०१

विश्वास-प्रस्तुतिः

स यत्रा᳘ह॥
इषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति यद᳘तो हो᳘तान्वा᳘ह सू᳘क्तैव त᳘दाह य᳘जमानायै᳘वैत᳘दाशि᳘षमा᳘शास्ते तद्वा᳘ ऽएत᳘दुप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते द्वयं तद्य᳘स्मादुप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमाशा᳘स्ते॥

मूलम् - श्रीधरादि

स यत्रा᳘ह॥
इषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति यद᳘तो हो᳘तान्वा᳘ह सू᳘क्तैव त᳘दाह य᳘जमानायै᳘वैत᳘दाशि᳘षमा᳘शास्ते तद्वा᳘ ऽएत᳘दुप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते द्वयं तद्य᳘स्मादुप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमाशा᳘स्ते॥

मूलम् - Weber

स यत्रा᳘ह॥
इषिता दै᳘व्या हो᳘तारो भद्रवा᳘च्याय प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति यद᳘तो हो᳘तान्वा᳘ह सू᳘क्त इव त᳘दाह य᳘जमानायैॗवैत᳘दाशि᳘षमा᳘शास्ते तद्वा᳘ एत᳘दुप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते द्वयं तद्य᳘स्मादुप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमाशा᳘स्ते॥

मूलम् - विस्वरम्

स यत्राह- ‘इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति’ । यदतो होतान्वाह- सूक्तैव तदाह । यजमानायैवैतदाशिषमाशास्ते । तद्वा एतदुपरिष्टाद् यज्ञस्याशिषमाशास्ते । द्वयं तद्, यस्मादुपरिष्टाद् यज्ञस्याशिषमाशास्ते ॥ १ ॥

सायणः

स यत्राह । आध्वर्यवः सूक्तवाकप्रैषः शंयुवाकप्रैषश्चाधस्तादुक्तः (श० प० ब्रा० अ० ८ । ब्रा० ३। कं० १०) तत्प्रसङ्गात् सूक्तवाकशंयुवाकयोहौत्रयोरेतद्ब्राह्मणम् । तत्रापि सूक्तवाकस्य प्रयोजनं विवक्षुः- कालसम्बन्धागतमुपादाय प्रयोजनमाह- स यत्राहेति । यस्मिन् काले ऽध्वर्युराह- “इषिता दैव्या”- इत्यादि, (का० श्रौ० सू० । ३ । १२१ सू०) ‘अतः’, अत इति सर्वनामव्यत्ययो द्रष्टव्यः, तत ऊर्द्ध्वं ‘होता’ ‘यदाह’ “इदं द्यावापृथिवी”-इत्यादि, (श० प० अ० ९ । ब्रा० १ । कं० ४) ‘तत्’ ‘सूक्तैवान्वाह’ । इति सूक्तवाकशब्दनिर्वचनम् । शोभनार्थत्वाच्छोभनादिवचनानि सूक्तानि, ततश्च सूक्तानां वाकः वाचको ग्रन्थः सूक्तवाक इत्येवं सूक्तवाकशब्दो निर्वाच्य इत्यभिप्रायः । यजमानायेति सूक्तवाकस्य संक्षेपार्थाभिधानम् । यदपि चात्रातीतार्थकीर्तनं तदपि आशीःपरमेवेति दर्शयिष्यति “तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते”- इति (श. प. अ. ९ । ब्रा. १ । कं. १०) तद्वा एतदिति कारणविवक्षयोपन्यासः ॥ १ ॥

Eggeling
  1. Now 1 when (the Adhvaryu) says, ‘The divine Hotr̥s are summoned for the proclamation of success,

the human one is called upon for the song of praise (sūkta-vāka);’ and when the Hotr̥ thereupon recites, he recites good words only 2: he thereby invokes a blessing on the sacrificer. It is indeed after the sacrifice that he thus invokes a blessing. A twofold reason there is for his invoking the blessing after the sacrifice.

०२

विश्वास-प्रस्तुतिः

यज्ञं वा᳘ ऽएष᳘ जनयति॥
यो य᳘जत ऽएते᳘न᳘ ह्युक्ता᳘ ऽऋत्वि᳘जस्तन्व᳘ते तं᳘ जन᳘यन्त्य᳘थाशि᳘षमा᳘शास्ते ता᳘मस्मै यज्ञ᳘ ऽआशि᳘षᳫँ᳭स᳘न्नमयति या᳘माशि᳘षमाशा᳘स्ते यो मा᳘जीजनते᳘ति त᳘स्माद्वा᳘ ऽउ᳘परिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते॥

मूलम् - श्रीधरादि

यज्ञं वा᳘ ऽएष᳘ जनयति॥
यो य᳘जत ऽएते᳘न᳘ ह्युक्ता᳘ ऽऋत्वि᳘जस्तन्व᳘ते तं᳘ जन᳘यन्त्य᳘थाशि᳘षमा᳘शास्ते ता᳘मस्मै यज्ञ᳘ ऽआशि᳘षᳫँ᳭स᳘न्नमयति या᳘माशि᳘षमाशा᳘स्ते यो मा᳘जीजनते᳘ति त᳘स्माद्वा᳘ ऽउ᳘परिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते॥

मूलम् - Weber

यज्ञं वा᳘ एष᳘ जनयति॥
यो य᳘जत एते᳘नॗ ह्युक्ता᳘ ऋत्वि᳘जस्तन्व᳘ते तं᳘ जन᳘यन्त्य᳘थाशि᳘षमा᳘शास्ते ता᳘मस्मै यज्ञ᳘ आशि᳘षᳫं सं᳘नमयति या᳘माशि᳘षमाशा᳘स्ते यो मा᳘जीजनते᳘ति त᳘स्माद्वा᳘ उ᳘परिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

यज्ञं वा एष जनयति- यो यजते । एतेन ह्युक्ता ऋत्विजस्तन्वते, तं जनयन्ति, अथाशिषमाशास्ते । तामस्मै यज्ञ आशिषं सन्नमयति- यामाशिषमाशास्ते, यो मा ऽजीजनतेति । तस्माद्वा उपरिष्टाद् यज्ञस्याशिषमाशास्ते ॥ २ ॥

सायणः

यज्ञं वा । ‘एषः’ ‘यः’ यजमानः ‘मा’ ‘अजीजनत’ जनितवान्, ‘अस्मै’ तस्मै ‘आशिषं’ सन्नमयामीति मन्यमानो ‘यज्ञः’ यजमानमुत्तरकालं ‘सन्नमयति’, न प्रागित्यभिप्रायः ॥ २ ॥

Eggeling
  1. He who sacrifices, assuredly, is the producer of the sacrifice, since it is by his order that, the priests spread it, that they produce it. He (the Hotr̥) now invokes a blessing; and that blessing invoked by him, the sacrifice, on its part, realises for this (sacrificer), knowing as it does that he has produced it. For this reason he invokes a blessing after the sacrifice.

०३

विश्वास-प्रस्तुतिः

देवान्वा᳘ ऽएष᳘ प्रीणाति॥
यो य᳘जत ऽएते᳘न यज्ञे᳘न ऽर्ग्भि᳘रिव त्वद्य᳘जुर्भिरिव त्वदा᳘हुतिभिरिव त्वत्स᳘ देवा᳘न्प्रीत्वा ते᳘ष्वपित्वी᳘ भवति ते᳘ष्वपित्वी᳘ भूत्वा᳘थाशि᳘षमा᳘शास्ते ता᳘मस्मै देवा᳘ आशि᳘षᳫँ᳭स᳘न्नमयन्ति या᳘माशि᳘षमाशा᳘स्ते यो नो᳘ ऽप्रैषीदि᳘ति त᳘स्माद्वा᳘ ऽउप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते᳘॥

मूलम् - श्रीधरादि

देवान्वा᳘ ऽएष᳘ प्रीणाति॥
यो य᳘जत ऽएते᳘न यज्ञे᳘न ऽर्ग्भि᳘रिव त्वद्य᳘जुर्भिरिव त्वदा᳘हुतिभिरिव त्वत्स᳘ देवा᳘न्प्रीत्वा ते᳘ष्वपित्वी᳘ भवति ते᳘ष्वपित्वी᳘ भूत्वा᳘थाशि᳘षमा᳘शास्ते ता᳘मस्मै देवा᳘ आशि᳘षᳫँ᳭स᳘न्नमयन्ति या᳘माशि᳘षमाशा᳘स्ते यो नो᳘ ऽप्रैषीदि᳘ति त᳘स्माद्वा᳘ ऽउप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते᳘॥

मूलम् - Weber

देवान्वा᳘ एष᳘ प्रीणाति॥
यो य᳘जत एते᳘न यज्ञे᳘नर्ग्भि᳘रिव त्वद्य᳘जुर्भिरिव त्वदा᳘हुतिभिरिव त्वत्स᳘ देवा᳘न्प्रीत्वा ते᳘ष्वपित्वी᳘ भवति ते᳘ष्वपित्वी᳘ भूत्वा᳘थाशि᳘षमा᳘शास्ते ता᳘मस्मै देवा᳘ आशि᳘षᳫं सं᳘नमयन्ति या᳘माशि᳘षमाशा᳘स्ते यो नो᳘ ऽप्रैषीदिति त᳘स्माद्वा᳘ उप᳘रिष्टाद्यज्ञ᳘स्याशि᳘षमा᳘शास्ते॥

मूलम् - विस्वरम्

देवान्वा एष प्रीणाति- यो यजते । एतेन यज्ञेनर्ग्भिरिव त्वद्, यजुर्भिरिव त्वत्, आहुतिभिरिव त्वत् स देवान् प्रीत्वा तेष्वपित्वी भवति । तेष्वपित्वी भूत्वायाशिषमाशास्ते । तामस्मै देवा आशिषं सन्नमयन्ति- यामाशिषमाशास्ते, यो नो ऽप्रैषीदिति । तस्माद्वा उपरिष्टाद् यज्ञस्याशिषमाशास्ते ॥ ३ ॥

सायणः

देवान्वा एषः । त्वच्छन्दः समुच्चये; ऋग्भिश्च यजुर्भिश्चाहुतिभिश्चेत्यर्थः । ‘देवान्’ ‘प्रीत्वा’ तर्पयित्वा, शास्त्रपरिषदीव 3 सन्तप्रश्ने (?) सन्दत्त्वा, ‘तेषु’ देवेषु, तेषां मध्ये ‘अपित्वी’ भागी भवति । भागी हि भागं प्रार्थयमानो लभते, नाभागीत्यभिप्रायः । ‘यो नः’ ‘अप्रैषीत्’ तर्पितवान् ‘तस्मै’ ‘आशिषं’ सन्नमयाम इति मन्यमाना ‘देवाः’ ‘सन्नमयन्ति’ । तच्चोर्द्ध्वं यज्ञात्, न प्रागित्यभिप्रायः ॥ ३ ॥

Eggeling
  1. He who sacrifices, assuredly, pleases the gods. Having pleased the gods by that sacrifice,–that is, partly by R̥k-verses, partly by Yajus-formulas, and partly by oblations,–he obtains a share among them.

When he has obtained a share among them, then (the Hotr̥) invokes a blessing (on him); and that (blessing, invoked by him, the gods realise for this sacrificer), knowing as they do that he has pleased them. For this reason also he invokes a blessing after the sacrifice.

