०१
विश्वास-प्रस्तुतिः
ते वै प᳘त्नीः संयाजयिष्य᳘न्तः प्रतिप᳘रायन्ति॥
जुहूं᳘ च स्रुवं᳘ चाध्वर्यु᳘रादत्ते᳘ व्वेदᳫँ᳭हो᳘ताज्यविला᳘पनीमग्नीत्॥
मूलम् - श्रीधरादि
ते वै प᳘त्नीः संयाजयिष्य᳘न्तः प्रतिप᳘रायन्ति॥
जुहूं᳘ च स्रुवं᳘ चाध्वर्यु᳘रादत्ते᳘ व्वेदᳫँ᳭हो᳘ताज्यविला᳘पनीमग्नीत्॥
मूलम् - Weber
ते वै प᳘त्नीः संयाजयिष्य᳘न्तः प्रतिपरायन्ति॥
जुहूं᳘ च स्रुवं᳘ चाध्वर्यु᳘रादत्ते᳘ वेदᳫं हो᳘ताज्यविला᳘पनीमग्नीत्॥
मूलम् - विस्वरम्
“अथ पत्नीसंयाजः ।”
ते वै पत्नीः संयाजयिष्यन्तः प्रतिपरायन्ति । जुहूं च स्रुवं चाध्वर्युरादत्ते, वेदं होता आज्यविलापनीमग्नीत् ॥ १ ॥
सायणः
ते वै पत्नीः । पत्नीसंयाजब्राह्मणमेतत् 1 । ‘ते’ वक्ष्यमाणा अध्वर्य्यादयः ‘पत्नीः’ देवानां ‘संयाजयिष्यन्तः’ देवैः सह संगता याजयिष्यन्तः । यजमानः संयजते, न यजमानेन समिज्यमानास्ते ऋत्विजः संयाजयन्ति । संयाजनार्थं ‘प्रति’ यस्मादेव गार्हपत्यदेशाद्गताः, तमेव ‘परियन्ति’ गमनप्रतिलोम आहवनीयात्परास्तमभिमुखंमायन्ति । आगच्छन्तश्चेदं कुर्वन्ति- “जुहूं च स्रुवं चाध्वर्युरादत्ते” - इत्यादि ॥ १ ॥
Eggeling
- Being about to perform the patnīsaṁyājas 2, they betake themselves back to the Gārhapatya fire. The Adhvaryu takes the juhū and sruva, the Hotr̥ the veda, and the Āgnīdhra the butter-(melting) pot.
०२
विश्वास-प्रस्तुतिः
(त्त) तद्धै᳘केषामध्वर्युः᳘॥
पू᳘र्व्वेणाहवनी᳘यं प᳘र्येति त᳘दु त᳘था न᳘ कुर्याद्बहिर्द्धा ह यज्ञा᳘त्स्याद्यत्ते᳘नेया᳘त्॥
मूलम् - श्रीधरादि
(त्त) तद्धै᳘केषामध्वर्युः᳘॥
पू᳘र्व्वेणाहवनी᳘यं प᳘र्येति त᳘दु त᳘था न᳘ कुर्याद्बहिर्द्धा ह यज्ञा᳘त्स्याद्यत्ते᳘नेया᳘त्॥
मूलम् - Weber
तद्धै᳘केषामध्वर्युः॥
पू᳘र्वेणाहवनी᳘यम् प᳘र्येति त᳘दु त᳘था न᳘ कुर्याद्बहिर्धा᳘ ह यज्ञा᳘त्स्याद्यत्ते᳘नेया᳘त्॥
मूलम् - विस्वरम्
तद्धैकेषामध्वर्युः पूर्वेणाहवनीयं पर्येति । तदु तथा न कुर्याद् । बहिर्द्धा ह यज्ञात् स्यात्- यत्तेनेयात् ॥ २ ॥
सायणः
तद्धैकेषाम् । ‘बहिर्द्धा’ बहिरेव बहिर्द्धा, ‘यज्ञात्स्यात्’ साधनम् । शरीरी यज्ञः, न चाहवनीयात् प्राक् साधनं किञ्चिदस्ति, ततश्चाध्वर्युणा यज्ञाङ्गेन यज्ञशरीरं भोक्तव्यमित्यभिप्रायः ॥ २ ॥
Eggeling
- Here now the Adhvaryu, according to some, passes the Āhavanīya on the east side. Let him not, however, do this; for were he to walk on that side, he would be outside the sacrifice.
०३
विश्वास-प्रस्तुतिः
(ज्ज) जघ᳘नेनो हैव प᳘त्नीम्॥
(मे᳘) ए᳘केषामध्वर्यु᳘रेति᳘ नो ऽएव त᳘था कुर्यात्पूर्व्वार्द्धो वै᳘ यज्ञ᳘स्याध्वर्यु᳘र्जघनार्द्धः प᳘त्नी य᳘था भसत्तः शि᳘रः प्रतिदध्या᳘देवं त᳘द्बहिर्द्धा᳘ हैव᳘ यज्ञा᳘त्स्याद्यत्ते᳘नेयात्॥
मूलम् - श्रीधरादि
(ज्ज) जघ᳘नेनो हैव प᳘त्नीम्॥
(मे᳘) ए᳘केषामध्वर्यु᳘रेति᳘ नो ऽएव त᳘था कुर्यात्पूर्व्वार्द्धो वै᳘ यज्ञ᳘स्याध्वर्यु᳘र्जघनार्द्धः प᳘त्नी य᳘था भसत्तः शि᳘रः प्रतिदध्या᳘देवं त᳘द्बहिर्द्धा᳘ हैव᳘ यज्ञा᳘त्स्याद्यत्ते᳘नेयात्॥
मूलम् - Weber
जघ᳘नेनो हैव प᳘त्नीं॥
ए᳘केषामध्वर्यु᳘रेतिॗ नो एव त᳘था कुर्यात्पूर्वार्धो वै᳘ यज्ञ᳘स्याध्वर्यु᳘र्जघनार्धः प᳘त्नी य᳘था भसत्तः शि᳘रः प्रतिदध्या᳘देवं त᳘द्बहिर्धा᳘ हैव᳘ यज्ञा᳘त्स्याद्यत्ते᳘नेयात्॥
मूलम् - विस्वरम्
जघनेनो हैव पत्नीमेकेषामध्वर्युरेति, नो एव तथा कुर्यात् । पूर्वार्द्धो वै यज्ञस्याध्वर्युः, जघनार्द्धः पत्नी । यथा भसत्तः शिरः प्रतिदध्याद्- एवं तत् । बहिर्द्धा हैव यज्ञात् स्याद्- यत्तेनेयात् ॥ ३ ॥
सायणः
जघनेनो । गार्हपत्यमुत्तरेणातीत्य पत्नी चापरेण । पत्नीदक्षिणपार्श्वे स्थितो यज्ञादित्यपरे शाखिन आहुः । भसदुत्सर्गायतनम् ‘भसत्तः’ यथा भसदि शिरः संयोजयेत्, तच्चायुक्तमित्यभिप्रायः ॥ ३ ॥
Eggeling
- According to others, the Adhvaryu walks (so as to pass) behind the (sacrificer’s) wife 3. Let him not, however, do this either; for verily the Adhvaryu is the fore-part, and the wife is the hind-part of the sacrifice: hence, if he were to pass so, it would be as if one were to put his head behind; and he (the Adhvaryu) would be outside the sacrifice.
०४
विश्वास-प्रस्तुतिः
(द᳘) अ᳘न्तरेणो हैव प᳘त्नीम्॥
(मे᳘) ए᳘केषामध्वर्यु᳘रेति᳘ नो ऽएव त᳘था कुर्यादन्त᳘रियाद्ध यज्ञात्प᳘त्नीं यत्ते᳘नेयात्त᳘स्मादु पू᳘र्व्वेणैव गा᳘र्हपत्यम᳘न्तरेणाहवनी᳘यञ्चैति त᳘था ह न᳘ बहिर्द्धा᳘ यज्ञाद्भ᳘वति य᳘थो ऽए᳘वादः᳘ प्रच᳘रन्न᳘न्तरेण सञ्च᳘रति स᳘ ऽउ ए᳘वास्यैष स᳘ञ्चरो᳘ भवति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘न्तरेणो हैव प᳘त्नीम्॥
(मे᳘) ए᳘केषामध्वर्यु᳘रेति᳘ नो ऽएव त᳘था कुर्यादन्त᳘रियाद्ध यज्ञात्प᳘त्नीं यत्ते᳘नेयात्त᳘स्मादु पू᳘र्व्वेणैव गा᳘र्हपत्यम᳘न्तरेणाहवनी᳘यञ्चैति त᳘था ह न᳘ बहिर्द्धा᳘ यज्ञाद्भ᳘वति य᳘थो ऽए᳘वादः᳘ प्रच᳘रन्न᳘न्तरेण सञ्च᳘रति स᳘ ऽउ ए᳘वास्यैष स᳘ञ्चरो᳘ भवति॥
मूलम् - Weber
अ᳘न्तरेणो हैव प᳘त्नीं॥
ए᳘केषामध्वर्यु᳘रेतिॗ नो एव त᳘था कुर्यादन्त᳘रियाद्ध यज्ञात्प᳘त्नीं यत्ते᳘नेयात्त᳘स्मादु पू᳘र्वेणैव गा᳘र्हपत्यम᳘न्तरेणाहवनी᳘यं चैति त᳘था ह न᳘ बहिर्धा᳘ यज्ञाद्भ᳘वति य᳘थो एॗवादः᳘ प्रच᳘रन्न᳘न्तरेण संच᳘रति स᳘ उ एॗवास्यैष᳘ संचरो᳘ भवति॥
मूलम् - विस्वरम्
अन्तरेणो हैव पत्नीमेकेषामध्वर्युरेति । नो एव तथा कुर्याद् । अन्तरियाद्ध यज्ञात् पत्नीम्- यत्तेनेयात् । तस्मादु पूर्वेणैव गार्हपत्यमन्तरेणाहवनीयञ्चैति । तथा ह न बहिर्द्धा यज्ञाद् भवति । यथो एवादः प्रचरन्नन्तरेण सञ्चरति- स उ एवास्यैष सञ्चरो भवति ॥ ४ ॥
सायणः
अन्तरेणो । ‘गार्हपत्यमन्तरेण’ अतीत्य गार्हपत्यस्य पत्न्याश्चान्तरालेनेत्यपरे ॥ ४ ॥
Eggeling
- According to others, the Adhvaryu passes between the wife (and the Gārhapatya fire). Let him not, however, do this either; for were he to pass that way, he would cut off the wife from the sacrifice. Along the east side of the Gārhapatya and the inner side of the Āhavanīya (he passes); for thus he is not outside the sacrifice; and as before, in walking forward (to the Āhavanīya), he passed along the inner side, so he now also takes that path.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प᳘त्नीः सं᳘याजयन्ति॥
यज्ञाद्वै᳘ प्रजाः प्र᳘जायन्ते यज्ञा᳘त्प्रजा᳘यमाना मिथुनात्प्र᳘जायन्ते मिथुना᳘त्प्रजा᳘यमाना ऽअन्ततो᳘ यज्ञ᳘स्य प्र᳘जायन्ते त᳘देना ऽएत᳘दन्ततो᳘ यज्ञ᳘स्य मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मान्मिथुना᳘त्प्रज᳘ननादन्ततो᳘ यज्ञ᳘स्येमाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्मात्प᳘त्नीः सं᳘याजयन्ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प᳘त्नीः सं᳘याजयन्ति॥
यज्ञाद्वै᳘ प्रजाः प्र᳘जायन्ते यज्ञा᳘त्प्रजा᳘यमाना मिथुनात्प्र᳘जायन्ते मिथुना᳘त्प्रजा᳘यमाना ऽअन्ततो᳘ यज्ञ᳘स्य प्र᳘जायन्ते त᳘देना ऽएत᳘दन्ततो᳘ यज्ञ᳘स्य मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मान्मिथुना᳘त्प्रज᳘ननादन्ततो᳘ यज्ञ᳘स्येमाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्मात्प᳘त्नीः सं᳘याजयन्ति॥
मूलम् - Weber
अ᳘थ प᳘त्नीः सं᳘याजयन्ति॥
यज्ञाद्वै᳘ प्रजाः प्र᳘जायन्ते यज्ञा᳘त्प्रजा᳘यमाना मिथुनात्प्र᳘जायन्ते मिथुना᳘त्प्रजा᳘यमाना अन्ततो᳘ यज्ञ᳘स्य प्र᳘जायन्ते त᳘देना एत᳘दन्ततो᳘ यज्ञ᳘स्य मिथुना᳘त्प्रज᳘ननात्प्र᳘जनयति त᳘स्मान्मिथुना᳘त्प्रज᳘ननादन्ततो᳘ यज्ञ᳘स्येमाः᳘ प्रजाः प्र᳘जायन्ते त᳘स्मात्प᳘त्नीः सं᳘याजयन्ति॥
मूलम् - विस्वरम्
अथ पत्नीः संयाजयन्ति । यज्ञाद्वै प्रजाः प्रजायन्ते । यज्ञाद्- प्रजायमाना मिथुनात् प्रजायन्ते । मिथुनात्प्रजायमाना अन्ततो यज्ञस्य प्रजायन्ते । तदेना एतदन्ततो यज्ञस्य मिथुनात प्रजननात् प्रजनयति । तस्मान्मिथुनात् प्रजननादन्ततो यज्ञस्येमाः प्रजाः प्रजायन्ते । तस्मात् पत्नीः संयाजयन्ति ॥ ५ ॥
सायणः
अथ पत्नीः । “यज्ञाद्वै प्रजाः”- इत्यस्मिन् काले पत्नीषु संयाज्यमानासु ‘यज्ञस्य’ जघनार्द्धे मिथुनं प्रजननं कृतं भवतीत्याह । प्रजापतिभावाय यज्ञसम्पादनाय युक्तः सन् सर्गस्य हेतुर्भवति । सो ऽपि न च सर्वात्मना किं तर्हि ? यदाधियज्ञिकं मिथुनं तेनांशेन प्रजासर्गस्य साक्षात्कारणं भवति । तदाह- यज्ञात् प्रजायमाना मिथुनात् प्रजायन्ते न स्वतः, एवं च तदपि मिथुनं यद्यज्ञस्यान्ते वर्त्तते, तस्मात् ‘प्रजाः प्रजायन्ते’ । स हि यज्ञपुरुषस्य जघनार्द्धभागित्यभिप्रायः । ततश्च यदेताः पत्नीः सह देवैर्यजति, ‘तदेनाः’ प्रजाः एतदन्ततो यज्ञस्य ‘मिथुनात् प्रजननात् प्रजनयति’ यस्माच्चैवमधियज्ञं क्रियते, ‘तस्माद्’ यज्ञानुकारिणो ‘मिथुनाद्’ एव लिङ्गद्वयात् ‘प्रजननादन्ततः’ जघनभावाद् ‘यज्ञस्य’ यज्ञकार्यपुरुषस्य ‘इमाः’ ‘प्रजायन्ते’ तस्मान्नियमनम् ॥ ५ ॥
Eggeling
- They now perform the patnīsaṁyājas. From the sacrifice offspring is assuredly produced; and (that offspring) produced from the sacrifice is produced from union; and (the offspring) produced from union is produced after (in consequence of) the completion 4 of the sacrifice: hence one thereby (i.e. by the patnīsaṁyājas) causes that (offspring) to be produced by means of a productive union after the completion of the sacrifice. And so now also offspring is produced by means of a productive union after the completion of the sacrifice. This is why they now perform the patnīsaṁyājas.
