०१
विश्वास-प्रस्तुतिः
ते वा᳘ एते ऽउ᳘ल्मुके ऽउ᳘दूहन्ति॥
(न्त्य) अनुयाजे᳘भ्यो यात᳘यामेव वा᳘ ऽएत᳘दग्नि᳘र्भवति देवे᳘भ्यो हि᳘ यज्ञ᳘मूहिवान्भ᳘वत्य᳘यातयाम्न्यनुयाजां᳘स्तनवामहा ऽइ᳘ति त᳘स्माद्वा᳘ ऽएते ऽउ᳘ल्मुके ऽउ᳘दूहन्ति॥
मूलम् - श्रीधरादि
ते वा᳘ एते ऽउ᳘ल्मुके ऽउ᳘दूहन्ति॥
(न्त्य) अनुयाजे᳘भ्यो यात᳘यामेव वा᳘ ऽएत᳘दग्नि᳘र्भवति देवे᳘भ्यो हि᳘ यज्ञ᳘मूहिवान्भ᳘वत्य᳘यातयाम्न्यनुयाजां᳘स्तनवामहा ऽइ᳘ति त᳘स्माद्वा᳘ ऽएते ऽउ᳘ल्मुके ऽउ᳘दूहन्ति॥
मूलम् - Weber
ते वा᳘ एते उ᳘ल्मुके उ᳘दूहन्ति॥
अनुयाजे᳘भ्यो यात᳘यामेव वा᳘ एत᳘दग्नि᳘र्भवति देवे᳘भ्यो हि᳘ यज्ञ᳘मूहिवान्भ᳘वत्य᳘यातयाम्न्यनुयाजा᳘ᳫं᳘स्तनवामहा इ᳘ति त᳘स्माद्वा᳘ एते उ᳘ल्मुके उ᳘दूहन्ति॥
मूलम् - विस्वरम्
अथानुयाजकर्म ।
ते वा एते उल्मुके उदूहन्ति- अनुयाजेभ्यः । यातयामेव वा एतदग्निर्भवति- देवेभ्यो हि यज्ञमूहिवान् भवति; अयातयाम्न्यनुयाजांस्तनवामहै- इति । तस्माद्वा एते उल्मुके उदूहन्ति ॥ १ ॥
सायणः
ते वा एते उल्मुके । अनुयाजब्राह्मणमेतत् । ‘अथाग्निं कल्पयति’- इत्यस्मिन् (श. प. ब्रा. ३ । ३ । १२) क्रमे उल्मुके 1 द्वे ‘उदूहन्ति’ ऊर्ध्वं नयन्ति- अग्नितः पृथक् कुर्वन्ति,- ऋत्विग्यजमानाः । साक्षादध्वर्युः, इतरे तदनुज्ञानेन । अथ कस्मान्न बहव एव साक्षादुदूहन्ति ? एकेनोदूहनेनैकस्यैव कर्त्तुरपेक्षितत्वात् । यथा चानुयाजयजने तेषां स्वव्यापारापेक्षं बहुत्वम् एवमुदूहने ऽपीति गम्यते । किमर्थमुदूहन्ति ? ‘अनुयाजेभ्यः’ अनुयाजार्थम् । को ऽनुयाजेषु तयोरुपयोगः ? इति चेत्, ‘यातयामा’ गतरसः, गतवीर्यः ‘एतत्’ एतस्मिन्ननुयाजकाले अग्निर्भवति; ‘देवेभ्यः;’ यस्माद् ‘यज्ञमूढवान् भवति’ ततश्च गतवीर्यत्वादनुयाजेष्वक्षमः स्यात् । आभ्यां प्रागुन्नीताभ्यां पुनः संसृष्टाभ्यामगतवीर्यो भविष्यतीत्यभिप्रायः । अत एवाग्निकल्पनकाले उदूहन्तीति गम्पते । अनुयाजेभ्यः उत्सुके उत्सार्य देवयागायाग्निं कल्पयतीति हि तत्र युज्यते ॥ १ ॥
Eggeling
- They now remove two burning samidhs (from the Āhavanīya fire). That fire, indeed, is now worn out, (and therefore useless) for the after-offerings, since it has been carrying the sacrifice to the gods: ‘Let us perform the after-offerings in such (fire) as is not out-worn!’ thus they think, and for this reason they remove those two burning samidhs (from the fire).
०२
विश्वास-प्रस्तुतिः
ते पु᳘नरनुस᳘ᳫं᳘स्पर्शयन्ति॥
पु᳘नरे᳘वैत᳘दग्निमा᳘प्याययन्त्य᳘यातयामानं कुर्व्वन्त्य᳘यातयाम्नि यद᳘त ऽउर्द्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘त्तनवामा ऽइ᳘ति त᳘स्मात्पु᳘नरनुस᳘ᳫं᳘स्पर्शयन्ति᳘॥
मूलम् - श्रीधरादि
ते पु᳘नरनुस᳘ᳫं᳘स्पर्शयन्ति॥
पु᳘नरे᳘वैत᳘दग्निमा᳘प्याययन्त्य᳘यातयामानं कुर्व्वन्त्य᳘यातयाम्नि यद᳘त ऽउर्द्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘त्तनवामा ऽइ᳘ति त᳘स्मात्पु᳘नरनुस᳘ᳫं᳘स्पर्शयन्ति᳘॥
मूलम् - Weber
ते पु᳘नरनुस᳘ᳫं᳘स्पर्शयन्ति॥
पु᳘नरेॗवैत᳘दग्निमा᳘प्याययन्त्य᳘यातयामानं कुर्वन्त्य᳘यातयाम्नि यदत उर्ध्वम᳘संस्थितं यज्ञ᳘स्य त᳘त्तनवामा इ᳘ति त᳘स्मात्पु᳘नरनुस᳘ᳫं᳘स्पर्शयन्ति॥
मूलम् - विस्वरम्
ते पुनरनुसंस्पर्शयन्ति, पुनरेवैतदग्निमाप्याययन्ति- अयातयामानं कुर्वन्ति; अयातयाम्नि यदत ऊर्ध्वमसंस्थितं यज्ञस्य- तत्तनवामहै- इति । तस्मात् पुनरनुसंस्पर्शयन्ति ॥ २ ॥
सायणः
ते पुनरनु । अनुयाजेभ्य उल्मुके उत्सार्य देवयागे ऽतीते पश्चात् ‘संस्पर्शयन्ति’ सङ्गमयन्ति ॥ २ ॥
Eggeling
- Thereupon they again move them close (to the fire). Thereby they cause the fire to increase again and to be no longer out-worn: ‘Let us perform what part of the sacrifice remains still unaccomplished in such (fire) as is not out-worn!’ so think they, and for this reason they again move them close (to the fire).
०३
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ समि᳘धमभ्या᳘दधाति॥
स᳘मिन्ध ऽए᳘वैनमेतत्स᳘मिद्धे यद᳘त ऊर्द्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘त्तनवामहा ऽइ᳘ति त᳘स्मात्समि᳘धमभ्या᳘दधाति॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ समि᳘धमभ्या᳘दधाति॥
स᳘मिन्ध ऽए᳘वैनमेतत्स᳘मिद्धे यद᳘त ऊर्द्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘त्तनवामहा ऽइ᳘ति त᳘स्मात्समि᳘धमभ्या᳘दधाति॥
मूलम् - Weber
अ᳘थ समि᳘धमभ्या᳘दधाति॥
स᳘मिन्द्ध एॗवैनमेतत्स᳘मिद्धे यद᳘त ऊर्ध्वम᳘संस्थितं यज्ञ᳘स्य त᳘त्तनवामहा इ᳘ति त᳘स्मात्समि᳘धमभ्या᳘दधाति॥
मूलम् - विस्वरम्
अथ समिधमभ्यादधाति- समिन्ध एवैनमेतत् । समिद्धे- यदत ऊर्ध्वमसंस्थितं यज्ञस्य-तत्तनवामहै- इति । तस्मात् समिधमभ्यादधाति ॥ ३ ॥
सायणः
अव समिधमभ्यादधाति । उल्मुकसमासेन पुनर्नवीकृतो ऽग्निः ॥ ३ ॥
Eggeling
- He (the Āgnīdhra) then puts on the kindling-stick
(which was reserved at the time of kindling) 2. He thereby kindles that (fire): ‘Let us perform in the well-kindled (fire) what part of the sacrifice remains unaccomplished!’ thus he thinks, and for this reason he puts on the samidh.
