳘ एत᳘दपसरणत᳘ ऽएवा᳘ग्रे ज᳘यञ्जयति दि᳘वमेवाग्रे᳘ ऽथेद᳘मन्त᳘रिक्षम᳘थे᳘तो ऽनपसरणा᳘त्सप᳘त्नान्नुदत ऽइयं वै᳘ पृथिवी᳘ प्रतिष्ठा त᳘दस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - Weber

अपसरणतो᳘ ह वा अ᳘ग्रे देवा ज᳘यन्तो ऽजयन्॥
दि᳘वमेवाग्रे᳘ ऽथेद᳘मन्त᳘रिक्षम᳘थेॗतो ऽनपसरणा᳘त्सप᳘त्नाननुदन्त त᳘थो एॗवैष एत᳘दपसरणत᳘ एवा᳘ग्रे ज᳘यञ्जयति᳘ दि᳘वमेवाग्रे᳘ ऽथेद᳘मन्त᳘रिक्षम᳘थेॗतो ऽनपसरणा᳘त्सप᳘त्नान्नुदत इयं वै᳘ पृथिवी᳘ प्रतिष्ठा त᳘दस्या᳘मेॗवैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति॥

मूलम् - विस्वरम्

अपसरणतो ह वा अग्रे देवा जयन्तो ऽजयन्- दिवमेवाग्रे, अथेदमन्तरिक्षम्, अर्थतो ऽनपसरणात्सपत्नाननुदन्त । तथो एवैष एतदपसरणत एवाग्रे जयन् जयति- दिवमेवाग्रे, अथेदमन्तरिक्षम्, अथेतो ऽनपसरणात्सपत्नान्नुदते । इयं वै पृथिवी प्रतिष्ठा । तदस्यामेवैतत्प्रतिष्ठायां प्रतितिष्ठति ॥ ११ ॥

सायणः

अपसरणतो ह । जितापसरणेन जितवन्तो द्युलोकाख्यम्, अस्माल्लोकादपसृत्य असुरान् हतवन्तो देवाः । द्वितीयञ्च फलोपभोगानन्तरं प्रतिष्ठायां प्रच्युतानां स्वर्गाल्लोकान्निरुपद्रवात् । ततश्च यदितः पराचीनं क्रमेत, तदेतां गतिं गत्वा ‘प्रतिष्ठायां प्रतितिष्ठति’ ॥ ११ ॥

[अपसरणतः । जयन्तो देवा दिवमग्रे, ततो ऽन्तरिक्षम् । इतः अपसरणात् एतदाचरणादेव सम्पन्नाञ्छत्रून् व्यथितवन्तः । एवमस्याचरणस्यापि भवति । इयं वै इति । अतिरोहितम् ॥ इति ॥ ११ ॥]

Eggeling
  1. By (or, from) the escape (of the enemies) 9 indeed the conquering gods formerly gained first the sky, and then this aërial expanse; and thereupon

they drove their enemies away from this (earth), whence there was no escape. And in like manner he (the priest) also by the escape (of the enemies) gains first the sky, and then this aërial expanse; and thereupon he drives his enemies away from this (earth), whence there is no escape. This earth indeed is a firm footing: hence he thereby stands firm on this firm footing.

१२

विश्वास-प्रस्तुतिः

त᳘दु तद्दि᳘वि व्वि᳘ष्णु᳘र्व्यक्रᳫंस्त॥
जा᳘गतेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्वि᳘ष्मो ऽन्त᳘रिक्षे व्वि᳘ष्णु᳘र्व्यक्रᳫंस्त त्रै᳘ष्टुभेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्मः᳘ पृथिव्यां व्वि᳘ष्णुर्व्य᳘क्रᳫंस्त गायत्रे᳘ण च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्वि᳘ष्मो ऽस्माद᳘न्नादस्यै᳘ प्रतिष्ठा᳘या ऽइ᳘त्यस्या᳘ᳫँहीदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यं प्र᳘तिष्ठितं त᳘स्मादाहास्मादन्नादस्यै᳘ प्रतिष्ठा᳘या ऽइति᳘॥

मूलम् - श्रीधरादि

त᳘दु तद्दि᳘वि व्वि᳘ष्णु᳘र्व्यक्रᳫंस्त॥
जा᳘गतेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्वि᳘ष्मो ऽन्त᳘रिक्षे व्वि᳘ष्णु᳘र्व्यक्रᳫंस्त त्रै᳘ष्टुभेन च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्मः᳘ पृथिव्यां व्वि᳘ष्णुर्व्य᳘क्रᳫंस्त गायत्रे᳘ण च्छ᳘न्दसा त᳘तो नि᳘र्भक्तो᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्वि᳘ष्मो ऽस्माद᳘न्नादस्यै᳘ प्रतिष्ठा᳘या ऽइ᳘त्यस्या᳘ᳫँहीदᳫँ᳭ स᳘र्व्वमन्ना᳘द्यं प्र᳘तिष्ठितं त᳘स्मादाहास्मादन्नादस्यै᳘ प्रतिष्ठा᳘या ऽइति᳘॥

मूलम् - Weber

त᳘दु तद्दि᳘वि वि᳘ष्णु᳘र्व्यक्रंस्त॥
जा᳘गतेन छ᳘न्दसा त᳘तो नि᳘र्भक्तोॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विॗष्मो ऽन्त᳘रिक्षे वि᳘ष्णुर्व्यक्रंस्त त्रै᳘ष्टुभेन छ᳘न्दसा त᳘तो नि᳘र्भक्तोॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्मः᳘ पृथिव्यां वि᳘ष्णुर्व्य᳘क्रंस्त गायत्रे᳘ण छ᳘न्दसा त᳘तो नि᳘र्भक्तोॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विॗष्मो ऽस्माद᳘न्नादस्यै᳘ प्रतिष्ठा᳘या इ᳘त्यस्याॗᳫंॗ हीदᳫं स᳘र्वमन्ना᳘द्यम् प्र᳘तिष्ठित त᳘स्मादाहास्माद᳘न्नादस्यै᳘ प्रतिष्ठा᳘या इति॥

मूलम् - विस्वरम्

तदु तद् “दिवि विष्णुर्व्यक्रंस्त जागतेन च्छन्दसा- ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । अन्तरिक्षे विष्णुर्व्यक्रंस्त त्रैष्टुभेन च्छन्दसा- ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । पृथिव्यां विष्णुर्व्यक्रंस्त गायत्रेण च्छन्दसा- ततो निर्भक्तो यो ऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः । अस्मादन्नादस्यै प्रतिष्ठायै”- इति । अस्यां हीदं सर्वमन्नाद्यं प्रतिष्ठितम् । तस्मादाह- अस्मादन्नादस्यै प्रतिष्ठाया इति ॥ १२ ॥

