०१

विश्वास-प्रस्तुतिः

यज्ञे᳘न वै᳘ देवाः॥
(०) दि᳘वमुपो᳘दक्रामन्न᳘थ᳘ यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे स᳘ ऽइ᳘हाहीयत᳘ त᳘स्माद्वास्त᳘व्य ऽइ᳘त्याहुर्व्वा᳘स्तौ हि तद᳘हीयत॥

मूलम् - श्रीधरादि

यज्ञे᳘न वै᳘ देवाः॥
(०) दि᳘वमुपो᳘दक्रामन्न᳘थ᳘ यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे स᳘ ऽइ᳘हाहीयत᳘ त᳘स्माद्वास्त᳘व्य ऽइ᳘त्याहुर्व्वा᳘स्तौ हि तद᳘हीयत॥

मूलम् - Weber

यज्ञे᳘न वै᳘ देवाः᳟॥
दि᳘वमुपो᳘दक्रामन्न᳘थॗ यो ऽयं᳘ देवः᳘ पशूनामीष्टे स᳘ इॗहाहीयत त᳘स्माद्वास्तव्य᳘ इ᳘त्याहुर्वा᳘स्तौ हि᳘ तद᳘हीयत॥

मूलम् - विस्वरम्

स्विष्टकृदाहुतिः ।

यज्ञेन वै देवा दिवमुपोदक्रामन् । अथ यो ऽयं देवः पशूनामीष्टे स इहाहीयत । तस्माद्वास्तव्य इत्याहुः । वास्तौ हि तदहीयत ॥ १ ॥

सायणः

अथाग्नये स्विष्टकृद्यागम्, तस्य प्रधानयागसमानन्तर्यञ्च विधातुमाख्यायिकामाह- यज्ञेन वा इति । पुरा खलु ‘देवाः’ ‘यज्ञेन’ साधनेन ‘दिवं’ प्राप्ताः; तथा पश्वभिमानी ‘देवः’ रुद्रः ‘इह’ यज्ञवास्तावुषित्वा द्युलोकाद्धीनो ऽभूत् । अत एव ‘वास्तौ’ एव स्थितत्वादुद्रो ‘वास्तव्य इति’ वेदविदः कथयन्ति ॥ १ ॥

Eggeling
  1. Now by means of the sacrifice the gods ascended to heaven. But the god who rules over

the cattle was left behind here: hence they call him Vāstavya, for he was then left behind on the (sacrificial) site 1 (vāstu).

०२

विश्वास-प्रस्तुतिः

स ये᳘नैव᳘ देवा दि᳘वमुपोद᳘क्रामन्॥
(न्ते᳘) ते᳘नो ऽएवा᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुर᳘थ᳘ यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे य᳘ ऽइहा᳘हीयत॥

मूलम् - श्रीधरादि

स ये᳘नैव᳘ देवा दि᳘वमुपोद᳘क्रामन्॥
(न्ते᳘) ते᳘नो ऽएवा᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुर᳘थ᳘ यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे य᳘ ऽइहा᳘हीयत॥

मूलम् - Weber

स ये᳘नैव᳘ देवा दि᳘वमुपोद᳘क्रामन्॥
ते᳘नो एवा᳘र्चन्तः श्रा᳘म्यन्तश्चेरुर᳘थॗ यो ऽयं᳘ देवः᳘ पशूनामी᳘ष्टे य᳘ इहा᳘हीयत॥

मूलम् - विस्वरम्

स येनैव देवा दिवमुपोदक्रामन्, तेनो एवार्च्चन्तः श्राम्यन्तश्चेरुः । अथ यो ऽयं देवः पशूनामीष्टे- य इहाहीयत ॥ २ ॥

सायणः

रुद्रस्येहैव हीनभावे कारणाभिधानायाह- स येनैवेति । ‘अथ’ रुद्राः ‘देवाः’ ‘येन’ यज्ञेन साधनेन ‘दिवं’ गताः, ‘तेनैव’ साधनेन । तत्साधयितुं साधनमतिदुस्सम्पादमिति ब्रुवन् आत्मानमन्तरेण क्लेशापनयनाय स्वर्गसाधनमन्वतिष्ठत् ? ॥ २ ॥

Eggeling
  1. The gods went on worshipping and toiling with the same (sacrifice) by which they had ascended to heaven. Now the god who rules over the cattle, and who was left behind here,–

