०१
विश्वास-प्रस्तुतिः
स वै स्रु᳘चौ᳘ व्यूहति॥
(त्य) अग्नीषो᳘मयोरु᳘ज्जितिमनू᳘ज्जेषं व्वा᳘जस्य मा प्रसवे᳘न प्रो᳘हामी᳘ति जुहूं प्रा᳘चीं दक्षिणे᳘न पाणि᳘नाग्नीषो᳘मौ तम᳘पनुदतां᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्विष्मो व्वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘त्युपभृ᳘तं प्रती᳘ची᳘ᳫँ᳘ सव्ये᳘न पाणि᳘ना य᳘दि स्वयं य᳘जमानः॥
मूलम् - श्रीधरादि
स वै स्रु᳘चौ᳘ व्यूहति॥
(त्य) अग्नीषो᳘मयोरु᳘ज्जितिमनू᳘ज्जेषं व्वा᳘जस्य मा प्रसवे᳘न प्रो᳘हामी᳘ति जुहूं प्रा᳘चीं दक्षिणे᳘न पाणि᳘नाग्नीषो᳘मौ तम᳘पनुदतां᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्विष्मो व्वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘त्युपभृ᳘तं प्रती᳘ची᳘ᳫँ᳘ सव्ये᳘न पाणि᳘ना य᳘दि स्वयं य᳘जमानः॥
मूलम् - Weber
स वै स्रु᳘चौॗ व्यूहति॥
अग्नीषो᳘मयोरु᳘ज्जितिमनू᳘ज्जेषं वा᳘जस्य मा प्रसवे᳘न प्रो᳘हामी᳘ति जुहूम् प्रा᳘चीं दक्षिणे᳘न पाणि᳘नाग्नीषो᳘मौ त᳘मपनुदतांॗ यो स्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्मो वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘त्युपभृ᳘तम् प्रती᳘चीᳫं सव्ये᳘न पाणि᳘ना य᳘दि स्वयं य᳘जमानः॥
मूलम् - विस्वरम्
सूक्तवाक-शंयुवाक-कर्मारम्भः ।
स वै स्रुचौ व्यूहति- “अग्नीषोमयोरुज्जितिमनूज्जेषम्, वाजस्य मा प्रसवेन प्रोहामि”- (वा. सं. २ । १५) इति- जुहूं प्राचीं दक्षिणेन पाणिना । “अग्नीषोमौ तमपनुदतां-यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मो, वाजस्यैनं प्रसवेनापोहामि”- (वा. सं. २ । १५) इति- उपभृतं प्रतीचीं सव्येन पाणिना- यदि स्वयं यजमानः ॥ १ ॥
सायणः
स वै स्रुचौ व्यूहति । (“एत्य जुहूपभृतौ व्यूहति” इत्यादि का. श्रौ. सू. ३ । ११७) । ‘ऊह-वितर्के’ (भ्वा. आ. ६४९) प्रेरणे त्वत्र द्रष्टव्यः । अन्यो ऽन्यविपरीतं नामयतीत्युपन्यासमधिकर्तुं व्यूहनस्य प्रेरकताद्यनेकगुणश्रुतेस्त्वन्तावेव 1 विधी मन्तव्यौ । अग्नीषोमयोरिति । (का . श्रौ. सू. ३ । ११७) । लिङ्गक्रमाख्याप्राप्तमन्त्रानुवादः। ‘जुहूं प्राचीं दक्षिणेन पाणिना’ व्यूहतीत्यनुवर्तते । एष तावदेको विधिः, अपरो ऽपि- ‘उपभृतं प्रतीचीं सव्येन पाणिना’ इति (का. श्रौ. सू. ३ । ११७) । ‘यदि स्वयं यजमानः’- इति, लिङ्गात् प्राप्तस्य यजमानस्यानुवादः ॥ १ ॥
Eggeling
- He now separates the two spoons (juhū and upabhr̥t), with the text (Vāj. S. II, 15 a), ‘May I be victorious after the victory of Agni and Soma! with the impetus of the (sacrificial) food I urge myself on.’ With his right hand he moves the juhū eastwards (from its usual place on the prastara-bunch upon the altar), with the text (ib. b), ‘May Agni and Soma drive him away who hates us, and whom
we hate! with the impetus of the (sacrificial) food I drive him away.’ With his left hand he moves the upabhr̥t westwards (from its place on the barhis to outside the altar):–Thus, if the sacrificer himself (does it) 2.
०२
विश्वास-प्रस्तुतिः
(नो) य᳘द्यु ऽअध्वर्युः᳘॥
(र) अग्नीषो᳘मयोरु᳘ज्जितिमनू᳘ज्जयत्वयं य᳘जमानो व्वा᳘जस्यैनं प्रसवे᳘न प्रो᳘हाम्यग्नीषो᳘मौ तम᳘पनुदतां य᳘मयं य᳘जमानो द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि व्वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘ति पौर्णमास्या᳘मग्नीषोमी᳘यᳫँ᳘हि᳘ पौर्णमास᳘ᳫँ᳘ हविर्भ᳘वति॥
मूलम् - श्रीधरादि
(नो) य᳘द्यु ऽअध्वर्युः᳘॥
(र) अग्नीषो᳘मयोरु᳘ज्जितिमनू᳘ज्जयत्वयं य᳘जमानो व्वा᳘जस्यैनं प्रसवे᳘न प्रो᳘हाम्यग्नीषो᳘मौ तम᳘पनुदतां य᳘मयं य᳘जमानो द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि व्वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘ति पौर्णमास्या᳘मग्नीषोमी᳘यᳫँ᳘हि᳘ पौर्णमास᳘ᳫँ᳘ हविर्भ᳘वति॥
मूलम् - Weber
य᳘द्यु अध्वर्युः᳟॥
अग्नीषो᳘मयोरु᳘ज्जितिमनू᳘ज्जयत्वयं य᳘जमानो वा᳘जस्यैनम् प्रसवे᳘न प्रो᳘हाम्यग्नीषो᳘मौ तम᳘पनुदतां य᳘मयं य᳘जमानो द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि वा᳘जस्यैनम् प्रसवेना᳘पोहामी᳘ति पौर्णमास्या᳘मग्नीषोमी᳘यᳫं हि᳘ पौर्णमास᳘ᳫं᳘ हविर्भ᳘वति॥
मूलम् - विस्वरम्
यद्यु अध्वर्युः- “अग्नीषोमयोरुज्जितिमनूज्जयत्वयं यजमानो, वाजस्यैनं प्रसवेन प्रोहामि, अग्नीषोमौ तमपनुदतां यमयं यजमानो द्वेष्टि, यश्चैनं द्वेष्टि, वाजस्यैनं प्रसवेनापोहामि” -इति पौर्णमास्याम् । अग्नीषोमीयं हि पौर्णमासं हविर्भवति ॥ २ ॥
सायणः
एवमेव ‘यद्यु अध्वर्युः’ इति (“अध्वर्युर्वानूज्जयत्वयं” इत्यादि का. श्रौ. सू. ३ । ११९) मन्त्रोत्पत्तिपरो ऽध्वर्योरनुवादः 3 । अनुवादे च सति यदि कालवचनः पौर्णमासीशब्दः, यदि वा कर्म्मवचनः- प्रयोगे न कश्चित् कर्मणि विशेषः ॥ २ ॥ ३ ॥
Eggeling
- And if the Adhvaryu (does it, he says), ‘May this sacrificer be victorious after the victory of Agni and Soma! with the impetus of the food I urge him on;’ and, ‘May Agni and Soma drive him away whom this sacrificer hates, and who hates him! with the impetus of the food I drive him away.’ Thus he does at the full-moon sacrifice, because the full-moon offering belongs to Agni and Soma.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थामावा᳘स्यायाम्॥
(मि) इन्द्राग्न्योरु᳘ज्जितिमनू᳘ज्जेषं व्वा᳘जस्य मा प्रसवे᳘न प्रो᳘हामीन्द्राग्नी तम᳘पनुदतां᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्विष्मो वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘ति य᳘दि स्वयं य᳘जमानः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थामावा᳘स्यायाम्॥
(मि) इन्द्राग्न्योरु᳘ज्जितिमनू᳘ज्जेषं व्वा᳘जस्य मा प्रसवे᳘न प्रो᳘हामीन्द्राग्नी तम᳘पनुदतां᳘ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च व्वयं᳘ द्विष्मो वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘ति य᳘दि स्वयं य᳘जमानः॥
मूलम् - Weber
अ᳘थामावा᳘स्यायाम्॥
इन्द्राग्न्योरु᳘ज्जितिमनू᳘ज्जेषं वा᳘जस्य मा प्रसवे᳘न प्रो᳘हामीन्द्राग्नी तम᳘पनुदतांॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्मो वा᳘जस्यैनम् प्रसवेना᳘पोहामी᳘ति य᳘दि स्वयं य᳘जमानः॥
मूलम् - विस्वरम्
अथामावास्यायाम् । “इन्द्राग्न्योरुज्जितिमनूज्जेषम्, वाजस्य मा प्रसवेन प्रोहामि । इन्द्राग्नी तमपनुदतां- यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः, -वाजस्यैनं प्रसवेनापोहामि" (वा. सं २ । १५) इति- यदि स्वयं यजमानः ॥ ३ ॥
सायणः
[व्याख्यानम् द्वितीये]
Eggeling
- At the new-moon sacrifice, on the other hand, he uses the texts (ib. c, d), ‘May I be victorious after the victory of Indra and Agni 4! with the impetus of the food I urge myself on;’ and, ‘May Indra and Agni drive him away who hates us, and whom we hate! with the impetus of the food I drive him away:’–Thus, if the sacrificer himself does it.
०४
विश्वास-प्रस्तुतिः
(नो) य᳘द्यु ऽअध्वर्य्युः᳘॥
(रि) इन्द्राग्न्योरु᳘ज्जितिमनू᳘ज्जयत्वयं य᳘जमानो व्वा᳘जस्यैनं प्रसवे᳘न प्रो᳘हामीन्द्राग्नी तम᳘पनुदतां य᳘मयं य᳘जमानो द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि व्वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘त्यमावा᳘स्यायामैन्द्रा᳘ग्न᳘ᳫँ᳘ह्यामावास्य᳘ᳫँ᳘हविर्भ᳘वत्येवं᳘ यथादेवतं᳘ व्यूहति तद्य᳘देवं व्यू᳘हति॥
मूलम् - श्रीधरादि
(नो) य᳘द्यु ऽअध्वर्य्युः᳘॥
(रि) इन्द्राग्न्योरु᳘ज्जितिमनू᳘ज्जयत्वयं य᳘जमानो व्वा᳘जस्यैनं प्रसवे᳘न प्रो᳘हामीन्द्राग्नी तम᳘पनुदतां य᳘मयं य᳘जमानो द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि व्वा᳘जस्यैनं प्रसवेना᳘पोहामी᳘त्यमावा᳘स्यायामैन्द्रा᳘ग्न᳘ᳫँ᳘ह्यामावास्य᳘ᳫँ᳘हविर्भ᳘वत्येवं᳘ यथादेवतं᳘ व्यूहति तद्य᳘देवं व्यू᳘हति॥
मूलम् - Weber
य᳘द्यु अध्वर्युः᳟॥
इन्द्राग्न्योरु᳘ज्जितिमनू᳘ज्जयत्वयं य᳘जमानो वा᳘जस्यैनम् प्रसवे᳘न प्रो᳘हामीन्द्राग्नी तम᳘पनुदतां य᳘मयं य᳘जमानो द्वे᳘ष्टि य᳘श्चैनं द्वे᳘ष्टि वा᳘जस्यैनम् प्रसवेना᳘पोहामी᳘त्यमावा᳘स्यायामैन्द्राॗग्नᳫं ह्यामावास्य᳘ᳫं᳘ हविर्भ᳘वत्येवं᳘ यथादेवॗतं व्यूहति तद्य᳘देवं व्यू᳘हति॥
मूलम् - विस्वरम्
यद्यु अध्वर्युः- “इन्द्राग्न्योरुज्जितिमनूज्जयत्वयं यजमानो- वाजस्यैनं प्रसवेन प्रोहामि । इन्द्राग्नी तमपनुदतां यमयं यजमानो द्वेष्टि, यश्चैनं द्वेष्टि, -वाजस्यैनं प्रसवेनापोहामि” -इति अमावास्यायाम् । ऐन्द्राग्नं ह्यामावास्यं हविर्भवति । एवं यथादेवतं व्यूहति । तद्यदेवं व्यूहति ॥ ४ ॥
सायणः
एवं यथादेवतं व्यूहतीत्यर्थवत्त्वाय विधिः । ततश्च “अग्नेरग्नीषोमयोरिति पौर्णमास्याम्”, “अग्नेर्विष्णोरिन्द्रस्येति” सान्नाय्ययाजिनो ऽमावास्यायां प्रयोगः सिद्धः । ननु च या-या यत्र-यत्र देवता तां-तां तत्र-तत्रत्यस्मिन्नर्थे अयमव्ययीभावः समासो यथादेवतमिति, ततश्च प्रयाजादिदेवताभिरपि व्यूहनं प्राप्नोति ? नैष दोषः । प्रधानदेवते अग्निषोमाविन्द्राग्नी याजकस्य 3 । एवंशब्देन प्रधानदेवतालक्षणमिति प्रकारमतिदिशति 5 । ततश्च प्रधानदेवताभिरेव व्यूहनम्, 6 नान्याभिः असर्वाभिरित्यर्थः ॥ ४ ॥
Eggeling
- And if the Adhvaryu (does it, he says), ‘May this sacrificer be victorious after the victory of Indra and Agni! with the impetus of the food I urge him on;’ and, ‘May Indra and Agni drive him away whom this sacrificer hates, and who hates him! with the impetus of the food I drive him away.’ Thus he says at the new-moon sacrifice, because the new-moon
offering belongs to Indra and Agni. And in this manner he separates (the spoons) according to the respective deities, This is why he thus separates them:
०५
विश्वास-प्रस्तुतिः
य᳘जमान ऽएव᳘ जुहूम᳘नु॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु प्रा᳘ञ्चमे᳘वैतद्य᳘जमानमुदू᳘हत्य᳘पाञ्चं तम᳘पोहति᳘ योस्मा ऽअरातीय᳘त्य᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य ऽउपभृ᳘तमनु प्रा᳘ञ्चमे᳘वैत᳘दत्ता᳘रमुदू᳘हत्य᳘पाञ्चमा᳘द्यम᳘पोहति॥
मूलम् - श्रीधरादि
य᳘जमान ऽएव᳘ जुहूम᳘नु॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु प्रा᳘ञ्चमे᳘वैतद्य᳘जमानमुदू᳘हत्य᳘पाञ्चं तम᳘पोहति᳘ योस्मा ऽअरातीय᳘त्य᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य ऽउपभृ᳘तमनु प्रा᳘ञ्चमे᳘वैत᳘दत्ता᳘रमुदू᳘हत्य᳘पाञ्चमा᳘द्यम᳘पोहति॥
मूलम् - Weber
य᳘जमान एव᳘ जुहूम᳘नु॥
यो ऽस्मा अरातीय᳘ति स᳘ उपभृ᳘तम᳘नु प्रा᳘ञ्चमेॗवैतद्य᳘जमानमुदू᳘हत्य᳘पाञ्चं तम᳘पोहतिॗ यो ऽस्मा अरातीय᳘त्यॗत्तैव᳘ जुहूम᳘न्वाद्य᳘ उपभृ᳘तम᳘नु प्रा᳘ञ्चमेॗवैत᳘दत्ता᳘रमुदू᳘हत्य᳘पाञ्चमाद्य᳘म᳘पोहति॥
मूलम् - विस्वरम्
यजमान एव जुहूमनु । यो ऽस्मा अरातीयति स उपभृतमनु । प्राञ्चमेवैतद् यजमानमुदूहति, अपाञ्चं तमपोहति- यो ऽस्मा अरातीयति । अत्तैव जुहूमनु । आद्य उपभृतमनु । प्राञ्चमेवैतद् अत्तारमुदूहति, अपाञ्चमाद्यमपोहति ॥ ५ ॥
सायणः
यजमानः । प्रसन्ना ॥ ५ ॥
Eggeling
- Behind the juhū stands the sacrificer, and behind the upabhr̥t stands he who means evil to him: hereby, then, he brings the sacrificer forward to the front (or east), and the one who means evil him he drives back (or towards the west). Behind the juhū stands the eater (enjoyer), and behind the upabhr̥t the one to be eaten (enjoyed): thus he now brings the eater (enjoyer) to the front, and the one to be eaten (enjoyed) he drives back.