०६
विश्वास-प्रस्तुतिः
च᳘तस्रो देव᳘ता यजति॥
च᳘तस्रो वै᳘ मिथुनं᳘ द्वन्द्वं वै᳘ मिथुनं द्वे᳘ द्वे हि ख᳘लु भ᳘वतो मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माच्च᳘तस्रो देव᳘ता यजति॥
मूलम् - श्रीधरादि
च᳘तस्रो देव᳘ता यजति॥
च᳘तस्रो वै᳘ मिथुनं᳘ द्वन्द्वं वै᳘ मिथुनं द्वे᳘ द्वे हि ख᳘लु भ᳘वतो मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माच्च᳘तस्रो देव᳘ता यजति॥
मूलम् - Weber
च᳘तस्रो देव᳘ता यजति॥
च᳘तस्रो वै᳘ मिथुनं᳘ द्वन्द्वं वै᳘ मिथुनं द्वे द्वे हि ख᳘लु भ᳘वतो मिथुन᳘मेॗवैत᳘त्प्रज᳘नने क्रियते त᳘स्माच्च᳘तस्रो देव᳘ता यजति॥
मूलम् - विस्वरम्
चतस्रो देवता यजति । चतस्रो वै मिथुनम् । द्वन्द्वं वै मिथुनम् । द्वे द्वे हि खलु भवतः । मिथुनमेवैतत् प्रजननं क्रियते । तस्माच्चतस्त्रो देवता यजति ॥ ६॥
सायणः
चतस्रो देवताः । चतस्र इति 5 । देवानां पत्न्यो यद्यपि बह्व्यः (श० प० ११ कां० १ अ० ६ ब्रा० २७ क०) तथाप्येकैव सा हविर्भाग्देवतेत्यभिप्रायः । द्वे द्वे हीति । द्वाभ्यां देवताभ्यां मिथुनम्, अपराभ्यामपर मिथुनम्, ताभ्यामपि मिथुनाभ्यामपरं मिथुनमित्येतद्दर्शयति ॥ ६ ॥
Eggeling
- He makes offering to four deities. Four doubtless means a couple; for a couple means a pair (dvandva, lit. two and two), and two and two indeed they are: thus a productive union is thereby effected; and accordingly he makes offering to four deities.
०७
विश्वास-प्रस्तुतिः
ता वा ऽआ᳘ज्यहविषो भवन्ति॥
रे᳘तो वा ऽआ᳘ज्यᳫँ᳭रे᳘त ऽए᳘वैत᳘त्सिञ्चति त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - श्रीधरादि
ता वा ऽआ᳘ज्यहविषो भवन्ति॥
रे᳘तो वा ऽआ᳘ज्यᳫँ᳭रे᳘त ऽए᳘वैत᳘त्सिञ्चति त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - Weber
ता वा आ᳘ज्यहविषो भवन्ति॥
रे᳘तो वा आ᳘ज्यं रे᳘त एॗवैत᳘त्सिञ्चति त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - विस्वरम्
ता वा आज्यहविषो भवन्ति । रेतो वा आज्यम् । रेत एवैतत्सिञ्चति । तस्मादाज्यहविषो भवन्ति ॥ ७ ॥
सायणः
ता वा आज्यहविषः । ‘रेत आज्यम्’ सारत्वात्, कारणद्रव्यत्वस्नेहैश्च । रेत एवैतदधियज्ञं ‘सिञ्चति’ प्रजार्थम् ॥ ७ ॥
Eggeling
- He makes (the offerings) of butter for sacrificial food. Butter indeed means seed: hence he thereby scatters seed, and therefore makes them of butter for sacrificial food.
०८
विश्वास-प्रस्तुतिः
ते᳘नोपाᳫंशु᳘ चरन्ति॥
तिर᳘ ऽइव वै᳘ मिथुने᳘न चर्यते तिर᳘ ऽइवैतद्य᳘दुपाᳫंशु त᳘स्मादुपाᳫंशु᳘ चरन्ति॥
मूलम् - श्रीधरादि
ते᳘नोपाᳫंशु᳘ चरन्ति॥
तिर᳘ ऽइव वै᳘ मिथुने᳘न चर्यते तिर᳘ ऽइवैतद्य᳘दुपाᳫंशु त᳘स्मादुपाᳫंशु᳘ चरन्ति॥
मूलम् - Weber
ते᳘नोपांशु᳘ चरन्ति॥
तिर इव वै मिथुने᳘न चर्यते तिर᳘ इवैतद्य᳘दुपांशु त᳘स्मादुपांशु᳘ चरन्ति॥
मूलम् - विस्वरम्
तेनोपांशु चरन्ति । तिर इव वै मिथुनेन चर्यते । तिर इवैतद्- यदुपांशु । तस्मादुपांशु चरन्ति ॥ ८ ॥
सायणः
तेनोपांशु । उपांशुचरणशब्देन सर्वं “उपाᳫँशु चरति” “चरणशब्दे सर्वं देवता ऽन्यत्र” इति (का० श्रौ० सू० ३ । १४४ १४५ । १४६) होत्राध्वर्यवमेव श्राव्यं ‘तिरः’ अन्तर्हितमप्रकाशं ‘मिथुनेन’ लिङ्गद्वयेन ‘चर्यते’ लोके तेन यज्ञपूर्वकेन भवनीयम् ‘उपांशु’ चाप्रकाशम् । तस्मादुपांश्वित्युपसंहारः ॥ ८ ॥
Eggeling
- In a low voice they engage in this (performance) 6. Secretly, doubtless, union takes place; and secretly also (takes place) what (is spoken) in a low voice: this is why they perform in a low voice.
०९
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ सो᳘मं यजति॥
रे᳘तो वै सो᳘मो रे᳘त ऽए᳘वैत᳘त्सिञ्चति त᳘स्मात्सो᳘मं यजति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ सो᳘मं यजति॥
रे᳘तो वै सो᳘मो रे᳘त ऽए᳘वैत᳘त्सिञ्चति त᳘स्मात्सो᳘मं यजति॥
मूलम् - Weber
अ᳘थ सो᳘मं यजति॥
रे᳘तो वै सो᳘मो रे᳘त एॗवैत᳘त्सिञ्चति त᳘स्मात्सो᳘मं यजति॥
मूलम् - विस्वरम्
अथ सोमं यजति (१) । रेतो वै सोमः- रेत एवैतत् सिञ्चति । तस्मात् सोमं यजति ॥ ९ ॥
सायणः
अथ सोमम् । यद्यप्याज्येनैव रेतो ऽर्थः सिद्धः, तथापि देवलोकमपि तत्सम्पाद्यमिति ‘सोमं’ यजति (“यजति सोमं त्वष्टारं देवानां पत्नीरग्निं गृहपतिमिति” का० श्रौ० सू० ३ । १४६) ॥ ९ ॥
Eggeling
- He first makes offering to Soma. Soma indeed means seed; hence he thereby scatters seed: this is why he makes offering to Soma.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ त्व᳘ष्टारं यजति॥
त्वष्टा वै᳘ सिक्तᳫँ᳭ रे᳘तो व्वि᳘करोति त᳘देष᳘ ऽएवैत᳘त्सिक्तᳫँ᳭रेतो व्वि᳘करोति त᳘स्मात्त्व᳘ष्टारं यजति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ त्व᳘ष्टारं यजति॥
त्वष्टा वै᳘ सिक्तᳫँ᳭ रे᳘तो व्वि᳘करोति त᳘देष᳘ ऽएवैत᳘त्सिक्तᳫँ᳭रेतो व्वि᳘करोति त᳘स्मात्त्व᳘ष्टारं यजति॥
मूलम् - Weber
अ᳘थ त्व᳘ष्टारं यजति॥
त्व᳘ष्टा वै᳘ सिक्तं रे᳘तो वि᳘करोति त᳘स्मात्त्व᳘ष्टारं यजति॥
मूलम् - विस्वरम्
अथ त्वष्टारं यजति (२) । त्वष्टा वै सिक्तं रेतो विकरोति । तस्मात् त्वष्टारं यजति ॥ १० ॥
सायणः
अथ त्वष्टारम् । मिथुनोपपादनाय यत्र क्वचन पुंसि यष्टव्ये मिथुनात् त्रिगुण एवाश्रयणीय इत्यभिप्रायः । ‘त्वष्टा’ वायुः 7 सो ऽध्यात्ममवस्थितः सिक्तमात्रमेव ‘रेतः’ यावन्त्यस्थीनि यस्य प्राणिनः, तावन्ति तस्य सूक्ष्मविभागानि खण्डितानि करोति । तच्चाधियज्ञानुकारेण, नान्यथेति यज्ञे ऽपि मिथुने त्वष्टा विकुर्वन् दर्शनीयः सो ऽय यक्ष्यत इति तदेष एवैतदित्याह ॥ १० ॥
Eggeling
- He then makes offering to Tvashṭr̥. Now, it is Tvashṭr̥ who transforms seed which is scattered. Accordingly it is he who transforms the seed now scattered 8: this is why he makes offering to Tvashṭr̥.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ देवा᳘नां प᳘त्नीर्यजति॥
प᳘त्नीषु वै यो᳘नौ रे᳘तः प्र᳘तिष्ठितं तत्त᳘तः प्र᳘जायते तत्प᳘त्नीष्वे᳘वैतद्यो᳘नौ रे᳘तः सिक्तं प्र᳘तिष्ठापयति तत्त᳘तः प्र᳘जायते त᳘स्माद्देवा᳘नां प᳘त्नीर्यजति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ देवा᳘नां प᳘त्नीर्यजति॥
प᳘त्नीषु वै यो᳘नौ रे᳘तः प्र᳘तिष्ठितं तत्त᳘तः प्र᳘जायते तत्प᳘त्नीष्वे᳘वैतद्यो᳘नौ रे᳘तः सिक्तं प्र᳘तिष्ठापयति तत्त᳘तः प्र᳘जायते त᳘स्माद्देवा᳘नां प᳘त्नीर्यजति॥
मूलम् - Weber
अ᳘थ देवा᳘नाम् प᳘त्नीर्यजति॥
प᳘त्नीषु वै यो᳘नौ रे᳘तः प्र᳘तिष्ठितं तत्त᳘तः प्र᳘जायते तत्प᳘त्नीष्वैॗवैतद्यो᳘नौ रे᳘तः सिक्तम् प्र᳘तिष्ठापयति तत्त᳘तः प्र᳘जायते त᳘स्माद्देवा᳘नाम् प᳘त्नीर्यजति॥
मूलम् - विस्वरम्
अथ देवानां पत्नीर्यजत्ति (३) । पत्नीषु वै योनौ रेतः प्रतिष्ठितं, तत्ततः प्रजायते । तत्पत्नीष्वेवैतद्योनौ रेतः सिक्तं प्रतिष्ठापयति तत्ततः प्रजायते । तस्माद् देवानां पत्नीर्यजति ॥ ११ ॥
सायणः
अथ देवानां पत्नीः । पत्नीषु वै योनाविति । पत्न्या एव ‘योनिः’ प्रजाधारणस्थानम्, तस्मिन्नेव ‘रेतः’ ‘प्रतिष्ठितम्’। ‘ततः’ एव च ‘प्रजायते’ अपत्यरूपेण; पत्नीनां योनेरेव विकृतरेतसः प्रसूतिर्भवति । ‘तत्पत्नीष्वेव’ योनिभूतासु ‘सिक्तं रेतः’ प्रतिष्ठापयति । ‘ततः’ ‘ताभ्यो’ देवानां पत्नीभ्यः ‘प्रजायते’ सर्वाः; योषितो ऽनुलक्ष्येत्यभिप्रायः ॥ ११ ॥
Eggeling
- He then makes offering to the wives of the gods. In the wives, in the womb, the seed assuredly is planted, and thence it is produced; hence he thereby plants the seed in the wives, in the womb; and thence it is produced: for this reason he makes offering to the wives of the gods.