सायणः

तदु तद्दिवि । (का. श्रौ. सू. ३ । १६५- १६६) 10 यद्धि स्वर्गे अन्नाद्यम्, तदप्यस्मिन्नेव लोके प्रतिष्ठितम्; चन्द्रमसो ऽप्याप्यायनं प्रतिपदि सान्नाय्येन क्रियते; अतः ‘अस्मादन्नात्’ निष्कासने द्विषन् सर्वस्मान्निष्कासितो भवति ॥ १२ ॥

[इत ऊर्ध्वा वेदीति तत्प्रकारमाह- तदु तदिति । दिवि-अन्तरिक्षे पृथिव्यामस्मादन्नाद्भागलक्षणात् । अस्यै प्रतिष्ठाया वेदेः । “यावती वै वेदिस्तावती पृथिवीति” ॥ १२ ॥]

Eggeling
  1. And in this way also (he may stride) 11: ‘In the sky Vishṇu strode by means of the jagatī metre: excluded therefrom is he who hates us, and whom we hate!’ ‘In the air Vishṇu strode by means of the trishṭubh metre: excluded therefrom is he who hates us, and whom we hate!’ ‘On the earth Vishṇu strode by means of ṭḥe gāyatrī metre: excluded therefrom is he who hates us, and whom we hate!’–With the texts (Vāj. S. II, 25 d, e), ‘(Excluded) from this food! from this resort!’ (pratishṭḥā, he looks down upon his portion and the altar respectively.) For on this (earth) all this food is safely established (pratishṭḥita): for this reason he says, ‘From this food! from this resort!’

१३

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ प्राङ्प्रे᳘क्षते॥
प्रा᳘ची हि᳘ देवा᳘नां दिक्त᳘स्मात्प्राङ्प्रेक्षते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ प्राङ्प्रे᳘क्षते॥
प्रा᳘ची हि᳘ देवा᳘नां दिक्त᳘स्मात्प्राङ्प्रेक्षते॥

मूलम् - Weber

अ᳘थ प्राङ् प्रे᳘क्षते॥
प्रा᳘ची हि᳘ देवा᳘नां दिक्त᳘स्मात्प्राङ् प्रे᳘क्षते॥

मूलम् - विस्वरम्

अथ प्राङ् प्रेक्षते । प्राची हि देवानां दिक् । तस्मात् प्राङ् प्रेक्षते ॥ १३ ॥

सायणः

अथ प्राङ् प्रेक्षते । “अगन्म स्वारिति प्राक्” इति (का. श्रौ. सू. ३ । १६७) प्राङ् निरीक्षणेन सन्तर्पिता गच्छन्तो देवा निरीक्षिता भवन्तीत्यप्रायः ॥ १३ ॥

Eggeling
  1. He then looks towards the east. The east, indeed, is the region of the gods: for this reason he looks towards the east.

१४

विश्वास-प्रस्तुतिः

स प्रे᳘क्षते॥
(ते᳘ ऽग) अ᳘गन्म᳘ स्वरि᳘ति देवा वै᳘ स्वर᳘गन्म देवानि᳘त्ये᳘वैत᳘दाह संज्यो᳘तिषाभूमे᳘ति सं᳘ देवै᳘रभूमे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

स प्रे᳘क्षते॥
(ते᳘ ऽग) अ᳘गन्म᳘ स्वरि᳘ति देवा वै᳘ स्वर᳘गन्म देवानि᳘त्ये᳘वैत᳘दाह संज्यो᳘तिषाभूमे᳘ति सं᳘ देवै᳘रभूमे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स प्रे᳘क्षते॥
अ᳘गन्म स्व᳘रि᳘ति देवा वै स्व᳘र᳘गन्म देवानि᳘त्येॗवैत᳘दाह सं ज्यो᳘तिषाभूमे᳘ति सं᳘ देवै᳘रभूमे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

स प्रेक्षते- “अगन्म स्वः”- इति । देवा वै स्वः । अगन्म देवानित्येवैतदाह । “सं ज्योतिषाभूम"- (वा० सं० २ । २५) इति । सं देवैरभूमेत्येवैतदाह ॥ १४ ॥

सायणः

स प्रेक्षते । (“संज्योतिषेत्याहवनीयं” इति का. श्रौ. सू. ३ । १६८) मञ्चाः क्रोशन्तीतिवत् ‘स्वर्देवाः’ तेजःशरीरत्वात् ज्योतिर्देवाः । ‘समभूम’ तद्देवत्वं प्राप्ता इत्यर्थः ॥ १४ ॥

[स प्रेक्षते । स्वरिति । यज्ञो ह वै स्वरिति यज्ञदेवसूर्याः स्वःशब्दवाच्याः अत्र देवा अभिप्रेताः । देवानगन्मेति । इति ॥ १४ ॥]

Eggeling
  1. He looks, with the text (Vāj. S. II, 25 f), ‘We have gone to the realm of light (svar).’ The

realm of light assuredly means the gods: hence he thereby says, ‘We have gone to the gods.’–With (ib. g), ‘We have united with splendour’ (he looks on the Āhavanīya fire): he thereby says, ‘We have united with the gods.’

१५

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ सूर्यमुदीक्षते᳘॥
सैषा ग᳘तिरेषा᳘ प्रतिष्ठा त᳘देतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ गच्छति त᳘स्मात्सू᳘र्यमु᳘दीक्षते॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ सूर्यमुदीक्षते᳘॥
सैषा ग᳘तिरेषा᳘ प्रतिष्ठा त᳘देतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ गच्छति त᳘स्मात्सू᳘र्यमु᳘दीक्षते॥

मूलम् - Weber

अ᳘थ सू᳘र्यमु᳘दीक्षते॥
सैषा ग᳘तिरेषा᳘प्रतिष्ठा त᳘देतां ग᳘तिमेता᳘म् प्रतिष्ठां गछति त᳘स्मात्सू᳘र्यमु᳘दीक्षते॥

मूलम् - विस्वरम्

अथ सूर्यमुदीक्षते । सैषा गतिः, एषा प्रतिष्ठा । तदेतां गतिमेतां प्रतिष्ठां गच्छति । तस्मात्सूर्यमुदीक्षते ॥ १५ ॥

सायणः

अथ सूर्यमुदीक्षते । “स्वयम्भूरिति सूर्यम्” इति । “वर्च्चोदा इति यं वा कामं कामयते” इति (का. श्रौ. सू. ३ । १६९- १७०) सूर्यः खलु यज्ञकर्तॄणां गन्तव्यं प्रतिष्ठा च ॥ १५ ॥

Eggeling
  1. He then looks up to the sun, for that is the final goal, that the safe resort. To that final goal, to that resort he thereby goes: for this reason he looks up to the sun.