०३

विश्वास-प्रस्तुतिः

स᳘ ऽऐक्षत॥
(ता᳘) अ᳘हास्य᳘ हान्त᳘र्यन्त्यु मा यज्ञादि᳘ति᳘ सो ऽनू᳘च्चक्राम स ऽआ᳘यतयोत्तरत᳘ ऽउपो᳘त्पेदे स᳘ ऽएष᳘ स्विष्टकृ᳘तः कालः॥

मूलम् - श्रीधरादि

स᳘ ऽऐक्षत॥
(ता᳘) अ᳘हास्य᳘ हान्त᳘र्यन्त्यु मा यज्ञादि᳘ति᳘ सो ऽनू᳘च्चक्राम स ऽआ᳘यतयोत्तरत᳘ ऽउपो᳘त्पेदे स᳘ ऽएष᳘ स्विष्टकृ᳘तः कालः॥

मूलम् - Weber

स᳘ ऐक्षत॥
अ᳘हास्य᳘ हान्त᳘र्यन्त्यु मा यज्ञादि᳘तिॗ सो ऽनू᳘च्चक्राम स आ᳘यतयोत्तरत᳘ उपो᳘त्पेदे य᳘ एष᳘ स्विष्टकृ᳘तः कालः᳟॥

मूलम् - विस्वरम्

स ऐक्षत- “अहास्य हान्तर्यन्त्यु मा यज्ञाद्” इति । सो ऽनूच्चक्राम । स आयतयोत्तरत उपोत्पेदे य एष स्विष्टकृतः कालः ॥ ३ ॥

सायणः

स ऽऐक्षतेति । स चाहं देवैस्त्यक्तो ऽभूवम् । मां यज्ञादेते व्यवहितं कुर्वन्तीत्येवेति विचार्य स्वयं यज्ञप्रदेशं प्रत्युच्चक्राम 2 । स क्रुद्धो भूत्वोत्तरस्यां दिशि स्विष्टकृत्काले यज्ञं प्रतिरोद्धुमुत्तस्थौ ॥ ३ ॥

Eggeling
  1. He saw (what occurred, and said), ‘I have been left behind: they are excluding me from the sacrifice!’ He went up after them, and with his raised (weapon) 3 rose up on the north–the time (when this happened) was that of the (performance of the) Svishṭakr̥t.

०४

विश्वास-प्रस्तुतिः

(स्ते᳘) ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्मा) मा व्वि᳘स्रक्षीरि᳘ति ते वै᳘ मा यज्ञा᳘न्मान्त᳘र्गता᳘हुतिं मे कल्पयते᳘ति तथे᳘ति स स᳘मबृहत्स᳘ नास्यत्स न क᳘ञ्च᳘नाहिनत्॥

मूलम् - श्रीधरादि

(स्ते᳘) ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्मा) मा व्वि᳘स्रक्षीरि᳘ति ते वै᳘ मा यज्ञा᳘न्मान्त᳘र्गता᳘हुतिं मे कल्पयते᳘ति तथे᳘ति स स᳘मबृहत्स᳘ नास्यत्स न क᳘ञ्च᳘नाहिनत्॥

मूलम् - Weber

ते᳘ देवा᳘ अब्रुवन्॥
मा वि᳘स्रक्षीरि᳘ति ते वै᳘ मा यज्ञाॗन्मान्त᳘र्गता᳘हुतिम् मे कल्पयते᳘ति तथे᳘ति स स᳘मबृहत्सॗ नास्यत्स न कं᳘ चॗनाहिनत्॥

मूलम् - विस्वरम्

ते देवा अब्रुवन्- मा विस्रक्षीरिति । ते वै मा यज्ञान्मान्तर्गत; आहुतिं मे कल्पयतेति । तथेति । स समबृहत् स नास्यत्, स न कञ्चनाहिनत् ॥ ४ ॥

सायणः

तथा च सति- ते देवा अब्रुवन्निति । ‘ते देवाः’ अमुं यज्ञं विसृष्टं मा कार्षीरित्यब्रुवन् । अथ सः रुद्रो ऽपि हे देवाः ! ‘ते’ यूयं ‘मा’ मां ‘यज्ञात्’ अन्तर्हितं ‘मा’ कार्ष्ट, अत एव आहुतिं ‘मे’ मदर्थं ‘कल्पयतेति’ उक्तवान् । तैः ‘तथा’ अस्तु ‘इति’ उक्ते ‘सः’ रुद्रो यज्ञं ‘समबृहत्’ ऊर्द्ध्वं प्रापयत्; न च हविरादिकं बहिः क्षिप्तवान् । तथा ‘कञ्चन’ किमपि यज्ञावयवं न हिंसितवान् ॥ ४ ॥

Eggeling
  1. The gods said, ‘Do not hurl!’ He said, ‘Do not ye exclude me from the sacrifice! Set apart an oblation for me!’ They replied, ‘So be it!’ He withdrew (his weapon), and did not hurl it; nor did he injure any one.