१२
विश्वास-प्रस्तुतिः
स य᳘त्र देवा᳘नां प᳘त्नीर्य᳘जति॥
त᳘त्पुर᳘स्तात्तिरः᳘ करोत्यु᳘प ह वै ता᳘वद्देव᳘ता ऽआसते या᳘वन्न᳘ समिष्टयजुर्जु᳘ह्वतीदं नु᳘ नो जुह्वत्वि᳘ति ता᳘भ्य ऽए᳘वैत᳘त्तिरः᳘ करोति त᳘स्मादिमा᳘ मानुष्यः᳘ स्त्रि᳘यस्तिर᳘ ऽइवैव᳘ पुᳫँ᳭सो᳘ जिघत्सन्ति या᳘ ऽइव तु ता᳘ ऽइवे᳘ति ह स्माह या᳘ज्ञवल्क्यः᳘॥
मूलम् - श्रीधरादि
स य᳘त्र देवा᳘नां प᳘त्नीर्य᳘जति॥
त᳘त्पुर᳘स्तात्तिरः᳘ करोत्यु᳘प ह वै ता᳘वद्देव᳘ता ऽआसते या᳘वन्न᳘ समिष्टयजुर्जु᳘ह्वतीदं नु᳘ नो जुह्वत्वि᳘ति ता᳘भ्य ऽए᳘वैत᳘त्तिरः᳘ करोति त᳘स्मादिमा᳘ मानुष्यः᳘ स्त्रि᳘यस्तिर᳘ ऽइवैव᳘ पुᳫँ᳭सो᳘ जिघत्सन्ति या᳘ ऽइव तु ता᳘ ऽइवे᳘ति ह स्माह या᳘ज्ञवल्क्यः᳘॥
मूलम् - Weber
स य᳘त्र देवा᳘नाम् प᳘त्नीर्य᳘जति॥
त᳘त्पुर᳘स्तात्तिरः᳘ करोत्यु᳘प ह वै ता᳘वद्देव᳘ता आसते या᳘वन्न᳘ समिष्टयजुर्जु᳘ह्वतीदं नु᳘ नो जुह्वत्वि᳘ति ता᳘भ्य एॗवैत᳘त्तिरः᳘ करोति त᳘स्मादिमा᳘ मानुष्य᳘ स्त्रि᳘यस्तिर᳘ इवैव᳘ पुंसो᳘ जिघत्सन्ति या᳘ इव तु ता᳘ इवे᳘ति ह स्माह या᳘ज्ञवल्क्यः॥
मूलम् - विस्वरम्
स यत्र देवानां पत्नीर्यजति- तत्पुरस्तात्तिरः करोति । उप ह वै तावद्देवता आसते- यावन्न समिष्टयजुर्जुह्वति- इदं नु नो जुह्वत्विति । ताभ्य एवैतत्तिरः करोति । तस्मादिमा मानुष्यः स्त्रियस्तिर इवैव पुंसो जिघत्सन्ति । या इव तु ता इवेति ह स्माह याज्ञवल्क्यः ॥ १२ ॥
सायणः
स यत्र देवानाम्पत्नीः । तत्पुरस्तात्तिरः करोति अन्तर्द्धानमाहवनीयात् 7 । ताभ्य एवैतत् ‘तिरः’ अन्तर्द्धानं ‘करोति’ । ‘तस्मात्’ हेतोः ‘मानुष्यः स्त्रियः’ ‘तिर इव’ ‘पुंसः’ “अन्तर्द्धौ येनादर्शनमिच्छति”- इत्यपादानात्पञ्चमी (पा. सू. १ । ४ । २८) ‘पुंसः’- इति । पुंसः अन्तर्हिता, पुंसः अदृश्यमाना ‘जिघत्सन्ति’ भक्षयितुमिच्छन्ति । ‘या इव’- इत्यनुकारः । याः पुंसः पुरो जिघत्सन्त्यश्नन्ति स्त्रियः, ‘ना इव’ । अस्माद्यज्ञाङ्गानुकारात् ‘इत्याह याज्ञवल्क्यः’ । क्षुद्रयोषितस्तु पुंसः समक्षमप्यन्ते ऽश्नन्ति; तथैवातो ऽनुकारादित्यभिप्रायः ॥ १२ ॥
Eggeling
- When he offers to the wives of the gods, he shuts (the fire) out from view on the eastern side; for, up to the time when they offer to the samishṭayajus, the deities continue waiting, thinking, ‘This
he must offer up to us!’ He thereby conceals (this offering) from them; and accordingly Yājñavalkya says, ‘Whenever human women here eat 9 (they do so) apart from men.’
१३
विश्वास-प्रस्तुतिः
(ल्क्यो᳘ ऽथा) अ᳘थाग्निं᳘ गृह᳘पतिं यजति॥
(त्य) अयं वा᳘ ऽअग्नि᳘र्लोक᳘ ऽइम᳘मे᳘वैत᳘ल्लोक᳘मिमाः᳘ प्रजा᳘ ऽअभिप्र᳘जनयति ता᳘ ऽइमं᳘ लोक᳘मिमाः᳘ प्रजा᳘ ऽअभिप्र᳘जायन्ते त᳘स्मादग्निं᳘ गृह᳘पतिं यजति॥
मूलम् - श्रीधरादि
(ल्क्यो᳘ ऽथा) अ᳘थाग्निं᳘ गृह᳘पतिं यजति॥
(त्य) अयं वा᳘ ऽअग्नि᳘र्लोक᳘ ऽइम᳘मे᳘वैत᳘ल्लोक᳘मिमाः᳘ प्रजा᳘ ऽअभिप्र᳘जनयति ता᳘ ऽइमं᳘ लोक᳘मिमाः᳘ प्रजा᳘ ऽअभिप्र᳘जायन्ते त᳘स्मादग्निं᳘ गृह᳘पतिं यजति॥
मूलम् - Weber
अ᳘थाग्निं᳘ गृह᳘पतिं यजति॥
अयं वा᳘ अग्नि᳘र्लोक᳘ इम᳘मेॗवैत᳘ल्लोक᳘मिमाः᳘ प्रजा᳘ अभिप्र᳘जनयति ता᳘ इमं᳘ लोक᳘मिमाः᳘ प्रजा᳘ अभिप्र᳘जायन्ते त᳘स्मादग्निं᳘ गृह᳘पतिं यजति॥
मूलम् - विस्वरम्
अथाग्निं गृहपतिं यजति (४) । अयं वा अग्निर्लोकः । इममेवैतल्लोकमिमाः प्रजा अभिप्रजनयति । ता इमं लोकमिमाः प्रजा अभिप्रजायन्ते । तस्मादग्निं गृहपतिं यजति ॥ १३ ॥
सायणः
अथाग्निं गृहपतिम् । ‘अयं लोको ऽग्निः’ गृहपतिः । गार्हपत्यो हि गृहपतिः; “अयमग्निर्गार्हपत्यः”- इति वचनात्; गार्हपत्यश्चायं लोकः । ततश्च यत् ‘अग्निं’ ‘गृहपतिं यजति’ तत् ‘इमं लोकम्’ लोकोपलक्षिते देशे ‘प्रजाः प्रजनयति’ । ततश्च यज्ञानुकारेण तथैव ‘ताः प्रजायन्ते’ ॥ १३ ॥
Eggeling
- He then makes offering to Agni, the householder. Agni, indeed, is this world: hence it is for this world that he thereby produces offspring and that this offspring is produced: this is why he makes offering to Agni, the householder.
१४
विश्वास-प्रस्तुतिः
तदि᳘डान्तं भवति॥
न ह्य᳘त्र परिध᳘यो भ᳘वन्ति न᳘ प्रस्तरो य᳘त्र वा᳘ ऽअदः᳘ प्रस्तरे᳘ण य᳘जमानᳫं स्वगाकरो᳘ति प᳘तिं वा ऽअ᳘नुजाया त᳘दे᳘वास्या᳘पि प᳘त्नी स्वगा᳘कृता भवतीयसित᳘ᳫँ᳘ह कुर्याद्य᳘त्प्रस्तर᳘स्य रूपं᳘ कुर्यात्त᳘स्मादि᳘डान्तमेव᳘ स्यादु᳘तो प्रस्तर᳘स्यैव᳘ रूपं᳘ क्रियते॥
मूलम् - श्रीधरादि
तदि᳘डान्तं भवति॥
न ह्य᳘त्र परिध᳘यो भ᳘वन्ति न᳘ प्रस्तरो य᳘त्र वा᳘ ऽअदः᳘ प्रस्तरे᳘ण य᳘जमानᳫं स्वगाकरो᳘ति प᳘तिं वा ऽअ᳘नुजाया त᳘दे᳘वास्या᳘पि प᳘त्नी स्वगा᳘कृता भवतीयसित᳘ᳫँ᳘ह कुर्याद्य᳘त्प्रस्तर᳘स्य रूपं᳘ कुर्यात्त᳘स्मादि᳘डान्तमेव᳘ स्यादु᳘तो प्रस्तर᳘स्यैव᳘ रूपं᳘ क्रियते॥
मूलम् - Weber
तदि᳘डान्तम् भवति॥
न ह्य᳘त्र परिध᳘यो भ᳘वन्ति न᳘ प्रस्तरो यत्र वा᳘ अदः᳘ प्रस्तरे᳘ण य᳘जमानᳫं स्वगाकरो᳘ति प᳘तिं वा अ᳘नु जाया त᳘देॗवास्या᳘पि प᳘त्नी स्वगा᳘कृता भवतीयसित᳘ᳫं᳘ ह कुर्याद्य᳘त्प्रस्तर᳘स्य रूपं᳘ कुर्यात्त᳘स्मादि᳘डान्तमेव᳘ स्यादुॗतो प्रस्तर᳘स्यैव᳘ रूपं᳘ क्रियते॥
मूलम् - विस्वरम्
तदिडान्तं भवति । नह्यत्र परिधयो भवन्ति, न प्रस्तरः । यत्र वा अदः प्रस्तरेण यजमानं स्वगा करोति, पतिं वा अनुजाया- तदेवास्यापि पत्नी स्वगाकृता भवति । इयसितं ह कुर्याद्-यत्प्रस्तरस्य रूपं कुर्यात् । तस्मादिडान्तमेव स्यात् । उतो प्रस्तरस्यैव रूपं क्रियते ॥ १४ ॥
सायणः
तदिडान्तम् । इडान्तवत् ‘इडान्तम्’ 10 । ‘इडान्तं’ यजनान्तमित्यभिप्राप्ते, तद् इडा पत्नीसंयाजेषु विधीयते । तस्याश्च पूर्वोक्त एव विधिः । अर्थवादो ऽपि च पूर्वोक्त एवेति नोक्तः । तस्माद्यज्ञे ऽवकल्पयेत्यादि यथैव हि देवेष्विडा ऽवक्ऌप्ता, तथा स्त्रीष्वपि देवेष्वित्यभिप्रायः । “न ह्यत्र परिधयः”- इत्यादिस्तु इडाया अन्तत्वे ऽर्थवादः । तत्राभिप्रायः । अत्रापि पत्नीयज्ञे । यथैव इडा देवयज्ञे भवत्येवं सूक्तवाक-शंयुवाकाभ्यामपि भवितव्यमित्यत आह- न ह्यत्र परिधयो भवन्तीति । परिधिप्रस्तरसम्बन्धौ सूक्तवाक-शंयुवाकौ तदभावे ऽनुपपन्नावित्यभिप्रायः। ननु च प्रस्तरप्रहरणेन यजमानः स्वगाकृतो देवयज्ञः, अत्रापि यज्ञे पत्नी तथा स्वगाकर्तव्या; इतरथा तु स्वर्गाल्लोकात्सा ऽन्तरितैव स्यात् ? इत्यत आह- प्रस्तरेणेति । प्रस्तरकरणे ‘इयसितं ह कुर्यात्’ ‘इयस्’- शब्दो ऽवसानवचनः, कण्ड्वादिषु (ग. पा. ३ । १ । २७-३४) पठ्यते । अवसन्नमवसादं पत्न्याः कुर्याद्;- यजमाने गच्छति स्वर्गं लोकं पत्नी न गता, अत्रैवावसन्ना सा, अधुना यातीत्येतत्कुर्याद्; न च युक्तम्; पतिं ह्यनु च जायेत्यभिप्रायः ॥ १४ ॥
Eggeling
- This (ceremony) concludes with the iḍā 11; for here are neither enclosing-sticks nor the prastara-bunch. For on that occasion when he wishes the sacrificer good-speed (svagā) 12 by (offering) the prastara, good-speed is at the same time wished to his consort also, since the wife comes (immediately) after the husband. But were he to use a substitute for the prastara-bunch, he would produce lassitude (in the wife): for this reason this (ceremony) should conclude with the iḍā. Nevertheless a substitute for the prastara is (optionally) made.
१५
विश्वास-प्रस्तुतिः
स य᳘दि प्रस्तर᳘स्य रूपं᳘ कुर्याद्॥
(द्यु᳘) य᳘थै᳘वादः᳘ प्रस्तरे᳘ण य᳘जमानᳫं स्वगाकरो᳘त्येव᳘मे᳘वैतत्प᳘त्नीᳫं स्वगा᳘करोति॥
मूलम् - श्रीधरादि
स य᳘दि प्रस्तर᳘स्य रूपं᳘ कुर्याद्॥
(द्यु᳘) य᳘थै᳘वादः᳘ प्रस्तरे᳘ण य᳘जमानᳫं स्वगाकरो᳘त्येव᳘मे᳘वैतत्प᳘त्नीᳫं स्वगा᳘करोति॥
मूलम् - Weber
स य᳘दि प्रस्तर᳘स्य रूपं᳘ कुर्यात्॥
य᳘थैॗवादः प्रस्तरे᳘ण य᳘जमानᳫं स्वगाकरो᳘त्येव᳘मेॗवैतत्प᳘त्नीᳫं स्वगा᳘करोति॥
मूलम् - विस्वरम्
स यदि प्रस्तरस्य रूपं कुर्याद्- यथैवादः प्रस्तरेण यजमानं स्वगाकरोति- एवमेवैतत् पत्नीं स्वगा करोति ॥ १५ ॥
सायणः
स यदि प्रस्तरस्य । ‘प्रस्तरस्य’ ‘रूपं’ प्रतिनिधिं ‘कुर्यात्’, अध्वर्युणा ततः यथैवाद इति । स्वेनैव महिम्ना यजमानवत् । तां ‘स्वगाकरोति’ नाभिदध्नामानयतीत्यर्थः ॥ १५ ॥
Eggeling
- If he choose to use a substitute for the prastara, he thereby wishes the wife good-speed just as
he wishes the sacrificer good-speed by means of the prastara.
१६
विश्वास-प्रस्तुतिः
स यदि प्रस्तर᳘स्य रूपं᳘ कुर्या᳘त्॥
(द्वे) वेदस्यै᳘कं तृ᳘णमाच्छिद्या᳘ग्रं जुह्वा᳘मन᳘क्ति म᳘ध्यᳫं स्रुवे बु᳘ध्नᳫं स्थाल्याम्॥
मूलम् - श्रीधरादि
स यदि प्रस्तर᳘स्य रूपं᳘ कुर्या᳘त्॥
(द्वे) वेदस्यै᳘कं तृ᳘णमाच्छिद्या᳘ग्रं जुह्वा᳘मन᳘क्ति म᳘ध्यᳫं स्रुवे बु᳘ध्नᳫं स्थाल्याम्॥
मूलम् - Weber
स यदि प्रस्तर᳘स्य रूपं᳘ कुर्या᳘त्॥
वेदस्यै᳘कं तृ᳘णमाछिद्या᳘ग्रं जुह्वा᳘मन᳘क्ति म᳘ध्यᳫं स्रुवे बु᳘ध्नᳫं स्थाल्याम्॥
मूलम् - विस्वरम्
स यदि प्रस्तरस्य रूपं कुर्याद्- वेदस्यैकं तृणमाच्छिद्याग्रं जुह्वामनक्ति, मध्यं स्रुवे, बुध्नं स्थाल्याम् ॥ १६ ॥
सायणः
स यदि । प्रसन्ना ॥ १६ ॥
Eggeling
- If he choose to use a substitute for the prastara, he plucks out one stalk from the veda, and anoints its top in the juhū, its middle part in the aruva, and its lower end in the butter-pan.