१६

विश्वास-प्रस्तुतिः

स ऽउ᳘दीक्षते॥
स्वयम्भू᳘रसि श्रे᳘ष्ठो रश्मिरि᳘त्येष वै श्रे᳘ष्ठो रश्मिर्यत्सू᳘र्यस्त᳘स्मादाह स्वयम्भू᳘रसि श्रे᳘ष्ठो रश्मिरि᳘ति व्वर्च्चोदा᳘ ऽअसि व्व᳘र्च्चो मे देही᳘ति᳘ त्वे᳘वाहं᳘ ब्रवीमी᳘ति ह स्माह या᳘ज्ञवल्क्यस्त᳘द्ध्येव᳘ ब्राह्मणे᳘नैष्ट᳘व्यं य᳘द्ब्रह्मवर्चसी स्यादि᳘त्यु᳘तो ह स्माहौपोदितेय᳘ ऽएष वाव म᳘ह्यं गा᳘ दास्यति गोदा गा᳘ मे देही᳘त्येवं यं का᳘मं काम᳘यते᳘ सो ऽस्मै का᳘मः स᳘मृद्ध्यते॥

मूलम् - श्रीधरादि

स ऽउ᳘दीक्षते॥
स्वयम्भू᳘रसि श्रे᳘ष्ठो रश्मिरि᳘त्येष वै श्रे᳘ष्ठो रश्मिर्यत्सू᳘र्यस्त᳘स्मादाह स्वयम्भू᳘रसि श्रे᳘ष्ठो रश्मिरि᳘ति व्वर्च्चोदा᳘ ऽअसि व्व᳘र्च्चो मे देही᳘ति᳘ त्वे᳘वाहं᳘ ब्रवीमी᳘ति ह स्माह या᳘ज्ञवल्क्यस्त᳘द्ध्येव᳘ ब्राह्मणे᳘नैष्ट᳘व्यं य᳘द्ब्रह्मवर्चसी स्यादि᳘त्यु᳘तो ह स्माहौपोदितेय᳘ ऽएष वाव म᳘ह्यं गा᳘ दास्यति गोदा गा᳘ मे देही᳘त्येवं यं का᳘मं काम᳘यते᳘ सो ऽस्मै का᳘मः स᳘मृद्ध्यते॥

मूलम् - Weber

स उ᳘दीक्षते॥
स्वयम्भू᳘रसि श्रे᳘ष्ठो रश्मिरि᳘त्येष वै श्रे᳘ष्ठो रश्मिर्यत्सू᳘र्यस्त᳘स्मादाह स्वयम्भूरसि श्रे᳘ष्ठो रश्मिरि᳘ति वर्चोदा असि व᳘र्चो मे देही᳘तिॗ त्वेॗवाहं᳘ ब्रवीमी᳘ति ह स्माह या᳘ज्ञवल्क्यस्तॗद्ध्येव ब्राह्मणे᳘नैष्ठ᳘व्यं य᳘द्ब्रह्मवर्चसी स्यादिॗत्युतो ह स्माहौपोदितेय᳘ एष वाव म᳘ह्यं गा᳘ दास्यति गोदा गा᳘ मे देही᳘त्येवं यं का᳘मं काम᳘यतेॗ सो ऽस्मै का᳘मः स᳘मृध्यते॥

मूलम् - विस्वरम्

स उदीक्षते- “स्वयम्भूरसि श्रेष्ठो रश्मिः”- (वा. सं. २।२६) इति । एष वै श्रेष्ठो रश्मिः- यत्सूर्यः- तस्मादाह- ‘स्वयम्भूरसि श्रेष्ठो रश्मिः’ इति । “वर्च्चोदा असि वर्च्चो मे देहि”- वा. सं. २ । २६) इति त्वेवाहं ब्रवीमि- इति ह स्माह याज्ञवल्क्यः । तद्ध्येव ब्राह्मणेनैष्टव्यम्- यद् ब्रह्मवर्चसी स्यादिति । उतो ह स्माहौपोदितेयः- एष वाव मह्यं गा दास्याति । गोदा गा मे देहीति । एवं यं कामं कामयते सो ऽस्मै कामः समृद्ध्यते ॥ १६ ॥

सायणः

स उदीक्षते (का. श्रौ. सू. ३ । १६९- १७०) तेजोघनो रश्मिशब्देनोच्यते । एषः तेषामतिशयः ।’ याज्ञवल्क्य इत्याह स्म’ - ‘वर्च्चोदा असि वर्च्चो मे देहीति’ (एतदेवाशास्महे वयम्) ‘अहमिति ब्रवीमि’ । ‘ब्राह्मणेन तदेष्टव्यम्’ ‘यत्’ अहं ब्राह्मण्ययुक्तः स्यामिति तु ‘आह स्म’ उक्तवान् ‘औपोदितेयः’ । उपगम्य उदिता पितुरुपोदिता; “स्त्रीभ्यो ढक्” (पा. सू. ४ । १ । १२०) उपोदिताया अपत्यमिति विग्रहः । ‘गा दास्यति’ इति गो-प्रार्थना ‘एवं’ प्रजादिष्वपि वक्तव्यम् ॥ १६ ॥

[स उदीक्षते । प्रसन्ना । ‘इति त्वेवाहं इत्येवाहं’ ब्रवीमि । वर्च एव याचते ब्राह्मणेन तद्वि एष्टव्यमेव यतो ब्रह्मवर्चसी स्यात् । उप समीपे उदित आदित्यो यस्या इत्युपोदिता तस्या अपत्यमौपोदितेयः । एष राजा मह्यं सम्प्रदानभूताय गाः पयस्वतीः दास्यति । हे गोदाः मे मह्यं गा देहि । एवमित्याद्याशीः इति ॥ १६ ॥]

Eggeling
  1. He looks up, with the text (Vāj. S. II, 26 a), ‘Self-existent art thou, the best ray of light!’ The sun is indeed the best ray of light 12, and therefore he says, ‘Self-existent art thou, the best ray of light.’ ‘“Light-bestowing art thou: give me light (varcas)!” so say I,’ said Yājñavalkya, ‘for at this indeed the Brāhmaṇa should strive, that he be brahmavarcasin (illumed by the brahma, or sacred writ).’ Aupoditeya 13, on the other hand, said, ‘He indeed will give me cows 14: (therefore I say), “Cow-giving art thou, give me cows!”’ Thus whatever wish he (the sacrificer) entertains (and expresses), that wish is granted to him.

