०१

विश्वास-प्रस्तुतिः

प्रजा᳘पतिर्ह वै स्वां᳘ दुहित᳘रमभि᳘दध्यौ॥
दि᳘वं वोष᳘सं वा मिथु᳘न्येनया स्यामि᳘ति ताᳫँ᳭ स᳘म्बभूव॥

मूलम् - श्रीधरादि

प्रजा᳘पतिर्ह वै स्वां᳘ दुहित᳘रमभि᳘दध्यौ॥
दि᳘वं वोष᳘सं वा मिथु᳘न्येनया स्यामि᳘ति ताᳫँ᳭ स᳘म्बभूव॥

मूलम् - Weber

प्रजा᳘पतिर्ह वै स्वां᳘ दुहित᳘रमभि᳘दध्यौ॥
दि᳘वं ओष᳘सं वा मिथुॗन्येनया स्यामि᳘ति ताᳫं स᳘म्बभूव॥

मूलम् - विस्वरम्

ब्रह्मणः प्राशित्रहरणम् । 1

प्रजापतिर्ह वै स्वां दुहितरमभिदध्यौ- दिवं वा, उषसं वा मिथुन्येनया स्यामिति । तां संबभूव ॥ १॥

सायणः

(प्राशित्रावदानविध्यर्थमाख्यायिकामाह- प्रजापतिर्हेति । दिवमिति केचिदाहुरुषसमित्यपरे । तथा चैतरेयब्राह्मणम् (ऐ. ब्रा. ३ । ३ । ९) “दिवमित्यन्य आहुरुषसमित्यन्ये” -इति । प्रजापतिर्ह वै । प्राशित्रब्राह्मणमेतत् । तत्र रौद्रस्येषोरनीकं प्रजापतेर्यज्ञस्य शल्यात्मकं निरवदेयम् । ब्रह्मणा च सवितृप्रसूतेन बृहस्पतिरूपेण प्राशनीयमित्येतदाख्यानेन दर्श्यते । ‘प्रजापतिः’ प्राणपिण्डलोककालयज्ञात्मा, अभिध्यातवान्, ‘दिवं वा उषसं वा’ लोकात्मना दिवम्; कालात्मना उषसम्; प्राणपिण्डात्मना ऋक्षेभ्यो मृगो रोहितम्, रोहिणी नाम नक्षत्रम् 1, यज्ञात्मना वाचम् । कथमभिदध्यौ ? ‘मिथुनी’ मिथुनवान् ‘एनया’ ‘स्यामिति’ ‘तां’ सम्बभूव ‘सङ्गतः’ ॥ १ ॥

Eggeling
  1. Prajāpati conceived a passion for his own

daughter,–either the Sky or the Dawn 2. ‘May I pair with her!’ thus (thinking) he united with her.

०२

विश्वास-प्रस्तुतिः

तद्वै᳘ देवा᳘नामा᳘ग ऽआस॥
य᳘ ऽइत्थᳫं स्वां᳘ दुहित᳘रमस्मा᳘कᳫं स्व᳘सारं करोती᳘ति॥

मूलम् - श्रीधरादि

तद्वै᳘ देवा᳘नामा᳘ग ऽआस॥
य᳘ ऽइत्थᳫं स्वां᳘ दुहित᳘रमस्मा᳘कᳫं स्व᳘सारं करोती᳘ति॥

मूलम् - Weber

तद्वै᳘ देवा᳘नामा᳘ग आस॥
य᳘ इत्थᳫं स्वां᳘ दुहित᳘रमस्मा᳘कᳫं स्व᳘सारं करोती᳘ति॥

मूलम् - विस्वरम्

तद्वै देवानामाग आस- य इत्थं स्वां दुहितरमस्माकं स्वसारं करोतीति ॥ २॥

सायणः

तद्वै देवानाम् । ‘तद्’ दुहितृगमनं ‘देवानां’ चेतसि ‘आगः’ अपराधो बभूव । अपराधी सर्वमेवं ‘करोतीति’ ॥ २ ॥

Eggeling
  1. This, assuredly, was a sin in the eyes of the gods. ‘He who acts thus towards his own daughter, our sister, [commits a sin],’ they thought.

०३

विश्वास-प्रस्तुतिः

ते᳘ ह देवा᳘ ऊचुः᳘॥
(र्यो) यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे ऽतिसन्धं वा᳘ ऽअयं᳘ चरति य᳘ ऽइत्थᳫं स्वां᳘ दुहित᳘रमस्मा᳘कᳫं स्व᳘सारं करो᳘ति व्वि᳘ध्येममि᳘ति त᳘ᳫँ᳘ रु᳘द्रो ऽभ्याय᳘त्य व्विव्याध त᳘स्य सामि रे᳘तः प्र᳘चस्कन्द तथे᳘न्नूनं त᳘दास॥

मूलम् - श्रीधरादि

ते᳘ ह देवा᳘ ऊचुः᳘॥
(र्यो) यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे ऽतिसन्धं वा᳘ ऽअयं᳘ चरति य᳘ ऽइत्थᳫं स्वां᳘ दुहित᳘रमस्मा᳘कᳫं स्व᳘सारं करो᳘ति व्वि᳘ध्येममि᳘ति त᳘ᳫँ᳘ रु᳘द्रो ऽभ्याय᳘त्य व्विव्याध त᳘स्य सामि रे᳘तः प्र᳘चस्कन्द तथे᳘न्नूनं त᳘दास॥

मूलम् - Weber

ते᳘ ह देवा᳘ ऊचुः᳟᳟॥
यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे ऽतिसंधं वा᳘ अयं᳘ चरति य᳘ इत्थᳫं स्वां᳘ दुहित᳘रमस्मा᳘कᳫं स्व᳘सारं करो᳘ति वि᳘ध्येममि᳘ति तं᳘ रुॗद्रो ऽभ्याय᳘त्य विव्याध त᳘स्य सामि रे᳘तः प्र᳘चस्कन्द तथे᳘न्नूनं त᳘दास॥

मूलम् - विस्वरम्

ते ह देवा ऊचुर्यो ऽयं देवः पशूनामीष्टे- “अतिसन्धं वा अयं चरति- य इत्थं स्वां दुहितरमस्माकं स्वसारं करोति, विध्येममिति” । तं रुद्रो ऽभ्यायत्य विव्याध । तस्य सामि रेतः प्रचस्कन्द, तथेन्नूनं तदास ॥ ३ ॥

सायणः

ते ह देवाः । ‘यो ऽयं’ देवः पशूनामीष्टे तम् ‘ऊचुः’- ‘अतिसन्धं’ सन्धा सन्धानं मर्यादा व्यवस्था, “दुहिता न गन्तव्या” -इति; अतीत्य सन्धानं तमतिसन्धं संचरणम् । मर्यादामतीत्य ‘अयं चरति’ ततश्चापराधित्वान्निग्रहार्ह इति ‘विध्य इमम्’ । “व्यध-ताडने” (धा. पा. दि. प. ७५) ताडयेषुणेति । यज्ञाङ्गसृष्टिभवितव्यताप्रसक्तानां चेष्टितम् ‘तं’ ‘रुद्रः’ आकृष्य इषुं विद्धवान् । “तथेन्नूनम्” । इच्छब्दो ऽवधारणार्थः (निरु. १ । ३ । ५) ‘नूनं’ -शब्दो यस्मादर्थे (निरु. १ । २ । ४) यस्मात् तथैव ‘तदास’ ॥ ३ ॥

Eggeling
  1. The gods then said to this god who rules over the beasts (Rudra) 3, ‘This one, surely, commits a sin who acts thus towards his own daughter, our sister. Pierce him!’ Rudra, taking aim, pierced him. Half of his seed fell to the ground. And thus it came to pass.

०४

विश्वास-प्रस्तुतिः

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
पिता यत्स्वां᳘ दुहित᳘रमधिष्क᳘न्क्ष्मया रे᳘तः सञ्जग्मानो नि᳘षिञ्चदि᳘ति त᳘दाग्निमारुतमि᳘त्युक्थं त᳘स्मिंस्तद्व्या᳘ख्यायते य᳘था त᳘द्देवा रे᳘तः प्रा᳘जनयँस्ते᳘षां यदा᳘ देवा᳘नां क्रो᳘धोव्यैद᳘थ प्रजा᳘पतिमभिषज्यंस्त᳘स्य त᳘ᳫँ᳘ शल्यं नि᳘रकृन्तन्त्स वै᳘ यज्ञ᳘ ऽएव᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
पिता यत्स्वां᳘ दुहित᳘रमधिष्क᳘न्क्ष्मया रे᳘तः सञ्जग्मानो नि᳘षिञ्चदि᳘ति त᳘दाग्निमारुतमि᳘त्युक्थं त᳘स्मिंस्तद्व्या᳘ख्यायते य᳘था त᳘द्देवा रे᳘तः प्रा᳘जनयँस्ते᳘षां यदा᳘ देवा᳘नां क्रो᳘धोव्यैद᳘थ प्रजा᳘पतिमभिषज्यंस्त᳘स्य त᳘ᳫँ᳘ शल्यं नि᳘रकृन्तन्त्स वै᳘ यज्ञ᳘ ऽएव᳘ प्रजा᳘पतिः॥