१७
विश्वास-प्रस्तुतिः
(म᳘) अ᳘थाग्नीदाहानुप्र᳘हरे᳘ति॥
तूष्णी᳘मेवा᳘नुप्रहृत्य चक्षुष्पा᳘ ऽअग्ने ऽसि च᳘क्षुर्मे पाही᳘त्यात्मा᳘नमु᳘पस्पृशति त᳘नो ऽअ᳘प्यात्मा᳘नं᳘ नानुप्र᳘वृणक्ति᳘॥
मूलम् - श्रीधरादि
(म᳘) अ᳘थाग्नीदाहानुप्र᳘हरे᳘ति॥
तूष्णी᳘मेवा᳘नुप्रहृत्य चक्षुष्पा᳘ ऽअग्ने ऽसि च᳘क्षुर्मे पाही᳘त्यात्मा᳘नमु᳘पस्पृशति त᳘नो ऽअ᳘प्यात्मा᳘नं᳘ नानुप्र᳘वृणक्ति᳘॥
मूलम् - Weber
अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
तूष्णी᳘मेवा᳘नुप्रहृ᳘त्य चक्षुष्पा᳘ अग्ने ऽसि च᳘क्षुर्मे पाही᳘त्यात्मा᳘नमु᳘पस्पृशाते त᳘नो अ᳘प्यात्माॗनं नानुप्र᳘वृणक्ति॥
मूलम् - विस्वरम्
अथाग्नीदाह- “अनुप्रहरेति” । तूष्णीमेवानुप्रहृत्य- “चक्षुष्पा अग्ने ऽसि, चक्षुर्म्मे पाहि”- इत्यात्मानमुपस्पृशति । तेनो अप्यात्मानं नानुप्रवृणक्ति ॥ १७ ॥
सायणः
अथाग्नीदाह । स प्रस्तररूपवचनात् सूक्तवाको मा प्रापदित्याह- अथाग्नीदाहेति । यावदुक्तमेव भवति; प्रैषसामर्थ्यात्; न सूक्तवाकमाह ॥ १७ ॥
Eggeling
- The Āgnīdhra then says, ‘Throw (it) after 13!’ [The Adhvaryu] having thrown it silently after (the prastara into the fire), touches himself, with the text (Vāj. S. II, 16 f), ‘Guardian of the eye art thou, O Agni, guard mine eye!’ and in this way he avoids throwing himself after (the prastara into the fire).
१८
विश्वास-प्रस्तुतिः
(क्त्य᳘) अ᳘थाह सं᳘वदस्वेति॥
(त्य᳘) अ᳘गानग्नीद᳘गञ्छ्राव᳘य श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शंयो᳘र्ब्रूहीति॥
मूलम् - श्रीधरादि
(क्त्य᳘) अ᳘थाह सं᳘वदस्वेति॥
(त्य᳘) अ᳘गानग्नीद᳘गञ्छ्राव᳘य श्रौ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शंयो᳘र्ब्रूहीति॥
मूलम् - Weber
अ᳘थाह सं᳘वदस्वेति॥
अ᳘गानग्नीद᳘गंछ्राव᳘य औ᳘षट् स्वगा दै᳘व्या हो᳘तृभ्यः स्वस्तिर्मा᳘नुषेभ्यः शंयो᳘र्ब्रूहीति॥
मूलम् - विस्वरम्
अथाह- “संवदस्वेति-अगानग्नीद्, अगन् । श्रावय, श्रौषड् । स्वगा दैव्या होतृभ्यः, स्वस्तिर्मानुषेभ्यः, शंयोर्ब्रूहि”- इति ॥ १८ ॥
सायणः
अथाह संवदस्व । प्रसन्ना ॥ १८ ॥
Eggeling
- He (the Āgnīdhra) then says (to the Adhvaryu), ‘Discourse together!’ (The Adhvaryu says), ‘Has he gone (to the gods), Agnīdh?’ ‘He has gone!’ ‘Bid (the gods) hear!’ ‘May (one or they) hear!’ ‘Good-speed to the divine Hotr̥s! Success to the human!’ [Then the Adhvaryu to the Hotr̥], ‘Pronounce the “All-hail and blessing!”’
१९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ जुहूं᳘ च स्रुव᳘ञ्च सम्प्र᳘गृह्णाति॥
(त्य) अदो᳘ हैवा᳘हुतिं करो᳘ति य᳘दनक्त्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गच्छादि᳘ति त᳘स्माज्जुहू᳘ञ्च स्रुव᳘ञ्च सम्प्र᳘गृह्णाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ जुहूं᳘ च स्रुव᳘ञ्च सम्प्र᳘गृह्णाति॥
(त्य) अदो᳘ हैवा᳘हुतिं करो᳘ति य᳘दनक्त्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गच्छादि᳘ति त᳘स्माज्जुहू᳘ञ्च स्रुव᳘ञ्च सम्प्र᳘गृह्णाति॥
मूलम् - Weber
अ᳘थ जुहूं᳘ च स्रुवं᳘ च सम्प्र᳘गृह्णाति॥
अदो᳘ हैवा᳘हुतिं करो᳘ति य᳘दनक्त्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गछादि᳘ति त᳘स्माज्जुहूं᳘ च स्रुवं᳘ च सम्प्र᳘गृह्णाति॥
मूलम् - विस्वरम्
अथ जुहूं च स्रुवञ्च सम्प्रगृह्णाति । अदो हैवाहुतिं करोति यदनक्ति । आहुतिर्भूत्वा देवलोकं गच्छादिति तस्माज्जुहूञ्च स्रुवञ्च सम्प्रगृह्णाति ॥ १९ ॥
सायणः
अथ जुहूं च स्रुवं च सम्प्रगृह्णातीति । होतुं तत्स्थमाज्यम्; न तु चरुवत् तृणस्याहुतिकरणार्थत्वम् । किं कारणम् ? ‘अद एव’ तृणमध्वर्युः ‘आहुतिं करोति’ । ‘यत्’ तत् ‘अनक्ति’ अग्रं जुह्वामित्यादि । किमर्थं जुहुञ्च स्रुवश्च सम्प्रगृह्णाति, किमर्थं वा ऽनक्ति ? ‘आहुतिर्भूत्वा’ इदमाज्यं ‘देवलोकं गच्छादिति’ ॥ १९ ॥
Eggeling
- Thereupon 14 he (the Adhvaryu) seizes at the same time the juhū and sruva. On the former occasion 15 indeed, by anointing (the prastara), he
made (the sacrificer) an oblation, thus thinking, ‘May he go to the world of the gods as an oblation!’ For this reason he now seizes the juhū and sruva at the same time.
२०
विश्वास-प्रस्तुतिः
स वा᳘ ऽअग्न᳘ये सम्प्र᳘गृह्णाति॥
(त्य᳘) अ᳘ग्ने ऽदब्धायो ऽशीतमे᳘त्यमृ᳘तो ह्यग्निस्त᳘स्मादाहादब्धायवित्य᳘शीतमेत्य᳘शिष्ठो᳘ ह्यग्निस्त᳘स्मादाहाशीतमे᳘ति पाहि᳘ मा दिद्योः᳘ पाहि प्र᳘सित्यै पाहि दु᳘रिष्ट्यै पाहि᳘ दुरद्मन्या ऽइ᳘ति स᳘र्व्वाभ्यो मा᳘र्त्तिभ्यो गोपाये᳘त्ये᳘वैत᳘दाहाविषं᳘ नः पितुं᳘ कृण्वित्य᳘न्नं वै᳘ पितु᳘रनमीवं᳘ न ऽइद᳘मकिल्विषम᳘न्नं कुर्व्वि᳘त्येवैत᳘दाह सुष᳘दा यो᳘नावि᳘त्यात्मन्येत᳘दाह स्वा᳘हा वाडि᳘ति तद्य᳘था व्व᳘षट्कृतᳫँ᳭ हुत᳘मेव᳘मस्यैत᳘द्भवति᳘॥
मूलम् - श्रीधरादि
स वा᳘ ऽअग्न᳘ये सम्प्र᳘गृह्णाति॥
(त्य᳘) अ᳘ग्ने ऽदब्धायो ऽशीतमे᳘त्यमृ᳘तो ह्यग्निस्त᳘स्मादाहादब्धायवित्य᳘शीतमेत्य᳘शिष्ठो᳘ ह्यग्निस्त᳘स्मादाहाशीतमे᳘ति पाहि᳘ मा दिद्योः᳘ पाहि प्र᳘सित्यै पाहि दु᳘रिष्ट्यै पाहि᳘ दुरद्मन्या ऽइ᳘ति स᳘र्व्वाभ्यो मा᳘र्त्तिभ्यो गोपाये᳘त्ये᳘वैत᳘दाहाविषं᳘ नः पितुं᳘ कृण्वित्य᳘न्नं वै᳘ पितु᳘रनमीवं᳘ न ऽइद᳘मकिल्विषम᳘न्नं कुर्व्वि᳘त्येवैत᳘दाह सुष᳘दा यो᳘नावि᳘त्यात्मन्येत᳘दाह स्वा᳘हा वाडि᳘ति तद्य᳘था व्व᳘षट्कृतᳫँ᳭ हुत᳘मेव᳘मस्यैत᳘द्भवति᳘॥
मूलम् - Weber
स वा᳘ अग्न᳘ये सम्प्र᳘गृह्णाति॥
अ᳘ग्ने ऽदब्धायो ऽशीतमे᳘त्यमृ᳘तो ह्य᳘ग्निस्त᳘स्मादाहादब्धायवि᳘त्यशीतमेत्य᳘शिष्ठो ह्य᳘ग्निस्त᳘स्मादाहाशीतमे᳘ति पाहि᳘ मा दिद्योः᳘ पाहि प्र᳘सित्यै पाहि दु᳘रिष्ट्यै पाहि᳘ दुरद्मन्या इ᳘ति स᳘र्वाभ्यो मा᳘र्त्तिभ्यो गोपाये᳘त्येॗवैत᳘दाहाविषं᳘ नः पितुं᳘ कृण्वित्य᳘न्नं वै᳘ पितु᳘रनमीवं᳘ न इद᳘मकिल्विषम᳘न्नं कुर्वि᳘त्येॗवैत᳘दाह सुष᳘दा यो᳘नावि᳘त्यात्म᳘न्येत᳘दाह स्वा᳘हा वाडि᳘ति तद्य᳘था व᳘षट्कृतᳫं हुत᳘म् एव᳘मस्यैत᳘द्भवति॥
मूलम् - विस्वरम्
स वा अग्नये सम्प्रगृह्णाति- “अग्ने ऽदब्धायो ऽशीतम” इति । अमृतो ह्यग्निः । तस्मादाह- अदब्धायो- इति । अशीतम- इति । अशिष्ठो ह्यग्निस्तस्मादाह- अशीतम- इति । “पाहि मा दिद्योः, पाहि प्रसित्यै, पाहि दुरिष्ट्यै पाहि दुरद्मन्यै”- इति । सर्वाभ्यो मा आर्तिभ्यो गोपायेत्येवैतदाह । “अविषं नः पितुं कृणु”- इति । अन्नं वै पितुः अनमीवं न इदमकिल्बिषमन्नं कुर्वित्येवैतदाह । “सुषदा योनौ”- इति । आत्मन्येतदाह । “स्वाहा वाड्” (वा० सं० २।२०)- इति । तद्यथा वषट्कृतं हुतम्- एवमस्यैतद्भवति ॥ २० ॥
सायणः
स वा अग्नये । ‘अशीतमः’ 16 भोक्तृतमः (धा० पा० क्र्या० ५१) ‘अनमीवम्’ अमीवा व्याधिः, स यस्य कार्यतया नास्ति, तदनमीवम् 17 । ‘आत्मनि’ अग्नौ; दक्षिणाग्निहोमादि शाखान्तरात् 18 ॥ २०॥
Eggeling
- He seizes them for Agni, with the text (Vāj. S. II, 20 a), ‘O Agni, unimpaired in vigour, far-reacher!’ because Agni is immortal, he says, unimpaired in vigour:’ and because Agni is farthest-reaching, he says, ‘far-reacher 19.’–‘Guard me from the thunderbolt! guard me from bonds! guard me from defective sacrifice! guard me from noxious food!’ he thereby says, ‘Protect me from all kinds of injury!’–‘Make our nourishment free from poison!’–nourishment means food: ‘make our food wholesome, faultless!’ this is what he thereby says.–‘In the lap, pleasant to sit in;’ he thereby says, ‘in thyself.’–‘Svāhā! Vāṭ!’ since one offers what has been consecrated by vashaṭ,’ this (residue of butter) thereby becomes such for him.
२१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ व्वेदं प᳘त्नी व्वि᳘स्रᳫँ᳭सयति॥
यो᳘षा वै व्वे᳘दिर्व्वृ᳘षा व्वेदो᳘ मिथुना᳘य वै᳘ व्वेदः᳘ क्रियते᳘ ऽथ य᳘देनेन यज्ञ᳘ ऽउपाल᳘भते मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ व्वेदं प᳘त्नी व्वि᳘स्रᳫँ᳭सयति॥
यो᳘षा वै व्वे᳘दिर्व्वृ᳘षा व्वेदो᳘ मिथुना᳘य वै᳘ व्वेदः᳘ क्रियते᳘ ऽथ य᳘देनेन यज्ञ᳘ ऽउपाल᳘भते मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते᳘॥
मूलम् - Weber
अ᳘थ वेदम् प᳘त्नी वि᳘स्रंसयति॥
यो᳘षा वै वे᳘दिर्वृ᳘षा वेदो᳘ मिथुना᳘य वै᳘ वेदः᳘ क्रियते᳘ ऽथ य᳘देनेन यज्ञ᳘ उपाल᳘भते मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते॥
मूलम् - विस्वरम्
अथ वेदं पत्नी विस्रंसयति । योषा वै वेदिः । वृषा वेदः । मिथुनाय वै वेदः क्रियते । अथ यदेनेन यज्ञ ऽउपालभते, मिथुनमेवैतत्प्रजननं क्रियते ॥ २१ ॥
सायणः
अथ वेदं । (“पत्नी वेदं प्रमुञ्चति वेदो ऽसीति योक्त्रं च” इत्यादि का० श्रौ० सू० ३ । १५६) । विस्रंसनमुपन्यस्तमेव, अर्थवादस्तु “यद्धि युक्तं न विमुच्यते प्र तद्दह्यते”- इति (श० प० ६ का० ७ अ० ४ ब्रा० ८ कं०) गम्यमान एवेति नोक्तः । पत्न्यास्तु कर्तृत्वे ऽर्थवादं वक्ष्यति- “अथ यत्पत्नी विस्रंँसयति”- इति, (श० प० १ कां० ९ । २ । २२) अधुना विस्रंसनप्रसङ्गादुत्पत्ति-विनीयोगौ वेदस्याह । तत्रोत्पत्तिस्तावद् योषा वै वेदिरिति । विनियोगः- अथ यत् । ‘एतेन’ वेदेन ‘यज्ञे’ किञ्चित्- ‘उपालभते’ उपगृह्णाति, गृहीतमपि सत् ‘उपचर्याय’ उपकाराय सुगृहीतत्वाद् यद् गृह्णाति; यत् ‘मिथुनं क्रियते’; उपग्राह्यस्य च वेदस्येत्युपग्रहणे 20 विनियोगः । स च एकद्रव्ये इत्येतन्मिथुनवचनादेव गम्यते; नैकद्रव्ये हि कर्मणि आवृत्तौ अन्योन्यमिव मिथुनं सिद्धम् । तदपि साज्ये कर्मणि संस्रवहोमादौ वेदेनोपग्रहणम्, न सर्वत्रेत्येतच्छाखान्तरात् ॥ २१ ॥
Eggeling
- The mistress then unties the veda-bunch. The altar (vedi) assuredly is female and the veda is male. For union the veda was made: and accordingly when he touches, (the altar) with it during the sacrifice, a union productive of offspring is thereby effected.
