०१
विश्वास-प्रस्तुतिः
म᳘नवे ह वै᳘ प्रातः᳘॥
(र) अवने᳘ग्यमुदकमा᳘जह्रुर्य᳘थेदं᳘ पाणि᳘भ्यामवने᳘जनायाह᳘रन्त्येवं त᳘स्यावने᳘निजानस्य म᳘त्स्यः पाणी ऽआ᳘पेदे॥
मूलम् - श्रीधरादि
म᳘नवे ह वै᳘ प्रातः᳘॥
(र) अवने᳘ग्यमुदकमा᳘जह्रुर्य᳘थेदं᳘ पाणि᳘भ्यामवने᳘जनायाह᳘रन्त्येवं त᳘स्यावने᳘निजानस्य म᳘त्स्यः पाणी ऽआ᳘पेदे॥
मूलम् - Weber
म᳘नवे ह वै᳘ प्रातः᳟॥
अवने᳘ग्यमुदकमा᳘जह्रुर्य᳘थेद᳘म् पाणि᳘भ्यामवने᳘जनायाह᳘रन्त्येवं त᳘स्यावने᳘निजानस्य म᳘त्स्यः पाणी आ᳘पेदे॥
मूलम् - विस्वरम्
मनवे ह वै प्रातरवनेग्यमुदकमाजह्रुः,- यथेदं पाणिभ्यामवनेजनायाहरन्ति- एवम् | तस्यावनेनिजानस्य मत्स्यः पाणी आपेदे ॥ १ ॥
सायणः
मनवे ह वै । इडाब्राह्मणमेतत् । तत्रेडायां मानवीमिडां देवतां वक्तु “मानवी घृतपदी मैत्रावरुणी” इत्येतानि च निगदपदानि व्याख्यातुमितिहासः प्रवृत्तः । स चेतिहासः प्रसन्न एव, किश्चित्तु दर्शयामः’ ‘मनवे’ वैवस्वताय, तादर्थ्ये चतुर्थी, (पा. सू. २ । ३ । १३ । वा. १) अवनेज्यते हस्ताद्यनेनेत्यवनेग्यम् । करणे कृत्यः । (पा. सू. ३ । ४ । ७०) ‘आजह्रुः’ आनीतवन्तः, परिचारकाः । ‘यथा’ ‘इद’ अधुना ‘पाणिभ्याम्’ हस्तार्थं यदवनेजन तस्मै ‘आहरन्ति’ -तथा आजह्रुः । ‘तस्य’ मनोः प्रक्षालयतः ‘मत्स्यः’ ‘पाणी’ प्राप्तः । भाविनो ऽर्थस्य सिद्ध्यर्थं देवतैव मत्स्यरूपेणाजगाम ॥ १ ॥
Eggeling
- In the morning they brought to Manu 1 water for washing, just as now also they (are wont to) bring (water) for washing the hands. When he was washing himself, a fish came into his hands.
०२
विश्वास-प्रस्तुतिः
स᳘ हास्मै व्वा᳘चमुवाद॥
बिभृहि᳘ मा पारयिष्या᳘मि त्वे᳘ति क᳘स्मान्मा पा᳘रयिष्यसी᳘त्यौघ᳘ ऽइमाः स᳘र्व्वाः प्रजा᳘ निर्व्वोढा त᳘तस्त्वा पारयितास्मी᳘ति क᳘थं ते भृ᳘तिरि᳘ति॥
मूलम् - श्रीधरादि
स᳘ हास्मै व्वा᳘चमुवाद॥
बिभृहि᳘ मा पारयिष्या᳘मि त्वे᳘ति क᳘स्मान्मा पा᳘रयिष्यसी᳘त्यौघ᳘ ऽइमाः स᳘र्व्वाः प्रजा᳘ निर्व्वोढा त᳘तस्त्वा पारयितास्मी᳘ति क᳘थं ते भृ᳘तिरि᳘ति॥
मूलम् - Weber
स᳘ हास्मै वा᳘चमुवाद॥
बिभृहि᳘ मा पारयिष्या᳘मि त्वे᳘ति क᳘स्मान्मा पा᳘रयिष्यसी᳘त्यौघ᳘ इमाः स᳘र्वाः प्रजा᳘ निर्वोढा त᳘तस्त्वा पारयितास्मी᳘ति क᳘थं ते भृ᳘तिरि᳘ति॥
मूलम् - विस्वरम्
स हास्मै वाचमुवाद- “बिभृहि मा, पारयिष्यामि त्वा” इति । ‘कस्मान्मा पारयिष्यसि’ इति । ‘औघ इमाः सर्वाः प्रजा निर्वोढा; ततस्त्वा पारयितास्मि’ इति । कथं ते भृतिरिति ॥ २ ॥
सायणः
स हास्मै । ‘सः’ मत्स्यः ‘अस्मै’ मनवे ‘वाचम्’ उदितवान् कीदृशीम् ? ‘बिभृहि’ पुषाण (पुष्णीहि) ‘मा’ माम् । किमर्थम् ? ‘पारयिष्यामि’ 2- “पाल-रक्षणे”- (चु. प. ५५) रक्षिष्यामि ‘त्वा’ ‘इति’ । ‘कस्मात्’ ? इति भयहेतुप्रश्नः (पा. सू. १ । ४ । २५) । वहतीति ‘औघः’ उदकसङ्घातः, स इमा भारतवर्षनिवासिनीः ‘प्रजाः’ निःशेषं वोढ़ा- देशान्तर प्रापयिता; तस्माद्भयहेतोस्त्वा पालयितास्मि ‘इति’ मत्स्यवचः । ‘कथम्’ ? इति मनोः प्रश्नः- कथं तव ‘भृतिः’ भरणम्- पुष्टिः ‘इति’ ॥ २ ॥
Eggeling
- It spake to him the word, ‘Rear me, I will save thee!’ ‘Wherefrom wilt thou save me?’ ‘A flood will carry away all these creatures 3: from that I will save thee!’ ‘How am I to rear thee?’
०३
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
या᳘वद्वै᳘ क्षुल्लका भ᳘वामो बह्वी वै᳘ नस्ता᳘वन्नाष्ट्रा भवत्युत म᳘त्स्य ऽएव म᳘त्स्यं गिलति कुम्भ्यां मा᳘ग्रे बिभरासि स᳘ यदा ता᳘मतिव्व᳘र्द्धा ऽअ᳘थ कर्षूं᳘ खात्वा त᳘स्यां मा बिभरासि स᳘ यदा ता᳘मतिव्व᳘र्द्धा ऽअ᳘थ मा समुद्र᳘मभ्य᳘वहरासि त᳘र्हि वा᳘ ऽअतिनाष्ट्रो᳘ भवितास्मी᳘ति॥
मूलम् - श्रीधरादि
स᳘ होवाच॥
या᳘वद्वै᳘ क्षुल्लका भ᳘वामो बह्वी वै᳘ नस्ता᳘वन्नाष्ट्रा भवत्युत म᳘त्स्य ऽएव म᳘त्स्यं गिलति कुम्भ्यां मा᳘ग्रे बिभरासि स᳘ यदा ता᳘मतिव्व᳘र्द्धा ऽअ᳘थ कर्षूं᳘ खात्वा त᳘स्यां मा बिभरासि स᳘ यदा ता᳘मतिव्व᳘र्द्धा ऽअ᳘थ मा समुद्र᳘मभ्य᳘वहरासि त᳘र्हि वा᳘ ऽअतिनाष्ट्रो᳘ भवितास्मी᳘ति॥
मूलम् - Weber
स᳘ होवाच॥
या᳘वद्वै᳘ क्षुल्लका भ᳘वामो बह्वी वै᳘ नस्ता᳘वन्नाष्ट्रा᳘ भवत्युत म᳘त्स्य एव म᳘त्स्यं गिलति कुम्भ्याम् मा᳘ग्रे बिभरासि स᳘ यदा ता᳘मतिव᳘र्धा अ᳘थ कर्षूं᳘ खात्वा त᳘स्याम् मा बिभरासि स य᳘दा ता᳘मतिव᳘र्धा अ᳘थ मा समुद्र᳘मभ्य᳘वहरासि त᳘र्हि वा᳘ अतिनाष्ट्रो᳘ भवितास्मी᳘ति॥
मूलम् - विस्वरम्
स होवाच- “यावद् वै क्षुल्लका भवामः, -वह्नी वै नस्तावन्नाष्ट्रा भवति, -उत मत्स्य एव मत्स्यं गिलति, कुम्भ्यां माग्रे बिभरासि । स यदा तामतिवर्द्धै, अथ कर्षूं खात्वा तस्यां मा बिभरासि । स यदा तामतिवर्द्धै, अथ मा समुद्रमभ्यवहरासि । तर्हि वा अतिनाष्ट्रो भवितास्मि” इति ॥ ३ ॥
सायणः
स होवाच । ‘क्षुल्लकाः’ क्षुद्रकाः- अल्पकाः ‘नाष्ट्रा’ -इति । ‘गिलति’ “गॄ निगरणे” (तु. प. १२९) निगिरति । ‘बिभरासि’ अध्येषणायां (पा. सू. ३ । ३ । १६१) लिङर्थे लेट्, (पा. सू. ३ । ४ । ७) बिभृयाः- पुष्णीयाः । एवमेव ‘अभ्यवहरसि,’ ‘उपासासै’ ‘आपद्यासै’ इति व्याख्येयानि । ‘अतिवर्द्धै’ अतिरिच्य वर्द्धितास्मीति प्राप्ते “यदायद्योर्लिङ उपसंख्यानम्” (पा. सू. ३. ३. १४७. वा.) ततश्च ‘लिङर्थे लेट्’ (पा. सू. ३ । ४ । ७) इति यदायोगे लेट् । ‘कर्षूः’ (निघं. ३ । २३ । ६) खातिकाः । अतीतो नाष्ट्रान् नाशयितॄन्- इति ‘अतिनाष्ट्रः’ ॥ ३ ॥
Eggeling
- It said, ‘As long as we are small, there is great destruction for us: fish devours fish. Thou wilt first keep me in a jar. When I outgrow that, thou wilt dig a pit and keep me in it. When I outgrow that, thou wilt take me down to the sea, for then I shall be beyond destruction.’
०४
विश्वास-प्रस्तुतिः
श᳘श्वद्ध झष᳘ ऽआस॥
स हि ज्ये᳘ष्ठं व्व᳘र्धते᳘ ऽथेतिथीᳫं स᳘मां त᳘दौघ᳘ ऽआगन्ता त᳘न्मा ना᳘वमुपकल्प्यो᳘पासासै स᳘ ऽऔघ ऽउ᳘त्थिते ना᳘वमा᳘पद्यासै त᳘तस्त्वा पारयितास्मी᳘ति॥
मूलम् - श्रीधरादि
श᳘श्वद्ध झष᳘ ऽआस॥
स हि ज्ये᳘ष्ठं व्व᳘र्धते᳘ ऽथेतिथीᳫं स᳘मां त᳘दौघ᳘ ऽआगन्ता त᳘न्मा ना᳘वमुपकल्प्यो᳘पासासै स᳘ ऽऔघ ऽउ᳘त्थिते ना᳘वमा᳘पद्यासै त᳘तस्त्वा पारयितास्मी᳘ति॥
मूलम् - Weber
श᳘श्वद्ध कष᳘ आस॥
स हि ज्ये᳘ष्ठं व᳘र्धते᳘ ऽथेतिथीᳫं स᳘मां त᳘दौघ᳘ आगन्ता त᳘न्मा ना᳘वमुपकल्प्यो᳘पासासै स᳘ औघ उ᳘त्थिते ना᳘वमा᳘पद्यासै त᳘तस्त्वा पारयितास्मी᳘ति॥
मूलम् - विस्वरम्
शश्वद्ध झष आस, - स हि ज्येष्ठं वर्द्धते । “अथ इतिथीं समां तदौघ आगन्ता, -तन्मा नावमुपकल्प्योपासासै, स औघ उत्थिते नावमापद्यासै, ततस्त्वा पारयितास्मि” इति ॥ ४ ॥
सायणः
शश्वद्ध । शश्वच्छब्दो ऽत्र सामर्थ्यात् क्षिप्रवचनः । ‘झषः’ महामत्स्यः, क्षिप्रमेव महामत्स्यो ऽत्रावर्त्ततेत्यर्थः । अथ कस्मात्स शीघ्रमेव महामत्स्यः संवृत्तः ? ‘हि’ यस्मात् ‘सः’ ‘ज्येष्ठं’ बृहत्तमं ‘वर्द्धते’; सर्व एव हि जलचरा अतिशयेन वर्द्धन्ते, स तु मत्स्यत्वादनाष्ट्रत्वाच्च बृहत्तमं वर्द्धत इति श्रुतिवचनम् । ‘अथेतिथीम्’ इति मत्स्यवचनम्- अयमपि समुद्रमभ्यवहृते ‘इतिथीम्’ इत्यभिनयः, तेन सङ्ख्येयां समां दर्शितवान्; इयतीनां दशानां द्वादशानां वा पूरणी-इतिथी-इदम इशादेशश्छान्दसः; (पा. सू, ५ । ३ । ३ ।) टिच्चात् ङीप् (पा. सू. ४ । १ । १५ ।) इयत्यस्तिथयो यस्यां सा- इतिथीति केषुचित्कोषेषु, - तेष्वपि इयतिथीं यावतिथीं तावतिथीमिति प्राप्ते छान्दसो यशब्दवशब्दलोपः । समा संवत्सरः, ताम् ‘समाम्’ समायामित्यर्थः; ‘तत्’ स इति लिङ्गव्यत्ययः- स पूर्वोक्तः ‘औघः’ ‘आगन्ता,’ ‘तत्’ तदा ‘नावम्’ ‘उपकल्प्य’ माम् ‘उपासासै’ उपासीथाः । ‘औघे’ चोत्थिते तां ‘नावम्’ त्वम् ‘आपद्यासै आरोहेरित्यर्थः ॥ ४ ॥
Eggeling
- It soon became a jḥasha (a large fish); for that grows largest (of all fish) 4. Thereupon it said, ‘In such and such a year that flood will come. Thou
shalt then attend to me (i.e. to my advice) by preparing a ship 5; and when the flood has risen thou shalt enter into the ship, and I will save thee from it.’
०५
विश्वास-प्रस्तुतिः
त᳘मेवं᳘ भृत्वा᳘ समुद्र᳘मभ्य᳘वजहार॥
स᳘ यतिथीं तत्स᳘मां परिदिदे᳘श ततिथीᳫं स᳘मां ना᳘वमुपक᳘ल्प्योपासा᳘ञ्चक्रे स᳘ ऽऔघ उ᳘त्थिते ना᳘वमा᳘पेदे तᳫँ᳭स म᳘त्स्य ऽउपन्या᳘पुप्लुवे त᳘स्य शृ᳘ङ्गे नावः पा᳘शं प्र᳘तिमुमोच ते᳘नैतमु᳘त्तरं गिरिम᳘तिदुद्राव॥
मूलम् - श्रीधरादि
त᳘मेवं᳘ भृत्वा᳘ समुद्र᳘मभ्य᳘वजहार॥
स᳘ यतिथीं तत्स᳘मां परिदिदे᳘श ततिथीᳫं स᳘मां ना᳘वमुपक᳘ल्प्योपासा᳘ञ्चक्रे स᳘ ऽऔघ उ᳘त्थिते ना᳘वमा᳘पेदे तᳫँ᳭स म᳘त्स्य ऽउपन्या᳘पुप्लुवे त᳘स्य शृ᳘ङ्गे नावः पा᳘शं प्र᳘तिमुमोच ते᳘नैतमु᳘त्तरं गिरिम᳘तिदुद्राव॥
मूलम् - Weber
त᳘मेव᳘म् भृत्वा᳘ समुद्र᳘मभ्य᳘वजहार॥
स᳘ यतिथीं तत्स᳘माम् परिदिदे᳘ष ततिथीᳫं स᳘मां ना᳘वमुपक᳘ल्प्योपासां᳘ चक्रे स᳘ औघ उ᳘त्थिते ना᳘वमा᳘पेदे तᳫं स म᳘त्स्य उपन्या᳘पुप्लुवे त᳘स्य शृ᳘ङ्गे नावः पा᳘शम् प्र᳘तिमुमोच ते᳘नैतमु᳘त्तरं गिरिम᳘तिदुद्राव॥
मूलम् - विस्वरम्
तमेवं भृत्वा समुद्रमभ्यवजहार । स यतिथीं तत्समां परिदिदेश- ततिथीं समां नावमुपकल्प्योपासाञ्चक्रे । स औघ उत्थिते नावमापेदे । तं स मत्स्य उपन्यापुप्लुवे । तस्य शृङ्गे नावः पाशं प्रतिमुमोच । तेनैतमुत्तरं गिरिमतिदुद्राव ॥ ५ ॥
सायणः
तमेवं भृत्वा । यावतीनां पूरणीं ‘यतिथीं’ ‘परिदिदेश’ परिदिष्टवान्- आख्यातवान्, ‘ततिथीं’ तावतीनां पूरणीं ‘समाम्’ ‘नावमुपकल्प्य’ मत्स्यमुपासितवान् । ‘औघे’ च ‘उत्थिते’ ‘नावम्’ अधिरूढः ‘तं’ च मनुं ‘स मत्स्यः’ ‘उप’- समीपे नीचैः- एनमुपकर्ष्यमिति सम्बन्धः, ‘आपुप्लुवे’ आगतः । ‘तस्य’ मत्स्यस्य ‘शृंगे’ भवितव्यतयैव निष्पादिते ‘नावः पाशं’ प्रतिबद्धवान् । ‘तेन’ पाशेन सह मत्स्यः ‘एतम्’ ‘उत्तरं गिरिम्’ हिमवन्तमधिजगाम ॥ ५ ॥
Eggeling
- After he had reared it in this way, he took it down to the sea. And in the same year which the fish had indicated to him, he attended to (the advice of the fish) by preparing a ship; and when the flood had risen, he entered into the ship. The fish then swam up to him, and to its horn he tied the rope of the ship, and by that means he 6 passed swiftly up to yonder northern mountain.