०४
विश्वास-प्रस्तुतिः
ताᳫँ᳭होता᳘नुमन्त्रयते॥
(ता ऽ) एषा᳘ ते ऽअग्ने समित्त᳘या व्व᳘र्द्धस्व चा᳘ च प्यायस्व॥ व्वर्द्धिषीम᳘हि च व्वयमा᳘ च प्यासिषीमही᳘ति तद्य᳘थै᳘वादः᳘ समिद्ध्य᳘मानायान्वा᳘हैव᳘मेवैतद᳘न्वाह त᳘देतद्धो᳘तुः क᳘र्म स य᳘दि म᳘न्येत न हो᳘ता व्वेदेत्य᳘पि स्वय᳘मेव य᳘जमानो᳘ ऽनुमन्त्रयेत᳘॥
मूलम् - श्रीधरादि
ताᳫँ᳭होता᳘नुमन्त्रयते॥
(ता ऽ) एषा᳘ ते ऽअग्ने समित्त᳘या व्व᳘र्द्धस्व चा᳘ च प्यायस्व॥ व्वर्द्धिषीम᳘हि च व्वयमा᳘ च प्यासिषीमही᳘ति तद्य᳘थै᳘वादः᳘ समिद्ध्य᳘मानायान्वा᳘हैव᳘मेवैतद᳘न्वाह त᳘देतद्धो᳘तुः क᳘र्म स य᳘दि म᳘न्येत न हो᳘ता व्वेदेत्य᳘पि स्वय᳘मेव य᳘जमानो᳘ ऽनुमन्त्रयेत᳘॥
मूलम् - Weber
ताᳫं होता᳘नुमन्त्रयते॥
एषा᳘ ते अग्ने समित्त᳘या व᳘र्धस्व चा᳘ च प्यायस्व वर्धिषीम᳘हि च वयमा᳘ च प्यासिषीमही᳘ति तद्य᳘थैॗवादः᳘ समिध्य᳘मानायान्वा᳘हैव᳘मेॗवैतद᳘न्वाह त᳘देतद्धो᳘तुः क᳘र्म स य᳘दि म᳘न्येत न हो᳘ता वेदेत्य᳘पि स्वय᳘मेव य᳘जमानो᳘ ऽनुमन्त्रयेत॥
मूलम् - विस्वरम्
तां होता ऽनुमन्त्रयते- “एषा ते अग्ने समित्- तया वर्द्धस्व चा च प्यायस्व, वर्द्धिषीमहि च वयमा च प्यासिषीमहि”- (वा० सं० २ । १४) इति । तद्यथैवादः समिध्यमानायान्वाह- एवमेवैतदन्वाह । तदेतद्धोतुः कर्म । स यदि मन्येत- ‘न होता वेद’ इति, अपि स्वयमेव यजमानो ऽनुमन्त्रयेत ॥ ४ ॥
सायणः
ताँ होता । समिधा सामिधेनीस्थानीयया च “एषा ते”- इत्यनयर्च्चा “एषा त इति होता ऽनुमन्त्रयते” इति (का. श्रौ. सू. ३ । ५ । २) “समिध्यते” -इत्येतदादिभ्यां द्वाभ्यामाह । तदेतदिति । यस्मादेवमनुमन्त्रणात्मकं कर्म होतुः, नाध्वर्योः । ‘स यजमानः’ ‘होता न वेद इति मन्येत’, तदा स्वयमप्यनुमन्त्रयेत ॥ ४ ॥
Eggeling
- The Hotr̥ consecrates it (the kindling-stick), with the formula (Vāj. S. II, 14 a), ‘This, O Agni, is thy kindler; mayest thou grow and increase by it; and may we also grow and increase!’ for even as before he recited over the fire when it was being kindled, so also now he recites. This is the Hotr̥’s duty; but the sacrificer himself may pronounce the consecratory formula, if he think that the Hotr̥ does not know it 3.
०५
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थ स᳘म्मार्ष्टि॥
युन᳘क्त्ये᳘वैनमेत᳘द्युक्तो यद᳘त ऊर्द्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘द्वहादि᳘ति त᳘स्मात्स᳘म्मार्ष्टि सकृ᳘त्सकृत्स᳘म्मार्ष्टि त्रि᳘स्त्रिर्वा ऽअ᳘ग्रे देवे᳘भ्यः स᳘म्मृजन्ति नेत्त᳘था कर᳘वाम य᳘था देवे᳘भ्य ऽइ᳘ति त᳘स्मात्सकृ᳘त्सकृत्स᳘म्मार्ष्ट्य᳘जामितायै जामि᳘ ह कुर्याद्यत्त्रिः पू᳘र्व्वं त्रिर᳘परं त᳘स्मात्सकृ᳘त्सकृत्स᳘म्मार्ष्टि॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थ स᳘म्मार्ष्टि॥
युन᳘क्त्ये᳘वैनमेत᳘द्युक्तो यद᳘त ऊर्द्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘द्वहादि᳘ति त᳘स्मात्स᳘म्मार्ष्टि सकृ᳘त्सकृत्स᳘म्मार्ष्टि त्रि᳘स्त्रिर्वा ऽअ᳘ग्रे देवे᳘भ्यः स᳘म्मृजन्ति नेत्त᳘था कर᳘वाम य᳘था देवे᳘भ्य ऽइ᳘ति त᳘स्मात्सकृ᳘त्सकृत्स᳘म्मार्ष्ट्य᳘जामितायै जामि᳘ ह कुर्याद्यत्त्रिः पू᳘र्व्वं त्रिर᳘परं त᳘स्मात्सकृ᳘त्सकृत्स᳘म्मार्ष्टि॥
मूलम् - Weber
अ᳘थ स᳘म्मार्ष्टि॥
युन᳘क्त्येॗवैनमेत᳘द्युक्तो यद᳘त ऊर्ध्वम᳘संस्थितं यज्ञ᳘स्य त᳘द्वहादि᳘ति त᳘स्मात्स᳘म्मार्ष्टि सकृ᳘त्सकृत्स᳘म्मार्ष्टि त्रि᳘स्त्रिर्वा अ᳘ग्रे देवे᳘भ्यः स᳘म्मृजन्ति नेत्त᳘था कर᳘वाम य᳘था देवे᳘भ्य इ᳘ति त᳘स्मात्सकृ᳘त्सकृत्स᳘म्मार्ष्ट्य᳘जामितायै जामि᳘ ह कुर्याद्यत्त्रिः पू᳘र्वं त्रिर᳘परं त᳘स्मात्सकृ᳘त्सकृत्स᳘म्मार्ष्टि॥
मूलम् - विस्वरम्
अथ सम्मार्ष्टि- युनक्त्तयेवैनमेतद्, युक्तां यदत ऊर्ध्वमसंस्थितं यज्ञस्य- तद्वहाद्- इति । तस्मात् संमार्ष्टि । सकृत् सकृत् संमार्ष्टि । त्रिस्त्रिर्वा अग्रे देवेभ्यः संसृजन्ति, नेतथा करवाम- यथा देवेभ्यः- इति- तस्मात् सकृत् सकृत् संमार्ष्टि- अजामितायै । जामि ह कुर्याद्- यत् त्रिः पूर्वं त्रिरपरम् । तस्मात् सकृत् सकृत् संमार्ष्टि ॥ ५ ॥
सायणः
अथ सम्मार्ष्टि 4 । सम्मार्गो द्वाभ्यामुच्यते ॥ ५ ॥
Eggeling
- He (the Āgnīdhra) then sweeps (the fire) together. He thereby harnesses it: ‘Thus harnessed, may it convey (to the gods) what part of the sacrifice still remains unaccomplished!’ thus he thinks, and for this reason he sweeps it together. He sweeps
once (with the band of the fire-wood along each of the three enclosing-sticks); for thrice each time they swept for the gods on the former occasion 5: ‘Lest we should do it in the same way as for the gods;’ thus he thinks, and accordingly he sweeps once each time in order to avoid repetition (of sacrificial performance). Repetition the would undoubtedly commit, if he were to sweep thrice the first time and thrice the second: for this reason he sweeps once (along each stick).
०६
विश्वास-प्रस्तुतिः
स स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अ᳘ग्ने व्वाजजिद्वा᳘जं त्वा ससृवा᳘ᳫँ᳘सं व्वाजजि᳘तᳫँ᳭ स᳘म्मार्ज्मी᳘ति सरिष्य᳘न्तमि᳘ति वा ऽअ᳘ग्र ऽआह सरिष्य᳘न्निव हि त᳘र्हि भ᳘वत्यथा᳘त्र ससृवा᳘ᳫं᳘समि᳘ति ससृ᳘वेव ह्यत्र भ᳘वति त᳘स्मादाह ससृवा᳘ᳫं᳘समिति᳘॥
मूलम् - श्रीधरादि
स स᳘म्मार्ष्टि॥
(र्ष्ट्य᳘) अ᳘ग्ने व्वाजजिद्वा᳘जं त्वा ससृवा᳘ᳫँ᳘सं व्वाजजि᳘तᳫँ᳭ स᳘म्मार्ज्मी᳘ति सरिष्य᳘न्तमि᳘ति वा ऽअ᳘ग्र ऽआह सरिष्य᳘न्निव हि त᳘र्हि भ᳘वत्यथा᳘त्र ससृवा᳘ᳫं᳘समि᳘ति ससृ᳘वेव ह्यत्र भ᳘वति त᳘स्मादाह ससृवा᳘ᳫं᳘समिति᳘॥
मूलम् - Weber
स स᳘म्मार्ष्टि॥
अ᳘ग्ने वाजजिद्वा᳘जं त्वा ससृवा᳘ᳫं᳘सं वाजजि᳘तᳫं स᳘म्मार्ज्मी᳘ति सरिष्य᳘न्तमि᳘ति वा अ᳘ग्र आह सरिष्य᳘न्निव हि तर्हि भ᳘वत्यथा᳘त्र ससृवा᳘ᳫं᳘समि᳘ति ससृॗवेव ह्य᳘त्र भवति त᳘स्मादाह ससृवा᳘ᳫं᳘समि᳘ति॥
मूलम् - विस्वरम्
स संमार्ष्टि- “अग्ने वाजजिद् वाजं त्वा ससृवांसं वाजजितं संमार्ज्मि”- (वा० सं० २ । १४) इति । सरिष्यन्तमिति वा अग्र आह- सरिष्यन् इव हि तर्हि भवति । अथात्र- ससृवांसम्- इति- ससृवेव ह्यत्र भवति । तस्मादाह ससृवांसमिति ॥ ६ ॥
सायणः
स सम्मार्ष्टि । ‘ससृवान्’ 4 ससृतवानिति प्राप्ते तकारलोपः ॥ ६ ॥
Eggeling
- He sweeps (each time), with the formula (Vāj. S. II, 14 b), ‘O Agni, food-gainer, I cleanse thee, the food-gainer, who hast hastened to the food!’ On the former occasion he said, ’thee who art about to hasten (to the food),’ for on that occasion he was indeed about to hasten thither; now, however, he says, who hast hastened (to the food),’ for now he has indeed hastened thither: for this reason he says ’thee who hast hastened.’