२२
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ यत्प᳘त्नी व्विस्रᳫंस᳘यति॥
यो᳘षा वै प᳘त्नी वृ᳘षा व्वेदो᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माद्वेदं प᳘त्नी व्वि᳘स्रᳫँ᳭सयति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ यत्प᳘त्नी व्विस्रᳫंस᳘यति॥
यो᳘षा वै प᳘त्नी वृ᳘षा व्वेदो᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माद्वेदं प᳘त्नी व्वि᳘स्रᳫँ᳭सयति॥
मूलम् - Weber
अ᳘थ यत्प᳘त्नी विस्रंस᳘यति॥
यो᳘षा वै प᳘त्नी वृ᳘षा वेदो᳘ मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माद्वेदं प᳘त्नी वि᳘स्रंसयति॥
मूलम् - विस्वरम्
अथ यत्पत्नी विस्रंसयति । योषा वै पत्नी, वृषा वेदः । मिथुनमेवैतत्- प्रजननं क्रियते । तस्माद् वेद पत्नी विस्रंसयति ॥ २२ ॥
सायणः
अथ यत् पत्नी । प्रसन्ना ॥ २२ ॥
Eggeling
- And (the reason) why it is the mistress who unties the veda (is this): the mistress is female and the veda is male; consequently a union productive of offspring is thereby effected: this is why the mistress unties the veda.
२३
विश्वास-प्रस्तुतिः
सा व्वि᳘स्रᳫं᳭सयति॥
व्वे᳘दो ऽसि ये᳘न त्वं᳘ देव व्वेद देवे᳘भ्यो व्वेदो᳘ ऽभवस्ते᳘न म᳘ह्यं व्वेदो᳘ भूया ऽइ᳘ति य᳘दि य᳘जुषा चि᳘कीर्षेदेते᳘नैव᳘ कुर्यात्॥
मूलम् - श्रीधरादि
सा व्वि᳘स्रᳫं᳭सयति॥
व्वे᳘दो ऽसि ये᳘न त्वं᳘ देव व्वेद देवे᳘भ्यो व्वेदो᳘ ऽभवस्ते᳘न म᳘ह्यं व्वेदो᳘ भूया ऽइ᳘ति य᳘दि य᳘जुषा चि᳘कीर्षेदेते᳘नैव᳘ कुर्यात्॥
मूलम् - Weber
सा वि᳘स्रंसयति॥
वेॗदो ऽसि ये᳘न त्वं᳘ देव वेद देवे᳘भ्यो वेदो᳘ ऽभवस्ते᳘न म᳘ह्यं वेदो᳘ भूया इ᳘ति य᳘दि य᳘जुषा चि᳘कीर्षेदेते᳘नैव᳘ कुर्यात्॥
मूलम् - विस्वरम्
ता विस्रंसयति- “वेदो ऽसि; येन त्वं देव वेद, देवेभ्यो वेदो ऽभवः, तेन मह्यं वेदो भूयाः”- इति । यदि यजुषा चिकीर्षेद्- एतेनैव कुर्यात् ॥ २३ ॥
सायणः
सा विस्रँसयति । ‘यदि यजुषा’ कर्तुमिच्छेदिति ‘यदि’- शब्दात् पाक्षिकं वेदस्य यजुषा करणमिति गम्यते । अथ यजुषा करणचिकीर्षा ऽऽनुपपन्नेति सामर्थ्यात् पतिः कुर्यादिति । तच्च करणमासाद्याज्यनिर्वापकाले चिकीर्षति । कः पुनः कुर्यात् ? यजमानः; शाखान्तरात् “मह्यं भूयाः” इति मन्त्रलिङ्गाच्च 21 ॥ २३॥
Eggeling
- She unties it. Should she wish to do so
with a Yajus-text, let her do so with this one (Vāj. S. II, 21 a), ‘The Veda art thou: whereby thou, O divine Veda, hast become Veda for the gods, thereby mayest thou become Veda for me 22!’
२४
विश्वास-प्रस्तुतिः
(त्त) तमा वे᳘देः स᳘ᳫं᳘स्तृणाति॥
यो᳘षा वै व्वे᳘दिर्वृषा व्वेदः᳘ पश्चाद्वै᳘ परी᳘त्य व्वृ᳘षा यो᳘षाम᳘धिद्रवति पश्चा᳘दे᳘वैनामेत᳘त्परी᳘त्य व्वृ᳘ष्णा व्वेदेना᳘धिद्रावयति त᳘स्मादा व्वे᳘देः स᳘ᳫं᳘स्तृणाति॥
मूलम् - श्रीधरादि
(त्त) तमा वे᳘देः स᳘ᳫं᳘स्तृणाति॥
यो᳘षा वै व्वे᳘दिर्वृषा व्वेदः᳘ पश्चाद्वै᳘ परी᳘त्य व्वृ᳘षा यो᳘षाम᳘धिद्रवति पश्चा᳘दे᳘वैनामेत᳘त्परी᳘त्य व्वृ᳘ष्णा व्वेदेना᳘धिद्रावयति त᳘स्मादा व्वे᳘देः स᳘ᳫं᳘स्तृणाति॥
मूलम् - Weber
तमा वे᳘देः स᳘ᳫं᳘स्तृणाति॥
यो᳘षा वै वे᳘दिर्वृ᳘षा वेदः᳘ पश्चाद्वै᳘ परी᳘त्य वृ᳘षा यो᳘षाम᳘धिद्रवति पश्चा᳘देॗवैनामेत᳘त्परी᳘त्य वृ᳘ष्णा वेदेना᳘धिद्रावयति त᳘स्मादा वे᳘देः स᳘ᳫं᳘स्तृणाति॥
मूलम् - विस्वरम्
तमा वेदेः संस्तृणाति । योषा वै वोदिः । वृषा वेदः । पश्चाद्वै परीत्य वृषा योषामधिद्रवति । पश्चादेवैनामेतत् परीत्य वृष्णा वेदेनाधिद्रावयति । तस्मादा वेदेः संस्तृणाति ॥ २४ ॥
सायणः
तमा वेदेः । “स्तृणात्या वेदेः” इति (का० श्रौ० सू० ३ । १५७) । ‘आङ्’ अत्राभिविधौ, संस्तर्यते वेदिं व्याप्येति । “योषा वै वेदिर्वृषा वेदः”- इति शेषात् । वेदिं संस्तृणाति 21 समाख्यानादध्वर्युः; हौत्रे तु 23 विशेषवचनाद्धोता संस्तृणाति ॥ २४ ॥
Eggeling
- (The Hotr̥) strews it (from the Gārhapatya) as far as (the east end of) the altar 24; for the altar is female and the veda is male; and from behind the male approaches the female: from behind (i.e. west) he accordingly causes it (the altar) to be approached by that male, the veda. For this reason he strews (the grass of the veda) as far as (the east end of) the altar.
२५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ समिष्टयजु᳘र्जुहोति॥
प्रा᳘ङ्मे यज्ञो᳘ ऽनुस᳘न्तिष्ठाता ऽइत्य᳘थ य᳘द्धुत्वा᳘ समिष्टयजुः प᳘त्नीः संयाज᳘येत्प्रत्य᳘ङ्ङु है᳘वास्यैष᳘ यज्ञः स᳘न्तिष्ठेत त᳘स्माद्वा᳘ ऽएत᳘र्हि समिष्टयजु᳘र्जुहोति प्रा᳘ङ्मे य᳘ज्ञो ऽनुस᳘न्तिष्ठाता ऽइति᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ समिष्टयजु᳘र्जुहोति॥
प्रा᳘ङ्मे यज्ञो᳘ ऽनुस᳘न्तिष्ठाता ऽइत्य᳘थ य᳘द्धुत्वा᳘ समिष्टयजुः प᳘त्नीः संयाज᳘येत्प्रत्य᳘ङ्ङु है᳘वास्यैष᳘ यज्ञः स᳘न्तिष्ठेत त᳘स्माद्वा᳘ ऽएत᳘र्हि समिष्टयजु᳘र्जुहोति प्रा᳘ङ्मे य᳘ज्ञो ऽनुस᳘न्तिष्ठाता ऽइति᳘॥
मूलम् - Weber
अ᳘थ समिष्टयजु᳘र्जुहोति॥
प्रा᳘ङ्ने यज्ञो᳘ ऽनुसं᳘तिष्ठाता इत्य᳘थ य᳘द्धुत्वा᳘ समिष्टयजुः प᳘त्नीः संयाज᳘येत्प्रत्य᳘ङ्ङु हैॗवास्यैष᳘ यज्ञः सं᳘तिष्ठेत त᳘स्माद्वा᳘ एत᳘र्हि समिष्टयजु᳘र्जुहोति प्रा᳘ङ्ने यॗज्ञो ऽनुसं᳘तिष्ठाता इति॥
मूलम् - विस्वरम्
(अथ समिष्टयजुः ।)
अथ समिष्टयजुर्जुहोति- ‘प्राङ्मे यज्ञो ऽनुसन्तिष्ठाता’ इति । अथ यद्धुत्वा समिष्टयजुः पत्नीः संयाजयेत्- प्रत्यङ्ङु हैवास्यैष यज्ञः सन्तिष्ठेत । तस्माद्वा एतर्हि समिष्टयजुर्जुहोति- प्राङ्मे यज्ञो ऽनुसन्तिष्ठाता इति ॥ २५ ॥
सायणः
अथ समिष्टयजुः । “ध्रौवँ समिष्टयजुर्जुहोति देवा गातुविद इति” इति (का० श्रौ० सू० ३ । १५८) प्रसन्नाश्चतस्रः ॥ २५-२८ ॥
Eggeling
- He (the Adhvaryu) now makes the samishṭayajus-oblation, thinking, ‘In the east my sacrifice shall be completed!’ Were he to perform the samishṭayajus-oblation first and then the patnīsaṁyājas, that sacrifice of his would be completed in the west (behind the sacrificer) 25: hence he makes
the samishṭayajus-oblation at this particular time, thinking, ‘In the east my sacrifice shall be completed!’
२६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘स्मात्समिष्टयजुर्न्ना᳘म॥
या वा᳘ ऽएते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य एष᳘ यज्ञ᳘स्ताय᳘ते स᳘र्व्वा वै तत्ताः स᳘मिष्टा भवन्ति तद्यत्ता᳘सु स᳘र्व्वासु स᳘मिष्टास्व᳘थैत᳘ज्जुहोति त᳘स्मात्समिष्टयजुर्नाम᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘स्मात्समिष्टयजुर्न्ना᳘म॥
या वा᳘ ऽएते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य एष᳘ यज्ञ᳘स्ताय᳘ते स᳘र्व्वा वै तत्ताः स᳘मिष्टा भवन्ति तद्यत्ता᳘सु स᳘र्व्वासु स᳘मिष्टास्व᳘थैत᳘ज्जुहोति त᳘स्मात्समिष्टयजुर्नाम᳘॥
मूलम् - Weber
अ᳘थ य᳘स्मात्समिष्टयजुर्ना᳘म॥
या वा᳘ एते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य एष᳘ यज्ञ᳘स्ताय᳘ते स᳘र्वा वै तत्ताः स᳘मिष्टा भवन्ति तद्यत्ता᳘सु स᳘र्वासु स᳘मिष्टास्व᳘थैत᳘ज्जुहो᳘ति त᳘स्मात्समिष्टयजुर्नाम॥
मूलम् - विस्वरम्
अथ यस्मात्समिष्टयजुर्न्नाम । या वा एतेन यज्ञेन देवता ह्वयति-न्याभ्य एष यज्ञस्तायते, सर्वा वै तत्ताः समिष्टा भवन्ति । तद् यत् तासु सर्वासु समिष्टासु- अथैतज्जुहोति । तस्मात्समिष्टयजुर्नाम ॥ २६ ॥
सायणः
[व्याख्यानं पञ्चविंशतितमे]
Eggeling
- Now as to why it is called samishṭayajus 26: whatever deities he invites through this (new or full-moon) sacrifice, and for whichever deities this sacrifice is performed, all those are thereby ‘sacrificed to together’ (sam-ishṭa); and because he now makes a (butter) oblation 27 to all those deities, who have been ‘sacrificed to together,’ therefore this (oblation) is called samishṭayajus.
२७
विश्वास-प्रस्तुतिः
(मा᳘) अ᳘थ य᳘स्मात्समिष्टयजु᳘र्जुहो᳘ति॥
या वा᳘ ऽएते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य एष᳘ यज्ञ᳘स्ताय᳘त ऽउ᳘प ह वै ता᳘ ऽआसते या᳘वन्न᳘ समिष्टयजुर्जु᳘ह्वतीदं नु᳘ नो जुह्वत्वि᳘ति ता᳘ ऽए᳘वैत᳘द्यथायथं व्य᳘वसृजति य᳘त्रयत्रासां च᳘रणं तद᳘नु यज्ञं वा᳘ ऽएत᳘दजीजनत य᳘देनम᳘तत तं᳘ जनयित्वा य᳘त्रास्य प्र᳘तिष्ठा त᳘त्प्र᳘तिष्ठापयति तस्मात्समिष्टयजु᳘र्जुहोति॥
मूलम् - श्रीधरादि
(मा᳘) अ᳘थ य᳘स्मात्समिष्टयजु᳘र्जुहो᳘ति॥
या वा᳘ ऽएते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य एष᳘ यज्ञ᳘स्ताय᳘त ऽउ᳘प ह वै ता᳘ ऽआसते या᳘वन्न᳘ समिष्टयजुर्जु᳘ह्वतीदं नु᳘ नो जुह्वत्वि᳘ति ता᳘ ऽए᳘वैत᳘द्यथायथं व्य᳘वसृजति य᳘त्रयत्रासां च᳘रणं तद᳘नु यज्ञं वा᳘ ऽएत᳘दजीजनत य᳘देनम᳘तत तं᳘ जनयित्वा य᳘त्रास्य प्र᳘तिष्ठा त᳘त्प्र᳘तिष्ठापयति तस्मात्समिष्टयजु᳘र्जुहोति॥
मूलम् - Weber
अ᳘थ य᳘स्मात्समिष्टयजु᳘र्जुहो᳘ति॥
या वा᳘ एते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य एष᳘ यज्ञ᳘स्ताय᳘त उ᳘प ह वै ता᳘ आसते या᳘वन्न᳘ समिष्टयजुर्जुह्वतीदं नु᳘ नो जुह्वत्वि᳘ति ता᳘ एॗवैत᳘द्यथायथं व्य᳘वसृजति य᳘त्र यत्रासां च᳘रणं तद᳘नु यज्ञं वा᳘ एत᳘दजीजनत य᳘देनम᳘तत तं᳘ जनयित्वा य᳘त्रास्य प्रतिष्ठा तत्प्र᳘तिष्ठापयति त᳘स्मात्समिष्टयजु᳘र्जुहोति॥
मूलम् - विस्वरम्
अथ यस्मात्समिष्टयजुर्जुहोति । या वा एतेन यज्ञेन देवता ह्वयति- याभ्य एष यज्ञस्तायते, उप ह वैता आसते- यावन्न समिष्टयजुर्जुह्वति- ‘इदं नु नो जुह्वतु’ इति । ता एवैतद् यथायथं व्यवसृजति- यत्र यत्रासां चरणं तदनु । यज्ञं वा एतदजीजनत- यदेनमतत, तं जनयित्वा यत्रास्य प्रतिष्ठा तत्प्रतिष्ठापयति । तस्मात्समिष्टयजुर्जुहोति ॥ २७ ॥
सायणः
[व्याख्यानं पञ्चविंशतितमे]
Eggeling
- And again as to why he performs the samishṭayajus: whatever deities he invites through this sacrifice, and for whichever deities this sacrifice is performed, they continue waiting until the samishṭayajus is performed, thinking, ‘This he must offer to us!’ These same (deities) he thereby dismisses in due form; and whatever be the practice in their case in accordance with that he has, in thus performing it, produced the sacrifice, and having thus produced it he now establishes it safely where there is a safe basis for it: this is why he performs the samishṭayajus.