०४

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथ) अ᳘थ प्र᳘तिपद्यते॥
इदं᳘ द्यावापृथिवी भद्र᳘मभूदि᳘ति भद्रᳫंह्य᳘भूद्यो᳘ यज्ञ᳘स्य सᳫंस्थाम᳘गन्ना᳘र्ध्म सूक्तवाक᳘मुत᳘ नमोवाकमि᳘त्युभ᳘यं वा᳘ ऽएत᳘द्यज्ञ᳘ ऽएव य᳘त्सूक्तवाक᳘श्च नमोवाकश्चा᳘रात्स्म यज्ञम᳘विदाम यज्ञमि᳘त्ये᳘वैत᳘दाहा᳘ग्ने त्वᳫँ᳭ सूक्तवा᳘गस्यु᳘पश्रुती दिव᳘स्पृथिव्योरि᳘त्यग्नि᳘मे᳘वैत᳘दाह त्वᳫँ᳭सूक्तवा᳘गस्युपशृण्वत्यो᳘रन᳘योर्द्या᳘वापृथिव्योरित्यो᳘मन्वती ते ऽस्मि᳘न्यज्ञे᳘ यजमान द्या᳘वापृथिवी᳘ स्तामित्य᳘न्नवत्यौ ते ऽस्मि᳘न्यज्ञे᳘ यजमान द्या᳘वापृथिवी᳘ स्तामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथ) अ᳘थ प्र᳘तिपद्यते॥
इदं᳘ द्यावापृथिवी भद्र᳘मभूदि᳘ति भद्रᳫंह्य᳘भूद्यो᳘ यज्ञ᳘स्य सᳫंस्थाम᳘गन्ना᳘र्ध्म सूक्तवाक᳘मुत᳘ नमोवाकमि᳘त्युभ᳘यं वा᳘ ऽएत᳘द्यज्ञ᳘ ऽएव य᳘त्सूक्तवाक᳘श्च नमोवाकश्चा᳘रात्स्म यज्ञम᳘विदाम यज्ञमि᳘त्ये᳘वैत᳘दाहा᳘ग्ने त्वᳫँ᳭ सूक्तवा᳘गस्यु᳘पश्रुती दिव᳘स्पृथिव्योरि᳘त्यग्नि᳘मे᳘वैत᳘दाह त्वᳫँ᳭सूक्तवा᳘गस्युपशृण्वत्यो᳘रन᳘योर्द्या᳘वापृथिव्योरित्यो᳘मन्वती ते ऽस्मि᳘न्यज्ञे᳘ यजमान द्या᳘वापृथिवी᳘ स्तामित्य᳘न्नवत्यौ ते ऽस्मि᳘न्यज्ञे᳘ यजमान द्या᳘वापृथिवी᳘ स्तामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अ᳘थ प्र᳘तिपद्यते॥
इदं᳘ द्यावापृथिवी भद्र᳘मभूदिति भद्रᳫं ह्य᳘भूद्यो᳘ यज्ञ᳘स्य संस्थाम᳘गन्ना᳘र्ध्म सूक्तवाक᳘मुत᳘ नमोवाकमि᳘त्युभ᳘यं वा᳘ एत᳘द्यज्ञ᳘ एव य᳘त्सूक्तवाक᳘श्च नमोवाकश्चा᳘रात्स्म यज्ञम᳘विदाम यज्ञमि᳘त्येॗवैत᳘दाहा᳘ग्ने त्व᳘ᳫं᳘ सूक्तवा᳘गस्यु᳘पश्रुती दिव᳘स्पृथिव्योरि᳘त्यग्नि᳘मेॗवैत᳘दाह त्व᳘ᳫं᳘ सूक्तवा᳘गस्युपशृण्वत्यो᳘रन᳘योर्द्या᳘वापृथिव्योरित्यो᳘मन्वती ते ऽस्मि᳘न्यज्ञे᳘ यजमान द्या᳘वापृथिवी᳘ स्तामित्य᳘न्नवत्यौ ते ऽस्मि᳘न्यज्ञे᳘ यजमान द्या᳘वापृथिवी᳘ स्तामि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अथ प्रतिपद्यते । “इदं द्यावापृथिवी भद्रमभूदिति” । भद्रं ह्यभूद्- यो यज्ञस्य संस्थामगन्” “आर्ध्म सूक्तवाकमुत नमोवाकम्” 3- इति । उभयं वा एतद्यज्ञ एव- यत् सूक्तवाकश्च नमोवाकश्च । अरात्स्म यज्ञम्, अविदाम यज्ञमित्येवैतदाह । “अग्ने त्वं सूक्तवागस्युपश्रुती दिवस्पृथिव्योरिति”** । अग्निमेवैतदाह । त्वं सूक्तवागसि, उपशृण्वत्योरनयोर्द्यावापृथिव्योरिति । “ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्तामिति“ । अन्नवत्यौ ते ऽस्मिन् यज्ञे यजमान । द्यावापृथिवी स्तामित्येवैतदाह ॥ ४ ॥

सायणः

अथ प्रतिपद्यते । होता वक्तुमारभत इत्यर्थः । “इदं द्यावापृथिवी”- इत्यादिसूक्तवाकः (तै० ब्रा० ३ । ५ । १० ।) तत्रादौ तावत् हे ‘द्यावापृथिव्यौ !’ ‘इदं’ तावद् युवयोः प्रसादादस्माकं कल्याणं जातमेव । किम् ? ‘आर्ध्म’ ऋद्धवन्तः, ‘सूक्तवाकं’ देवान् स्तुतवन्तो वयमित्यर्थः । ‘उत’ अपि ‘नमोवाकम्’ अन्नदानवचनं च प्राप्तवन्तः । यज्ञेन द्वयमपि भवेदिति देवता इष्टा अस्माभिरित्यर्थः । अधुना युवयोरेव प्रसादादिदं ‘सूक्तोच्यं’ सूक्तवचनमृद्ध्यास्मेत्याशीः । ‘अग्ने त्वम्’- इति अग्निं होतारमुपधावति । हे भगवन् ! ‘अग्ने !’ ‘त्वम्’ एव सूक्तानां वक्ता ‘असि’; नाहं मानुष इति विदित्वा मामधिष्ठातुमर्हसीत्यभिप्रायः । ‘उपशृण्वत्योः’ ‘द्यावापृथिव्योरिति’ एकान्तमनक्तमपि कुर्यात्, न जनसंसदीत्यभिप्रायः “ओमन्वती”- इत्याशीर्यजमानं प्रत्यक्षीकृत्य । “तयोराविदि, अग्निरिदमित्यादि” (तै० ब्रा० ३ । १ । १०) मिथो हेतुवचनम्,- यस्माद्- द्यावापृथिव्योरनुमन्यमानयोरग्न्यादयो हवीँष्यजुषन्त, तस्माद् द्यावापृथिव्यौ ओमन्वदादिगुणौ स्तामिति सम्बन्धः । अस्या मृधेदिति । परोक्षीकृत्य यजमानं तस्मा आशिष आशास्ते । उत्तरां देवयज्यामित्यादि । यदनेन हविषेत्याशिष एव समाप्ते “इदञ्च नमो देवेभ्य” इति याचितेभ्यो निह्नवः । एतमेवार्थं ‘भद्रं ह्यभूत्’- इत्यादि विवृण्वन् दर्शयति । ‘अरात्स्म यज्ञम्’- इति तत् “आर्ध्म सूक्तवाकमित्यस्य पर्यायवचनम् ‘अरात्स्म’- इत्यस्यापि ‘अविदाम’- इत्येतत्पर्यायवचनं संसाधितवन्तो लब्धवन्तो यज्ञं, वयमित्यर्थः । ‘उपश्रुती’ । उपशृणोतीत्युपश्रुतिः, ततः सप्तमीद्विवचने उपश्रुत्योरिति प्राप्तम्, ततश्छान्दसः पूर्वसवर्णः ‘उपश्रुती’- इति; उपशृण्वत्योरिति तद् दर्शयति । दिवस्पृथिव्योः- इत्यस्य शब्दसमाधिः ‘द्यावापृथिव्योः’ इति । ओमन्वती । अवति तर्पयति इति ‘ओमन्’ (निरु. ६ । १ । ५) अन्नम् तद्वती, ओमन्वत्यौ ‘अन्नवत्यौ’- इति समाधिः ॥ ४ ॥

Eggeling
  1. He intones 4,–‘Successful this has turned out, O heaven and earth–,’ for successful indeed it has turned out, when one has completed the sacrifice.–‘We have completed the song of praise, and the

utterance of worship 5,’ for indeed these two, the singing of praises and the utterance of worship, form the sacrifice: and accordingly he thereby says, ‘We have accomplished the sacrifice, we have obtained possession of the sacrifice.’–‘Thou, O Agni, art the voice of praise at the listening 6 of heaven and earth,’ he thereby says to Agni, ‘Thou art the voice of praise, while heaven and earth listen.’–‘May heaven and earth be propitious to thee, O sacrificer, at this sacrifice!’ whereby he says, ‘May heaven and earth abound in food for thee, O sacrificer, at this sacrifice.’

०५

विश्वास-प्रस्तुतिः

श᳘ङ्गवी जीव᳘दानू ऽइ᳘ति॥
श᳘ङ्गवी ते जीव᳘दानू स्तामि᳘त्ये᳘वैत᳘दाहा᳘त्रस्नू ऽअ᳘प्रवेदे ऽइ᳘ति मा᳘ह क᳘स्माच्चन प्र᳘त्रासी᳘र्म्मो त ऽइदं᳘ पुष्टं क᳘श्चन प्र᳘विदते᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

श᳘ङ्गवी जीव᳘दानू ऽइ᳘ति॥
श᳘ङ्गवी ते जीव᳘दानू स्तामि᳘त्ये᳘वैत᳘दाहा᳘त्रस्नू ऽअ᳘प्रवेदे ऽइ᳘ति मा᳘ह क᳘स्माच्चन प्र᳘त्रासी᳘र्म्मो त ऽइदं᳘ पुष्टं क᳘श्चन प्र᳘विदते᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

शं᳘गवी जीव᳘दानू इ᳘ति॥
शंग᳘वी ते जीव᳘दानू स्तामि᳘त्येॗवैत᳘दाहा᳘त्रस्नू अ᳘प्रवेदे इ᳘ति मा᳘ह क᳘स्माच्चन प्र᳘त्रासीॗर्मो त इ᳘दम् पुष्टं क᳘श्चन प्र᳘विदते᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“शङ्गवी जीवदानू”- इति । शङ्गवी ते जीवदानू स्तामित्येवैतदाह । “अत्रस्नू अप्रवेदे”- इति । मा ह कस्माच्चन प्रत्रासीः । मो त इदं पुष्टं कश्चन प्रविदतेत्येवैतदाह ॥ ५ ॥

सायणः

शङ्गवी । शञ्च ते गावौ च शङ्गव्याविति प्राप्ते पूर्वसवर्णः । जीवदानू 7 जीवनस्य दात्र्यौ । अत्रसनशीले “अत्रस्नू“ । अत्रस्नू च ते देवते उपासीनो न त्रस्यतीति देवधर्मं यजमाने दर्शयति- मा ह कस्माच्चन प्रत्रासीरिति । “अप्रवेदे” प्रवेदनं प्रलाभः नास्ति प्रवेदनमेतयोः ‘अप्रवेदे’ दुर्लभे; तादृश्यौ चोपासीनस्य । ‘पुष्टम्’ पुष्टिरित्येतद् दुर्लभता न भवतीत्येतत् ‘मो त इदं पुष्टं’ ‘कश्चन’ कश्चिदपि ‘प्रविदत’ प्रालभत इत्यतिदिशति ॥ ५ ॥

Eggeling
  1. ‘They, propitious to the cattle 8, profuse in gifts,’ he thereby says, ‘May they both be propitious to the cattle, and profuse in gifts.’–‘They, the fearless and inscrutable 9;’ he thereby says, ‘Mayest thou not be afraid of anybody; may no one obtain before thee this thy wealth!’

०६

विश्वास-प्रस्तुतिः

(हो) उरु᳘गव्यूती अभयं कृ᳘तावि᳘ति॥
(त्यु) उरु᳘गव्यूती ते᳘ ऽभये स्तामि᳘त्ये᳘वैत᳘दाह व्वृष्टि᳘द्यावा री᳘त्यापे᳘ति व्वृ᳘ष्टिमत्यौ ते स्तामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(हो) उरु᳘गव्यूती अभयं कृ᳘तावि᳘ति॥
(त्यु) उरु᳘गव्यूती ते᳘ ऽभये स्तामि᳘त्ये᳘वैत᳘दाह व्वृष्टि᳘द्यावा री᳘त्यापे᳘ति व्वृ᳘ष्टिमत्यौ ते स्तामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

उरु᳘गव्यूती अभयंकृ᳘तावि᳘ति॥
उरु᳘गयूती ते᳘ ऽभये स्तामि᳘त्येॗवैत᳘दाह वृष्टि᳘द्यावा री᳘त्यापे᳘ति वृ᳘ष्टिमत्यौ ते स्तामि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“उरुगव्यूती अभयं कृताविति” । उरुगव्यूती ते ऽभये स्तामित्येवैतदाह । “वृष्टिद्यावा रीत्यापेति” । वृष्टिमत्यौ ते स्तामित्येवैतदाह ॥ ६॥

सायणः

उरुगव्यूती । गावः अवन्ति तृप्यन्त्यस्यामिति ‘गव्यूतिः’ गोप्रचारः; सा च क्षेम उर्वी भवति । व्याघ्रादिभये त्रसन्ति, न दूरं ग्रामाद्गावो गच्छन्तीत्यनुर्वी गव्यूतिर्भवति । तेन गवां क्षेमहेतू द्यावापृथिव्यौ स्तामित्यर्थः । अभयं कृताविति । सामान्येनाभयङ्करे स्यातामिति । ‘वृष्टिद्यावा’ वृष्टेर्दात्र्यौ । ददातेर्वनिप् (पा० सू० ३ । २ । ७४) यकारश्चागमः “आतो यक्”- इति (पा० सू० ७ । ३ । ३३) वृष्टिदाताराविति प्राप्ते । ”रीत्यापा” । “रीतिस्तृप्तिस्तामापत” इति ‘रीत्यापा’; सुष्ठु वर्षवत्यावित्यर्थः ॥ ६ ॥

Eggeling
  1. ‘They, of wide abode, the afforders of safety;’ he thereby says, ‘May they both be possessed of wide abodes and exempt from danger.’–‘They, the rain-skied, the water-pouring,’ he thereby says, ‘May they both be possessed of rain.’