०६
विश्वास-प्रस्तुतिः
स᳘ होवाच॥
(चा) अ᳘पीपरं वै᳘ त्वा व्वृक्षे ना᳘वं प्र᳘तिबध्नीष्व तं तु᳘ त्वा मा᳘ गिरौ स᳘न्तमुदक᳘मन्त᳘श्छैत्सीद्या᳘वदुदक᳘ᳫँ᳭समवा᳘यात्ता᳘वत्तावदन्व᳘वसर्पासी᳘ति स᳘ ह ता᳘वत्तावदे᳘वान्व᳘वससर्प्प तद᳘प्येतदु᳘त्तरस्य गिरेर्म᳘नोरवस᳘र्प्पणमि᳘त्यौघो᳘ ह ताः स᳘र्व्वाः प्रजा᳘ निरुवाहा᳘थेह म᳘नुरेवै᳘कः प᳘रिशिशिषे॥ [अर्धप्रपाठकः]
मूलम् - श्रीधरादि
स᳘ होवाच॥
(चा) अ᳘पीपरं वै᳘ त्वा व्वृक्षे ना᳘वं प्र᳘तिबध्नीष्व तं तु᳘ त्वा मा᳘ गिरौ स᳘न्तमुदक᳘मन्त᳘श्छैत्सीद्या᳘वदुदक᳘ᳫँ᳭समवा᳘यात्ता᳘वत्तावदन्व᳘वसर्पासी᳘ति स᳘ ह ता᳘वत्तावदे᳘वान्व᳘वससर्प्प तद᳘प्येतदु᳘त्तरस्य गिरेर्म᳘नोरवस᳘र्प्पणमि᳘त्यौघो᳘ ह ताः स᳘र्व्वाः प्रजा᳘ निरुवाहा᳘थेह म᳘नुरेवै᳘कः प᳘रिशिशिषे॥ [अर्धप्रपाठकः]
मूलम् - Weber
स᳘ होवाच॥
अ᳘पीपरं वै᳘ त्वा वृक्षे ना᳘वम् प्र᳘तिबघ्नीष्व तं तु᳘ त्वा मा᳘ गिरौ स᳘न्तमुदक᳘मन्त᳘श्छैत्सीद्या᳘वदुदक᳘ᳫं᳘ समवा᳘यात्तावत्ता᳘वदन्व᳘वसर्पासी᳘ति स᳘ ह ता᳘वत्तावदेॗवान्व᳘वससर्प तद᳘प्येतदु᳘त्तरस्य गिरेर्म᳘नोरवस᳘र्पणमि᳘त्यौघो᳘ ह ताः स᳘र्वाः प्रजा᳘ निरुवाहा᳘थेह म᳘नुरेवै᳘कः प᳘रिशिशिषे॥
मूलम् - विस्वरम्
स होवाच- “अपीपरं वै त्वा, वृक्षे नावं प्रतिबध्नीष्व, तं तु त्वा मा गिरौ सन्तमुदकमन्तश्छैत्सीद्, यावद् यावदुदकं समवायात् तावत् तावदन्ववसर्पासि” इति । स ह तावत् तावदेवान्ववससर्प । तदप्येतदुत्तरस्य गिरेर्मनोरवसर्पणमिति । औघो ह ताः सर्वाः प्रजाः निरुवाह; अथेह मनुरेवैकः- परिशिशिषे ॥ ६ ॥ .
सायणः
स होवाच । मत्स्यवचनम्- पालितवानस्मि त्वाम्; अधुना ऽत्र ‘वृक्षे’ ‘नावं प्रतिबध्नीष्व’; किञ्चापरम्- ‘गिरौ’ सन्तं ‘त्वा’ त्वाम् ‘उदकम्’ ‘अन्तश्छैत्सीद्’ तद्देशमध्यं भित्त्वा पृथगकार्षीद्, इदमस्माद्देशादित्यर्थः । कथं पुनस्तां नावं छिनत्ति ? ‘यावद् यावद्’ अध्वनः ‘उदकं समवायात्’ एकीभावाय, -अव-अधः, अयात्-गच्छेत्-अवतरेदित्यर्थः; ‘तावत्तावत्’ त्वमपि तदेवोदकम् ‘अनु’ ‘अवसर्पासि’ अवतरेः । ‘सः’ मनुः प्राप्ते काले ‘तावत् तावदेव’ अन्ववसृप्तः । येन च वर्त्मना मनुरवसृप्तः, ‘तद्’ अद्यत्वे ‘अपि’ ‘एतद्’ ‘उत्तरस्य गिरेः मनोरवसर्पणम्’ ‘इति’ आहुरिति शेषः । अवसृप्तो ऽनेनेत्यवसर्पणम् ॥ ६ ॥
Eggeling
- It then said, ‘I have saved thee. Fasten the ship to a tree; but let not the water cut thee off 7, whilst thou art on the mountain. As the water
subsides, thou mayest gradually descend!’ Accordingly he gradually descended, and hence that (slope) of the northern mountain is called ‘Alarm’s descent 8.’ The flood then swept away all these creatures, and Manu alone remained here.
०७
विश्वास-प्रस्तुतिः
सो᳘ ऽर्च्चञ्छ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
(स्त) तत्रा᳘पि पाकयज्ञे᳘नेजे स᳘ घृतं द᳘धि म᳘स्त्वामि᳘क्षामि᳘त्यप्सु᳘ जुहवा᳘ञ्चकार त᳘तः संव्वत्सरे᳘ योषित्स᳘म्बभूव सा᳘ ह पि᳘ब्दमानेवोदे᳘याय त᳘स्यै ह स्म घृतं᳘ पदे स᳘न्तिष्ठते त᳘या मित्राव᳘रुणौ स᳘ञ्जग्माते॥
मूलम् - श्रीधरादि
सो᳘ ऽर्च्चञ्छ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
(स्त) तत्रा᳘पि पाकयज्ञे᳘नेजे स᳘ घृतं द᳘धि म᳘स्त्वामि᳘क्षामि᳘त्यप्सु᳘ जुहवा᳘ञ्चकार त᳘तः संव्वत्सरे᳘ योषित्स᳘म्बभूव सा᳘ ह पि᳘ब्दमानेवोदे᳘याय त᳘स्यै ह स्म घृतं᳘ पदे स᳘न्तिष्ठते त᳘या मित्राव᳘रुणौ स᳘ञ्जग्माते॥
मूलम् - Weber
सो᳘र्चंछ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
तत्रा᳘पि पाकयज्ञे᳘नेजे स᳘ घृतं द᳘धि म᳘स्त्वामिक्षामि᳘त्यप्सु᳘ जुहवां᳘ चकार त᳘तः संवत्सरे᳘ योषित्स᳘म्बभूव सा᳘ ह पि᳘ब्दमानेवोदे᳘याय त᳘स्यै ह स्म घृत᳘म् पदे सं᳘तिष्ठते त᳘या मित्राव᳘रुणौ सं᳘जग्माते॥
मूलम् - विस्वरम्
सो ऽर्चन् श्राम्यंश्चचार प्रजाकामः । तत्रापि पाकयज्ञेनेजे । स घृतं दधि मस्तु आमिक्षाम्- इत्यप्सु जुहवाञ्चकार । ततः संवत्सरे योषित् सम्बभूव । सा ह पिब्दमानेवोदेयाय । तस्यै ह म घृतं पदे सन्तिष्ठते । तया मित्रावरुणौ सञ्जग्माते ॥ ७ ॥
सायणः
सो ऽर्च्चञ्छ्राम्यन् । तपस्तप्तवान् ‘प्रजाकामः’ । ‘तत्रापि’ ‘सः’ मनुः ‘पाकयज्ञेन’ अनेन ‘ईजे’ इष्टवान्- घृतादिभिः । ‘ततः’ तस्मात्पाकयज्ञादेव ‘संवत्सरे’ पूर्णे ‘योषित्’ मिश्रीभावात्मिका सम्भूता । ‘सा’ योषित् ‘पिब्दमाना’ पाकधर्मात्मिका “पिब-क्षरण” (धा. भ्वा. प. ५२८) आ-दकारप्रत्ययः, तत्त्वेन साक्षादात्मगामिफलत्वादात्मनेपदम् । पिबतेर्दकारप्रत्यययोगाद् बत्वम्; घृतप्रभवत्वाद् घृतं स्रवन्ती इव ‘उदेयाय’ उद्गता; उदकादुत्थिता । एवञ्च सुस्निग्धा पिब्दमाना येन ‘तस्यै’ तस्याः ‘पदे घृतं सन्तिष्ठते’ ‘स्म’ तया च ‘मित्रावरुणौ’ कथमपि संगतौ ॥ ७ ॥
Eggeling
- Being desirous of offspring, he engaged in worshipping and austerities. During this time he also performed a pāka-sacrifice: he offered up in the waters clarified butter, sour milk, whey, and curds. Thence a woman was produced in a year: becoming quite solid 9 she rose; clarified butter gathered in her footprint. Mitra and Varuṇa met her.
०८
विश्वास-प्रस्तुतिः
ता᳘ᳫं᳘ होचतुः᳘ कासी᳘ति॥
म᳘नोर्दुहिते᳘त्याव᳘योर्ब्रूष्वे᳘ति ने᳘ति होवाच य᳘ ऽएव माम᳘जीजनत त᳘स्यै᳘वाह᳘मस्मी᳘ति त᳘स्यामपि त्व᳘मीषाते त᳘द्वा जज्ञौ त᳘द्वा न᳘ जज्ञाव᳘ति᳘ त्वे᳘वेयाय सा म᳘नुमा᳘जगाम॥
मूलम् - श्रीधरादि
ता᳘ᳫं᳘ होचतुः᳘ कासी᳘ति॥
म᳘नोर्दुहिते᳘त्याव᳘योर्ब्रूष्वे᳘ति ने᳘ति होवाच य᳘ ऽएव माम᳘जीजनत त᳘स्यै᳘वाह᳘मस्मी᳘ति त᳘स्यामपि त्व᳘मीषाते त᳘द्वा जज्ञौ त᳘द्वा न᳘ जज्ञाव᳘ति᳘ त्वे᳘वेयाय सा म᳘नुमा᳘जगाम॥
मूलम् - Weber
ता᳘ᳫं᳘ होचतुः᳘ कासी᳘ति॥
म᳘नोर्दुहिते᳘त्याव᳘योर्ब्रूष्वे᳘ति ने᳘ति होवाच य᳘ एव माम᳘जीजनत त᳘स्यैॗवाह᳘मस्मी᳘ति त᳘स्यामपित्व᳘मीषाते त᳘द्वा जज्ञौ त᳘द्वा न᳘ जज्ञाव᳘तिॗ त्वेॗवेयाय सा म᳘नुमा᳘जगाम॥
मूलम् - विस्वरम्
तां होचतुः- “का असि” इति । “मनोर्दुहिता” इति । “आवयोर्ब्रूष्व” इति । “न” इति होवाच- “य एव मामजीजनत, तस्यैवाहमस्मि” इति । तस्यामपि त्वमीषाते । तद्वा जज्ञौ, तद्वा न जज्ञावति त्वेवेयाय, सा मनुमाजगाम ॥ ८ ॥
सायणः
ता ँ होचतुः । आवयोर्दुहितेति ‘ब्रूष्व’ ‘इति’ ऊचतुः । ‘अपि त्वं’ भागः, तं प्राथतवन्तौ । ‘तद्’ भागित्वं ‘वा जज्ञौ’ वाशब्दश्चशब्दार्थे, जानातिश्च प्रतिपूर्वो द्रष्टव्य; प्रतिज्ञातवती च ‘न’ च प्रतिज्ञातवतीति । यावता मैत्रावरुणीति व्यपदिश्यते, तावत्प्रतिज्ञातवती; यत्र तस्याः किंचित्ताभ्यां हूयेतेति, -एवं न प्रतिज्ञातवती ॥ ८ ॥
Eggeling
- They said to her, ‘Who art thou?’ ‘Manu’s daughter,’ she replied. ‘Say (thou art) ours,’ they said. ‘No,’ she said, ‘I am (the daughter) of him who begat me.’ They desired to have a share in her. She either agreed or did not agree 10, but passed by them. She came to Manu.
०९
विश्वास-प्रस्तुतिः
ता᳘ᳫं᳭ ह म᳘नुरुवाच᳘ कासी᳘ति॥
त᳘व दुहिते᳘ति कथं᳘ भगवति म᳘म दुहिते᳘ति या᳘ ऽअमू᳘रप्स्वा᳘हुतीर᳘हौषीर्घृतं द᳘धि म᳘स्त्वामि᳘क्षां त᳘तो मा᳘मजीजनथाः᳘ साशी᳘रस्मि तां᳘ मा यज्ञे᳘ ऽवकल्पय यज्ञे चेद्वै᳘ मावकल्पयिष्य᳘सि बहुः᳘ प्रज᳘या पशु᳘भिर्भविष्यसि या᳘मु म᳘या क᳘ञ्चाशि᳘षमाशासिष्य᳘से सा᳘ ते स᳘र्व्वा स᳘मर्द्धिष्यत ऽइ᳘ति ता᳘मेतन्म᳘ध्येयज्ञस्या᳘वाकल्पय᳘न्म᳘ध्य᳘ᳫं᳘ ह्येत᳘द्यज्ञ᳘स्य य᳘दन्तरा᳘ प्रयाजानुयाजान्॥
मूलम् - श्रीधरादि
ता᳘ᳫं᳭ ह म᳘नुरुवाच᳘ कासी᳘ति॥
त᳘व दुहिते᳘ति कथं᳘ भगवति म᳘म दुहिते᳘ति या᳘ ऽअमू᳘रप्स्वा᳘हुतीर᳘हौषीर्घृतं द᳘धि म᳘स्त्वामि᳘क्षां त᳘तो मा᳘मजीजनथाः᳘ साशी᳘रस्मि तां᳘ मा यज्ञे᳘ ऽवकल्पय यज्ञे चेद्वै᳘ मावकल्पयिष्य᳘सि बहुः᳘ प्रज᳘या पशु᳘भिर्भविष्यसि या᳘मु म᳘या क᳘ञ्चाशि᳘षमाशासिष्य᳘से सा᳘ ते स᳘र्व्वा स᳘मर्द्धिष्यत ऽइ᳘ति ता᳘मेतन्म᳘ध्येयज्ञस्या᳘वाकल्पय᳘न्म᳘ध्य᳘ᳫं᳘ ह्येत᳘द्यज्ञ᳘स्य य᳘दन्तरा᳘ प्रयाजानुयाजान्॥
मूलम् - Weber
ता᳘ᳫं᳘ ह म᳘नुरुवाचॗ कासी᳘ति॥
त᳘व दुहिते᳘ति कथ᳘म् भगवति म᳘म दुहिते᳘ति या᳘ अमू᳘रप्स्वा᳘हुतीर᳘हौषीर्घृतं द᳘धि म᳘स्त्वामि᳘क्षां त᳘तो मा᳘मजीजनथाःॗ साशी᳘रस्मि ता᳘म् मा यज्ञे᳘ ऽवकल्पय यज्ञे चेद्वै᳘ मावकल्पयिष्य᳘सि बहुः᳘ प्रज᳘या पशु᳘भिर्भविष्यसि या᳘ममु᳘या कां᳘ चाशि᳘षमाशासिष्य᳘से सा᳘ ते स᳘र्वा स᳘मर्धिष्यत इ᳘ति ता᳘मेतन्म᳘ध्ये यज्ञस्या᳘वाकल्पयॗन्म᳘ध्यᳫं ह्येत᳘द्यज्ञ᳘स्य य᳘दन्तरा᳘ प्रयाजानुयाजा᳘न्॥
मूलम् - विस्वरम्
तां ह मनुरुवाच- “का असि” इति । “तव दुहिता” इति । “कथं भगवति ! मम दुहिता” इति । “या अमूरप्स्वाहुतीरहौषीः घृतं, दधि, मस्तु, आमिक्षाम्- ततो मामजीजनथाः, साशीरस्मि, तां मा यज्ञे ऽवकल्पयः यज्ञे चेद् वै मावकल्पयिष्यसि- बहुः प्रजया पशुभिर्भविष्यसि, यामु मया काञ्चाशिषमाशासिष्यसे- सा ते सर्वा समर्द्धिष्यते” इति । तामेतन्मध्ये यज्ञस्यावाकल्पयत् । मध्यं ह्येतद् यज्ञस्य- यदन्तरा प्रयाजानुयाजान् ॥ ९ ॥
सायणः
तां ह मनुः । ‘अजीजनथाः’ ‘जनितवानसि’ । ‘आशीरस्मि’ आशीर्हेतुत्वादाशीः । ‘अवकल्पय’ साङ्गतया समर्थय, समर्थां कुरु । ‘मया’ हेतुभूतया- मय्युपहूयमानायाम् “उपहूतो ऽयं यजमानः” - इत्येतेन होतृवचनेन ‘याम् आशिषम्- आशासिष्यसे’ इति ‘ताम्’ ‘एतत्’ एतां मैत्रावरुणीं मानवीं घृतपदीं ‘मध्ये यज्ञस्य’ यज्ञस्यान्तः, समर्थयन् ‘प्रयाजानुयाजान् अन्तरा’ । इति इडायागः 11 ॥ ९ ॥
Eggeling
- Manu said to her, ‘Who art thou?’ ‘Thy daughter,’ she replied. ‘How, illustrious one, (art thou) my daughter?’ he asked. She replied,
‘Those offerings (of) clarified butter, sour milk, whey, and curds, which thou madest in the waters, with them thou hast begotten me. I am the blessing (benediction): make use of me at the sacrifice! If thou wilt make use of me at the sacrifice, thou wilt become rich in offspring and cattle. Whatever blessing thou shalt invoke through me, all that shall be granted to thee!’ He accordingly made use of her (as the benediction) in the middle of the sacrifice; for what is intermediate between the fore-offerings and the after-offerings, is the middle of the sacrifice.
१०
विश्वास-प्रस्तुतिः
(जाँस्त) तया᳘र्च्चञ्छ्रा᳘म्यँश्चचार प्रजा᳘कामः॥
(स्त᳘) त᳘येमां प्र᳘जातिं प्र᳘जज्ञे᳘ येयं म᳘नोः प्र᳘जातिर्या᳘म्वेनया का᳘ञ्चाशि᳘षमा᳘शास्त᳘ सास्मै स᳘र्व्वा स᳘मार्द्ध्यत᳘॥
मूलम् - श्रीधरादि
(जाँस्त) तया᳘र्च्चञ्छ्रा᳘म्यँश्चचार प्रजा᳘कामः॥
(स्त᳘) त᳘येमां प्र᳘जातिं प्र᳘जज्ञे᳘ येयं म᳘नोः प्र᳘जातिर्या᳘म्वेनया का᳘ञ्चाशि᳘षमा᳘शास्त᳘ सास्मै स᳘र्व्वा स᳘मार्द्ध्यत᳘॥
मूलम् - Weber
तया᳘र्चंछ्रा᳘म्यंश्चचार प्रजा᳘कामः॥
त᳘येमाम् प्र᳘जातिम् प्र᳘जज्ञेॗ येयम् म᳘नोः प्र᳘जातिर्या᳘म्वेनया कां᳘ चाशि᳘षमा᳘शास्तॗ सास्मै स᳘र्वा स᳘मार्ध्यत᳟᳟॥
मूलम् - विस्वरम्
तयार्च्चन् श्राम्यंश्चचार- प्रजाकामः । तयेमां प्रजातिं प्रजज्ञे येयं मनोः प्रजातिः, याम्वेनया काञ्चाशिषमाशास्त- सास्मै सर्वा समार्द्ध्यत ॥ १० ॥
सायणः
तयार्च्चन् । ‘तया’ सह दर्शपूर्णमासयोर्देवार्च्चनव्रतलक्षणं ‘तपः’ ‘श्राम्यन्’ कुर्वन् ‘चचार’ ‘तया’ हेतुभूतया, ‘इमाम् प्रजातिम्’- प्रजायत इति प्रजातिः, -ततो ‘याम्वेनया’ -इत्यादि तत्करणफलम् ॥ १० ॥ ११ ॥
Eggeling
- With her he went on worshipping and performing austerities, wishing for offspring. Through her he generated this race, which is this race of Manu; and whatever blessing he invoked through her, all that was granted to him.