२८
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
दे᳘वा गातुवि᳘द ऽइ᳘ति गातुवि᳘दो हि᳘ देवा᳘ गातुं᳘ व्वित्त्वेति यज्ञं᳘ व्वित्त्वे᳘त्ये᳘वैत᳘दाह गातु᳘मिते᳘ति त᳘देते᳘न यथायथं व्य᳘वसृजति म᳘नसस्पत ऽइमं᳘ देवयज्ञᳫं स्वा᳘हा व्वा᳘ते धा ऽइ᳘त्ययं वै᳘ यज्ञो᳘ यो ऽयं प᳘वते त᳘दिमं᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्यैत᳘स्मिन्यज्ञे प्र᳘तिष्ठापयति यज्ञे᳘न यज्ञᳫँ᳭स᳘न्दधाति त᳘स्मादाह स्वा᳘हा वा᳘ते धा ऽइति᳘॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
दे᳘वा गातुवि᳘द ऽइ᳘ति गातुवि᳘दो हि᳘ देवा᳘ गातुं᳘ व्वित्त्वेति यज्ञं᳘ व्वित्त्वे᳘त्ये᳘वैत᳘दाह गातु᳘मिते᳘ति त᳘देते᳘न यथायथं व्य᳘वसृजति म᳘नसस्पत ऽइमं᳘ देवयज्ञᳫं स्वा᳘हा व्वा᳘ते धा ऽइ᳘त्ययं वै᳘ यज्ञो᳘ यो ऽयं प᳘वते त᳘दिमं᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्यैत᳘स्मिन्यज्ञे प्र᳘तिष्ठापयति यज्ञे᳘न यज्ञᳫँ᳭स᳘न्दधाति त᳘स्मादाह स्वा᳘हा वा᳘ते धा ऽइति᳘॥
मूलम् - Weber
स᳘ जुहोति॥
दे᳘वा गातुवि᳘द इ᳘ति गातुवि᳘दो हि᳘ देवा᳘ गातुं᳘ वित्त्वे᳘ति यज्ञं᳘ वित्त्वे᳘त्येॗवैत᳘दाह गातु᳘मिते᳘ति त᳘देते᳘न यथायथं व्य᳘वसृजति म᳘नसस्पत इमं᳘ देव यज्ञᳫं स्वा᳘हा वा᳘त्ते धा इ᳘त्ययं वै᳘ यज्ञोॗ यो ऽयम् प᳘वते त᳘दिमं᳘ यज्ञ᳘ᳫं᳘ सम्भृ᳘त्यैत᳘स्मिन्यज्ञे प्र᳘तिष्ठापयति यज्ञे᳘न यज्ञᳫं सं᳘दधाति त᳘स्मादाह स्वा᳘हा वा᳘ते धा इति॥
मूलम् - विस्वरम्
स जुहोति- “देवा गातुविदः”- इति । गातुविदा हि देवाः । “गातुं वित्वा”- इति । यज्ञं वित्वेत्येवैतदाह । “गातुमित"- इति । तदेतेन यथायथं व्यवसृजति । “मनसस्पत इमं देवयज्ञं स्वाहा वातेधाः”- (वा० सं० २ । २९) इति । अयं वै यज्ञो यो ऽयं पवते । तमिमं यज्ञं सम्भृत्यैतस्मिन् यज्ञे प्रतिष्ठापयति । यज्ञेन यज्ञं सन्दधाति । तस्मादाह- स्वाहा वाते धाः- इति ॥ २८ ॥
सायणः
[व्याख्यानं पञ्चविंशतितमे]
Eggeling
- He makes the offering, with the text (Vāj. S. II, 21 b), ‘Ye path-finding gods,’–for the gods
are indeed the finders of the path 28;–‘Having found the path–,’ thereby he says, ‘having found the sacrifice;’–‘Walk in the path!’ thereby he dismisses them in due form;–‘O divine Lord of mind, this sacrifice–Svāhā!–give to the wind!’ for the sacrifice, indeed, is that blowing one (the wind). Having accordingly prepared this (special) sacrifice, he thereby establishes it safely in that (chief, full or new-moon) sacrifice, and thus unites sacrifice with sacrifice: for this reason he says, ‘Svāhā! give (it) to the wind!’
२९
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ बर्हि᳘र्जुहोति॥
(त्य) अयं वै᳘ लोको᳘ बर्हिरो᳘षधयो बर्हिरस्मि᳘न्ने᳘वैत᳘ल्लोक ऽओ᳘षधीर्दधाति ता᳘ ऽइमा᳘ ऽअस्मिल्ँ᳘लोक ऽओ᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद्बर्हि᳘र्जुहोति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ बर्हि᳘र्जुहोति॥
(त्य) अयं वै᳘ लोको᳘ बर्हिरो᳘षधयो बर्हिरस्मि᳘न्ने᳘वैत᳘ल्लोक ऽओ᳘षधीर्दधाति ता᳘ ऽइमा᳘ ऽअस्मिल्ँ᳘लोक ऽओ᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद्बर्हि᳘र्जुहोति॥
मूलम् - Weber
अ᳘थ बर्हि᳘र्जुहोति॥
अयं वै᳘ लोको᳘ बर्हिरो᳘षधयो बर्हि᳘रस्मि᳘न्नेॗवैत᳘ल्लोक ओ᳘षधीर्दधति ता᳘ इमा᳘ अस्मिं᳘लोक ओ᳘षधयः प्र᳘तिष्ठितास्त᳘स्माद्बर्हि᳘र्जुहोति॥
मूलम् - विस्वरम्
अथ बर्हिर्जुहोति । अयं वै लोको बर्हिः । ओषधयो बर्हिः । अस्मिन्नेवैतल्लोक ओषधीर्दधाति । ता इमा अस्मिल्ँ लोक ओषधयः प्रतिष्ठिताः । तस्माद्बर्हिर्जुहोति ॥ २९ ॥
सायणः
अथ बर्हिः (“बर्हिः सम्बर्हिरिति” इति का० श्रौ० सू० ३ | १५९) । ‘अयं वै लोको बर्हिः’ “बृहि वृद्धौ” (धा० पा० भ्वा० प० ७३७) परिवृद्धो ऽयं लोकः । ततः कियदेतद्बर्हिःशब्दवाच्यता ओषधिवाच्यता च ? बर्हिःशब्दवाच्यांशेन ‘तद् बर्हिरयं लोकः’ तस्यापि बर्हिःशब्दकत्वात्, ओषधित्वांशेन तत्सर्वा ‘ओषधयः’ । ततश्च यद् ‘बर्हिः’ अधियज्ञं ‘जुहोति’, तत् ‘एतल्लोके’ ‘ओषधीः’ बर्हिष ओषध्यात्मकत्वात् ‘दधाति’; तत्रेदं तथैव दृश्यते ॥ २९ ॥
Eggeling
- He then offers up the barhis, The barhis, truly, is this world, and the barhis (consists of) plants: hence he thereby bestows plants on this world, and these plants are safely established in this world: for this reason he offers up the barhis.
३०
विश्वास-प्रस्तुतिः
तां वा ऽअ᳘तिरिक्तां जुहोति॥
समिष्टयजु᳘र्ह्येवा᳘न्तो यज्ञ᳘स्य य᳘द्ध्यूर्द्ध᳘ᳫँ᳘ समिष्टयजुषो᳘ ऽतिरिक्तं त᳘द्यदा हि᳘ समिष्टयजु᳘र्जुहोत्य᳘थैता᳘भ्यो जुहोति त᳘स्मादिमा ऽअ᳘तिरिक्ता ऽअ᳘सम्मिता ऽओ᳘षधयः प्र᳘जायन्ते॥
मूलम् - श्रीधरादि
तां वा ऽअ᳘तिरिक्तां जुहोति॥
समिष्टयजु᳘र्ह्येवा᳘न्तो यज्ञ᳘स्य य᳘द्ध्यूर्द्ध᳘ᳫँ᳘ समिष्टयजुषो᳘ ऽतिरिक्तं त᳘द्यदा हि᳘ समिष्टयजु᳘र्जुहोत्य᳘थैता᳘भ्यो जुहोति त᳘स्मादिमा ऽअ᳘तिरिक्ता ऽअ᳘सम्मिता ऽओ᳘षधयः प्र᳘जायन्ते॥
मूलम् - Weber
तां वा अ᳘तिरिक्तां जुहोति॥
समिष्टयजुॗर्ह्येवान्तो यज्ञ᳘स्य यॗद्ध्यूर्ध्व᳘ᳫं᳘ समिष्टयजुषो᳘ ऽतिरिक्तं त᳘द्यदा हि᳘ समिष्टयजु᳘र्जुहोत्य᳘थैता᳘भ्यो जुहोति त᳘स्मादिमा अ᳘तिरिक्ता अ᳘सम्मिता ओ᳘षधयः प्र᳘जायन्ते॥
मूलम् - विस्वरम्
तां वा अतिरक्तां जुहोति । समिष्टयजुर्ह्येवान्तो यज्ञस्य । यद्ध्यूर्द्धं समिष्टयजुषः- अतिरिक्तं तत् । यदा हि समिष्टयजुर्जुहोति- अथैताभ्यो जुहोति । तस्मादिमा अतिरिक्ता असम्मिता ओषधयः प्रजायन्ते ॥ ३० ॥
सायणः
तां वा अतिरिक्ताम् । बर्हिराहुतिं यज्ञात् ‘अतिरिक्तां जुहोति’ । कथम् ? ‘समिष्टयजुर्ह्येवान्तो यज्ञस्य; तद्धि देवताविसर्जनार्थमित्यभिप्रायः 29 । ततश्च या ‘ऊर्द्ध्वं समिष्टयजुषः’ सा ऽतिरिक्ता, तृप्तासु गतासु च देवतासु । ‘यदा हि’- ‘हि’ शब्दः ‘च’- शब्दार्थे; यदा च ‘समिष्टयजुर्जुहोति’, ‘अथ’ अनन्तरम् ‘एताभ्यः’ ओषधिभ्यः । “तादर्थ्ये चतुर्थी” (पा० सू० २ । ३ । १३ वा० १) ओषधयो ऽस्मिल्ँ लोके कथं नाम भविष्यन्तीत्येवमर्थं ‘जुहोति’ ॥ ३० ॥
Eggeling
- This offering he makes as an additional one, since the samishṭayajus is the end of the sacrifice, and consequently what comes after the samishṭayajus is additional; and because, in performing the samishṭayajus, he offers to those (deities 30), and thence additional unlimited plants are here produced.
३१
विश्वास-प्रस्तुतिः
स᳘ जुहोति॥
स᳘म्बर्हि᳘रङ्क्ताᳫं हवि᳘षा घृते᳘न स᳘मादित्यैर्व्वसुभिः स᳘म्मरु᳘द्भिः॥ समि᳘न्द्रो व्विश्वे᳘देवेभिरङ्क्तां दिव्यं न᳘भो गच्छतु यत्स्वाहेति᳘॥
मूलम् - श्रीधरादि
स᳘ जुहोति॥
स᳘म्बर्हि᳘रङ्क्ताᳫं हवि᳘षा घृते᳘न स᳘मादित्यैर्व्वसुभिः स᳘म्मरु᳘द्भिः॥ समि᳘न्द्रो व्विश्वे᳘देवेभिरङ्क्तां दिव्यं न᳘भो गच्छतु यत्स्वाहेति᳘॥
मूलम् - Weber
स᳘ जुहोति॥
स᳘म् बर्हि᳘रङ्क्ताᳫं हवि᳘षा घृते᳘न स᳘मादित्यैर्व᳘सुभिः स᳘म् मरु᳘द्भिः समि᳘न्द्रो विश्व᳘देवेभिरङ्क्तां दिव्यं न᳘भो गछतु यत्स्वाहेति॥
मूलम् - विस्वरम्
स जुहोति- “सं बर्हिरङ्क्तां हविषा घृतेन, समादित्यैर्वसुभिः सम्मरुद्भिः । समिन्द्रो विश्वेदेवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा”- (वा० सं० २ । २२) इति ॥ ३१ ॥
सायणः
स जुहोति । प्रसन्ना ॥ ३१ ॥
Eggeling
- He offers it, with the text (Vāj. S. II, 22), ‘May the barhis combine with the sacrificial food, with the butter! May Indra combine with the Ādityas, the Vasus, the Maruts, and the Viśve Devāḥ! May what (has been offered with) “Svāhā” go up to the heavenly ether 31!’