०५

विश्वास-प्रस्तुतिः

(त्ते᳘) ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्या᳘) या᳘वन्ति नो हवी᳘ᳫं᳘षि गृहीतान्य᳘भूवन्त्स᳘र्व्वेषां ते᳘षाᳫं हुतमु᳘पजानीत य᳘थास्मा ऽआ᳘हुतिं कल्प᳘यामे᳘ति᳘॥

मूलम् - श्रीधरादि

(त्ते᳘) ते᳘ देवा᳘ ऽअब्रुवन्॥
(न्या᳘) या᳘वन्ति नो हवी᳘ᳫं᳘षि गृहीतान्य᳘भूवन्त्स᳘र्व्वेषां ते᳘षाᳫं हुतमु᳘पजानीत य᳘थास्मा ऽआ᳘हुतिं कल्प᳘यामे᳘ति᳘॥

मूलम् - Weber

ते᳘ देवा᳘ अब्रुवन्॥
या᳘वन्ति नो हवीं᳘षि गृहीतान्य᳘भूवन्त्स᳘र्वेषां ते᳘षाᳫं हुतमु᳘पजानीत य᳘थास्मा आ᳘हुतिं कल्प᳘यामे᳘ति᳟॥

मूलम् - विस्वरम्

ते देवा अब्रुवन् “यावन्ति नो हवींषि गृहीतान्यभूवन्, सर्वेषां तेषां हुतमुपजानीत, यथास्मा आहुतिं कल्पयाम” -इति ॥ ५ ॥

सायणः

ते देवा इति । अथ ‘ते देवाः’ परस्परमित्थम् ‘अब्रुवन्’ अस्माकं प्रदानाय ‘यावन्ति हवींषि गृहीतानि’, ‘तेषां’ पूर्वमाहुतानां ‘हुतं’ शिष्टम् ‘उपजानीत’ ‘यथा’ येन प्रकारेण द्रव्येण ‘अस्मै’ रुद्राय ‘आहुतिं कल्पयाम’ ‘इति’ ॥ ५ ॥

Eggeling
  1. The gods said (to one another), ‘Whatever portions of sacrificial food have been taken out by us, they have all been offered up. Try to discover

some means by which we may set apart an oblation for him!’

०६

विश्वास-प्रस्तुतिः

ते ऽध्वर्यु᳘मब्रुवन्॥
(न्य) यथापूर्व्व᳘ᳫं᳘ हवी᳘ᳫं᳘ष्यभि᳘घारयै᳘कस्मा ऽअवदा᳘नाय पु᳘नराप्यायया᳘यातयामानि कुरु त᳘त ऽए᳘कैकमवदा᳘नम᳘वद्येति᳘॥

मूलम् - श्रीधरादि

ते ऽध्वर्यु᳘मब्रुवन्॥
(न्य) यथापूर्व्व᳘ᳫं᳘ हवी᳘ᳫं᳘ष्यभि᳘घारयै᳘कस्मा ऽअवदा᳘नाय पु᳘नराप्यायया᳘यातयामानि कुरु त᳘त ऽए᳘कैकमवदा᳘नम᳘वद्येति᳘॥

मूलम् - Weber

ते ऽध्वर्यु᳘मब्रुवन्॥
यथापूर्व᳘ᳫं᳘ हवीं᳘ष्यभि᳘घारयै᳘कस्मा अवदा᳘नाय पु᳘नराप्यायया᳘यातयामानि कुरु त᳘त ए᳘कैकमवदा᳘नम᳘वद्ये᳘ति᳟॥

मूलम् - विस्वरम्

ते ऽध्वर्युमब्रुवन्- “यथापूर्वं हवींष्यभिघारय, एकस्मा अवदानाय पुनराप्यायय, अयातयामानि कुरु, तत एकैकमवदानमवद्य” -इति ॥ ६ ॥