मूलम् - Weber

त᳘स्मादेतदृ᳘षिणाभ्य᳘नूक्तम्॥
पिता यत्स्वां᳘ दुहित᳘रमधिष्क᳘न् क्ष्मया रे᳘तः संजग्मानो नि᳘षिञ्चदि᳘ति त᳘दाग्निमारुतमि᳘त्युक्थं त᳘स्मिंस्तद्व्या᳘ख्यायते य᳘था त᳘द्देवा रे᳘तः प्राजनयंस्ते᳘षां यदा᳘ देवा᳘नां क्रो᳘धो व्यैद᳘थ प्रजा᳘पतिमभिषज्यंस्त᳘स्य तं᳘ शल्पं नि᳘रकृन्तन्त्स वै᳘ यज्ञ᳘ एव᳘ प्रजा᳘पतिः॥

मूलम् - विस्वरम्

तस्मादेतदृषिणाभ्यनूक्तम्- “पिता यत् स्वां दुहितरमधिष्कन् क्ष्मया रेतः सञ्जग्मानो निषिञ्चत्” इति । तदाग्निमारुतमित्युक्थम् । तस्मिंस्तद्व्याख्यायते- यथा तद्देवा रेतः प्राजनयन् । तेषां यदा देवानां क्रोधो ऽव्यैद्- अथ प्रजापतिमभिषज्यन् । तस्य तं शल्यं निरकृन्तन्, स वै यज्ञ एव प्रजापतिः ॥ ४ ॥

सायणः

तस्मादेतत् । ‘तस्मात्’ तत् ‘ऋषिणा’ मन्त्रेण ‘अभ्यनूक्तम्’ । ‘पिता’ प्रजापतिः ‘स्वां दुहितरम्’ ‘अधिष्कन्’ अधिस्कन्नः, तथा च ‘सञ्जग्मानः’ सङ्गतः सन्, ‘क्ष्मया’ क्ष्मायां पृथिव्यां यत् ‘रेतः’ ‘निषिञ्चत्’ अभिषिक्तवान् । तस्माद्रेतसः “साध्यो ऽजनयन् ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन्” -इति (ऋ. सं. १० । ६१ । ७) (ऐ. ब्रा. ३ । ३ । ९) ‘तदाग्निमारुतमिति’ नाम्ना ‘उक्थं’ शस्त्रम् 4 । ‘तस्मिन्’ ‘तद्’ विभज्याख्यायते । ‘यथा’ ‘तत्’ ‘रेतः’ ‘देवाः’ प्रजनितवन्त इत्याख्यानशेषयोजना । यज्ञस्य कृत्स्नतायै ‘स वै यज्ञ एव’ इत्याख्यानस्य प्रकृतसम्बन्धोपक्षेपः ॥ ४ ॥

Eggeling
  1. Accordingly it has been said by the R̥shi 5 with reference to that (incident), ‘When the father embraced his daughter, uniting with her, he dropped his seed on the earth.’ This (became) the chant (uktha) called āgnimāruta 6; in (connection with)

this it is set forth how the gods caused that seed to spring 7. When the anger of the gods subsided, they cured Prajāpati and cut out that dart of this. (Rudra); for Prajāpati, doubtless, is this sacrifice.

०५

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ होचुः॥
(रु᳘) उ᳘पजानीत य᳘थेदं᳘ नामुया᳘सत्क᳘नीयो हा᳘हुतेर्य᳘थेदᳫं स्यादि᳘ति॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ होचुः॥
(रु᳘) उ᳘पजानीत य᳘थेदं᳘ नामुया᳘सत्क᳘नीयो हा᳘हुतेर्य᳘थेदᳫं स्यादि᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
उ᳘पजानीत य᳘थेॗदं नामुया᳘सत्क᳘नीयो हा᳘हुतेर्य᳘थेदᳫं स्यादि᳘ति॥

मूलम् - विस्वरम्

ते होचुः- उपजानीत यथेदं नामुयासत्, कनीयो हाहुतेर्यथेदं स्यादिति ॥ ५ ॥

सायणः

ते होचुःयथेदमिति । यत् ‘इदम्’ इषोरनीकं यज्ञरसविलिप्तम्, तद् ‘यथा’ ‘न’ वृथा स्यात्, ‘यथा’ च प्रधानाहुतेर्न महत् स्यात्, तथा उपायं जानीतेति ‘ते’ देवाः ‘ऊचुः’ ॥ ५ ॥ ६ ॥

Eggeling
  1. They said (to one another), ‘Think of some means by which that (part of the sacrifice torn out with the dart) may not be lost, and how it may be but a small portion of the offering itself!’

०६

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्भ᳘) भ᳘गायैनद्दक्षिणत ऽआ᳘सीनाय प᳘रिहरत तद्भ᳘गः प्रा᳘शिष्यति तद्य᳘थाहुत᳘मेवं᳘ भविष्यती᳘ति तद्भ᳘गाय दक्षिणत ऽआ᳘सीनाय पर्या᳘जह्रुस्तद्भ᳘गो ऽवेक्षा᳘ञ्चक्रे तस्या᳘क्षिणी नि᳘र्द्ददाह तथे᳘न्नूनं त᳘दास त᳘स्मादाहुरन्धो भ᳘ग इ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्भ᳘) भ᳘गायैनद्दक्षिणत ऽआ᳘सीनाय प᳘रिहरत तद्भ᳘गः प्रा᳘शिष्यति तद्य᳘थाहुत᳘मेवं᳘ भविष्यती᳘ति तद्भ᳘गाय दक्षिणत ऽआ᳘सीनाय पर्या᳘जह्रुस्तद्भ᳘गो ऽवेक्षा᳘ञ्चक्रे तस्या᳘क्षिणी नि᳘र्द्ददाह तथे᳘न्नूनं त᳘दास त᳘स्मादाहुरन्धो भ᳘ग इ᳘ति॥

मूलम् - Weber

ते᳘ होचुः॥
भ᳘गायैनद्दक्षिणत आ᳘सीनाय प᳘रिहरत तद्भ᳘गः प्रा᳘शिष्यति तद्य᳘थाहुत᳘मेव᳘म् भविष्यती᳘ति तद्भ᳘गाय दक्षिणत आ᳘सीनाय पर्या᳘जह्रुस्तद्भ᳘गो ऽवेक्षां᳘ चक्रे तस्या᳘क्षिणी नि᳘र्ददाह तथे᳘न्नूनं त᳘दास त᳘स्मादाहुरन्धो भ᳘ग इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः- भगायैनद्दक्षिणत आसीनाय परिहरत, तद्भगः प्राशिष्यति, तद्यथाहुतमेवं भविष्यतीति । तद्भगाय दक्षिणत आसीनाय पर्याजह्रुः; तद्भगो ऽवेक्षाञ्चक्रे, तस्याक्षिणी निर्द्ददाह, तथेन्नूनं तदास । तस्मादाहुरन्धो भग इति ॥ ६ ॥

सायणः

[व्याख्यानम् पञ्चमे]

Eggeling
  1. They said, ‘Take it round to Bhaga (Savitr̥, the Patron), who sits on the south side (of the sacrificial ground): Bhaga will eat it by way of fore-portion 8, so that it may be as though it were offered. They accordingly took it round to Bhaga, who sat on the south side. Bhaga (Savitr̥) looked at it: it burnt out his eyes 9. And thus it came to pass. Hence they say, ‘Bhaga is blind.’

०७

विश्वास-प्रस्तुतिः

ते᳘ होचुः᳘॥
(र्नो᳘) नो᳘ न्वेवा᳘त्राशमत्पूष्ण᳘ ऽएनत्प᳘रिहरते᳘ति त᳘त्पूष्णे᳘ पर्या᳘जह्रुस्त᳘त्पूषा प्रा᳘श त᳘स्य दतो नि᳘र्जघान तथे᳘न्नूनं त᳘दास त᳘स्मादाहुरद᳘न्तकः पूषे᳘ति त᳘स्माद्यं᳘ पूष्णे᳘ चरुं᳘ कुर्व्व᳘न्ति प्र᳘पिष्टानामेव᳘ कुर्व्वन्ति य᳘थाद᳘न्तकायै᳘वम्॥

मूलम् - श्रीधरादि

ते᳘ होचुः᳘॥
(र्नो᳘) नो᳘ न्वेवा᳘त्राशमत्पूष्ण᳘ ऽएनत्प᳘रिहरते᳘ति त᳘त्पूष्णे᳘ पर्या᳘जह्रुस्त᳘त्पूषा प्रा᳘श त᳘स्य दतो नि᳘र्जघान तथे᳘न्नूनं त᳘दास त᳘स्मादाहुरद᳘न्तकः पूषे᳘ति त᳘स्माद्यं᳘ पूष्णे᳘ चरुं᳘ कुर्व्व᳘न्ति प्र᳘पिष्टानामेव᳘ कुर्व्वन्ति य᳘थाद᳘न्तकायै᳘वम्॥

मूलम् - Weber

ते᳘ होचुः᳟᳟॥
नोॗ न्वेवा᳘त्राशमत्पूष्ण᳘ एनत्प᳘रिहरते᳘ति त᳘त्पूष्णे᳘ पर्या᳘जह्रुस्त᳘त्पूषा प्रा᳘श त᳘स्य दतो नि᳘र्जघान तथे᳘न्नूनं त᳘दास त᳘स्मादाहुरद᳘न्तकः पूषे᳘ति त᳘स्माद्य᳘म् पूष्णे᳘ चरुं᳘ कुर्व᳘न्ति प्र᳘पिष्टानामेव᳘ कुर्वन्ति य᳘थाद᳘न्तकायै᳘वम्॥