३२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प्र᳘णीता दक्षिणतः᳘ परी᳘त्य नि᳘नयति॥
युङ्क्ते वा᳘ ऽएत᳘द्यज्ञं य᳘देनं तनुते स यन्न᳘ निन᳘येत्प᳘राङु हा᳘विमुक्त ऽएव᳘ यज्ञो य᳘जमानं प्र᳘क्षिणीयात्त᳘थो ह यज्ञो य᳘जमानं न प्र᳘क्षिणाति त᳘स्मात्प्र᳘णीता दक्षिणतः᳘ परी᳘त्य नि᳘नयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प्र᳘णीता दक्षिणतः᳘ परी᳘त्य नि᳘नयति॥
युङ्क्ते वा᳘ ऽएत᳘द्यज्ञं य᳘देनं तनुते स यन्न᳘ निन᳘येत्प᳘राङु हा᳘विमुक्त ऽएव᳘ यज्ञो य᳘जमानं प्र᳘क्षिणीयात्त᳘थो ह यज्ञो य᳘जमानं न प्र᳘क्षिणाति त᳘स्मात्प्र᳘णीता दक्षिणतः᳘ परी᳘त्य नि᳘नयति॥
मूलम् - Weber
अ᳘थ प्र᳘णीता दक्षिणतः᳘ परी᳘त्य नि᳘नयति॥
युङ्क्ते वा᳘ एत᳘द्यज्ञं य᳘देनं तनुते स यन्न᳘ निन᳘येत्प᳘राङु हा᳘विमुक्त एव᳘ यज्ञो य᳘जमानम् प्र᳘क्षिणीयात्त᳘थो ह यज्ञो य᳘जमानं न प्र᳘क्षिणाति त᳘स्मात्प्र᳘णीता दक्षिणतः᳘ परी᳘त्य नि᳘नयति॥
मूलम् - विस्वरम्
अथ प्रणीता दक्षिणतः परीत्य निनयति । ‘युङ्क्ते वा एतद् यज्ञम्’- यदेनं तनुते । स यन्न निनयेत्- पराङु हाविमुक्त एव यज्ञो यजमानं प्रक्षिणीयात् । तथो ह यज्ञो यजमानं न प्रक्षिणाति । तस्मात्प्रणीता दक्षिणतः एव परीत्य निनयति ॥ ३२ ॥
सायणः
अथ प्रणीताः । (१२ । ५ । २ । ७ इत्यत्र प्रणीताप्रणयनं वक्ष्यति) अध्यर्युरुत्तरपार्श्वाद् दक्षिणपार्श्वं वेदेः (आहवनीयं प्रदक्षिणतो) गत्वा स्वदेशे ऽवस्थिता एव ‘प्रणीताः’ ‘निनयति’ नीचैर्नयति, भूमौ पर्यस्यतीत्यर्थः । ‘युङ्क्ते वा’ इति निनयनार्थवादः । ‘दक्षिणतः’ इत्येतस्य तु “तथा ह्युदग् भवति” इत्यर्थवादं वक्ष्यति (श० प० १ । ९ । ३ । १) ‘पराङ्’ अनावृत्तो ‘यज्ञो यजमानं प्रक्षिणीयात्’ “क्षि हिंसायाम्” (क्र्या० प० २८) हिंस्यात् । ‘तथा’ नीयमानासु प्रणीतासु ‘न प्रक्षिणाति’ न हिनस्ति ॥ ३२ ॥
Eggeling
- Having thereupon walked round (from the
north side of the Āhavanīya fire) to the south, he pours the praṇītā-water 32 out (on the altar). Now, when he spreads the sacrifice, he yokes it. But were he not to pour out (the praṇītā-water), the sacrifice, being unyoked, would, in moving backward, injure the sacrificer. In this way, however, the sacrifice does not injure the sacrificer; and for this reason he pours out the praṇītā-water, after walking round to the south.
३३
विश्वास-प्रस्तुतिः
स नि᳘नयति॥
क᳘स्त्वा व्वि᳘मुञ्चति स᳘ त्वा व्वि᳘मुञ्चति क᳘स्मै त्वा व्वि᳘मुञ्चति त᳘स्मै त्वा व्वि᳘मुञ्चति पो᳘षाये᳘ति तत्पु᳘ष्टिमुत्तमां य᳘जमानाया नि᳘राह स ये᳘नैव᳘ प्रण᳘यति ते᳘न नि᳘नयति ये᳘न᳘ ह्येव यो᳘ग्यं युञ्ज᳘न्ति ते᳘न व्वि᳘मुञ्चन्ति यो᳘क्त्रेण हि यो᳘ग्यं युञ्ज᳘न्ति यो᳘क्त्रेण व्वि᳘मुञ्चन्त्य᳘थ फलीक᳘रणान्कपा᳘लेना᳘धो ऽधः कृष्णाजिनमु᳘पास्यति र᳘क्षसां भा᳘गो ऽसी᳘ति॥
मूलम् - श्रीधरादि
स नि᳘नयति॥
क᳘स्त्वा व्वि᳘मुञ्चति स᳘ त्वा व्वि᳘मुञ्चति क᳘स्मै त्वा व्वि᳘मुञ्चति त᳘स्मै त्वा व्वि᳘मुञ्चति पो᳘षाये᳘ति तत्पु᳘ष्टिमुत्तमां य᳘जमानाया नि᳘राह स ये᳘नैव᳘ प्रण᳘यति ते᳘न नि᳘नयति ये᳘न᳘ ह्येव यो᳘ग्यं युञ्ज᳘न्ति ते᳘न व्वि᳘मुञ्चन्ति यो᳘क्त्रेण हि यो᳘ग्यं युञ्ज᳘न्ति यो᳘क्त्रेण व्वि᳘मुञ्चन्त्य᳘थ फलीक᳘रणान्कपा᳘लेना᳘धो ऽधः कृष्णाजिनमु᳘पास्यति र᳘क्षसां भा᳘गो ऽसी᳘ति॥
मूलम् - Weber
स नि᳘नयति॥
क᳘स्त्वा वि᳘मुञ्चति स᳘ त्वा वि᳘मुञ्चति क᳘स्मै त्वा वि᳘मुञ्चति त᳘स्मै त्वा वि᳘मुञ्चति पो᳘षाये᳘ति तत्पु᳘ष्टिमुत्तमां य᳘जमानाया नि᳘राह स ये᳘नैव᳘ प्रण᳘यति ते᳘न नि᳘नयति ये᳘नॗ ह्येव यो᳘ग्यं युञ्ज᳘न्ति ते᳘न वि᳘मुञ्चन्ति यो᳘क्त्रेण हि यो᳘ग्यं युञ्जन्ति यो᳘क्त्रेण वि᳘मुञ्चन्त्य᳘थ फलीक᳘रणाङ्कप᳘:लेनाॗधो ऽधः कृष्णाजिनमु᳘पास्यति र᳘क्षसाम् भाॗगो ऽसी᳘ति॥
मूलम् - विस्वरम्
स निनयति- “कस्त्वा विमुञ्चति स त्वा विमुञ्चति, कस्मै त्वा विमुञ्चति तस्मै त्वा विमुञ्चति, पोषाय”- इति । तत्पुष्टिमुत्तमां यजमानाय निराह । स येनैव प्रणयति- तेन निनयति । येन ह्येव योग्यं युञ्जन्ति- तेन विमुञ्चन्ति । योक्त्रेण हि योग्यं युञ्जन्ति- योक्त्रेण विमुञ्चन्ति । अथ फलीकरणान् कपालेनाधो ऽधः कृष्णाजिनमुपास्यति । “रक्षसां भागो ऽसि”- (वा० सं० २ | २३ ।) इति ॥ ३३ ॥
सायणः
स निनयति । (“वेद्यां प्रणीतानि नयति परीत्य कस्त्वेति" इति का० श्रौ० सू० ३ । १६०) तत्पुष्टिगुत्तमामिति । पुष्टेर्हेतुरापः, तासु निरस्यमानासु मा भूत् पुष्टेर्न्निरासस्तेन पुष्टिं निराह- उत्तमामिति । आध्वर्यवस्यान्ते इत्यर्थः । आध्वर्यवे शिष्टम् तच्च रक्षोनिरासप्रधानयागादि; ततश्च निनयनमेवाध्वर्योर्यज्ञे उक्तमित्यभिप्रायः । स येनैव प्रणयतीति । कस्त्वेत्येताभिरनिरुक्ताभिर्व्याहृतिभिरित्यभिप्रायः । अथ फलीकरणान् कपालेनाधो ऽधः । फलीक्रियन्ते तण्डुला एभिरिति फलीकरणा अङ्गीभवन्ति तण्डुलनिष्पत्तौ “अभूततद्भावे” (पा० सू० ५ । ४ । ५० । वा० १.) “कृभ्वस्तियोगे सम्पद्यकर्तरि च्चिः”- (पा० सू० ५ । ४ । ५०) ‘फलीकरणान्’ तण्डुलादीन् ‘उपास्यति’ उत्क्षिपति उत्करे । ‘कपालेन’ मध्यमेन प्रथमं नातिक्रामेदिति ‘अधो ऽधः’ अधस्तान्नातिदूरे ‘कृष्णाजिनम्’- इति, ‘अधो ऽध इत्येतद्योगनिमित्ता द्वितीया- (पा० सू० २। ३ । वा० ३) । कृष्णाजिनस्याधस्तात्, समीप इत्यर्थः “पुरोडाशकपालेन कणानपास्यत्यधः कृष्णाजिनᳫंरक्षसामिति” (का० श्रौ० सू० ३ । १६१) ॥ ३३ ॥
Eggeling
- He pours it out, with the text (Vāj. S. II, 23 a), ‘Who 33 unyokes thee? He unyokes thee! For whom does he unyoke thee? For him he unyokes thee! For plenty!’ He thereby announces to the sacrificer the highest prosperity. He pours it out with the same (vessel) with which he brings it forward; for wherewith they yoke the team, therewith they also unyoke it; with the yoke-tie they yoke it, and with the yoke-tie they unyoke it. By means of a potsherd he now throws the refuse from the cleaning of the rice 34 right under the black antelope skin; with the text (Vāj. S. II, 23 b), ‘The Rakshas’ share art thou!’
३४
विश्वास-प्रस्तुतिः
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिर ऽएत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संव्वत्स᳘रे ऽस्मा᳘कमय᳘म्भविष्यत्यस्मा᳘कमय᳘म्भविष्यती᳘ति॥
मूलम् - श्रीधरादि
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिर ऽएत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संव्वत्स᳘रे ऽस्मा᳘कमय᳘म्भविष्यत्यस्मा᳘कमय᳘म्भविष्यती᳘ति॥
मूलम् - Weber
देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिर एत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संवत्सॗरे ऽस्मा᳘कमय᳘म् भविष्यत्यस्मा᳘कमय᳘म् भविष्यती᳘ति॥
मूलम् - विस्वरम्
देवाश्च वा असुराश्च- उभये प्राजापत्याः पस्पृधिरे एतस्मिन्यज्ञे प्रजापतौ पितरि संवत्सरे- ‘अस्माकमयम्भविष्यत्यस्माकमयम्भविष्यति’ इति ॥ ३४ ॥
सायणः
देवाश्च वै । प्रसन्ना ॥ ३४ ॥
Eggeling
- Now the gods and the Asuras, both of them sprung from Prajāpati, were contending about this sacrifice, (that is, their) father Prajāpati, the year. ‘Ours it (he) shall be! ours it shall be,’ they said.