११
विश्वास-प्रस्तुतिः
सैषा᳘ निदा᳘नेना यदि᳘डा॥
स यो᳘ हैवं᳘ विद्वानि᳘डया च᳘रत्येताᳫँ᳘हैव प्र᳘जातिं प्र᳘जायते यां म᳘नुः प्रा᳘जायत या᳘म्वेनया का᳘ञ्चाशि᳘षमाशा᳘स्ते᳘ सास्मै स᳘र्व्वा स᳘मृद्ध्यते॥
मूलम् - श्रीधरादि
सैषा᳘ निदा᳘नेना यदि᳘डा॥
स यो᳘ हैवं᳘ विद्वानि᳘डया च᳘रत्येताᳫँ᳘हैव प्र᳘जातिं प्र᳘जायते यां म᳘नुः प्रा᳘जायत या᳘म्वेनया का᳘ञ्चाशि᳘षमाशा᳘स्ते᳘ सास्मै स᳘र्व्वा स᳘मृद्ध्यते॥
मूलम् - Weber
सैषा᳘ निदा᳘नेना यदि᳘डा॥
स यो᳘ हैवं᳘ विद्वानि᳘डया च᳘रत्येता᳘ᳫं᳘ हैव प्र᳘जातिम् प्र᳘जायते याम् म᳘नुः प्रा᳘जायत या᳘म्वेनया कां᳘ चाशि᳘षमाशा᳘स्तेॗ सास्मै स᳘र्वा स᳘मृध्यते॥
मूलम् - विस्वरम्
सैषा निदानेन- यदिडा । स यो हैवं विद्वानिडया चरति- एतां हैव प्रजातिं- यां मनुः प्राजायत; याम्वेनया काञ्चाशिषमाशास्ते- सास्मै सर्वा समृद्ध्यते ॥ ११ ॥
सायणः
[व्याख्यानम् दशमे]
Eggeling
- Now this (daughter of Manu) is essentially the same as the Iḍā; and whosoever, knowing this, performs with (the) Iḍā 12, he propagates this race which Manu generated; and whatever blessing he invokes through it (or her), all that is granted to him.
१२
विश्वास-प्रस्तुतिः
सा वै᳘ पञ्चावत्ता᳘ भवति॥
पश᳘वो वा ऽइ᳘डा पा᳘ङ्क्ता वै᳘ पश᳘वस्त᳘स्मात्पञ्चावत्ता᳘ भवति॥
मूलम् - श्रीधरादि
सा वै᳘ पञ्चावत्ता᳘ भवति॥
पश᳘वो वा ऽइ᳘डा पा᳘ङ्क्ता वै᳘ पश᳘वस्त᳘स्मात्पञ्चावत्ता᳘ भवति॥
मूलम् - Weber
सा वै᳘ पञ्चावत्ता᳘ भवति॥
पश᳘वो वा इ᳘डा पा᳘ङ्ता वै᳘ पश᳘वस्त᳘स्मात्पञ्चावत्ता᳘ भवति॥
मूलम् - विस्वरम्
सा वै पञ्चावत्ता भवति । पशवो वा इडा, पाङ्क्ता वै पशवः । तस्मात् पञ्चावत्ता भवति ॥ १२ ॥
सायणः
सा वै पञ्चावत्ता 13 । उपस्तरणादिविशेषः शाखान्तरात् । ‘पशवो वा इडा’ पशुप्रभवघृतादिप्रभवत्वात् “पशव इडा” (तै. सं. २ । ६ । ७ । ३ ।) (ऐ. २ । ४ । ६) ॥ १२ ॥
Eggeling
- It (the iḍā) consists of a fivefold cutting; for the iḍā, doubtless, means cattle, and cattle consist of five parts 14: for this reason it (the iḍā) consists of a fivefold cutting.
१३
विश्वास-प्रस्तुतिः
स᳘ समवदाये᳘डाम्॥
पूर्व्वार्द्धं᳘ पुरोडा᳘शस्य प्रशी᳘र्य पुर᳘स्ताद्ध्रुवा᳘यै नि᳘दधाति ताᳫँ᳭ हो᳘त्रे प्रदाय दक्षिणा᳘त्येति॥
मूलम् - श्रीधरादि
स᳘ समवदाये᳘डाम्॥
पूर्व्वार्द्धं᳘ पुरोडा᳘शस्य प्रशी᳘र्य पुर᳘स्ताद्ध्रुवा᳘यै नि᳘दधाति ताᳫँ᳭ हो᳘त्रे प्रदाय दक्षिणा᳘त्येति॥
मूलम् - Weber
स᳘ समवदायेडाम्॥
पूर्वा᳘र्ध᳘म् पुरोडा᳘शस्य प्रशी᳘र्य पुर᳘स्ताद्ध्रुवा᳘यै नि᳘दधाति ताᳫं हो᳘त्रे प्रदा᳘य दक्षिणा᳘त्येति॥
मूलम् - विस्वरम्
स समवदायेडाम्, पूर्वार्द्धं पुरोडाशस्य प्रशीर्य, पुरस्ताद् ध्रुवायै निदधाति; तां होत्रे प्रदाय दक्षिणात्येति ॥ १३ ॥
सायणः
स समवदाय 13 । प्रसन्ना ॥ १३ ॥
Eggeling
- When he (the Adhvaryu) has cut off the iḍā piece by piece 15, and broken off the fore-part of the
cake (for the sacrificer’s portion), he puts it (the latter) down (on the barhis) before the dhruvā-spoon. Having then handed over the former (the iḍā) to the Hotr̥ 16, he passes by him towards the south.
१४
विश्वास-प्रस्तुतिः
स हो᳘तुरिह नि᳘लिम्पति॥
तद्धोतौ᳘ष्ठयोर्नि᳘लिम्पते म᳘नसस्प᳘तिना ते हुत᳘स्याश्नामीषे᳘ प्राणायेति॥
मूलम् - श्रीधरादि
स हो᳘तुरिह नि᳘लिम्पति॥
तद्धोतौ᳘ष्ठयोर्नि᳘लिम्पते म᳘नसस्प᳘तिना ते हुत᳘स्याश्नामीषे᳘ प्राणायेति॥
मूलम् - Weber
स हो᳘तुरिह नि᳘लिम्पति॥
तद्धोतौ᳘ष्ठयोर्नि᳘लिम्पते म᳘नसस्प᳘तिना ते हुत᳘स्याश्नामीषे᳘ प्राणाये᳘ति॥
मूलम् - विस्वरम्
स होतुरिह निलिम्पति । तद्धोतौष्ठयोर्निलिम्पते- ‘मनसस्पतिना ते हुतस्याश्नामीषे प्राणायेति ॥ १४ ॥
Eggeling
- He anoints the Hotr̥ here 18 (with clarified butter taken from the iḍā); and with it the Hotr̥ anoints his lips, with the text, ‘Of thee, offered by the lord of the mind, I eat for sap, for out-breathing!’
१५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ हो᳘तुरि᳘ह नि᳘लिम्पति॥
तद्धोतौ᳘ष्ठयोर्नि᳘लिम्पते व्वाचस्प᳘तिना ते हु᳘तस्याश्नाम्यूर्ज᳘ ऽउदानाये᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ हो᳘तुरि᳘ह नि᳘लिम्पति॥
तद्धोतौ᳘ष्ठयोर्नि᳘लिम्पते व्वाचस्प᳘तिना ते हु᳘तस्याश्नाम्यूर्ज᳘ ऽउदानाये᳘ति॥
मूलम् - Weber
अ᳘थ हो᳘तुरिह नि᳘लिम्पति॥
तद्धोतौ᳘ष्ठयोर्नि᳘लिम्पते वाचस्प᳘तिना ते हु᳘तस्याश्नाम्यूर्ज᳘ उदानाये᳘ति॥
मूलम् - विस्वरम्
अथ होतुरिह निलिम्पति । तद्धोतौष्ठयोर्निलिम्पते- ‘वाचस्पतिना ते हुतस्याश्नामि- ऊर्जे उदानाय’ इति ॥ १५ ॥
सायणः
अथ होतुरिह । ‘इह’- इति हेत्वन्तरम्; शाखान्तरादेव 19 । ओष्ठयोरिति । अत्राविशेषेण ‘निलिम्पते’ निलिम्पेदिति श्रुतिः शाखान्तरे तु- अधरमधर उत्तरमुत्तरे । किं पुनर्निलिम्पते ? द्रवत्वात्, सन्निधानाद्, अदनीयत्वाच्च- आज्यम् । तत्रापि “एतदेवैनां प्रापयते” इतीडानिष्क्रयवचनादैडमेवाज्यमिति गम्यते ॥ १५ ॥
Eggeling
- He then anoints the Hotr̥ here 18; and with it the Hotr̥ anoints his lips, with the text, ‘Of thee, offered by the lord of speech, I eat for strength, for in-breathing!’
१६
विश्वास-प्रस्तुतिः
(त्ये) एत᳘द्ध वै म᳘नुर्बिभया᳘ञ्चकार॥
(रे) इदं वै᳘ मे त᳘निष्ठं यज्ञ᳘स्य य᳘दियमि᳘डा पाकयज्ञि᳘या यद्वै᳘ म ऽइ᳘ह र᳘क्षाᳫंसि यज्ञं न᳘ हिᳫंस्युरि᳘ति ता᳘मेत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्येव प्रा᳘पयत त᳘थो ऽए᳘वैनामेष᳘ ऽएत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्येव प्रा᳘पयते᳘ ऽथ य᳘त्प्रत्य᳘क्षं न᳘ प्राश्ना᳘ति नेद᳘नुपहूतां प्राश्नानीत्येत᳘दे᳘वैनां प्रा᳘पयते यदो᳘ष्ठयोर्न्नि᳘लिम्पते᳘॥
मूलम् - श्रीधरादि
(त्ये) एत᳘द्ध वै म᳘नुर्बिभया᳘ञ्चकार॥
(रे) इदं वै᳘ मे त᳘निष्ठं यज्ञ᳘स्य य᳘दियमि᳘डा पाकयज्ञि᳘या यद्वै᳘ म ऽइ᳘ह र᳘क्षाᳫंसि यज्ञं न᳘ हिᳫंस्युरि᳘ति ता᳘मेत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्येव प्रा᳘पयत त᳘थो ऽए᳘वैनामेष᳘ ऽएत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्येव प्रा᳘पयते᳘ ऽथ य᳘त्प्रत्य᳘क्षं न᳘ प्राश्ना᳘ति नेद᳘नुपहूतां प्राश्नानीत्येत᳘दे᳘वैनां प्रा᳘पयते यदो᳘ष्ठयोर्न्नि᳘लिम्पते᳘॥
मूलम् - Weber
एत᳘द्ध वै म᳘नुर्बिभयां᳘ चकार॥
इदं वै᳘ मे त᳘निष्ठं यज्ञ᳘स्य य᳘दियमि᳘डा पाकयज्ञि᳘या यद्वै᳘ म इह र᳘क्षांसि यज्ञं न᳘ हिंस्युरि᳘ति ता᳘मेत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य इ᳘त्येव प्रा᳘पयत त᳘थो एॗवैनामेष᳘ एत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य इ᳘त्येव प्रा᳘पयते᳘ ऽथ य᳘त्प्रत्य᳘क्षं न᳘ प्राश्ना᳘ति नेद᳘नुपहूताम् प्रा᳘श्नामी᳘त्येत᳘देॗवैनां प्रा᳘पयते यदो᳘ष्ठयोर्निलिम्प᳘ते॥
मूलम् - विस्वरम्
एतद्ध चै मनुर्बिभयाञ्चकार- ‘इदं वै मे तनिष्ठं यज्ञस्य- यदियमिडा पाकयज्ञिया; यद्वै म इह रक्षांसि यज्ञं न हिंस्युः’ इति । तामेतत् ‘पुरा रक्षोभ्यः पुरा रक्षोभ्य- इत्येव प्रापयत । तथो एवैनामेष एतत् पुरा रक्षोभ्यः पुरा रक्षोभ्य- इत्येव प्रापयते । अथ यत् प्रत्यक्षं न प्राश्नाति- नेदनुपहूतां प्राश्नानि- इति । एतदेवैनां प्रापयते- यदोष्ठयोर्निलिम्पते ॥ १६ ॥
सायणः
एतद्ध वै मनुः । निर्लेपार्थवादो ऽयम् । ‘बिभयाञ्चकार’ भीतः । ‘तनिष्ठम्’ तनुतमम्, ‘पाकयज्ञिया’ पाकयज्ञार्हा, मनुष्यप्रधानत्वान्मन्दतरवीर्येत्यभिप्रायः । ‘यद्’ ‘इयम् इडा’ । ‘यत्’ ‘इह’ तनिष्ठे देशे ‘यज्ञं न हिंस्युः’ महत् स्यादिति शेषः । एवं भीतः बिभ्यत् । तामेतदिति । ‘ताम्’ इडाम् ‘एतद्’ यद् “ओष्ठयोर्निलिम्पते”- इति वक्ष्यते, तत् ‘पुरा रक्षोभ्यः’ यावदेवोच्चैरुपह्वानं श्रुत्वा रक्षांसि नागच्छन्ति- तावत् ‘प्रापयत’- “प्राणेष्वेव हूयते” -इति वक्ष्यते - तं प्राणदेशं प्रापितवान् । ‘पुरा रक्षोभ्यः, पुरा रक्षोभ्यः’ इति द्विर्वचनं प्रयोगान्तरव्याप्त्यभिप्रायम् (पा. सू. ८ । १ । १ वा. ४) ॥ १६ ॥
Eggeling
- At that time, namely, Manu became apprehensive (thinking), ‘This (part) of my sacrifice–that is, this iḍā representing the domestic offering–is certainly the weakest: the Rakshas must not
injure my sacrifice at this place.’ Accordingly by that (butter, taken from the iḍā, and smeared on his lips) he promoted it (the iḍā to a safe place, thinking), ‘Before the Rakshas (come)! before the Rakshas (come)!’ And in like manner this one also thereby promotes (the iḍā to a safe place, thinking), ‘Before the Rakshas (come)! before the Rakshas (come)!’ And though he does not (at present) eat (the iḍā) visibly, lest he should eat it before it is invoked, he nevertheless promotes it (to a safe place), when he smears the (butter) on his lips.
१७
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ हो᳘तुः पाणौ᳘ सम᳘वद्यति॥
सम᳘वत्तामेव᳘ सतीं त᳘देनां प्रत्य᳘क्षᳫँ᳭ हो᳘तरि श्रयति त᳘यात्म᳘ञ्छ्रित᳘या हो᳘ता य᳘जमानायाशि᳘षमा᳘शास्ते त᳘स्माद्धो᳘तुः पाणौ᳘ सम᳘वद्यति᳘॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ हो᳘तुः पाणौ᳘ सम᳘वद्यति॥
सम᳘वत्तामेव᳘ सतीं त᳘देनां प्रत्य᳘क्षᳫँ᳭ हो᳘तरि श्रयति त᳘यात्म᳘ञ्छ्रित᳘या हो᳘ता य᳘जमानायाशि᳘षमा᳘शास्ते त᳘स्माद्धो᳘तुः पाणौ᳘ सम᳘वद्यति᳘॥
मूलम् - Weber
अ᳘थ हो᳘तुः पाणौ᳘ सम᳘वद्यति॥
सम᳘वत्तमेव᳘ सतीं त᳘देनां प्रत्य᳘क्षᳫं हो᳘तरि श्रयति त᳘यात्मं᳘छूत᳘या हो᳘ता य᳘जमानायाशि᳘षमा᳘शास्ते त᳘स्माद्धो᳘तुः पाणौ᳘ सम᳘वद्यति॥
मूलम् - विस्वरम्
अथ होतुः पाणौ समवद्यति । समवत्तामेव सतीं तदेनां प्रत्यक्षं होतरि श्रयति । तयात्मन्- श्रितया होता यजमानायाशिषमाशास्ते तस्माद्धोतुः पाणौ समवद्यति ॥ १७ ॥
सायणः
अथ होतुः । अवान्तरेडावदानमेतत् 19 ॥ १७ ॥
Eggeling
- He now cuts off piece by piece (the avāntareḍā) in (or, into) the Hotr̥’s hand. That which is cut up piece by piece he thus makes visibly enter 20 the Hotr̥; and through that which has entered (or is cooked in) his own self, the Hotr̥ invokes a blessing on the sacrificer: for this reason he cuts it off piece by piece in the Hotr̥’s hand 21.
१८
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थोपाᳫंशू᳘पह्वयते॥
(त ऽ) एत᳘द्ध वै म᳘नुर्बिभया᳘ञ्चकारेदं वै᳘ मे त᳘निष्ठं यज्ञ᳘स्य य᳘दियमि᳘डा पाकयज्ञि᳘या यद्वै᳘ म ऽइह र᳘क्षाᳫंसि यज्ञं न᳘ हन्युरि᳘ति ता᳘मेत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्ये᳘वोपाᳫंशू᳘पाह्वयत त᳘थो ऽए᳘वैनामेष᳘ ऽएत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्ये᳘वोपाᳫंशू᳘पह्वयते॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थोपाᳫंशू᳘पह्वयते॥
(त ऽ) एत᳘द्ध वै म᳘नुर्बिभया᳘ञ्चकारेदं वै᳘ मे त᳘निष्ठं यज्ञ᳘स्य य᳘दियमि᳘डा पाकयज्ञि᳘या यद्वै᳘ म ऽइह र᳘क्षाᳫंसि यज्ञं न᳘ हन्युरि᳘ति ता᳘मेत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्ये᳘वोपाᳫंशू᳘पाह्वयत त᳘थो ऽए᳘वैनामेष᳘ ऽएत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य ऽइ᳘त्ये᳘वोपाᳫंशू᳘पह्वयते॥
मूलम् - Weber
अ᳘थोपांशू᳘पह्वयते॥
एत᳘द्ध वै म᳘नुर्बिभयां᳘ चकारेदं वै᳘ मे तनिष्ठं यज्ञ᳘स्य य᳘दियमि᳘डा पाकयज्ञि᳘या यद्वै᳘ म इह र᳘क्षांसि यज्ञं न᳘ हन्युरि᳘ति ता᳘मेत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य इ᳘त्येॗवोपांशू᳘पाह्वयत त᳘थो एॗवैनामेष एत᳘त्पुरा र᳘क्षोभ्यः पुरा र᳘क्षोभ्य इ᳘त्येॗवोपांशू᳘पह्वयते॥
मूलम् - विस्वरम्
अथोपांशूपह्वयते । एतद्ध वै मनुर्बिभयाञ्चकार- ‘इदं वै मे तनिष्ठं यज्ञस्य- यदियमिडा पाकयज्ञिया; यद्वै म इह रक्षांसि यज्ञं न हन्युः’ इति । तामेतत्पुरा रक्षोभ्यः- पुरा रक्षोभ्य- इत्येवोपांशुपाह्वयत । तथो एवैनामेष एतत् पुरा रक्षोभ्यः- पुरा रक्षोभ्य- इत्येवोपांशूपह्वयते ॥ १८ ॥
सायणः
अथोपाँशु । अत ऊर्ध्वं हौत्रमिडोपह्वानं विधीयते, तदपि द्विविधम्- उपांशु चोच्चैश्च । तत्र प्रथमं तावदुपांशूपह्वानं युज्यते । उपपूर्वो ह्वयतिरभ्यनुज्ञायां वर्तते- उपांश्वनुजानीत इत्यर्थः । एतदिति, ‘बिभयाञ्चकार’ भीतः- बिभ्यत्, पूर्ववद्व्याख्या । इयं हि इडा सर्वैः ऋत्विग्यजमानैर्विभज्य भक्षणीया, तत्र चोनातिरेकाशङ्कानिवृत्तये परस्परमनुज्ञातव्यम्; तच्चैतत्साधारणमेवानुज्ञातं मध्यमस्थानीयो होता सर्वैरन्वारब्धः करोति ॥ १८ ॥
Eggeling
- He now calls 22 (the iḍā) in a low voice. At that time, namely, Manu became apprehensive (thinking), ‘This (part) of my sacrifice–that is, this iḍā
representing the domestic offerings–is certainly the weakest: the Rakshas must not injure my sacrifice at this place.’ He accordingly called it to him in a low voice (thinking), ‘Before the Rakshas (come)! before the Rakshas (come)!’ And in like manner this one (the Hotr̥) thereby calls it (thinking), ‘Before the Rakshas (come)! before the Rakshas (come)!’