१७

विश्वास-प्रस्तुतिः

(ते ऽथा᳘) अथा᳘वर्तते॥
सू᳘र्यस्यावृ᳘तमन्वा᳘वर्त ऽइ᳘ति त᳘देतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ ग᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तते॥

मूलम् - श्रीधरादि

(ते ऽथा᳘) अथा᳘वर्तते॥
सू᳘र्यस्यावृ᳘तमन्वा᳘वर्त ऽइ᳘ति त᳘देतां ग᳘तिमेतां᳘ प्रतिष्ठां᳘ ग᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्तते॥

मूलम् - Weber

अथा᳘वर्तते॥
सू᳘र्यस्यावृ᳘तमन᳘वावर्त इ᳘ति त᳘देतां ग᳘तिमेता᳘म् प्रतिष्ठां᳘ गॗत्वैत᳘स्यैॗवावृ᳘तमन्वावर्तते॥

मूलम् - विस्वरम्

अथावर्तते- “सूर्यस्यावृतमन्वावर्ते”- (वा. सं. २ । २६) इति । तदेतां गतिमेतां प्रतिष्ठां गत्वा, एतस्यैवावृतमन्वावर्त्तते ॥ १७ ॥

सायणः

अथावर्त्तते । प्रदक्षिणमावर्त्तते । एवं हि तस्य सूर्यस्यावृत्तिः “सूर्यस्येत्यावर्तते प्रदक्षिणं” इति (का. श्रौ. सू. ३ । १७१) ॥ १७ ॥

Eggeling
  1. He then turns (from left to right), with the text (Vāj. S. II, 26 b), ‘I move along the course of

the sun;’ having reached that final goal, that safe resort, he now moves along the course of that (sun) 15.

१८

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
द्वयं तद्य᳘स्माद्गा᳘र्हपत्यमुपति᳘ष्ठते गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति या᳘वद्वे᳘वास्येह᳘ मानुषमा᳘युस्त᳘स्मा ऽए᳘वैतदु᳘पतिष्ठते त᳘स्माद्गा᳘र्हपत्यमु᳘पतिष्ठते॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
द्वयं तद्य᳘स्माद्गा᳘र्हपत्यमुपति᳘ष्ठते गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तितिष्ठति या᳘वद्वे᳘वास्येह᳘ मानुषमा᳘युस्त᳘स्मा ऽए᳘वैतदु᳘पतिष्ठते त᳘स्माद्गा᳘र्हपत्यमु᳘पतिष्ठते॥

मूलम् - Weber

अ᳘थ गा᳘र्हपत्यमु᳘पतिष्ठते॥
द्वयं तद्य᳘स्माद्गा᳘र्हपत्यमुपति᳘ष्ठते गृहा वै गा᳘र्हपत्यो गृहा वै᳘ प्रतिष्ठा त᳘द्गृहे᳘ष्वेॗवैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तितिष्ठति या᳘वद्वेॗवास्येह᳘ मानुषमा᳘युस्त᳘स्मा एॗवैतदु᳘पतिष्ठते त᳘स्माद्गा᳘र्हपत्यमु᳘पतिष्ठते॥

मूलम् - विस्वरम्

अथ गार्हपत्यमुपतिष्ठते । द्वयं तद्- यस्माद्गार्हपत्यमुपतिष्ठते । गृहा वै गार्हपत्यः । गृहा वै प्रतिष्ठा । तद्गृहेष्वेवैतत् प्रतिष्ठायां प्रतितिष्ठति । यावद्वेवास्येह मानुषमायुः- तस्मा एवैतदुपतिष्ठते । तस्माद्गार्हपत्यमुपतिष्ठते ॥ १८ ॥

सायणः

गार्हपत्यम् । “गार्हपत्यमुपतिष्ठते” इत्यादि- (का. श्रौ. सू. ३ । १७३) कारणद्वयं तस्याप्युपस्थाने । सूर्योपस्थानादिना स्वगतिः, गार्हपत्योपस्थानेन स्वगृहे प्रतितिष्ठति । द्वितीयञ्च ‘यावद्वेवास्येह’ मानुषायुषः ‘उपतिष्ठते’ ॥ १८ ॥

[अथ गार्हपत्यम् । द्वयं गतिप्रतिष्ठात्मकं गार्हपत्योपस्थानादवाप्यते । गृहा है इत्याद्याशीः प्रवर्तनार्था । यावद्विति । उ इति अनेककर्मा निपातः । यावत्प्रमाणमस्य पुरुषस्य आयुर्जीवनं तस्मै एतदायुषे उपतिष्ठते । तस्मादिति निगमः । इति ॥ १८ ॥]

Eggeling
  1. Thereupon he steps to (upa-sthā) the Gārhapatya fire. Twofold is the reason why he steps to the Gārhapatya: the Gārhapatya is a house, and a house is a safe resort, hence he thereby stays in a house, that is, in a safe resort. And, besides, what full measure of human life there is for him here, that he thereby attains (upa-sthā). This is why he steps to the Gārhapatya fire.

१९

विश्वास-प्रस्तुतिः

स ऽउ᳘पतिष्ठते॥
(ते᳘ ऽग्ने) अ᳘ग्ने गृहपते सुगृहपतिस्त्व᳘याग्ने ऽहं᳘ गृह᳘पतिना भूयासᳫँ᳭सुगृहपतिस्त्वं म᳘याग्ने गृह᳘पतिना भूया ऽइ᳘ति ना᳘त्र तिरो᳘हितमिवास्त्यस्थूरि᳘ णौ गा᳘र्हपत्यानि सन्त्वित्य᳘नार्तानि नौ गार्ह᳘पत्यानि सन्त्वि᳘त्ये᳘वैत᳘दाह शतᳫँ᳭ हि᳘मा ऽइ᳘ति श᳘तं व्वर्षा᳘णि जीव्यासमि᳘त्ये᳘वैत᳘दाह तद᳘प्येत᳘द्ब्रुवन्ना᳘द्रियेता᳘पि हि भू᳘याᳫंसि शता᳘द्वर्षे᳘भ्यः पु᳘रुषो जी᳘वति त᳘स्माद᳘प्येत᳘द्ब्रुवन्ना᳘द्रियेत॥