०६
विश्वास-प्रस्तुतिः
तद्वा᳘ ऽएत᳘त्॥
(त्स) समान᳘ ऽएव क᳘र्म्मन्व्या᳘क्रियते त᳘स्मादु समाना᳘देव पु᳘रुषादत्ता᳘ चा᳘द्यश्च जायेते ऽइदᳫँ᳭हि᳘ चतुर्थे पु᳘रुषे तृती᳘ये स᳘ङ्गच्छामह ऽइ᳘ति व्विदेवं दी᳘व्यमाना जा᳘त्या ऽआ᳘सत ऽएत᳘स्मादु तत्॥
मूलम् - श्रीधरादि
तद्वा᳘ ऽएत᳘त्॥
(त्स) समान᳘ ऽएव क᳘र्म्मन्व्या᳘क्रियते त᳘स्मादु समाना᳘देव पु᳘रुषादत्ता᳘ चा᳘द्यश्च जायेते ऽइदᳫँ᳭हि᳘ चतुर्थे पु᳘रुषे तृती᳘ये स᳘ङ्गच्छामह ऽइ᳘ति व्विदेवं दी᳘व्यमाना जा᳘त्या ऽआ᳘सत ऽएत᳘स्मादु तत्॥
मूलम् - Weber
तद्वा᳘ एत᳘त्॥
समान᳘ एव क᳘र्मन्व्या᳘क्रियते त᳘स्मादु समाना᳘देव पु᳘रुषादत्ता᳘ चाद्य᳘श्च जायते इदᳫं हि᳘ चतुर्थे पु᳘रुषे तृती᳘ये सं᳘गछामह इ᳘ति विदेवं दी᳘व्यमाना जा᳘त्या आ᳘सत एत᳘स्मादु त᳘त्॥
मूलम् - विस्वरम्
तद्वा एतत् समान एव कर्मन् व्याक्रियते । तस्मादु समानादेव पुरुषाद् अत्ता चाद्यश्च जायेते । इदं हि- चतुर्थे पुरुषे तृतीये संगच्छामहे- इति विदेवं दीव्यमाना जात्या आसते- एतस्मादु तत् ॥ ६ ॥
सायणः
तद्वा एतत् । यस्माद् ‘एतत्’ ‘समाने’ अभिन्ने, व्यूहनकर्मणि विलक्षणम् ‘आक्रियते’ अभिव्यज्यते, भोक्तृत्वं भोग्यत्वञ्च; तस्माद्यज्ञानुकारेण भूतेष्वपि ‘समानाद्’ अभिन्नात् पुरुषाद् ‘अत्ता च’ भोक्ता च, ‘आद्यश्च’ भोग्यश्च- भर्ता च भार्या च ‘जायेते’ । यथा समाने कर्मणि जुहूपभृतौ तथैव 7 ।
ननु समानजातीययोर्विवाह एव नास्ति, कुतो भोक्तृभोग्यभावः ? पशुन्यायेन सति सापि कश्चिद्वर्तेत, न स यज्ञानुकारः 8 स्यात्; किं तर्हि ? यजमानैकतानुकारः स्यात् ? सत्यम्; एवं व्यवहारस्य अन्याय्यस्यापि यज्ञमूलत्वात् । तमेव व्यवहारं 9 दर्शयति- इदँहीति । (यस्माद् 10 ‘इदं’ प्रत्यक्षं विलक्षणम् ‘आसते’ अधुनापि ‘जात्याः’ समानजातीयाः), ‘दीव्यमानाः’ रममाणाः परितुष्टान्तःकरणाः नाकार्य्यकारिण इवापरिद्यूनाः ‘आसते’ कथं दीव्यमानाः ? ‘विदेवम्’ दिवेर्व्यवहारार्थस्य (दिवा. पर. १) अन्योन्यं भोक्तारो भोग्यैः सह, भोग्या भोक्तृभिः सह ‘दीव्यामहे’ व्यवहृत्य व्यवहृत्य । कथं व्यवहृत्य ? व्यवहर्तॄणामभिप्रायेण । व्यवहारं दर्शयति- ‘इदं’ प्रत्यक्षमेव- विवाहेन वयं सङ्गच्छामहे । एकस्मादेव पुरुषान्मूलतः उत्पद्य, पुनरेव कुटुम्बारम्भेण समानापत्यारम्भेण च संयुज्यामह इति भर्तॄणां भार्याणां चाभिप्रायवचनम् । एवं व्यवहारं दीव्यमाना आसते । ते क्व पुनः सङ्गच्छामह इत्याहुः, किमनन्तर एव पुरुषे ? नेत्याह- ‘चतुर्थे तृतीये’ । वा- शब्दो ऽत्र लुप्तनिर्द्दिष्टो द्रष्टव्यः; चतुर्थे वा तृतीये वेत्यर्थः । तथा च काण्वानां 11 “तृतीये चतुर्थे वा”- इति श्रूयते । (तृतीये पुरुषे 12 संगच्छामह इति, चतुर्थे सङ्गच्छामह इति च युज्यते ।) चतुर्थे सङ्गच्छामह इति सौराष्ट्राणां व्यवहारः । तृतीये सङ्गच्छामह इति दाक्षिणात्यानाम् । ते हि मातुलदुहितृषु पितृष्वसृपुत्रेषु सङ्गच्छन्ते । ते च मूलपुरुषाद् गण्यमानास्तृतीया भवन्ति । तत्रैतस्माल्लिङ्गादेव दीव्यमाना आसत इति । । तच्च न जात्याः न जातीयाः, सदृशाः, श्रेयसः कर्म्मणश्चतुरन्तरस्याभ्यन्तरा इत्यर्थः । ततः किम् ? एतस्मादेव स्रुग्व्यूहनात् कारणात् तथा भवतीति शेषः ॥ एवं 13 चानुष्ठिते कथं विवहनमिति समुदये श्रुतितो निर्णयः । स्थाली चाङ्गाराश्चैकम्, स्रुक् च स्रुवश्चेत्येकम्, आहवनीयश्च समिच्चेत्येकम्; आहुतिश्च स्वाहाकारश्चेत्येकम्; इत्थं चत्वारः । चतुर्थे निवृत्ते तृतीये च निवृत्ते वयं सङ्गच्छामह इति शिष्टानां समुदयः । चतुर्थे प्रयाजे समानीय, पञ्चमे ऽनुयाजे च समानीय, ततो व्यूहनमिति देशव्यवहृत्यनुसारात्; न शास्त्रप्रवृत्तेः । यथा “मातुलस्य सुतां केचित् पितृस्वसृसुतादि काम् । विवहन्ति क्वचिद्देशे सङ्कोच्यापि सपिण्डताम्” (निर्ण. सि. धृतशातातपः) इति । “आयाहीन्द्र पथिभिरीकितेभिर्यज्ञमिमं नो भागधेयं जुषस्व । तृप्तां जुहुर्मातुलस्येव योषा भागस्ते पैतृष्वसेयी वपामिव"- (ऋ. सं. १० । १० । ५) इति ऋग्वेदे विवहनमेव । “असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने 14 ॥ (मनुसं. ३ अ. ५. श्लो.) इति मनोः सङ्गत्या मूलतः षण्मिथुनान्यतीत्य विवहेदिति श्रौतं विवहनम् । “यो ह वा अग्निहोत्रे षण्मिथुनानि वेद, मिथुनेन मिथुनेन ह् प्रजायते” (श. प. ११ । २ । ५ । १) इति षण्मिथुनानि 15 । इत्थं मिथुनसंगत्या परिणयनमिति जात्याः 16 । न चेयं श्रुतिर्विवाहविषया 17, किन्त्वियत्सन्तानावध्यविभागप्रशंसा । यथा जुहूपभृतौ चिरकालं सह स्थिते, तथा तृतीयचतुर्थसन्तानावधि सह स्थितिः । ततः किम् ? ‘एतस्माद्’ एवम्प्रकारेण स्रुग्व्यूहनात् ‘तद्’ विवहनम् । ‘उ’ इति “अथाप्युकार एतस्मिन्नेवार्थे उत्तरेण” (निरु. १. २. ४) इति यास्कभणितेरुकारो विनिग्रहार्थीयः । एवं चात्र विनिग्रहार्थः । यथा- मूलात् षडतीत्य ततो विवहनम् । मूलात् षष्ठे च पञ्चातीत्य, इत्येवं प्रदर्शनपरम् स्त्रीमिथुने पुम्मिथुने चेति ‘तत्’ तथा भवतीति विशेषः ॥ ६ ॥
Eggeling
- Thus the separation (of the eater and the eaten) is effected in one and the same act; and hence from one and the same man spring both the enjoyer (the husband), and the one to be enjoyed (the wife): for now kinsfolk (gātyāḥ) live sporting and rejoicing together, saying, ‘In the fourth (or) third man (I.e. generation) we unite 18.’ And this is so in accordance with that (separation of the spoons).
०७
विश्वास-प्रस्तुतिः
(द᳘) अ᳘थ जुह्वा᳘ परिधीन्त्स᳘मनक्ति॥
य᳘या देवेभ्यो᳘ ऽहौषीद्य᳘या यज्ञ᳘ᳫं᳘ सम᳘तिष्ठपत्त᳘यै᳘वैत᳘त्परिधी᳘न्प्रीणाति त᳘स्माज्जुह्वा᳘ परिधीन्त्स᳘मनक्ति॥
मूलम् - श्रीधरादि
(द᳘) अ᳘थ जुह्वा᳘ परिधीन्त्स᳘मनक्ति॥
य᳘या देवेभ्यो᳘ ऽहौषीद्य᳘या यज्ञ᳘ᳫं᳘ सम᳘तिष्ठपत्त᳘यै᳘वैत᳘त्परिधी᳘न्प्रीणाति त᳘स्माज्जुह्वा᳘ परिधीन्त्स᳘मनक्ति॥
मूलम् - Weber
अ᳘थ जुह्वा᳘ परिधीन्त्स᳘मनक्ति॥
य᳘या देवेभ्यो᳘ ऽहौषीद्य᳘या यज्ञ᳘ᳫं᳘ सम᳘तिष्ठपत्त᳘यैॗवैत᳘त्परिधी᳘न्प्रीणाति त᳘स्माज्जुह्वा᳘ परिधीन्त्स᳘मनक्ति॥
मूलम् - विस्वरम्
अथ जुह्वा परिधीन् समनक्ति । यया देवेभ्यो ऽहौषीद् यया यज्ञं समतिष्ठिपत्- तयैवैतत् परिधीन् प्रीणाति । तस्माद् जुह्वा परिधीन् समनक्ति ॥ ७ ॥
सायणः
अथ जुह्वा । ‘समनक्ति’ 19 संस्नेहयति । ‘जुह्वा’ स्रुक्-पात्रेण, अर्थात्तद्गतेनाज्येन । यया देवेभ्य इति । परिधयो ऽपि ह्यग्नयो देवाः, ते ऽपि देवपात्रेण देवान्नमर्हन्ति; पालयित्वा तु न समग्रमित्यभिप्रायः ‘अहौषीत्’ हुतवानध्वर्युः । ‘समतिष्ठिपत्’ संस्थापितवान् ॥
Eggeling
- Thereupon (the Adhvaryu) anoints the enclosing-sticks (paridhi) with (the butter attaching to) the juhū. With that (spoon) with which he has made offering to the gods, with which he has concluded the sacrifice, he thus gratifies the enclosing-sticks: this is why he anoints them with the juhū.
०८
विश्वास-प्रस्तुतिः
स स᳘मनक्ति॥ व्व᳘सुभ्यस्त्वा रुद्रे᳘भ्यस्त्वादित्ये᳘भ्यस्त्वे᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽएते᳘भ्य᳘स्त्वे᳘त्ये᳘वैत᳘दाह᳘॥
मूलम् - श्रीधरादि
स स᳘मनक्ति॥ व्व᳘सुभ्यस्त्वा रुद्रे᳘भ्यस्त्वादित्ये᳘भ्यस्त्वे᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽएते᳘भ्य᳘स्त्वे᳘त्ये᳘वैत᳘दाह᳘॥
मूलम् - Weber
स स᳘मनक्ति वसु᳘भ्यस्त्वा रुद्रे᳘भ्यस्त्वादित्ये᳘भ्यस्त्वे᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ आदित्या᳘ एते᳘भ्यस्त्वे᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
स समनक्ति- “वसुभ्यस्त्वा रुद्रेभ्यस्त्वादित्येभ्यस्त्वा”- (वा. सं. २ । १६ ।) इति । एते वै त्रया देवाः- यद् वसवो रुद्रा आदित्याः । एतेभ्यस्त्वेत्येवैतदाह ॥ ८ ॥
सायणः
स समनक्ति । त्रय एते मन्त्राः । एषामेकैकेन एकैकमुपधानक्रमेण यथाक्रममनक्ति । ‘एतेभ्यस्त्वेत्येवैतदाह इत्यपि प्रत्येकाभिप्रायम् । वसुभ्यो देवेभ्यो ऽर्थाय त्वामनज्मि । त्वयि पार्थिवाग्न्यात्मके तृप्ते पार्थिवा वसवस्तृप्यन्ते; वस्वर्थं त्वामनज्मीत्यर्थः । एवमुत्तरत्रापि योज्यम् ॥ ८ ॥
Eggeling
- He anoints them (successively) 20, with the texts (Vāj. S. II, 16 a-c), ‘For the Vasus thee!’ ‘For the Rudras thee!’ ‘For the Ādityas thee!’ For these–to wit, the Vasus, Rudras, and Ādityas–are three (classes of) gods: ‘for them (I anoint) thee,’ he thereby says.