०७
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थानुयाजा᳘न्यजति॥
या वा᳘ ऽएते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य ऽएष᳘ यज्ञ᳘स्ताय᳘ते स᳘र्व्वा वै तत्ता᳘ ऽइष्टा᳘ भवन्ति तद्यत्ता᳘सु स᳘र्व्वास्विष्टास्व᳘थैत᳘त्प᳘श्चेवानुय᳘जति त᳘स्मादनुयाजा ना᳘म᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थानुयाजा᳘न्यजति॥
या वा᳘ ऽएते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य ऽएष᳘ यज्ञ᳘स्ताय᳘ते स᳘र्व्वा वै तत्ता᳘ ऽइष्टा᳘ भवन्ति तद्यत्ता᳘सु स᳘र्व्वास्विष्टास्व᳘थैत᳘त्प᳘श्चेवानुय᳘जति त᳘स्मादनुयाजा ना᳘म᳘॥
मूलम् - Weber
अ᳘थानुयाजा᳘न्यजति॥
या वा᳘ एते᳘न यज्ञे᳘न देव᳘ता ह्व᳘यति या᳘भ्य एष᳘ यज्ञ᳘स्ताय᳘ते स᳘र्वा वै तत्ता᳘ इष्टा᳘ भवन्ति तद्यत्ता᳘सु स᳘र्वास्विष्टास्व᳘थैत᳘त्पॗश्चेवानुय᳘जति त᳘स्मादनुयाजा ना᳘म॥
मूलम् - विस्वरम्
अथानुयाजान् यजति । या वा एतेन यज्ञेन देवता ह्वयति- याभ्य एष यज्ञस्तायते, सर्वा वै तत्ता इष्टा भवन्ति । तद् यत्तासु सर्वासु इष्टासु अथैतत् पश्चेवानुयजति, तस्मादनुयाजा नाम ॥ ७ ॥
सायणः
अथानुयाजान् । ‘अत्रानुयाजविधिरुपक्रान्तः, 4, तस्मात् “अनुयाजान् यजति”- इत्युपसंहरिष्यते । ‘या वा एतेन’- इति निर्वचनम् ॥ ७ ॥
Eggeling
- He now makes the after-offerings. Whatever gods he invokes by means of this sacrifice, and for whichever of them this sacrifice is performed, to all offering has now been made; and to all those to whom offering has been made, he now, after that, offers once more: hence the name ‘after-offerings.’
०८
विश्वास-प्रस्तुतिः
(मा᳘) अ᳘थ य᳘दनुयाजान्य᳘जति॥
च्छ᳘न्दाᳫंसि वा᳘ ऽअनुयाजाः᳘ पश᳘वो वै᳘ देवा᳘नां छ᳘न्दाᳫंसि तद्य᳘थेदं᳘ पश᳘वो युक्ता᳘ मनु᳘ष्येभ्यो व्व᳘हन्त्येवं च्छ᳘न्दाᳫंसि युक्ता᳘नि देवे᳘भ्यो यज्ञं᳘ व्वहन्ति तद्य᳘त्र च्छ᳘न्दाᳫंसि देवा᳘न्त्सम᳘तर्पयन्न᳘थ च्छ᳘न्दाᳫंसि देवाः स᳘मतर्पयंस्तद᳘तस्तत्प्रा᳘गभूद्यच्छ᳘न्दाᳫंसि युक्ता᳘नि देवे᳘भ्यो यज्ञम᳘वाक्षुर्य᳘देनान्त्सम᳘तीतृपन्॥
मूलम् - श्रीधरादि
(मा᳘) अ᳘थ य᳘दनुयाजान्य᳘जति॥
च्छ᳘न्दाᳫंसि वा᳘ ऽअनुयाजाः᳘ पश᳘वो वै᳘ देवा᳘नां छ᳘न्दाᳫंसि तद्य᳘थेदं᳘ पश᳘वो युक्ता᳘ मनु᳘ष्येभ्यो व्व᳘हन्त्येवं च्छ᳘न्दाᳫंसि युक्ता᳘नि देवे᳘भ्यो यज्ञं᳘ व्वहन्ति तद्य᳘त्र च्छ᳘न्दाᳫंसि देवा᳘न्त्सम᳘तर्पयन्न᳘थ च्छ᳘न्दाᳫंसि देवाः स᳘मतर्पयंस्तद᳘तस्तत्प्रा᳘गभूद्यच्छ᳘न्दाᳫंसि युक्ता᳘नि देवे᳘भ्यो यज्ञम᳘वाक्षुर्य᳘देनान्त्सम᳘तीतृपन्॥
मूलम् - Weber
अ᳘थ य᳘दनुयाजान्य᳘जति॥
छ᳘न्दांसि वा᳘ अनुयाजाः᳘ पश᳘वो वै᳘ देवा᳘नां छ᳘न्दांसि तद्य᳘थेदं᳘ पश᳘वो युक्ता᳘ मनुॗष्येभ्यो व᳘हन्त्येवं छ᳘न्दांसि युक्ता᳘नि देवे᳘भ्यो यज्ञं᳘ वहन्ति तद्य᳘त्र छ᳘न्दांसि देवा᳘न्त्सम᳘तर्पयन्न᳘थ छ᳘न्दांसि देवाः स᳘मतर्पयंस्तद᳘तस्तत्प्रा᳘गभूद्यच्छ᳘न्दांसि युक्ता᳘नि देवे᳘भ्यो यज्ञम᳘वाक्षुर्य᳘देनान्त्सम᳘तीतृपन्॥
मूलम् - विस्वरम्
अथ यदनुयाजान् यजाति,- छन्दांसि वा अनुयाजाः, पशवो वै देवानां छन्दांसि । तद् यथेदं पशवो युक्ता मनुष्येभ्यो वहन्ति- एवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहति । तद् यत्र छन्दांसि देवान् समतर्पयन्, अथ छन्दांसि देवाः समतर्पयन् । ततस्तत् प्रागभृत-यच्छन्दांसि युक्तानि देवेभ्यो यज्ञमवाक्षुः- यदेनान् समतीतृपन् ॥ ८ ॥
सायणः
अथ यदनुयाजान् इति अर्थवादसम्बन्धार्थः पुनरुपन्यासः । छन्दाँसीति । यदा छन्दोभिर्देवास्तर्पिताः, अथोत्तरकालं देवैश्छन्दांसि, तर्पितानीतीतिहासः । तमधियज्ञं योजयति- ‘तद्’ ‘अतः’ अनुयाजेभ्यः ‘प्राग्’ वृत्तमधियज्ञम् । किं तत् ? यच्छन्दोभिर्देवास्तर्पितास्तस्यैतद्यज्ञे रूपं दर्शितम् । प्रयाजादौ स्विष्टकृदन्त इत्यर्थः ॥ ८ ॥
Eggeling
- Now this is why he makes the after-offerings. The after-offerings assuredly are the metres 6, and the metres are the cattle of the gods: hence as cattle, when harnessed, here convey (burdens) for men, so in like manner the metres, being harnessed,
convey the sacrifice to the gods. Now the occasion on which the metres gratified the gods, and for which the gods, in their turn, then gratified the metres, was when before this the metres, on being harnessed, conveyed the sacrifice to the gods and thereby gratified them.