१९
विश्वास-प्रस्तुतिः
स उ᳘पह्वयते॥
(त ऽ) उ᳘पहूतᳫँ᳭रथन्तर᳘ᳫँ᳘ सह᳘ पृथिव्यो᳘प मा᳘ᳫं᳘ रथन्तर᳘ᳫँ᳘ सह᳘ पृथिव्या᳘ ह्वयतामु᳘पहूतं व्वामदेव्य᳘ᳫँ᳘ स᳘हान्त᳘रिक्षेणो᳘प मां᳘ व्वामदेव्य᳘ᳫँ᳘ स᳘हान्त᳘रिक्षेण ह्वयतामु᳘पहूतं बृह᳘त्सह᳘ दिवो᳘प मां᳘ बृह᳘त्सह᳘ दिवा᳘ह्वयतामि᳘ति त᳘देता᳘मे᳘वैत᳘दुपह्व᳘यमान ऽइमां᳘श्च लोका᳘नुपह्व᳘यत ऽएता᳘नि च सा᳘मानि᳘॥
मूलम् - श्रीधरादि
स उ᳘पह्वयते॥
(त ऽ) उ᳘पहूतᳫँ᳭रथन्तर᳘ᳫँ᳘ सह᳘ पृथिव्यो᳘प मा᳘ᳫं᳘ रथन्तर᳘ᳫँ᳘ सह᳘ पृथिव्या᳘ ह्वयतामु᳘पहूतं व्वामदेव्य᳘ᳫँ᳘ स᳘हान्त᳘रिक्षेणो᳘प मां᳘ व्वामदेव्य᳘ᳫँ᳘ स᳘हान्त᳘रिक्षेण ह्वयतामु᳘पहूतं बृह᳘त्सह᳘ दिवो᳘प मां᳘ बृह᳘त्सह᳘ दिवा᳘ह्वयतामि᳘ति त᳘देता᳘मे᳘वैत᳘दुपह्व᳘यमान ऽइमां᳘श्च लोका᳘नुपह्व᳘यत ऽएता᳘नि च सा᳘मानि᳘॥
मूलम् - Weber
स उ᳘पह्वयते॥
उ᳘पहूतं रथन्तर᳘ᳫं᳘ सह᳘ पृथिव्यो᳘प मां᳘ रथन्तर᳘ᳫं᳘ सह᳘ पृथिव्या᳘ ह्वयतामु᳘पहूतं वामदेव्य᳘ᳫं᳘ सॗहान्त᳘रिक्षेणो᳘प मां वामदेव्य᳘ᳫं᳘ सॗहान्त᳘रिक्षेण ह्वयतामु᳘पहूतम् बृह᳘त्सह᳘ दिवो᳘प मा᳘म् बृह᳘त्सह᳘ दिवा᳘ ह्वयतामि᳘ति त᳘देता᳘मेॗवैत᳘दुपह्व᳘यमान इमां᳘श्च लोका᳘नुपह्व᳘यत एता᳘नि च सा᳘मानि॥
मूलम् - विस्वरम्
स उपह्वयते । “उपहूतं रथन्तरं सह पृथिव्या, उप मां रथन्तरं सह पृथिव्या ह्वयताम् । उपहूतं वामदेव्यं सहान्तरिक्षेण, उप मां वामदेव्यं सहान्तरिक्षेण ह्वयताम्, उपहूतं बृहत् सह दिवा, उप मां बृहत् सह दिवा ह्वयताम्- इति । तदेतामेवैतदुपह्वयमान इमांश्च लोकानुपह्वयते- एतानि च सामानि ॥ १९ ॥
सायणः
स उपह्वयते । यदीडा ऽनुज्ञातव्या, रथन्तरादीनां किमापतितम् ? अत आह- तदेतामेवैतदिति । इडाया एवैतानि रथन्तरादीनि पृथिव्यादीनि च रूपाणि ततश्च तस्यामुपहूतायां तान्युपहूतानि भवन्ति, -तेषु चोपहूतेषु सोपहूता भवतीत्याधिदैविकीं विभूतिं ख्यापयितुं तद्द्वारेणैवोपह्वयते । तथा च क्वचिदाह- “तदेनां परोक्षमुपह्वयते” इति । उप मां रथन्तरमिति । सर्वत्र रथन्तरादिमयी इडा देवता, तां नार्हन्त्यननुज्ञाता मनुष्या भक्षयितुम्; अतः सा ऽनुज्ञाप्यते- मामिति । एतच्च तुल्यहेतुत्वात्सर्वेषामृत्विग्यजमानानां प्रदर्शनार्थम् ॥ १९ ॥
Eggeling
- He calls thus (in a low voice) 23, ‘Hither is called the Rathantara (chant), together with the earth: may the Rathantara, together with the earth, call me 24! Hither is called the Vāmadevya (chant), together with the atmosphere: may the Vāmadevya, together with the atmosphere, call me! Hither is called the Br̥hat (chant), together with the sky: may the Br̥hat, together with the sky, call me!’ In thus calling her (the Iḍā) to him, he calls to him both these (three) worlds and those chants 25.
२०
विश्वास-प्रस्तुतिः
(न्यु᳘) उ᳘पहूता गा᳘वः सह᳘ ऽर्षभा ऽइ᳘ति॥
पश᳘वो वा ऽइ᳘डा त᳘देनां परो᳘ ऽक्षमु᳘पह्वयते सह᳘ ऽर्षभा ऽइ᳘ति स᳘मिथुनामे᳘वैनामेतदु᳘पह्वयते॥
मूलम् - श्रीधरादि
(न्यु᳘) उ᳘पहूता गा᳘वः सह᳘ ऽर्षभा ऽइ᳘ति॥
पश᳘वो वा ऽइ᳘डा त᳘देनां परो᳘ ऽक्षमु᳘पह्वयते सह᳘ ऽर्षभा ऽइ᳘ति स᳘मिथुनामे᳘वैनामेतदु᳘पह्वयते॥
मूलम् - Weber
उ᳘पहूता गा᳘वः सह᳘र्षभा इ᳘ति॥
पश᳘वो वा इ᳘डा त᳘देनाम् परो᳘ ऽक्षमु᳘पह्वयते सह᳘र्षभा इ᳘ति स᳘मिथुनामेॗवैनामेतदु᳘पह्वयते॥
मूलम् - विस्वरम्
उपहूता गावः सहर्षभा इति । पशवो वा इडा । तदेनां परोक्षमुपह्वयते । सहर्षभा इति-समिथुनामेवैनामेतदुपह्वयते ॥ २० ॥
सायणः
उपहूता गावः । प्रसन्नाश्चतस्रः । ‘प्राणः’ ‘शरीरम्’ इडाया एतद् द्रष्टव्यम् ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥
Eggeling
- ‘Hither are called the cows 26, together with the
bull!’–the iḍā, assuredly, means cattle: hence it is her he thereby calls in an indirect (mystic) way; (and in saying), ’together with the bull,’ he calls her together with her mate.
२१
विश्वास-प्रस्तुतिः
(त ऽ) उ᳘पहूता सप्त᳘होत्रे᳘ति॥
त᳘देनाᳫँ᳭ सप्त᳘होत्रा सौम्ये᳘नाध्वरेणो᳘पह्वयते॥
मूलम् - श्रीधरादि
(त ऽ) उ᳘पहूता सप्त᳘होत्रे᳘ति॥
त᳘देनाᳫँ᳭ सप्त᳘होत्रा सौम्ये᳘नाध्वरेणो᳘पह्वयते॥
मूलम् - Weber
उ᳘पहूता सप्त᳘होत्रे᳘ति॥
त᳘देनाᳫं सप्त᳘होत्रा सौम्ये᳘नाध्वरेणो᳘पह्वयते॥
मूलम् - विस्वरम्
“उपहूता सप्तहोत्रा”- इति- तदेनां सप्तहोत्रा सौम्येनाध्वरेणोपह्वयत ॥ २१ ॥
सायणः
[व्याख्यानम् विंशतितमे]
Eggeling
- ‘Hither is called (Iḍā) by that (sacrifice) which is performed by the seven Hotr̥s!’–he thereby calls her by the Soma-sacrifice performed by the seven Hotr̥s 27.
२२
विश्वास-प्रस्तुतिः
(त ऽ) उ᳘पहूते᳘डा त᳘तुरिरि᳘ति॥
त᳘देनां प्रत्य᳘क्षमु᳘पह्वयते त᳘तुरि᳘ति स᳘र्व᳘ᳫं᳘ ह्येषा᳘ पाप्मा᳘नं त᳘रति त᳘स्मादाह त᳘तुरिरिति᳘॥
मूलम् - श्रीधरादि
(त ऽ) उ᳘पहूते᳘डा त᳘तुरिरि᳘ति॥
त᳘देनां प्रत्य᳘क्षमु᳘पह्वयते त᳘तुरि᳘ति स᳘र्व᳘ᳫं᳘ ह्येषा᳘ पाप्मा᳘नं त᳘रति त᳘स्मादाह त᳘तुरिरिति᳘॥
मूलम् - Weber
उ᳘पहूते᳘डा त᳘तुरिरि᳘ति॥
त᳘देनाम् प्रत्य᳘क्षमु᳘पह्वयते त᳘तुरिरि᳘तिॗ स᳘र्वᳫं ह्येषा᳘ पाप्मा᳘नं त᳘रति त᳘स्मादाह त᳘तुरिरि᳘ति॥
मूलम् - विस्वरम्
“उपहूतेडा ततुरिः”- इति- तदेनां प्रत्यक्षमुपह्वयते । ततुरिरिति । सर्वं ह्येषा पाप्मानं तरति- तस्मादाह ततुरिरिति ॥ २२ ॥
सायणः
[व्याख्यानम् विंशतितमे]
Eggeling
- ‘Hither is called Iḍā, the conquering!’–he thereby calls her directly. ‘Conquering’ he says, because she overcomes evil, and for that reason he calls her ’the conquering.’
२३
विश्वास-प्रस्तुतिः
(त्यु᳘) उ᳘पहूतः स᳘खा भक्ष ऽइ᳘ति॥
प्राणौ᳘ वै स᳘खा भक्षस्त᳘त्प्राणमु᳘पह्वयत ऽउ᳘पहूतᳫँ᳭हेगि᳘ति तच्छ᳘रीरमु᳘पह्वयते तत्स᳘र्व्वामु᳘पह्वयते᳘॥
मूलम् - श्रीधरादि
(त्यु᳘) उ᳘पहूतः स᳘खा भक्ष ऽइ᳘ति॥
प्राणौ᳘ वै स᳘खा भक्षस्त᳘त्प्राणमु᳘पह्वयत ऽउ᳘पहूतᳫँ᳭हेगि᳘ति तच्छ᳘रीरमु᳘पह्वयते तत्स᳘र्व्वामु᳘पह्वयते᳘॥
मूलम् - Weber
उ᳘पहूतः स᳘खा भक्ष इ᳘ति॥
प्राणौ वै स᳘खा भक्षस्त᳘त्प्राणमु᳘पह्वयत उ᳘पहूतᳫं हेगि᳘ति त᳘छरीरमु᳘पह्वयते तत्स᳘र्वामु᳘पह्वयते॥
मूलम् - विस्वरम्
“उपहूतः सखा भक्षः”- इति । प्राणो वै सखा भक्षः- तत् प्राणमुपह्वयते । “उपहूतं हेग्”- इति । तत् शरीरमुपह्वयते । तत् सर्वामुपह्वयते ॥ २३ ॥
सायणः
[व्याख्यानम् विंशतितमे]
Eggeling
२४
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ प्रतिपद्यते॥
(त ऽ) इडो᳘पहूतो᳘पहूतेडो᳘पो ऽअस्माँ३ ऽइ᳘डा ह्वयतामिडो᳘पहूते᳘ति तदु᳘पहूतामे᳘वैनामेत᳘त्सतीं᳘ प्रत्य᳘क्षमु᳘पह्वयते या वै सा᳘सीद्गोर्व्वै᳘ सासीच्च᳘तुष्पदी वै गौस्त᳘स्माच्चतुरु᳘पह्वयते॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ प्रतिपद्यते॥
(त ऽ) इडो᳘पहूतो᳘पहूतेडो᳘पो ऽअस्माँ३ ऽइ᳘डा ह्वयतामिडो᳘पहूते᳘ति तदु᳘पहूतामे᳘वैनामेत᳘त्सतीं᳘ प्रत्य᳘क्षमु᳘पह्वयते या वै सा᳘सीद्गोर्व्वै᳘ सासीच्च᳘तुष्पदी वै गौस्त᳘स्माच्चतुरु᳘पह्वयते॥
मूलम् - Weber
अ᳘थ प्रतिपद्यते॥
इडो᳘पहूतो᳘पहूतेडो᳘पो अस्मां इ᳘डा ह्वयतामिडो᳘पहूते᳘ति तदु᳘पहूतामेॗवैनामेत᳘त्सती᳘म् प्रत्य᳘क्षमु᳘पह्वयते या वै सा᳘सीद्गोर्वैॗ सासीच्च᳘तुष्पदी वै गौस्त᳘स्माच्चतुरु᳘पह्वयते॥
मूलम् - विस्वरम्
अथ प्रतिपद्यते “इडोपहूता- (१) उपहूतेडा- (२) उपो अस्मान् इडा ह्वयताम्- (३) इडोपहूता- (४)”- इति । तदुपहूतामेवैनामेतत् । सतीं प्रत्यक्षमुपह्वयते । या वै सासीद्-गौर्वै सासीद् । चतुष्पदी वै गौः । तस्माच्चतुरुपह्वयते ॥ २४ ॥
सायणः
अथ प्रतिपद्यते । “अथोपांशूपह्वयते” इति यदुक्तम्, तस्यावच्छेदार्थम् 30 ‘अथ प्रतिपद्यते’ इत्याह । तेनेत ऊर्द्ध्वं यथाप्राप्तमुच्चैर्वक्तव्यम् ॥ २४ ॥
Eggeling
- He now intones (in a loud voice): ‘Iḍā is called hither! Hither (thither) is called Iḍā! May Iḍā also call us to her!’ In saying, ‘Iḍā is called
hither,’ he, in a direct way, calls her, who is thereby called hither, as being what she really was: a cow, assuredly, she was, and a cow is four-footed; and therefore he calls her four times 31.
२५
विश्वास-प्रस्तुतिः
स वै᳘ चतु᳘रुपह्व᳘यमानः॥
(नो᳘ ऽ) अ᳘थ ना᳘नेवो᳘पह्वयते᳘ ऽजामितायै जामि᳘ ह कुर्याद्यदिडो᳘पहूतेडो᳘पहूते᳘त्ये᳘वोपह्व᳘येतो᳘पहूतेडे᳘ति व्वेडो᳘पहूते᳘ति त᳘दर्व्वाचीमु᳘पह्वयत ऽउ᳘पहूतेडे᳘ति तत्प᳘राचीमु᳘पो ऽअस्माँ३ ऽइ᳘डाह्वयतामि᳘ति त᳘दात्मा᳘नञ्चै᳘वैत᳘न्नान्तरे᳘त्यन्य᳘थेव च भवतीडो᳘पहूते᳘ति तत्पु᳘नरर्व्वा᳘चीमुपह्वयते त᳘दर्व्वा᳘चीञ्चै᳘वैनामेतत्प᳘राचीञ्चो᳘पह्वयते॥
मूलम् - श्रीधरादि
स वै᳘ चतु᳘रुपह्व᳘यमानः॥
(नो᳘ ऽ) अ᳘थ ना᳘नेवो᳘पह्वयते᳘ ऽजामितायै जामि᳘ ह कुर्याद्यदिडो᳘पहूतेडो᳘पहूते᳘त्ये᳘वोपह्व᳘येतो᳘पहूतेडे᳘ति व्वेडो᳘पहूते᳘ति त᳘दर्व्वाचीमु᳘पह्वयत ऽउ᳘पहूतेडे᳘ति तत्प᳘राचीमु᳘पो ऽअस्माँ३ ऽइ᳘डाह्वयतामि᳘ति त᳘दात्मा᳘नञ्चै᳘वैत᳘न्नान्तरे᳘त्यन्य᳘थेव च भवतीडो᳘पहूते᳘ति तत्पु᳘नरर्व्वा᳘चीमुपह्वयते त᳘दर्व्वा᳘चीञ्चै᳘वैनामेतत्प᳘राचीञ्चो᳘पह्वयते॥
मूलम् - Weber
स वै᳘ चतु᳘रुपह्व᳘यमानः॥
अथ ना᳘नेवो᳘पह्वयते᳘ ऽजामितायै जामि᳘ ह कुर्याद्यदिडो᳘पहूतेडो᳘पहूते᳘त्येॗवोपह्वयेतो᳘पहूतेडे᳘ति वेडो᳘पहूते᳘ति त᳘दर्वा᳘चीमु᳘पह्वयत उ᳘पहूतेडे᳘ति तत्प᳘राचीमु᳘पो अस्मां इ᳘डा ह्वयतामिति त᳘दात्मा᳘नं चैॗवैतॗन्नान्तरे᳘त्यन्य᳘थेव च भवतीडो᳘पहूते᳘ति तत्पु᳘नरर्वा᳘चीमु᳘पह्वयते त᳘दर्वा᳘चीं चैॗवैनामेतत्प᳘राचीं चो᳘पह्वयते॥
मूलम् - विस्वरम्
स वै चतुरुपह्वयमानः- अथ नानेवोपह्वयते अजामितायै । जामि ह कुर्याद् यद्- ‘इडोपहूता इडोपहूता’- इत्येवोपह्वयेत उपहूतेडेति वा । इडोपहूतेति- तदर्वाचीमुपह्वयते । उपहूतेडा- इति तत् पराचीम् । उपो अस्मानिडा ह्वयतामिति तदात्मानञ्चैवैतन्नान्तरेति, अन्ययेव च भवति । इडोपहूतेति- तत् पुनरर्वाचीमुपह्वयते । तद् अर्वाचीञ्चैवैनामेतत् पराचीञ्चोपह्वयते ॥ २५॥
सायणः
प्रसन्नाश्चतस्रो ऽतः परम् । “वत्सा चै दैव्या अध्वर्यवः”- इति सान्नाय्यं हविः संभवति- अध्वर्युवदित्यभिप्रायः । इडां च भक्ष्यां भक्ष्यत्वेनानुज्ञाय भक्षयितॄननुजानीते- उपहूता दैव्या अध्वर्यव इत्यादिना ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥
Eggeling
- But in calling her four times, he calls her in different ways, in order to avoid repetition (of sacrificial performance); for, if he were to call, ‘Iḍā is called hither! Iḍā is called hither!’ or ‘Hither is called Ida! hither is called Iḍā!’ he would indeed commit the (fault of) repetition. By saying, ‘Iḍā is called hither!’ he calls her hitherwards; and by ‘Hither (or thither, lit. called to somebody) is called Iḍā!’ he calls her thitherwards. By saying, ‘May Iḍā also call us to her,’ he does not omit himself, and, besides, it (the formula) is changed. By (the second), ‘Iḍā is called hither!’ he again calls her hitherwards; so that he thereby (and by the second, ‘Hither is called Iḍā,’ again) calls her hitherwards and thitherwards.