मूलम् - श्रीधरादि

स ऽउ᳘पतिष्ठते॥
(ते᳘ ऽग्ने) अ᳘ग्ने गृहपते सुगृहपतिस्त्व᳘याग्ने ऽहं᳘ गृह᳘पतिना भूयासᳫँ᳭सुगृहपतिस्त्वं म᳘याग्ने गृह᳘पतिना भूया ऽइ᳘ति ना᳘त्र तिरो᳘हितमिवास्त्यस्थूरि᳘ णौ गा᳘र्हपत्यानि सन्त्वित्य᳘नार्तानि नौ गार्ह᳘पत्यानि सन्त्वि᳘त्ये᳘वैत᳘दाह शतᳫँ᳭ हि᳘मा ऽइ᳘ति श᳘तं व्वर्षा᳘णि जीव्यासमि᳘त्ये᳘वैत᳘दाह तद᳘प्येत᳘द्ब्रुवन्ना᳘द्रियेता᳘पि हि भू᳘याᳫंसि शता᳘द्वर्षे᳘भ्यः पु᳘रुषो जी᳘वति त᳘स्माद᳘प्येत᳘द्ब्रुवन्ना᳘द्रियेत॥

मूलम् - Weber

स उ᳘पतिष्ठते॥
अ᳘ग्ने गृहपते सुगृहपतिस्त्व᳘याग्ने ऽहं᳘ गृह᳘पतिना भूयासᳫं सुगृहपतिस्त्वं म᳘याग्ने गृह᳘पतिना भूया इ᳘ति ना᳘त्र तिरो᳘हितमिवास्त्यस्थूरि᳘ नौ᳘ गा᳘र्हपत्यानि सन्त्वित्य᳘नार्त्तानि नौ गार्ह᳘पत्यानि सन्त्वि᳘त्येॗवैत᳘दाह शतᳫं हि᳘मा इ᳘ति श᳘तं वर्षा᳘णि जीव्यासमि᳘त्येॗवैतदाह तद᳘प्येत᳘द्ब्रुवन्ना᳘द्रियेता᳘पि हि भू᳘यांसि शता᳘द्वर्षे᳘भ्यः पु᳘रुषो जी᳘वति त᳘स्माद᳘प्येत᳘द्ब्रुवन्ना᳘द्रियेत॥

मूलम् - विस्वरम्

स उपतिष्ठते- “अग्ने गृहपते सुगृहपतिस्त्वयाग्ने ऽहं गृहपतिना भूयासम्, सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः”- (वा. सं. २ । २७) इति । नात्र तिरोहितमिवास्ति । “अस्थूरि णौ गार्हपत्यानि सन्तु”- इति । अनार्तानि नौ गार्हपत्यानि सन्तु- इत्येवैतदाह । “शतं हिमाः”- इति । शतं वर्षाणि जीव्यासमित्येवैतदाह । तदप्येतद्ब्रुवन्नाद्वियेत- अपि हि भूयांसि शताद्वर्षेभ्यः पुरुषो जीवति तस्मादप्येतद् ब्रुवन्नाद्रियेत ॥ १९ ॥

सायणः

स उपतिष्ठते । ‘अस्थूरि’ ‘णौ’ असहायगोवाह्यः स्थूरः, तत्रासहायमात्रं लक्ष्यते; स्थूरो ऽस्मिन्नस्तीति स्थूरि, न स्थूरि अस्थूरि, ससहायि ‘नौ’ तव गार्हपत्ये कर्मणि प्रवृत्ते अहमिन्धनादिना पालकः, अस्थूरी 16 गृहपतिः; त्वं कर्मणाम् अत आह- अनार्तानीति । अस्थूरित्वेन च सामर्थ्यादाक्षिप्तं यजमानस्य जीवितमिति “शतं वर्षाणि जीव्यासमित्याह”- इति (का० श्रौ० सू० । ३ । १७३ ।) विवृणोति ॥ १९ ॥

[स उपतिष्ठतेअग्ने इति । गृहपत्योः परस्परमाशंसनं स्फुटतरमेव । अस्थूरि असहायगोवाह्यः स्थूरः, तत्रासहायमात्रं लक्ष्यते; स्थूरो ऽस्मिन्नस्तीति स्थूरि, अस्थूरि सहाययुक्तः त्वम् । अत आहानार्तानीति । अस्थूरित्वेन च सामर्थ्याक्षिप्तं यजमानस्य जीवितमाशास्ते- शतं हिमाः वर्षाणि शतसंख्याकानि जीव्यासम् । इत्याहेति वितृणोति- एतद्ब्रुवन्नपि नाद्रियेत । तेनापि वर्षेभ्यः शतात् वर्षशतमतीत्यापि पुरुषो जीवति । तस्मादिति निगमनम् इति ॥ १९ ॥]

Eggeling
  1. He steps to it, with the text (Vāj. S. II, 27 a), ‘O householder Agni, may I become a good householder through thee, O Agni, the householder! Mayest thou, O Agni, become a good householder through me, the householder!’ there is nothing in this requiring explanation.–‘May our household matters be unlike a cart with only one bullock,’ he thereby says, ‘may our household matters be free from calamities;’–‘for a hundred winters!’ he thereby says, ‘may I live a hundred years.’ He need not, however, say this; for man lives even longer than a hundred years: hence he need not say this.

२०

विश्वास-प्रस्तुतिः

(ताथा᳘) अथा᳘वर्त्तते॥
सू᳘र्यस्यावृ᳘तमन्वा᳘वर्त्त ऽइ᳘ति त᳘देतां ग᳘तिमेतां प्रतिष्ठां᳘ ग᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्त्तते᳘॥

मूलम् - श्रीधरादि

(ताथा᳘) अथा᳘वर्त्तते॥
सू᳘र्यस्यावृ᳘तमन्वा᳘वर्त्त ऽइ᳘ति त᳘देतां ग᳘तिमेतां प्रतिष्ठां᳘ ग᳘त्वैत᳘स्यै᳘वावृ᳘तमन्वा᳘वर्त्तते᳘॥

मूलम् - Weber

अथा᳘वर्तते॥
सू᳘र्यस्यावृ᳘तमन्वा᳘वर्त इ᳘ति त᳘देतां ग᳘तिमेता᳘म् प्रतिष्ठां गॗत्वैत᳘स्यैॗवावृ᳘तमन्वा᳘वर्तते॥

मूलम् - विस्वरम्

अथावर्त्तते- “सूर्यस्यावृतमन्वावर्त्ते”- (वा० सं० २ । २७) इति । तदेतां गतिमेतां प्रतिष्ठां गत्वा- एतस्यैवावृतमन्वावर्त्तते ॥ २० ॥

सायणः

अथावर्त्तते । “सूर्यस्येत्यावर्तते प्रदक्षिणम्” इति (का० श्रौ० सू० ३ । १७४) मन्त्रवर्णात् प्रादक्षिण्यञ्च; सूर्यस्यावृतमन्विति मन्त्रे दृश्यते, सूर्यो हि प्रादक्षिण्येन गच्छति “गच्छति प्राङुरुविष्णविति” इति (का० श्रौ० सू० ३ । १७५) ‘एतस्यैव’ सूर्यस्य ॥ २० ॥

[अथावर्तते । सूर्यस्यावर्तनमावृत्- तामन्वावर्तते । तदेतामिति । निगदव्याख्यातम् । श्रुत्या मन्त्रवर्णात्प्रदक्षिणं समावृत्याशिषं गृह्णीयात् इति ॥ २० ॥]

Eggeling
  1. He then turns (from left to right), with the text (Vāj. S. II, 27 b), ‘I move along the course of the sun:’ having reached that final goal, that safe resort, he now moves along the course of that (sun).