मूलम् - विस्वरम्

ते होचुः- नो न्वेवात्राशमत्, पूष्ण एनत् परिहरतेति । तत् पूष्णे पर्याजह्रुः, तत् पूषा प्राश, तस्य दतो निर्जघान, तथेन्नूनं तदास । तस्मादाहुरदन्तकः पूषेति । तस्माद्यं पूष्णे चरुं कुर्वन्ति, प्रपिष्टानामेव कुर्वन्ति, यथा अदन्तकाय- एवम् ॥ ७ ॥

सायणः

ते होचुर्नो न्वेव । प्रायः प्रसन्न एव ब्राह्मणशेषः, किञ्चित्तु वक्ष्यामः । ‘नो’- इति प्रतिषेधः (निरु. १ । ४ । ३७ ॥ वा. १३ । ४ । ९); ‘नु’- इति वाक्यपूरणः (निरु. १ । २ ।) “नु इत्येषो ऽनेककर्मा” । ‘अशमत्’ न शान्तम् । ‘दतः’ दन्तान् । ‘प्रपिष्टानां’ तण्डुलानामिति शेषः ॥ ७ ॥

Eggeling
  1. They said, ‘It has not yet become appeased here: take it round to Pūshan!’ They accordingly

took it round to Pūshan. Pūshan tasted it: it knocked out his teeth. And thus it came to pass. Hence they say, ‘Pūshan is toothless;’ and therefore, when they prepare a mess of boiled rice (caru) 10 for Pūshan, they prepare it from ground rice, as is done for one toothless.

०८

विश्वास-प्रस्तुतिः

(न्ते᳘) ते᳘ होचुः᳘॥
(र्नो᳘) नो᳘ न्वेवा᳘त्राशमद्बृ᳘हस्प᳘तय ऽएनत्प᳘रिहरते᳘ति तद् बृ᳘हस्प᳘तये पर्या᳘जह्रुः स बृ᳘हस्प᳘तिः सविता᳘रमेव᳘ प्रसवायो᳘पाधावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘देनᳫँ᳭ सवितृ᳘प्रसूतं᳘ नाहिनत्त᳘तो ऽर्व्वाची᳘नᳫँ᳭ शान्तं त᳘देत᳘न्निदा᳘नेन य᳘त्प्राशित्रम्॥

मूलम् - श्रीधरादि

(न्ते᳘) ते᳘ होचुः᳘॥
(र्नो᳘) नो᳘ न्वेवा᳘त्राशमद्बृ᳘हस्प᳘तय ऽएनत्प᳘रिहरते᳘ति तद् बृ᳘हस्प᳘तये पर्या᳘जह्रुः स बृ᳘हस्प᳘तिः सविता᳘रमेव᳘ प्रसवायो᳘पाधावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘देनᳫँ᳭ सवितृ᳘प्रसूतं᳘ नाहिनत्त᳘तो ऽर्व्वाची᳘नᳫँ᳭ शान्तं त᳘देत᳘न्निदा᳘नेन य᳘त्प्राशित्रम्॥

मूलम् - Weber

ते᳘ होचुः᳟᳟॥
नोॗ न्वेवा᳘त्राशमद्बृ᳘हस्प᳘तय एनत्प᳘रिहरते᳘ति तद्बृ᳘हस्प᳘तये पर्या᳘जह्रुः स बृ᳘हस्प᳘तिः सविता᳘रमेव᳘ प्रसवायो᳘पाधावत्सविता वै᳘ देवा᳘नाम् प्रसविॗतेद᳘म् मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘देनᳫं सवितृ᳘प्रसूॗतं नाहिनत्त᳘तो ऽर्वाची᳘नं शान्तं त᳘देत᳘न्निदा᳘नेन य᳘त्प्राशित्र᳘म्॥

मूलम् - विस्वरम्

ते होचुः- नो न्वेवात्राशमत्, बृहस्पतय एनत् परिहरतेति । तद् बृहस्पतये पर्याजह्रुः । स बृहस्पतिः सवितारमेव प्रसवायोपाधावत् । सविता वै देवानां प्रसविता । इदं मे प्रसुवेति । तदस्मै सविता प्रसविता प्रासुवत् । तदेनं सवितृप्रसूतं नाहिनत् । ततो ऽर्वाचीनं शान्तम् । तदेतन्निदानेन- यत प्राशित्रम् ॥ ८ ॥

सायणः

‘न अहिनत्’ । हिनोतेर्हिंसाकर्मणः (निघं. ४ । ३ । ९४) । न हतवान् ‘ततो ऽर्वाचीनम्’ । बृहस्पतिप्रशमनादर्वाक् ‘शान्तम्’ । तदेतन्निदानेनेति । इतिहासमुपसंहृत्याधिदैवज्ञानाय प्राशिता प्राप्तो ऽस्येति ‘प्राशित्रम्’ । “अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम्”- इति (पा. ५ । १ । ९७ वा. १) हि स्मरन्ति ॥ ८ ॥

Eggeling
  1. They said, ‘It has not yet become appeased here: take it round to Br̥haspati 11!’ They accordingly took it round to Br̥haspati. Br̥haspati hasted to Savitr̥ for his impulsion (influence, prasava 12), for assuredly Savitr̥ is the impeller (prasavitr̥) of the gods. ‘Impel (influence) this for me!’ he said. Savitr̥, as the impeller, accordingly impelled it for him, and being thus impelled by Savitr̥, it did not injure him: and thus it was henceforth appeased. This, then, is essentially the same as the fore-portion.

०९

विश्वास-प्रस्तुतिः

(ᳫँ᳭) य᳘त्प्राशित्र᳘मवद्य᳘ति॥
य᳘देवात्रा᳘विद्धं यज्ञ᳘स्य य᳘द्रुद्रि᳘यं त᳘दे᳘वैतन्नि᳘र्मिमीते᳘ ऽथाप ऽउ᳘पस्पृशति शा᳘न्तिरा᳘पस्त᳘दद्भिः᳘ शमयत्यथे᳘डां पशू᳘न्त्सम᳘वद्यति॥

मूलम् - श्रीधरादि

(ᳫँ᳭) य᳘त्प्राशित्र᳘मवद्य᳘ति॥
य᳘देवात्रा᳘विद्धं यज्ञ᳘स्य य᳘द्रुद्रि᳘यं त᳘दे᳘वैतन्नि᳘र्मिमीते᳘ ऽथाप ऽउ᳘पस्पृशति शा᳘न्तिरा᳘पस्त᳘दद्भिः᳘ शमयत्यथे᳘डां पशू᳘न्त्सम᳘वद्यति॥

मूलम् - Weber

स य᳘त्प्राशित्र᳘मवद्य᳘ति॥
य᳘देवात्रा᳘विद्धं यज्ञ᳘स्य य᳘द्रुद्रि᳘यं त᳘देॗवैतन्नि᳘र्मिमीते᳘ ऽथाप उ᳘पस्पृशति शा᳘न्तिरा᳘पस्त᳘दद्भिः᳘ शमयत्यथे᳘डाम् पशू᳘न्त्सम᳘वद्यति॥

मूलम् - विस्वरम्

स यत् प्राशित्रमवद्यति । यदेवात्राविद्धं यज्ञस्य- यदुद्रियं, तदेवैतन्निर्मिमीते । अथाप उपस्पृशति । शान्तिरापः । तदद्भिः शमयति ॥

इडाकर्म ।

अथेडां पशून् समवद्यति ॥ ९ ॥

सायणः

स यत्यदेवात्रेति । संसारस्वभावाद् यदत्र किश्चिदशान्तं ‘तत्’ ‘निर्मिमीते’ बहिष्करोति, निष्कर्षतीत्यर्थः । ‘अथ’ ‘अप उपस्पृशति’ अध्वर्युः । अथेडां पशूनिति । पशुत्वमिडायाः प्रसिद्धम् । (ऐ. ब्रा. २ । ४ । ६) (तै. सं. २ । ६ । ७ । ३ ।) पशवश्च रुद्राद्रक्षणीयाः; अतो रुद्रिये प्राशित्रे दत्ते अप उपस्पृश्य’ इडामवद्यति 13 ॥ ९ ॥

Eggeling
  1. Now when he cuts off the fore-portion, he cuts out what is injured in the sacrifice,–what belongs to Rudra. Thereupon he touches water: water is (a means) of lustration, hence he lustrates by means of water 14. He now cuts off piece by piece the iḍā 15, (which represents) cattle.