०७

विश्वास-प्रस्तुतिः

शम्भुवौ मयोभु᳘वावि᳘ति॥
शम्भु᳘वौ ते मयोभु᳘वौ स्तामि᳘त्ये᳘वैत᳘दाहो᳘र्ज्जस्वती च प᳘यस्वती चे᳘ति र᳘सवत्यौ त ऽउपजीवनी᳘ये स्तामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

शम्भुवौ मयोभु᳘वावि᳘ति॥
शम्भु᳘वौ ते मयोभु᳘वौ स्तामि᳘त्ये᳘वैत᳘दाहो᳘र्ज्जस्वती च प᳘यस्वती चे᳘ति र᳘सवत्यौ त ऽउपजीवनी᳘ये स्तामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

शम्भु᳘वौ मयोभु᳘वावि᳘ति॥
शम्भु᳘वौ ते मयोभु᳘वौ स्तामि᳘त्येॗवैत᳘दाहो᳘र्जस्वती च प᳘यस्वती चे᳘ति र᳘सवत्यौ त उपजीवनी᳘ये स्तामि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

‘शम्भुवौ मयोभुवाविति’ । शम्भुवौ ते मयोभुवौ स्तामित्येवैतदाह । ‘ऊर्जस्वती च पयस्वती चेति’ । रसवत्यौ त उपजीवनीये स्तामित्येवैतदाह ॥ ७ ॥

सायणः

शम्भुवौ । दुःखोपशमनं ‘शम्’ भावयत इति ‘शम्भुवौ’ स्यातामिति सर्वेण प्रार्थ्यते । ‘मयः’ सुखम्, अनुकूलवेदनीयम्, तद्भावयतः ‘मयोभुवौ’ । ‘ऊर्जस्वती’ (तै० सं० २ । ६ । ९ ।) “ऊर्जबलप्राणनयोः” (धा० पा० चु० प० १५) ऊर्जयतीति ‘ऊर्ग्’ रसः, सो ऽनयोरस्तीत्यूर्जस्वत्यौ । ऊर्जो मतुप्यसुगागमः । मकारस्य वत्वम् (पा० सू० ८ । २ । ९ ।) ‘एतदाह’- रसवत्यौ ते स्तामित्याहेति । ‘पयः’ आप्यायनं स्थावरजङ्गमानां नोपघातकम्, तद्वत्यौ; तदाह- उपजीवनीये स्तामित्येवैतदाहेति ॥ ७ ॥

Eggeling
  1. ‘They, the genial and beneficent;’ he thereby says, ‘May they both be genial and beneficent.’–‘They, the rich in sap and substance;’ he thereby says, ‘May they both abound in moisture and afford the means of subsistence.’

०८

विश्वास-प्रस्तुतिः

सूपचरणा᳘ च स्वधिचरणा चे᳘ति॥
सूपचरणा᳘ह ते ऽसाव᳘स्तु यामध᳘स्तादुपच᳘रसि स्वधिचर᳘णो त ऽइय᳘मस्तु या᳘मुप᳘रिष्टादधिच᳘रसी᳘त्ये᳘वैत᳘दाह त᳘योराविदी᳘ति त᳘योरनोम᳘न्यमानयोरि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

सूपचरणा᳘ च स्वधिचरणा चे᳘ति॥
सूपचरणा᳘ह ते ऽसाव᳘स्तु यामध᳘स्तादुपच᳘रसि स्वधिचर᳘णो त ऽइय᳘मस्तु या᳘मुप᳘रिष्टादधिच᳘रसी᳘त्ये᳘वैत᳘दाह त᳘योराविदी᳘ति त᳘योरनोम᳘न्यमानयोरि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

सूपचरणा᳘ च स्वधिचरणाचे᳘ति॥
सूपचरणा᳘ह ते ऽसाव᳘स्तु यामध᳘स्तादुपच᳘रसि स्वधिचरॗणो त इय᳘मस्तु या᳘मुप᳘रिष्टादधिच᳘रसी᳘त्येॗवैत᳘दाह त᳘योराविदी᳘ति त᳘योरनोम᳘न्यमानयोरि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

‘सूपचरणा च स्वधिचरणा चेति’ । सूपचरणा ह ते ऽसावस्तु यामधस्तादुपचरसि । स्वधिचरणो त इयमस्तु- यामुपरिष्टादधिचरसीत्येवैतदाह । ‘तयोराविदीति’ तयोरनुमन्यमानयोरित्येवैतदाह ॥ ८ ॥

सायणः

सूपचरणा । अकृच्छ्रेणोपचर्यत इति सूपचरणा द्यौः; सा ह्यविरुद्वा अकृच्छ्रेणैवोपचर्यते । एवं ‘स्वधिचरणा’ पृथिवी; तस्यां हि दृढायामकृच्छ्रेण चरन्ति । “छन्दसि गत्यर्थेभ्यः”- इति (पा० सू० ३ । ३ । २१९) खलर्थे युच्पत्ययः । एतदाह- सूपचरणा ह ते ऽसावस्त्वित्यादिना । आवेदनम् ‘आवित्’ । आवेदनेनात्र यज्ञविषया मतिर्लक्ष्यते । यस्य जानतः शक्तस्य यत् क्रियते, स तदनुमन्यत इति गम्यते ॥ ८ ॥

Eggeling
  1. ‘They, of easy access and good abode;’ he thereby says, ‘May yonder (sky), which thou approachest from below, afford thee easy access; may this (earth) on which thou abidest (or movest) afford thee good abode.’–‘With their knowledge–,’ thereby he says, ‘Both of these approving–’

०९

विश्वास-प्रस्तुतिः

(हा) अग्नि᳘रिद᳘ᳫँ᳘हविः᳘॥ (र) अजुषता᳘वीवृधतम᳘हो ज्या᳘यो ऽकृते᳘ति त᳘दाग्नेयमा᳘ज्यभागमाह सो᳘म ऽइद᳘ᳫँ᳘हवि᳘रजुषता᳘वीवृधतम᳘हो ज्या᳘यो ऽकृते᳘ति त᳘त्सौम्यमा᳘ज्यभागमाहाग्नि᳘रिद᳘ᳫँ᳘हवि᳘रजुषता᳘वीवृधतम᳘हो ज्या᳘यो ऽकृते᳘ति तद्य᳘ एष᳘ ऽउभय᳘त्राच्युत᳘ आग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘माह᳘॥

मूलम् - श्रीधरादि

(हा) अग्नि᳘रिद᳘ᳫँ᳘हविः᳘॥ (र) अजुषता᳘वीवृधतम᳘हो ज्या᳘यो ऽकृते᳘ति त᳘दाग्नेयमा᳘ज्यभागमाह सो᳘म ऽइद᳘ᳫँ᳘हवि᳘रजुषता᳘वीवृधतम᳘हो ज्या᳘यो ऽकृते᳘ति त᳘त्सौम्यमा᳘ज्यभागमाहाग्नि᳘रिद᳘ᳫँ᳘हवि᳘रजुषता᳘वीवृधतम᳘हो ज्या᳘यो ऽकृते᳘ति तद्य᳘ एष᳘ ऽउभय᳘त्राच्युत᳘ आग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘माह᳘॥

मूलम् - Weber

अग्नि᳘रिद᳘ᳫं᳘ हविः᳘ अजुषता᳘वीवृधत म᳘हो ज्या᳘यो ऽकृते᳘ति त᳘दाग्नेयमा᳘ज्यभागमाह सो᳘म इद᳘ᳫं᳘ हवि᳘रजुषता᳘वीवृधत म᳘हो ज्या᳘यो ऽकृते᳘ति त᳘त्सौम्यमा᳘ज्यभागमाहाग्नि᳘रिद᳘ᳫं᳘ हवि᳘रजुषता᳘वीवृधत म᳘हो ज्या᳘यो ऽकृते᳘ति तद्य᳘ एष᳘ उभय᳘त्राच्युत᳘ आग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘माह॥

मूलम् - विस्वरम्

“अग्निरिदं हविरजुषतावीवृधतमहो ज्यायो ऽकृतेति” । तदाग्नेयमाज्यभागमाह । “सोम इदं हविरजुषतावीवृधतमहो ज्यायो ऽकृतेति“ । तत्सौम्यमाज्यभागमाह । “अग्निरिदं हविरजुषतावीवृधतमहो ज्यायो ऽकृतेति” । तद् य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तमाह ॥ ९ ॥

सायणः

अग्निरिदँ हविः । तदाग्नेयमिति समस्तार्थवचनम् । यदेतदग्निना हविषः सेचनमतीतं कीर्त्यत एवं तावद् आग्नेयाज्यभागं याग इत्याह । अथवा आज्यञ्चासौ भागश्चेत्याज्यभागः; आज्यमेव होतव्यमिति भागशब्दार्थं दर्शयति । एवं पुरोडाशेन वैलक्षण्यं भवति; इतरथा तत्र पुरोडाशेन यागो लक्ष्येत । ‘अजुषत’- इत्यादींस्तु शब्दानग्रे व्याख्यास्यति ॥ ९ ॥

Eggeling
  1. ‘Agni has graciously accepted this oblation, he has grown in strength, he has acquired greater power,’ he thereby refers to Agni’s butter-portion.–‘Soma has graciously accepted this oblation, he has grown in strength, he has acquired greater power,’ he thereby refers to Soma’s butter-portion.–‘Agni has graciously accepted this oblation, he has grown in strength, he has acquired greater power,’ he thereby refers to the indispensable cake which is (offered) on both occasions (the new- and full-moon sacrifice).

१०

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ यथादेवत᳘म्॥
(तं) देवा᳘ ऽआज्यपा आ᳘ज्यमजुषन्ता᳘वीवृधन्त म᳘हो ज्या᳘यो ऽक्रते᳘ति त᳘त्प्रयाजानुयाजा᳘नाह प्रयाजानुयाजा वै᳘ देवा᳘ ऽआज्यपा᳘ ऽअग्नि᳘र्होत्रे᳘णेद᳘ᳫँ᳘हवि᳘रजुषता᳘वीवृधत म᳘हो ज्या᳘यो ऽकृते᳘ति त᳘दग्नि᳘ᳫँ᳘ होत्रे᳘णाहाजुषते᳘त्येवं या᳘ ऽइष्टा᳘ देव᳘ता भ᳘वन्ति ताः स᳘म्पश्यत्यसौ᳘ हवि᳘रजुषतासौ᳘ हवि᳘रजुषते᳘ति त᳘द्यज्ञ᳘स्यै᳘वैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाहाजुषतेत्य᳘वीवृधते᳘ति यद्वै᳘ देवा᳘ हवि᳘र्जोष᳘यन्ते तद᳘पि गिरिमात्रं᳘ कुर्व्वते त᳘स्मादाहा᳘वीवृधते᳘ति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ यथादेवत᳘म्॥
(तं) देवा᳘ ऽआज्यपा आ᳘ज्यमजुषन्ता᳘वीवृधन्त म᳘हो ज्या᳘यो ऽक्रते᳘ति त᳘त्प्रयाजानुयाजा᳘नाह प्रयाजानुयाजा वै᳘ देवा᳘ ऽआज्यपा᳘ ऽअग्नि᳘र्होत्रे᳘णेद᳘ᳫँ᳘हवि᳘रजुषता᳘वीवृधत म᳘हो ज्या᳘यो ऽकृते᳘ति त᳘दग्नि᳘ᳫँ᳘ होत्रे᳘णाहाजुषते᳘त्येवं या᳘ ऽइष्टा᳘ देव᳘ता भ᳘वन्ति ताः स᳘म्पश्यत्यसौ᳘ हवि᳘रजुषतासौ᳘ हवि᳘रजुषते᳘ति त᳘द्यज्ञ᳘स्यै᳘वैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाहाजुषतेत्य᳘वीवृधते᳘ति यद्वै᳘ देवा᳘ हवि᳘र्जोष᳘यन्ते तद᳘पि गिरिमात्रं᳘ कुर्व्वते त᳘स्मादाहा᳘वीवृधते᳘ति॥

मूलम् - Weber

अ᳘थ यथादेवतं᳟॥
देवा᳘ आज्यपा आ᳘ज्यमजुषन्ता᳘वीवृधन्त म᳘हो ज्या᳘यो ऽक्रते᳘ति त᳘त्प्रयाजानुयाजा᳘नाह प्रयाजानुयाजा वै᳘ देवा᳘ आज्यपा᳘ अग्नि᳘र्होत्रे᳘णेद᳘ᳫं᳘ हवि᳘रजुषता᳘वीवृधत म᳘हो ज्या᳘यो ऽकृते᳘ति त᳘दग्नि᳘ᳫं᳘ होत्रे᳘णाहाजुषते᳘त्येवं या᳘ इष्टा᳘ देव᳘ता भ᳘वन्ति ताः स᳘म्पश्यत्यसौ᳘ हवि᳘रजुषतासौ᳘ हवि᳘रजुषते᳘ति त᳘द्यज्ञ᳘स्यैॗवैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाहाजुषतेत्य᳘वीवृधते᳘ति यद्वै᳘ देवा᳘ हवि᳘र्जोष᳘यन्ते तद᳘पि गिरिमात्रं᳘ कुर्वते त᳘स्मादाहा᳘वीवृधते᳘ति॥

मूलम् - विस्वरम्

अथ यथादेवतम् । “देवा आज्यपा आज्यमजुषन्तावीवृधन्तमहो ज्यायो ऽक्रतेति”- तत् प्रयाजानुयाजानाह । प्रयाजानुयाजा वै देवा आज्यपाः । “अग्निर्होत्रेणेदं हावेरजुषतावीवृधतमहोज्यायो ऽकृतेति”- तदग्निं होत्रेणाजुषतेति 10 । एवं या इष्टा देवता भवन्ति ताः संपश्यति- असौ हविरजुषत असौ हविरजुषतेति । तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते । यद्धि देवा हविर्जुषन्ते- तेन हि महज्जयति । तस्मादाह,- अजुषेतेति, अवीवृधतेति । यद्वै देवा हविर्जोषयन्ते तदपि गिरिमात्रं कुर्वते । तस्मादाह- अवीवृधतेति ॥ १० ॥