०९
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थ परिधि᳘मभिपद्या᳘श्रावयति॥
परिधि᳘भ्यो᳘ ह्येत᳘दाश्राव᳘यति यज्ञो वा᳘ ऽआश्रा᳘वणं यज्ञे᳘नै᳘वैत᳘त्प्रत्य᳘क्षं परिधी᳘न्प्रीणाति त᳘स्मात्परिधि᳘मभिपद्या᳘श्रावयति॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थ परिधि᳘मभिपद्या᳘श्रावयति॥
परिधि᳘भ्यो᳘ ह्येत᳘दाश्राव᳘यति यज्ञो वा᳘ ऽआश्रा᳘वणं यज्ञे᳘नै᳘वैत᳘त्प्रत्य᳘क्षं परिधी᳘न्प्रीणाति त᳘स्मात्परिधि᳘मभिपद्या᳘श्रावयति॥
मूलम् - Weber
अ᳘थ परिधि᳘मभिपद्या᳘श्रावयति॥
परिधि᳘भ्योॗ ह्येत᳘दाश्राव᳘यति यज्ञो वा᳘ आश्रा᳘वणं यज्ञे᳘नैॗवैत᳘त्प्रत्य᳘क्षम् परिधी᳘न्प्रीणाति त᳘स्मात्परिधि᳘मभिपद्या᳘श्रावयति॥
मूलम् - विस्वरम्
अथ परिधिमभिपद्याश्रावयति । परिधिभ्यो ह्येतदाश्रावयति । यज्ञो वा आश्रावणम्- यज्ञेनैवैतत् प्रत्यक्षं परिधीन् प्रीणाति- तस्मात्परिधिमभिपद्याश्रावयति ॥ ९ ॥
सायणः
अथ परिधम् । ‘अभिपद्य’ अभिगम्य, हस्तेनालभ्येत्यर्थः 19 ।
परिधिभ्यो हीति । ननु सूक्तवाकप्रैषायैतदाश्रावयति, तद्द्वारेण च सूक्तवाकदेवताभ्यः, प्रस्तराय वा, परिधीनां किमापतितम् ? सत्यमेतत् । तद्देवत्वाद्यज्ञार्हाः परिधयः, तेन प्रसिद्धयज्ञोपकरणेनाश्रावणेन परार्थेनारोप्यालभ्य क्रियमाणेन लेशतो यज्ञभाजः कृता भवन्तीत्युपकारमात्रलक्षणार्था तादर्थ्ये चतुर्थी प्रयुक्ता । प्रत्यक्षमव्यभिचारि यज्ञरूपमाश्रावणम्, तेन ‘एतत् प्रत्यक्षम्’ यो यज्ञः; जुहूस्तु होमेष्वपि यज्ञेष्वपि भवतीति तन्न तथा प्रत्यक्षः जुह्वाञ्जने यज्ञः ॥ ९ ॥
Eggeling
- Thereupon, taking hold of the (middle) enclosing-stick, he calls (on the Āgnīdhra) to bid (them) listen 21: thus (i.e. by touching the paridhi) it is for the enclosing-sticks that he calls for the śraushaṭ. The śraushaṭ-call assuredly is the sacrifice: hence he thereby expressly gladdens the enclosing-sticks by means of the sacrifice: for this reason he calls for the śraushaṭ, while taking hold of the enclosing-stick.
१०
विश्वास-प्रस्तुतिः
स᳘ ऽआश्रा᳘व्याह॥
(हे) इषिता दै᳘व्या हो᳘तार ऽइ᳘ति दै᳘व्या वा᳘ ऽएते हो᳘तारो य᳘त्परिध᳘यो ऽग्न᳘यो᳘ हीष्टा दै᳘व्या हो᳘तार ऽइ᳘त्ये᳘वैत᳘दाह यदा᳘हेषिता दै᳘व्या हो᳘तार ऽइ᳘ति भद्रवा᳘च्याये᳘ति स्वयं वा᳘ ऽएत᳘स्मै देवा᳘ युक्ता᳘ भवन्ति य᳘त्साधु व्व᳘देयुर्य᳘त्साधु᳘ कुर्युस्त᳘स्मादाह भद्रवा᳘च्याये᳘ति प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति त᳘दिमं मा᳘नुषᳫँ᳭होतारᳫं᳭सूक्तवाका᳘य प्र᳘सौति॥
मूलम् - श्रीधरादि
स᳘ ऽआश्रा᳘व्याह॥
(हे) इषिता दै᳘व्या हो᳘तार ऽइ᳘ति दै᳘व्या वा᳘ ऽएते हो᳘तारो य᳘त्परिध᳘यो ऽग्न᳘यो᳘ हीष्टा दै᳘व्या हो᳘तार ऽइ᳘त्ये᳘वैत᳘दाह यदा᳘हेषिता दै᳘व्या हो᳘तार ऽइ᳘ति भद्रवा᳘च्याये᳘ति स्वयं वा᳘ ऽएत᳘स्मै देवा᳘ युक्ता᳘ भवन्ति य᳘त्साधु व्व᳘देयुर्य᳘त्साधु᳘ कुर्युस्त᳘स्मादाह भद्रवा᳘च्याये᳘ति प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति त᳘दिमं मा᳘नुषᳫँ᳭होतारᳫं᳭सूक्तवाका᳘य प्र᳘सौति॥
मूलम् - Weber
स᳘ आश्रा᳘व्याह॥
इषिता दै᳘व्या हो᳘तार इ᳘ति दै᳘व्या वा᳘ एते हो᳘तारो य᳘त्परिध᳘यो ऽग्न᳘योॗ हीष्टा दै᳘व्या हो᳘तार इ᳘त्येॗवैत᳘दाह यदा᳘हेषिता दै᳘व्या हो᳘तार इ᳘ति भद्रवा᳘च्याये᳘ति स्वयं वा᳘ एत᳘स्मै देवा᳘ युक्ता᳘ भवन्ति य᳘त्साधु व᳘देयुर्य᳘त्साधु᳘ कुर्युस्त᳘स्मादाह भद्रवा᳘च्याये᳘ति प्रे᳘षितो मा᳘नुषः सूक्तवाकाये᳘ति त᳘दिमम् मा᳘नुषᳫं हो᳘तारᳫं सूक्तवाका᳘य प्र᳘सौति॥
मूलम् - विस्वरम्
स आश्राव्याह- “इषिता दैव्या होतारः”- इति । दैव्या वा एते होतारो- यत्परिधयः; अग्नयो हीष्टा दैव्या होतारः- इत्येवैतदाह- यदाह- ‘इषिता दैव्या होतारः’ इति । ** “भद्रवाच्याय”**- इति । स्वयं वा एतस्मै देवा युक्ता भवन्ति- यत् साधु वदेयुः- यत्साधु कुर्युः- तस्मादाह- भद्रवाच्यायेति । “प्रेषितो मानुषः, सूक्तवाकाय”- इति । तदिमं मानुषं होतारं सूक्तवाकाय प्रसौति ॥ १० ॥
सायणः
स आश्राव्याह । ‘दैव्या वा एते होतारो यत्परिधयः’ इति प्रतिज्ञा । ‘अग्नयो ही’ ति हेतुवचनम् । ‘इष्टाः’ इति इषितव्याः इच्छायाः स्थानम् ‘अधीष्टाः’ -सान्त्विता इत्यर्थः ॥ १० ॥
Eggeling
- Having called for the śraushaṭ (and been responded to by the Āgnīdhra), he thus addresses (the Hotr̥), ‘The divine Hotr̥s 22 are summoned–,’ the divine Hotr̥s, namely, are (represented by) these
enclosing-sticks, since these are Agnis (fires) 23. When he says, ’the divine Hotr̥s are summoned (ishita),’ he means to say, ’the divine Hotr̥s are wished for (ishṭa).’ [He continues], ‘–for the proclamation of success 24,’–for on this the gods themselves are indeed intent, to wit, that they should speak what is favourable (conducive to success, sādhu), that they should do what is favourable: hence he says ‘for the proclamation of success.’–‘The human one is called upon for the song of praise (sūktavāka) 25!’ by these words he urges on this human Hotr̥ to singing praises.
११
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ प्रस्तरमा᳘दत्ते॥
य᳘जमानो वै᳘ प्रस्तरस्तद्य᳘त्रास्य यज्ञो᳘ ऽगंस्त᳘दे᳘वैतद्य᳘जमानᳫं स्वगा᳘करोति देवलोकं वा᳘ ऽअस्य य᳘ज्ञो ऽगन्देवलोक᳘मे᳘वैतद्य᳘जमानम᳘पिनयति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ प्रस्तरमा᳘दत्ते॥
य᳘जमानो वै᳘ प्रस्तरस्तद्य᳘त्रास्य यज्ञो᳘ ऽगंस्त᳘दे᳘वैतद्य᳘जमानᳫं स्वगा᳘करोति देवलोकं वा᳘ ऽअस्य य᳘ज्ञो ऽगन्देवलोक᳘मे᳘वैतद्य᳘जमानम᳘पिनयति॥
मूलम् - Weber
अ᳘थ प्रस्तरमा᳘दत्ते॥
य᳘जमानो वै᳘ प्रस्तरस्तद्य᳘त्रास्य यज्ञो᳘ ऽगंस्त᳘देॗवैतद्य᳘जमानᳫं स्वगा᳘करोति देवलोकं वा᳘ अस्य यॗज्ञो ऽगन्देवलोक᳘मेॗवैतद्य᳘जमानम᳘पिनयति॥
मूलम् - विस्वरम्
अथ प्रस्तरमादत्ते । यजमानो वै प्रस्तरः । तद् यत्रास्य यज्ञो ऽगन्- तदेवैतद् यजमानं स्वगाकरोति । देवलोकं वा अस्य यज्ञो ऽगन्,- देवलोकमेवैतद् यजमानमपि नयति ॥ ११ ॥
सायणः
अथ प्रस्तरम् । ‘स्वगा’ 26 अव्ययमेतत्, स्वस्थानगामिवचनम्, स्वस्थानगामिनं करोतीत्यर्थः । ‘अगन्’ अगमत्, गत इत्यर्थः । ‘अपिनयति’ सन्नयति ॥ ११ ॥
Eggeling
१२
विश्वास-प्रस्तुतिः
स य᳘दि व्वृ᳘ष्टिकामः स्या᳘त्॥
(दे) एते᳘नैवा᳘ददीत स᳘ञ्जानाथां द्यावापृथिवी ऽइ᳘ति यदा वै द्या᳘वापृथिवी᳘ सञ्जाना᳘ते ऽअ᳘थ व्वर्षति त᳘स्मादाह स᳘ञ्जानाथां द्यावापृथिवी ऽइ᳘ति मित्राव᳘रुणौ त्वा व्वृ᳘ष्ट्यावतामि᳘ति तद्यो᳘ व्वर्षस्ये᳘ष्टे स᳘ त्वा व्वृ᳘ष्ट्यावत्वि᳘त्ये᳘वैत᳘दाहायं वै᳘ व्वर्ष᳘स्येष्टे᳘ यो ऽयं प᳘वते᳘ सो ऽयमे᳘क इवैव᳘ पवते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टः प्रा᳘ङ्च प्रत्य᳘ङ्च ता᳘विमौ᳘ प्राणोदानौ᳘ प्राणोदानौ वै᳘ मित्राव᳘रुणौ तद्य᳘ एव᳘ व्वर्षस्ये᳘ष्टे स᳘ त्वा व्वृ᳘ष्ट्यावत्वि᳘त्ये᳘वैत᳘दाह त᳘मेतेनैवा᳘ददीत यदा᳘ ह्येव᳘ कदा᳘ च व्वृ᳘ष्टिः स᳘मिव त᳘मनक्त्या᳘हुतिमे᳘वैत᳘त्करोत्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गच्छादि᳘ति॥
मूलम् - श्रीधरादि
स य᳘दि व्वृ᳘ष्टिकामः स्या᳘त्॥
(दे) एते᳘नैवा᳘ददीत स᳘ञ्जानाथां द्यावापृथिवी ऽइ᳘ति यदा वै द्या᳘वापृथिवी᳘ सञ्जाना᳘ते ऽअ᳘थ व्वर्षति त᳘स्मादाह स᳘ञ्जानाथां द्यावापृथिवी ऽइ᳘ति मित्राव᳘रुणौ त्वा व्वृ᳘ष्ट्यावतामि᳘ति तद्यो᳘ व्वर्षस्ये᳘ष्टे स᳘ त्वा व्वृ᳘ष्ट्यावत्वि᳘त्ये᳘वैत᳘दाहायं वै᳘ व्वर्ष᳘स्येष्टे᳘ यो ऽयं प᳘वते᳘ सो ऽयमे᳘क इवैव᳘ पवते᳘ सो ऽयं पु᳘रुषे ऽन्तः प्र᳘विष्टः प्रा᳘ङ्च प्रत्य᳘ङ्च ता᳘विमौ᳘ प्राणोदानौ᳘ प्राणोदानौ वै᳘ मित्राव᳘रुणौ तद्य᳘ एव᳘ व्वर्षस्ये᳘ष्टे स᳘ त्वा व्वृ᳘ष्ट्यावत्वि᳘त्ये᳘वैत᳘दाह त᳘मेतेनैवा᳘ददीत यदा᳘ ह्येव᳘ कदा᳘ च व्वृ᳘ष्टिः स᳘मिव त᳘मनक्त्या᳘हुतिमे᳘वैत᳘त्करोत्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गच्छादि᳘ति॥
मूलम् - Weber
स य᳘दि वृ᳘ष्टिकामः स्या᳘त्॥
एते᳘नैवा᳘ददीत सं᳘जानाथां द्या᳘वापृथिवी इ᳘ति यदा वै द्या᳘वापृथिवी᳘ संजाना᳘थे अ᳘थ वर्षति त᳘स्मादाह सं᳘जानाथां द्या᳘वापृथिवी इ᳘ति मित्राव᳘रुणौ त्वा वृ᳘ष्ट्यावतामि᳘ति तद्यो᳘ वर्षस्ये᳘ष्टे स᳘ त्वा वृ᳘ष्ट्यावत्वि᳘त्येॗवैत᳘दाहायं वै᳘ वर्ष᳘स्येष्टेॗ यो ऽयम् प᳘वतेॗ सो ऽयमे᳘क इवैव᳘ पवतेॗ सो ऽयम् पु᳘रुषे ऽन्तः प्र᳘विष्टः प्रा᳘ञ्च प्रत्य᳘ञ्च ता᳘विमौ᳘ प्राणोदानौ᳘ प्राणोदानौ वै᳘ मित्राव᳘रुणौ तद्य᳘ एव᳘ वर्षस्ये᳘ष्टे स᳘ त्वा वृ᳘ष्ट्यावत्वि᳘त्येॗवैत᳘दाह त᳘मेते᳘नैवा᳘ददीत यदाॗ ह्येव᳘ कदा᳘ च वृ᳘ष्टिः स᳘मिव त᳘मनक्त्या᳘हुतिमेॗवैत᳘त्करोत्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘गछादि᳘ति॥
मूलम् - विस्वरम्
स यदि वृष्टिकामः स्यात्- एतेनैवाददीत- “संजानाथां द्यावापृथिवी”- (वा. सं. २. १६) इति । यदा वै द्यावापृथिवी संजानाते- अथ वर्षति । तस्मादाह- ‘संजानाथां द्यावापृथिवी’ इति । “मित्रावरुणौ त्वा वृष्ट्यावताम्”- (वा. सं. २. १६) इति । तद्यो वर्षस्येष्टे- स त्वा वृष्ट्यावतु- इत्येवैतदाह । अय वै वर्षस्येष्टे यो ऽयं पवते । सो ऽयमेक इवैव पवते, सो ऽयं पुरुषे ऽन्तः प्रविष्टः प्राङ् च प्रत्यङ् च । ताविमौ प्राणोदानौ; प्राणोदानौ वै मित्रावरुणौ । तद्य एव वर्षस्येष्टे स त्वा वृष्ट्यावतु-इत्येवैतदाह । तमेतेनैवाददीत । यदा ह्येव कदा च वृष्टिः समिव तमनक्ति- आहुतिमेवैतत् करोति । आहुतिर्भूत्वा देवलोकं गच्छाद्- इति ॥ १२ ॥
सायणः
स यदि वृष्टिकामः । काम्यतया मन्त्रं विधाय नित्यतयापि तमेव विधत्ते- तमेतेनैवाददीतेति । यदा ह्येवेति । सर्वदैव वृष्टिः सुखम्, ततश्च सर्व एव वृष्टिकाम इत्यभिप्रायः । ततश्च स्वर्गादिकामेनाप्यविरुद्धत्वात् प्रयोक्तव्य एवैषः । आहुतिमेवैतदिति । अञ्जनेनायं होमयोग्यो भवतीत्यभिप्रायः ॥ १२ ॥
Eggeling
- Should he desire rain, let him take up (the prastara), with this text (Vāj. S. II, 16 d), ‘Be ye in harmony with each other, O heaven and earth!’ for when heaven and earth are in harmony with each other, then indeed it rains 29: for this reason he says, ‘be ye in harmony with each other, O heaven and earth!’–‘May Mitra and Varuṇa favour thee with rain!’ whereby he says, ‘may he who rules over the rain favour thee with rain!’ Now he that rules over the rain is undoubtedly that blowing one (Vāyu, the wind); and he, it is true, blows as one only; but, on entering into man, he becomes a forward and a backward moving one; and they are these two, the out-breathing and the in-breathing. And Mitra and Varuṇa assuredly are the out-breathing and in-breathing; and hence he says by that (prayer), ‘may he who rules over the rain favour thee with rain!’ Let him then take it up, with this text, for then the rain will at all times be propitious. He anoints it (the prastara): thereby he makes him (the sacrificer) an oblation, thinking, ‘May he, as an oblation, go to the world of the gods!’