सायणः

एवमुक्त्वा, “ते ऽध्वर्युमब्रुवन्” इति । हे अध्वर्यो ! त्वमस्माकमवत्तानि ‘हवींषि’ आग्नेयादिक्रमेण अभिघारणं कुरु । तथा चैकस्मै, ततो ऽप्यवशिष्टायावदानाय, ‘पुनः’ तदवत्तशेषम्, ‘पुनः’ अभिघारणेन ‘आप्यायय’, ततः अयातयामं कृत्वा सर्वाण्यप्यवत्तशेषाणि अगतसाराणि कुरु ‘ततः’ ‘एकैकं’ यावन्तः प्रधानशेषास्तेष्वेकैकमवदानं कुरु ॥ ६ ॥

Eggeling
  1. They said to the Adhvaryu priest, ‘Sprinkle the sacrificial dishes (with butter) in proper succession; and replenish them for the sake of one (additional) portion, and again render them fit for use; and then cut off one portion for each!’

०७

विश्वास-प्रस्तुतिः

सो ऽध्वर्युः᳘॥
(र्य) यथापूर्व्व᳘ᳫँ᳘ हवी᳘ᳫं᳘ष्यभ्यघारयदे᳘कस्मा ऽअवदा᳘नाय पु᳘नरा᳘प्याययद᳘यातयामान्यकरोत्त᳘त ऽए᳘कैकमवदा᳘नम᳘वाद्यत्त᳘स्माद्वास्त᳘व्य ऽइ᳘त्याहुर्व्वा᳘स्तु हि त᳘द्यज्ञ᳘स्य य᳘द्धुते᳘षु हवि᳘ष्षु त᳘स्माद्य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्य᳘ते सर्व्व᳘त्रैव᳘ स्विष्टकृ᳘दन्वा᳘भक्तः सर्व्व᳘त्र᳘ ह्ये᳘वैनं देवा᳘ ऽअन्वा᳘भजन्॥

मूलम् - श्रीधरादि

सो ऽध्वर्युः᳘॥
(र्य) यथापूर्व्व᳘ᳫँ᳘ हवी᳘ᳫं᳘ष्यभ्यघारयदे᳘कस्मा ऽअवदा᳘नाय पु᳘नरा᳘प्याययद᳘यातयामान्यकरोत्त᳘त ऽए᳘कैकमवदा᳘नम᳘वाद्यत्त᳘स्माद्वास्त᳘व्य ऽइ᳘त्याहुर्व्वा᳘स्तु हि त᳘द्यज्ञ᳘स्य य᳘द्धुते᳘षु हवि᳘ष्षु त᳘स्माद्य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्य᳘ते सर्व्व᳘त्रैव᳘ स्विष्टकृ᳘दन्वा᳘भक्तः सर्व्व᳘त्र᳘ ह्ये᳘वैनं देवा᳘ ऽअन्वा᳘भजन्॥

मूलम् - Weber

सो ऽध्वर्युः᳟॥
यथापूर्व᳘ᳫं᳘ हवीं᳘ष्यभ्यघारयदे᳘कस्मा अवदा᳘नाय पु᳘नरा᳘प्याययद᳘यातयामान्यकरोत्त᳘त ए᳘कैकमवदा᳘नम᳘वाद्यत्त᳘स्माद्वास्तव्य᳘ इ᳘त्याहुर्वा᳘स्तु हि त᳘द्यज्ञ᳘स्य य᳘द्धुते᳘षु हविः᳘षु त᳘स्माद्य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्य᳘ते सर्व᳘त्रैव᳘ स्विष्टकृ᳘दन्वा᳘भक्तः सर्व᳘त्रॗ ह्येॗवैनं देवा᳘ अन्वा᳘भजन्॥

मूलम् - विस्वरम्

सो ऽध्वर्युर्यथापूर्वं हवींष्यभ्यघारयत्, एकस्मा अवदानाय पुनराप्याययत्, अयातयामान्यकरोत्, तत एकैकमवदानमवाद्यत् । तस्माद्वास्तव्य इत्याहुः । वास्तु हि तद् यज्ञस्य- यद्भुतेषु हविष्षु | तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते, सर्वत्रैव स्विष्टकृदन्वाभक्तः, सर्वत्र ह्येवैनं देवा अन्वाभजन् ॥७॥