२६
विश्वास-प्रस्तुतिः
मानवी᳘ घृत᳘पदी᳘ति॥
म᳘नु᳘र्ह्येतामग्रे᳘ ऽजनयत त᳘स्मादाह मानवी᳘ति घृत᳘पदी᳘ति य᳘दे᳘वास्यै घृतं᳘ पदे᳘ सम᳘तिष्ठत त᳘स्मादाह घृतपदी᳘ति॥
मूलम् - श्रीधरादि
मानवी᳘ घृत᳘पदी᳘ति॥
म᳘नु᳘र्ह्येतामग्रे᳘ ऽजनयत त᳘स्मादाह मानवी᳘ति घृत᳘पदी᳘ति य᳘दे᳘वास्यै घृतं᳘ पदे᳘ सम᳘तिष्ठत त᳘स्मादाह घृतपदी᳘ति॥
मूलम् - Weber
मानवी᳘ घृत᳘पदी᳘ति॥
म᳘नुॗर्ह्येतामग्रे᳘ ऽजनयत त᳘स्मादाह मानवी᳘ति घृत᳘पदी᳘ति य᳘देॗवास्यै गृत᳘म् पदे᳘ सम᳘तिष्ठत त᳘स्मादाह घृत᳘पदी᳘ति॥
मूलम् - विस्वरम्
**“मानवी घृतपदी”- इति, -मनुर्ह्येतामग्रे ऽजनयत, तस्मादाह- ‘मानवी’- इति । घृतपदी- इति, -यदेवास्यै घृतं पदे समतिष्ठत, तस्मादाह ‘घृतपदी’ -इति ॥ २६ ॥
सायणः
[व्याख्यानम् पञ्चविंशतितमे]
Eggeling
- ‘Manu’s daughter, the butter-pathed (ghr̥tapadī);’–Manu, indeed, begat her of old: for this reason he says, ‘Manu’s daughter.’ ‘The butter-pathed’ he says, because butter gathered in her footprint: therefore he calls her ‘butter-pathed.’
२७
विश्वास-प्रस्तुतिः
उत᳘ मैत्रावरुणी᳘ति॥
य᳘देव᳘ मित्राव᳘रुणाभ्याᳫं सम᳘गच्छत स᳘ ऽएव᳘ मैत्रावरुणो᳘ न्यङ्गो᳘ ब्रह्मा᳘ देव᳘कृतो᳘पहूते᳘ति᳘ ब्रह्मा᳘ ह्येषां᳘ देव᳘कृतो᳘पहूतो᳘पहूतो दै᳘व्या ऽअध्वर्य᳘व ऽउ᳘पहूता मनु᳘ष्या ऽइ᳘ति तद्दे᳘वांश्चै᳘वैत᳘ध्वर्यू᳘नुपह्व᳘यते ये᳘ च मानुषा᳘ व्वत्सा वै दै᳘व्या ऽअध्वर्यवो᳘ ऽथ य ऽइ᳘तरे ते᳘ मानुषाः॥
मूलम् - श्रीधरादि
उत᳘ मैत्रावरुणी᳘ति॥
य᳘देव᳘ मित्राव᳘रुणाभ्याᳫं सम᳘गच्छत स᳘ ऽएव᳘ मैत्रावरुणो᳘ न्यङ्गो᳘ ब्रह्मा᳘ देव᳘कृतो᳘पहूते᳘ति᳘ ब्रह्मा᳘ ह्येषां᳘ देव᳘कृतो᳘पहूतो᳘पहूतो दै᳘व्या ऽअध्वर्य᳘व ऽउ᳘पहूता मनु᳘ष्या ऽइ᳘ति तद्दे᳘वांश्चै᳘वैत᳘ध्वर्यू᳘नुपह्व᳘यते ये᳘ च मानुषा᳘ व्वत्सा वै दै᳘व्या ऽअध्वर्यवो᳘ ऽथ य ऽइ᳘तरे ते᳘ मानुषाः॥
मूलम् - Weber
उत᳘ मैत्रावरुणी᳘ति॥
य᳘देव᳘ मित्राव᳘रुणाभ्याᳫं सम᳘गछत स᳘ एव᳘ मैत्रावरुणो᳘ न्यङ्गो᳘ ब्रह्मा᳘ देव᳘कृतो᳘पहूते᳘ति ब्रह्माॗ ह्येषां᳘ देव᳘कृतो᳘पहूतो᳘पहूता दै᳘व्या अध्वर्य᳘व उ᳘पहूता मनुॗष्या इ᳘ति तद्दै᳘वांश्चैॗवाध्वर्यू᳘नुपह्व᳘यते ये᳘ च मानुषा᳘ वत्सा वै दै᳘व्या अध्वर्यवो᳘ ऽथ य इ᳘तरे ते᳘ मानुषाः᳟॥
मूलम् - विस्वरम्
“उत मैत्रावरुणी” -इति । यदेव मित्रावरुणाभ्यां समगच्छत । स एव मैत्रावरुणो न्यङ्गः “ब्रह्मा देवकृतोपहूतेति”- ब्रह्मा ह्येषां देवकृतोपहूता । “उपहूता दैव्या अध्वर्यवः, उपहूता मनुष्याः”- इति । तद् दैवांश्चैवैतद् अध्वर्यूनुपह्वयते, ये च मानुषाः । वत्सा वै दैव्या अध्वर्यवः, अथ य इतरे- ते मानुषाः ॥ २७ ॥
सायणः
[व्याख्यानम् पञ्चविंशतितमे]
Eggeling
- And further, ‘She who belongs to Mitra and Varuṇa;’–this ‘Maitrāvaruṇa nature’ (is hers), because she met Mitra and Varuṇa 32.–‘She, the god-fashioned one, is called hither as the Brahman 33;
for she, the god-fashioned one, is indeed called hither as their Brahman.–‘Hither are called the divine Adhvaryus, called hither the human!’–he thereby calls both the divine Adhvaryus and those that are human: the divine Adhvaryus indeed are the calves 34 (vatsāḥ), and what others there are, are the human ones.
२८
विश्वास-प्रस्तुतिः
(०) य᳘ ऽइमं᳘ यज्ञम᳘वान्ये᳘ च यज्ञ᳘पतिं व्वर्द्धानि᳘ति॥
(त्ये) एते वै᳘ यज्ञ᳘मवन्ति ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳭सो ऽनूचाना᳘ ऽएते᳘ ह्येनं तन्व᳘त ऽएत᳘ ऽएनं जन᳘यन्ति त᳘दु ते᳘भ्यो नि᳘ह्नुते व्वत्सा᳘ ऽउ वै᳘ यज्ञ᳘पतिं व्वर्द्धन्ति य᳘स्य᳘ ह्येते भू᳘यिष्ठा भ᳘वन्ति स हि᳘ यज्ञ᳘पतिर्व्व᳘र्द्धते त᳘स्मादाह ये᳘ च यज्ञ᳘पतिं व्व᳘र्द्धानिति॥
मूलम् - श्रीधरादि
(०) य᳘ ऽइमं᳘ यज्ञम᳘वान्ये᳘ च यज्ञ᳘पतिं व्वर्द्धानि᳘ति॥
(त्ये) एते वै᳘ यज्ञ᳘मवन्ति ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫँ᳭सो ऽनूचाना᳘ ऽएते᳘ ह्येनं तन्व᳘त ऽएत᳘ ऽएनं जन᳘यन्ति त᳘दु ते᳘भ्यो नि᳘ह्नुते व्वत्सा᳘ ऽउ वै᳘ यज्ञ᳘पतिं व्वर्द्धन्ति य᳘स्य᳘ ह्येते भू᳘यिष्ठा भ᳘वन्ति स हि᳘ यज्ञ᳘पतिर्व्व᳘र्द्धते त᳘स्मादाह ये᳘ च यज्ञ᳘पतिं व्व᳘र्द्धानिति॥
मूलम् - Weber
य᳘ इमं᳘ यज्ञम᳘वान्ये᳘ च यज्ञ᳘पतिं वर्धानि᳘ति॥
एते वै᳘ यज्ञ᳘मवन्ति ये᳘ ब्राह्मणाः᳘ शुश्रुवा᳘ᳫं᳘सो ऽनूचाना᳘ एतेॗ ह्येनं तन्व᳘त एत᳘ एनं जन᳘यन्ति त᳘दु ते᳘भ्यो नि᳘ह्नुते वत्सा᳘ उ वै᳘ यज्ञ᳘पतिं वर्धन्ति य᳘स्यॗ ह्येते भू᳘यिष्ठा भ᳘वन्ति स हि᳘ यज्ञ᳘पतिर्वर्धते त᳘स्मादाह ये᳘ च यज्ञ᳘पतिं व᳘र्धानिति॥
मूलम् - विस्वरम्
“य इमं यज्ञमवान्, ये च यज्ञपतिं वर्द्धान्”- इति, -एते वै यज्ञमवन्ति- ये ब्राह्मणाः शुश्रुवांसो ऽनूचानाः । एते ह्येनं तन्वते, एत एनं जनयन्ति, -तदु तेभ्यो निह्नुते । वत्सा उ वै यज्ञपतिं वर्द्धन्ति- यस्य ह्येते भूयिष्ठा भवन्ति- स हि यज्ञपतिर्वर्द्धते । तस्मादाह- ये च यज्ञपतिं वर्द्धानिति ॥ २८ ॥
सायणः
[व्याख्यानम् पञ्चविंशतितमे]
Eggeling
- ‘–They who are to prosper this sacrifice, they who are to prosper the lord of sacrifice.’ Those Brāhmaṇas, who have studied and teach the Veda, assuredly prosper the sacrifice, since they spread (perform) and produce it: these he thereby propitiates. And the calves also assuredly make the lord of sacrifice prosper; for the lord of sacrifice who possesses abundance of them, does indeed prosper; for this reason he says, ‘They who are to prosper the lord of sacrifice.’
२९
विश्वास-प्रस्तुतिः
(त्यु᳘) उ᳘पहूते द्या᳘वापृथिवी᳘ पूर्व्वजे᳘ ऽऋता᳘वरी देवी᳘ देव᳘पुत्रे ऽइ᳘ति॥ त᳘दिमे द्या᳘वापृथिवी ऽउ᳘पह्वयते य᳘योरिदᳫं᳭ स᳘र्व्वमध्यु᳘पहूतो ऽयं य᳘जमान ऽइ᳘ति तद्य᳘जमानमु᳘पह्वयते तद्यद᳘त्र ना᳘म न᳘ गृह्णा᳘ति परो᳘ ऽक्षᳫं ह्यत्राशीर्यदि᳘डायां मानुष᳘ᳫँ᳘ह कुर्याद्यन्ना᳘म गृह्णीया᳘द्व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति त᳘स्मान्न ना᳘म गृह्णाति᳘॥
मूलम् - श्रीधरादि
(त्यु᳘) उ᳘पहूते द्या᳘वापृथिवी᳘ पूर्व्वजे᳘ ऽऋता᳘वरी देवी᳘ देव᳘पुत्रे ऽइ᳘ति॥ त᳘दिमे द्या᳘वापृथिवी ऽउ᳘पह्वयते य᳘योरिदᳫं᳭ स᳘र्व्वमध्यु᳘पहूतो ऽयं य᳘जमान ऽइ᳘ति तद्य᳘जमानमु᳘पह्वयते तद्यद᳘त्र ना᳘म न᳘ गृह्णा᳘ति परो᳘ ऽक्षᳫं ह्यत्राशीर्यदि᳘डायां मानुष᳘ᳫँ᳘ह कुर्याद्यन्ना᳘म गृह्णीया᳘द्व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति त᳘स्मान्न ना᳘म गृह्णाति᳘॥
मूलम् - Weber
उ᳘पहूते द्या᳘वापृथिवी᳘ पूर्वजे᳘ ऋता᳘वरी देवी᳘ देव᳘पुत्रे इ᳘ति त᳘दिमे द्या᳘वापृथिवी उ᳘पह्वयते य᳘योरिदᳫं स᳘र्वमध्यु᳘पहूतो ऽयं य᳘जमान इ᳘ति तद्य᳘जमानमु᳘पह्वयते तद्यद᳘त्र ना᳘म न गृह्णा᳘ति प्रो᳘ ऽक्ष्ᳫं ह्य᳘त्राशीर्यदि᳘डायाम् मानुष᳘ᳫं᳘ ह कुर्याद्यन्ना᳘म गृह्णीयाॗद्व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं नेॗद्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति त᳘स्मान्न ना᳘म गृह्णाति॥
मूलम् - विस्वरम्
“उपहूते द्यावापृथिवो पूर्वजे ऋतावरी देवी देवपुत्रे” -इति । तदिमे द्यावापृथिवी उपह्वयते- ययोरिदं सर्वमधि । उपहूतो ऽयं यजमानः”- इति, तद् यजमानमुपह्वयते । तद्यदत्र नाम न गृह्णाति- परोक्षं ह्यत्राशीः- यदिडायाम् । मानुषं ह कुर्याद्- यन्नाम गृह्णीयात् । व्यृद्धं वै तद्यज्ञस्य- यन्मानुषम्, नेद् व्यृद्धं यज्ञे करवाणि- इति । तस्मान्न नाम गृह्णाति ॥ २९ ॥
सायणः
तत्राप्यविशेषेणानुज्ञाय विशेषत आग्नीध्रमनुजानीते- उपहूते द्यावापृथिवी इति । स हि द्यावापृथिव्योरधिदैवरूपेणानुज्ञायते । उपहूतोयं यजमानः इति । यजमानस्य विशेषोपाह्वानम्; परोक्षं ह्यत्राशीरिति । कथं परोक्षम् ? उत्तरस्यां देवयज्यायामुपहूत- इत्यनुज्ञामात्रमिह श्रूयते, नाशास्त इति; ‘यत्त्वाशास्यते, तदनुज्ञातव्यम्’ इति अनुज्ञया आशीर्गम्यत इत्यभिप्रायः । ततश्च यजमानो ऽपि सामान्यरूपेणैव- यजमान इति वाच्यः, न विशेषरूपेण- देवदत्तो, यज्ञदत्त इति । तद् विस्पष्टं प्रत्यक्षं मानुषमित्यभिप्रायः ॥ २९ ॥
Eggeling
- ‘Hither are called the primeval, law-abiding, divine (fem.) heaven and earth, whose sons are gods.’ He thereby calls to him those two, heaven and earth, within which all this (universe) is embraced.–‘Hither is called this sacrificer:’ thereby he calls the sacrificer to him. Why he does not mention his name on this occasion, is that this is a mysterious benediction on the iḍā. Were he, on the contrary, to mention the name, he would do what is human, and the human certainly is inauspicious at the sacrifice: hence he does not mention
the name, lest he should do what is inauspicious at the sacrifice 35.
३०
विश्वास-प्रस्तुतिः
(त्यु᳘) उ᳘त्तरस्यां देवयज्या᳘यामु᳘पहूत इ᳘ति॥
त᳘दस्मा ऽएत᳘ज्जीवा᳘तुमेव᳘ परो᳘ ऽक्षमा᳘शास्ते जी᳘वन्हि पू᳘र्व्वमिष्ट्वाथा᳘परं यजते॥
मूलम् - श्रीधरादि
(त्यु᳘) उ᳘त्तरस्यां देवयज्या᳘यामु᳘पहूत इ᳘ति॥
त᳘दस्मा ऽएत᳘ज्जीवा᳘तुमेव᳘ परो᳘ ऽक्षमा᳘शास्ते जी᳘वन्हि पू᳘र्व्वमिष्ट्वाथा᳘परं यजते॥
मूलम् - Weber
उ᳘त्तरस्यां देवयज्या᳘यामु᳘पहूत इ᳘ति॥
त᳘दस्मा एत᳘ज्जीवा᳘तुमेव᳘ परो᳘ ऽक्षमा᳘शास्ते जी᳘वन्हि पू᳘र्वमिष्ट्वाथा᳘परं यजते॥
मूलम् - विस्वरम्
“उत्तरस्यां देवयज्यायामुपहूतः" -इति, तदस्मा एतद् जीवातुमेव, परोक्षमाशास्ते । जीवन् हि पूर्वमिष्ट्वा ऽथापरं यजते ॥ ३० ॥
सायणः
उत्तरस्याम् । यदिडायामुपहूतः, तद् ‘उत्तरस्यां देवयज्यायामुपहूतः’ सा ऽपि इडाया एव विभूतिरित्यभिप्रायः । तदस्मा एतदिति । जीवनादीनामुत्तरेज्याहेतुत्वादुत्तरया देवेज्यया जीवनादीनि लक्ष्यन्ते- इति दर्शयति । यच्चाशास्यते तत्रोपह्वान युक्तमिति गम्यमानामाशिषं ‘परोक्षमाशास्ते’ इति दर्शयति । एतेन ‘भूयो हविष्करणम्’ आशास्त इति व्याख्यातम् ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥
Eggeling
- ‘Hither (he is) called for future worship of the gods;’ he thereby in a mysterious manner invokes the blessing of life on this (sacrificer); for as he sacrificed heretofore, so, while living, he will sacrifice hereafter.