२१

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ पुत्र᳘स्य ना᳘म गृह्णाति॥
(ती) इदं᳘ मे ऽयं᳘ व्वी᳘र्यं पु᳘त्रो ऽनुस᳘न्तनवदि᳘ति य᳘दि पुत्रो न स्याद᳘प्यात्मन ऽएव ना᳘म गृह्णीयात्॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ पुत्र᳘स्य ना᳘म गृह्णाति॥
(ती) इदं᳘ मे ऽयं᳘ व्वी᳘र्यं पु᳘त्रो ऽनुस᳘न्तनवदि᳘ति य᳘दि पुत्रो न स्याद᳘प्यात्मन ऽएव ना᳘म गृह्णीयात्॥

मूलम् - Weber

अ᳘थ पुत्र᳘स्य ना᳘म गृह्णाति॥
इद᳘म् मे ऽयं᳘ वीर्य᳘म् पुॗत्रो ऽनुसं᳘तनवदि᳘ति य᳘दि पुत्रो न स्याद᳘प्यात्म᳘न एव ना᳘म गृह्णीयात्॥

मूलम् - विस्वरम्

अथ पुत्रस्य नाम गृह्णाति । इदं मे ऽयं वीर्यं पुत्रो ऽनुसन्तनवदिति । यदि पुत्रो न स्याद्- अथात्मन एव नाम गृह्णीयात् ॥ २१ ॥

सायणः

अथ पुत्रस्य । “ततो ऽसितन्तुरस्यनुमेत्यादि०- ० पुत्रनाम गृह्णाति" इति (का. श्रौ. सू. ३ । १७६) कथं पुनर्गृह्णाति ? “ततो ऽसि तन्तुरसि”- इत्येतस्मिन्मन्त्रे “आत्मनो ऽविद्यमाने ततेवे त्वा ज्योतिषे त्वेति वा” इति- (का. श्रौ. सू. ३ । १७७ ।) तत्पदैरेकवाक्यभूतं गृह्णाति । कुतः ? काण्वसमाम्नानात् । ‘इदं मे कर्म, इदं वीर्यम्, पुत्रो देवदत्तो ऽनुसन्तनवत्’- इति । किमर्थं नाम गृह्णाति ? ‘इदं मे’ ‘वीर्यं’ विक्रमम्, ‘पुत्रः’ देवदत्तादिः ‘अयम्’ ‘अनुसन्तनवत्’ अनुसन्तनोतु । कथम् ? ‘मे’ मम ‘इदं वीयमनुसन्तनवदिति’ मा विच्छिन्द्यादित्येवमर्थम् । पक्षान्तरमाह- ‘यदि पुत्रो न स्यात्’ कथञ्चित् पुत्ररहितश्चेत्, अजातपुत्रो मृतपुत्रो वा तदा ‘आत्मनो नाम गृह्णीयात्’ । तथा च ‘इदं मे कर्मेदं वीय देवदत्तो ऽहं सन्तनवानि- इति नामग्रहणम् 17 ॥ २१ ॥

Eggeling
  1. Now (in pronouncing the following text) he

inserts his son’s name: ‘May this son (N.N.) carry on this manly deed of mine 18!’ Should he have no son, let him insert his own name.

२२

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
प्राङ्मे य᳘ज्ञो ऽनुस᳘न्तिष्ठाता ऽइ᳘ति तूष्णीमु᳘पतिष्ठते᳘॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
प्राङ्मे य᳘ज्ञो ऽनुस᳘न्तिष्ठाता ऽइ᳘ति तूष्णीमु᳘पतिष्ठते᳘॥

मूलम् - Weber

अ᳘थाहवनी᳘यमु᳘पतिष्ठते॥
प्रा᳘ङ्ने यॗज्ञो ऽनुसं᳘तिष्ठाता इ᳘ति तूष्णीमु᳘पतिष्ठते

मूलम् - विस्वरम्

अथाहवनीयमुपतिष्ठते ‘प्राङ्मे यज्ञो ऽनुसन्तिष्ठातै’ इति । तूष्णीमुपतिष्ठते ॥ २२ ॥

सायणः

अथाहवनीयम् । “आहवनीयमुपतिष्ठते तूष्णीम्” इति (का. श्रौ. सू. ३ । १७८) गार्हपत्योपस्थानादिकर्मणा यत्पदं न प्राप्नोति, अत उपस्थानयज्ञक्रिया प्रत्यक्संस्था जाता; सा च जघन्या, अधोगतित्वात्; अत आहवनीयोपस्थानं विधत्ते प्राक्संस्थित्यै । अपि च प्रत्यग्गमनशब्दो हि नरकपातवाचकः; एवञ्चाधोगतिर्यज्ञस्य स्यात् । तूष्णीमिति 17 । सामर्थ्यान्मन्त्रे प्राप्ते तूष्णीमुपस्थानं विधेयमिति मन्त्रनिवृत्तिः क्रियते ॥ २२ ॥

[अथाहवनीयम् । प्राक्संस्थं यज्ञस्याशास्ते । तूष्णीमेवोपस्थानम् इति ॥ २२ ॥]

Eggeling
  1. He then steps up to the Āhavanīya fire. Silently he steps to it, thinking, ‘In the east my sacrifice shall be completed!’