सायणः

देवैरभिहितमर्थमध्वर्युणा तथैवानुष्ठितमर्थं श्रुतिर्भूतार्थेन लेटा ऽनुवदति- सो ऽर्ध्वयुरित्यादिना । इदानीमवशिष्टभाक्त्वेन रुद्रस्य वास्तव्यत्वप्रसिद्धिमाह- तस्मादिति । आख्यायिकासिद्धमर्थमिदानीं विधत्ते तस्माद यस्यै कस्यै चेति । हविर्ग्रहणवत्सर्वप्रदेशेष्वपि स्विष्टकृतो नियतत्वे कारणाभिधानं- सर्वत्र हीति । रुद्रः ‘अन्वाभक्तः’ ॥ ७ ॥

Eggeling
  1. The Adhvaryu accordingly sprinkled the sacrificial dishes in proper succession, and replenished them for the sake of one (additional) portion, and again rendered them fit for use, and cut off one portion for each. This then is the reason why he (Rudra) is called Vāstavya 4, for a remainder (vāstu) is that part of the sacrifice which (is left) after the oblations have been made: hence, if sacrificial food is offered to any deity, the Svishṭakr̥t (Agni, ’the maker of good offering’) is afterwards invariably offered a share of it; because the gods invariably gave him a share after themselves.

०८

विश्वास-प्रस्तुतिः

(जंस्त) तद्वा᳘ ऽअग्न᳘य ऽइ᳘ति क्रियते॥
(ते ऽग्नि) अग्निर्वै स᳘ देवस्त᳘स्यैता᳘नि ना᳘मानि शर्व्व ऽइ᳘ति य᳘था प्राच्या᳘ ऽआच᳘क्षते भव ऽइ᳘ति य᳘था बाहीकाः᳘ पशूनाम्प᳘ती रु᳘द्रो ऽग्निरि᳘ति ता᳘न्यस्या᳘शान्तान्येवे᳘तराणि ना᳘मान्यग्निरि᳘त्येव᳘ शान्त᳘तमं त᳘स्मादग्न᳘य ऽइ᳘ति क्रियते स्विष्टकृ᳘त ऽइ᳘ति॥

मूलम् - श्रीधरादि

(जंस्त) तद्वा᳘ ऽअग्न᳘य ऽइ᳘ति क्रियते॥
(ते ऽग्नि) अग्निर्वै स᳘ देवस्त᳘स्यैता᳘नि ना᳘मानि शर्व्व ऽइ᳘ति य᳘था प्राच्या᳘ ऽआच᳘क्षते भव ऽइ᳘ति य᳘था बाहीकाः᳘ पशूनाम्प᳘ती रु᳘द्रो ऽग्निरि᳘ति ता᳘न्यस्या᳘शान्तान्येवे᳘तराणि ना᳘मान्यग्निरि᳘त्येव᳘ शान्त᳘तमं त᳘स्मादग्न᳘य ऽइ᳘ति क्रियते स्विष्टकृ᳘त ऽइ᳘ति॥

मूलम् - Weber

तद्वा᳘ अग्न᳘य इ᳘ति क्रियते॥
अग्निर्वै स᳘ देवस्त᳘स्यैता᳘नि ना᳘मानि शर्व इ᳘ति य᳘था प्राच्या᳘ आच᳘क्षते भव इ᳘ति य᳘था बाहीकाः᳘ पशूनाम् प᳘ती रुॗद्रो ऽग्निरि᳘ति ता᳘न्यस्या᳘शान्तान्येवे᳘तराणि ना᳘मान्यग्निरि᳘त्येव᳘ शान्त᳘तमं त᳘स्मादग्न᳘य इ᳘ति क्रियते स्विष्टकृ᳘त इ᳘ति॥

मूलम् - विस्वरम्

तद्वा अग्नय इति क्रियते । अग्निर्वै स देवः । तस्यैतानि नामानि शर्व इति यथा प्राच्या आचक्षते भव इति यथा बाहीकाः पशूनां पती रुद्रः, अग्निरिति । तान्यस्याशान्तान्येवेतराणि नामानि, अग्निरित्येव शान्ततमम् । तस्मादग्नय इति क्रियते स्विष्टकृत इति ॥ ८ ॥

सायणः

कथमग्नये स्विष्टकृति क्रियत इत्याशङ्क्याह- तद्वा अग्नय इतीति । प्राच्यादिदेशभेदेन शर्वादिनामभेदे ऽपि देवतैकैवेत्यर्थः । यद्येवं तर्हि अन्यन्नाम किन्न स्यादित्यत आह- तान्यस्येति । ‘अस्य’ रुद्रस्य अग्निनामाभिधेयस्य पावकादिनाम; सर्वलोकोपकारित्वात् ‘तस्मात्’ तत्र सर्वत्र ‘अग्नये- इति क्रियते’ ॥ ८ ॥