०९
विश्वास-प्रस्तुतिः
(न्न᳘) अ᳘थ य᳘दनुयाजान्य᳘जति॥
च्छ᳘न्दाᳫंसि वा᳘ ऽअनुयाजाश्छ᳘न्दाᳫंस्ये᳘वैतत्स᳘न्तर्प्पयति त᳘स्मादनुयाजा᳘न्यजति त᳘स्माद्ये᳘न व्वा᳘हनेन धाव᳘येत्त᳘द्विमु᳘च्य ब्रू᳘यात्पा᳘ययतैनत्सु᳘हितं कुरुते᳘त्येष᳘ ऽउ व्वा᳘हनस्यापह्नवः॥
मूलम् - श्रीधरादि
(न्न᳘) अ᳘थ य᳘दनुयाजान्य᳘जति॥
च्छ᳘न्दाᳫंसि वा᳘ ऽअनुयाजाश्छ᳘न्दाᳫंस्ये᳘वैतत्स᳘न्तर्प्पयति त᳘स्मादनुयाजा᳘न्यजति त᳘स्माद्ये᳘न व्वा᳘हनेन धाव᳘येत्त᳘द्विमु᳘च्य ब्रू᳘यात्पा᳘ययतैनत्सु᳘हितं कुरुते᳘त्येष᳘ ऽउ व्वा᳘हनस्यापह्नवः॥
मूलम् - Weber
अ᳘थ य᳘दनुयाजान्य᳘जति॥
छ᳘न्दांसि वा᳘ अनुयाजाश्छ᳘न्दांस्येॗवैतत्सं᳘तर्पयति त᳘स्मादनुयाजा᳘न्यजति त᳘स्माद्ये᳘न वा᳘हनेन धाव᳘येत्त᳘द्विमु᳘च्य ब्रूया᳘त्पा᳘ययतैनत्सु᳘हितं कुरुते᳘त्येष᳘ उ वा᳘हनस्यापह्नवः॥
मूलम् - विस्वरम्
अथ यदनुयाजान् यजति- छन्दांसि वा अनुयाजाः, छन्दांस्येवैतत् संतर्पयति- तस्मादनुयाजान् यजति । तस्माद् येन वाहनेन धावयेत्- तद्विमुच्य ब्रूयात्- ‘पाययतैनत्, सुहितं कुरुत’ इति । एष उ वाहनस्यापह्नवः ॥ ९ ॥
सायणः
यस्तु द्वितीयो वृत्तान्तो देवैश्छन्दसां तर्पणम्, स यज्ञे दर्शनीयः; तदर्थमनुयाजा इज्यन्त इति दर्शयन्नाह- अथ यदनुयाजान् यजतीति ॥ ९ ॥
Eggeling
- And this again is why he makes the after-offerings. The after-offerings are the metres: hence he thereby gratifies the metres, and for this reason also he makes the after-offerings. By whatever team, therefore, he has himself drawn, that (team) he would thereby unyoke, saying, ‘Give it to drink, feed it well!’ and thus his team is propitiated.
१०
विश्वास-प्रस्तुतिः
स वै ख᳘लु बर्हिः᳘ प्रथमं᳘ यजति॥
तद्वै क᳘निष्ठं छ᳘न्दः स᳘द्गायत्री᳘ प्रथमा छ᳘न्दसां युज्यते त᳘दु त᳘द्वी᳘र्येणैव य᳘च्छ्येनो᳘ भूत्वा᳘ दिवः सो᳘ममा᳘हरत्तद्य᳘थायथं मन्यन्ते यत्क᳘निष्ठं छ᳘न्दः स᳘द्गायत्री᳘ प्रथमा छ᳘न्दसां यु᳘ज्यते ऽथा᳘त्र यथायथं᳘ देवाश्छ᳘न्दाᳫंस्यकल्पयन्ननुयाजे᳘षु ने᳘त्पापवस्यसम᳘सदि᳘ति॥
मूलम् - श्रीधरादि
स वै ख᳘लु बर्हिः᳘ प्रथमं᳘ यजति॥
तद्वै क᳘निष्ठं छ᳘न्दः स᳘द्गायत्री᳘ प्रथमा छ᳘न्दसां युज्यते त᳘दु त᳘द्वी᳘र्येणैव य᳘च्छ्येनो᳘ भूत्वा᳘ दिवः सो᳘ममा᳘हरत्तद्य᳘थायथं मन्यन्ते यत्क᳘निष्ठं छ᳘न्दः स᳘द्गायत्री᳘ प्रथमा छ᳘न्दसां यु᳘ज्यते ऽथा᳘त्र यथायथं᳘ देवाश्छ᳘न्दाᳫंस्यकल्पयन्ननुयाजे᳘षु ने᳘त्पापवस्यसम᳘सदि᳘ति॥
मूलम् - Weber
स वै ख᳘लु बर्हिः᳘ प्रथमं᳘ यजति॥
तद्वै क᳘निष्ठं छ᳘न्दः स᳘द्गायत्री᳘ प्रथमा छ᳘न्दसां यु᳘ज्यते त᳘दु त᳘द्वीॗर्येणैव य᳘छ्येनो᳘ भूत्वा दिवः सो᳘ममा᳘हरत्तद᳘यथायथम् मन्यन्ते यत्क᳘निष्ठं छ᳘न्दः स᳘द्गायत्री᳘ प्रथमा छ᳘न्दसां यु᳘ज्यते ऽथा᳘त्र यथायथं᳘ देवाश्छ᳘न्दांस्यकल्पयन्ननुयाजे᳘षु ने᳘त्पापवस्यसम᳘सदि᳘ति॥
मूलम् - विस्वरम्
स वै खलु बर्हिः प्रथमं यजति । तद् वै कनिष्ठं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते । तदु तद् वीर्येणैव- यत् श्येनो भूत्वा दिवः सोममाहरत् । तद् अयथायथं मन्यन्ते यत्कनिष्ठं छन्दः सद् गायत्री प्रथमा छन्दसां युज्यते । अथात्र यथायथं देवाश्छन्दांस्यकल्पयन्- अनुयाजेषु; नेत् पापवस्यसम् असद्- इति ॥ १० ॥
सायणः
स वै खलु । उत्तरस्यां कण्डिकायां बर्हिषो जगतीत्वं वक्ष्यते, अस्यां तु जगत्या अनुयाजेषु प्राथम्यकारणमाह- तद्वै इति । तत्र सामिधेनीषु ‘कनिष्ठम्’ अक्षरसङ्ख्यया ऽल्पतमं ‘छन्दः’ ‘गायत्री’ ‘प्रथमा छन्दसां’ यज्ञेषु ‘युज्यते’ । ‘तत्’ तेन ‘वीर्येण’ ‘यच्छ्येनो भूत्वा दिवः सोममाहरत्’ । यच्च ‘अयथायथं’ अयथास्थं स्थानविपर्यासं ‘मन्यन्ते’ विद्वांसः । ‘यद्’ जगत्यां परिमाणतो ज्येष्ठायामेव तिष्ठमानायामल्पाक्षरा ‘गायत्री प्रथमा युज्यते’, तद् ‘यथायथं’ कर्तुमिह ‘अनुयाजेषु’ ‘देवाः’ जगतीं प्रथमाम् ‘अकल्पयन्’ । सा च जगती बर्हिरित्यभिप्रायः । किमर्थम् ? ‘नेत् पापवस्यसमसत्’ ‘पापं’ ज्येष्ठापेक्षया कनिष्ठम्, तत् पापमेव 7, ‘वस्यसम्’ प्रशस्यतरम्, यत् ‘नेत्-असत्’; तदनुकाराच्च प्रजास्वपि यत्पापं वित्तबन्धुकर्मादिना तद् ‘वस्यसम्’ वसुतरं, प्रशस्यतरमितरस्मादपापान्मा भूदिति ॥ १० ॥
Eggeling
- In the first place he makes offering to the Barhis (sacrificial-grass covering). Though the smallest metre, the gāyatrī is yoked first of the metres 8; and this on account of its strength, since, having become a falcon, it carried off the Soma from heaven 9. They consider it unseemly, however, that the gāyatrī, being the smallest metre, should be yoked first of the metres; and the gods accordingly arranged the metres here, at the after-offerings, so as it ought to be, ’lest there should be a confusion.’