23

विश्वास-प्रस्तुतिः

(ते᳘ ऽथ) अ᳘थ व्व्रतं व्वि᳘सृजते॥
(त) इद᳘महं य᳘ एवा᳘स्मि᳘ सो ऽस्मीत्य᳘मानुष ऽइव वा᳘ ऽएत᳘द्भवति य᳘द्व्रत᳘मुपै᳘ति न हि त᳘दवक᳘ल्पते य᳘द्ब्रूया᳘दिद᳘मह᳘ᳫँ᳘ सत्याद᳘नृतमु᳘पैमी᳘ति त᳘दु ख᳘लु पु᳘नर्मानुषो᳘ भवति त᳘स्मादिद᳘महं᳘ य᳘ ऽएवा᳘स्मि᳘ सा ऽस्मी᳘त्येवं᳘ व्व्रतं व्वि᳘सृजेत॥

मूलम् - श्रीधरादि

(ते᳘ ऽथ) अ᳘थ व्व्रतं व्वि᳘सृजते॥
(त) इद᳘महं य᳘ एवा᳘स्मि᳘ सो ऽस्मीत्य᳘मानुष ऽइव वा᳘ ऽएत᳘द्भवति य᳘द्व्रत᳘मुपै᳘ति न हि त᳘दवक᳘ल्पते य᳘द्ब्रूया᳘दिद᳘मह᳘ᳫँ᳘ सत्याद᳘नृतमु᳘पैमी᳘ति त᳘दु ख᳘लु पु᳘नर्मानुषो᳘ भवति त᳘स्मादिद᳘महं᳘ य᳘ ऽएवा᳘स्मि᳘ सा ऽस्मी᳘त्येवं᳘ व्व्रतं व्वि᳘सृजेत॥

मूलम् - Weber

अ᳘थ व्रतं वि᳘सृजते॥
इद᳘महं य᳘ एवा᳘स्मिॗ सो ऽस्मीत्य᳘मानुष इव वा᳘ एत᳘द्भवति य᳘द्व्रत᳘मुपै᳘ति न हि त᳘दवक᳘ल्पते य᳘द्ब्रूया᳘दिद᳘मह᳘ᳫं᳘ सत्याद᳘नृतमु᳘पैमी᳘ति त᳘दु ख᳘लु पु᳘नर्मानुषो᳘ भवति त᳘स्मादिद᳘महं᳘ य᳘ एवा᳘स्मिॗ सा ऽस्मी᳘त्येवं᳘ व्रतं वि᳘सृजेत॥

मूलम् - विस्वरम्

अथ व्रतं विसृजते- “इदमहं य एवास्मि सो ऽस्मि”- (वा० सं० २ । २८) इति अमानुष- इव वा एतद्भवति- यद्व्रतमुपैति । न हि तदवकल्पते यद्ब्रूयाद्- इदमहं सत्यादनृतमुपैमि इति । तदु खलु पुनर्मानुषो भवति । तस्माद् ‘इदमहं य एवास्मि सो ऽस्मि’ इत्येवं व्रतं विसृजेत ॥ २३ ॥

इति दर्शपूर्णमासेष्टिः सम्पूर्णा ॥

सायणः

अथ व्रतम् । “व्रतं विसृजते येनोपेयात्” इति- (का. श्रौ. सू. ३ । १७९) पूर्वोक्तामितिकर्तव्यतामनूद्य यज्ञसमाप्तिर्व्रतविसर्गसम्बद्धा विधीयते; यदिदमुक्तं “संस्थिते” (श. प. १ कां. १ । १ । ३ ।) इति, तदिदमवसरप्राप्तं व्रतं विसृजते । स्वशाखायाम् “इदमहमनृतात् सत्यमुपैमि”- (श. प. १ कां. १ । १ । ४) इति मन्त्रोच्चारो ऽभिप्रेतः- अत एव पक्षान्तरन्यासो न कृतो भगवत्या श्रुत्या ॥

समाप्तो ऽयं पौर्णमासः, सर्वास्विष्टिषु पशुबन्धेषु यागेषु सौत्रामण्यां च प्रकृतिभूतः । यद्यप्ययं कृताधानस्य भवति, तथापि आधानेष्टीनां तनूहविस्सञ्ज्ञकानां पौर्णमासयागः प्रकृतिः, तस्मात् पूर्वमुपदेश्यः । ननु तर्हि तनूहविषामेव सर्वेष्टिप्रकृतित्व कृत्वा तान्येव पूर्वं कस्मान्नोपदिष्टानि ? सत्यम् ! किन्तु तेष्वितिकर्तव्यतावैकृत्यदर्शनात् सर्वप्रकृतित्वं न सम्भवति, तस्मात्पौर्णमासयाग एव पूर्वमुपदिष्टः ॥ २३ ॥ ४ ॥

[अथ व्रतं । व्रतमिति कर्मणो नामधेयम् । तस्य विसर्गं कुरुते यजमानः इदमहमिति । यद्व्रतं विसृजते तेन व्रतो ऽमानुष इव देव इव भवति । न हीति । मन्त्ररूपान्तरं दूषणम् । व्रतविसर्गानन्तरं पुनः मानुषो जायते, तस्मादिदमहमित्येतेन मन्त्रेण व्रतं विसृजेतेति विधिः । तदु खल्वित्यवधारणार्थः । “अथाप्युकार एतस्मिन्नेवार्थ उत्तरेण” इति स्मरणात् (निरु. १ । २ । ४) खलु- “पदं सत्यवचनसिद्धये स वै सत्यमेव वदेदित्यादि विध्यर्थम् इति ॥ २३ ॥] ॥ इति परिशिष्टम् ॥

इत्याचार्यहरिस्वामिनः कृतौ शतपथभाष्ये नवमाध्याये तृतीयं ब्राह्मणम् ॥ ९ ॥ ३ ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ शतपथभाष्ये नवमो ऽध्यायः समाप्तः ॥ ९ ॥

इति सप्तमः प्रपाठकः समाप्तः ॥ ७ ॥

भूभर्त्रा विक्रमार्केण क्लृप्तां कनकवेदिकाम् । दानायाध्यास्य कृतवान् श्रुत्यर्थविवृतिं हरिः ॥ १ ॥

इति श्रीसवविद्यानिधानकवीन्द्राचायसरस्वतीनां शुक्लयजुर्वेदीये माध्यन्दिनशतपथब्राह्मणभाष्ये हविर्यज्ञं नाम प्रथमं काण्डं समाप्तम् ॥ १ ॥

Eggeling
  1. Thereupon he divests himself of the vow, with the text (Vāj. S. II, 28 b), ‘Now am I he that I really am.’ For, in entering upon the vow, he becomes, as it were, non-human; and as it would not be becoming for him to say, ‘I enter from truth into untruth;’ and as, in fact, he now again becomes man, let him therefore divest himself of the vow, with the text, ‘Now am I he that I really am 19.’