Eggeling
  1. That (offering) then is certainly made to ‘Agni,’ for, indeed, Agni is that god;–his are these names: Śarva, as the eastern people call him; Bhava, as the Bāhīkas (call him); Paśūnām pati (’lord of beasts,’ Paśupati), Rudra, Agni 5. The name Agni, doubtless, is the most auspicious

(śānta), and the other names of his are inauspicious: hence it is offered to (him under the name of) ‘Agni,’ and to (him as) the Svishṭakr̥t.

०९

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र्य) यत्त्व᳘य्यमु᳘त्र सत्य᳘यक्ष्महि त᳘न्नः᳘ स्विष्टं कुर्व्वि᳘ति त᳘देभ्यः᳘ स्विष्टमकरोत्त᳘स्मात्स्विष्टकृ᳘त ऽइ᳘ति᳘॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र्य) यत्त्व᳘य्यमु᳘त्र सत्य᳘यक्ष्महि त᳘न्नः᳘ स्विष्टं कुर्व्वि᳘ति त᳘देभ्यः᳘ स्विष्टमकरोत्त᳘स्मात्स्विष्टकृ᳘त ऽइ᳘ति᳘॥

मूलम् - Weber

ते᳘ होचुः॥
यत्त्व᳘य्यमुत्र सत्य᳘यक्ष्महिॗ त᳘न्नः स्विष्टं कुर्वि᳘ति त᳘देॗभ्यः स्विष्टमकरोत्त᳘स्मात्स्विष्टकृ᳘त इ᳘ति॥

मूलम् - विस्वरम्

ते होचुः- “यत्त्वय्यमुत्र सत्ययक्ष्महि तन्नः स्विष्टं कुर्विति” । तदेभ्यः स्विष्टमकरोत् । तस्मात् स्विष्टकृत इति ॥ ९ ॥

सायणः

अथ किमर्थं स्विष्टकृत इति विशेषणं हविर्दातृभिः क्रियते ? तत्र कारणमाह 6- ते होचुरिति । ‘यद्’ यस्मात् ‘त्वयि’ ‘अमुत्र’ आहवनीयदेशे आहुत्याधारभूते ‘सति’ ‘अयक्ष्महि’ इष्टवन्तः, तस्मात् । अथवा ‘यत्’ हविर्जातम् ‘अयक्ष्महि’ ‘तत्’ सर्वं ‘स्विष्टम्’ अवैकल्येनेष्टं ‘कुरु’; यथा साङ्गं फलवद्भवति, तथा कुर्वित्यर्थः । यस्मादूचुः, ‘तस्मात्’ स तथैव ‘स्विष्टमकरोत्’ सर्वत्रापि विशेषणत्वेन ‘स्विष्टकृत इति’ क्रियते । तस्मात् “अग्नये स्विष्टकृते” इति स्विष्टकृद्यागसमये ब्रूयादित्यर्थः ॥ ९ ॥

Eggeling
  1. They (the gods) said, ‘What we have offered unto thee who art in yonder place 7, do thou render that well-offered (svishṭa) for us!’ He made it well-offered for them; and this is the reason why (it is offered) to (Agni as) the Svishṭakr̥t.

१०

विश्वास-प्रस्तुतिः

सो ऽनुवा᳘क्यामनू᳘च्य स᳘म्पश्यति॥
ये त᳘थाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तम᳘याडग्नि᳘रग्नेः᳘ प्रिया धा᳘मानी᳘ति त᳘दाग्नेयमा᳘ज्यभागमाहा᳘याट्सो᳘मस्य प्रिया धा᳘मानी᳘ति त᳘त्सौम्यमा᳘ज्यभागमाहा᳘याडग्नेः᳘ प्रिया धा᳘मानी᳘ति तद्य᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘माह॥

मूलम् - श्रीधरादि

सो ऽनुवा᳘क्यामनू᳘च्य स᳘म्पश्यति॥
ये त᳘थाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तम᳘याडग्नि᳘रग्नेः᳘ प्रिया धा᳘मानी᳘ति त᳘दाग्नेयमा᳘ज्यभागमाहा᳘याट्सो᳘मस्य प्रिया धा᳘मानी᳘ति त᳘त्सौम्यमा᳘ज्यभागमाहा᳘याडग्नेः᳘ प्रिया धा᳘मानी᳘ति तद्य᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘माह॥

मूलम् - Weber

सो ऽनुवाॗक्यामनू᳘च्य स᳘म्पश्यति॥
ये त᳘थाग्नि᳘ᳫं᳘ स्विष्टकृ᳘तम᳘याडग्नि᳘रग्नेः᳘ प्रिया धा᳘मानी᳘ति त᳘दाग्नेयमा᳘ज्यभागमाहा᳘याट्सो᳘मस्य प्रिया धा᳘मानी᳘ति त᳘त्सौम्यमा᳘ज्यभागमाहा᳘याडग्नेः᳘ प्रिया धा᳘मानी᳘ति तद्य᳘ एष᳘ उभय᳘त्राच्युत᳘ आग्नेयः᳘ पुरोडा᳘शो भ᳘वति त᳘माह॥

मूलम् - विस्वरम्

सो ऽनुवाक्यामनूच्य संपश्यति- ये, तथा ऽग्निं स्विष्टकृतम् । “अयाडग्निरग्नेः प्रिया धामानि” इति तदाग्नेयमाज्यभागमाह । “अयाट् सोमस्य प्रिया धामानि” -इति तत्सौम्यमाज्यभागमाह । “अयाङग्नेः प्रिया धामानि" -इति । तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति तमाह ॥ १० ॥

सायणः

अथ स्विष्टकृन्निगदमभिधातुमाह 6- सो ऽनुवाक्यामिति । ‘सः’ होता । स्विष्टकृदनुवाक्यानन्तरं ‘ये’ आनन्तर्येण प्रयाजाज्यभागादिदेवाः स्विष्टाः, तान् तं ‘स्विष्टकृतमग्निं’ च ‘सम्पश्यति’ संस्मरेत् सम्भूयानुवदेदित्यर्थः । सन्दर्शनप्रकारमनूद्य क्रमेण व्याचष्टे- अयाडग्निरित्यादिना । ‘अयं’ स्विष्टकृत् ‘अग्निः’ ‘अग्नेः’ प्रथमाज्यभागदेवस्य ‘प्रिया’ प्रियाणि ‘धामानि’ ‘इति’ निःशेषाणि ‘अयाट्’ इष्टवान् । ‘तत्’ तेनैतन्मन्त्रभागपाठेन प्रथमम् ‘आज्यभागं’ स्विष्टं कृतवानित्युक्तवान् भवति । एवमितरवाक्यान्यपि योज्यानि । एष स्विष्टकृन्निगद आवाहननिगदेनैव व्याख्यातप्रायः (श. प. ४ अ. २ ब्रा. १६ कं०) ॥ १० ॥

Eggeling
  1. Having recited the invitatory formula 8, he (the Hotr̥) enumerates (those deities) which (have received oblations at the fore-offerings, butter-portions, &c.), as well as Agni Svishṭakr̥t:–‘May Agni offer Agni’s favourite dainties!’ thereby he refers to Agni’s butter-portion 9. ‘May he offer Soma’s favourite dainties!’ thereby he refers to Soma’s butter-portion.–‘May he offer Agni’s favourite dainties!’ thereby he refers to that indispensable cake for Agni which is (offered) on both occasions (at the new- and full-moon sacrifices).

११

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थ यथादेवतम्॥
(म᳘) अ᳘याड्देवा᳘नामाज्यपा᳘नां प्रिया धा᳘मानी᳘ति त᳘त्प्रयाजा᳘नुयाजा᳘नाह प्रयाजानुयाजा वै᳘ देवा᳘ आज्यपा य᳘क्षदग्नेर्हो᳘तुः प्रिया धा᳘मानी᳘ति त᳘दग्निᳫँ हो᳘तारमाह त᳘दस्मा ऽए᳘तां देवा आ᳘हुतिं कल्पयित्वा᳘थैनेनैतद्भू᳘यः स᳘मशाम्यन्प्रिय᳘ ऽएनं धा᳘मन्नु᳘पाह्वयन्त त᳘स्मादेवᳫँ᳭ स᳘म्पश्यति॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थ यथादेवतम्॥
(म᳘) अ᳘याड्देवा᳘नामाज्यपा᳘नां प्रिया धा᳘मानी᳘ति त᳘त्प्रयाजा᳘नुयाजा᳘नाह प्रयाजानुयाजा वै᳘ देवा᳘ आज्यपा य᳘क्षदग्नेर्हो᳘तुः प्रिया धा᳘मानी᳘ति त᳘दग्निᳫँ हो᳘तारमाह त᳘दस्मा ऽए᳘तां देवा आ᳘हुतिं कल्पयित्वा᳘थैनेनैतद्भू᳘यः स᳘मशाम्यन्प्रिय᳘ ऽएनं धा᳘मन्नु᳘पाह्वयन्त त᳘स्मादेवᳫँ᳭ स᳘म्पश्यति॥