१३
विश्वास-प्रस्तुतिः
स वा ऽअ᳘ग्रं जुह्वा᳘मन᳘क्ति॥
म᳘ध्यमुपभृ᳘ति मू᳘लं ध्रुवा᳘याम᳘ग्रमिव हि᳘ जुहूर्म᳘ध्यमिवोपभृन्मू᳘लमिव ध्रुवा᳘॥
मूलम् - श्रीधरादि
स वा ऽअ᳘ग्रं जुह्वा᳘मन᳘क्ति॥
म᳘ध्यमुपभृ᳘ति मू᳘लं ध्रुवा᳘याम᳘ग्रमिव हि᳘ जुहूर्म᳘ध्यमिवोपभृन्मू᳘लमिव ध्रुवा᳘॥
मूलम् - Weber
स वा अ᳘ग्रं जुह्वा᳘मन᳘क्ति॥
म᳘ध्यमुपभृ᳘ति मू᳘लं ध्रुवा᳘याम᳘ग्रमिव हि᳘ जुहूर्म᳘ध्यमिवोपभृन्मू᳘लमिव ध्रुवा᳟᳟॥
मूलम् - विस्वरम्
स वा अग्रं जुह्वामनक्ति, मध्यमुपभृति, मूलं ध्रुवायाम् । अग्रमिव हि जुहूः, मध्यमिवोपभृत्, मूलमिव ध्रुवा ॥ १३ ॥
सायणः
स वा अग्रम् । ‘अग्र’ 30 अग्रमिव जुहूः सा ह्युपभृतं हित्वाहवनीयं यावद्याति । ‘मध्यम्’ मध्यमितोपभृत्; सापि हि वेदेर्यजतिस्थानं यावदुत्क्रामति । ‘मूलम्’ मूलमिव ध्रुवा, न हि सा चलति क्वचित् ॥ १३ ॥
Eggeling
- He anoints the top (of the prastara with the butter) in the juhū, the middle part (with that) in the upabhr̥t, and the lower end (with that) in the dhruvā; for the juhū is, as it were, the top, the upabhr̥t the middle, and the dhruvā the root.
१४
विश्वास-प्रस्तुतिः
सो ऽनक्ति॥
व्य᳘न्तु व्व᳘योक्तᳫँ᳭रि᳘हाणा ऽइ᳘ति व्व᳘य ऽए᳘वैनमेत᳘द्भूत᳘मस्मा᳘न्मनुष्यलोका᳘द्देवलोक᳘मभ्यु᳘त्पातयति त᳘न्नीचै᳘रिव हरति द्वयं तद्य᳘स्मान्नीचै᳘रिव ह᳘रेद्य᳘जमानो वै᳘ प्रस्त᳘रो ऽस्या᳘ ए᳘वैनमेत᳘त्प्रतिष्ठा᳘यै नो᳘द्धन्ती᳘हो एव व्वृ᳘ष्टिं नि᳘यच्छति॥
मूलम् - श्रीधरादि
सो ऽनक्ति॥
व्य᳘न्तु व्व᳘योक्तᳫँ᳭रि᳘हाणा ऽइ᳘ति व्व᳘य ऽए᳘वैनमेत᳘द्भूत᳘मस्मा᳘न्मनुष्यलोका᳘द्देवलोक᳘मभ्यु᳘त्पातयति त᳘न्नीचै᳘रिव हरति द्वयं तद्य᳘स्मान्नीचै᳘रिव ह᳘रेद्य᳘जमानो वै᳘ प्रस्त᳘रो ऽस्या᳘ ए᳘वैनमेत᳘त्प्रतिष्ठा᳘यै नो᳘द्धन्ती᳘हो एव व्वृ᳘ष्टिं नि᳘यच्छति॥
मूलम् - Weber
सो ऽनक्ति॥
व्य᳘न्तु व᳘यो ऽक्तं रि᳘हाणा इ᳘ति व᳘य ए᳘वैनमेत᳘द्भूत᳘मस्मा᳘न्मनुष्यलोका᳘द्देवलोक᳘मभ्यु᳘त्पातयति त᳘न्नीचै᳘रिव हरति द्वयं तद्य᳘स्मान्नीचै᳘रिव ह᳘रेद्य᳘जमानो वै᳘ प्रस्तॗरो ऽस्या᳘ एॗवैनमेत᳘त्प्रतिष्ठा᳘यै नो᳘द्धन्तीॗहो एव वृ᳘ष्टिं नि᳘यछति॥
मूलम् - विस्वरम्
सो ऽनक्ति- “व्यन्तु वयो ऽक्तं रिहाणाः”- (वा. सं. २. १६) इति । वय एवैनमेतद् भूतम् । अस्माद् मनुष्यलोकाद् देवलोकमभ्युत्पातयति तन्नीच्चैरिव हरति, द्वयं तद्- यस्मान्नीचैरिव हरेत्; यजमानो वै प्रस्तरः- अस्या एवैनमेतत् प्रतिष्ठायै नोद्धन्ति- इहो एव वृष्टिं नियच्छति ॥ १४ ॥
सायणः
सो ऽनक्ति । ‘व्यन्तु’ खादन्तु इमं प्रस्तरं देवाः येभ्यो होष्यते । कीदृशम् ? वयः पक्षिभूतं गतं सत्, तेनाहवनीयं द्युलोकं वा- इत्येवं मन्त्रार्थं ‘वय एवैनम्’- इति दर्शयति ॥ १४ ॥
Eggeling
- He anoints (each time), with the text (Vāj. S. II, 16 e), ‘May (the gods) eat, licking the anointed bird 31!’ He thereby causes it (the prastara and hence symbolically the sacrificer) to be a bird and fly up from this world of men to the world of the gods. He then draws it twice (towards the Āhavanīya) alow (near the ground). The reason why he must draw it alow (is this): the prastara is the sacrificer; and in this way he does not remove him from this firm footing of his; and he, moreover, secures rain for this locality.
१५
विश्वास-प्रस्तुतिः
स᳘ हरति॥
मरु᳘तां पृ᳘षतीर्गच्छे᳘ति देवलोकं᳘ गच्छे᳘त्ये᳘वैत᳘दाह यदा᳘ह मरु᳘तां पृ᳘षतीर्गच्छे᳘ति व्वशा पृ᳘श्निर्भूत्वा दि᳘वं गच्छ त᳘तो नो व्वृ᳘ष्टिमा᳘वहे᳘तीयं वै᳘ व्वशा पृ᳘श्निर्य᳘दिद᳘मस्यां᳘ मूलि᳘ चामूलं᳘ चान्ना᳘द्यं प्र᳘तिष्ठितं ते᳘नेयं᳘ व्वशा पृ᳘श्निरियं᳘ भूत्वा दि᳘वं गच्छे᳘त्ये᳘वैत᳘दाह त᳘तो नो व्वृ᳘ष्टिमा᳘ वहे᳘ति व्वृष्टाद्वा ऽऊर्ग्र᳘सः सुभूतं᳘ जायते त᳘स्मादाह त᳘तो नो व्वृ᳘ष्टिमा᳘वहेति॥
मूलम् - श्रीधरादि
स᳘ हरति॥
मरु᳘तां पृ᳘षतीर्गच्छे᳘ति देवलोकं᳘ गच्छे᳘त्ये᳘वैत᳘दाह यदा᳘ह मरु᳘तां पृ᳘षतीर्गच्छे᳘ति व्वशा पृ᳘श्निर्भूत्वा दि᳘वं गच्छ त᳘तो नो व्वृ᳘ष्टिमा᳘वहे᳘तीयं वै᳘ व्वशा पृ᳘श्निर्य᳘दिद᳘मस्यां᳘ मूलि᳘ चामूलं᳘ चान्ना᳘द्यं प्र᳘तिष्ठितं ते᳘नेयं᳘ व्वशा पृ᳘श्निरियं᳘ भूत्वा दि᳘वं गच्छे᳘त्ये᳘वैत᳘दाह त᳘तो नो व्वृ᳘ष्टिमा᳘ वहे᳘ति व्वृष्टाद्वा ऽऊर्ग्र᳘सः सुभूतं᳘ जायते त᳘स्मादाह त᳘तो नो व्वृ᳘ष्टिमा᳘वहेति॥
मूलम् - Weber
स᳘ हरति॥
मरु᳘ताम् पृ᳘षतीर्गछे᳘ति देवलोकं᳘ गछे᳘त्येॗवैत᳘दाह यदा᳘ह मरु᳘ताम् पृ᳘षतीर्गछे᳘ति वशा पृ᳘श्निर्भूत्वा दि᳘वं गछ त᳘तो नो वृ᳘ष्टिमावहे᳘तीयं वै᳘ वशा पृ᳘श्निर्य᳘दिद᳘मस्या᳘म् मूलि᳘ चामूलं᳘ चान्ना᳘द्यम् प्र᳘तिष्ठितं ते᳘नेयं᳘ वशा पृ᳘श्निरिय᳘म् भूत्वा दि᳘वं गछे᳘त्येॗवैत᳘दाह त᳘तो नो वृ᳘ष्टिमा᳘वहे᳘ति वृष्टाद्वा ऊर्ग्र᳘सः सुभू᳘तं जायते त᳘स्मादाह त᳘तो नो वृ᳘ष्टिमा᳘वहे᳘ति॥
मूलम् - विस्वरम्
स हरति- “मरुतां पृषतीर्गच्छ”- (वा. सं. २. १६) इति । देवलोकं गच्छ- इत्येवैतदाह- यदाह- ‘मरुतां पृषतीर्गच्छ’ इति । “वशा पृश्निर्भूत्वा दिवं गच्छ ततो नो वृष्टिमावह”- (वा. सं. २. १६) इति । इयं वै वशा पृश्निः- यदिदमस्यां मूलि चामूलं चान्नाद्यं प्रतिष्ठितम् । तेनेयं वशा पृश्निः । इयं भूत्वा दिवं गच्छ- इत्येवैतदाह । ततो नो वृष्टिमावह- इति । वृष्टाद्वा ऊर्ग्रसः, सुभूतं जायते; तस्मादाह- ततो नो वृष्टिमावह- इति ॥ १५ ॥
सायणः
स हरति । इयं 32 भूत्वेति । यथेयं पृथिवी मूल्यमूला अन्नसंस्पृष्टा ‘पृश्निः’, तद्योगाच्च वशा वश्या काम्या; एवं त्वमपि दर्भमयत्वान्मूलिनान्तेनोपेतः, घृतेन वा मूलेन; ततश्च ‘इयमिव भूत्वा’ -इत्येतमर्थमनेनाह । ‘वृष्टाद्वा ऊर्ग्रसः’ ‘सुभूतं’ भूतानां समृद्धिः- ‘जायते’ इति वृष्ट्यावाहनप्रयोजनम् ॥ १५ ॥
Eggeling
- He draws it along, with the text (Vāj. S. II, 16 f), ‘Go to the spotted (mares) of the Maruts!’ He means to say, ‘Go to the world of the gods,’ when he says, ‘Go to the spotted (mares) of the Maruts 33!’–‘Having become a spotted cow, go to the sky and thence bring us rain hither!’ The spotted cow, doubtless, is this (earth): whatever rooted and rootless food is here on this (earth), by that this (earth) is a spotted cow. ‘Having become
this (earth), go thou to the sky!’ this is what he thereby says. ‘Thence bring us rain hither!’ From rain certainly spring vigour, sap, well-being: for this reason he says, ’thence bring us rain hither!
१६
विश्वास-प्रस्तुतिः
(त्य) अथै᳘कं तृ᳘णम᳘पगृह्णाति॥
य᳘जमानो वै᳘ प्रस्तरः स य᳘त्कृत्स्नं᳘ प्रस्तर᳘मनुप्रह᳘रेत्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लो᳘क᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति या᳘वद्वे᳘वास्येह᳘ मानुषमा᳘युस्त᳘स्मा ऽए᳘वैतद᳘पगृह्णाति॥
मूलम् - श्रीधरादि
(त्य) अथै᳘कं तृ᳘णम᳘पगृह्णाति॥
य᳘जमानो वै᳘ प्रस्तरः स य᳘त्कृत्स्नं᳘ प्रस्तर᳘मनुप्रह᳘रेत्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लो᳘क᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति या᳘वद्वे᳘वास्येह᳘ मानुषमा᳘युस्त᳘स्मा ऽए᳘वैतद᳘पगृह्णाति॥
मूलम् - Weber
अथैकं तृ᳘णम᳘पगृह्णाति॥
य᳘जमानो वै᳘ प्रस्तरः स य᳘त्कृत्स्न᳘म् प्रस्तर᳘मनुप्रह᳘रेत्क्षिप्रे᳘ ह य᳘जमानो ऽमुं᳘ लोक᳘मियात्त᳘थो ह य᳘जमानो ज्यो᳘ग्जीवति या᳘वद्वेॗवास्येह᳘ मानुषमा᳘युस्त᳘स्मा एॗवैतद᳘पगृह्णाति॥
मूलम् - विस्वरम्
अथैकं तृणमपगृह्णाति । यजमानो वे प्रस्तरः । न यत्कृत्स्नं प्रस्तरमनुप्रहरेत्- क्षिप्रे ह यजमानो ऽमुं लोकमियात्; तथो ह यजमानो ज्योग् जीवति- यावदु एवास्येह मानुषमायुः- तस्मा एवैतदपगृह्णाति ॥ १६ ॥
सायणः
अथैकं तृणम् । यदेकं तृणमपगृह्णाति, 32 तथा क्रियमाणे ‘यजमानः’ ‘ज्योक्’ चिरं ‘जीवति’ । एवं तावत् कृत्यानुप्रहरणकृतदोषपरिहारायापगृह्णाति इत्युक्तम्, अधुना त्वन्यकृतो ऽप्यायुषः क्षयो ऽत्र तेनापग्रहणेन रक्ष्यत इत्याह- यावद्वेवेति । उ-शब्दश्चार्थे । ‘यावत्’ च ‘इह’ लोके, ‘अस्य’ ‘मानुषम्’ पूर्वकर्मोपात्तम् ‘आयुः’ ‘तस्मै एव एतदपगृह्णाति’ इति । एशब्दः समुच्चये ॥ १६ ॥
Eggeling
- He then takes a single stalk from it. The prastara-bunch is the sacrificer; and therefore, if he were to throw the whole prastara (at once) into the fire, the sacrificer would speedily go to yonder world. In this way, however, the sacrificer will live long; and what the full measure of human life here on earth is, for that he takes this (single stalk) therefrom.