१०

विश्वास-प्रस्तुतिः

स वै᳘ यावन्मात्र᳘मिवैवा᳘वद्येत्॥
(त्त᳘) त᳘था शल्यः प्र᳘च्यवते त᳘स्माद्यावन्मात्र᳘मिवैवा᳘वद्येदन्यतर᳘त ऽआ᳘ज्यं कुर्यादध᳘स्ताद्वोप᳘रिष्टाद्वा तथा खद᳘न्निस्स᳘रणवद्भवति त᳘था नि᳘स्रवति त᳘स्मादन्यतर᳘त ऽआ᳘ज्यं कुर्यादध᳘स्ताद्वोप᳘रिष्टाद्वा॥

मूलम् - श्रीधरादि

स वै᳘ यावन्मात्र᳘मिवैवा᳘वद्येत्॥
(त्त᳘) त᳘था शल्यः प्र᳘च्यवते त᳘स्माद्यावन्मात्र᳘मिवैवा᳘वद्येदन्यतर᳘त ऽआ᳘ज्यं कुर्यादध᳘स्ताद्वोप᳘रिष्टाद्वा तथा खद᳘न्निस्स᳘रणवद्भवति त᳘था नि᳘स्रवति त᳘स्मादन्यतर᳘त ऽआ᳘ज्यं कुर्यादध᳘स्ताद्वोप᳘रिष्टाद्वा॥

मूलम् - Weber

स वै᳘ यावन्मात्र᳘मिवैवा᳘वद्येत्॥
त᳘था शल्पः प्र᳘च्यवते त᳘स्माद्यावन्मात्र᳘मिवैवा᳘वद्येदन्यतर᳘त आ᳘ज्यं कुर्यादध᳘स्ताद्वोप᳘रिष्टाद्वा त᳘था खद᳘न्निःस᳘रणवद्भवति त᳘था नि᳘स्रवति त᳘स्मादन्यतर᳘त आ᳘ज्यं कुर्यादध᳘स्ताद्वोप᳘रिष्टाद्वा॥

मूलम् - विस्वरम्

स वै यावन्मात्रमिवैवावद्येत् । तथा शल्यः प्रच्यवते । तस्माद्यावन्मात्रमिवैवावद्येत् । अन्यतरत आज्यं कुर्यात्- अधस्ताद् वा, उपरिष्टाद् वा । तथा खदन्निस्सरणवद्भवति, तथा निस्रवति । तस्मादन्यतरत आज्यं कुर्यात्- अधस्ताद् वोपरिष्टाद् वा ॥ १० ॥

सायणः

स वै । इडावदानार्थतामुपस्पर्शनस्य दर्शयति- ‘खदत्’ । “खद-स्थैर्ये हिंसायाञ्च” (धा. पा. भ्वा. प. ५०) अल्पतरत्वादस्थिरमगाढबलम्, ‘निस्सरणवद्भवति’ इतरथा तु चतुर्गृहीतं महत्त्वाद्गाढं स्यादित्यभिप्रायः ॥ १० ॥

Eggeling
  1. Let him cut off (for the fore-portion) ever so small a piece 16: thus the dart comes out; let him therefore cut off ever so small a piece. He should (according to some) put clarified butter on one side only, either below or above: thus that which is hard becomes soft and flows forth; and for this reason he should put butter on one side only, either below or above.

११

विश्वास-प्रस्तुतिः

स ऽआ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षोवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति तद्य᳘थैव᳘ यज्ञ᳘स्यावदा᳘नमेव᳘मेव तत्॥

मूलम् - श्रीधरादि

स ऽआ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षोवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति तद्य᳘थैव᳘ यज्ञ᳘स्यावदा᳘नमेव᳘मेव तत्॥

मूलम् - Weber

स आ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षो ऽवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति तद्य᳘थैव᳘ यज्ञ᳘स्यावदा᳘नमेव᳘मेत᳘त्॥

मूलम् - विस्वरम्

स आज्यस्योपस्तीर्य, द्विविषो ऽवदाय, अथोपरिष्टादाज्यस्याभिघारयति । तद्यथैव यज्ञस्यावदानम्- एवमेव तत् ॥ ११ ॥

सायणः

स आज्यस्य । -इति वचनात् विकल्पः पूर्वेण सह ॥ ११ ॥

Eggeling
  1. Having (nevertheless 17) made an underlayer of butter 18 and a double cutting from the oblation (havis), he pours butter on the upper side of it; for it is only in this way that this becomes part of the sacrifice.

१२

विश्वास-प्रस्तुतिः

(त्त) तन्न पू᳘र्व्वेण प᳘रिहरेत्॥
(त्पू᳘) पू᳘र्व्वेण है᳘के प᳘रिहरन्ति पुर᳘स्ताद्वै᳘ प्रत्य᳘ञ्चो य᳘जमानं पश᳘व ऽउ᳘पतिष्ठन्ते रुद्रि᳘येण ह पशून्प्र᳘सजेद्यत्पू᳘र्व्वेण परिह᳘रे᳘त्ते ऽस्य गृहाः पश᳘व ऽउपमूर्य᳘माणा ऽईयुस्त᳘स्मादि᳘त्येव᳘ तिर्यक्प्र᳘जिहीत तथा᳘ ह रुद्रि᳘येण पशून्न᳘ प्रस᳘जति तिर्य᳘गे᳘वैनं नि᳘र्मिमीते॥

मूलम् - श्रीधरादि

(त्त) तन्न पू᳘र्व्वेण प᳘रिहरेत्॥
(त्पू᳘) पू᳘र्व्वेण है᳘के प᳘रिहरन्ति पुर᳘स्ताद्वै᳘ प्रत्य᳘ञ्चो य᳘जमानं पश᳘व ऽउ᳘पतिष्ठन्ते रुद्रि᳘येण ह पशून्प्र᳘सजेद्यत्पू᳘र्व्वेण परिह᳘रे᳘त्ते ऽस्य गृहाः पश᳘व ऽउपमूर्य᳘माणा ऽईयुस्त᳘स्मादि᳘त्येव᳘ तिर्यक्प्र᳘जिहीत तथा᳘ ह रुद्रि᳘येण पशून्न᳘ प्रस᳘जति तिर्य᳘गे᳘वैनं नि᳘र्मिमीते॥

मूलम् - Weber

तन्न पू᳘र्वेण प᳘रिहरेत्॥
पू᳘र्वेण है᳘के प᳘रिहरन्ति पुर᳘स्ताद्वै᳘ प्रत्य᳘ञ्चो य᳘जमानम् पश᳘व उ᳘पतिष्ठन्ते रुद्रि᳘येण ह पशून्प्र᳘सजेद्यत्पू᳘र्वेण परिह᳘रेॗत्ते ऽस्य गृहाः᳘ पश᳘व उपमूर्य᳘माणा ईयुस्त᳘स्मादि᳘त्येव᳘ तिर्यक्प्र᳘जिहीत तथा᳘ ह रुद्रि᳘येण पशून्न᳘ प्रस᳘जति तिर्य᳘गेॗवैनं नि᳘र्मिमीते॥

मूलम् - विस्वरम्

तन्न पूर्वेण परिहरेत् । पूर्वेण हैके परिहरन्ति । पुरस्ताद्वै प्रत्यञ्चो यजमानं पशव उपतिष्ठन्ते । रुद्रियेण ह पशून् प्रसजेत्- यत् पूर्वेण परिहरेत्, ते ऽस्य गृहाः पशव उपमूर्यमाणा ईयुः । तस्मादित्येव तिर्यक् प्रजिहीत । तथा ह रुद्रियेण पशून्न प्रसजति । तिर्यगेवैनं निर्मिमीते ॥ १२ ॥

सायणः

तन्न पूर्वेण । ‘इत्येव’ -इत्यभिनयेन अध्वर्युसञ्चरं 19 दर्शयति । एवमेवाध्वर्युसञ्चरेण ‘तिर्यक् प्रजहीत’ । “ओहाङ्-गतौ” (धा. पा. जु. आ. ७) -प्रगच्छेत् प्राशित्रम् ॥ १२ ॥

Eggeling
  1. Let him not carry it (to the Brahman) along the front (east) side of the Āhavanīya fire); (though) some, it is true, do carry it along the front side. For on the front side stand the cattle facing the sacrificer: hence he would impose the power of Rudra on the cattle, if he were to carry it along the front side, and his (the sacrificer’s) household and cattle would be overwhelmed. Let him therefore cross over in this way (behind the paridhis); for thus he does not impose Rudra’s power on the cattle and he removes that (dart) sideways 20.

१३

विश्वास-प्रस्तुतिः

तत्प्र᳘तिगृह्णाति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यां प्र᳘तिगृह्णामी᳘ति॥

मूलम् - श्रीधरादि

तत्प्र᳘तिगृह्णाति॥
देव᳘स्य त्वा सवितुः᳘ प्रस᳘वे ऽश्वि᳘नोर्बाहु᳘भ्यां पूष्णो ह᳘स्ताभ्यां प्र᳘तिगृह्णामी᳘ति॥

मूलम् - Weber

तत्प्र᳘तिगृह्णाति॥
देव᳘स्य त्वा सवितुः᳘ प्रसॗवे ऽश्वि᳘नोर्बाहु᳘भ्याम् पूष्णो ह᳘स्ताभ्याम् प्र᳘तिगृह्णामी᳘ति॥

मूलम् - विस्वरम्

तत् प्रतिगृह्णाति- “देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि” -(वा. सं. २ । ११) इति ॥ १३ ॥

सायणः

तत्प्रतिगृह्णाति 19 । -इत्यत आरभ्य ब्रह्मत्वं प्राय आध्यायसमाप्तेः ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥

Eggeling
  1. He (the Brahman) receives 21 it, with the text (Vāj. S. II, 11 b, c), ‘At the impulse (prasava) of the divine Savitr̥ I receive thee with the arms of the Aśvins, with the hands of Pūshan!’