सायणः

अथ यथादेवतम् । या या देवता यष्टव्या, तां तामाहेति वर्तन्ते । प्रयाजानुयाजा वै देवा आज्यपाः इति । प्रयाजानुयाजदेवता देवानामाज्यपा इत्यर्थः । ‘अग्निः’ ‘होत्रेण’ । “इत्थंभूतलक्षणे तृतीया” (पा० स्० २ । ३ । २१) ‘होत्रेण’ देवताह्वानेन कर्म्मणा युक्तः ‘अग्निः’ ‘हविः अजुषत’ स्विष्टकृदित्यर्थः । एवं या इष्टा इत्येतया यथादेवतस्यार्थं स्फुटीकरोति । ततश्चेष्टदेवतावाचिनामेव देवतापदानामस्मिन् प्रदेशे मन्त्रत्वावगते विकृतावूहविधी सेत्स्यतः । प्रकृतौ च पौर्णमास्यमावास्यादेवतापदानां व्यवस्था भविष्यति । ‘समृद्धिमाशास्ते’ इत्येतदनुपपन्नम्; भूतानुवादस्वरूपत्वात् । अजुषतेत्यस्य यदपि हेतुवचनं यद्धि देवा हविर्जुषन्ते, तेन हि महज्जयतीति, तदप्याशीस्त्वं न साधयति; किन्तर्हि- “ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्तामिति” (श० प० ९ अ० १ ब्रा० ४ कं०) अत्राशिषो हेतुत्वेनोच्यते- अग्निरजुषतेति । ततश्च यस्माद् द्यावापृथिव्योराविदि अग्निरजुषत, तस्माद् द्यावापृथिव्यौ ओमन्वती स्तामित्याशीःपरमेवातीतजोषणकीर्तनमित्युपपन्नं यज्ञसमृद्ध्याशीर्वचनम् । ‘यद्वै देवा हविजोषयन्ते’- इति । स्वैरनुचरैः सेव्यन्ते; तेषां हि बहूनां तृप्तये यत् स्तोकमपि यजमानेन दत्तम्, तद् बहु कुर्वन्तीत्यर्थः ॥ १० ॥

Eggeling
  1. And in the same way according to the respective deities. ‘The butter-drinking gods have graciously accepted the butter, they have grown in strength, they have acquired greater power;’ thereby he refers to the fore-offerings and after-offerings; for the butter-drinking gods truly are the fore-offerings and after-offerings.–‘Agni, by virtue of his Hotr̥-ship, has graciously accepted this oblation, he has

grown in strength, the has acquired greater power;’ thereby he refers to Agni, in virtue of his Hotr̥ship. With ‘has graciously accepted’ the thus enumerates those deities to whom offering has been made: in saying ‘Such a one has graciously accepted the oblation, such a one has graciously accepted the oblation,’ he accordingly prays for the accomplishment of the sacrifice; for whatever oblation the gods graciously accept, by that he gains great things: hence he says, ‘(he) has graciously accepted it.’ And ‘(he) has grown in strength’ he says, because what the gods delight in, they make mountain high: for this reason he says ‘(he) has increased.’

११

विश्वास-प्रस्तुतिः

म᳘हो ज्या᳘यो ऽक्रते᳘ति॥
यज्ञो वै᳘ देवा᳘नां म᳘ह᳘स्तᳫं᳘ह्येतज्ज्या᳘याᳫंसमिव कुर्व्व᳘ते त᳘स्मादाह म᳘हो ज्या᳘यो ऽकृते᳘ति॥

मूलम् - श्रीधरादि

म᳘हो ज्या᳘यो ऽक्रते᳘ति॥
यज्ञो वै᳘ देवा᳘नां म᳘ह᳘स्तᳫं᳘ह्येतज्ज्या᳘याᳫंसमिव कुर्व्व᳘ते त᳘स्मादाह म᳘हो ज्या᳘यो ऽकृते᳘ति॥

मूलम् - Weber

म᳘हो ज्या᳘यो ऽक्रते᳘ति॥
यज्ञो वै᳘ देवा᳘नाम् म᳘हॗस्तᳫं ह्येतज्ज्या᳘यांसमिव कुर्वते त᳘स्मादाह म᳘हो ज्या᳘यो ऽक्रते᳘ति॥

मूलम् - विस्वरम्

महो ज्यायो ऽकृत इति । यज्ञो वै देवानां महः । तं ह्येतज्ज्यायांसमिव कुर्वते । तस्मादाह- महो ज्यायो ऽकृतेति ॥ ११ ॥

सायणः

महो ज्यायो ऽकृतेति । पूर्वमेकवचनान्तं व्याख्याय इदं बहुवचनान्तं व्याचष्टे । व्याख्यानञ्चाज्ञापितज्ञापनार्थम् । यज्ञो वै देवानां महः । महनं महः, पूजा, विभूतिः । सा च यज्ञं देवा वृद्धतरं प्रशस्यतरं वा प्रागवस्थानं कुर्वन्ति ॥ ११ ॥

Eggeling
  1. ‘(He) has acquired (lit. made for himself) greater power’ he says; for assuredly the power of the gods is the sacrifice: it is the latter therefore which they make still greater; and for this reason he says ‘(he) has acquired greater power.’

१२

विश्वास-प्रस्तुतिः

(त्य) अस्या᳘मृधेद्धो᳘त्रायां देवङ्गमा᳘यामि᳘ति॥
(त्य) अस्या᳘ᳫँ᳘राध्नोतु हो᳘त्रायां देवङ्गमा᳘यामि᳘त्ये᳘वैत᳘दाहा᳘शास्ते ऽयं य᳘जमानो ऽसावि᳘ति ना᳘म गृह्णाति त᳘देनं प्रत्य᳘क्षमाशि᳘षा स᳘म्पादयति॥

मूलम् - श्रीधरादि

(त्य) अस्या᳘मृधेद्धो᳘त्रायां देवङ्गमा᳘यामि᳘ति॥
(त्य) अस्या᳘ᳫँ᳘राध्नोतु हो᳘त्रायां देवङ्गमा᳘यामि᳘त्ये᳘वैत᳘दाहा᳘शास्ते ऽयं य᳘जमानो ऽसावि᳘ति ना᳘म गृह्णाति त᳘देनं प्रत्य᳘क्षमाशि᳘षा स᳘म्पादयति॥

मूलम् - Weber

अस्या᳘मृधेद्धो᳘त्रायां देवंगमा᳘यामि᳘ति॥
अस्यां᳘ राध्नोतु हो᳘त्रायां देवंगमा᳘यामि᳘त्येॗवैत᳘दाहा᳘शास्ते ऽयं य᳘जमानो ऽसावि᳘ति ना᳘म गृह्णाति त᳘देनम् प्रत्य᳘क्षमाशि᳘षा स᳘म्पादयति॥

मूलम् - विस्वरम्

“अस्यामृधेद्धोत्रायां देवङ्गमायामिति” । अस्यां राध्नोतु होत्रायां देवङ्गमायामित्येवैतदाह । “आशास्ते ऽयं यजमानो ऽसाविति”- नाम गृह्णाति । तदेनं प्रत्यक्षमाशिषा सम्पादयति ॥ १२ ॥

सायणः

अस्यामृधेत्तदेनं प्रत्यक्षमिति । श्रुतया आशिषा विशेषेण ‘आशास्ते’ ‘अयं यजमानः’ इति । स ‘ऋधेत्’ ‘राध्नोतु’ । ‘देवङ्गमायां’ देवप्रापणशीलायाम् । यच्चेडायाम् “उपहृतो ऽयं यजमानः” इति (श० प० ८ अ० १ ब्रा० २९ कं०) आशीःशब्दाभावान्नामाभावाच्च परोक्षम् आशिषा सम्पादयति ॥ १२ ॥

Eggeling
  1. ‘May he prosper in this sacrifice which goes to the gods!’ he thereby says, ‘May he be successful in this sacrifice which goes to the gods.’–‘Thus prays this sacrificer, N.N. 11;’ here he gives the name, and thereby makes him directly successful in his prayer.

१३

विश्वास-प्रस्तुतिः

दीर्घायुत्वमा᳘शास्त ऽइ᳘ति॥
सा᳘ यामुत्रो᳘त्तरा देवयज्या त᳘दिह᳘ प्रत्य᳘क्षं दीर्घायुत्वम्॥

मूलम् - श्रीधरादि

दीर्घायुत्वमा᳘शास्त ऽइ᳘ति॥
सा᳘ यामुत्रो᳘त्तरा देवयज्या त᳘दिह᳘ प्रत्य᳘क्षं दीर्घायुत्वम्॥

मूलम् - Weber

दीर्घायुत्वमा᳘शास्त इ᳘ति॥
साॗ यामुत्रो᳘त्तरा देवयज्या त᳘दिह᳘ प्रत्य᳘क्ष्ं दीर्घायुत्व᳘म्॥

मूलम् - विस्वरम्

“दीर्घायुत्वमाशास्ते” इति सा यामुत्रोत्तरा देवयज्या तदिह प्रत्यक्षं दीर्घायुत्वम् ॥ १३ ॥

सायणः

दीर्घायुत्वमाशास्ते । अमुत्र’ इडायाम् । ‘उत्तरा देवयज्या’ “उपहूतो ऽयं यजमान उत्तरस्यां देवयज्यायाम्” इति, (श० प० ८ अ० १ ब्रा० २० कं०) ‘तदिह’ ‘प्रत्यक्षं’ श्रौतं ‘दीर्घायुत्वम्’ आशास्त इति दीर्घजीवित्वमुपदिश्यत इत्यर्थः ॥ १३ ॥

Eggeling
  1. ‘He prays for long life,’ what there (viz. at the invocation of the iḍā) 12 was (called implicitly) ‘future worship of the gods,’ that is here (called) expressly ’long life.’

१४

विश्वास-प्रस्तुतिः

(ᳫं᳘) सुप्रजास्त्वमा᳘शास्त ऽइ᳘ति॥
तद्य᳘दमु᳘त्र भू᳘यो हविष्क᳘रणं त᳘दिह᳘ प्रत्य᳘क्षᳫँ᳭ सुप्रजास्त्वं᳘ प्रशा᳘सनᳫँ᳭ स᳘ कुर्याद्य᳘ ऽएवं᳘ कुर्यादु᳘त्तरां देवयज्यामा᳘शास्त ऽइ᳘ति᳘ त्वेव᳘ ब्रूयात्त᳘देव᳘ जीवा᳘तुं त᳘त्प्रजां त᳘त्पशून्॥

मूलम् - श्रीधरादि

(ᳫं᳘) सुप्रजास्त्वमा᳘शास्त ऽइ᳘ति॥
तद्य᳘दमु᳘त्र भू᳘यो हविष्क᳘रणं त᳘दिह᳘ प्रत्य᳘क्षᳫँ᳭ सुप्रजास्त्वं᳘ प्रशा᳘सनᳫँ᳭ स᳘ कुर्याद्य᳘ ऽएवं᳘ कुर्यादु᳘त्तरां देवयज्यामा᳘शास्त ऽइ᳘ति᳘ त्वेव᳘ ब्रूयात्त᳘देव᳘ जीवा᳘तुं त᳘त्प्रजां त᳘त्पशून्॥

मूलम् - Weber

सुप्रजास्त्वमा᳘शास्त इ᳘ति॥
तद्य᳘दमु᳘त्र भू᳘यो हविष्क᳘रणं त᳘दिह᳘ प्रत्य᳘क्ष्ᳫं सुप्रजास्त्व᳘म् प्रशा᳘सनᳫं स᳘ कुर्याद्य᳘ एवं᳘ कुर्यादु᳘त्तरां देवयज्यामा᳘शास्त इ᳘तिॗ त्वेव᳘ ब्रूयात्त᳘देव᳘ जीवा᳘तुं त᳘त्प्रजां त᳘त्पशू᳘न्॥

मूलम् - विस्वरम्

“सुप्रजास्त्वमाशास्त” इति । तद्यदमुत्र भूयो हविष्करणं तदिह प्रत्यक्षं सुप्रजास्त्वम् । प्रशासनं स कुर्याद्- य एवं कुर्यात् । “उत्तरां देवयज्यामाशास्त”- इति त्वेव ब्रूयात्, तदेव जीवातुं, तत्प्रजां तत्पशून् ॥ १४ ॥

सायणः

सुप्रजास्त्वमाशास्ते । ‘प्रशासनं’ प्रशारयन्ते ऽनेन देवाः प्रार्थ्यमाना इति प्रशासनम्, पुरुषस्य साक्षात् स्वार्थपरत्वं ‘कुर्यात्’ इत्यर्थः । “उत्तरां देवयज्याम्”- इत्येवं देवार्थाशीःपूर्वकान् स्वार्थानासीरन् यजमानाः । यजनीयदेवानां भवति च यथा जीवनादित्रयमन्तर्गतम्, तथोक्तमेव (श० प० १ । ८ । १ । ३१-३३) ॥ १४ ॥

Eggeling
  1. ‘He prays for abundant offspring,’–what then was ‘more abundant offering,’ that is here expressly ‘abundant offspring.’ He who proceeds in this way will ensure dominion. He may, however, say, ‘He prays for future worship of the gods,’ for thereby (he ensures) long life, offspring, cattle 13.