१७
विश्वास-प्रस्तुतिः
त᳘न्मुहूर्त्तं᳘ धारयि᳘त्वानुप्र᳘हरति॥
तद्य᳘त्रास्ये᳘तर ऽआत्मा᳘गंस्त᳘दे᳘वास्यैत᳘द्गमयत्य᳘थ य᳘न्नानुप्रह᳘रेदन्त᳘रियाद्ध य᳘जमानं लोकात्त᳘थो ह य᳘जमानं लोका᳘न्नान्त᳘रेति॥
मूलम् - श्रीधरादि
त᳘न्मुहूर्त्तं᳘ धारयि᳘त्वानुप्र᳘हरति॥
तद्य᳘त्रास्ये᳘तर ऽआत्मा᳘गंस्त᳘दे᳘वास्यैत᳘द्गमयत्य᳘थ य᳘न्नानुप्रह᳘रेदन्त᳘रियाद्ध य᳘जमानं लोकात्त᳘थो ह य᳘जमानं लोका᳘न्नान्त᳘रेति॥
मूलम् - Weber
त᳘न्मुहूर्तं᳘ धारयिॗत्वानुप्र᳘हरति॥
तद्य᳘त्रास्ये᳘तर आत्मा᳘गंस्त᳘देॗवास्यैत᳘द्गमयत्य᳘थ यॗन्नानुप्रह᳘रेदन्त᳘रियाद्ध य᳘जमानं लोकात्त᳘थो ह य᳘जमानं लोकाॗन्नान्त᳘रेति॥
मूलम् - विस्वरम्
तन्मुहूर्तं धारयित्वा ऽनुप्रहरति । तद्यत्रास्येतर आत्मागन्, तदेवास्यैतद्गमयति । अथ यन्नानु प्रहरेद्- अन्तरियाद्ध यजमानं लोकात्; तथो ह यजमानं लोकान्नान्तरेति ॥ १७ ॥
सायणः
तन्मुहूर्तम् । प्रसन्ना ॥ १७ ॥
Eggeling
- Having held (the prastara) for a moment, he throws it into the fire: whither his (the sacrificer’s) one (part of) self (or, body) 34 went, thither he thereby causes it to go 35. But were he not to throw it into the fire, he would cut off the sacrificer from (yonder) world. In this way, however, he does not cut off the sacrificer from (yonder) world.
१८
विश्वास-प्रस्तुतिः
तं प्रा᳘ञ्चमनुस᳘मस्यति॥
प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दञ्चमु᳘दीची हि᳘ मनु᳘ष्याणां दिक्त᳘मङ्गु᳘लिभिरेव᳘ योयुप्ये᳘रन्न᳘ काष्ठैर्द्दा᳘रुभिर्व्वा ऽइ᳘तरᳫँ᳭ श᳘वं᳘ व्यृषन्ति नेत्त᳘था कर᳘वाम यथे᳘तरᳫँ᳭ श᳘वमि᳘ति त᳘स्मादङ्गु᳘लिभिरेव᳘ योयुप्ये᳘रन्न᳘ काष्ठै᳘र्यदा हो᳘त्ता सूक्तवाकमाह᳘॥
मूलम् - श्रीधरादि
तं प्रा᳘ञ्चमनुस᳘मस्यति॥
प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दञ्चमु᳘दीची हि᳘ मनु᳘ष्याणां दिक्त᳘मङ्गु᳘लिभिरेव᳘ योयुप्ये᳘रन्न᳘ काष्ठैर्द्दा᳘रुभिर्व्वा ऽइ᳘तरᳫँ᳭ श᳘वं᳘ व्यृषन्ति नेत्त᳘था कर᳘वाम यथे᳘तरᳫँ᳭ श᳘वमि᳘ति त᳘स्मादङ्गु᳘लिभिरेव᳘ योयुप्ये᳘रन्न᳘ काष्ठै᳘र्यदा हो᳘त्ता सूक्तवाकमाह᳘॥
मूलम् - Weber
तम् प्रा᳘ञ्चमनुस᳘मस्यति॥
प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो उ᳘दञ्चमु᳘दीची हि᳘ मनुॗष्याणां दिक्त᳘मङ्गु᳘लिभिरेव᳘ योयुप्ये᳘रन्न᳘ काष्ठैर्दा᳘रुभिर्वा इ᳘तॗरं श᳘वं व्यृषन्ति नेत्त᳘था कर᳘वाम यथे᳘तरं श᳘वमि᳘ति त᳘स्मादङ्गु᳘लिभिरेव᳘ योयुप्ये᳘रन्न᳘ काष्ठै᳘र्यदा हो᳘ता सूक्तवाकमाह॥
मूलम् - विस्वरम्
तं प्राञ्चमनुसमस्यति- प्राची हि देवानां दिक् । अथो उदञ्चम्- उदीची हि मनुष्याणां दिक् । तमङ्गुलिभिरेव योयुप्येरन्- न काष्ठैः । दारुभिर्वा इतरं शवं व्यृषन्ति । नेत्तथा करवाम- यथेतरं शवमिति । तस्मादङ्गुलिभिरेव योयुप्येरन्- न काष्ठैः । यदा होता सूक्तवाकमाह ॥ १८ ॥
सायणः
तं प्राञ्चमनु । ‘तं’ प्रकृतं प्रस्तरं ‘प्राञ्चं’ प्रागग्रं सूक्तवाके उक्तप्राये ‘अनु’ पश्चात् ‘समस्यति’ समग्रमेव प्रक्षिपति । ‘तमङ्गुलिभिरेव योयुप्येरन्’ । “युप रूप लुप विमोहने” (दिवा. प. १२९-१३१) पुनः-पुनस्तं मूर्च्छयेयुः, ‘न काष्ठैः’, हस्तेनोपक्षिपेयुरित्यर्थः । किं कारणम् ? “दारुभिर्वा इतरं मानुषं शवं व्यृषन्ति” ऋष-ऋषी-गतौ (तुदा. पर. ७) नयने ऽत्र द्रष्टव्यः । विस्तारयन्ति, सुगन्धित्वायेत्यर्थः 36 । तदुपचाराच्चास्य यज्ञियस्य विलक्षणेनोपचारेण भवितव्यमिति । नेत्तथेति । ‘नेत्’- इति परिभये । तत्तथेत्याह ॥ १८ ॥
Eggeling
- He throws it (with its top) to the east, for the east is the region of the gods; or to the north, for the north is the region of man. With the fingers only they should smooth it down, not with pieces of wood; since it is with sticks that they pierce any other corpse. Fearing, lest they should treat it in the same way as any other corpse, they should smooth it down with the fingers only, not with pieces of wood. When the Hotr̥ recites the song of praise,–
१९
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
तद्य᳘त्रास्ये᳘तर ऽआत्मा᳘गंस्त᳘दे᳘वास्यैत᳘द्गमये᳘त्ये᳘वैत᳘दाह तूष्णी᳘मे᳘वानुप्रहृ᳘त्य चक्षुष्पा᳘ ऽअग्ने ऽसि च᳘क्षुर्म्मे पाही᳘त्यात्मा᳘नमु᳘पस्पृशति ते᳘नो ऽअ᳘प्यात्मा᳘नं᳘ नानुप्र᳘वृणक्ति᳘॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
तद्य᳘त्रास्ये᳘तर ऽआत्मा᳘गंस्त᳘दे᳘वास्यैत᳘द्गमये᳘त्ये᳘वैत᳘दाह तूष्णी᳘मे᳘वानुप्रहृ᳘त्य चक्षुष्पा᳘ ऽअग्ने ऽसि च᳘क्षुर्म्मे पाही᳘त्यात्मा᳘नमु᳘पस्पृशति ते᳘नो ऽअ᳘प्यात्मा᳘नं᳘ नानुप्र᳘वृणक्ति᳘॥
मूलम् - Weber
अ᳘थाग्नी᳘दाहानुप्र᳘हरे᳘ति॥
तद्य᳘त्रास्ये᳘तर आत्मा᳘गंस्त᳘देॗवास्यैत᳘द्गमये᳘त्येॗवैत᳘दाह तूष्णी᳘मेॗवानुप्रहृ᳘त्य चक्षुष्पा᳘ अग्ने ऽसि च᳘क्षुर्मे पाही᳘त्यात्मा᳘नमु᳘पस्पृशति ते᳘नो अ᳘प्यात्माॗनं नानुप्र᳘वृणक्ति॥
मूलम् - विस्वरम्
अथाग्नीदाह- ‘अनुप्रहर’ इति । तद्यत्रास्येतर आत्मागन्- तदेवास्यैतद्गमय- इत्येवैतदाह । तूष्णीमेवानुप्रहृत्य- “चक्षुप्पा अग्ने ऽसि, चक्षुर्मे पाहि”- (वा. सं. २. १६) इति । आत्मानमुपस्पृशति । तेनो अप्यात्मानं नानुप्रवृणक्ति ॥ १९ ॥
सायणः
अथाग्नीदाह । प्रसन्ना 36 ॥ १९ ॥
Eggeling
- The Āgnīdhra says (to the Adhvaryu), ‘Throw
(the single stalk) after (the prastara)!’–‘whither his (the sacrificer’s) other self went, thither make it now go,’ this is what he thereby says. [The Adhvaryu] having thrown it silently after, touches himself 37, with the text (Vāj. S. II, 16 f): ‘Guardian of the eye art thou, O Agni; guard mine eye!’ In this way also he does not throw himself into the fire after (the prastara or sacrificer).
२०
विश्वास-प्रस्तुतिः
(क्त्य᳘) अ᳘थाह सं᳘व्वदस्वे᳘ति॥
सं᳘वादयैनं देवैरि᳘त्ये᳘वैत᳘दाहा᳘गानग्नीदित्य᳘गन्खल्वि᳘त्ये᳘वैत᳘दाहा᳘गन्निती᳘तरः प्र᳘त्याह श्रावये᳘ति तं वै᳘ देवैः᳘ श्रावय तम᳘नुबोधये᳘त्ये᳘वैत᳘दाह श्रौ᳘षडि᳘ति व्विदुर्व्वा᳘ ऽएनम᳘नुवा᳘ ऽएनमभुत्सते᳘त्ये᳘वैत᳘दाहैव᳘मध्वर्यु᳘श्चाग्नी᳘च्च देवलोकं य᳘जमानम᳘पिनयतः᳘॥
मूलम् - श्रीधरादि
(क्त्य᳘) अ᳘थाह सं᳘व्वदस्वे᳘ति॥
सं᳘वादयैनं देवैरि᳘त्ये᳘वैत᳘दाहा᳘गानग्नीदित्य᳘गन्खल्वि᳘त्ये᳘वैत᳘दाहा᳘गन्निती᳘तरः प्र᳘त्याह श्रावये᳘ति तं वै᳘ देवैः᳘ श्रावय तम᳘नुबोधये᳘त्ये᳘वैत᳘दाह श्रौ᳘षडि᳘ति व्विदुर्व्वा᳘ ऽएनम᳘नुवा᳘ ऽएनमभुत्सते᳘त्ये᳘वैत᳘दाहैव᳘मध्वर्यु᳘श्चाग्नी᳘च्च देवलोकं य᳘जमानम᳘पिनयतः᳘॥
मूलम् - Weber
अ᳘थाह सं᳘वदस्वे᳘ति॥
सं᳘वादयैनं देवैरि᳘त्येॗवैत᳘दाहा᳘गानग्नीदित्य᳘गङ्खल्वि᳘त्येॗवैत᳘दाहा᳘गन्निती᳘तरः प्र᳘त्याह श्रावये᳘ति तं वै᳘ देवैः᳘ श्रावय तम᳘नुबोधये᳘त्येॗवैत᳘दाह श्रौषडि᳘ति विदुर्वा᳘ एनम᳘नु वा᳘ एनमभुत्सते᳘त्येॗवैत᳘दाहैव᳘मध्वर्यु᳘श्चाग्नी᳘च्च देवलोकं य᳘जमानम᳘पिनयतः॥
मूलम् - विस्वरम्
अथाह- ‘संवदस्व’- इति । संवादयैनं देवैरित्येवैतदाह । ‘अगानग्नीत्’ इति- अगन् खल्वित्येवैतदाह । ‘अगन्’- इतीतरः प्रत्याह । ‘श्रावय’ इति, तं वै देवैः श्रावय, तमनुबोधयेत्येवैतदाह । ‘श्रौषड्’ इति- विदुर्वा एनम्, अनु वा एनमभुत्सत- इत्येवैतदाह । एवमध्वर्युश्चाग्नीच्च देवलोकं यजमानमपिनयतः ॥ २० ॥
सायणः
अथाह । संवदस्वेत्यादीनां 36 व्याहृतीनां बाह्यस्तावदर्थः । अग्नीदध्वर्युं प्रेष्यति- ‘संवदस्व’ त्वं मया सह शंयुवाकप्रैषार्थमिति । तमध्वर्युः पृच्छति- ‘अगानग्नीत्’ हे अग्नीत् ! किमगमत् प्रस्तरशरीरो यजमानः स्वर्गं लोकम् ? किं दग्धः प्रस्तर इत्यर्थः । अग्नीत्तु ‘अगन्’ इति प्रतिवचनं ददाति । गतो यजमानः, दग्धः प्रस्तर इत्यर्थः । अध्वर्युस्त्वाह- यद्येवम्, ततः शंयुवाकपरिधिप्रहरणयोः कालो वर्तते, ततश्च ‘श्रावय’ होतारम्, आकर्णयेत्यर्थः । अग्नीच्चाह- ‘श्रौषट्’ शृणोत्येवायमवहितः, ब्रूहि त्वं यद्विवक्षितमिति ।
‘स्वगा दैव्या होतृभ्यः’ इति शंयुवाकप्रैषः 38 । हे होतः ! शंयोर्बार्हस्पत्यस्य ऋषेरार्षम् ब्रूहि । ‘स्वगा’ स्वस्थानगामिनं त्वां ‘दैव्या’ देवेभ्यो ‘होतृभ्यः’ परिधिशरीरेभ्यो ऽत्र हूयन्ताम् परिधय इत्यर्थः । ‘मानुषेभ्यः’ तु होतृभ्यः ‘स्वस्ति’ अविनाशो ऽस्त्वित्येवंरूपं वाक्यं ‘ब्रूहि’ इति । श्रुतिस्तु साङ्केतिकं गूढतरमर्थं व्याचष्टे- तत्र च यथैव प्रहरणसम्बन्धसूक्तवाकप्रैषसंबद्धमाश्रावणमनुषङ्गतः परिधीनामुपकारकमित्युक्तम्; तथेहापि परिधिप्रहरणसम्बन्धशंयुवाकप्रैषसम्बद्धा व्याहृतयो ऽनुषङ्गात् प्रस्तरवृत्तान्तं प्रकाशयन्तीति दर्शयति । संवादयैनं देवैरिति । प्रियमिवातिथिमागतैर्देवैः सम्भाषयेत्यर्थः । णिचो लोपमत्र दर्शयति- अगानग्नीदिति । गमनद्रढिम्ने । तमेवाग्नीधं पृच्छति- किं गतो ऽयं यजमानो येन संवाह्यते ? न गत इतीतरेणोक्ते ऽध्वर्युराह- तमेव तर्हि मद्वचनेन श्रावयैतमिति । अग्नीत्वाह- श्रौषडिति । ‘विदुर्वा एनमिति’ जानन्त्येवैनं देवाः; उपकारित्वादनाख्यातमपीत्यर्थः । अनु वा एनमभुत्सतेति । पूर्वमेवायं बुद्धो देवैरित्ययं वा श्रौषडित्यस्यार्थः ॥ २० ॥
Eggeling
- He (the Āgnīdhra) then says 39 (to the Adhvaryu), ‘Discourse together!’–he thereby says, ‘Make him (the sacrificer) discourse with the gods.’ [The Adhvaryu asks], ‘Has he gone (to the gods), Agnīdh?’ whereby he says, ‘Has he really gone?’–‘He has gone!’ replies the other.–‘Bid (the gods) hear!’ by these words he (the Adhvaryu) means to say, ‘Make him (the sacrificer) be heard, make him be noticed by the gods!’–‘May (one or they) hear (sraushaṭ)!’ thereby he (the Āgnīdhra) means to say, ‘They know him, they have recognised him.’ Thus the Adhvaryu and the Āgnīdhra lead the sacrificer to the world of the gods.