११
विश्वास-प्रस्तुतिः
स वै ख᳘लु बर्हिः᳘ प्रथमं᳘ यजति॥
(त्य) अयं वै᳘ लोको᳘ बर्हिरो᳘षधयो बर्हि᳘रस्मि᳘न्ने᳘वैत᳘ल्लोक ऽओ᳘षधीर्द्दधाति ता᳘ ऽइमा᳘ ऽअस्मिल्ँ᳘लोक ऽओ᳘षधयः प्र᳘तिष्ठितास्त᳘दिदᳫँ᳘स᳘र्व्वं ज᳘गदस्यां ते᳘नेयं ज᳘गती तज्ज᳘गतीं प्रथमा᳘मकुर्व्वन्॥
मूलम् - श्रीधरादि
स वै ख᳘लु बर्हिः᳘ प्रथमं᳘ यजति॥
(त्य) अयं वै᳘ लोको᳘ बर्हिरो᳘षधयो बर्हि᳘रस्मि᳘न्ने᳘वैत᳘ल्लोक ऽओ᳘षधीर्द्दधाति ता᳘ ऽइमा᳘ ऽअस्मिल्ँ᳘लोक ऽओ᳘षधयः प्र᳘तिष्ठितास्त᳘दिदᳫँ᳘स᳘र्व्वं ज᳘गदस्यां ते᳘नेयं ज᳘गती तज्ज᳘गतीं प्रथमा᳘मकुर्व्वन्॥
मूलम् - Weber
स वै ख᳘लु बर्हिः᳘ प्रथमं᳘ यजति॥
अयं वै᳘ लोको᳘ बर्हिरो᳘षधयो बर्हि᳘रस्मि᳘न्नेॗवैत᳘ल्लोक ओ᳘षधीर्दधाति ता᳘ इमा᳘ अस्मिं᳘लोक ओ᳘षधयः प्र᳘तिष्ठितास्त᳘दिदᳫं स᳘र्वं ज᳘गदस्यां ते᳘नेयं ज᳘गती तज्ज᳘गतीम् प्रथमा᳘मकुर्वन्॥
मूलम् - विस्वरम्
स वै खलु बर्हिः प्रथमं यजति । अयं वै लोको बर्हिः, ओषधयो बर्हिः; अस्मिन्नेवैतल्लोके ओषधीर्दधाति । ता इमा अस्मिन् लोके ओषधयः प्रतिष्ठिताः, तदिदं सर्वं जगदस्याम् । तेनेयं जगती । तज्जगतीं प्रथमामकुर्वन् ॥ ११ ॥
सायणः
यदि देवा यथायथमत्राकल्पयन् एवं तर्हि जगती प्रथमं यष्टव्या, किं बर्हिषा ? एतदाशङ्क्य बर्हिषो जगतीत्वं वक्तुं बर्हिःशब्दप्रयोगे च कारणं वक्तुं पुनराह- स वै खलु इति । ‘अयं वै लोको बर्हिः’ येयं बहिराख्या देवता ऽत्रेज्यते, एषा अयं लोकः । कथम् ? परिवृद्धो हि सः । एवमपि जगतीशब्देनैव युक्तम्, ‘अयं लोको बर्हिः’ यष्टुम्, किं बर्हिः-शब्देन ? अत आह- ओषधयो बर्हिरस्मिन्नेवैतल्लोक ओषधीर्दधातीति । ‘बर्हिः’- शब्देन जगत्यामपीज्यमानायामयं गुणो लभ्यत इत्यभिप्रायः । यद्ययं लोको बर्हिः, बर्हिश्च प्रथममिज्यते, ततः कथं यथायथं छन्दांसि कल्पितानि भवन्तीत्यत आह- तदिदमिति । अयमेव लोको जगत्सम्बन्धाद् ‘जगती’; ततश्चास्मिन् लोके बर्हिषीज्यमाने जगती छन्दसां प्रथममिष्टा भवतीत्ययथायथपरिहारः । तज्जगतीं प्रथमामिति । “यद्बर्हिः प्रथममयजन् देवाः, तज्जगतीं प्रथमामकुर्वन्नेवं यथायथमकुर्वन्”- इतीतिहासशेषस्य पूर्वेण सम्बन्धः । ‘तथो एवैष यद्बर्हिर्यजति, तज्जगतीं प्रथमां करोति । ततश्चापापवस्यसं यथायथं करोति’- इति चोपसंहार इतिहासस्य द्रष्टव्यः ॥ ११ ॥
Eggeling
- In the first place, then, he offers to the Barhis. The Barhis indeed is this world; the Barhis is the plants: hence he thereby bestows plants on this world, and these plants are firmly rooted in this world. Now this entire universe (jagat) is contained in this (metre), and therefore the latter is (called) jagatī: this is why they have placed the jagatī metre first.
१२
विश्वास-प्रस्तुतिः
(न्न᳘) अ᳘थ न᳘राश᳘ᳫँ᳭सं द्विती᳘यं यजति॥
(त्य) अन्त᳘रिक्षं व्वै न᳘राश᳘ᳫँ᳘सः प्रजा वै न᳘रस्ता᳘ इमा᳘ अन्त᳘रिक्षम᳘नु वावद्य᳘मानाः प्रजा᳘श्चरन्ति यद्वै व्व᳘दति श᳘ᳫँ᳘सती᳘ति वै त᳘दाहुस्त᳘स्मादन्त᳘रिक्षं न᳘राश᳘ᳫं᳘सो ऽन्त᳘रिक्षमु वै᳘ त्रिष्टुप्त᳘त्त्रिष्टु᳘भं द्विती᳘यामकुर्व्वन्॥
मूलम् - श्रीधरादि
(न्न᳘) अ᳘थ न᳘राश᳘ᳫँ᳭सं द्विती᳘यं यजति॥
(त्य) अन्त᳘रिक्षं व्वै न᳘राश᳘ᳫँ᳘सः प्रजा वै न᳘रस्ता᳘ इमा᳘ अन्त᳘रिक्षम᳘नु वावद्य᳘मानाः प्रजा᳘श्चरन्ति यद्वै व्व᳘दति श᳘ᳫँ᳘सती᳘ति वै त᳘दाहुस्त᳘स्मादन्त᳘रिक्षं न᳘राश᳘ᳫं᳘सो ऽन्त᳘रिक्षमु वै᳘ त्रिष्टुप्त᳘त्त्रिष्टु᳘भं द्विती᳘यामकुर्व्वन्॥
मूलम् - Weber
अ᳘थ न᳘राश᳘ᳫं᳘सं द्विती᳘यं यजति॥
अन्त᳘रिक्षं वै न᳘राश᳘ᳫं᳘सः प्रजा वै न᳘रस्ता᳘ इमा᳘ अन्त᳘रिक्षम᳘नु वावद्य᳘मानाः प्रजा᳘श्चरन्ति यद्वै व᳘दति श᳘ᳫं᳘सती᳘ति वै त᳘दाहुस्त᳘स्मादन्त᳘रिक्षं न᳘राश᳘ᳫं᳘सो ऽन्त᳘रिक्षमु वै᳘ त्रिष्टुप्त᳘त्त्रिष्टु᳘भं द्विती᳘यामकुर्वन्॥
मूलम् - विस्वरम्
अथ नराशंसं द्वितीयं यजति अन्तरिक्षं वै नराशंसः, प्रजा वै नरः- ता इमा अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यद्वै वदति- शसंतीति वै तदाहुः । तस्मादन्तरिक्षं नराशंसः । अन्तरिक्षमु त्रिष्टुप्- तत् त्रिष्टुभं द्वितीयामकुर्वन् ॥ १२ ॥
सायणः
अथ नराशंसम् । नरः प्रजाः शंसन्ति वदन्त्यस्मिन्निति ‘अन्तरिक्षं नराशंसः’ । ‘अन्तरिक्षमु वै त्रिष्टुप्’; मध्यमत्वादेकादशभागत्वाच्च । दश दिशः, आत्मनैकादश । रुद्रसम्बन्धाद्वा 10- इहापि तथैवेतिहासो ऽधियज्ञे उपसंहारार्थः । ‘यन्नराशंसमयजन्, तत् त्रिष्टुभं द्वितीयामकुर्वन्; ‘यन्नराशंसं यजति, तत् त्रिष्टुभं द्वितीयां करोति’- इति ॥ १२॥
Eggeling
- In the second place he offers to Narāśaṁsa.
Now, Narāśaṁsa is the air. Man (nara), namely, means (human) being; and these same beings move about in the air speaking aloud. And when he (man) speaks, they say ‘he chants (saṁs);’ and therefore Narāśaṁsa is the air 11. But the trishṭubh also is the air 12, and for this reason they have placed the trishṭubh second.
१३
विश्वास-प्रस्तुतिः
(न्न᳘) अ᳘थाग्नि᳘रुत्तमः॥
(मो᳘) गायत्री वा᳘ अग्निस्त᳘द्गायत्री᳘मुत्तमा᳘मकुर्व्वन्नेवं᳘ यथायथे᳘न कॢप्ते᳘न च्छ᳘न्दाᳫँ᳭सि प्र᳘त्यतिष्ठंस्त᳘स्मादिदम᳘पापवस्यसम्॥
मूलम् - श्रीधरादि
(न्न᳘) अ᳘थाग्नि᳘रुत्तमः॥
(मो᳘) गायत्री वा᳘ अग्निस्त᳘द्गायत्री᳘मुत्तमा᳘मकुर्व्वन्नेवं᳘ यथायथे᳘न कॢप्ते᳘न च्छ᳘न्दाᳫँ᳭सि प्र᳘त्यतिष्ठंस्त᳘स्मादिदम᳘पापवस्यसम्॥
मूलम् - Weber
अ᳘थाग्नि᳘रुत्तमः॥
गायत्री वा᳘ अग्निस्त᳘द्गायत्री᳘मुत्तमा᳘मकुर्वन्नेवं᳘ यथायथे᳘न कॢप्ते᳘न छ᳘न्दांसि प्र᳘त्यतिष्ठंस्त᳘स्मादिदम᳘पापवस्यसम्॥
मूलम् - विस्वरम्
अथाग्निरुत्तमः । गायत्री वा अग्निः, तद्गायत्रीमुत्तमामकुर्वन् । एवं यथायथेन क्लृप्तेन छन्दांसि प्रत्यतिष्ठन्, तस्मादिदमपापवस्यसम् ॥ १३ ॥
सायणः
अथाग्निरुत्तमः । अत्र यष्टव्य इति शेषः । ‘गायत्री वा अग्निः’ आग्नेयी 10 हि ॥ १३ ॥
Eggeling
- Then Agni is the last (to whom offering is made). Agni assuredly is the gāyatrī; and therefore they placed the gāyatrī last. In this way they established the metres in complete and proper order; and hence no confusion here takes place.