१५

विश्वास-प्रस्तुतिः

(न्भू᳘) भू᳘यो हविष्क᳘रणमा᳘शास्त ऽइ᳘ति॥ त᳘द्वेव त᳘त्सजातवनस्यामा᳘शास्त ऽइ᳘ति प्राणा वै᳘ सजाताः᳘ प्राणौर्हि᳘ सह जा᳘यते त᳘त्प्राणाना᳘शास्ते॥

मूलम् - श्रीधरादि

(न्भू᳘) भू᳘यो हविष्क᳘रणमा᳘शास्त ऽइ᳘ति॥ त᳘द्वेव त᳘त्सजातवनस्यामा᳘शास्त ऽइ᳘ति प्राणा वै᳘ सजाताः᳘ प्राणौर्हि᳘ सह जा᳘यते त᳘त्प्राणाना᳘शास्ते॥

मूलम् - Weber

भू᳘यो हविष्क᳘रणमा᳘शास्त इ᳘ति त᳘द्वेव त᳘त्सजातवनस्यामाशास्त इ᳘ति प्राणा वै᳘ सजाताः᳘ प्राणौर्हि᳘ सह जा᳘यते त᳘त्प्राणाना᳘शास्ते॥

मूलम् - विस्वरम्

“भूयो हविष्करणमाशास्ते” इति तद्वेव तत् । “सजातवनस्यामाशास्ते” इति । प्राणा वै सजाताः । प्राणैर्हि सह जायते । तत् प्राणानाशास्ते ॥ १५ ॥

सायणः

भूयो हविष्करणमाशास्तेतद्वेव तदिति । यदेवैतत् पूर्वं जीवनादित्रय देवपुरःसरम् “उत्तरां देवयज्याम्” इत्युक्तम् (तै० ब्रा० ३ । ५ । १०) 14 । तदेतद् भूयो हविष्करणमिति । किमर्थं तर्हि ? तदेवोच्यते- तद्वेव तदिति; अर्थभेदात् । अन्या हि उत्तरा देवेज्या, पुनर्यागमात्रमन्यद् ‘भूयः’ बहु ‘हविष्करणम्;’ प्रयोगबाहुल्यात्मकमनल्पहविष्कत्वञ्चेत्यपौनरुक्त्यम् । सुजाता भ्रातरः, आत्मिकास्तु प्राणास्तेषाञ्च तस्य सम्भक्तिस्तैरवियोगः ‘सजातवनस्या’ (तै ० सं० २ । ६ । ९)। ‘वनस्’- शब्दः कण्ड्वादिषु द्रष्टव्यः; “कण्ड्वादिभ्यो यक्” (पा० सू० ३ । १ । २७) वननं वनस्या ॥ १५ ॥

Eggeling
  1. ‘He prays for more abundant offering,’ thereby (he prays for) that same object. ‘He prays for dominion over his co-evals (or countrymen);’–his co-evals, doubtless, are his vital airs, for he is born along with his vital airs: hence he thereby prays for vital airs.

१६

विश्वास-प्रस्तुतिः

दिव्यं धामा᳘शास्त ऽइ᳘ति॥
देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्देवलोक᳘ ऽए᳘वैनमेत᳘दपित्वि᳘नं करोति य᳘दने᳘न हवि᳘षाशा᳘स्ते त᳘दश्यात्त᳘दृध्यादि᳘ति य᳘दने᳘न हवि᳘षाशा᳘स्ते त᳘दस्मै स᳘र्व्ँ वᳫ᳭ स᳘मृद्ध्यतामि᳘त्येवैत᳘दाह॥

मूलम् - श्रीधरादि

दिव्यं धामा᳘शास्त ऽइ᳘ति॥
देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्देवलोक᳘ ऽए᳘वैनमेत᳘दपित्वि᳘नं करोति य᳘दने᳘न हवि᳘षाशा᳘स्ते त᳘दश्यात्त᳘दृध्यादि᳘ति य᳘दने᳘न हवि᳘षाशा᳘स्ते त᳘दस्मै स᳘र्व्ँ वᳫ᳭ स᳘मृद्ध्यतामि᳘त्येवैत᳘दाह॥

मूलम् - Weber

दिव्यं धामा᳘शास्त इ᳘ति॥
देवलोके मे᳘ ऽप्यसदि᳘ति वै᳘ यजते यो य᳘जते त᳘द्देवलोक᳘ एॗवैनमेत᳘दपित्वि᳘नं करोति य᳘दने᳘न हवि᳘षाशा᳘स्ते त᳘दश्यात्त᳘दृध्यादि᳘ति य᳘दने᳘न हवि᳘षाशा᳘स्ते त᳘दस्मै स᳘र्वᳫं स᳘मृध्यतामि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“दिव्यं धामाशास्ते”- इति । देवलोके मे ऽप्यसदिति वै यजते- यो यजते । तद्देवलोक एवैनमेतदपित्विनं करोति- यदनेन हविषाशास्ते । “तदश्यात्, तदृध्याद्”- इति । यदनेन हविषाशास्ते- तदस्मै सर्वं समृद्ध्यतामित्येवैतदाह ॥ १६ ॥

सायणः

दिव्यं धाम । दिवि भवं ‘दिव्यम्’ । देवलोके मे ऽपीति । ‘यो यजते’ स एवमर्थ इह तावन्नामास्त्येव, येन कार्यं देवलोके ऽपि मे कथं नाम स्यादिति तत्र स्थानमात्मन आशास्त इत्यभिप्रायः । ‘अश्यात्’ “अशू व्याप्तौ” (धा० पा० स्वा० प० १७) प्राप्नोतु । ‘ऋध्यात्’ समृद्ध्यताम् ॥ १६ ॥

Eggeling
  1. ‘He prays for a heavenly abode;’–he who sacrifices assuredly sacrifices with the desire that there may be for him also (a place) in the world of the gods: he thereby confers on him a share in the world of the gods 15. ‘May he obtain, may he accomplish what he prays for through this offering!’ he thereby says, ‘May all, that he prays for through this offering, be fulfilled to him!’

१७

विश्वास-प्रस्तुतिः

ता वा᳘ ऽएताः॥
प᳘ञ्चाशि᳘षः करोति तिस्र ऽइ᳘डायां ता᳘ ऽअष्टा᳘वष्टा᳘क्षरा वै᳘ गायत्री᳘ व्वीर्यं᳘ गायत्री᳘ व्वीर्य᳘मे᳘वैत᳘दाशि᳘षो ऽभिस᳘म्पादयति॥

मूलम् - श्रीधरादि

ता वा᳘ ऽएताः॥
प᳘ञ्चाशि᳘षः करोति तिस्र ऽइ᳘डायां ता᳘ ऽअष्टा᳘वष्टा᳘क्षरा वै᳘ गायत्री᳘ व्वीर्यं᳘ गायत्री᳘ व्वीर्य᳘मे᳘वैत᳘दाशि᳘षो ऽभिस᳘म्पादयति॥

मूलम् - Weber

ता वा᳘ एताः᳟॥
प᳘ञ्चाशि᳘षः करोति तिस्र इ᳘डायां ता᳘ अष्टा᳘वष्टा᳘क्षरा वै᳘ गायत्री᳘ वीर्यं᳘ गायत्री᳘ वीर्य᳘मेॗवैत᳘दाशि᳘षो ऽभिसं᳘पादयति॥

मूलम् - विस्वरम्

ता वा एताः पञ्चाशिषः करोति । तिस्र इडायाम् । ता अष्टौ । अष्टाक्षरा वै गायत्री । वीर्यं गायत्री । वीर्यमेवैतदाशिषो ऽभिसम्पादयति ॥ १७ ॥

सायणः

ता वा ऽएताः । ‘पञ्चाशिषः’ उत्तरदेवयज्या, भूयो हविष्करणम्, सजातवनस्या, दिव्यं धाम, यदनेनेति च कर्मफलं समीहितम्; एताः पंच । ‘तिस्र इडायां’ देवयज्याहविष्करणम् “देवा म इदं हविर्जुषताम्” इति (श० प० १ का० ८ । १ । ३०-३७) । “वीर्यं गायत्री” वीर्यवती सा, यद्गायत्री श्येनो हि भूत्वा दिवः सोममाहरत् ॥ १७ ॥

Eggeling
  1. These five prayers for blessings he offers now, and three (he offered) at the iḍā, these are eight. Of eight syllables, truly, consists the gāyatrī metre, and the gāyatrī means vigour: hence he thereby imparts vigour to the prayers.

१८

विश्वास-प्रस्तुतिः

ना᳘तो भू᳘यसीः कुर्यात्॥
(द᳘) अ᳘तिरिक्तᳫँ᳭ ह कुर्याद्यद᳘तो भू᳘यसीः कुर्याद्यद्वै᳘ यज्ञस्या᳘तिरिक्तं द्विष᳘न्तᳫँ᳭ हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते त᳘स्मान्ना᳘तो भू᳘यसीः कुर्यात्॥

मूलम् - श्रीधरादि

ना᳘तो भू᳘यसीः कुर्यात्॥
(द᳘) अ᳘तिरिक्तᳫँ᳭ ह कुर्याद्यद᳘तो भू᳘यसीः कुर्याद्यद्वै᳘ यज्ञस्या᳘तिरिक्तं द्विष᳘न्तᳫँ᳭ हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते त᳘स्मान्ना᳘तो भू᳘यसीः कुर्यात्॥

मूलम् - Weber

ना᳘तो भू᳘यसीः कुर्यात्॥
अ᳘तिरिक्तᳫं ह कुर्याद्यद᳘तो भू᳘यसीः कुर्याद्यद्वै᳘ यज्ञस्या᳘तिरिक्तं द्विष᳘न्तᳫं हास्य तद्भ्रा᳘तृव्यमभ्य᳘तिरिच्यते त᳘स्मान्ना᳘तो भू᳘यसीः कुर्यात्॥

मूलम् - विस्वरम्

नातो भूयसीः कुर्यात् । अतिरिक्तं ह कुर्याद्- यदतो भूयसीः कुर्याद् । यद्वै यज्ञस्यातिरिक्तं- द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते । तस्मान्नातो भूयसीः कुर्यात् ॥ १८ ॥

सायणः

नातो भूयसीः । शाखान्तराधीतानां प्रतिषेधः ॥ १८ ॥

Eggeling
  1. Let him not offer more than these; for if he offered more, he would do what is in excess; and what is in excess at the sacrifice, that remains over

for the benefit of his spiteful enemy: hence he should not offer more (prayers) than these.

१९

विश्वास-प्रस्तुतिः

(द) अपीद्वै क᳘नीयसीः सप्त॥
त᳘दस्मै देवा᳘ रासन्तामि᳘ति त᳘दस्मै देवा ऽअ᳘नुमन्यन्तामि᳘त्ये᳘वैत᳘दाह त᳘दाग्नि᳘र्द्देवो᳘ देवे᳘भ्यो व्वनुतां व्वय᳘मग्नेः प᳘रिमा᳘नुषा ऽइति त᳘दग्नि᳘र्द्देवो᳘ देवे᳘भ्यो व्वनुतां व्वय᳘मग्नेर᳘ध्यस्मा ऽएत᳘द्वनवामहा ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(द) अपीद्वै क᳘नीयसीः सप्त॥
त᳘दस्मै देवा᳘ रासन्तामि᳘ति त᳘दस्मै देवा ऽअ᳘नुमन्यन्तामि᳘त्ये᳘वैत᳘दाह त᳘दाग्नि᳘र्द्देवो᳘ देवे᳘भ्यो व्वनुतां व्वय᳘मग्नेः प᳘रिमा᳘नुषा ऽइति त᳘दग्नि᳘र्द्देवो᳘ देवे᳘भ्यो व्वनुतां व्वय᳘मग्नेर᳘ध्यस्मा ऽएत᳘द्वनवामहा ऽइ᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

अपीद्वै क᳘नीयसीः सप्त॥
त᳘दस्मै देवा᳘ रासन्तामि᳘ति त᳘दस्मै देवा अ᳘नुमन्यन्तामि᳘त्येॗवैत᳘दाह त᳘दाग्नि᳘र्देवो᳘ देवे᳘भ्यो वनुतां वय᳘मग्नेः प᳘रि मा᳘नुषा इति त᳘दग्नि᳘र्देवो᳘ देवे᳘भ्यो वनुतां वय᳘मग्नेर᳘ध्यस्मा एत᳘द्वनवामहा इ᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

अपीद्वै कनीयसीः सप्त । “तदस्मै देवा रासन्ताम्”- इति । तदस्मै देवा अनुमन्यन्तामित्येवैतदाह । “तदग्निर्द्देवो देवेभ्यो वनुतां वयमग्नेः परिमानुषा" इति । तदग्निर्द्देवो देवेभ्यो वनुतां वयमग्नेरध्यस्मा एतद्वनवामहा इत्येवैतदाह ॥ १९ ॥