२१
विश्वास-प्रस्तुतिः
(तो᳘) अ᳘थाह स्वगा दै᳘व्या हो᳘तृभ्य ऽइ᳘ति॥ दै᳘व्या वा᳘ ऽएते हो᳘तारो य᳘त्परिध᳘यो ऽग्न᳘यो हि ता᳘ने᳘वैत᳘त्स्वगा᳘करोति त᳘स्मादाह स्वगा दै᳘व्या हो᳘तृभ्य इ᳘ति स्वस्तिर्मा᳘नुषेभ्य ऽइ᳘ति त᳘दस्मै᳘ मानुषा᳘य होत्रे᳘ ऽह्वलामा᳘शास्ते᳘॥
मूलम् - श्रीधरादि
(तो᳘) अ᳘थाह स्वगा दै᳘व्या हो᳘तृभ्य ऽइ᳘ति॥ दै᳘व्या वा᳘ ऽएते हो᳘तारो य᳘त्परिध᳘यो ऽग्न᳘यो हि ता᳘ने᳘वैत᳘त्स्वगा᳘करोति त᳘स्मादाह स्वगा दै᳘व्या हो᳘तृभ्य इ᳘ति स्वस्तिर्मा᳘नुषेभ्य ऽइ᳘ति त᳘दस्मै᳘ मानुषा᳘य होत्रे᳘ ऽह्वलामा᳘शास्ते᳘॥
मूलम् - Weber
अ᳘थाह स्वगा दै᳘व्या हो᳘तृभ्य इ᳘ति दै᳘व्या वा᳘ एते हो᳘तारो य᳘त्परिध᳘यो ऽग्न᳘यो हि ता᳘नेॗवैत᳘त्स्वगा᳘करोति त᳘स्मादाह स्वगा दै᳘व्या हो᳘तृभ्य इ᳘ति स्वस्तिर्मा᳘नुषेभ्य इ᳘ति त᳘दस्मै᳘ मानुषा᳘य होत्रे᳘ ह्वलामा᳘शास्ते॥
मूलम् - विस्वरम्
अथाह- ‘स्वगा दैव्या होतृभ्यः’- इति । दैव्या वा एते होतारो यत्परिधयः । अग्नयो हि । तानेवैतत् स्वगा करोति । तस्मादाह- स्वगा दैव्या होतृभ्य- इति । ‘स्वस्तिर्मानुषेभ्यः’ इति- तदस्मै मानुषाय होत्रे ऽह्वलामाशास्ते ॥ २१ ॥
सायणः
“अथाह स्वगा” । “तदस्मै मानुषाय”- इति प्रयोगे बहूनां मानुषाणां होतॄणामभावादेकवचनस्थाने एवैतद्बहुवचनमिति दर्शयति ॥ २१ ॥
Eggeling
- He (the Adhvaryu) then says, ‘Good-speed to the divine Hotr̥s 40!’ The divine Hotr̥s assuredly are these enclosing-sticks, since these are Agnis (fires): it is to them that he thereby bids good-speed, and therefore he says, ‘good-speed to the
divine Hotr̥s!’–‘Success (svasti) to the human!’ thereby he desires that this human Hotr̥ may not fail.
२२
विश्वास-प्रस्तुतिः
(स्ते᳘ ऽथ) अ᳘थ परिधी᳘ननुप्र᳘हरति॥ स᳘ मध्यम᳘मेवा᳘ग्रे परिधि᳘मनु प्र᳘हरति यं᳘ परिधिं᳘ पर्य᳘धत्था ऽअ᳘ग्ने देव पणि᳘भिर्गुह्यमानः॥ तं᳘ त ऽएतम᳘नु जो᳘षं भराम्येष नेत्त्व᳘दपचेत᳘याता ऽइ᳘त्यग्नेः प्रियं पाथो᳘ ऽपीतमिती᳘तरावनु स᳘मस्यति॥
मूलम् - श्रीधरादि
(स्ते᳘ ऽथ) अ᳘थ परिधी᳘ननुप्र᳘हरति॥ स᳘ मध्यम᳘मेवा᳘ग्रे परिधि᳘मनु प्र᳘हरति यं᳘ परिधिं᳘ पर्य᳘धत्था ऽअ᳘ग्ने देव पणि᳘भिर्गुह्यमानः॥ तं᳘ त ऽएतम᳘नु जो᳘षं भराम्येष नेत्त्व᳘दपचेत᳘याता ऽइ᳘त्यग्नेः प्रियं पाथो᳘ ऽपीतमिती᳘तरावनु स᳘मस्यति॥
मूलम् - Weber
अ᳘थ परिधी᳘ननुप्र᳘हरति स᳘ मध्यम᳘मेवा᳘ग्रे परिधि᳘मनुप्र᳘हरति य᳘म् परिधिं᳘ पर्य᳘धत्था अ᳘ग्ने देव पणि᳘भिर्गुह्य᳘मानः तं᳘ त एतम᳘नु जो᳘षं भराम्येष नेत्त्व᳘दपचेत᳘याता इ᳘त्यग्नेः᳘ प्रियम् पाथो᳘ ऽपीतमिती᳘तरावनुस᳘मस्यति॥
मूलम् - विस्वरम्
अथ परिधीननुप्रहरति । स मध्यममेवाग्रे परिधिमनुप्रहरति- “यं परिधिं पर्यधत्था अग्ने देव पणिभिर्गुह्यमानः । तं त एतमनुजोषं भरामि- एष नेत् त्वदपचेतयातै”- (वा. सं. २. १७) इति । ** “अग्नेः प्रियं पाथो ऽपीतम्"**- (वा. सं. २. १७) इतीतरावनुसमस्यति ॥ २२ ॥
सायणः
अथ परिधीन् । प्रसन्ना ॥ २२ ॥
Eggeling
- He now throws the enclosing-sticks into the fire. The middle enclosing-stick he throws first, with the text (Vāj. S. II, 17 a), ‘The stick which thou laidst around thee, O divine Agni, when thou wert concealed by the Paṇis, I bring thee for thy pleasure; may it not prove faithless to thee!’–With (ib. b), ‘Approach ye the place beloved of Agni!’ he throws the two others after it.
२३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ जुहू᳘ञ्चोपभृ᳘तं च सम्प्र᳘गृह्णाति॥
(त्य) अदो᳘ हैवा᳘हुतिं करो᳘ति᳘ य᳘दनक्त्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गच्छादि᳘ति त᳘स्माज्जुहू᳘ञ्चोपभृ᳘तञ्च सम्प्र᳘गृह्णाति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ जुहू᳘ञ्चोपभृ᳘तं च सम्प्र᳘गृह्णाति॥
(त्य) अदो᳘ हैवा᳘हुतिं करो᳘ति᳘ य᳘दनक्त्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गच्छादि᳘ति त᳘स्माज्जुहू᳘ञ्चोपभृ᳘तञ्च सम्प्र᳘गृह्णाति॥
मूलम् - Weber
अ᳘थ जुहूं᳘ चोपभृ᳘तं च सम्प्र᳘गृह्णाति॥
अदो᳘ हैवा᳘हुतिं करो᳘ति य᳘दनक्त्या᳘हुतिर्भूत्वा᳘ देवलोकं᳘ गछादि᳘ति त᳘स्माज्जुहूं᳘ चोपभृ᳘तं च सम्प्र᳘गृह्णाति॥
मूलम् - विस्वरम्
अथ जुहूं चोपभृतं च संप्रगृह्णाति । अदो हैवाहुतिं करोति- यदनक्ति । आहुतिर्भूत्वा देवलोकं गच्छाद्- इति । तस्माद् जुहूं चोपभृतं च संप्रगृह्णाति ॥ २३ ॥
सायणः
अथ जुहूम् । ‘सम्प्रगृह्णाति’ सङ्गते उद्गृह्णाति- संस्रवहोमाय, आज्यशेषस्य स्वगाकाराय च । कुत एतत् ? मन्त्रवर्णाद् वाक्यशेषाच्च । आहुतिर्भूत्वेति । ‘एतेन प्रस्तरमनुसमस्यति’ ‘परिधीननुप्रहरति’- इत्येते (श० प० ८ । ३ । २८ । २२) (का० श्रौ० सू० ३ । १३५) 41 अपि होमचोदने एव वक्तव्ये | “अदो हैवाहुतिम्”- इति परिधिसंस्काराशंकां निवर्तयति । एवं ह्याशङ्कते- “यद्वै हविरभ्यक्तं यदभिघारितं तज्जुष्टं तन्मेध्यम्”- इति वचनाद् हविरभिघारणीयम्, अनन्तरमेव च हुताः परिधयः; ते ऽभिघारिताः आहुतिर्भवति; अतस्तेषामाहुतित्वायैते स्रुचौ सम्प्रगृह्येते, न पृथगेव संस्रवहोमः कर्मेति; तन्निराकरोति । अत एव परिधय आहुतिकृता ये ते आज्येन जौहवेनाक्तास्तस्मान्न तेषामाहुतित्वाय स्रुचौ सम्प्रगृह्येते, किं तर्हि ? आहुतिर्भूत्वा इदमेवाज्यं ‘देवलोकं’ गच्छेदित्येवमर्थं ‘सम्प्रगृह्णाति’ । यथैव प्रस्तरपरिधीनां स्वगाकारो ह्युक्तः, एवमाज्यशेषस्यापि विलग्नस्येत्यभिप्रायः ॥ २३॥
Eggeling
२४
विश्वास-प्रस्तुतिः
स वै व्वि᳘श्वेभ्यो देवे᳘भ्यः सम्प्र᳘गृह्णाति॥
यद्वा अ᳘नादिष्टं देव᳘तायै हवि᳘र्गृह्यते स᳘र्व्वा वै त᳘स्मिन्देव᳘ता अपित्वि᳘न्यो मन्यन्ते न वा᳘ ऽएतत्क᳘स्यैचन᳘ देव᳘तायै हवि᳘र्गृह्णन्ना᳘दिशति यदा᳘ज्यं त᳘स्माद्वि᳘श्वे᳘भ्यो देवे᳘भ्यः सम्प्र᳘गृह्णात्येत᳘दु व्वैश्वदेव᳘ᳫँ᳭हविर्यज्ञे॥
मूलम् - श्रीधरादि
स वै व्वि᳘श्वेभ्यो देवे᳘भ्यः सम्प्र᳘गृह्णाति॥
यद्वा अ᳘नादिष्टं देव᳘तायै हवि᳘र्गृह्यते स᳘र्व्वा वै त᳘स्मिन्देव᳘ता अपित्वि᳘न्यो मन्यन्ते न वा᳘ ऽएतत्क᳘स्यैचन᳘ देव᳘तायै हवि᳘र्गृह्णन्ना᳘दिशति यदा᳘ज्यं त᳘स्माद्वि᳘श्वे᳘भ्यो देवे᳘भ्यः सम्प्र᳘गृह्णात्येत᳘दु व्वैश्वदेव᳘ᳫँ᳭हविर्यज्ञे॥
मूलम् - Weber
स वै वि᳘श्वेभ्यो देवे᳘भ्यः सम्प्र᳘गृह्णाति॥
यद्वा अ᳘नादिष्टं देव᳘तायै हवि᳘र्गृह्य᳘ते स᳘र्वा वै त᳘स्मिन्देव᳘ता अपित्वि᳘न्यो मन्यन्ते न वा᳘ एतत्क᳘स्यै चन᳘ देव᳘तायै हवि᳘र्गृह्णन्ना᳘दिषति यदा᳘ज्यं त᳘स्माद्वि᳘श्वेभ्यो देवे᳘भ्यः सम्प्र᳘गृह्णात्येत᳘दु वैश्वदेव᳘ᳫं᳘ हविर्यज्ञे᳟॥
मूलम् - विस्वरम्
स वै विश्वेभ्यो देवेभ्यः सम्प्रगृह्णाति । यद्वा अनादिष्टं देवतायै हविर्गृह्यते- सर्वं वै तस्मिन् देवता अपित्विन्यो मन्यन्ते । न वा एतत् कस्यैचन देवतायै हविर्गृह्णन्नादिशति- यदाज्यम् । तस्माद् विश्वेभ्यो देवेभ्यः सम्प्रगृह्णाति । एतदु वैश्वदेवं हविर्यज्ञे ॥ २४ ॥
सायणः
स वै विश्वेभ्यः । ‘अपित्विन्यः’ भागिन्यः; अत्र वयमपीत्येवं मन्यन्ते ॥ २४ ॥
Eggeling
- He seizes them for the Viśve Devāḥ (the All-gods). For, assuredly, when any sacrificial food is taken without being announced to any one deity, then all the gods think that they have a share in it. Now when he takes that sacrificial food, the (residue of) butter, he does not announce it to any one deity; and hence he takes up (the two spoons) for the Viśve Devāḥ, and thus makes that (residue of butter) the vaiśvadeva 44 at the haviryajña.