  1. ‘इत्यस्मात् पूर्वं (मां कोकिलग्रहेणैव गच्छन्तीति यतस्ते ऽतः किम् ।’) इति पाठः क्वचित् पुस्तके ऽस्ति । ↩︎

  2. 267:1 Cf. Mahābh. XII, 525, ‘Two paths are known, one leading to the gods, and one leading to the fathers; and ib. XIII, 1082, That sun is said to be the gate of the paths leading to the gods; and that moon is said to be the gate of the paths leading to the fathers.’ See also Chand. Up. V, 3. In Śat. Br. VI, 6, 2, 4 the gate of the heavenly world is said to be situated in the northeast; whilst that of the world of the fathers, according to XIII, 8, 1, 5, lies in the south-east. Cf. Kaushīt. Up. I, 2 seq. (Max Müller, Up. I, p. 274), ‘Verily, the moon is the door of the heavenly world,’ &c. ↩︎

  3. 267:2 According to Harisvāmin, they scorch him who has not fulfilled his duties, and allow him to pass who has done so. ↩︎

  4. कण्वशाखीयानां प्रतिग्रहोत्तरं मन्त्रजपं प्रतिजानानेन भाष्यकृता प्रकृतस्यैतस्य शतपथश्रुतिपाठस्य माध्यन्दिनशाखीयत्वं सूच्यते । किन्तु माध्यन्दिनसंहितात्वेन प्रसिद्धस्य यजुर्वेदसंहितापाठस्य मन्त्रपाठक्रमानुसारिणीयं प्रकृता शतपथश्रुतिर्नास्तीत्यन्यत्र सुविशदं प्रदर्शितम् । ↩︎

  5. 268:1 That is, with the departed persons, the fathers; or, more probably, with new bodies (?), cf. the funereal hymns, Rig-veda X, 14-18; especially X, 35, 14; 16, 5; 14, 8. Perhaps, however, it would be better to construe, ‘by (our) bodies we have united with lustre and vigour; by (our) mind with bliss.’ In IV, 6, 1, 1 it is said, that the sacrificer is born in the next world with his entire body; similarly XI, 1, 8, 6; XII, 8, 3, 31. For further quotations regarding the views on future existence, see A. Weber, Ind. Streifen, I, p. 20 seq.; J. Muir, Original Sanskrit Texts, V, p. 314 seq. ↩︎

  6. “विष्णुक्रमान्क्रमते दिवि विष्णुरिति प्रतिमन्त्रं पृथिव्यामितीत ऊर्ध्वो वा" इति ॥ का. श्रौ. सू. ३ । १६४ ॥ ↩︎

  7. 269:1 In VI, 5, 4, 8 we shall meet with the statement, that ’the stars (nakshatra) are the lights of righteous men who go to the heavenly world.’ In the same passage, however (as in others), the nakshatras (lunar mansions) are represented as divine female beings (with unclipped wings; cf. Vāj. S. XI, 61), with whom, in IX, 4, 1, 9, the moon is said to live together, as the Gandharvas with the Apsaras. ↩︎

  8. 269:2 See par. 16 with note. The Kāṇva text reads, ‘yat param bhāti.’ ↩︎

  9. 269:3 Apasaraṇataḥ; i.e. by allowing the enemies to escape, viz.; first from the sky to the air, and then from the air to the earth. It also, however, has the meaning of ‘from escape;’ that is, the gods drove the enemies to the earth, whence there was no escape for them. ↩︎

  10. “अस्मादन्नादिति भागमवेक्षते” “अस्यै प्रतिष्ठाया इति भूमिं” का. श्रौ. सू. ३ । १६५- १६६ ॥ ↩︎

  11. 270:1 The sacrificer in making the strides of Vishṇu, may begin either with the stride on earth or with that in the sky (Kāty. III, 8, 11, 12). He begins from the southern hip (or south-west corner) of the altar, and makes three strides eastward with his right foot in front, reciting one formula with each stride, along the south side of the altar up to the Āhavanīya fire. ↩︎

  12. 271:1 Seven rays of the sun are mentioned, Rig-veda I, 105, 9; II, 5, 2; Ath-veda VII, 107, 1. Mahīdhara remarks that four of them lie in, or point to, the four quarters; one pointing upwards and another downwards; and the seventh, and best, being the disc of the sun itself, called Hiraṇyagarbha. This apparently is the param bhās, or most excellent light, which in par. 10 is identified with Prajāpati, or the heavenly world. ↩︎

  13. 271:2 That is, Tumiñja Aupoditeya Vaiyāghrapadya, as the Kāṇva text reads; cf. Taitt. S. I, 7, 2, 1. ↩︎

  14. 271:3 The heavenly rays of light are regarded as the heavenly cows,. Naigh. I, 5; Nir. II, 6. ↩︎

  15. 272:1 When he has executed the pradakshiṇa movement, he has to repeat the movement in the opposite direction, in accordance with the general rule, Katy. I, 8, 24. The same applies to par. 20. On the sun-wise circumambulation, with and without fire, see p. 37 note, p. 45 note; also Martin, Western Isles, pp. 16-20, 85, 97, 116-119, 241, 277; Forbes Leslie, Early Races of Scotland, index, s.v. deisiol. ↩︎

  16. “अस्थूरि” “अस्थूरिणि’ एकाश्वयुक्तः शकटः स्थूरिरित्युच्यते, तद्विपरीतो बहुभिरश्वैरुपेतः शकटो ऽस्थूरिः तेन च सम्पूर्णतालक्ष्यते । इति ऋ. सं. ६ । १५ ।१९ सा. भा. । एकपार्श्वे बलीवर्दयुक्तं शकटं स्थूरि-न स्थूरि-अस्थूरि लुप्तोपमानं इति वा. सं. २ । २७ । १ इत्यत्र महीधरः । इहोत्तरत्रापि पुनः श्रोष्यति ३ । ७ । ४ । १० ॥ ↩︎

  17. “अनेकेषु पुत्रेषु सर्वेषां ज्येष्ठस्य पुत्रस्य नामाभिव्याहृत्य” इति सांख्यायनः २ । १२ । ११ “प्रियस्य पुत्रस्य नाम गृह्णाति" इत्यापस्तम्बः । ४ । १६ । ४ । ↩︎ ↩︎

  18. 273:1 The Mādhyandina text of the Vāj. S. does not give this formula. The Kāṇva text of the Saṁhitā has the following (Weber’s edition, p. 59), ‘Woven art thou, a web art thou: weave me along (? extend my life) at this sacrifice, at this holy deed, in this food, in this world!’ ‘May my son weave on (continue) this work, this manly deed of mine!’ Thus also Kāty. III, 8, 25. The Kāṇva text of the Brāhmaṇa, however, mentions only the formula given above. According to Laugākshi he names his favourite son; according to Śāṅkhāyana, his eldest son, or as many sons as he has. See comm. on Kāty. IV, 12, II. ↩︎

  19. 273:2 See I, 1, 1, 6. For another mode of divesting oneself of the vow, see I, 1, 1, 3. ↩︎