१४
विश्वास-प्रस्तुतिः
देवा᳘न्यजे᳘त्ये᳘वाध्वर्युरा᳘ह॥
देव᳘न्देवमि᳘ति स᳘र्व्वेषु हो᳘ता देवा᳘नां वै᳘ देवाः᳘ सन्ति च्छ᳘न्दाᳫंस्येव᳘ पश᳘वो᳘ ह्येषां गृहा हि᳘ पश᳘वः प्रति᳘ष्ठो हि᳘ गृहाश्छ᳘न्दाᳫंसि वा᳘ ऽअनुयाजास्त᳘स्माद्देवा᳘न्यजे᳘त्ये᳘वाध्वर्युरा᳘ह देव᳘न्देवमि᳘ति स᳘र्व्वेषु हो᳘ता॥
मूलम् - श्रीधरादि
देवा᳘न्यजे᳘त्ये᳘वाध्वर्युरा᳘ह॥
देव᳘न्देवमि᳘ति स᳘र्व्वेषु हो᳘ता देवा᳘नां वै᳘ देवाः᳘ सन्ति च्छ᳘न्दाᳫंस्येव᳘ पश᳘वो᳘ ह्येषां गृहा हि᳘ पश᳘वः प्रति᳘ष्ठो हि᳘ गृहाश्छ᳘न्दाᳫंसि वा᳘ ऽअनुयाजास्त᳘स्माद्देवा᳘न्यजे᳘त्ये᳘वाध्वर्युरा᳘ह देव᳘न्देवमि᳘ति स᳘र्व्वेषु हो᳘ता॥
मूलम् - Weber
देवा᳘न्यजे᳘त्येॗवाध्वर्युरा᳘ह॥
देवं᳘-देवमि᳘ति स᳘र्वेषु हो᳘ता देवा᳘नां वै᳘ देवाः᳘ सन्ति छ᳘न्दांस्येव᳘ पश᳘वोॗ ह्येषां गृहा हि पश᳘वः प्रतिॗष्ठो हि᳘ गृहाश्छ᳘न्दांसि वा᳘ अनुयाजास्त᳘स्माद्देवा᳘न्यजे᳘त्येॗवाध्वर्युरा᳘ह देवं᳘-देवमि᳘ति स᳘र्वेषु हो᳘ता॥
मूलम् - विस्वरम्
‘देवान् यज’ इत्येवाध्वर्युराह, देवं देवमिति सर्वेषु होता । देवानां वै देवाः सन्ति छन्दांस्येव- पशवो ह्येषाम् । गृहा हि पशवः, प्रतिष्ठो हि गृहाः; छन्दांसि वा अनुयाजाः । तस्माद्- देवान् यजेत्येवाध्वर्युराह, देवं देवमिति सर्वेषु होता ॥ १४ ॥
सायणः
देवान् यजेत्येव । बर्हिरादिषु यष्टव्येषु बर्हिर्यजेत्यादिरूपेन्द्रयाज्यावचने 10 चेदमुच्यते । ‘देवान्’- इति बहुवचनान्तेन देवशब्देनाध्वर्युः प्रेष्यति; न बर्हिर्यजेत्यादिना । होतापि सर्वत्र ‘देवदेवमिति’ आह, न बहिराद्येव केवलमित्यर्थः 13 ।
ननु चोत्तरयोर्देवो देव इत्याह, न देवं देवमिति 14 ? सत्यमेवम् । यथा प्राप्ते त्वनुवदितव्ये देवशब्दाद्वीसाद्विर्वचनमेतत् (पा. सू. ३ । ३ । ११३ प्रातिपदिकनिर्द्देशमात्रपरं द्रष्टव्यम् । किं पुनः कारणं बर्हिरादिषु वक्तव्येषु देवान् आह ? यस्माच्छन्दोदेवत्या अनुयाजाः, ‘छन्दांसि’ च ‘देवानां देवाः’, परोक्षत्वाच्च देवशब्दः प्रशस्ततरः । अतः छन्दो वा गायत्र्यादिर्वा, तस्माद् देवान् यजेत्येवाध्वर्युराह- इत्येतमर्थं ‘देवानां वै देवाः सन्ति’- इत्यादिना दर्शयति । ‘पशवो हि’ इति देवत्वोपपत्तिः । पशूनाञ्च साक्षाद्देवत्वमसिद्धमिति ‘गृहा हि पशवः’ इत्याह । गृहभोगाः पशुमत 15 एवेति ‘गृहाः’ पशवः । गृहाणामप्यसिद्धं देवत्वमिति ‘प्रतिष्ठो हि गृहाः’- इत्याह । प्रतितिष्ठन्त्यस्यामिति ‘प्रतिष्ठा’ शरणम्, गतिरित्यर्थः । यश्च यस्य शरणं गतिरत्यन्तोपकारी, स तस्य देव इति प्रसिद्धम् । ** “तस्माद् देवान् यजेत्याह"** इत्युपसंहारः ॥ १४ ॥
Eggeling
- The Adhvaryu 16 says (to the Hotr̥), ‘Pronounce the offering-prayer (yājyā) to the gods!’ and the Hotr̥ (begins his prayer) at all (the three offerings) with ‘The divine . . . .’ For the metres assuredly are the gods of the gods, since they are their cattle, and cattle means a home, and a home is a safe resting-place. The after-offerings, doubtless, are the metres: therefore the Adhvaryu says, ‘Pronounce the offering-prayer to the gods!’ and at all of them the Hotr̥ begins with ‘The divine . . . 17.’
१५
विश्वास-प्रस्तुतिः
व्वसुव᳘ने व्वसुधे᳘यस्ये᳘ति॥
देव᳘ताया ऽएव᳘ व्वषट्क्रिय᳘ते देव᳘तायै हूयते न वा ऽअ᳘त्र देव᳘तास्त्यनुयाजे᳘षु देव᳘म्बर्हिरि᳘ति त᳘त्र᳘ नाग्निर्न्ने᳘न्द्रो न सो᳘मो देवो न᳘राश᳘ᳫँ᳘स ऽइ᳘ति ना᳘त ऽए᳘कञ्चन यो वा ऽअ᳘त्राग्नि᳘र्गायत्री सा᳘ निदा᳘नेन॥
मूलम् - श्रीधरादि
व्वसुव᳘ने व्वसुधे᳘यस्ये᳘ति॥
देव᳘ताया ऽएव᳘ व्वषट्क्रिय᳘ते देव᳘तायै हूयते न वा ऽअ᳘त्र देव᳘तास्त्यनुयाजे᳘षु देव᳘म्बर्हिरि᳘ति त᳘त्र᳘ नाग्निर्न्ने᳘न्द्रो न सो᳘मो देवो न᳘राश᳘ᳫँ᳘स ऽइ᳘ति ना᳘त ऽए᳘कञ्चन यो वा ऽअ᳘त्राग्नि᳘र्गायत्री सा᳘ निदा᳘नेन॥
मूलम् - Weber
वसुव᳘ने वसुधे᳘यस्ये᳘ति॥
देव᳘ताया एव᳘ वषट्क्रिय᳘ते देव᳘तायै हूयते न वा अ᳘त्र देव᳘तास्त्यनुयाजे᳘षु देव᳘म् बर्हिरि᳘ति त᳘त्र नाग्निर्ने᳘न्द्रो न सो᳘मो देवो न᳘राश᳘ᳫं᳘स इ᳘ति ऋ᳘त ए᳘कं चन यो वा अ᳘त्राग्नि᳘र्गायत्री स᳘ निदा᳘नेन॥
मूलम् - विस्वरम्
“वसुवने वसुधेयस्येति”- देवताया एव वषट् क्रियते, देवतायै हूयते । न वा अत्र देवता ऽस्ति- अनुयाजेषु- “देवं बर्हिः”- इति । तत्र नाग्निः नेन्द्रः, न सोमो देवो “नराशंसः”- इति । नात एकंचन । यो वा अत्राग्निः- गायत्री स निदानेन ॥ १५ ॥
सायणः
वसुवने वसुधेयस्येति । अनुयाजेषु सर्वेषु होता हेति सम्बन्धः । देवताया एवेति । कण्डिकाद्वयेनास्य पदद्वयस्यान्तरार्थव्याख्यानम् 18 । तस्योपक्रमः- सर्वत्रैव यागे ‘देवतायै एव’ होत्रा ‘वषट् क्रियते’ । ‘देवतायै’ एवाध्वर्युणा ‘हूयते’ एतदुचितम् । ‘अत्र’ तु ‘अनुयाजेषु’ प्रसिद्धा ‘देवता’ ‘न अस्ति;’ बर्हिर्नराशंसयोर्देवतात्वेनाप्रसिद्धेः, अग्नेश्च गायत्रीप्रधानत्वात् । तेन ‘वसुवने’ ‘वसुधेयस्य’- इति शब्दाभ्यामग्निमिन्द्रञ्चोपादाय, ताभ्यां बर्हिरादीनुपलक्ष्य इन्द्राग्न्यात्मकेभ्यो बर्हिरादिभ्यो वषट् करोति होता, अध्वर्युश्च तदात्माकेभ्य एव जुहोतीत्युपसंहारः ॥ १५ ॥
Eggeling
- [‘The divine Barhis (or Narāśaṁsa) may accept (the offering)] for abundant obtainment of abundant gift! [Vaushaṭ!]’ For a deity only the vashaṭ-call is pronounced, to a deity only offering is made; but here at the after-offerings there is no (proper) deity 19. When he says ‘The divine Barhis,’ in this there is neither Agni, nor Indra, nor Soma; when he says ‘The divine Narāśaṁsa,’ neither is there in this anything whatever (of the nature of a god); and what Agni there is (in the third offering-prayer), he indeed is virtually the gāyatrī.