२५
विश्वास-प्रस्तुतिः
स᳘ सम्प्र᳘गृह्णाति॥
सᳫंस्रव᳘भागा स्थेषा᳘ बृह᳘न्त ऽइ᳘ति सᳫं᳘स्रवो᳘ ह्येव ख᳘लु प᳘रिशिष्टो भ᳘वति प्रस्तरेष्ठाः᳘ परिधे᳘याश्च देवा ऽइ᳘ति प्रस्तर᳘श्च हि᳘ परिध᳘यश्चानुप्र᳘हृता भवन्तीमां व्वा᳘चमभिवि᳘श्वे गृण᳘न्त ऽइ᳘त्येत᳘दु व्वैश्वदेवं᳘ करोत्यास᳘द्यास्मि᳘न्बर्हि᳘षि मादयध्वᳫंस्वा᳘हाव्वाडि᳘ति तद्य᳘था व्व᳘षट्कृत᳘ᳫँ᳭हुतमेव᳘मस्यैत᳘द्भवति॥
मूलम् - श्रीधरादि
स᳘ सम्प्र᳘गृह्णाति॥
सᳫंस्रव᳘भागा स्थेषा᳘ बृह᳘न्त ऽइ᳘ति सᳫं᳘स्रवो᳘ ह्येव ख᳘लु प᳘रिशिष्टो भ᳘वति प्रस्तरेष्ठाः᳘ परिधे᳘याश्च देवा ऽइ᳘ति प्रस्तर᳘श्च हि᳘ परिध᳘यश्चानुप्र᳘हृता भवन्तीमां व्वा᳘चमभिवि᳘श्वे गृण᳘न्त ऽइ᳘त्येत᳘दु व्वैश्वदेवं᳘ करोत्यास᳘द्यास्मि᳘न्बर्हि᳘षि मादयध्वᳫंस्वा᳘हाव्वाडि᳘ति तद्य᳘था व्व᳘षट्कृत᳘ᳫँ᳭हुतमेव᳘मस्यैत᳘द्भवति॥
मूलम् - Weber
स᳘ सम्प्र᳘गृह्णाति॥
संस्रव᳘भागा स्थेषा᳘ बृह᳘न्त इ᳘ति संस्रवोॗ ह्येव ख᳘लु प᳘रिशिष्टो भ᳘वति प्रस्तरेष्ठाः᳘ परिधे᳘याश्च देवा इ᳘ति प्रस्तर᳘श्च हि᳘ परिध᳘यश्चानुप्र᳘हृता भ᳘वन्तीमां वा᳘चमभि वि᳘श्वे गृण᳘न्त इ᳘त्येत᳘दु वैश्वदेवं᳘ करोत्यास᳘द्यास्मि᳘न्बर्हि᳘षि मादयध्वᳫं स्वा᳘हा वाडि᳘ति तद्य᳘था व᳘ष्ट्कृतᳫं हुत᳘मेव᳘मस्यैत᳘द्भवति॥
मूलम् - विस्वरम्
स सम्प्रगृह्णाति । “संस्रवभागा स्थेषा बृहन्तः”- (वा. सं. २. १८) संस्रवो ह्येव खलु परिशिष्टो भवति । “प्रस्तरेष्ठाः परिधेयाश्च देवाः”- (वा. सं. २ । १८) इति । प्रस्तरश्च हि परिधयश्चानुप्रहृता भवन्ति । " इमां वाचमभिविश्वे गृणन्तः “ - ( वा. सं. २ । १८ ) इति । एतदु वैश्वदेवं करोति । “आसद्यास्मिन् बर्हिषि मादयध्वं स्वाहावाट्”- (वा. सं. २ । १८ ) इति । तद्यथा वषट्कृतं हुतम्- एवमस्यैतद्भवति ॥ २५ ॥
सायणः
स सम्प्रगृह्णाति । (का० श्रौ० सू० ३ । १३६) 41 संस्रवो ह्येवेति । यदा यः परिशिष्टः संस्रवः, तदा तद्भाजः संस्रवभागा एव भवन्तीत्यभिप्रायः । प्रस्तरश्च हीति । प्रस्तरे परिधिषु च हुतेषु तदिन्धनो ऽग्निः शरीरं येषां ते, ‘प्रस्तरेष्ठाः परिधेयाश्च’ भवन्त्येवेत्यभिप्रायः ॥ २५ ॥
Eggeling
- He seizes them, with the text (Vāj. S. II, 18),
‘The residue (of the butter) ye have for your share, ye, mighty by (this) food!’ the residue, of course, is that which remains;–‘O ye gods, staying on the prastara, and representing the enclosing-sticks 45;’ for both the prastara and the enclosing-sticks have been thrown into the fire;–‘All of you, applauding this speech,’ thereby he makes it the vaiśvadeva (belonging to the Viśve Devāḥ);–‘Be seated on this couch of grass (barhis) and enjoy yourselves! Svāhā! Vāṭ 46!’ as one offers what has been consecrated by ‘vashaṭ,’ this (residue) thereby becomes such for him (the sacrificer).
२६
विश्वास-प्रस्तुतिः
स यस्या᳘नसो हवि᳘र्गृह्णन्ति᳘॥
(न्त्य᳘) अ᳘नसस्त᳘स्य धुरि व्वि᳘मुञ्चन्ति य᳘तो युन᳘जाम त᳘तो व्वि᳘मुञ्चामे᳘ति य᳘तो᳘ ह्येव᳘ युञ्ज᳘न्ति त᳘तो व्वि᳘मुञ्चन्ति य᳘स्यो पात्रे स्फ्ये त᳘स्य य᳘तो युन᳘जाम त᳘तो व्वि᳘मुञ्चामे᳘ति य᳘तो᳘ ह्येव᳘ युञ्ज᳘न्ति त᳘तो व्वि᳘मुञ्चन्ति॥
मूलम् - श्रीधरादि
स यस्या᳘नसो हवि᳘र्गृह्णन्ति᳘॥
(न्त्य᳘) अ᳘नसस्त᳘स्य धुरि व्वि᳘मुञ्चन्ति य᳘तो युन᳘जाम त᳘तो व्वि᳘मुञ्चामे᳘ति य᳘तो᳘ ह्येव᳘ युञ्ज᳘न्ति त᳘तो व्वि᳘मुञ्चन्ति य᳘स्यो पात्रे स्फ्ये त᳘स्य य᳘तो युन᳘जाम त᳘तो व्वि᳘मुञ्चामे᳘ति य᳘तो᳘ ह्येव᳘ युञ्ज᳘न्ति त᳘तो व्वि᳘मुञ्चन्ति॥
मूलम् - Weber
स यस्या᳘नसो हवि᳘र्गृह्णन्ति॥
अ᳘नसस्त᳘स्य धुरि वि᳘मुञ्चन्ति य᳘तो युनजाम त᳘तो वि᳘मुञ्चामे᳘ति य᳘तोॗ ह्येव᳘ युञ्ज᳘न्ति त᳘तो वि᳘मुञ्चन्ति य᳘स्यो पात्र्यै स्फ्ये त᳘स्य य᳘तो युन᳘जाम त᳘तो वि᳘मुञ्चामे᳘ति य᳘तोॗ ह्येवं᳘ युञ्ज᳘न्ति त᳘तो वि᳘मुञ्चन्ति॥
मूलम् - विस्वरम्
स यस्यानसो हविर्गृह्णन्ति- अनसस्तस्य धुरि विमुञ्चन्ति- यतो युनजाम ततो विमुञ्चाम इति । यतो ह्येव युञ्जन्ति ततो विमुञ्चन्ति । यस्यो पात्रे स्फ्ये तस्य- यतो युनजाम ततो विमुञ्चाम इति । यतो ह्येव युञ्जन्ति ततो विमुञ्चन्ति ॥ २६ ॥
सायणः
स यस्यानसः । ‘विमुञ्चन्ति’ जुहूपभृतौ । यतो युनजामेति व्याख्यातम् ॥ २६ ॥
Eggeling
- For whomsoever they take the sacrificial food from a cart, for him they unyoke (the spoons, by placing them) on the yoke of that cart, thinking, ‘Where we yoke, there we also unyoke 47;’ for from the same place where they yoke, they also unyoke. For him, on the other hand, for whom they take it from a jar, (they unyoke the spoons, by placing them) on the wooden sword, thinking, ‘Where we yoke, there we also unyoke;’ for from the same place where they yoke, they also unyoke.
२७
विश्वास-प्रस्तुतिः
यु᳘जौ ह वा᳘ ऽएते᳘ यज्ञ᳘स्य यत्स्रु᳘चौ॥
ते᳘ ऽएत᳘द्युङ्क्ते य᳘त्प्रच᳘रति स यं᳘ निधा᳘यावद्येद्य᳘था व्वा᳘हनमवार्च्छे᳘देवं तत्ते᳘ ऽएत᳘त्स्विष्टकृ᳘ति व्विमो᳘चनमा᳘गच्छत᳘स्ते त᳘त्सादयति तद्वि᳘मुञ्चति ते᳘ ऽएतत्पु᳘नः प्र᳘युङ्क्ते ऽनुयाजे᳘षु᳘ सो ऽनुयार्जे᳘श्चरि᳘त्वैत᳘द्विमो᳘चनमा᳘गच्छति ते त᳘त्सादयति तद्वि᳘मुञ्चति ते᳘ ऽएतत्पु᳘नः प्र᳘युङ्क्ते य᳘त्सम्प्रगृह्णा᳘ति तद्यां ग᳘तिमभियुङ्क्ते तां ग᳘तिं गत्वा व्वि᳘मुञ्चते यज्ञं वा ऽअ᳘नुप्रजास्त᳘स्मादयं पु᳘रुषो युङ्क्ते ऽथ व्वि᳘मुञ्चते᳘ ऽथ युङ्क्ते तद्यां ग᳘तिमभियुङ्क्ते तां गतिं ग᳘त्वान्ततो व्वि᳘मुञ्चते स᳘ सादयति घृता᳘ची स्थो धु᳘र्यौ पातᳫँ᳭सुम्ने᳘ स्थः सुम्ने᳘ माधत्तमि᳘ति सा᳘ध्व्यौ स्थः साधौ᳘ माधत्तमि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
यु᳘जौ ह वा᳘ ऽएते᳘ यज्ञ᳘स्य यत्स्रु᳘चौ॥
ते᳘ ऽएत᳘द्युङ्क्ते य᳘त्प्रच᳘रति स यं᳘ निधा᳘यावद्येद्य᳘था व्वा᳘हनमवार्च्छे᳘देवं तत्ते᳘ ऽएत᳘त्स्विष्टकृ᳘ति व्विमो᳘चनमा᳘गच्छत᳘स्ते त᳘त्सादयति तद्वि᳘मुञ्चति ते᳘ ऽएतत्पु᳘नः प्र᳘युङ्क्ते ऽनुयाजे᳘षु᳘ सो ऽनुयार्जे᳘श्चरि᳘त्वैत᳘द्विमो᳘चनमा᳘गच्छति ते त᳘त्सादयति तद्वि᳘मुञ्चति ते᳘ ऽएतत्पु᳘नः प्र᳘युङ्क्ते य᳘त्सम्प्रगृह्णा᳘ति तद्यां ग᳘तिमभियुङ्क्ते तां ग᳘तिं गत्वा व्वि᳘मुञ्चते यज्ञं वा ऽअ᳘नुप्रजास्त᳘स्मादयं पु᳘रुषो युङ्क्ते ऽथ व्वि᳘मुञ्चते᳘ ऽथ युङ्क्ते तद्यां ग᳘तिमभियुङ्क्ते तां गतिं ग᳘त्वान्ततो व्वि᳘मुञ्चते स᳘ सादयति घृता᳘ची स्थो धु᳘र्यौ पातᳫँ᳭सुम्ने᳘ स्थः सुम्ने᳘ माधत्तमि᳘ति सा᳘ध्व्यौ स्थः साधौ᳘ माधत्तमि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
यु᳘जौ ह वा᳘ एते᳘ यज्ञ᳘स्य यत्स्रु᳘चौ॥
ते᳘ एत᳘द्युङ्क्ते य᳘त्प्रच᳘रति स य᳘न्निनिधा᳘यावद्येद्य᳘था वा᳘हनमवार्छे᳘वं तत्ते᳘ एत᳘त्स्विष्टकृ᳘ति विमो᳘चनमा᳘गछतस्ते त᳘त्सादयति तद्वि᳘मुञ्चति ते᳘ एतत्पु᳘नः प्र᳘युङ्क्ते ऽनुयाजे᳘षुॗ सो ऽनुयाजै᳘श्चरिॗत्वैत᳘द्विमो᳘चनमा᳘गछति ते त᳘त्सादयति तद्वि᳘मुञ्चति ते᳘ एतत्पु᳘नः प्र᳘युङ्क्ते य᳘त्सम्प्रगृह्णा᳘ति तद्यां ग᳘तिमभियुङ्क्ते तां ग᳘तिं गत्वा वि᳘मुञ्चते यज्ञं वा अ᳘नु प्रजास्त᳘स्मादयम् पु᳘रुषो युङ्क्ते ऽथ वि᳘मुञ्चते᳘ ऽथ युङ्क्ते तद्यां ग᳘तिमभियुङ्क्ते तां गतिं गत्वान्ततो वि᳘मुञ्चते स᳘ सादयति घृता᳘ची स्थो धु᳘र्यौ पातंसुम्ने᳘ स्थः सुम्ने᳘ मा धत्तमि᳘ति साॗध्व्यौ स्थः साधौ᳘ मा धत्तमि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
युजौ ह वा एते यज्ञस्य- यत्स्रुचौ । ते एतद्युङ्क्ते- यत् प्रचरति । स यं निधायावद्येद्, यथा वाहनमवार्च्छेद्- एवं तत् । ते एतत् स्विष्टकृति विमोचनमागच्छतः । ते तत्सादयति, तद्विमुञ्चति, ते एतत्पुनः प्रयुङ्क्ते ऽनुयाजेषु । सो ऽनुयाजैश्चरित्वैतद्विमोचनमागच्छति । ते तत्सादयति, तद्विमुञ्चति, ते एतत् पुनः प्रयुङ्क्ते- यत् सम्प्रगृह्णाति । तद्यां गतिमभियुङ्क्ते, तां गतिं गत्वा विमुञ्चते । यज्ञं वा अनु प्रजाः । तस्मादयं पुरुषो युङ्क्ते, अथ विमुञ्चते, अथ युङ्क्ते, तद्यां गतिमभियुङ्क्ते तां गतिं गत्वा ऽन्ततो विमुञ्चते । स सादयति- “घृताची स्थो धुर्य्यौ पातं, सुम्ने स्थः सुम्ने मा धत्तम्”- (वा. सं. २ । १९) इति । साध्व्यौ स्थः । साधौ मा धत्तमित्येवैतदाह ॥ २७ ॥
सायणः
युजौ ह वा एते । विमोचनार्थवादो ऽयम् । तत्र च “यज्ञं वा अनु प्रजाः”- इत्यधिभूतं वक्ष्यते, (शु० प० ८ अ० ३ ब्रा० २७ कं०) तदुपक्रमार्थं ‘युजौ’ योक्तव्यावस्थौ ‘एते यज्ञस्य यत् स्रुचौ’- इत्याह । स यं निधायावद्येदिति । प्रसङ्गेनार्थप्राप्तं चरकश्रुतिप्राप्तं च निधायावदानं प्रतिषेधति । ‘वाहनं’ वाहयति तदेभिरिति वाहनमश्वादि, यथा तत् ‘अवार्च्छेत्’ अधः पतेत् वाह्यमानं, ‘एवं’ निधानं स्रुचोः प्राग्विमोकादधश्चलनम्, ‘तत्’ यज्ञस्य स्यादित्यर्थः । ते एतत् स्विष्टकृतीति । ये चरतां युङ्क्ते, ‘ते’ ‘स्विष्टकृति’ अतीते इति शेषः । ‘वि’ अपरिसमाप्तो ऽर्थः (निरु० १ । १ । ५) । विमुच्यते ऽस्मिन्निति ‘विमोचनम्’ स्थानम्, तत् ‘आगच्छतः’ । ‘ते’ ‘तत्’ तत्र ‘सादयति’ अध्वर्युः, ‘तत्’ तत्र ‘विमुञ्चति’ । विश्रामार्थम् ‘पुनः’ च ‘अनुयाजेषु’ प्रयुङ्क्ते । तदन्ते च विश्रामार्थमेव पुनः ‘विमुञ्चति’ । ‘पुनः’ च ‘सम्प्रगृह्णाति’ ‘प्रयुङ्क्ते’; तदन्ते च कृतार्थः सन् ‘गतिं’ गतं ‘अभियुंक्ते’ करोति । मन्त्रेण देशनियमेन च गम्यत इति ‘गतिः’ अध्वा गन्तव्यः । ‘यां गतिं’ यमध्वानं ‘अभि’ गन्तुं ‘युङ्क्ते’, ‘तां गतिं’ तमध्वानं ‘गत्वा’ विमुञ्चते । “यज्ञं वा अनुप्रजाः” इत्यधियाज्ञिकयोर्योगविमोकयोरधिभूतवचनम् । । ‘साध्व्यौ’- इति ‘सुम्ने’- इत्यस्य व्याख्यानम्; ‘साधौ’- इति च ‘सुम्ने’- इत्यस्य ‘सुम्नं’ सुखम्, तच्च साध्वित्यभिप्रायः “घृताची इति धुरि निदधाति- अनसि चेद्ग्रहणं” “स्फ्ये पात्र्याञ्चेत्” (का० श्रौ० सू० ३ । १३७ -१३८ ।) ॥ २७ ॥ १ ॥ ( ८.३.) ॥
इत्याचार्यहरिस्वामिनः कृतौ शतपथभाष्ये ऽष्टमस्य तृतीयं ब्राह्मणम् ।
नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥
इति श्रीमदाचार्यहरिस्वामिनः कृतौ शतपथभाष्ये ऽष्टमोध्यायः समाप्तः ॥ ८ ॥
Eggeling
- Yoke-fellows, indeed, are these two spoons for the sacrifice: he yokes them when he starts 48 (or,
first uses them). Now, were he only to release (unyoke) either of them after putting it down, it would fall down just as a draught animal 49 (would, if made to lie down before being unyoked). At the Svishṭakr̥t these two undergo an unyoking: he then lays them down, and so unyokes them. He then yokes them again, at the after-offerings. Having performed the after-offerings, he effects another unyoking: he lays them down, and so unyokes them. Thereupon he yokes them again when he seizes them both at the same time; and when he has travelled over the way for which he has yoked them, he unyokes them. After the sacrifice offspring (is produced). Hence this man yokes (unites), and then unyokes, and again yokes them; and when he has travelled over the way for which he yoked them, he finally unyokes them. He lays (the spoons) down, with the text (Vāj. S. II, 19 a), ‘Fond of butter are ye; protect the two yoke-fellows! gracious are ye: lead me to grace!’ whereby he says, ‘good are ye: lead me to goodness!’