सायणः

अपीद्वै कनीयसीः । कनीयस्त्वे कारणं प्रदेशान्तरे उक्तम् “न्यूनाद्वा ऽइमाः प्रजाः प्रजायन्ते तच्छ्वःश्रेयसमुत्तरावत्” (श० प० २ । १ । १ । १३) इति । ‘रासन्ताम्’ “रासृ दाने” (धा० पा० भ्वा० आ० ६२७) ददतु; कर्मभिर्व्यज्यमाना देवा अनुमन्यन्तामिति भावः । ‘तत्’ ‘अग्निः’ होता ‘देवः’ ‘देवेभ्यः’ ‘वनुताम्’ “वनु याचने” (धा० पा० त० आ० ८) याचताम् । ‘वयं’ च मानुषहोतारः । आत्मनि बहुवचनम् 16 । ‘अग्नेः’ ‘अधि’- शब्दो ऽत्राग्निरित्यस्य पञ्चम्यन्तत्वद्योतनार्थः । अनेकपञ्चम्यर्थसम्भवे ऽपादानार्थत्वद्योतकः (पा० सू० २ अ० ३ पा० २८ सू० भा०) ॥ १९ ॥

Eggeling
  1. Even less,–seven (he may offer) 17.–‘May the gods vouchsafe him that!’ he thereby says, ‘May the gods grant him that.’–‘May the god Agni solicit that from the gods, we men from Agni–,’ he thereby says, ‘May the god Agni solicit that from the gods, and we will then solicit it for this (sacrificer) from Agni–’

२०

विश्वास-प्रस्तुतिः

(हे) इष्ट᳘ञ्च व्वित्तञ्चेति॥
(त्यै᳘) ऐ᳘षिषुरिव वा᳘ ऽएत᳘द्यज्ञन्त᳘मविदंस्त᳘स्मादाहेष्ट᳘ञ्च व्वित्तञ्चे᳘त्युभे᳘ चैनं द्या᳘वापृथिवी ऽअ᳘ᳫँ᳘हसस्पातामि᳘त्युभे᳘ चैनं द्या᳘वापृथिवी आ᳘र्त्तेर्गोपायतामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

(हे) इष्ट᳘ञ्च व्वित्तञ्चेति॥
(त्यै᳘) ऐ᳘षिषुरिव वा᳘ ऽएत᳘द्यज्ञन्त᳘मविदंस्त᳘स्मादाहेष्ट᳘ञ्च व्वित्तञ्चे᳘त्युभे᳘ चैनं द्या᳘वापृथिवी ऽअ᳘ᳫँ᳘हसस्पातामि᳘त्युभे᳘ चैनं द्या᳘वापृथिवी आ᳘र्त्तेर्गोपायतामि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

इष्टं᳘ च वित्तं चे᳘ति॥
ऐ᳘षिषुरिव वा᳘ एत᳘द्यज्ञं त᳘मविदंस्त᳘स्मादाहेष्टं᳘ च वित्तं चे᳘त्युभे᳘ चैनं द्या᳘वापृथिवी अ᳘ᳫं᳘हसस्पातामि᳘त्युभे᳘ चैनं द्या᳘वापृथिवी आ᳘त्तेर्गोपायतामि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“इष्टञ्च वित्तञ्चेति” । ऐषिषुरिव वा एतद्यज्ञम्, तमविदन्,- तस्मादाह- इष्टञ्च वित्तञ्चेति । “उभे चैनं द्यावापृथिवी अंहसस्पाताम्”- इति । उभे चैनं द्यावापृथिवीं आर्त्तेर्गोगपायतामित्येवैतदाह ॥ २० ॥

सायणः

इष्टश्च वित्तञ्च । ‘उभे च द्यावापृथिवी’ ‘एनम्’ यजमानयज्ञं ‘गोपायताम्’ इति सम्बन्धः । ‘इष्टं’ कर्म, यज्ञः, सर्वकालं मनोरथैर्वाञ्छितमित्यर्थः । ‘वित्तं’ तदेव लब्धम् । देवेषु ‘ऐषिषुः’ प्रार्थितवन्तः ऋत्विग्यजमानाः । ‘यज्ञम् तमविदन्’ “विद्ऌ लाभे” (धा० पा० तु० उ० १५१) लब्धवन्तः ॥ २० ॥

Eggeling
  1. ‘–What was searched for and found 18;’ they indeed searched for the sacrifice, and found it: therefore he says, ‘what was searched for and found.’–And ‘may both heaven and earth guard this one (enam) from anxiety!’ he thereby says, ‘may both heaven and earth protect him from suffering.’

२१

विश्वास-प्रस्तुतिः

त᳘दु है᳘क ऽआहुः॥
(रु) उभे᳘ च मे᳘ति त᳘था हो᳘ताशि᳘ष ऽआत्मानं᳘ नान्त᳘रेती᳘ति त᳘दु त᳘था न᳘ ब्रूयाद्य᳘जमानस्य वै᳘ यज्ञ᳘ ऽआशीः किन्नु त᳘त्रर्त्वि᳘जां यां वै का᳘ञ्च यज्ञ᳘ ऋत्वि᳘ज ऽआशि᳘षमाशा᳘सते य᳘जमानस्यैव सा न᳘ ह स᳘ ऽएतां क्वच᳘नाशि᳘षं प्र᳘तिष्ठापयति य᳘ ऽआ᳘होभे᳘ च मे᳘ति त᳘स्मादु ब्रूयादुभे᳘ चैनमि᳘त्ये᳘व॥

मूलम् - श्रीधरादि

त᳘दु है᳘क ऽआहुः॥
(रु) उभे᳘ च मे᳘ति त᳘था हो᳘ताशि᳘ष ऽआत्मानं᳘ नान्त᳘रेती᳘ति त᳘दु त᳘था न᳘ ब्रूयाद्य᳘जमानस्य वै᳘ यज्ञ᳘ ऽआशीः किन्नु त᳘त्रर्त्वि᳘जां यां वै का᳘ञ्च यज्ञ᳘ ऋत्वि᳘ज ऽआशि᳘षमाशा᳘सते य᳘जमानस्यैव सा न᳘ ह स᳘ ऽएतां क्वच᳘नाशि᳘षं प्र᳘तिष्ठापयति य᳘ ऽआ᳘होभे᳘ च मे᳘ति त᳘स्मादु ब्रूयादुभे᳘ चैनमि᳘त्ये᳘व॥

मूलम् - Weber

त᳘दु है᳘क आहुः॥
उभे᳘ च मे᳘ति त᳘था हो᳘ताशि᳘ष आत्माॗनं नान्तरेती᳘ति त᳘दु त᳘था न᳘ ब्रूयाद्य᳘जमानस्य वै᳘ यज्ञ᳘ आशीः᳘ किं नु त᳘त्रर्त्वि᳘जां यां वै कां᳘ च यज्ञ᳘ ऋत्वि᳘ज आशि᳘षमाशा᳘सते य᳘जमानस्यैव सा न᳘ ह स᳘ एतां क्व᳘ च᳘नाशि᳘षम् प्र᳘तिष्ठापयति य᳘ आहोभे᳘ च मे᳘ति त᳘स्मादु ब्रूयादुभे᳘ छैनमि᳘त्येव॥

मूलम् - विस्वरम्

तदु हैक आहुः- ‘उभे च मा’ इति । तथा होताशिष आत्मानं नान्तरेतीति । तदु तथा न ब्रूयात् । यजमानस्य वै यज्ञ आशीः किन्तु तत्रर्त्विजाम् । यां वै काञ्च यज्ञ ऋत्विज आशिषमाशासते- यजमानस्यैव सा । न ह स एतां क्वचनाशिषं प्रतिष्ठापयति- य आह- उभे च मा- इति । तस्मादु ब्रूयाद्- ‘उभे चैनम्’- इत्येव ॥ २१ ॥

सायणः

तदु हैक ऽआहुः । ‘उभे च मा’ मां द्यावापृथिवी इत्येवं होता ब्रूयात् । एके आहुः- “यजमानस्य वै यज्ञ आशीः; किन्नु तत्रर्त्विजाम्”- इति; न काश्चिदप्याशिष ऋत्विजामित्यर्थः । कथम् ? ‘यां काञ्च’ सर्वामित्यर्थः; ‘आशिषमाशासते’, ‘यजमानस्यैव सा’ भवति न त्वृत्विजाम् । ततश्च य एव सार्थो भवति, ‘न’ ‘सः’ ‘क्वचन’ क्वचिदपि ‘एतामाशिषं प्रतिष्ठापयति’ । कथम् ? यत्र तथा प्रतिष्ठातव्यो यजमानः, तत्र शंसन्नाह । यश्चाहात्मनि, तत्र स न प्रतितिष्ठतीति । “तस्मादु ब्रूयादुभे चैनमित्येव”- इति । उभे च मेतीत्येतच्छब्दस्यार्थः ॥ २१ ॥

Eggeling
  1. Here now some say, ‘And may both heaven and earth guard me (mā 19) . . .,’ arguing that in this way the Hotr̥ does not exclude himself from the benediction. Let him not, however, say this; for, surely, the benediction at the sacrifice is for the sacrificer: what then have the officiating priests to do with it? Whatever blessing the officiating priests invoke at the sacrifice, that is for the sacrificer only. On the other hand, whoever says, ‘and may both heaven and earth guard me . . .,’ does not establish

that blessing anywhere: let him therefore say, ‘and may both heaven and earth guard this one. . . .’

२२

विश्वास-प्रस्तुतिः

(वे) इह ग᳘तिर्व्वामस्ये᳘ति॥
तद्य᳘देव᳘ यज्ञ᳘स्य साधु त᳘दे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाहेह ग᳘तिर्वामस्ये᳘ति॥

मूलम् - श्रीधरादि

(वे) इह ग᳘तिर्व्वामस्ये᳘ति॥
तद्य᳘देव᳘ यज्ञ᳘स्य साधु त᳘दे᳘वास्मिन्नेत᳘द्दधाति त᳘स्मादाहेह ग᳘तिर्वामस्ये᳘ति॥

मूलम् - Weber

इह ग᳘तिर्वामस्ये᳘ति॥
तद्य᳘देव᳘ यज्ञ᳘स्य साधु त᳘देॗवास्मिन्नेत᳘द्दधाति त᳘स्मादाहेह ग᳘तिर्वामस्ये᳘ति॥

मूलम् - विस्वरम्

“इह गतिर्वामस्य”- इति । तद्यदेव यज्ञस्य साधु; तदेवास्मिन्नेतद्दधाति, तस्मादाह- इह गतिर्वामस्येति ॥ २२ ॥

सायणः

इह गतिः । ‘इह’ यजमाने ‘गतिः’ प्रतिष्ठा ‘वामस्य’ वननीयस्य (निरु० ९ ४ । ४ । ५) ‘साधु’ अस्तीति शेषः । तद्यदेव यज्ञस्य साध्विति । असाध्वपि- किञ्चिदस्यास्ति, तद् यजमाने मा भूदित्यर्थः ॥ २२ ॥

Eggeling
  1. ‘Hither lies the course of any boon;’ he thereby makes over to this (sacrificer) whatever is excellent in the sacrifice: for this reason he says, ‘hither lies the course of any boon.’

२३

विश्वास-प्रस्तुतिः

(ती) इदं᳘ च न᳘मो देवे᳘भ्य इ᳘ति॥ त᳘द्यज्ञ᳘स्यै᳘वैत᳘त्सᳫंस्थां᳘ गत्वा न᳘मो देवे᳘भ्यः करोति त᳘स्मादाहेद᳘ञ्च न᳘मो देवे᳘भ्य ऽइति᳘॥

मूलम् - श्रीधरादि

(ती) इदं᳘ च न᳘मो देवे᳘भ्य इ᳘ति॥ त᳘द्यज्ञ᳘स्यै᳘वैत᳘त्सᳫंस्थां᳘ गत्वा न᳘मो देवे᳘भ्यः करोति त᳘स्मादाहेद᳘ञ्च न᳘मो देवे᳘भ्य ऽइति᳘॥

मूलम् - Weber

इदं᳘ च न᳘मो देवे᳘भ्य इ᳘ति त᳘द्यज्ञ᳘स्यैॗवैत᳘त्संस्थां᳘ गत्वा न᳘मो देवे᳘भ्यः करोति त᳘स्मादाहेदं᳘ च न᳘मो देवे᳘भ्य इ᳘ति॥

मूलम् - विस्वरम्

“इदं च नमो देवेभ्यः”- इति । तद् यज्ञस्यैवैतत् संस्थां गत्वा नमो देवेभ्यः करोति । तस्मादाह- ‘इदञ्च नमो देवेभ्य’ इति ॥ २३ ॥

सायणः

इदञ्च नमः । इदमिति नमस्करणं प्रत्यक्षम्, तदाह- ‘नमस्करोति’- इति । होता ‘देवेभ्यः’ वैगुण्याशङ्कानिह्नवाय, यज्ञकृतकदर्थननिह्नवाय वा वदेदित्यभिप्रायः ॥ २३ ॥

Eggeling
  1. ‘And this adoration (shall be offered) to the gods!’ having attained the completion of the sacrifice, he thereby renders adoration to the gods: for this reason he says, ‘and this adoration to the gods!’