१४

विश्वास-प्रस्तुतिः

तद्य᳘थै᳘वादो बृ᳘हस्प᳘तिः॥
सविता᳘रं प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘देनᳫँ᳭ सवितृ᳘प्रसूतं ना᳘हिनदेव᳘मे᳘वैष᳘ ऽएत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘देनᳫँ᳭ सवितृ᳘प्रसूतं न᳘ हिनस्ति॥

मूलम् - श्रीधरादि

तद्य᳘थै᳘वादो बृ᳘हस्प᳘तिः॥
सविता᳘रं प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘देनᳫँ᳭ सवितृ᳘प्रसूतं ना᳘हिनदेव᳘मे᳘वैष᳘ ऽएत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता वै᳘ देवा᳘नां प्रसवि᳘तेदं᳘ मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘देनᳫँ᳭ सवितृ᳘प्रसूतं न᳘ हिनस्ति॥

मूलम् - Weber

तद्य᳘थैॗवादो बृ᳘हस्प᳘तिः सविता᳘रम्॥
प्रसवा᳘योपा᳘धावत्सविता वै᳘ देवा᳘नाम् प्रसविॗतेदम् मे प्र᳘सुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्रा᳘सुवत्त᳘देनᳫं सवितृ᳘प्रसूतं ना᳘हिनदेव᳘मेॗवैष᳘ एत᳘त्सविता᳘रमेव᳘ प्रसवायो᳘पधावति सविता वै᳘ देवा᳘नाम् प्रसविॗतेद᳘म् मे प्रसुवे᳘ति त᳘दस्मै सविता᳘ प्रसविता प्र᳘सौति त᳘देनᳫं सवितृ᳘प्रसूतं न᳘ हिनस्ति॥

मूलम् - विस्वरम्

तद्यथैवादो बृहस्पतिः सवितारं प्रसवायोपाधावत् । सविता वै देवानां प्रसविता- इदं मे प्रसुवेति, तदस्मै सविता प्रसविता प्रासुवत् । तदेनं सवितृप्रसूतं नाहिनत् । एवमेवैष एतत्सवितारमेव प्रसवायोपधावति । सविता वै देवानां प्रसविता- इदं मे प्रसुवेति । तदस्मै सविता प्रसविता प्रसौति । तदेनं सवितृप्रसूतं न हिनस्ति ॥ १४ ॥

सायणः

[व्याख्यानम् त्रयोदशे]

Eggeling
  1. And in like manner as Br̥haspati then hasted to Savitr̥ for his impulsion,–for, assuredly, Savitr̥ is the impeller of the gods,–and said, ‘Impel this for me!’ and Savitr̥, the impeller, impelled it for him; and, impelled by Savitr̥, it did not injure him; so now also this one (the Brahman) hastes to Savitr̥ for his impulsion,–for, assuredly, Savitr̥ is the impeller of the gods,–and says ‘impel this for me!’ and Savitr̥, the impeller, impels it for him; and, impelled by Savitr̥, it does not injure him.

१५

विश्वास-प्रस्तुतिः

तत्प्रा᳘श्नाति॥
(त्य) अग्ने᳘ष्ट्वा᳘स्येन प्रा᳘श्नामी᳘ति न वा᳘ ऽअग्निं कि᳘ञ्चन᳘ हिनस्ति त᳘थो हैनमेतन्न᳘ हिनस्ति॥

मूलम् - श्रीधरादि

तत्प्रा᳘श्नाति॥
(त्य) अग्ने᳘ष्ट्वा᳘स्येन प्रा᳘श्नामी᳘ति न वा᳘ ऽअग्निं कि᳘ञ्चन᳘ हिनस्ति त᳘थो हैनमेतन्न᳘ हिनस्ति॥

मूलम् - Weber

तत्प्रा᳘श्नाति॥
अग्ने᳘ष्ट्वाॗस्येन प्रा᳘श्नामी᳘ति न वा᳘ अग्निं किं᳘ चन᳘ हिनस्ति त᳘थो हैनमेतन्न᳘ हिनस्ति॥

मूलम् - विस्वरम्

तत् प्राश्नाति- “अग्नेष्ट्वास्येन प्राश्नामि” -(वा. सं. २ । ११) इति । न वा अग्निं किञ्चन हिनस्ति, तथो हैनमेतन्न हिनस्ति ॥ १५ ॥

सायणः

[व्याख्यानम् त्रयोदशे]

Eggeling
  1. He eats 22 the fore-portion, with the text (Vā;. S. II, 11 d), ‘With Agni’s mouth I eat thee!’ for Agni, assuredly, it does not injure in any way; and so neither does it injure him (the Brahman).

१६

विश्वास-प्रस्तुतिः

तन्न᳘ दद्भिः खादेत्॥
(न्ने᳘) ने᳘न्म ऽइद᳘ᳫं᳘ रुद्रि᳘यं दतो᳘ हिन᳘सदि᳘ति त᳘स्मान्न᳘ दद्भिः᳘ खादेत्॥

मूलम् - श्रीधरादि

तन्न᳘ दद्भिः खादेत्॥
(न्ने᳘) ने᳘न्म ऽइद᳘ᳫं᳘ रुद्रि᳘यं दतो᳘ हिन᳘सदि᳘ति त᳘स्मान्न᳘ दद्भिः᳘ खादेत्॥

मूलम् - Weber

तन्न᳘ दद्भिः᳘ खादेत्॥
ने᳘न्म इदं᳘ रुद्रि᳘यं दतो᳘ हिन᳘सदि᳘ति त᳘स्मान्न᳘ दद्भिः᳘ खादेत्॥

मूलम् - विस्वरम्

तन्न दद्भिः खादेत्, नेन्म इदं रुद्रियं दतो हिनसदिति । तस्मान्न दद्भिः खादेत् ॥ १६ ॥

सायणः

[व्याख्यानम् त्रयोदशे]

Eggeling
  1. He must not chew it with his teeth: ’lest this power of Rudra should injure my teeth!’ so (he thinks), and therefore he must not chew it with his teeth.

१७

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थाप ऽआ᳘चामति॥
शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयते᳘ ऽथ परिक्षा᳘ल्य पा᳘त्रम्॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थाप ऽआ᳘चामति॥
शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयते᳘ ऽथ परिक्षा᳘ल्य पा᳘त्रम्॥

मूलम् - Weber

अ᳘थाप आ᳘चामति॥
शा᳘न्तिरा᳘पस्त᳘दद्भिः शा᳘न्त्या शमयते᳘ ऽथ परिक्षा᳘ल्य पा᳘त्रं॥

मूलम् - विस्वरम्

अथाप आचामति । शांतिरापः । तदद्भिः शान्त्या शमयते । अथ परिक्षाल्य पात्रम् ॥ १७ ॥

सायणः

अथापः । ‘अथ परिक्षाल्य पात्रं’ “नाभिमालभते” -इति 23 शाखान्तरात् तच्छेषः ॥ १७ ॥

Eggeling
  1. He then rinses his mouth with water;–water is (a means of) purification: hence he purifies himself with water, (that is, a means of) purification. After he has rinsed the vessel 24,–

१८

विश्वास-प्रस्तुतिः

(म᳘) अ᳘थास्मै ब्रह्मभागं᳘ पर्या᳘हरन्ति॥
ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ ऽआस्ते ऽभिगोप्ता स᳘ ऽएतं᳘ भागं᳘ प्रतिविदान᳘ ऽआस्ते य᳘त्प्राशित्रं त᳘दस्मै पर्या᳘हार्षुस्तत्प्रा᳘शीद᳘थ य᳘मस्मै ब्रह्मभागं᳘ पर्याह᳘रन्ति ते᳘न भागी स यद᳘त ऽऊर्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘दभि᳘गोपायति त᳘स्माद्वा᳘ ऽअस्मै ब्रह्मभागं᳘ पर्या᳘हरन्ति॥

मूलम् - श्रीधरादि

(म᳘) अ᳘थास्मै ब्रह्मभागं᳘ पर्या᳘हरन्ति॥
ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ ऽआस्ते ऽभिगोप्ता स᳘ ऽएतं᳘ भागं᳘ प्रतिविदान᳘ ऽआस्ते य᳘त्प्राशित्रं त᳘दस्मै पर्या᳘हार्षुस्तत्प्रा᳘शीद᳘थ य᳘मस्मै ब्रह्मभागं᳘ पर्याह᳘रन्ति ते᳘न भागी स यद᳘त ऽऊर्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य त᳘दभि᳘गोपायति त᳘स्माद्वा᳘ ऽअस्मै ब्रह्मभागं᳘ पर्या᳘हरन्ति॥

मूलम् - Weber

अ᳘थास्मै ब्रह्मभाग᳘म् पर्या᳘हरन्ति॥
ब्रह्मा वै᳘ यज्ञ᳘स्य दक्षिणत᳘ आस्ते ऽभिगोप्ता स᳘ एत᳘म् भाग᳘म् प्रतिविदान᳘ आस्ते य᳘त्प्राशित्रं त᳘दस्मै पर्या᳘हार्षुस्तत्प्रा᳘शीद᳘थ य᳘मस्मै ब्रह्मभाग᳘म् पर्याह᳘रन्ति ते᳘न भागी स यद᳘त ऊर्ध्वम᳘संस्थितं यज्ञ᳘स्य त᳘दभि᳘गोपायति त᳘स्माद्वा᳘ अस्मै ब्रह्मभाग᳘म् पर्या᳘हरन्ति॥