१६
विश्वास-प्रस्तुतिः
(ना᳘) अ᳘थ य᳘द्वसुव᳘ने व्वसुधे᳘यस्ये᳘ति य᳘जति॥
(त्य) अग्निर्वै᳘ व्वसुव᳘निरि᳘न्द्रो व्वसुधेयो᳘ ऽस्ति वै छ᳘न्दसां देव᳘तेन्द्राग्नी᳘ ऽए᳘वैव᳘मु हैत᳘द्देव᳘ताया ऽएव᳘ व्वषट्क्रिय᳘ते देव᳘तायै हूयते᳘॥
मूलम् - श्रीधरादि
(ना᳘) अ᳘थ य᳘द्वसुव᳘ने व्वसुधे᳘यस्ये᳘ति य᳘जति॥
(त्य) अग्निर्वै᳘ व्वसुव᳘निरि᳘न्द्रो व्वसुधेयो᳘ ऽस्ति वै छ᳘न्दसां देव᳘तेन्द्राग्नी᳘ ऽए᳘वैव᳘मु हैत᳘द्देव᳘ताया ऽएव᳘ व्वषट्क्रिय᳘ते देव᳘तायै हूयते᳘॥
मूलम् - Weber
अ᳘थ य᳘द्वसुव᳘ने वसुधे᳘यस्ये᳘ति य᳘जति॥
अग्निर्वै᳘ वसुव᳘निरि᳘न्द्रो वसुधेयो᳘ ऽस्ति वै छ᳘न्दसां देव᳘तेन्द्राग्नी᳘ एॗवैव᳘मु हैत᳘द्देव᳘ताया एव᳘ वषट्क्रिय᳘ते देव᳘तायै हूयते॥
मूलम् - विस्वरम्
अथ यद् ‘वसुवने’ ‘वसुधेयस्य’ इति यजति । अग्निर्वै वसुवनिः, इन्द्रो वसुधेयः । अस्ति वै छन्दसां देवता- इन्द्राग्नी एव । एवमु हैतद् देवताया एव वषट्क्रियते, देवतायै हूयते ॥ १६ ॥
सायणः
अथ यद् । अग्निर्वै वसुवनिः । वसु हविर्लक्षणं वनति भजति, इतरद्वा यजमानेभ्यो ददद्भजतीति ‘वसुवनिः’ । ‘इन्द्रो वसुधेयः’ । वसूनि हवींषि धीयन्ते ऽस्मिन्निति ‘वसुधेयः’, वसूनि वा दधाति ददातीति वा ‘वसुधेयः’ । “कृत्यल्युटो बहुलम्”- (पा. सू. ३. ३. ११३) इति कर्तर्यधिकरणे वा कृत्यः । ततः किम् ? देवतायै वषट् क्रियत इत्यभिप्रायः । ननु चात्र जगत्यादिभ्यश्छन्दोभ्यो बर्हिरादिशब्दकेभ्यो वषट् कर्तव्यमिन्द्राग्न्योः किमापतितम् ? नैष दोषः । इन्द्राग्निभ्यां प्रसिद्धदेवतारूपप्रतिपत्तये जगत्यादीन्येव लक्षयिष्यन्ते, यथा बर्हिरादिभिः । कथं पुनरिन्द्राग्निभ्यां जगत्यादीनि लक्ष्यन्ते ऽसम्बद्धाभ्यामित्यत आह- अस्ति वै छन्दसामिति । प्राणेनेन्द्रेणाधिष्ठितया वाचा छन्दांस्यभिव्यज्यन्त इति ‘इन्द्राग्नी एव देवता छन्दसाम्’ । ततश्चाधिष्ठात्र्या देवतया शक्यान्यात्मरूपापन्नानि जगत्यादीनि लक्षयितुम् । एवमपि ‘वसुवने’ इत्यामन्त्रितान्तम्, ‘वसुधेयस्य’- इति षष्ठ्यन्तम्; ते कथम्- ‘बर्हिर्वेतु’ 20- इति प्रथमान्तेन बर्हिरादिना सम्बद्ध्येते ? नैष दोषः । एव मु हैतदिति । ध्रुवं द्वे अप्येते विभक्ती व्यत्ययेन (पा. सू. ३ । १ । ८५) चतुर्थ्यर्थवृत्ते दर्शयति । तथापि च नैव सामानाधिकरण्येन सम्बन्धः । कथं तर्हि ? बर्हिर्वेतु वसुवनि- वसुधेयाभ्यां वौषडिति बर्हिरात्मिका जगती पिबत्वाज्यम्, 21- तस्यै एवेन्द्राग्निरूपायै वषडित्यर्थः । ननु चात्र याज्यायामुपपद्येताप्ययमर्थः, प्रैषे तु वषट्कार एव नास्ति- “देवं बर्हिः ०-० वसुवने वसुधेयस्य यज” (का. श्रौ. सू. १९ । ६ । १२) इति, तत्र कथमेकवाक्यता स्यात् ? नैष दोषः; तस्यापि हि यास्काचार्येण “वसुवननाय च वसुधानाय च” (निरु. ९. ४. १०)- इति तादर्थ्यचतुर्थ्या एकवाक्यता दर्शिता 22 । अथवा विनैव विभक्तिव्यत्ययादर्थो वक्तव्यः । हे भगवन् ! ‘वसुवने’ अग्ने ! छन्दसो देवतां त्वदात्मकं त्वदनुगृहीतमेतद् देवं बर्हिःशब्दकं छन्दः ‘वसुधेयस्य’ इन्द्रस्य स्त्वरूपमधिष्ठाय ‘वेतु’ इति । एवमपि चेन्द्राग्निसम्बन्धकीर्तनमात्रादेव देवतायै वषट् क्रियत इत्यभिप्रायः । एवं तावदन्तरो ऽर्थः । हे ‘वसुवने’ अग्ने ! वसुधेयस्य प्रशस्यस्याज्यभागस्य ‘वेतु’ ‘देवं बर्हिः’- इति बाह्यो ऽर्थः ॥ १६ ॥
Eggeling
- The reason, then, why he offers with the formula ‘for abundant obtainment of abundant gift 23,’
is that Agni is the obtainer of wealth, and Indra is the recipient of wealth; and Indra and Agni are indeed the (joint) divinity of the metres: and in this way it is for a deity that the vashaṭ is pronounced, and to a deity that the offering is made.