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ शंयो᳘राह॥
शंयु᳘र्ह वै᳘ बार्हस्पत्यो᳘ ऽञ्जसा यज्ञ᳘स्य सᳫंस्थां᳘ व्विदा᳘ञ्चकार स᳘ देवलोकम᳘पीयाय तत्त᳘दन्त᳘र्हितमिव मनु᳘ष्येभ्य ऽआस॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ शंयो᳘राह॥
शंयु᳘र्ह वै᳘ बार्हस्पत्यो᳘ ऽञ्जसा यज्ञ᳘स्य सᳫंस्थां᳘ व्विदा᳘ञ्चकार स᳘ देवलोकम᳘पीयाय तत्त᳘दन्त᳘र्हितमिव मनु᳘ष्येभ्य ऽआस॥

मूलम् - Weber

अ᳘थ शम्यो᳘राह॥
शम्यु᳘र्ह वै᳘ बार्हस्पत्यो᳘ ऽञ्जसा यज्ञ᳘स्य संस्थां᳘ विदां᳘ चकार स᳘ देवलोकम᳘पीयाय तत्त᳘दन्त᳘र्हितमिव मनुॗष्येभ्य आस॥

मूलम् - विस्वरम्

अथ शंयोराह । शंयुर्ह वै बार्हस्पत्यो ऽञ्जसा यज्ञस्य संस्थां विदाञ्चकार, स देवलोकमपीयाय, तत्तदन्तर्हितमिव मनुष्येभ्य आस ॥ २४ ॥

सायणः

अथ शंयोः 20 । शंयुर्नाम 21 बृहस्पतेः पुत्रः । स यावदत्र लोके आस्ते, तावत्तादृशी यज्ञस्य संस्था न भवति, यादृशीं ‘स विदाञ्चकार’; द्युलोकगते तु शंयौ तत्समानवीर्या कनीयसी संस्था सम्भवतीत्येतदितिहासेनाह- शंयोर्वाकमिति । विशेषत आह होता अध्वर्युणा प्रेषितः सन् ‘अञ्जसा’ ऋजु, सम्यगित्यर्थः । ‘सः’ च क्वचित्काले ‘देवलोकम्’ ‘अपीयाय’ अपिगतः । ‘तत्’ तदा ‘तद्’ विज्ञान भवितव्यतावशादेव ‘अन्तर्हितं विच्छिन्नं ‘मनुष्येभ्यः’ बभूव ॥ २४ ॥

Eggeling
  1. Thereupon he pronounces the ‘All-hail and blessing’ (śam-yos) 22. Now it was Śamyu Bārhaspatya who perceived, in its true nature, the consummation of the sacrifice. He went to share in the world of the gods. Thereupon that (knowledge) was entirely lost to men.

२५

विश्वास-प्रस्तुतिः

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
शंयु᳘र्ह वै᳘ बार्हस्पत्यो᳘ ऽञ्जसा यज्ञ᳘स्य सᳫँस्थां᳘ व्विदा᳘ञ्चकार स᳘ देवलोकम᳘पीयाये᳘ति ते ता᳘मेव᳘ यज्ञ᳘स्य सᳫंस्थामु᳘पायन्या᳘ᳫँ᳘शं यु᳘र्बार्हस्पत्यो᳘ ऽवेद्य᳘च्छंयोर᳘ब्रुवंस्ता᳘म्वे᳘वैष᳘ ऽएत᳘द्यज्ञ᳘स्य सᳫं स्थामुपेति या᳘ᳫँ᳭शंयु᳘र्बार्हस्पत्यो᳘ ऽवेद्य᳘च्छंयोरा᳘ह त᳘स्माद्वै᳘ शंयो᳘राह॥

मूलम् - श्रीधरादि

तद्वा ऽऋ᳘षीणाम᳘नुश्रुतमास॥
शंयु᳘र्ह वै᳘ बार्हस्पत्यो᳘ ऽञ्जसा यज्ञ᳘स्य सᳫँस्थां᳘ व्विदा᳘ञ्चकार स᳘ देवलोकम᳘पीयाये᳘ति ते ता᳘मेव᳘ यज्ञ᳘स्य सᳫंस्थामु᳘पायन्या᳘ᳫँ᳘शं यु᳘र्बार्हस्पत्यो᳘ ऽवेद्य᳘च्छंयोर᳘ब्रुवंस्ता᳘म्वे᳘वैष᳘ ऽएत᳘द्यज्ञ᳘स्य सᳫं स्थामुपेति या᳘ᳫँ᳭शंयु᳘र्बार्हस्पत्यो᳘ ऽवेद्य᳘च्छंयोरा᳘ह त᳘स्माद्वै᳘ शंयो᳘राह॥

मूलम् - Weber

तद्वा ऋ᳘षीणामनुश्रुतमास॥
शम्यु᳘र्ह वै᳘ बार्हस्पत्यो᳘ ऽञ्जसा यज्ञ᳘स्य संस्थां᳘ विदां᳘ चकार स देवलोकम᳘पीयाये᳘ति ते ता᳘मेव᳘ यज्ञ᳘स्य संस्थामु᳘पायन्यां᳘ शम्यु᳘र्बार्हस्पत्यो᳘ ऽवेद्य᳘छम्योर᳘ब्रुवंस्ता᳘म्वेॗवैष᳘ एत᳘द्यज्ञ᳘स्य संस्थामु᳘पैति यां᳘ शम्यु᳘र्बार्हस्पत्यो᳘ ऽवेद्य᳘छम्योरा᳘ह त᳘स्माद्वै᳘ शम्यो᳘राह॥

मूलम् - विस्वरम्

तद्वा ऋषीणामनुश्रुतमास- ‘शंयुर्ह वै बार्हस्पत्यो ऽञ्जसा यज्ञस्य संस्थां विदाञ्चकार, स देवलोकमपीयाय’ इति। ते तामेव यज्ञस्य संस्थामुपायन्- यां शंयुर्बार्हस्पत्यो ऽवेद्- यच्छंयोरब्रुवन् । ताम्वेवैष एतद् यज्ञस्य संस्थामुपैति- यां शंयुर्बार्हस्पत्यो ऽवेद्- यच्छंयोराह । तस्माद्वै शंयोराह ॥ २५ ॥

सायणः

तद्वा ऋषीणाम् । कथं तस्याः संस्थायाः प्रतिसन्धेयम्, तदृषिभिस्तत्काले श्रुतावानीय तस्याश्च कालं विदित्वा तामधो ऽवतारितवन्तः । तस्याश्चान्यूनवीर्यतायै आह- ते तामेवेति । यच्छंयोर्वाकमब्रुवन् ॥ २५ ॥

Eggeling
  1. It then became known to the R̥shis, that Śamyu Bārhaspatya had perceived, in its true nature, the consummation of the sacrifice, and had gone to share in the world of the gods. By pronouncing the śamyoḥ, they attained to that same consummation of the sacrifice which Śamyu Bārhaspatya had perceived; and to that same consummation of the sacrifice, which Samyu Bārhaspatya had perceived, this (Hotr̥)

attains by pronouncing the śam-yoḥ. For this reason he pronounces the ‘All-hail and blessing.’

२६

विश्वास-प्रस्तुतिः

स प्र᳘तिपद्यते॥
त᳘च्छंयोरा᳘वृणीमह ऽइ᳘ति तां᳘ यज्ञ᳘स्य सᳫंस्थामा᳘वृणीमहे या᳘ᳫँ᳭शंयु᳘र्बार्हस्पत्यो᳘ ऽवेदि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

स प्र᳘तिपद्यते॥
त᳘च्छंयोरा᳘वृणीमह ऽइ᳘ति तां᳘ यज्ञ᳘स्य सᳫंस्थामा᳘वृणीमहे या᳘ᳫँ᳭शंयु᳘र्बार्हस्पत्यो᳘ ऽवेदि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

स प्र᳘तिपद्यते॥
त᳘छंयोरा᳘वृणीमह इ᳘ति तां᳘ यज्ञ᳘स्य संस्थामा᳘वृणीमहे यां᳘ शम्यु᳘र्बार्हस्पत्यो᳘ ऽवेदि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

स प्रतिपद्यते- “तच्छंयोरावृणीमहे” इति । तां यज्ञस्य संस्थामावृणीमहे- यां शंयुर्बार्हस्पत्यो ऽवेदित्येवैतदाह ॥ २६ ॥

सायणः

स प्रतिपद्यते । यत् ‘शंयोः’ सम्बन्धि संस्थानं शंयुना दृष्टम्, ‘तत्’ ‘आवृणीमहे’ प्रार्थयामहे ॥ २६ ॥

Eggeling
  1. He intones, ‘We long for that All-hail and blessing (śam-yoḥ);’ whereby he says, ‘We long for that consummation of the sacrifice which Śamyu Bārhaspatya perceived.

२७

विश्वास-प्रस्तुतिः

गातुं᳘ यज्ञा᳘य गातुं᳘ यज्ञ᳘पतय ऽइ᳘ति॥
गातु᳘ᳫं᳭ ह्येष᳘ यज्ञा᳘येच्छ᳘ति गातुं᳘ यज्ञ᳘पतये यो᳘ यज्ञ᳘स्य सᳫंस्थां दै᳘वी स्वस्ति᳘रस्तु नः स्वस्ति᳘र्मा᳘नुषेभ्य ऽइ᳘ति स्वस्ति᳘ नो देवत्रा᳘स्तु स्वस्ति᳘ मनुष्यत्रे᳘त्ये᳘वैत᳘दाहोर्ध्वं᳘ जिगातु भेषजमि᳘त्यूर्द्धो᳘ नो ऽयं᳘ यज्ञो᳘ देवलोकं᳘ जयत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

गातुं᳘ यज्ञा᳘य गातुं᳘ यज्ञ᳘पतय ऽइ᳘ति॥
गातु᳘ᳫं᳭ ह्येष᳘ यज्ञा᳘येच्छ᳘ति गातुं᳘ यज्ञ᳘पतये यो᳘ यज्ञ᳘स्य सᳫंस्थां दै᳘वी स्वस्ति᳘रस्तु नः स्वस्ति᳘र्मा᳘नुषेभ्य ऽइ᳘ति स्वस्ति᳘ नो देवत्रा᳘स्तु स्वस्ति᳘ मनुष्यत्रे᳘त्ये᳘वैत᳘दाहोर्ध्वं᳘ जिगातु भेषजमि᳘त्यूर्द्धो᳘ नो ऽयं᳘ यज्ञो᳘ देवलोकं᳘ जयत्वि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

गातुं᳘ यज्ञा᳘य गातुं᳘ यज्ञ᳘पतय इ᳘ति॥
गातुॗᳫंॗ ह्येष᳘ यज्ञा᳘येछ᳘ति गातुं᳘ यज्ञ᳘पतये यो᳘ यज्ञ᳘स्य संस्थां दै᳘वी स्वस्ति᳘रस्तु नः स्वस्तिर्मा᳘नुषेभ्य इ᳘ति स्वस्ति᳘ नो देवत्रा᳘स्तु स्वस्ति᳘ मनुष्यत्रे᳘त्येॗवैत᳘दाहोर्ध्वं᳘ जिगातु भेषजमि᳘त्यूर्ध्वं᳘ नो ऽयं᳘ यज्ञो᳘ देवलोकं᳘ जयत्वि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“गातुं यज्ञाय गातुं यज्ञपतये”- इति । गातुं ह्येष यज्ञायेच्छति, गातुं यज्ञपतये- यो यज्ञस्य संस्थाम् | “दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः”- इति । स्वस्ति नो देवत्रास्तु, स्वस्ति मनुष्यत्रा- इत्येवैतदाह । “ऊर्ध्वं जिगातु भेषजम्”- इति । ऊर्ध्वः नो ऽयं यज्ञो देवलोकं जयत्वित्येवैतदाह ॥ २७ ॥

सायणः

गातुं यज्ञाय । कीदृशम् ? ‘गातुं’ गमनं ‘यज्ञाय’ द्युलोकगमनम्, ‘यज्ञपतये’ अपि च, यज्ञे यजमाने च ‘दैवी’ देवेषु भवा ‘स्वस्तिः’ अविनाशः ‘नः’ अस्माकम् ‘अस्तु’; ‘स्वस्तिः’ च ‘मानुषेभ्यः’ मानुषेषु च ‘नः’ अविनाशो ऽस्तु । न इति ब्रुवन् स्वामिनं व्यपदिशति । ‘ऊर्ध्वं’ देवलोकं ‘जिगातु’ जयतु, ‘भेषजं’ संसारख्याधिविनाशनं यज्ञाख्यं कर्म । यज्ञेन हि यो जितः स यजमानेन जित एव भवतीत्यभिप्रायः ॥ २७ ॥

Eggeling
  1. ‘Success to the sacrifice, success to the lord of sacrifice!’ he who wishes for the consummation of the sacrifice, thereby wishes success to the sacrifice and success to the lord of sacrifice.–‘Bliss (svasti) to us, bliss to men!’ he thereby says, ‘May we enjoy bliss among the gods, bliss among men!’–‘May the means of salvation ascend on high!’ he thereby says, ‘May this sacrifice secure for us the world of the gods!’