मूलम् - विस्वरम्

अथास्मै ब्रह्मभागं पर्याहरन्ति । ब्रह्मा वै यज्ञस्य दक्षिणत आस्ते ऽभिगोप्ता । स एतं भागं प्रतिविदान आस्ते यत् प्राशित्रम् । तदस्मै पर्याहार्षुः । तत् प्राशीत् । अथ यमस्मै ब्रह्मभागं पर्याहरन्ति, तेन भागी सः । यदत ऊर्ध्वमसंस्थितं यज्ञस्य, तदभिगोपायति । तस्माद्वा अस्मै ब्रह्मभागं पर्याहरन्ति ॥ १८ ॥

सायणः

अथास्मै ब्रह्मभागं 23 । -इत्याध्वर्यवम् । ‘प्रतिविदानः’ जानन्, एष मे भाग इत्याशयः । पूर्वम् ‘आस्ते’ । ‘पर्याहार्षुः’ पर्याहृतवन्तः । ‘प्राशीत्’ प्राशितवान् । अनेन तु ब्रह्मभागेन ‘भागी’ । स्वीकृतेनैव यज्ञशेषं ‘गोपायति’ ॥ १८ ॥

Eggeling
  1. They bring him the Brahman’s portion 25. The Brahman, in truth, sits south of the sacrifice, as its guardian. He sits facing that portion. As regards the fore-portion, that they have already brought to him and he has eaten it. In the Brahman’s portion which they now bring to him, he obtains his own share; and henceforth he watches what remains incomplete of the sacrifice: for this reason they bring him the Brahman’s portion.

१९

विश्वास-प्रस्तुतिः

स वै᳘ व्वाचंयम᳘ ऽएव᳘ स्याद्॥
(द्ब्र᳘) ब्र᳘ह्मन्प्र᳘स्थास्यामी᳘त्यैत᳘स्माद्व᳘चसो व्वि᳘वृहन्ति वा᳘ ऽएते᳘ यज्ञं᳘ क्षण्व᳘न्ति ये म᳘ध्ये यज्ञ᳘स्य पाकयज्ञि᳘यये᳘डया च᳘रन्ति ब्रह्मा वा᳘ ऽऋत्वि᳘जां भिष᳘क्तमस्त᳘द्ब्रह्मा स᳘न्दधाति न᳘ ह स᳘न्दध्याद्य᳘द्वावद्य᳘मान ऽआ᳘सीत त᳘स्माद्वाचंयम᳘ ऽएव᳘ स्यात्॥

मूलम् - श्रीधरादि

स वै᳘ व्वाचंयम᳘ ऽएव᳘ स्याद्॥
(द्ब्र᳘) ब्र᳘ह्मन्प्र᳘स्थास्यामी᳘त्यैत᳘स्माद्व᳘चसो व्वि᳘वृहन्ति वा᳘ ऽएते᳘ यज्ञं᳘ क्षण्व᳘न्ति ये म᳘ध्ये यज्ञ᳘स्य पाकयज्ञि᳘यये᳘डया च᳘रन्ति ब्रह्मा वा᳘ ऽऋत्वि᳘जां भिष᳘क्तमस्त᳘द्ब्रह्मा स᳘न्दधाति न᳘ ह स᳘न्दध्याद्य᳘द्वावद्य᳘मान ऽआ᳘सीत त᳘स्माद्वाचंयम᳘ ऽएव᳘ स्यात्॥

मूलम् - Weber

स वै᳘ वाचंयम᳘ एव᳘ स्यात्॥
ब्र᳘ह्मन्प्र᳘स्थास्यामीॗत्यैत᳘स्माद्व᳘चसो वि᳘वृहन्ति वा᳘ एते᳘ यज्णं᳘ क्षण्वन्ति ये म᳘ध्ये यज्ञ᳘स्य पाकयज्ञि᳘यये᳘डया च᳘रन्ति ब्रह्मा वा᳘ ऋत्वि᳘जाम् भिषक्तमस्त᳘द्ब्रह्मा सं᳘दधाति न᳘ ह सं᳘दध्याद्य᳘द्वावद्य᳘मान आ᳘सीत त᳘स्माद्वाचंयम᳘ एव᳘ स्यात्॥

मूलम् - विस्वरम्

स वै वाचंयम एव स्याद्- “ब्रह्मन् प्रस्थास्यामि” -इत्येतस्माद् वचसः । विवृहन्ति वा एते, यज्ञं क्षण्वन्ति- ये मध्ये यज्ञस्य पाकयज्ञिययेडया चरन्ति । ब्रह्मा वा ऋत्विजां भिषक्तमः । तद् ब्रह्मा सन्दधाति । न ह सन्दध्याद्- यद्वावद्यमान आसीत । तस्माद्वाचंयम एव स्यात् ॥ १९ ॥

सायणः

स वै वाचंयमः । वाचं यच्छतीति “वाचि यमो व्रते” इति (पा. सू. ३ । २ । ४०) “वाचंयमपुरन्दरौ च” इति (पा. सू. ६ । ३ । ६९) ‘वाचंयमः’ 23 असम्बन्धवचनादुपरमयति, एतद्व्रतो वाचंयमः, ब्रह्मा स्यात् । कियन्तं कालम् ? ‘ब्रह्मन् ?’ प्रस्थास्यामीति ‘आ एतस्मात्’ ‘वचसः’ अध्वर्युवचनात् । अभिविधावाङ् न मर्यादायाम्; कुतः ? सन्धानवचनात् । ‘विवृहन्ति’ विच्छिदन्ति । ‘क्षण्वन्ति’ हिंसन्ति । ‘ये मध्ये यज्ञस्य’ ‘पाकयज्ञीयया’ पाकयज्ञार्हया विलक्षणया ‘इडया’ ‘चरन्ति’ । पाकयज्ञेषु हुतशेषो भक्ष्यते, इडाहुतशेषो भक्ष्यते; तेन पाकयज्ञार्हेत्युच्यते । “ब्रह्मा वा ऋत्विजां भिषक्तमः” अतिशयेन यज्ञस्य चिकित्सिता; स हि प्रायश्चित्तैर्यज्ञं भिषज्यतीत्यभिप्रायः । ततः किम् ? यद् वाचंयमो भवति, ‘तत्’ तेन ‘ब्रह्मा’ यज्ञं ‘सन्दधाति’; अन्यथा तु नैव सन्दध्यात् । ‘यद्’ यदि ‘वावद्यमानः’ पुनःपुनर्वदमानः ‘आसीत्’ ॥ १९ ॥

Eggeling
  1. He (the Brahman) must maintain silence (from the time he takes his seat on being elected) 26 up to that speech (of the Adhvaryu), ‘Brahman, shall I step forward?’ Those (priests) who, in the midst of the sacrifice, perform the iḍā, which represents the domestic offerings (pākayajña) 27, tear the sacrifice to pieces, injure it. Now the Brahman, assuredly, is the best physician: hence the Brahman thereby restores the sacrifice; but, if he were to sit there talking, he would not restore it: he must therefore maintain silence.

२०

विश्वास-प्रस्तुतिः

(त्स) स य᳘दि पुरा᳘ मानुषीं व्वा᳘चं व्याह᳘रेत्॥
(त्त᳘) त᳘त्रो व्वैष्णवीमृ᳘चं वा य᳘जुर्वा जपेद्यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञं पु᳘नरा᳘रभते त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - श्रीधरादि

(त्स) स य᳘दि पुरा᳘ मानुषीं व्वा᳘चं व्याह᳘रेत्॥
(त्त᳘) त᳘त्रो व्वैष्णवीमृ᳘चं वा य᳘जुर्वा जपेद्यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञं पु᳘नरा᳘रभते त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - Weber

स य᳘दि पुरा᳘ मानुषीं वा᳘चं व्याह᳘रेत्॥
त᳘त्रो वैष्णवीमृ᳘चंवा य᳘जुर्वा जपेद्यज्ञो वै वि᳘ष्णुस्त᳘द्यज्ञम् पु᳘नरा᳘रभते त᳘स्यो हैषा प्रा᳘यश्चित्तिः॥

मूलम् - विस्वरम्

स यदि पुरा मानुषीं वाचं व्याहरेत्- तत्रो वैष्णवीमृचं वा, यजुर्वा जपेत् । यज्ञो वै विष्णुः । तद्यज्ञं पुनरारभते, तस्यो हैषा प्रायश्चित्तिः ॥ २० ॥

सायणः

स यदि पुरा । -इति प्रायश्चित्तविधिः ॥ २० ॥

Eggeling
  1. If he should utter any human sound before that time, let him there and then mutter some R̥c or Yajus-text addressed to Vishṇu; for Vishṇu is

the sacrifice, so that he thereby again obtains a hold on the sacrifice: and this is the expiation of that (breach of silence).