३५
विश्वास-प्रस्तुतिः
त᳘तो देवाः॥
स᳘र्व्वं यज्ञ᳘ᳫं᳘ संव्वृज्या᳘थ यत्पा᳘पिष्ठं यज्ञ᳘स्य भागधे᳘यमा᳘सीत्ते᳘नैनान्नि᳘रभजन्नस्ना᳘ पशोः᳘ फलीक᳘रणैर्हविर्यज्ञात्सु᳘निर्भक्ता ऽअसन्नि᳘त्येष वै सु᳘निर्भक्तो यं᳘ भागि᳘नं निर्भ᳘जन्त्य᳘थ य᳘मभागं᳘ निर्भ᳘ज᳘न्त्यैव स ता᳘वच्छᳫँ᳭सत ऽउत हि व्व᳘शे लब्ध्वा᳘ह किं᳘ मा बभक्थे᳘ति स य᳘मे᳘वैभ्यो देवा᳘ भागम᳘कल्पयंस्त᳘मे᳘वैभ्य ऽएष᳘ एत᳘द्भागं᳘ करोत्य᳘थ य᳘द᳘धो ऽधः कृष्णाजिन᳘मुपा᳘स्यत्यनग्ना᳘वे᳘वैभ्य ऽएत᳘दन्धे त᳘मसि प्र᳘वेशयति त᳘थो ऽएवा᳘सृक्पशो र᳘क्षसां भा᳘गो ऽसी᳘त्यनग्ना᳘वन्धे त᳘मसि प्र᳘वेशयति त᳘स्मात्पशो᳘स्तेदनीं न᳘ कुर्व्वन्ति र᳘क्षसाᳫं हि स᳘ भागः॥
मूलम् - श्रीधरादि
त᳘तो देवाः॥
स᳘र्व्वं यज्ञ᳘ᳫं᳘ संव्वृज्या᳘थ यत्पा᳘पिष्ठं यज्ञ᳘स्य भागधे᳘यमा᳘सीत्ते᳘नैनान्नि᳘रभजन्नस्ना᳘ पशोः᳘ फलीक᳘रणैर्हविर्यज्ञात्सु᳘निर्भक्ता ऽअसन्नि᳘त्येष वै सु᳘निर्भक्तो यं᳘ भागि᳘नं निर्भ᳘जन्त्य᳘थ य᳘मभागं᳘ निर्भ᳘ज᳘न्त्यैव स ता᳘वच्छᳫँ᳭सत ऽउत हि व्व᳘शे लब्ध्वा᳘ह किं᳘ मा बभक्थे᳘ति स य᳘मे᳘वैभ्यो देवा᳘ भागम᳘कल्पयंस्त᳘मे᳘वैभ्य ऽएष᳘ एत᳘द्भागं᳘ करोत्य᳘थ य᳘द᳘धो ऽधः कृष्णाजिन᳘मुपा᳘स्यत्यनग्ना᳘वे᳘वैभ्य ऽएत᳘दन्धे त᳘मसि प्र᳘वेशयति त᳘थो ऽएवा᳘सृक्पशो र᳘क्षसां भा᳘गो ऽसी᳘त्यनग्ना᳘वन्धे त᳘मसि प्र᳘वेशयति त᳘स्मात्पशो᳘स्तेदनीं न᳘ कुर्व्वन्ति र᳘क्षसाᳫं हि स᳘ भागः॥
मूलम् - Weber
त᳘तो देवाः॥
स᳘र्वं यज्ञ᳘ᳫं᳘ संवृज्या᳘थ यत्पा᳘पिष्ठं यज्ञ᳘स्य भागधे᳘यमा᳘सीत्ते᳘नैनान्नि᳘रभजन्नस्ना᳘ पशोः᳘ फलीक᳘रणैर्हविर्यज्ञात्सु᳘निर्भक्ता असन्नि᳘त्येष वै सु᳘निर्भक्तो य᳘म् भागि᳘नं निर्भ᳘जन्त्य᳘थ य᳘मभागं᳘ निर्भ᳘जॗन्त्यैव 35 स ता᳘वछंसत उत हि व᳘शो लब्ध्वा᳘ह कि᳘म् मा बभक्थे᳘ति स य᳘मेॗवैभ्यो देवा᳘ भागम᳘कल्पयंस्त᳘मेॗवैभ्य एष एत᳘द्भागं᳘ करोत्य᳘थ य᳘दॗधो ऽधः कृष्णाजिन᳘मुपा᳘स्यत्यनग्ना᳘वेॗवैभ्य एत᳘दन्धे त᳘मसि प्र᳘वेशयति त᳘थो एवा᳘सृक्पशो र᳘क्षसाम् भाॗगो ऽसी᳘त्यनग्ना᳘वन्धे त᳘मसि प्र᳘वेशयति त᳘स्मात्पशो᳘स्तेदनीं न᳘ कुर्वन्ति र᳘क्षसाᳫं हि स᳘ भगः॥
मूलम् - विस्वरम्
ततो देवाः सर्वं यज्ञं संवृज्य, अथ यत् पापिष्ठं यज्ञस्य भागधेयमासीत्- तेनैनान्निरभजन्- अस्ना पशोः फलीकरणैर्हविर्यज्ञात्- सुनिर्भक्ता असन्निति । एष वै सुनिर्भक्तो यं भागिनं निर्भजन्ति । अथ यम् अभागं निर्भजन्ति- ऐव स तावच्छंसते । उत हि वशे लब्ध्वाह-‘किं मा बभक्थ’ इति । स यमेवैभ्यो देवा भागमकल्पयन्- तमेवैभ्य एष एतद्भागं करोति । अथ यदधो ऽधः कृष्णाजिनमुपास्यति- अनग्नावेवैभ्य एतदन्धे तमसि प्रवेशयति । तथो एवासृक् पशोः “रक्षसां भागो ऽसि”- इति- अनग्नावन्धे तमसि प्रवेशयति । तस्मात् पशोस्तेदनीं न कुर्वन्ति । रक्षसां हि स भागः ॥ ३५ ॥
सायणः
ततो देवाः । ‘सर्वं यज्ञं’ हविर्यज्ञाख्यम्, ‘संवृज्य’ समाप्तिपूर्वं संहृत्य । अथेति । ‘अथ’ अनन्तरम् । ‘भागधेयं’ भाग एव भागधेयम्; स्वार्थिको धेयः “भागरूपनामभ्यो धेयः" इति (पा० सू० ६ । ४ । ३ ६ । वा० २) । ‘तेन’ भागधेयेन पापिष्ठेन ‘एनान्’ असुरान् ‘निरभजन्’ निर्भक्तवन्तः; बहिर्यज्ञाद् कृतवन्तः । केन, कस्मात् ? आह- “अस्ना पशोः” । असृक्शब्दस्य असन्नादेशः (पा० सू० ६ । १ । ६३) ‘अस्ना’ लोहितेन ‘पशोः’ ‘निरभजन्’ । ‘फलीकरणैः’ पाण्डुरभागैः ‘हविर्यज्ञात् निर्भजन्तो ऽभूवन् ‘एष सुनिर्भक्तः’ ‘भागिनं’ स्वल्पभागेनापि भक्तम् । ‘अभागं’ भागमदत्त्वा यं ‘निर्भजन्ति’ ‘सः’ भागी प्रथमम् ‘शंसते’ एव । ‘उत’ अपि । अबलो हि बलवतां वशे भवति । ‘लब्ध्वा’ आसाद्य ‘आह’ ब्रूते- कुतश्चित्कालपर्यायात् । ‘किं’ त्वं ‘मा’ मां ‘बभक्थ’, मनसि किं मह्यं त्वया दत्तमित्यर्थः । यं ‘भागम्’ ‘एभ्यः’ रक्षोभ्यः ‘देवाः’ ‘अकल्पयन्’ कल्पितवन्तः । ‘उपास्यति’ समीपे प्रक्षिपति । अग्निहीने ‘अन्धे तमसि’ ‘प्रवेशयति’ ‘तथा’ ‘पशोः असृक्’ अपि । तस्मादिति । तेदनीकरणाभावेन रक्षोभागः । तेदनीकरणेन लोहितं सिद्धम् ॥ ३५ ॥ ३ । [९. २] ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमादित्यभूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छात्तपथीं श्रुतिम् ॥
इत्याचार्यहरिस्वामिनः कृतौ शतपथभाष्ये हविर्यज्ञेषु नवमाध्यायस्य द्वितीयं ब्राह्मणम् ।
Eggeling
- Thereupon the gods obtained possession of the whole of the sacrifice, and dispossessed those
(Asuras) of it by (giving them) what was the worst part of the sacrifice, to wit, with the blood of the victim (they dispossessed them) of the animal sacrifice, and with the refuse of the rice of the haviryajña. ‘May they be duly dispossessed of the sacrifice,’ they thought for he indeed is duly dispossessed, who is dispossessed even while obtaining a (worthless) share. He, on the other hand, who is dispossessed without any share whatever, hopes for a while, and when it occurs to him, he says, ‘What share hast thou given me?’ Hence what share the gods set apart for those (Asuras), that same share he now makes over to them in pouring (the refuse of the rice) right under the black antelope skin. He thereby casts it into blind darkness, where there is no (sacrificial) fire. And in the same way he casts the blood of the victim into blind darkness, where there is no fire; thinking, ‘Thou art the Rakshas’ share!’ For this reason they use not the gore of the victim (for sacrificial purposes), since it is the Rakshas’ share.
-
“पत्नीसंयाजेभ्यो गार्हपत्यं गच्छन्ति” इत्यादीनि सूत्राण्यालोच्यानि का. श्रौ. सू. ३ । १४०-१४३॥ ↩︎
-
256:1 The meaning of the term seems to be ‘offerings made (to some deities) along with the wives (of the gods);’ the deities to whom the four offerings are made, being Soma, Tvashṭr̥, the Devapatnyaḥ (wives of the gods), and Agni Gr̥hapati. ↩︎
-
256:2 The lady of the house occupies a seat south-west of the Gārhapatya fire. See I, 3, 1, 12. The Adhvaryu now sits down with raised knees (south of her, with his face to the north-east). Kāty. III, 7, 5. The Āgnīdhra sits down in the same way north of the fire, with his face to the south, and the Hotr̥ in the middle; cf. Hillebrandt, Neu- and Vollm. p. 151. ↩︎
-
257:1 Or, ‘is produced from the hind-part of the sacrifice,’ i.e. from the sacrificer’s wife, seated behind the altar, see par. 3. ↩︎
-
“चतस्रो ऽवान्तरदिशः, त एव चत्वारः पत्नीसंयाजाः” इत्यादि- इहैवोपरिष्टात् (११ । १ । ६ । २७) इत्यत्र द्रष्टव्यम् ॥ ↩︎
-
258:1 The Adhvaryu calls on the Hotr̥: ‘For Soma (Tvashṭr̥, &c. respectively)’ (in a low voice)–‘recite!’ (aloud). The Hotr̥ then recites the invitatory prayer (anuvākyā, for which see Āśv. Śr. I, 10, 5) in a low voice, except the concluding ‘om!’ which he pronounces aloud. The Adhvaryu now calls on the Āgnīdhra, who responds with ‘Astu śraushaṭ.’ Thereupon the Adhvaryu calls on the Hotr̥; ‘For Soma,’ &c. (in a low voice),–‘pronounce the offering prayer!’ (aloud); and the Hotr̥ recites the yājyā, in a low voice, except the concluding ‘Vaushaṭ,’ which is pronounced aloud, and simultaneously with which the Adhvaryu pours the oblation (consisting of four ladlings of butter from the butter-pot into the juhū, by means of the sruva) into the fire. ↩︎
-
निरु. ८। २ । १०, ११, १२; १० । ३ । १० इत्येतेषु खण्डेषु व्याख्यातः । ↩︎ ↩︎
-
258:2 He does so in his capacity of divine artificer and architect. ↩︎
-
259:1 Jighatsanti, ’eat greedily, swallow their food.’ The Kāṇva text does not mention Yājñavalkya, but merely says, ‘hence women also here swallow their food apart from men.’ ↩︎
-
“शंय्वन्तं भवतीडान्तं वा” इति का. श्रौ. सू. ३ । १४९ ॥ ↩︎
-
259:2 The iḍā-ceremony (I, 8, 1, 18) is repeated after the patnīsaṁyājas, together with the Śaṁyuvāka and the offering of remains, but with special reference to the mistress of the house. Since the prastara-bunch and the enclosing-sticks have already been consumed by the fire, the Sūktavāka is omitted on the present occasion; the Adhvaryu merely throwing a stalk of the reed-grass of the veda into the fire, as a substitute for the stalk of the prastara (representing the sacrificer). ↩︎
-
259:3 See I, 8, 3, 11 seq. ↩︎
-
260:1 See I, 8, 3, 19 seq. ↩︎
-
260:2 That is, after the Hotr̥ has again recited the Saṁyuvāka, in the same way as above, I, 9, I, 26-29. ↩︎
-
260:3 Viz. at the offering of the remains of butter (I, 8, 3, 23), of which the present ceremony is the counterpart. Dr. Hillebrandt, Neu- and Vollm. p. 160, (after a scholiast) calls this modification Pragraha-homa (offered to Agni adabdhāyu aśītama). According to Kāty. III, 7, 18; 19, this ceremony is followed by the performance, in the Dakshiṇa fire, of two (juhoti) oblations of butter, to Agni saṁveśapati and Sarasvatī respectively (see the formulas Vāj. S. II, 20, b, c); and the pishṭalepa-āhuti to the Viśve Devāḥ, being an offering of the remnants of dough, left from the preparation of the sacrificial cakes. These offerings would then be succeeded by the ceremonies treated in par. 22 seq. ↩︎
-
‘अश्नाति भुंक्ते इत्यशी अतिशयेनाशी आशितमः । दीर्घश्छान्दस’ इति वा. सं. २ । २० महीधरभाष्योक्तेः । “अग्नयं संवेशपतये स्वाहा । सरस्वत्यै यशोभगिन्यै स्वाहा”- मन्त्रस्त्वेतावन्मात्रः । ↩︎
-
“शंय्वन्ते स्रुक्स्रुवं प्रगृह्णात्यग्नेदब्धायविति” इति का. श्रा. सू. ३ । १५३ ॥ ↩︎
-
“सव्येनावृत्य दक्षिणाग्नौ जुहोत्यग्नये सरस्वत्या इति च” इति का. श्रौ. सू. ३ । ५४ ॥ “पिष्टलेपाजुहोति” का. श्रौ. सू. ३ । १५५ ॥ इत्यादि ॥ ↩︎
-
261:1 Harisvāmin derives aśītama and aśishṭḥa from aś, ’to eat’ (instead of from aś, ’to reach, penetrate’), hence ’the greatest eater.’ Mahīdhara gives both derivations. ↩︎
-
“एकद्रव्ये साज्ये वेदेनोपग्रहणं”-“स्फ्येनान्यत्र”- “कुशैरसत्सु” का श्रौ. सू. १ । १० । ६ । ७ । ८ ॥ ↩︎
-
262:1 According to Katy. III, 8, 2, the lady thereupon unties the grass-cord with which she was girt (see I, 3, 1, 12), with the text, ‘I free myself from Varuṇa’s noose wherewith the gracious Savitr̥ bound me; place me unscathed, together with my husband, in the lap of eternal law, in the world of righteousness!’ Āśv. I, 11, 3, however, assigns this ceremony to the Hotr̥; and no doubt rightly, since it is not mentioned by our author, and the Vāj. S. does not give the formula. Thereby also the original form of the text (Rig-veda X, 85, 24), ‘I free thee,’ &c., is preserved. Mahīdhara on Vāj. S. here takes ‘veda’ either in the sense of ’the Veda (R̥k, &c.),’ or as ’the knower.’ Perhaps it should rather be taken as ’the obtainer.’ ↩︎
-
“त होता आवेदेः स्तृणातीति” (३ । १५७) इत्यत्र कातीयश्रौतसूत्रभाष्ये कर्कः । ↩︎
-
262:2 Thus ā vedeḥ is explained by Harisvāmin (according to comm. on Katy. III, 8, 3). Others take it in the sense of ‘up to where the barhis begins.’ ↩︎
-
262:3 The patnīsaṁyājas were performed in the Gārhapatya fire, and therefore west of the altar; and on their completion, the priests betake themselves back to the Āhavanīya. ↩︎
-
263:1 The real original meaning of the term would rather seem to have been ’the formula marking the completion of the sacrifice,’ it having afterwards come to be applied to the oblation (to the wind-god) itself. Cf. par. 30 and Weber, Ind. Stud. IX, 232, ↩︎
-
263:2 Or rather, ‘because to all those deities to whom an ishṭi (or yajati-offering, made by the Adhvaryu standing south of the altar; and followed or accompanied by the vashaṭ-call) has been offered in common, he now makes an āhuti (or juhoti-offering, made by him whilst standing north of the altar, with the svāhā-call).’ ↩︎
-
264:1 Mahīdhara refers gātu-vidaḥ and vittvā to vid, ’to know.’ ↩︎
-
समिष्टयजुर्होमेनैव यज्ञसमाप्तिः । अत एतत्प्रतिपत्तिकर्मेत्युच्यते । अथेहोपरिष्टादाहुतिपरिगणनानुसारतः सामिधेनीसंख्याचेत्थं श्रुता “ताः पंचदश सामिधेन्यः, द्वावाघारौ, पंच प्रयाजाः, इडात्रयो ऽनुयाजाः, सूक्तवाकश्च शंयोर्वाकश्च तास्त्रयो दशाहुतयो ऽथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्टयजुश्च ताः पंचदशाहुतयः इत्यादि ११ । २ । ९ । ५ । ६ ॥ ↩︎
-
264:2 According to Harisvāmin, he does so, since that offering is made for the sake of dismissing (satisfying) the deities. ↩︎
-
264:3 Mahīdhara interprets, ‘May Indra–together with the Ādityas, the Vasus, the Maruts, and the Viśve Devāḥ–anoint the barhis thoroughly with the havis-like ghee,’ &c. ↩︎
-
265:1 See p. 9, note 1. ↩︎
-
265:2 Or, Prajāpati . . ., see I, 1, 1, 13, with note. ↩︎
-
265:3 See I, 1, 4, 23-24. According to the Paddhati on Katy. III, 8, the Adhvaryu holds the deer-skin with his left hand over the utkara, or heap of rubbish, and pours the refuse under the skin on the utkara. ↩︎
-
एष एव पाठः साधीयान्प्रतीयते । शंसेराङ्पूर्वस्येच्छार्थकत्वात् “आशंसते”- इति पदस्यैव प्रकृते प्रयोक्तुमौचित्यात् । एवकारो ऽप्याङः परतः प्रयुक्तः साधुरवकल्पते । पदादुत्तरस्यैव तत्प्रयोगस्य व्यावहारिकत्वात् । वाक्यादौ तत्प्रयोगस्यानौचित्यात् । भाष्यनुरोधात्तु मूलपाठे “एकार”- एवात्र निर्द्दिष्ट इति भाव्यम् ॥ ↩︎