२८

विश्वास-प्रस्तुतिः

श᳘न्नो ऽअस्तु द्विप᳘दे शं च᳘तुष्पद ऽइ᳘ति॥
(त्ये) एता᳘वद्वा᳘ ऽइदᳫँ᳭स᳘र्व्वं या᳘वद्द्विपा᳘च्चैव च᳘तुष्पाच्च त᳘स्मा ऽए᳘वैत᳘द्यज्ञ᳘स्य सᳫंस्थां᳘ गत्वा शं᳘ करोति त᳘स्मादाह श᳘न्नो ऽअस्तु द्विप᳘दे शं च᳘तुष्पद ऽइ᳘ति॥

मूलम् - श्रीधरादि

श᳘न्नो ऽअस्तु द्विप᳘दे शं च᳘तुष्पद ऽइ᳘ति॥
(त्ये) एता᳘वद्वा᳘ ऽइदᳫँ᳭स᳘र्व्वं या᳘वद्द्विपा᳘च्चैव च᳘तुष्पाच्च त᳘स्मा ऽए᳘वैत᳘द्यज्ञ᳘स्य सᳫंस्थां᳘ गत्वा शं᳘ करोति त᳘स्मादाह श᳘न्नो ऽअस्तु द्विप᳘दे शं च᳘तुष्पद ऽइ᳘ति॥

मूलम् - Weber

शं᳘ नो अस्तु द्विप᳘दे शं च᳘तुष्पद इ᳘ति॥
एता᳘वद्वा᳘ इदᳫं स᳘र्वं या᳘वद्द्विपा᳘च्चैव च᳘तुष्पाच्च त᳘स्मा एॗवैत᳘द्यज्ञ᳘स्य संस्थां᳘ गत्वा शं करोति त᳘स्मादाह शं᳘ नो अस्तु द्विप᳘दे शं च᳘तुष्पद इ᳘ति॥

मूलम् - विस्वरम्

“शन्नो ऽअस्तु द्विपदे शं चतुष्पदे”- इति । एतावद्वा इदं सर्वं यावद् द्विपाच्चैव चतुष्पाच्च । तस्मा एवैतद् यज्ञस्य संस्थां गत्वा शं करोति । तस्मादाह ‘शन्नो अस्तु द्विपदे शं चतुष्पदे’ इति ॥ २८ ॥

सायणः

शन्नो ऽअस्तु । यज्ञे गच्छति तदनुकारेण द्विपदादेरपि गमनं मा भूदिति ‘शं’ सुखमाशास्ते । एवमेव मन्त्रार्थं ब्राह्मणं व्याचष्टे, तत्प्रसन्नमेव ॥ २८ ॥

Eggeling
  1. ‘All-hail, for us, to the two-footed, all-hail to the four-footed 23!’ for so far as the two-footed and the four-footed (extend), so far does this universe (extend). Having now attained the consummation of the sacrifice, he bids All-hail to this (sacrificer), and for this reason he says, ‘All-hail, for us, to the two-footed, all-hail to the four-footed!’

२९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थानयेत्यु᳘पस्पृशति॥
(त्य᳘) अ᳘मानुष ऽइव वा᳘ ऽएत᳘द्भवति यदा᳘र्त्विज्ये प्र᳘वृत ऽइयं वै᳘ पृथिवी᳘ प्रतिष्ठा त᳘दस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठति त᳘दु ख᳘लु पु᳘नर्मानुषो᳘ भवति त᳘स्मादनयेत्यु᳘पस्पृशति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थानयेत्यु᳘पस्पृशति॥
(त्य᳘) अ᳘मानुष ऽइव वा᳘ ऽएत᳘द्भवति यदा᳘र्त्विज्ये प्र᳘वृत ऽइयं वै᳘ पृथिवी᳘ प्रतिष्ठा त᳘दस्या᳘मे᳘वैत᳘त्प्रतिष्ठा᳘यां प्र᳘तिष्ठति त᳘दु ख᳘लु पु᳘नर्मानुषो᳘ भवति त᳘स्मादनयेत्यु᳘पस्पृशति॥

मूलम् - Weber

अ᳘थानयेत्यु᳘पस्पृशति॥
अ᳘मानुष इव वा᳘ एत᳘द्भवति यदा᳘र्त्विज्ये प्र᳘वृत इयं वै᳘ पृथिवी᳘ प्रतिष्ठा त᳘दस्या᳘मेॗवैत᳘त्प्रतिष्ठा᳘याम् प्र᳘तिष्ठति त᳘दु ख᳘लु पु᳘नर्मानुषो᳘ भवति त᳘स्मादनयेत्यु᳘पस्पृशति॥

मूलम् - विस्वरम्

अथानयेत्युपस्पृशति । अमानुष इव वा एतद् भवति- यदार्त्विज्ये प्रवृतः । इयं वै पृथिवी प्रतिष्ठा । तदस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठति । तदु खलु पुनर्मानुषो भवति । तस्मादनयेत्युपस्पृशति ॥ २९ ॥

सायणः

अथानया । ‘अनया’ दक्षिणस्य पाणेः कनिष्ठिकया ‘इति’ एवमित्यभिनयेन (‘आवृणीमहे’ 24 इत्यादौ ऋत्विक्त्वे यतः प्रवृत्तो व्यावृत्तः) पृथिव्या उपदर्शनं दर्शयति । “इयं- वै पृथिवीति वाक्यशेषादन्यत्त्वनयेत्येवमन्तं मन्त्रं मन्यन्ते;- अनयेत्येतेन मन्त्रेणोपस्पृशति । किम् ? वाक्यशेषात् पृथिवीमिति । तेषामेव कनिष्ठिकया पृथिवीमुपस्पृशतीति काण्वश्रुत्युपरोधः । कः पुनरुपस्पृशति ? “यदतो होतान्वाह” इति (श० प० १ । ९ । १ । १) उत्तरत्र होतृशब्दश्रवणादध्वर्युरुपस्पृशति । “अमानुष इव वा ऽएतत्”- इति “अग्निर्देवो दैव्यो होता” (श० प० १ । ५ । १ । ५)- इति व्रियमाणो ऽग्निभावं चित्तेनोपगतः स पृथिवीस्पर्शनेनाभिनयेन मानुषायतनं पृथिवीमुपगतो ऽस्तीति दर्शयति । पृथिव्युपगमेनापि तत्स्थमानुषभावोपगममुपलक्ष्य । योनिविमोचने वक्ष्यत्येतद्- “यद्धि युक्तं न विमुच्यते, प्र तद्दह्यते”- इति (श० प० ६ । ७। ४। ८), तस्मात् सर्वयज्ञेषु युक्तं विमोक्तव्यम् । एवं प्रासङ्गिकं होतृब्राह्मणं समाप्तम् ॥ २९ ॥ (९. १)

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य शासितुः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥

इत्याचार्यहरिस्वामिनः कृतौ शतपथभाष्ये हविर्यज्ञेषु नवमाध्यायस्य प्रथमं ब्राह्मणम् ॥

Eggeling
  1. He then touches (the earth) thus with this (finger) 25. Non-human, verily, he becomes at the

time when he is chosen for the office of sacrificial priest; and, this earth being a safe standing-place, he thereby (viz. by touching the earth) stands on this safe standing-place; and he thereby also again becomes human: for this reason he thus touches (the earth) with this (finger).


  1. 247:2 The author now proceeds to give in detail the formulas to be recited by the Hotr̥ during the ceremonies treated in the preceding Brāhmaṇa (see p. 236, note 2); pars. 1-23 treating of the sūktavāka; pars. 24-29 of the śamyuvāka. ↩︎

  2. 248:1 Sūktaiva tad āha, which the commentator paraphrases by sūktāṅy āha. It is apparently intended as an explanation of the term sūktavaka. The word sūkta here has exceptionally the accent on the penultimate. ↩︎

  3. ‘शास्त्रपद्धत्या तर्पणीयं दत्त्वा’ इति युक्तः पाठः । ↩︎ ↩︎

  4. 248:2 See p. 240, note 2. The formulas are given Taitt. Br. III, 5, 10; Āśv. Ś. I, 9, 1. ↩︎

  5. 249:1 ‘Sūktavākam uta namovākam.’ Our author seems to refer these terms to the R̥k-verses and the Yajus-formulas used during the sacrifice. Sāyaṇa, on Taitt. S. II, 6, 9, takes ’namovāka’ in a more restricted sense, viz. as referring to the formula ’namo devebhyaḥ.’ Both the Black Yajur-vela and Āśv. Ś. add ‘r̥dhyāsma sūktocyam,’ which has probably to be taken in the sense of ‘May we accomplish that which is expressed in the sūktas.’ [Sāyaṇa, ‘May we succeed with the sūkta yet to be pronounced.’] ↩︎

  6. 249:2 For upaśrutī the Black Yajur-veda has upaśrito, which Sāyaṇa explains, ‘Since thou art established in heaven and earth, thou art able to recite the sūkta.’ ↩︎

  7. जीवदानु-जीरदानु-शब्दावभिन्नार्थौ । संहिताभेदाद्भिन्नरूपौ श्रूयेते । एतत्पदसिद्ध्यर्थमेव वार्तिककृता “रकि ज्यः सम्प्रसारणं” इति पठितम् । (पा. सू. १ । १ । ४) तत्र ‘रकि जीवेरपि सिद्धं भवतीति च भाष्येष्टिः । तै. ब्रा. ‘जीरदानू’ (३ । ५ । १०) ↩︎

  8. 249:3 Śaṁgavī seems to be a corruption of Śaṁgayī (propitious to the household), which is the reading of the Black Yajur-veda and Āśv. Ś. (cf. Rig-veda IX, 97, 17). ↩︎

  9. 249:4 ? Apravede, according to Sāyaṇa, on Taitt. S. I, 1, 13, in an active sense, ’they who do not tell of, do not betray, our faults’ (hence ‘verschwiegen,’ reticent, discreet, St. Petersb. Dict.) ‘Difficult to obtain,’ Harisvāmin. Our author apparently takes it in the sense of ’not obtained before.’ ↩︎

  10. होत्रेणाहाजुषतेति इति क्व. पा. । ↩︎

  11. 251:1 Āśv. Ś. reads twice asau ‘N.N., N.N.;’ and the commentary remarks that the Hotr̥ has here to pronounce both the ordinary name of the sacrificer, and his nākshatra name (i.e. the mystic name given him for the duration of the sacrifice, and derived from the respective lunar mansion, or its tutelary deity). This practice was probably not yet in vogue in the time of our author. Cf. Weber, Nakshatra II, p. 316 seq. ↩︎

  12. 251:2 See I, 8, 1, 30 seq. ↩︎

  13. 252:1 The ritual of the Black Yajur-veda (Taitt. Br. III, 5, 10; Taitt. S. II, 6, 9, 7) and the Āśv. Ś. prescribe both these formulas. The order of formulas also, as there given, differs somewhat from that of our work. ↩︎

  14. “सजाताः प्राणानेव नान्तरेति” । ↩︎

  15. 252:2 The Black Yajur-veda and Āśv. Ś. insert here, ‘He prays for all that is dear to him.’ ↩︎

  16. “नैकवचनं युञ्जीत गुरावात्मनि चेश्वरे” इति ॥ ↩︎

  17. 253:1 That is, if he chooses to omit the second formula mentioned in par. 14. ↩︎

  18. 253:2 ‘Ishṭaṁ ca vittaṁ ca.’ This is also the reading of the Āśv. Ś. (? ‘What was wished for and obtained’). The Kāṇva text reads ‘ishṭaṁ ca vittaṁ cābhūt.’ Our author seems here to refer to the legend in I, 5, 2, 6 seq., or to that in I, 6, 2, 1 seq. The reading of the Black Yajus, ishṭaṁ ca vītaṁ ca, ‘what has been offered up and accepted (eaten by the gods),’ is probably the original and correct one. ↩︎

  19. 253:3 The Kāṇva recension, the Black Yajur-veda, and Āśv. Ś. read no, ‘us.’ ↩︎

  20. इत आरभ्य शंयुवाकमन्त्रव्याख्यानम् । तत्पाठस्तु । तै० ब्रा० ३ । ५ । ११ अनुवाकः समग्रः । तद्व्याख्यानन्तु तै. सं. २ । ६ । १०। ↩︎

  21. ‘शम्युः’ शंयुः- इत्युभयविधः पाठो दृश्यते । बृहस्पतिपुत्राणामेकस्यैतन्नामधेयमृग्वेदप्रसिद्धम् । ↩︎

  22. 254:1 See p. 247, note 2. The original meaning of the terms śam yos, as they occur in the Rig-veda, is happily rendered by Professor Max Müller (Translation of the Rig-veda, I, p. 182) by ‘health and wealth.’ In the sacrificial ceremonial a deeper significance bas come to be attached to this benedictory formula, for which it is difficult to find an exact equivalent. The entire śamyuvāka, as here given, forms part of a khila to the last book of the R̥k-Saṁhitā; cf. Max Müller’s edition, vol. vi. p. 32; A. Weber, Ind. Stud. IV, p. 431. The Black Yajus version of the legend regarding Śamyu Bārhaspatya (Taitt. S. II, 6, 10) is quite different from ours; they were both invented to explain śam yos. ↩︎

  23. 255:1 This formula occurs almost identically in Rig-veda VI, 74, 1; VII, 54, 1; (IX, 69, 7.) Cf. Max Müller, Translation of the Rig-veda, I, p. 180, where attention is drawn to a somewhat similar phrase in the Umbric prayers of the Eugubian tables. ↩︎

  24. “नास्तीत्येव बन्धनीस्थः पाठः क्वचित्पुस्तके ↩︎

  25. 255:2 In Kāty. III, 6, 21 the touching of the altar is prescribed, with the text Vāj. S. II, 19 b; the commentators differ as to whether the sacrificer or the Adhvaryu is to do this. The Kāṇva Saṁhitā omits that formula, and hence assigns this touching to the Hotr̥. Harisvāmin remarks that the Hotr̥ touches the earth with the little finger of his right hand, as stated in the Kāṇva recension. The latter reads ‘with the little finger.’ No mention is made in the Āśv. Ś. of this touching of the earth on the part of the Hotr̥. ↩︎