२१

विश्वास-प्रस्तुतिः

स यत्रा᳘ह - ब्र᳘ह्मन्प्र᳘स्थास्यामी᳘ति त᳘द्ब्रह्मा᳘ जपत्येतं ते देव सवितर्यज्ञं प्रा᳘हुरि᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसविता बृ᳘हस्प᳘तये ब्रह्म᳘ण ऽइ᳘ति बृ᳘हस्प᳘तिर्व्वै᳘ देवा᳘नां ब्रह्मा तद्य᳘ ऽएव᳘ देवा᳘नां ब्रह्मा त᳘स्मा ऽए᳘वैतत्प्रा᳘ह त᳘स्मादाह बृ᳘हस्प᳘तये ब्रह्म᳘ण ऽइ᳘ति ते᳘न यज्ञ᳘मव ते᳘न यज्ञ᳘पतिं तेन मा᳘मवे᳘ति नात्र तिरो᳘हितमिवास्ति॥

मूलम् - श्रीधरादि

स यत्रा᳘ह - ब्र᳘ह्मन्प्र᳘स्थास्यामी᳘ति त᳘द्ब्रह्मा᳘ जपत्येतं ते देव सवितर्यज्ञं प्रा᳘हुरि᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसविता बृ᳘हस्प᳘तये ब्रह्म᳘ण ऽइ᳘ति बृ᳘हस्प᳘तिर्व्वै᳘ देवा᳘नां ब्रह्मा तद्य᳘ ऽएव᳘ देवा᳘नां ब्रह्मा त᳘स्मा ऽए᳘वैतत्प्रा᳘ह त᳘स्मादाह बृ᳘हस्प᳘तये ब्रह्म᳘ण ऽइ᳘ति ते᳘न यज्ञ᳘मव ते᳘न यज्ञ᳘पतिं तेन मा᳘मवे᳘ति नात्र तिरो᳘हितमिवास्ति॥

मूलम् - Weber

स यत्रा᳘ह ब्र᳘ह्मन्प्र᳘स्थास्यामी᳘ति त᳘द्ब्रह्मा᳘ जपत्येतं᳘ ते देवा सवितर्यज्ञम् प्रा᳘हुरि᳘ति त᳘त्सविता᳘रम् प्रसवायो᳘पधावति स हि᳘ देवा᳘नाम् प्रसविता बृ᳘हस्प᳘तये ब्रह्म᳘ण इ᳘ति बृ᳘हस्प᳘तिर्वै᳘ देवा᳘नाम् ब्रह्मा तद्य᳘ एव᳘ देवा᳘नाम् ब्रह्मा त᳘स्मा एॗवैतत्प्रा᳘ह त᳘स्मादाह बृ᳘हस्प᳘तये ब्रह्म᳘ण इ᳘ति ते᳘न यज्ञ᳘मव ते᳘न यज्ञ᳘पतिं ते᳘न माम᳘वे᳘ति ना᳘त्र तिरो᳘हितमिवास्ति॥

मूलम् - विस्वरम्

स यत्राह “ब्रह्मन् प्रस्थास्यामीति” -तद् ब्रह्मा जपति- “एतं ते देव सवितर्यज्ञं प्राहुः” -(वा० सं० २ । १२) इति । तत्सवितारं प्रसवायोपधावति । स हि देवानां प्रसविता | ** “बृहस्पतये ब्रह्मणे”** -(वा० सं० २ । १२) इति । बृहस्पतिर्वै देवानां ब्रह्मा । तद् एव देवानां ब्रह्मा तस्मा एवैतत् प्राह । तस्मादाह बृहस्पतये ब्रह्मण इति । “तेन यज्ञमव, तेन यज्ञपतिं, तेन मामव” -(वा० सं० २ । १२) इति । नात्र तिरोहितमिवास्ति ॥ २१ ॥

सायणः

स यत्राह । इत्यनुयाजप्रसवविधिः । नात्र तिरोहितमिति । विस्पष्ट एवार्थः । कथं सविता ? उच्यते- यस्मात् ‘ते’ तुभ्यम् ‘एते’ अध्वर्यवो ‘यज्ञं प्राहुः’, ‘बृहस्पतये’ च; न मह्यं मनुष्याय, ‘तेन’ कारणेन त्वमनुज्ञया यज्ञादीनव पालय (का. श्रौ. सू. २ । ४२) 28 ॥ २१ ॥

Eggeling
  1. When he (the Adhvaryu) says, ‘Brahman, shall I step forward?’ the Brahman mutters thus (Vāj. S. II, 12), ‘This thy sacrifice, O divine Savitr̥, they have announced . . .,’–thereby he has recourse to Savitr̥ for his impulsion (prasava), for he is the impeller (prasavitr̥) of the gods;–’to Br̥haspati, the Brahman,’–for Br̥haspati, assuredly, is the Brahman of the gods: hence he announces that (sacrifice) to him who is the Brahman of the gods; and accordingly he says, ’to Br̥haspati, the Brahman.’–‘Therefore prosper the sacrifice, prosper the lord of sacrifice, prosper me!’ In this there is nothing that requires explanation.

२२

विश्वास-प्रस्तुतिः

म᳘नो जूति᳘र्जुषतामा᳘ज्यस्ये᳘ति॥
म᳘नसा वा᳘ इदᳫँ᳭ स᳘र्वमाप्तं तन्म᳘नसै᳘वैतत्स᳘र्व्वमाप्नोति बृ᳘हस्प᳘तिर्यज्ञ᳘मिमं᳘ तनोत्व᳘रिष्टं यज्ञᳫँ᳭ स᳘मिमं᳘ दधात्वि᳘ति यद्वि᳘वृढं तत्स᳘न्दधाति व्वि᳘श्वे देवा᳘स ऽइह᳘ मादयन्तामि᳘ति स᳘र्व्वं वै व्वि᳘श्वे देवाः स᳘र्व्वेणै᳘वैतत्स᳘न्दधाति स य᳘दि काम᳘येत ब्रूयात्प्र᳘तिष्ठे᳘ति य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥

मूलम् - श्रीधरादि

म᳘नो जूति᳘र्जुषतामा᳘ज्यस्ये᳘ति॥
म᳘नसा वा᳘ इदᳫँ᳭ स᳘र्वमाप्तं तन्म᳘नसै᳘वैतत्स᳘र्व्वमाप्नोति बृ᳘हस्प᳘तिर्यज्ञ᳘मिमं᳘ तनोत्व᳘रिष्टं यज्ञᳫँ᳭ स᳘मिमं᳘ दधात्वि᳘ति यद्वि᳘वृढं तत्स᳘न्दधाति व्वि᳘श्वे देवा᳘स ऽइह᳘ मादयन्तामि᳘ति स᳘र्व्वं वै व्वि᳘श्वे देवाः स᳘र्व्वेणै᳘वैतत्स᳘न्दधाति स य᳘दि काम᳘येत ब्रूयात्प्र᳘तिष्ठे᳘ति य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥

मूलम् - Weber

म᳘नो जूति᳘र्जुषतामा᳘ज्यस्ये᳘ति॥
म᳘नसा वा᳘ इदᳫं स᳘र्वमाप्तं तन्म᳘नसैॗवैतत्स᳘र्वामाप्नोति बृ᳘हस्प᳘तिर्यज्ञ᳘मिमं᳘ तनोत्व᳘रिष्टं यज्ञᳫं स᳘मिमं᳘ दधात्वि᳘ति यद्वि᳘वृढं तत्सं᳘दधाति वि᳘श्वे देवा᳘स इह᳘ मादयन्तामि᳘ति स᳘र्वं वै वि᳘श्वे देवाः स᳘र्वेणैॗवैतत्सं᳘दधाति स य᳘दि काम᳘येत ब्रूयात्प्र᳘तिष्ठे᳘ति य᳘द्यु काम᳘येता᳘पि ना᳘द्रियेत॥

मूलम् - विस्वरम्

“मनो जूतिर्जुषतामाज्यस्य” -(वा० सं० २।१३) इति । मनसा वा इदं सर्वमाप्तम् । तन्मनसैवैतत्सर्वमाप्नोति । “बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधातु” -(वा० सं० २ । १३) इति । यद्विवृढम्, तत्सन्दधाति । “विश्वे देवास इह मादयन्ताम्” -(वा० सं० २ । १३) इति । सर्वं वै विश्वेदेवाः । सर्वेणैवैतत् सन्दधाति । स यदि कामयेत ब्रूयात्- “प्रतिष्ठा” -(वा० सं० २ । १३) इति । यद्यु कामयेतापि नाद्रियेत ॥ २२ ॥

सायणः

मनो जूतिः । ‘मनः’ च देवानां ‘जूतिः’ ‘गन्त्री’ ‘जुषताम्’ प्रीयतां तृप्यत्वाज्येन । ‘बृहस्पतिः’ च ‘यज्ञं’ ‘तनोतु, सन्दधातु’ च । ‘विश्वे’ च ‘देवाः’ तृप्यन्तु, त्वया ऽनुज्ञाते ऽथ्वर्यौ । तस्मादनुजानीहीत्यभिप्रायमालक्ष्य सवितुः, स्वयं ब्रह्मा आह- सार्वात्म्यादहमेव सविता, ततश्च ‘प्रतिष्ठा’ अध्वर्यौ । अतिसर्जने लोट् (पा. सू. ३ । ३ । १६३) ॥ २२ ॥ २ ( ७. ४. )

इत्याचार्यहरिस्वामिनः कृतौ शतपथभाष्ये सप्तमाध्याये चतुर्थं ब्राह्मणम् ॥

नागस्वामिसुतो ऽवन्त्यां पाराशर्यो वसन् हरिः । श्रुत्यर्थं दर्शयामास शक्तितः पौष्करीयकः ॥

श्रीमतो ऽवन्तिनाथस्य विक्रमार्कस्य भूपतेः । धर्माध्यक्षो हरिस्वामी व्याख्यच्छातपथीं श्रुतिम् ॥

इति श्रीमदाचार्यहरिस्वामिनः कृतौ शतपथभाष्ये सप्तमो ऽध्यायः समाप्तः ॥ ७ ॥

Eggeling
  1. [He continues, Vāj. S. II, 13]: ‘May his mind delight in the gushing (of the) butter 29!’ By the mind, assuredly, all this (universe) is obtained (or pervaded, āptam): hence he thereby obtains this All by the mind.–‘May Br̥haspati spread (carry through) this sacrifice! May he restore the sacrifice uninjured!’–he thereby restores what was torn asunder.–‘May all the gods rejoice here!’–‘all the gods,’ doubtless, means the All: hence he thereby restores (the sacrifice) by means of the All. He may add, ‘Step forward!’ if he choose; or, if he choose, he may omit it.