३१
विश्वास-प्रस्तुतिः
त᳘दस्मा ऽएत᳘त्प्रजा᳘मेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥
य᳘स्य हि᳘ प्रजा भ᳘वत्यमुं᳘ लोक᳘मात्मनैत्य᳘थास्मिल्ँ᳘लोके᳘ प्रजा᳘ यजते त᳘स्मात्प्रजो᳘त्तरा देवयज्या॥
मूलम् - श्रीधरादि
त᳘दस्मा ऽएत᳘त्प्रजा᳘मेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥
य᳘स्य हि᳘ प्रजा भ᳘वत्यमुं᳘ लोक᳘मात्मनैत्य᳘थास्मिल्ँ᳘लोके᳘ प्रजा᳘ यजते त᳘स्मात्प्रजो᳘त्तरा देवयज्या॥
मूलम् - Weber
त᳘दस्मा एत᳘त्प्रजा᳘मेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥
य᳘स्य हि᳘ प्रजा भ᳘वत्यमुं᳘ लोक᳘मात्मनैत्य᳘थास्मिं᳘लोके᳘ प्रजा᳘ यजते त᳘स्मात्प्रजो᳘त्तरा देवयज्या᳟॥
मूलम् - विस्वरम्
तदस्मा एतत्प्रजामेव परोक्षमाशास्ते । यस्य हि प्रजा भवति- अमुं लोकमात्मनैति । अथास्मिन् लोके प्रजा यजते । तस्मात् प्रजोत्तरा देवयज्या ॥ ३१ ॥
सायणः
[व्याख्यानम् त्रिंशतितमे]
Eggeling
- Moreover, he thereby in a mysterious manner invokes the blessing of offspring for him; for whosoever has offspring,–while he, on his part, goes to yonder world, his offspring sacrifice in this world: hence future worship of the gods means offspring.
३२
विश्वास-प्रस्तुतिः
त᳘दस्मा ऽएत᳘त्पशू᳘नेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥ य᳘स्य हि᳘ पश᳘वो भ᳘वन्ति स पू᳘र्व्वमिष्ट्वाथा᳘परं यजते॥
मूलम् - श्रीधरादि
त᳘दस्मा ऽएत᳘त्पशू᳘नेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥ य᳘स्य हि᳘ पश᳘वो भ᳘वन्ति स पू᳘र्व्वमिष्ट्वाथा᳘परं यजते॥
मूलम् - Weber
त᳘दस्मा एत᳘त्पशू᳘नेव᳘ परो᳘ ऽक्षमा᳘शास्ते य᳘स्य हि᳘ पश᳘वो भ᳘वन्ति स पू᳘र्वमिष्ट्वाथा᳘परं यजते॥
मूलम् - विस्वरम्
तदस्मा एतत् पशूनेव परोक्षमाशास्ते । यस्य हि पशवो भवन्ति- स पूर्वमिष्ट्वाथापरं यजते ॥ ३२ ॥
सायणः
[व्याख्यानम् त्रिंशतितमे]
Eggeling
- Moreover, he thereby in a mysterious manner invokes the blessing of cattle for him; for whosoever has cattle, will sacrifice hereafter, as he has sacrificed heretofore.
३३
विश्वास-प्रस्तुतिः
भू᳘यसि हविष्क᳘रण ऽउ᳘पहूत ऽइ᳘ति॥
त᳘दस्मा ऽएत᳘ज्जीवा᳘तुमेव᳘ परो᳘ ऽक्षमा᳘शास्ते जी᳘वन्हि पू᳘र्व्वमिष्ट्वा᳘थ भू᳘योभूय ऽएव᳘ हवि᳘ष्करो᳘ति॥
मूलम् - श्रीधरादि
भू᳘यसि हविष्क᳘रण ऽउ᳘पहूत ऽइ᳘ति॥
त᳘दस्मा ऽएत᳘ज्जीवा᳘तुमेव᳘ परो᳘ ऽक्षमा᳘शास्ते जी᳘वन्हि पू᳘र्व्वमिष्ट्वा᳘थ भू᳘योभूय ऽएव᳘ हवि᳘ष्करो᳘ति॥
मूलम् - Weber
भू᳘यसि हविष्क᳘रण उ᳘पहूत इ᳘ति॥
त᳘दस्मा एत᳘ज्जीवा᳘तुमेव᳘ परो᳘ ऽक्षमा᳘शास्ते जी᳘वन्हि पू᳘र्वमिष्ट्वा᳘थ भू᳘योभूय एव᳘ हवि᳘ष्करो᳘ति॥
मूलम् - विस्वरम्
“भूयसि हविष्करण उपहूतः”- इति, तदस्मा एतद् जीवातुमेव परोक्षमाशास्ते । जीवन् हि पूर्वमिष्ट्वाथ भूयोभूय एव हविष्करोति ॥ ३३ ॥
सायणः
[व्याख्यानम् त्रिंशतितमे]
Eggeling
- ‘Hither (he is) called for more abundant havis-offering;’ he thereby in a mysterious manner invokes the blessing of life on him; for as he has sacrificed heretofore, so while living will he hereafter again and again make offerings.
३४
विश्वास-प्रस्तुतिः
त᳘दस्मा ऽएत᳘त्प्रजा᳘मेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥ य᳘स्य हि᳘ प्रजा भ᳘वत्ये᳘क ऽआत्म᳘ना भवत्य᳘थोत᳘ द᳘शधा᳘ प्रज᳘या हवि᳘ष्क्रियते त᳘स्मात्प्रजा भू᳘यो हविष्क᳘रणम्॥
मूलम् - श्रीधरादि
त᳘दस्मा ऽएत᳘त्प्रजा᳘मेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥ य᳘स्य हि᳘ प्रजा भ᳘वत्ये᳘क ऽआत्म᳘ना भवत्य᳘थोत᳘ द᳘शधा᳘ प्रज᳘या हवि᳘ष्क्रियते त᳘स्मात्प्रजा भू᳘यो हविष्क᳘रणम्॥
मूलम् - Weber
त᳘दस्मा एत᳘त्प्रजा᳘मेव᳘ परो᳘ ऽक्षमा᳘शास्ते य᳘स्य हि᳘ प्रजा भ᳘वत्ये᳘क आत्म᳘ना भवत्य᳘थोत᳘ दशधा᳘ प्रज᳘या हवि᳘ष्क्रियते त᳘स्मात्प्रजा भू᳘यो हविष्क᳘रणम्॥
मूलम् - विस्वरम्
तदस्मा एतत्प्रजामेव परोक्षमाशास्ते । यस्य हि प्रजा भवति- एक आत्मना भवति,- अथोत दशधा प्रजया हविष्क्रियते । तस्मात्प्रजा भूयो हविष्करणम् ॥ ३४ ॥
सायणः
[व्याख्यानम् त्रिंशतितमे]
Eggeling
- Moreover, he thereby in a mysterious manner invokes the blessing of offspring for this (sacrificer); for whosoever possesses offspring,–though he, of his own self, be one only, yet that offering is made tenfold by his offspring: hence offspring means more abundant offering.
३५
विश्वास-प्रस्तुतिः
त᳘दस्मा ऽएत᳘त्पशू᳘नेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥
य᳘स्य हि᳘ पश᳘वो भ᳘वन्ति स पू᳘र्व्वमिष्ट्वा᳘थ भू᳘योभूय ऽएव᳘ हवि᳘ष्करोति॥
मूलम् - श्रीधरादि
त᳘दस्मा ऽएत᳘त्पशू᳘नेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥
य᳘स्य हि᳘ पश᳘वो भ᳘वन्ति स पू᳘र्व्वमिष्ट्वा᳘थ भू᳘योभूय ऽएव᳘ हवि᳘ष्करोति॥
मूलम् - Weber
त᳘दस्मा एत᳘त्पशू᳘नेव᳘ परो᳘ ऽक्षमा᳘शास्ते॥
य᳘स्य हि᳘ पश᳘वो भ᳘वन्ति स पू᳘र्वमिष्ट्वा᳘थ भू᳘योभूय एव᳘ हविष्करोति॥
मूलम् - विस्वरम्
तदस्मा एतत्पशूनेव परोक्षमाशास्ते । यस्य हि पशवो भवन्ति- स पूर्वमिष्ट्वाथ भूयो भूय एव हविष्करोति ॥ ३५ ॥
सायणः
[व्याख्यानम् त्रिंशतितमे]
Eggeling
- Moreover, he thereby in a mysterious manner invokes the blessing of cattle for him; for whosoever possesses cattle, will make offering again and again, as he has sacrificed heretofore.
३६
विश्वास-प्रस्तुतिः
एषा वा᳘ ऽआशीः᳘॥ जी᳘वेयं प्रजा᳘ मे स्याच्छ्रि᳘यं गच्छेयमि᳘ति तद्य᳘त्पशू᳘नाशा᳘स्ते तच्छ्रि᳘यमा᳘शास्ते श्रीर्हि᳘ पश᳘वस्त᳘देता᳘भ्यामे᳘वैतदाशी᳘र्भ्याᳫँ᳭ स᳘र्व्वमाप्तं त᳘स्माद्वा᳘ ऽएते ऽअ᳘त्र द्वे᳘ ऽआशि᳘षौ क्रियेते॥
मूलम् - श्रीधरादि
एषा वा᳘ ऽआशीः᳘॥ जी᳘वेयं प्रजा᳘ मे स्याच्छ्रि᳘यं गच्छेयमि᳘ति तद्य᳘त्पशू᳘नाशा᳘स्ते तच्छ्रि᳘यमा᳘शास्ते श्रीर्हि᳘ पश᳘वस्त᳘देता᳘भ्यामे᳘वैतदाशी᳘र्भ्याᳫँ᳭ स᳘र्व्वमाप्तं त᳘स्माद्वा᳘ ऽएते ऽअ᳘त्र द्वे᳘ ऽआशि᳘षौ क्रियेते॥
मूलम् - Weber
एषा वा᳘ आशीः᳘ जी᳘वेयम् प्रजा᳘ मे स्याछ्रि᳘यं गछेयमि᳘ति तद्य᳘त्पशू᳘नाशा᳘स्ते तछ्रि᳘यमा᳘शास्ते श्रीर्हि᳘ पश᳘वस्त᳘देता᳘भ्यामेॗवैत᳘दाशी᳘र्भ्याᳫं स᳘र्वमाप्तं त᳘स्माद्वा᳘ एते अ᳘त्र द्वे᳘ आशि᳘षौ क्रियते॥
मूलम् - विस्वरम्
एषा वा आशीः- जीवेयम्, प्रजा मे स्यात्, श्रियं गच्छेयम्- इति । तद्यत्पशूनाशास्ते- तच्छ्रियमाशास्ते । श्रीर्हि पशवः । तदेताभ्यामेवैतदाशीर्भ्यां सर्वमाप्तम् । तस्माद् वा एते अत्र द्वे आशिषौ क्रियेते ॥ ३६ ॥
सायणः
एषा वा आशीः । एषैव, नातो ऽधिका ऽस्तीत्यभिप्रायः । तद्यत्पशूनिति । पशुग्रहणं श्रिय्युपलक्षणार्थमित्यभिप्रायः । तदेताभ्यामिति । यद्यपि जीवनादिलक्षणमेकमुभयत्राभिन्नम्, तथापि स्वरूपेणोत्तरस्या इज्याया बहुहविष्करणं भिद्यते; अल्पेनापि हविषा उत्तरस्या देवयज्याया उपपत्तेः ॥ ३६ ॥
Eggeling
- This then is the benediction (implied in these formulas), ‘May I live, may I have offspring, may
I obtain prosperity!’ Now in praying for the blessing of cattle, he prays for prosperity; for cattle means prosperity: hence through these two benedictions everything is obtained; and therefore these two benedictions are here pronounced.
३७
विश्वास-प्रस्तुतिः
देवा᳘ म ऽइद᳘ᳫँ᳘ हवि᳘र्जुषन्तामि᳘ति॥
त᳘स्मिन्नु᳘पहूत ऽइ᳘ति त᳘द्यज्ञ᳘स्यै᳘वैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाह जुषन्तामि᳘ति॥ [शतम् ७००]
मूलम् - श्रीधरादि
देवा᳘ म ऽइद᳘ᳫँ᳘ हवि᳘र्जुषन्तामि᳘ति॥
त᳘स्मिन्नु᳘पहूत ऽइ᳘ति त᳘द्यज्ञ᳘स्यै᳘वैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाह जुषन्तामि᳘ति॥ [शतम् ७००]
मूलम् - Weber
देवा᳘ म इद᳘ᳫं᳘ हवि᳘र्जुषन्तामि᳘ति॥
त᳘स्मिन्नु᳘पहूत इ᳘ति त᳘द्यज्ञ᳘स्यैवैत᳘त्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाह जुषन्तामि᳘ति॥
मूलम् - विस्वरम्
“देवा म इदं हविर्जुषन्ताम्”- इति । तस्मिन् उपहूतः- इति तद्यज्ञस्यैवैतत्समृद्धिमाशास्ते । यद्धि देवा हविर्जुषन्ते- तेन हि महज्जयति । तस्मादाह- जुषन्तामिति ॥ ३७ ॥
सायणः
देवा म इदं हविः । ‘देवा मे इदं हविः’ ‘जुषन्ताम्’ सेवन्ताम् । यो मनोरथो यजमानस्य तस्य ‘तस्मिन्’ अयमनुज्ञातः, सो ऽस्य समृद्ध्यतामित्यर्थः । तद्यज्ञस्यैवैतादिति । हविर्जोषणद्वारेण यज्ञसमृद्धिफलमाशास्त इति दर्शयति ॥ ३७ ॥
Eggeling
- [He continues to call], ‘Hither (he is) called to this (sacrifice, for the prayer 36), “May the gods graciously accept this my offering (havis)!’’’ he thereby invokes complete success on the sacrifice; for what offering the gods graciously accept, by that one gains great things: for this reason he says, ‘may they graciously accept 37.’
३८
विश्वास-प्रस्तुतिः
तां वै प्रा᳘श्नन्त्येव᳘॥
नाग्नौ᳘ जुह्वति पश᳘वो वा ऽइ᳘डा ने᳘त्पशू᳘नग्नौ᳘ प्रवृण᳘जामे᳘ति त᳘स्मा᳘न्नाग्नौ᳘ जुह्वति॥
मूलम् - श्रीधरादि
तां वै प्रा᳘श्नन्त्येव᳘ 38॥
नाग्नौ᳘ जुह्वति पश᳘वो वा ऽइ᳘डा ने᳘त्पशू᳘नग्नौ᳘ प्रवृण᳘जामे᳘ति त᳘स्मा᳘न्नाग्नौ᳘ जुह्वति॥
मूलम् - Weber
तां वै प्रा᳘श्नन्त्येव᳟᳟॥
नाग्नौ᳘ जुह्वति पश᳘वो वा इ᳘डा ने᳘त्पशू᳘नग्नौ᳘ प्रवृण᳘जामे᳘ति त᳘स्माॗन्नाग्नौ᳘ जुह्वति॥
मूलम् - विस्वरम्
तां वै प्राश्नन्त्येव, नाग्नौ जुह्वति । पशवो वा इडा-नेत् पशूनग्नौ प्रवृणजाम इति । तस्मान्नाग्नौ जुह्वति ॥ ३८ ॥
सायणः
तां वै प्राश्नन्त्येव । प्रसन्ना ॥ ३८ ॥
Eggeling
- They (the priests and sacrificer) eat it (the iḍā), and do not offer it up in the fire; for assuredly the iḍā means cattle: hence they do not offer it in the fire, lest they should throw the cattle into the fire.
३९
विश्वास-प्रस्तुतिः
प्राणे᳘ष्वेव᳘ हूयते॥
हो᳘तरि त्वद्य᳘जमाने त्वदध्वर्य्यो᳘ त्वद᳘थ य᳘त्पूर्व्वार्द्धं᳘ पुरोडा᳘शस्य प्रशी᳘र्य पुर᳘स्ताद्ध्रुवा᳘यै निद᳘धाति य᳘जमानो वै᳘ ध्रुवा तद्य᳘जमानस्य प्रा᳘शितं भवत्य᳘थ य᳘त्प्रत्य᳘क्षं न᳘ प्राश्ना᳘ति नेद᳘सᳫं᳘स्थिते यज्ञे᳘ प्राश्नानी᳘त्येत᳘दे᳘वास्य प्रा᳘शितं भवति स᳘र्व्वे प्रा᳘श्नन्ति स᳘र्व्वेषु मे हु᳘तासदि᳘ति प᳘ञ्च प्रा᳘श्नन्ति पश᳘वो वा ऽइ᳘डा पा᳘ङ्क्ता वै᳘ पश᳘वस्त᳘स्मात्प᳘ञ्च प्रा᳘श्नन्ति᳘॥
मूलम् - श्रीधरादि
प्राणे᳘ष्वेव᳘ हूयते॥
हो᳘तरि त्वद्य᳘जमाने त्वदध्वर्य्यो᳘ त्वद᳘थ य᳘त्पूर्व्वार्द्धं᳘ पुरोडा᳘शस्य प्रशी᳘र्य पुर᳘स्ताद्ध्रुवा᳘यै निद᳘धाति य᳘जमानो वै᳘ ध्रुवा तद्य᳘जमानस्य प्रा᳘शितं भवत्य᳘थ य᳘त्प्रत्य᳘क्षं न᳘ प्राश्ना᳘ति नेद᳘सᳫं᳘स्थिते यज्ञे᳘ प्राश्नानी᳘त्येत᳘दे᳘वास्य प्रा᳘शितं भवति स᳘र्व्वे प्रा᳘श्नन्ति स᳘र्व्वेषु मे हु᳘तासदि᳘ति प᳘ञ्च प्रा᳘श्नन्ति पश᳘वो वा ऽइ᳘डा पा᳘ङ्क्ता वै᳘ पश᳘वस्त᳘स्मात्प᳘ञ्च प्रा᳘श्नन्ति᳘॥
मूलम् - Weber
प्राणे᳘ष्वेव᳘ हूयते॥
हो᳘तरि त्वद्य᳘जमाने त्वदध्वर्यौ᳘ त्वद᳘थ य᳘त्पूर्वार्ध᳘म् पुरोडा᳘शस्य प्रशी᳘र्य पुर᳘स्ताद्ध्रुवा᳘यै निद᳘धाति य᳘जमानो वै᳘ ध्रुवा तद्य᳘जमानस्य प्रा᳘शितम् भवत्य᳘थ य᳘त्प्रत्य᳘क्षं न᳘ प्राश्ना᳘ति नेद᳘संस्थिते यज्ञे᳘ प्राश्नानी᳘त्येत᳘देॗवास्य प्रा᳘शितम् भवति स᳘र्वे प्रा᳘श्नन्ति स᳘र्वेषु मे हुॗतासदि᳘ति प᳘ञ्च प्रा᳘श्नन्ति पश᳘वो वा इ᳘डा पा᳘ङ्क्ता वै᳘ पश᳘वस्त᳘स्मात्प᳘ञ्च प्रा᳘श्नन्ति॥
मूलम् - विस्वरम्
प्राणेष्वेव हूयते- होतरि त्वद्, यजमाने त्वद्, अध्वर्यौ त्वद् । अथ यत्पूर्वार्द्धं पुरोडाशस्य- प्रशीर्य पुरस्ताद्ध्रुवायै निदधाति- यजमानो वै ध्रुवा, तद्यजमानस्य प्राशितं भवति । अथ यत्प्रत्यक्षं न प्राश्नाति- ‘नेदसंस्थिते यज्ञे प्राश्नानि’ इति । एतदेवास्य प्राशितं भवति । सर्वे प्राश्नन्ति- सर्वेषु मे हुतासदिति । पञ्च प्राश्नन्ति । पशवो वा इडा, पाङ्क्ता वै पशवः- तस्मात् पञ्च प्राश्नन्ति ॥ ३९ ॥
सायणः
प्राणेष्वेव । त्वच्छन्दः समुच्चयार्थः । होत्रादिग्रहणं प्रदर्शनार्थम्, ब्रह्माग्नीध्रयोरपि 38; “पञ्च प्राश्नन्ति”- इति वचनात् । अथ यत्पूर्वार्द्धमिति । पुनर्वचनं यजमानभागत्वज्ञापनार्थम् । नेदसंस्थित इति । नो संस्थिते; प्राश्नातीति वचनाद्गम्यते । ‘अस्य’ यजमानस्य ‘प्राशितं भवति’ इति । अग्नौ हुत्वाथ भक्षयति । “देवो वा अस्यैष आत्मा मानुषो ऽयम्”- इत्यनेन दर्शनेनावश्यं यजमानेन प्राशनीयमित्यभिप्रायः । अथ यत्प्रत्यक्षमिति । यजमानभागमनुपहूतं न प्राश्नाति; इडां तु विशेषत उपहूतां प्राश्नात्येव 39 । नेदसंस्थिते इति । अद्यापि अनुयाजपत्नीसंयाजदेवता नेज्यन्ते; तास्वनिष्टास्वयुक्तं स्वयमशनमित्यभिप्रायः । एतदेवास्येति । होमानन्तरमेव प्राशितं भवतीत्यभिप्रायः । अन्ते तु प्रत्यक्षमेव प्राशिष्यति; अप्राश्यमाने यजमाने भागत्वव्यपदेशानुपपत्तेः । “सर्वे प्राश्नन्ति” इडामिति सम्बध्यते ॥ ३९ ॥
Eggeling
- In the vital airs rather it is offered, partly in the Hotr̥, partly in the Sacrificer, partly in the Adhvaryu. Now, when he has broken off the forepart of the (Agni) cake, he places it before the dhruvā-spoon. But the dhruvā represents the sacrificer: hence this will be eaten by the sacrificer. And if he does not now visibly eat it, lest he should eat before the sacrifice is completed, it nevertheless is now (symbolically) eaten by him. All of them
eat (of the iḍā): ‘May it be offered for me in all!’ thus (he thinks). Five eat of it,–the iḍā indeed means cattle, and cattle are fivefold: hence five eat of it.