-
‘नामयतीत्युपन्यासमात्रमेतत्, अत्रानेक (प्राप्तानेक) गुणश्रुतेस्तूत्तरावेव विधी मन्तव्यौ’ इति क्व. पु. पाठः । ↩︎
-
237:1 In Taitt. Br. III, 3, 9 a different symbolical explanation is given of the separation of the spoons: it is said there that by shifting the juhū eastwards, he drives away the enemies that have been born; and by shifting the upabhr̥t towards the west, he drives away those that will be born hereafter; and the sacrificer then stands firmly established in this world. ↩︎
-
‘इति पौर्णमास्यामित्याद्यपि लैङ्गिक्या एव व्यवस्थाया अनुवादः’ इत्यधिकं क्व. पु. । ↩︎ ↩︎
-
237:2 See p. 162, note 3. ↩︎
-
प्रकारमतिदिश्यते - पा. । ↩︎
-
‘व्यूहेत । न सर्वाभिरित्यर्थः’ क्व. पु. पा. । ↩︎
-
जुहुस्थानापन्नानां च शूर्पार्कपर्णदोहनोदुम्बरस्रुवादीनामपि व्यूहनं भवति । वसाहोमहवन्याश्च पृषदाज्योषभृतश्च उपभृत्स्थानापन्नात्वात् । का. श्रौ. सू. ३ । ५ । १३ इत्यस्य वृत्तिर्द्रष्टव्या । ↩︎
-
‘पश्चान्न्यायेन सतिसापिण्डये कश्चिद्वर्तेत- न स यज्ञानुकारी’ इति क्व. पु. पाठः । ↩︎
-
‘किं तर्हि ? समानजातीये ऽपि क्वचित् दीवनादि व्यवहारं’ इति क्व. पु. पा. । ↩︎
-
‘इदमासते- कथमासते ?’ इत्येव बन्धनीधृतपाठस्थाने क्व. पा. । ↩︎
-
काण्वानां तृतीये पुरुषे संगच्छामह इति श्रूयते, चतुर्थे संगच्छामह इति युज्यते पा. । ↩︎
-
बन्धनीधृतः पाठो नास्त्येव क्वचित् । ↩︎
-
इतः परमयं षष्ठकण्डिकान्तो ग्रन्थो नास्ति क्व. । ↩︎
-
मातुलकन्याद्युद्वाहनिषेधो ऽपि तत्रैव म. सं. ११ अ. १७१-१७२ श्लो० ॥ ↩︎
-
(१ मि.) यजमानः, पत्नी च । (२ मि.) वत्सः, अग्निहोत्री च । (३ मि.) स्थाली, अङ्गाराश्च । (४ मि.) स्रुक्, स्रुवश्च । (५ मि.) आहवनीयः, समिच्च । (६ मि.) आहुतिः स्वाहाकारश्च ॥ ↩︎
-
“सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन सम्भूता जात्या ज्ञेयास्त एव ते" इति म. सं. १० अ. ५ श्लो० ॥ ↩︎
-
केचनानया शतपथश्रुत्या “मातुलस्य सुतामूढ्वा” इत्यादि शातातपप्रभृतिस्मृतिभिः प्रतिपादितस्य मातुलकन्यामातुलगोत्रजकन्यापरिणयननिषेधस्य बाधमिच्छन्ति । परं तत्तेषामज्ञानं वा स्वीयानाचारस्य शास्त्रीयत्वस्थापनार्थं बुद्धिपूर्वको दुराग्रहः । यतः अस्याः शतपथश्रुतेर्लौकिकार्थवादघटितत्वेन तादृशार्थवादकल्पितश्रुत्या प्रत्यक्षस्मृतिबाधस्यानुचितत्वात् । अलौकिकार्थवादश्रुत्याकल्पितश्रुत्यैव स्मृतिबाध इति पूर्वतन्त्रराद्धान्तात् ॥ ↩︎
-
238:1 This passage is of considerable importance, as showing that the prohibition of intermarriage between near blood-relations,–so rigidly enforced in later times, and already formulated in passages such as Āpast. Dharm. II, 5, 15, 16, ‘One must not give one’s daughter to a man belonging to the same gotra. Nor to one related (within six degrees) on the mother’s (or father’s) side.’ Gobh. III, 4, 3-5, ‘One must take for one’s wife one who is not of the same gotra, or one who is not sapiṇḍa to one’s mother,’–was not as yet firmly established in our author’s time. Harisvāmin remarks on our text, that the Kāṇvas allow intermarriage in such cases from the third generation–(the Kāṇva text of the Śat. Br. reads, ‘In the third man we unite, in the fourth man we unite’)–and the Saurāshṭras from the fourth generation; and that the Dākshiṇātyas allow marriage with daughters of the mother’s brother, and with sons of the father’s sister. See Weber, Ind. Stud. X, p. 75; Max Müller, History of Ancient Sanskrit Literature, p. 387; Bühler, Sacred Laws of the Āryas, I, p. 126. ↩︎
-
“अभ्युक्ष्य जुह्वा परिधीननक्ति यथापूर्वं वसुभ्य इति प्रतिमन्त्रं” इति का. श्रौ. सू. ३ । ५ । २० ॥ ↩︎ ↩︎
-
239:1 Viz. in the order in which they were laid around, i.e. first the middle one, then the southern, and lastly the northern one. Kāty. III, 5, 24. ↩︎
-
239:2 The Adhvaryu calls on the Āgnīdhra with Make listen (o śrāvaya); and the latter responds with ‘Yea, may (one) listen! (astu śraushaṭ). See I, 5, 2, 18 seq. ↩︎
-
239:3 Sāyaṇa on Taitt. S. I, 1, 13 explains this by ‘Impelled are the divine Hotr̥s by the highest Lord (parameśvara).’ ↩︎
-
240:1 On the Agnis officiating as Hotr̥, I, 2, 3, 1. ↩︎
-
240:2 Thus Sāyaṇa explains bhadravācyāya on Taitt. S. I, 1, 13 (vol. i. p. 233). For the Hotr̥’s formula itself, see Śat. Br. I, 9, 1, 4. ↩︎
-
240:3 According to Kāty. III, 6, 1, and the other Sūtras, the Adhvaryu adds here sūktā brūhi, ‘recite the praises (hymns)!’ which Sāyaṇa on Taitt. Br. III, 6, 15 combines with the preceding sūktavākāya, and explains thus: ‘hotā tvaṁ sūktasya vāko vacanaṁ yasya so ’yaṁ devaḥ sūktavākaḥ (? i.e. Agni, cf. Śat. Br. I, 9, 1, 4) tasmai sūktavākāya devāya sūktā brūhi, idaṁ dyāvāpr̥thivīm anuvākoktāni śobhanāni vacanāni kathaya (!);’ but differently on Taitt. S. I, 1, 13, ‘idaṁ dyāvāpr̥thivī bhadram abhūd (Taitt. Br. III, 5, 10) ityādyanuvākaḥ sūktam, tasya vāko vacanam, tadartham mānusho hotā preshitaḥ; ato hetoḥ, he hotas tat sūktam brūhi.’ ↩︎
-
स्वगाशब्दः स्वागतार्थो वैदिकभाषाशब्दः । स्वगा-करोति-स्वागतं करोतीत्यर्थः ॥ “स्वगा स्वाधीनं तै. सं. १ । ४ । ४४ । ५ सा. भा. ॥ ↩︎
-
240:4 The two stalks, called vidhr̥ti (separation), separating the prastara-bunch from the barhis or grass-covering of the altar (cf. I, 3, 4, in), he puts back in the place whence they were taken. Kāty. III, 6, 4. ↩︎
-
240:5 Svagā.? literally ‘self-go,’ i.e.’ success to him!’ ↩︎
-
241:1 Cf. Ait. Ār. III, I, 2, 2-4 (Max Müller, Up. I, p. 249): ‘The first half (of a saṁhitā or combination of final and initial letters) is the earth, the second half heaven, their uniting the rain, the uniter Parjanya. And so it is when he (Parjanya) rains thus strongly, without ceasing, day and night; then they say also (in ordinary language), “Heaven and earth have come together.” See also Śat. Br. I, 7, 2, 16. ↩︎
-
“अग्रञ्जुह्वामुपभृति मध्यम्मूलमितरस्याम्” इति का. श्रौ. सू. ३ । ६ । ६ । ७ ॥ ↩︎
-
242:1 Vyantu vayo ’ktaṁ rihāṇāḥ. Mahīdhara interprets it, ‘May the birds (i.e. the metres) go (? to heaven,–taking and) licking the anointed (prastara).’ The Kāṇvas read, ‘vyantu vayo ripto rihāṇāḥ.’ The Black Yajus (Taitt. S. I, 1, 13, 1) has ‘aktaṁ rihāṇā viyantu vayaḥ, prajāṁ yoniṁ mā nirmr̥ksham, āpyāyantām āpa oshadhayaḥ,’ which Sāyaṇa explains by ‘May the birds having licked the anointed (top) go their several ways,’ &c. and the Taitt. Br. III, 3, 9, 3 remarks to viyantu vayaḥ, ‘Having made him birds, he makes him go to the heavenly world.’ According to Sāyaṇa, the three above formulas are by Āpastamba referred to the three acts of anointing, whereas the others, he says, divide the first formula into two, and use the second one (prajām, &c.) while the lower part of the prastara is anointed. See, however, Hillebrandt, Neu- and Vollm. p. 142, note 3. ↩︎
-
“मरुतामिति नीचैर्हृत्त्वा” इति का० श्रौ० सू० ३ । ६ । ७ ॥ ↩︎ ↩︎
-
242:2 The Black Yajus (Taitt. S. I, 1, 13) has, ‘The spotted (mares) of the Maruts are ye (O plants)!’ ↩︎
-
243:1 The itara ātmā in pars. 27 and 19 have to be taken correlatively. ↩︎
-
243:2 That is to say, he makes sure that the sacrificer has really obtained the object for which the sacrifice was undertaken,–the right to go to the heavenly world after his death. ↩︎
-
244:1 He touches himself near the heart, or, according to Vaidyanātha, he touches his eyes. After this he has, as usual, to touch the lustral water. See p. 2, note 2. ↩︎
-
“स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शयोर्ब्रूहि” इति का. श्रौ. सू. ३ । ६ । १६ । ↩︎
-
244:2 Here begins the śaṁyuvāka; see p. 241, note 1. ↩︎
-
244:3 ‘Svagā´ daívyā hôtr̥bhyaḥ.’ The form daivyā seems to have become fixed before hotr̥, in consequence of its frequent use, especially in the Āprī hymns, as nom. acc. dual daívyā hótārā; and in the invocation of the Iḍā, as nom. plur. daívyā hótāraḥ. ↩︎
-
“परिधीननु प्रहरति यम्परिधिमिति प्रथममितरा च युगपदग्नेः प्रियमिति” इति का. श्रौ. सू. ३ । १३५ । ↩︎ ↩︎
-
245:1 Here begins the offering of the remains (saṁsrava) of butter; see p. 236, note 2. ↩︎
-
245:2 See par. 14 above. ↩︎
-
245:3 The author again connects the havis-offering with the more solemn Soma-sacrifice; the third, or evening, libation of Soma being supposed to belong to the Viśve Devāḥ; cf. Vāj. S. XIX, 26; Ait. Br. VI, 4. ↩︎
-
246:1 Paridheyāḥ, literally ‘ye who are to be laid around;’ according to Mahīdhara = paridhibhavāḥ. The Kāṇva text has paridhayaḥ, ’enclosing-sticks.’ The Black Yajus (Taitt. S. I, 1, 13, 2) has ‘barhishadaḥ (sitting on the Barhis)’ instead. ↩︎
-
246:2 The original meaning of this sacrificial call, as of the apparently allied vashaṭ, vaushaṭ, appears to be, ‘May he (Agni) carry it (the oblation to the deity)!’ Cf. p. 88, note 2. ↩︎
-
246:3 See I, 1, 2, 8. ↩︎
-
246:4 This seems to refer to the time when he gets the spoons ready for their sacred use. He then wipes them with sacrificial grass; that is, he, as it were, rubs down the horses before starting on his journey to the world of the gods. See p. 68, note 1. ↩︎
-
247:1 I adopt the interpretation of Harisvāmin, who translates avārchet by adhaḥ patet. The St. Petersb. Dict. apparently proposes, ‘he would unharness them, as he would unharness a horse (or team).’ According to Harisvāmin, the author here controverts the view of the Karakas (carakaśruti), who apparently taught that the (symbolical) unharnessing of the spoons should succeed their being laid down on the yoke; while our author maintains that the unharnessing should precede the laying down. ↩︎