  1. “प्राशित्रं ब्रह्मणो भागावदानम् । तत् ह्रियते येन पात्रेण तत्पात्रं प्राशित्रहरणम् । तच्च आदर्शसदृशं वर्तुलं चमससदृशं चतुरस्रं वा खातवञ्च भवति। का. श्रौ. सू. १ । ३ । ४०-४१ । द्रष्टव्ये । ↩︎ ↩︎

  2. 209:1 For other versions of this legend about Prajāpati (Brahman)’s illicit passion for his daughter, which, as Dr. Muir suggests, probably refers to some atmospheric phenomenon, see Ait. Br. III, 33, and Tāṇḍya Br. VIII, 2, 10; cf. Muir, Original Sanskrit Texts, IV, p. 45; I, p. 107. See also Śat. Br. II, 1, 2, 9, with note. ↩︎

  3. 209:2 The construction here is irregular. Perhaps this is part of the speech of the gods, being a kind of indirect address to Rudra in order to avoid naming the terrible god. Dr. Muir translates: The gods said, “This god, who rules over the beasts, commits a transgression in that he acts thus to his own daughter, our sister: pierce him through.”’ In the Kāṇva MS. some words seem to have been omitted at this particular place. According to the Ait. Br., the gods created a god Bhūtavat, composed of the most fearful forms of theirs. After piercing the incarnation of Prajāpati’s sin, he asked, and obtained, the boon that he should henceforth be the ruler of cattle. ↩︎

  4. “यैषा रौद्री शस्यते" इत्यादि ऐ० ब्रा० ३ । ३ । १० । ↩︎

  5. 209:3 Viz., Rig-veda X, 61, 7, where verses 5-7 contain the first allusion to this legend. ↩︎

  6. 209:4 The āgnimāruta is one of the śāstras recited at the evening libation of the Soma-sacrifice; and made up chiefly of a hymn addressed to Agni Vaiśvānara and one to the Maruts; and [following the stotriya and anurūpa pragātha] a hymn to Jātavedas; [and one to the Āpas, followed by various detailed verses or couplets]; viz., Rig-veda III, 3, ‘vaiśvānarāya pr̥thupājase,’ &c., and I, 87, ‘pratvakshasaḥ pratavaso,’ &c. [Rig-veda I, 168, 1-2, stotriya; VII, 16, II-32, anurūpa]; and Rig-veda I, 143, ‘pratavyasīm navyasīm,’ &c. (and X, 9, ‘āpo hi shṭḥā mayobhuvas,’ &c.) respectively, at the Agnishṭoma (and first day of the dvādaśāha). See Āśv. Śr. V, 20, 5; Ait. Br. III, 35; IV, 30. ↩︎

  7. 210:1 According to Ait. Br. III, 35, where this legend is also given in connection with the āgnimāruta śāstra, Agni Vaiśvānara, aided by the Maruts, stirred (and heated) the seed; and out of it sprang successively Āditya (the sun), Bhr̥gu, and the Ādityas; whilst the coals (aṅgāra) remaining behind became the Aṅgiras, and Br̥haspati, and the coal dust, the burnt earth and ashes were changed into various kinds of animals. According to Harisvāmin it would seem that our passage has to he understood to the effect that the composition of the āgnimāruta śāstra shows the order of beings which the gods caused to spring forth from the seed. See also IV, 5, I, 8. ↩︎

  8. 210:2 See note on I, 7, 4, 18. ↩︎

  9. 210:3 ‘Nirdadāha.’ The Kaushīt. Br. VI, 10 (Ind. Stud. II, 306) and Yāska Nir. 1 2, 14 have nirjaghāna, ‘it knocked out his eyes.’ The Kaushīt. Br. also makes them first take the prāśitra to Savitr̥, and when it cut his hands, they gave him two golden ones. ↩︎

  10. 211:1 Caru, in the ordinary sense of the word, is a potful of rice (barley, &c.) grains boiled, or rather steamed (antarūshmapakva), so as to remain whole, as in Indian curry. Cf. Weber, Ind. Stud. IX, p. 216. ↩︎

  11. 211:2 According to Kaushīt. Br. VI, 10, they took it from Pūshan to Indra, as the mightiest and-strongest of the gods; and he appeased it with prayer (brahman); whence the Brahman (in taking the prāśitra) says, ‘Indra is Brahman.’ Weber, Ind. Stud. II, p. 307. ↩︎

  12. 211:3 The consistent use of derivations from one and the same root (pra-su) in this and similar passages is, of course, quite as artificial in Sanskrit as must be any imitation of it in English. ↩︎

  13. “अप उपस्पृश्येडां पञ्चावत्तामित्यादि” का. श्रौ. सू. ३ । ७४ ॥ ↩︎

  14. 211:4 He thereby averts the evil effects of the act which is connected with Rudra, ’the terrible god;’ see p. 2, note 2. Besides, the iḍā with which he now proceeds representing the cattle, he thereby guards the cattle from the rudriya, cf. above I, 7, 3, 21. ↩︎

  15. 211:5 See I, 8, 1, 12, 13. ↩︎

  16. 212:1 According to Kāty. III, 4, 7, the prāśitra, or (Brahman’s) fore-portion, is to be of the size of a barley-corn or a pippala (Ficus Religiosa) berry. ↩︎

  17. 212:2 There is no indication in the text of two different practices being here referred to. The Kāṇva recension, however, puts in here, ‘but let him not do so,’ which is evidently understood in our text also. ↩︎

  18. 212:3 Viz. in the prāśitraharaṇa, or pan which is to receive the Brahman’s portion. The hollow part of the vessel is to be either of the shape of a (hand-)mirror, i.e. with a round bowl, or of that of a camasa or jug, i.e. with a square bowl (p. 7, note 1). Kāty. I, 3, 40, 42. On the underlayer’ of butter, see I, 7, 2, 8. ↩︎

  19. “अध्वर्युः सञ्चरेण ब्रह्मणे प्रदाय पूर्वेणैके" का. श्रौ. सू. ३ । ७४ ॥ ↩︎ ↩︎

  20. 212:4 ‘Tiryag evainaṁ nirmimīte.’ I am in doubt as to whether enam (which is omitted in the Kāṇva text) really refers to Rudra’s dart. Cf. par. 9. ↩︎

  21. 213:1 According to Kāty. II, 2, 15, he first looks at it, with the text (Vāj. S. p. 58): ‘With Mitra’s eye I look on thee!’ ↩︎

  22. 213:2 According to Kāty. II, 2, 17, he previously puts it down on the shoulder of the altar, with the text (Vāj. S. p. 58), ‘I put you down, on the navel of the earth, in the lap of Aditi!’ According to 19, however, this is optional (except when the Brahman does not eat the prāśitra immediately). ↩︎

  23. “प्रक्षाल्य पात्रं नाभिमालभते" इत्यादि का. श्रौ. सू. २ । ४१ । ↩︎ ↩︎ ↩︎

  24. 213:3 According to Kāty. II, 2, 20, the Brahman, having rinsed the vessel [or, according to the comment, the two prāśitraharaṇa, one of which is used as lid to the other], touches his navel, with the text (Vāj. S. p. 58), ‘May the deities there are in the waters purify this! Enter the stomach of Indra, being offered with “Hail!” Mix not with my food! Settle down above my navel! In Indra’s stomach I make thee settle!’ ↩︎

  25. 214:1 The Brahman’s regular portion (brahmabhāga) of the sacrificial food is cut, like the prāśitra or fore-portion (which apparently he receives as the representative of Br̥haspati), from Agni’s cake. ↩︎

  26. 214:2 See I, 1, 4, 9. ↩︎

  27. 214:3 According to the scholiast, it represents the pākayajña or domestic (cooked) offerings, because at the latter, as in the iḍā, the remains of the offerings are eaten. ↩︎

  28. “एतं त इति समिदामन्त्रितः प्रसोति” “प्रतिष्ठेति ब्रूयाद्वा” इति का. श्रौ. सू. २ । ४२-४३ । ↩︎

  29. 215:1 ? ‘Mano jūtir [jyotir, Kāṇva rec.] jushatām ājyasya.’ I am inclined to read jūter [cf. Ath.-veda XIX, 58, 1: ghr̥tasya jūtiḥ samānā]. Mahīdhara interprets: ‘May the rushing (eager) mind devote itself to the butter!’ Hillebrandt, Neu- and Vollmondsopfer, p. 135, apparently proposes to combine manojūtir ‘des Geistes Schnelligkeit.’ Perhaps jushatām has to be taken in a transitive sense: ‘May the gushing of the butter delight the mind.’ ↩︎