४०
विश्वास-प्रस्तुतिः
(न्त्य᳘) अ᳘थ य᳘त्र प्रतिप᳘द्यते॥
त᳘च्चतुर्द्धा᳘ पुरोडाशं कृत्वा᳘ बर्हिष᳘दं करोति तद᳘त्र पितॄणां भा᳘जनेन च᳘तस्रो वा᳘ ऽअवान्तरदि᳘शो ऽवान्तरदि᳘शो वै᳘ पित᳘रस्त᳘स्माच्चतुर्धा᳘ पुरोडा᳘शं कृत्वा᳘ बर्हिष᳘दं करोति᳘॥
मूलम् - श्रीधरादि
(न्त्य᳘) अ᳘थ य᳘त्र प्रतिप᳘द्यते॥
त᳘च्चतुर्द्धा᳘ पुरोडाशं कृत्वा᳘ बर्हिष᳘दं करोति तद᳘त्र पितॄणां भा᳘जनेन च᳘तस्रो वा᳘ ऽअवान्तरदि᳘शो ऽवान्तरदि᳘शो वै᳘ पित᳘रस्त᳘स्माच्चतुर्धा᳘ पुरोडा᳘शं कृत्वा᳘ बर्हिष᳘दं करोति᳘॥
मूलम् - Weber
अ᳘थ य᳘त्र प्रतिप᳘द्यते॥
त᳘च्चतुर्धा᳘ पुरोडा᳘शं कृत्वा᳘ बर्हिष᳘दं करोति तद᳘त्र पितृणां भा᳘जनेन च᳘तस्रो वा᳘ अवान्तरदि᳘शो ऽवान्तरदि᳘शो वै᳘ पित᳘रस्त᳘स्माच्चतुर्धा᳘ पुरोडा᳘शं कृत्वा᳘ बर्हिष᳘दं करोति॥
मूलम् - विस्वरम्
अथ यत्र प्रतिपद्यते- तच्चतुर्धां पुरोडाशं कृत्वा बर्हिषदं करोति । तदत्र पितॄणां भाजनेन । चतस्रो वा अवान्तरदिशः । अवान्तरदिशो वै पितरः । तस्माच्चतुर्धा पुरोडाशं कृत्वा बर्हिषदं करोति ॥ ४० ॥
सायणः
अथ यत्र प्रतिपद्यते । ‘यत्र’ काले होता ‘प्रतिपद्यते’ “इडोपहूता” 40 -इत्यतं 39 निगदम् ‘तत्’ तदा ‘चतुर्द्धा कृत्वा पुरोडाशम्’ आग्नेयम्; “आग्नेयं चतुर्द्धा करोति” -इति शाखान्तरात् । बर्हिषि सीदतीति ‘बर्हिषत्’ । यथा बर्हिषद् भवति, तथा करोति; बर्हिषि सादयतीत्यर्थः । (तच्चतुर्द्धाकरणमाग्नेयस्य पुरोडाशस्य ब्रह्महोत्रध्वर्य्वग्नीधां भक्ष इति । एवं चतुःप्रकारं चतुर्द्धा, अयजमानाश्चत्वारः प्राश्नन्तीत्येव न पञ्च प्राश्नन्तीति विरोधः) ‘तत्’ चतुर्द्धा कृतस्य बर्हिषः सादनम्, ‘अत्र’ दर्शपूर्णमासयोः ‘पितॄणां भाजनेन हेतुना, क्रियत इति शेषः। पितॄणां संविभागार्थ इत्यर्थः । किं तत् पितृभ्यो दीयते ? नेत्याह । किन्तर्हि ? चतुस्सङ्ख्यासामान्याद् बर्हिस्सम्बन्धाच्चात्र भक्तिमात्रमेतत् । तदाह- चतस्रो वा इति । अवान्तरदिशो वै पितर इति । तासु हि पितृयज्ञेन तेभ्यो दीयते 41 । तस्मादिति निगमः ॥ ४० ॥
Eggeling
- Now when he (the Hotr̥) intones (in a loud voice) 42, he (the Adhvaryu) divides the (Agni) cake into four parts, and lays it on the barhis (the sacrificial grass covering the altar). Here it lies in place of the fathers; for there are four intermediate quarters, and the intermediate quarters represent the fathers: for this reason he divides the cake into four parts, and lays it on the barhis 43.
४१
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ यत्राहो᳘पहूते द्या᳘वापृथिवी ऽइ᳘ति॥
त᳘दग्नी᳘ध आ᳘दधाति त᳘दग्नीत्प्रा᳘श्नात्यु᳘पहूता पृथिवी᳘ मातो᳘प मां᳘ पृथिवी᳘ माता᳘ ह्वयतामग्निरा᳘ग्नीध्रात्स्वाहो᳘पहूतो द्यौ᳘ष्पितो᳘प मां द्यौ᳘ष्पिता᳘ह्वयतामग्निरा᳘ग्नीध्रात्स्वाहे᳘ति द्यावापृथि᳘व्यो वा᳘ ऽएष यदा᳘ग्नीध्रस्त᳘स्मादेवं प्रा᳘श्नाति᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ यत्राहो᳘पहूते द्या᳘वापृथिवी ऽइ᳘ति॥
त᳘दग्नी᳘ध आ᳘दधाति त᳘दग्नीत्प्रा᳘श्नात्यु᳘पहूता पृथिवी᳘ मातो᳘प मां᳘ पृथिवी᳘ माता᳘ ह्वयतामग्निरा᳘ग्नीध्रात्स्वाहो᳘पहूतो द्यौ᳘ष्पितो᳘प मां द्यौ᳘ष्पिता᳘ह्वयतामग्निरा᳘ग्नीध्रात्स्वाहे᳘ति द्यावापृथि᳘व्यो वा᳘ ऽएष यदा᳘ग्नीध्रस्त᳘स्मादेवं प्रा᳘श्नाति᳘॥
मूलम् - Weber
अ᳘थ यत्राहो᳘पहूते द्या᳘वापृथिवी इ᳘ति॥
त᳘दग्नी᳘ध आ᳘दधाति त᳘दग्नीत्प्रा᳘श्नात्यु᳘पहूता पृथिवी᳘ मातो᳘प मा᳘म् पृथिवी᳘ माता᳘ ह्वयतामग्निरा᳘ग्नीध्रात्स्वाहो᳘पहूतो द्यौ᳘ष्पितो᳘प मां द्यौ᳘ष्पिता᳘ ह्वयतामग्निरा᳘ग्नीध्रात्स्वाहे᳘ति द्यावापृथिॗव्यो वा᳘ एष यदा᳘ग्नीध्रस्त᳘स्मादेवम् प्रा᳘श्नाति॥
मूलम् - विस्वरम्
अथ यत्राह- ‘उपहूते द्यावापृथिवी’ इति । तदग्नीध आदधाति, तदग्नीत् प्राश्नाति । “उपहूता पृथिवी माता, उपमां पृथिवी माताह्वयताम्, अग्निराग्नीध्रात् स्वाहा” -(वा० सं० २ । १०) “उपहूतो द्यौः पिता, उप मां द्यौः पिता ह्वयताम्, अग्निराग्नीध्रात् स्वाहा” ( वा० सं० २ । ११) इति । द्यावापृथिव्यो वा एषः- यदाग्नीध्रः, तस्मादेयं प्राश्नाति ॥ ४१ ॥
सायणः
अथ यत्राहोपहूते । ‘तदग्नीध आदधाति’ । आङ्पूर्वे दधातिः (धा. जु. उ. १०) अन्यत्र स्थापने प्रयुक्तो ऽत्र त्वर्पणे द्रष्टव्यः । न चैष इडाभागः; किं तर्हि ? अन्य एवायमग्नीद्भागः 44; प्राशित्रञ्चेडा च, यच्चाग्नीध आदधातीतीडाया भेदेन व्यपदेशात् । एतेन ब्रह्मभागयजमानभागयोरपीडाव्यतिरेकः सिद्धः । ‘द्यावापृथिव्यो वा एष यदाग्नीध्रः’ । अग्निमिन्धे दीपयति सम्मार्गेणेति ‘अग्नीत्’ । अग्निसमिन्धनादियोगादाग्नीध्रस्य तत्परत्वम् । स इन्द्रः द्यावापृथिव्यौ तर्पयति । “धूमेनामूं वृष्ट्येमाम्” -(ऋ. सं. १ । १६४ । ५१ ।) इति । धूमेन ‘अमूं’ द्याम्, वृष्ट्या ‘इमां’ पृथिवीमिति द्यावापृथिव्यौ आग्नीध्रः; तस्मिन् भक्षणादिना प्रीते सिद्धे, सिद्धा द्यावापृथिव्योः प्रीतिरिति ॥ ४१ ॥
Eggeling
- And when he recites, ‘Hither are called heaven and earth,’ he hands it (the shaḍavatta 45) to the Āgnīdhra. The Āgnīdhra eats (the two pieces), with the respective texts (Vāj. S. II, 10-11), ‘Hither is called mother Earth; may mother Earth call me to her! Agni (am I) by virtue of my Āgnīdhraship. Hail!’ ‘Hither is called father Heaven; may father Heaven call me to him! Agni (am I) by virtue of my Āgnīdhraship. Hail!’ He, the Āgnīdhra, truly is the representative of heaven and earth, and therefore he eats (the shaḍavatta) in this manner.
४२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘त्राशि᳘षमाशा᳘स्ते॥
त᳘ज्जपति म᳘यीदमि᳘न्द्र इन्द्रि᳘यं दधात्वस्मान्रा᳘यो मघ᳘वानः सचन्ताम्॥ अस्मा᳘कᳫँ᳭सन्त्वाशि᳘षः सत्या᳘ नः सन्त्वाशि᳘ष ऽइ᳘त्याशि᳘षामे᳘वैष᳘ प्रतिग्रहस्तद्या᳘ ऽएवा᳘त्र ऽर्त्वि᳘जो य᳘जमानायाशि᳘ष ऽआशा᳘सते ता᳘ ऽए᳘वैत᳘त्प्रतिगृ᳘ह्यात्म᳘न्कुरुते᳘॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘त्राशि᳘षमाशा᳘स्ते॥
त᳘ज्जपति म᳘यीदमि᳘न्द्र इन्द्रि᳘यं दधात्वस्मान्रा᳘यो मघ᳘वानः सचन्ताम्॥ अस्मा᳘कᳫँ᳭सन्त्वाशि᳘षः सत्या᳘ नः सन्त्वाशि᳘ष ऽइ᳘त्याशि᳘षामे᳘वैष᳘ प्रतिग्रहस्तद्या᳘ ऽएवा᳘त्र ऽर्त्वि᳘जो य᳘जमानायाशि᳘ष ऽआशा᳘सते ता᳘ ऽए᳘वैत᳘त्प्रतिगृ᳘ह्यात्म᳘न्कुरुते᳘॥
मूलम् - Weber
अ᳘थ य᳘त्राशि᳘षमाशा᳘स्ते॥
त᳘ज्जपति म᳘यीदमि᳘न्द्र इन्द्रि᳘यं दधात्वस्मान्रा᳘यो मघ᳘वानः सचन्ताम् अस्मा᳘कᳫं सन्त्वाशि᳘षः सत्या᳘ नः सन्त्वाशि᳘ष इ᳘त्याशि᳘षामेॗवैष᳘ प्रतिग्रहस्तद्या᳘ एवा᳘त्रर्त्वि᳘जो य᳘जमानायाशि᳘ष आशा᳘सते ता᳘ एॗवैत᳘त्प्रतिगृ᳘ह्यात्म᳘न्कुरुते॥
मूलम् - विस्वरम्
अथ यत्राशिषमाशास्ते- तज्जपति- ‘मयीदमिन्द्र इन्द्रियं दधातु, अस्मान् रायो मघवानः सचन्ताम् । अस्माकं सन्त्वाशिषः, सत्या नः सन्त्वाशिषः’- (वा० सं० २ । १०) इति । आशिषामेवैष प्रतिग्रहः । तथा एवात्रर्त्विजो यजमानायाशिष आशासते- ता एवैतत्प्रतिगृह्यात्मन् कुरुते ॥ ४२ ॥
सायणः
अथ यत्राशिषम् । ‘यत्र’ काले ‘आशिषम्’ “उपहूतो ऽयं यजमान उत्तरस्यां देवयज्यायाम्” इति होता ‘आशास्ते’, ‘तत्’ तदा जपति 44 । कः ? यजमानः, आशिषां तदर्थत्वात् । “तद्या एवात्रर्विजो यजमानायाशिष आशासते, ता एवैतत् प्रतिगृह्यात्मन् कुरुते”- इति वाक्यशेषात् ॥ ४२ ॥
Eggeling
- And when (the Hotr̥) pronounces the benediction 46, then (the sacrificer) mutters (Vāj. S. II, 10 a), ‘May Indra bestow on me that power of his! may abundant riches accrue to us! may there be blessings for us! may there be true blessings for us!’ For indeed this is a receiving of blessings: hence what blessings the priests on this occasion invoke on him, those he thereby receives and makes his own.
४३
विश्वास-प्रस्तुतिः
(ते᳘ ऽथ) अ᳘थ पवि᳘त्रयोर्मार्जयन्ते॥
पाकयज्ञिय᳘येव वा᳘ ऽएतदि᳘डयाचारिषुः पवि᳘त्रपूता यद᳘त ऽऊर्द्ध्वम᳘सᳫंस्थितं य᳘ज्ञ᳘स्य त᳘त्तनवामहा ऽइ᳘ति त᳘स्मात्पवि᳘त्रयोर्मार्ज्जयन्ते᳘॥
मूलम् - श्रीधरादि
(ते᳘ ऽथ) अ᳘थ पवि᳘त्रयोर्मार्जयन्ते॥
पाकयज्ञिय᳘येव वा᳘ ऽएतदि᳘डयाचारिषुः पवि᳘त्रपूता यद᳘त ऽऊर्द्ध्वम᳘सᳫंस्थितं य᳘ज्ञ᳘स्य त᳘त्तनवामहा ऽइ᳘ति त᳘स्मात्पवि᳘त्रयोर्मार्ज्जयन्ते᳘॥
मूलम् - Weber
अ᳘थ पवित्रयोर्मार्जयन्ते॥
पाकयज्ञिय᳘येव वा᳘ एतदि᳘डयाचारिषुः पवि᳘त्रपूता यद᳘त ऊर्ध्वम᳘संस्थितं यज्ञ᳘स्य त᳘त्तनवामहा इ᳘ति त᳘स्मात्पवि᳘त्रयोर्मार्जयन्ते॥
मूलम् - विस्वरम्
अथ पवित्रयोर्मार्जयन्ते । पाकयज्ञिययेव वा एतदिडयाचारिषुः- पवित्रपूता- यदत ऊर्ध्वमसंस्थितं यज्ञस्य- तत्तनवामहा इति । तस्मात्पवित्रयोर्मार्जयन्ते ॥ ४३ ॥
सायणः
अथ पवित्रयोः । ‘पवित्रयोः’ पवित्राभ्यामिति विभक्तिव्यत्ययः । कुतः ? ‘पवित्रपूता यदत ऽऊर्ध्वमसंस्थितं यज्ञस्य तत्तनवामहै’- इति वाक्यशेषात् । मार्जयन्ते 44 “मृज् शौचालङ्कारयोः” (चुरा. उभ. ३१५) । चौरादिकत्वाण्णिच् (पा. सू. ३ । १ । २५) । शोधयन्त्यात्मानमित्यर्थः ॥ ४३ ॥
Eggeling
- [On the conclusion of the invocation and the eating 47] they cleanse themselves (with water poured)
through the two strainers (pavitra, ‘purifier’). For they have now performed the iḍā, which represents the domestic offerings; and thinking, ‘Purified by the purifiers we will now perform what part of the sacrifice remains still unaccomplished,’ they cleanse themselves with the strainers.