१७
विश्वास-प्रस्तुतिः
(ते᳘ ऽथो) अ᳘थोत्तम᳘मनुयाज᳘मिष्ट्वा᳘ समानी᳘य जुहोति॥
प्रयाजानुयाजा वा᳘ ऽएते तद्य᳘थै᳘वादः᳘ प्रयाजे᳘षु य᳘जमानाय द्विष᳘न्तं भ्रा᳘तृव्यं बलि᳘ᳫँ᳘ हार᳘यत्यत्त्र᳘ ऽआद्यं᳘ बलि᳘ᳫँ᳘हार᳘यत्येव᳘मे᳘वैत᳘दनुयाजे᳘षु बलि᳘ᳫँ᳘ हार᳘यति॥
मूलम् - श्रीधरादि
(ते᳘ ऽथो) अ᳘थोत्तम᳘मनुयाज᳘मिष्ट्वा᳘ समानी᳘य जुहोति॥
प्रयाजानुयाजा वा᳘ ऽएते तद्य᳘थै᳘वादः᳘ प्रयाजे᳘षु य᳘जमानाय द्विष᳘न्तं भ्रा᳘तृव्यं बलि᳘ᳫँ᳘ हार᳘यत्यत्त्र᳘ ऽआद्यं᳘ बलि᳘ᳫँ᳘हार᳘यत्येव᳘मे᳘वैत᳘दनुयाजे᳘षु बलि᳘ᳫँ᳘ हार᳘यति॥
मूलम् - Weber
अ᳘थोत्तम᳘मनुयाज᳘मिष्ट्वा᳘ समानी᳘य जुहोति॥
प्रयाजानुयाजा वा᳘ एते तद्य᳘थैॗवादः᳘ प्रयाजे᳘षु य᳘जमानाय द्विष᳘न्तम् भ्रा᳘तृव्यम् बलि᳘ᳫं᳘ हार᳘यत्यत्त्र᳘ आद्य᳘म् बलि᳘ᳫं᳘ हार᳘यत्येव᳘मेॗवैत᳘दनुयाजे᳘षु बलि᳘ᳫं᳘ हारयति॥
मूलम् - विस्वरम्
अथोत्तममनुयाजमिष्ट्वा समानीय जुहोति । प्रयाजानुयाजा वा एते, तद् यथैवादः प्रयाजेषु यजमानाय द्विषन्तं भ्रातृव्यं बलिं हारयति- अत्त्र ऽआद्यं बलिं हारयति- एवमेवैतदनुयाजेषु बलिं हारयति ॥ १७ ॥
सायणः
अथोत्तमम् । प्रयाजानुयाजा वा एत इति । प्राणादनपेतः ‘प्रयाजः’ अपानादनपेतः ‘अनुयाजः’ । इति “प्राणा वै प्रयाजा अपाना अनुयाजाः” (निरु. ८ । ३ । ७) इति प्राणापाननिवृत्तौ 20 समानयनेन भवितव्यमित्यभिप्रायः ॥ १७ ॥ ४ ॥ ( ८ । २ )
श्रीमतो ऽवन्तिनाथस्य विक्रमादित्यभूपतेः । धर्माध्यक्षो हरिवामी व्याख्यच्छातपथीं श्रुतिम् ॥ १ ॥
इत्याचार्यश्रीहरिस्वामिनः कृतौ शतपथब्राह्मणभाष्ये हविर्यज्ञेषु अष्टमाध्यायस्य द्वितीयं ब्राह्मणम् ॥ ( ८-२ ) ॥ इति षष्ठप्रपाठकः समाप्तः ॥ ६ ॥
Eggeling
- After he has made the last after-offering, he pours together (the butter which remains in the upabhr̥t with that which attaches to the juhū), and offers it (by pouring it from the juhū in a line from west to east into the fire). For doubtless these are the after-offerings to the fore-offerings: hence even as there, at the fore-offerings 24, he makes the spiteful enemy pay tribute to the sacrificer, and the one to be consumed pay tribute to the consumer; so now he makes him pay tribute at the after-offerings.
-
‘उल्मुकं प्रज्वलत्काष्ठम्’ इत्यमरः २ । ९ । ३० ॥ ↩︎
-
231:1 See I, 4, 1, 38. The Adhvaryu takes the fresh stick (samidh), asks the permission of the Brahman to step forward for the after-offerings; and orders the Āgnīdhra to put the stick on, and trim, the fire. Whilst the Brahman mutters his formula (Vāj. S. II, 12-13), ‘This thy sacrifice, O divine Savitr̥, they proclaimed to Br̥haspati, the Brahman,’ &c. (see I, 7, 4, 21), the Āgnīdhra executes the Adhvaryu’s orders. Kāty. III, 5, I; II, 2, 21. ↩︎
-
231:2 That is to say (as would appear), if the Hotr̥ follows a school which does not recognise this particular ceremony as belonging to the Hotr̥’s ritual. Thus the Āśval. Śr. makes no mention of it, and hence a Hotr̥ belonging to the Śākala or Bāshkala śākhās would not undertake the recitation of this consecratory formula. The Sāṅkhāy. Śr., on the other hand, does prescribe it (cf. Hillebrandt, Neu- and Volim. p. 135, note 4), and a Hotr̥ of the Kaushītaki-śākhā would accordingly claim it as his privilege or duty to consecrate the samidh. For a somewhat different view, cf. Weber, Ind. Stud. X, 155; V, 408. ↩︎
-
“सम्मार्ष्टि पूर्ववदपरिक्राम-सकृत्सकृत्ससृवाँसमिति” इति का. श्रौ. सू. ३ । १०४ । ↩︎ ↩︎ ↩︎
-
232:1 See I, 4, 4, 14. While, on the former occasion, the Āgnīdhra in sweeping moved round the fire, on the present occasion he remains standing on the north side of it. Katy. III, 5, 4. ↩︎
-
232:2 See I, 3, 2, 8, 9. ↩︎
-
‘पापमेव सद् वस्यः- प्रशस्यतरम्- यज्ञे नेदमसत्’- इति क्व. पा. । ↩︎
-
233:1 See, for instance, I, 3, 4, 6. ↩︎
-
233:2 For this myth, see I, 7, 1, 1. ↩︎
-
एकादश हि रुद्रा मध्यमस्थानाश्चेत्यभिहितं निरुक्तादौ, तत्सम्बन्धात्तच्छन्दसो ऽन्तीरक्षत्वमभिहितमित्याशयः । ↩︎ ↩︎ ↩︎
-
234:1 That is, because man (nara) speaks, chants, (śamsati) in it. ↩︎
-
234:2 Either because both are in the middle (viz. the trishṭubh of the three chief metres, and the air between heaven and earth), or because they consist of eleven parts (viz. the trishṭubh of eleven syllables, and the air having ten directions, Śat. Br. VI, 2, 2, 34; VIII, 4; 2, 13, with itself as the eleventh), or because they are both connected with Rudra. Comm. ↩︎
-
“अतिक्रम्याश्राव्याह देवान्यजेति, यज यजेत्युत्तरौ, देवान्देवानिति वा सर्वत्र नियमशब्दाद्विकृतिदर्शनाच्च" इति का. श्रौ. सू. ३ । ५ । ६-९ ॥ ↩︎
-
‘इह प्रथमो बर्हिर्यागः- तत्र देवं इति समाम्नातम् । द्वितीयो नराशंसयागः- तृतीयः स्विष्टकृद्यागः, तत्रोभयत्रैव- देवः- इत्याम्नातम् । ↩︎
-
पशुमन्त इति तु क्वाचित्को ऽपपाठ एवाभाति । ↩︎
-
234:3 As on previous occasions, the Adhvaryu first calls on the Āgnīdhra, ‘Bid (Agni) hear (o śrāvaya)!’ and the latter responds by ‘Yea, may (he) hear (astu śraushaṭ)!’ This is repeated before each of the two other after-offerings. See I, 5, 2, 16. ↩︎
-
234:4 The drift of the argument of this paragraph is not quite clear to me. The after-offerings have for their deities the metres, and hence the latter are apparently called the deities of the deities, that is, of the recipients of the offerings. The difference between the fore-offerings and after-offerings in regard to the offering-formula lies in this, that at the first fore-offering the Adhvaryu, in calling on the Hotr̥, names the particular object of the offering, viz. ‘Pronounce the offering-prayer to the samidhs!’ while for the remaining prayājas he merely calls ‘Pronounce the offering-prayer!’ and the Hotr̥ begins all his prayers (after the introductory āgur-formula) with the name of the respective recipient of the oblation. At the after-offering, on the other hand, the Adhvaryu calls each time, ‘Pronounce the offering-prayer to the gods’ (or, according to Kāty. III, 5, 8, optionally without ’to the gods,’ the second and third times), and the Hotr̥’s prayers begin with ‘The divine (Barhis, or Narāśaṁsa, or Agni Svishṭakr̥t) . . .: See I, 5, 3, 8 seq. ↩︎
-
विशेषव्याख्या, साधारणव्याख्या चेति व्याख्याद्वैविध्यमिहाभिप्रेतम् । तदिह विशेषव्याख्योपक्रान्ता ऽपरकण्डिकायां समापयिष्यते । ततस्तस्या एव भाष्यान्ते साधारणव्याख्या चाभिधास्यते ॥ ↩︎
-
235:1 Agni Svishṭakr̥t, the recipient of the third after-offering, is, as we saw, regarded as representing the gāyatrī metre. ↩︎
-
इत्येते मन्त्राः तै. ब्रा. ३ । ५ । ९ । १-३ । तै. सं. २ । ६ । ९ । ११ । इत्यत्र द्रष्टव्यः । ↩︎ ↩︎
-
मन्त्रस्थस्य ‘वेतु’ पदस्यार्थो ऽयम् । यास्कस्तु ‘वीतां’ इत्यस्य ‘पिबेतां कामयेतां वा’ इति द्विविधमर्थमुक्तवान् । निरु. ९ । ४ । १० ॥ ↩︎
-
‘यजेति सम्प्रैषः’ इति तत्र तच्छेषः । ↩︎
-
235:2 Vasuvane vasudheyasya.(vetu); perhaps better, as Sāyaṇa, on Taitt. S. II, 6, 9, takes it, ‘May he partake of the gift of wealth for the (sacrificer’s) obtainment of wealth.’ ‘For the wealth-desirer of wealth-gift’ = ‘for the desirer of wealth-possession,’ St. Petersb. Dict. Our author apparently takes it in the sense of ‘for the obtainer of wealth and for the receiver of wealth;’ and Mahīdhara (Vāj. S. XXII, 48; XXVIII, 12) interprets it ‘for the giving (or obtainment) of wealth and for the depositing of treasure (i.e. for burying a treasure in the sacrificer’s house!)’ Harisvāmin takes vasuvaue as vocative; but the accent is against his view. ↩︎
-
236:1 See I, 5, 3, 18. ↩︎