४४
विश्वास-प्रस्तुतिः
(न्ते᳘ ऽथ) अ᳘थ ते᳘ पवि᳘त्रे प्रस्तरे᳘ ऽपिसृजति॥
य᳘जमानो वै᳘ प्रस्तरः᳘ प्राणोदानौ᳘ पवि᳘त्रे य᳘जमाने त᳘त्प्राणोदानौ᳘ दधाति त᳘स्मात्ते᳘ पवि᳘त्रे प्रस्तरे᳘ ऽपिसृजति॥
मूलम् - श्रीधरादि
(न्ते᳘ ऽथ) अ᳘थ ते᳘ पवि᳘त्रे प्रस्तरे᳘ ऽपिसृजति॥
य᳘जमानो वै᳘ प्रस्तरः᳘ प्राणोदानौ᳘ पवि᳘त्रे य᳘जमाने त᳘त्प्राणोदानौ᳘ दधाति त᳘स्मात्ते᳘ पवि᳘त्रे प्रस्तरे᳘ ऽपिसृजति॥
मूलम् - Weber
अ᳘थ ते᳘ पवि᳘त्रे प्रस्तरे᳘ ऽपिसृजति॥
य᳘जमानो वै᳘ प्रस्तरः᳘ प्राणोदानौ᳘ पवि᳘त्रे य᳘जमाने त᳘त्प्राणोदानौ᳘ दधाति त᳘स्मात्ते᳘ पवि᳘त्रे प्रस्तरे᳘ ऽपिसृजति॥
मूलम् - विस्वरम्
अथ ते पवित्रे प्रस्तरे ऽपिसृजति । यजमानो वै प्रस्तरः, प्राणोदानौ पवित्रे; यजमाने तत् प्राणोदानौ दधाति । तस्मात्ते पवित्रे प्रस्तरे ऽपिसृजति ॥ ४४ ॥
सायणः
अथ ते पवित्रे । ‘यजमानो वै प्रस्तरः’ इतरस्माद्बर्हिष उत्कृष्टतरत्वात् । ‘प्राणोदानौ पवित्रे, द्वित्वात् । अपिसृजति ‘संसृजति’ 44 ॥ ४४ ॥ ३ ॥ (८ । १)
श्रीमतो ऽवन्तिनाथस्य विक्रमार्कक्षितीशितुः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥
इत्याचार्य- श्रीहरिस्वामिनः कृतौ शतपथभाष्ये हविर्यज्ञेषु अष्टमाध्याये प्रथमं ब्राह्मणम् ।
Eggeling
- He (the Adhvaryu) then throws the two strainers on the prastara 48. The prastara, doubtless, represents the sacrificer, and the two strainers the out-breathing and in-breathing: hence he thereby invokes out-breathing and in-breathing on the sacrificer; and for this reason he throws the strainers on the prastara.
-
216:1 For other translations of this important legend of the deluge, see A. Weber, Ind. Streifen, I, p. 9 (Ind. Stud. I, 161 seq:).; Max Müller, History of Ancient Sanskrit Literature, p. 425; J. Muir, Original Sanskrit Texts, I, p. 182. For the later versions of the same legend, especially the one from the Mahābhārata (Vanaparvan 22747-12802), see Original Sanskrit Texts, I, p. 196 seq. ↩︎
-
रलयोरभेदात् ‘पालयिष्यामि’ इत्येव तु क्वचित्पाठः ।- “पार तीर कर्म-समाप्तौ” इति चास्ति चु. प. ३७८ धा. ॥ ↩︎
-
216:2 According to the scholiast, ‘it will carry away all these creatures that live in Bharatavarsha to some other country.’ ↩︎
-
216:3 ? Saśvad dha jḥasha āsa, sa hi jyeshṭḥaṁ vardhate ’thetithīṁ samāṁ tad augha āgantā. ‘Bald war er ein Grossfisch (jḥasha), denn er wuchs gewaltig,’ Weber. ‘He became soon a large fish. He said to Manu, “When I am full-grown, in the same year the flood will come,”’ Max Müller. ‘Straightway he became a large fish; for he waxes to the utmost,’ Muir. Perhaps jḥasha is here intended for the name of some fabulous horned fish (cf. śr̥ṅgi, śr̥ṅgī). In the Black Yajur-veda (Taitt. S. I, 7, 1; II, 6, 7) the iḍā is represented as a cow, produced by Mitra and Varuṇa (see below, par. 24). Perhaps it was this version and the symbolical representation of the iḍā as meaning cattle, which suggested the notion of a horned fish, in adapting an older legend. ↩︎
-
217:1 I adopt here, though not without hesitation, the interpretation proposed in the St. Petersb. Dict. (s.v. upa-ās), which the separation of mām from the verb favours. Professor Max Müller translates: ‘Build a ship then, and worship me.’ Dr. Muir: ‘Thou shalt, therefore, construct a ship, and resort to me.’ The Mahābhārata has: ‘When standing on the ship, thou shalt look out for me: I shall be recognisable (by my being) furnished with a horn,’ which, after all, may furnish the correct explanation of our passage. ↩︎
-
217:2 Or, ‘it,’ that is, either the ship, or the fish. That abhi-dudrāva, the reading of the Kāṇva school, is the right one, seems to follow from the next paragraph. Professor Weber’s edition has ati-dudrāva, as read by his best MS., ‘it (or he) sailed across the mountain.’ The reading of the other MSS. adhi-dudrāva must be a clerical error, most likely for abhi-dudrāva. Professor Müller translates: ‘The fish carried him by it over the northern mountain.’ Dr. Muir: ‘By this means he passed over (or, he hastened to) this northern mountain.’ ↩︎
-
217:3 Antaśchaitsīt,? ‘cut thee asunder,’ Max Müller; ‘wash thee away;’ ‘fortspült,’ Weber; ‘abschneiden, intercludere,’ St. Petersb. Dict. I adopt this last meaning, = ’leave thee stranded.’ ↩︎
-
218:1 According to the version of the Mahābhārata, ’the peak of the Himālaya to which the ship was tied, was afterwards called naubandhana, ’the tying of the ship.’ Professor Weber also draws attention to Ath.-veda XIX, 39, 8, where the term nāvaprabhraṁśana or ‘gliding down of the ship’ is used in connection with the summit of the Himavat. ↩︎
-
218:2 Pibdamānā-iva, as taken by the St. Petersb. Dict. The meaning ‘dripping with fat, unctuous,’ offered by the commentator, was probably suggested to him by what follows in the text; and by the cow-version (p. 216, note 3), Taitt. Br. II, 6, 7, 1. ↩︎
-
218:3 Or, as the commentator takes it, ‘she both promised and did not promise it;’ that is to say, she promised, inasmuch as she (Iḍā) is called maitrāvaruṇī (belonging to, or the daughter of, Mitra or Varuṇa; see XIV, 9, 4, 27), but refused, inasmuch as Mitra and Varuṇa have no share in the in portions. ↩︎
-
इडाशब्देनेडायामक्तं पुरोडाशादिहविर्द्रव्यमुच्यते । ↩︎
-
219:1 Iḍayā carati has the double meaning ’lives with Iḍā (the woman)’ and ‘practices sacrificial rites with the iḍā-ceremony.’ ↩︎
-
219:2 See p. 16, note 1. ↩︎
-
219:3 The technical expression used for this fivefold cutting of the iḍā is sam-ava-do, ’to cut off completely (or together),’ or, according to the St. Petersb. Dict., ’to divide and collect the pieces.’ The five cuttings of the iḍā consist of the upastaraṇa, or underlayer of butter in the iḍāpātrī; of two cuttings of each of the havis (or dishes of sacrificial food) from their southern and central parts respectively; and of two drippings (or bastings, abhighāraṇa) of butter, as in the case of the svishṭakr̥t (see Kāty. III, 4, 6, and note on I, 7, 3, 20). According to some authorities, the iḍā consists of four cuttings only (cf. Hillebrandt, Neu- and Vollm. p. 122). ↩︎
-
220:1 According to Kāty. III, 4, 8, 9, he does so without quitting his hold of the iḍā; and he withdraws the latter from the Hotr̥; when he anoints him. ↩︎
-
“प्रदेशिन्याः पर्वणी उत्तमे अंजयित्यौष्ठयोरभ्वात्मं निमार्ष्टि” इति आश्व० श्रौ. सू. १ अ. ७. खं. ॥ ↩︎
-
220:2 A gesture here indicates the two middle joints (or, according to Harisvāmin, the intermediate links) of the Hotr̥’s right fore-finger, viz. first the lower joint, and afterwards (par. 15) the upper joint; whereupon the Hotr̥ applies the respective joints to his lips and smears the butter on them, cf. Āśv. Ś. I, 7, 1; Kāty. III, 4, 9; Hillebrandt, op. cit., p. 124. In Śat. Br. XII, 2, 4, 5 the fore-finger is called annāditamā, or the finger ‘which eats most food;’ cf. Weber, Pratijñāsūtra, p. 97. ↩︎ ↩︎
-
एतन्मन्त्रस्तद्व्याख्यानं च तै. सं. २ । ६ । ८ । इत्यत्र द्रष्टव्यम् । ↩︎ ↩︎
-
221:1 Enām hotari śrayati, literally ‘he makes it enter into, remain in, the Hotr̥.’ The author, however, here, as in I, 6, 4, 7, mixes up the verb śri with śrā, ’to cook.’ The reason for this see p. 177, note 4. ↩︎
-
221:2 This, according to Āśv. Śr. I, 7, 3, and comm., is effected in the following way: the Hotr̥ takes the iḍā with his joined hands (añjali) and makes it lie in his left hand; whereupon the Adhvaryu cuts the (fivefold cut) avāntareḍā from the iḍā into the Hotr̥’s right hand, the fingers of which point northwards; the five cuttings apparently consist of the ‘underlayer’ of butter, two pieces cut from the iḍā, and drippings of butter on them. Cf. Hillebrandt, op. cit., p. 125. ↩︎
-
221:3 During the invocation of the iḍā the Hotr̥ holds the butter (as well as the avāntareḍā), and the other priests (except the Brahman) and the sacrificer touch the iḍā (or, according to Karka, the Hotr̥). Kāty. III, 4, 11, 12. ↩︎
-
222:1 There are considerable differences between the text of, the Hotr̥’s call to the iḍā as here given and that given in Āśv. Ś. I, 7, 7. The text of the Black Yajur-veda (Taitt. Br. III, 5, 8; Taitt. S. II, 6, 7; I, 7, 1), on the other hand, only differs from ours in one or two points. According to Āśv. Ś. I, 5, 28, the calls are to be uttered in the highest pitch (cf. Hillebrandt, Neu- and Vollmondsopfer, p. 126, note). ↩︎
-
222:2 Viz. the Hotr̥, as the representative of the officiating priests. Schol. ↩︎
-
222:3 On the rathantara and br̥hat sāmans, see p. 196, note 2. The vāmadevya sāman is Sāma-veda II, 32-34: kayā naś citra ā bhuvad ūtī sadāvr̥dhaḥ sakhā, ‘with what favour will he assist us, the wonderful, ever-gladdening, friend,’ &c. Cf. Haug, Ait. Br. II, 246. ↩︎
-
222:4 For upahūtā gāvaḥ, the Taitt. reads upahūtā dhenuḥ, ‘called hither is the cow.’ Āśval. Śr. has upahūtā gāvaḥ sahāśiraḥ–upahūtā dhenuḥ sahar̥shabhā. Here and after the succeeding calls we have apparently to supply the inverse formulas, ‘May the cows together with the bull call us,’ &c., as in Taitt. Br., they being likewise omitted in Taitt. S. II, 6, 7. ↩︎
-
223:1 The seven Hotr̥s comprise the Hotr̥ with his assistants, the Maitrāvaruṇa (or Praśāstri), and Acchāvāka; and the chief assistants of the Brahman, viz. the Brāhmaṇācchaṁsin, Āgnīdhra, Potr̥, and Neshṭr̥. The Grāvastut, another assistant of the Hotr̥, is often added as eighth Hotr̥. Cf. Haug, Ait. Br. II, p. 147. Instead of upahūtā saptahotrā in our text, the Kāṇva text and the Black Yajur-veda read upahūtāḥ saptahotrāḥ, ‘called hither are the seven Hotr̥ships;’ Āśval. Śr. upahūtā divyā sapta hotāraḥ, ‘called hither are the seven divine Hotr̥s.’ ↩︎
-
223:2 Bhaksha, ’the eating, enjoying;’ perhaps the author here takes it in the sense of ‘feeder,’ in that of ’eater, quaffer;’ Sāyaṇa, on Taitt. S. II, 6, 7, 3, takes it as Soma-drink (somapītha). ↩︎
-
223:3 Apparently, like hikkā (verb hikk), imitative of the internal sound of the hiccough. The Kāṇva MS. has harik instead; and the Black Yajus ho, which it identifies with the self (ātman). ↩︎
-
‘तस्य विच्छेदार्थम्’ ‘तस्याविच्छेदार्थम्’ इत्यपि क्वचित् पाठः । ↩︎
-
224:1 After ‘May Iḍā also call us to her,’ he repeats ‘Iḍā is called hither! Called hither (thither) is Ida!’ ↩︎
-
224:2 See I, 8, 1, 7-8, with note 3. ↩︎
-
224:3 Brahma devakr̥topahūtā; the Black Yajur-veda and Āśval. Śr. read ‘brahma devakr̥tam upahūtam.’ Cf. Taitt. S. I, 7, 1, 5, brahma vai devānām br̥haspatiḥ. ↩︎
-
225:1 ? The commentator remarks: ‘He says, The divine Adhvaryus assuredly are the calves,’ because, in his opinion, the sānnāyya constitutes the sacrificial food which contains the Adhvaryus (havis–adhvaryuvat). In I, 1, 2, 17 we met with the Aśvins as the two divine Adhvaryus. ↩︎
-
226:1 With this and the following paragraphs cf. I, 9, 1, 12 seq. ↩︎
-
227:1 See Sāyaṇa’s comm. on Taitt. S. II, 6, 7, 6. ↩︎
-
227:2 Before this formula the Black Yajur-veda inserts, ‘Called (he is) to the heavenly abode!’ and after it as the final formula, ‘All that is dear to him (the sacrificer) is called! Called (he is) of (? by) everything dear that is called!’ Taitt, Br. III, 5, 9, 3. For the modifications of the concluding mantras in the case of the iḍā being invoked for the mistress of the house (Śat. Br. I, 9, 2, 5), see Taitt. Br, III, 5, 13. ↩︎
-
इदमिह पुरोडाशप्राशनमाशीराशासनञ्च संहितापाठे विपर्ययेणाम्नायेते । संहितायां तु - (१) संज्योतिषा ज्योतिरिति स्रुचोर्ध्रुवया समञ्जनमन्त्रमाम्नाय - (२) मयीदमिन्द्र इत्याशीर्मन्त्रः, तदनन्तरम् - (३) उपहूता पृथिवी- इति पुरोडाशप्राशनमन्त्रः, ततः- (४) देवस्य त्वा इत्यादिः प्राशित्रप्रतिग्रहप्राशनमन्त्रः, ततः- (५) एतं ते इत्यादिर्ब्रह्मजपमन्त्रः, ततः- (६) एषा ते इति होत्रनुमन्त्रणमन्त्र आम्नायते । इत्थं कतिचित्प्रयोगेषु व्यत्यासो दृश्यते तथा स्रुचोर्ध्रुवया समञ्जनप्रयोगादूर्ध्वं ये ऽत्र शतपथे प्रयोगमन्त्रा आख्यातास्ते पुरोडाशप्राशनात् प्राचीनाः के ऽपि संहितायां न दृश्यन्त इति संहिताशतपथयोः प्रयोगविभेदः । ↩︎ ↩︎
-
“उपहूताम्प्राश्नन्ति युक्ता यजमानश्च” इति का. श्रौ. सू. ३ । ४ । २२-२३ ॥ ↩︎ ↩︎
-
“इडोपहूतेत्युच्यमाने आग्नेयं बर्हिषदं करोति” इत्यादि- तं चतुर्धा कृत्वा बर्हिषि ऋत्विग्भ्य आदिशति- उभौ वा ऽविशेषात्” इति का. श्रौ. सू. ३ । ८१-८२-८३-८४ ॥ ↩︎
-
“अत्र पितर इति यजमानो जपति” इत्यादि का. श्रौ. सू. ३ । ८५-९० ॥ ↩︎
-
228:1 Viz. ‘Iḍa is called hither!’ see par. 24. According to Kāty. III, 4, 12, all (the other priests and the sacrificer, probably with the exception of the Brahman) touch the iḍā (or, according to Karka, they touch the Hotr̥ who holds the iḍā) whilst the invocation of the iḍā takes place. The quartering of the cake, according to ib. 13, is done with the text, ‘Make swell, O ruddy one! milk me life; milk me offspring; milk me cattle; milk me brahmahood; milk me kshatriyahood; milk me people! Fatten through the progeny, through the cattle of him who hates us, whom we hate!’ ↩︎
-
228:2 According to Kāty. III, 4, 14, the Adhvaryu puts the four parts on the barhis and assigns one to each priest. But according to the commentary and to other Sūtras, it is the sacrificer who allocates the portions by laying them down so as to correspond with the four intermediate regions, commencing in the south-east (or Agni’s) region, and saying, ‘This for the Brahman,’ ‘This for the Hotr̥,’ ‘This for the Adhvaryu,’ ‘This for the Agnīdh.’ The sacrificer then shifts his Brāhmanical cord from the right to the left shoulder, and while touching the four portions, and looking towards the south (the region of the fathers), murmurs (Vāj. S. II, 31), ‘Here, O fathers, regale yourselves! Like bulls come hither (āvr̥shāyadhvam) each to his own share!’ He then quits his hold of the portions, and murmurs, ‘The fathers have regaled themselves: like bulls they came each to his own share!’ See Śat. Br. II, 4, 2, 20 seq.; Vāj. S. p. 57. [The Kāṇva text of the Brāhmaṇa does not mention the formulas here any more than does our author.] He then shifts the cord back on his left shoulder, touches water, and hands the portions to the priests for them to eat. Kāty. III, 4, 16-18. ↩︎
-
“प्राश्नात्युपहूता पृथिवी इति" इति का. श्रौ. सू. ३ । ८९ । ↩︎ ↩︎ ↩︎ ↩︎
-
229:1 Kāty. Śr. III, 4, 19. There is some uncertainty as to the particular time when the Adhvaryu cuts the shaḍavatta; cf. Hillebrandt, p. 123. Mahīdhara on Vāj. S. II, 10 remarks: When the Hotr̥ pronounces the call to heaven and earth, then he (the Adhvaryu), having put one piece of each of the two cakes in (the two bowls of) the Shaḍavatta (vessel), gives it to the Agnīdh; and the latter eats it with the formulas ‘Hither is called (the mother Earth),’ &c. The ‘six cuttings’ of the Shaḍavatta consist of a piece of the Agni cake with an ‘underlayer’ and a dripping of butter for each of the two bowls of the Shaḍavatta dish. ↩︎
-
229:2 That is, the formula ‘Hither is called the sacrificer,’ see par. 29. ↩︎
-
229:3 The priests eat first their quarter of the cake and then, with the sacrificer, their share of the iḍā. The Hotr̥ eats also the avāntareḍā, with the text (Āśv. Ś. I, 7, 8), ‘O Iḍā, accept graciously our share!’ &c. ↩︎
-
230:1 See I, 3, 2, 5 seq. The Kāṇva text omits this paragraph. ↩︎