मूलम् - Weber

अ᳘थ यथादेवत᳘म्॥
अ᳘याड्देवा᳘नामाज्यपा᳘नाम् प्रिया धा᳘मानी᳘ति त᳘त्प्रयाजा᳘नुयाजा᳘नाह प्रयाजानुयाजा वै᳘ देवा᳘ आज्यपा य᳘क्षदग्नेर्हो᳘तुः प्रिया धा᳘मानी᳘ति त᳘दग्निᳫं हो᳘तारमाह त᳘दस्मा ए᳘तां देवा आ᳘हुतिं कल्पयित्वा᳘थैनेनैतद्भू᳘यः स᳘मशाम्यन्प्रिय᳘ एनं धा᳘मन्नु᳘पाह्वयन्त त᳘स्मादेवᳫं सं᳘पश्यति॥

मूलम् - विस्वरम्

अथ यथादेवतम् । “अयाड् देवानामाज्यपानां प्रिया धामानि” -इति तत्प्रयाजानुयाजानाह । प्रयाजानुयाजा वै देवा आज्यपाः । “यक्षदग्नेर्होतुः प्रिया धामानि" -इति तदग्निं होतारमाह । तदस्मा एतां देवा आहुतिं कल्पयित्वाथैनेनैतद्भूयः समशाम्यन् । प्रिय एनं धामन्नुपाह्वयन्त । तस्मादेवं संपश्यति ॥ ११ ॥

सायणः

संपश्यता चात्र स्विष्टकृदग्निरवान्तरदेववत्स्विष्टीकर्तव्यत्वेनोक्तः, सो ऽभिधीयते- यक्षदग्नेर्होतुः प्रिया धामानीत्यनेन । अत्राज्यभागादिदेवेभ्यो ऽयियक्षितत्वादयाडिति भूतार्थे प्रयोगात् स्विष्टकृदग्नेः स्वस्येतः परं यष्टव्यत्वम् । यक्षदिति विध्यर्थः पञ्चमलकारः (पा० सू० ३ । ४ । ७ ।) अग्निं होतारमाहेति । होमाधारमग्निमाह । स एव स्विष्टकृदग्निः “त्वय्यमुत्र सत्ययक्ष्महीत्युक्तत्वात् (श० प० ७ अ० ३ ब्रा० ९ कं०)” किमेतत्संदर्शनमात्रेणाग्निः कथं स्विष्टं कुर्यादित्याशङ्क्य तस्य प्रीत्युत्पादनप्रकारं दर्शयति- तदस्मा इति । ‘तत्’ तस्मात् ‘अस्मै’ स्विष्टकृते ऽग्नये पूर्वम् ‘एतामाहुतिं कल्पयित्वा’ ‘अथ’ इदानीम् ‘एतेन’ अनेन यक्षदग्नेरिति भागेन ‘भूयः समशाम्यन्’ भूयसीं प्रीतिमुदपादयन् । तस्मादिति । सर्वथाग्नेः सन्तुष्टत्वाय स्विष्टकृत्त्वकरणस्य प्रकाशनादेवं सम्पश्येदित्यर्थः ॥ ११ ॥

Eggeling
  1. And so with the several deities. ‘May he offer the favourite dainties of butter-drinking gods!’ thereby he refers to the fore-offerings (prayāja) and after-offerings (anuyāja), for, assuredly, the butter-drinking gods (represent) the fore-offerings and after-offerings.–‘May he offer Agni the Hotr̥'s

favourite dainties!’ thereby he refers to Agni as Hotr̥; for after the gods had set apart this oblation for him, they still further propitiated him by this (formula), and invited him to his favourite dainty 10: this is the reason why he thus enumerates.

१२

विश्वास-प्रस्तुतिः

तद्धै᳘के॥
देव᳘तां पू᳘र्व्वां कुर्व्वन्त्ययाट्कारा᳘दग्ने᳘रयाट् सो᳘मस्यायाडि᳘ति त᳘दु त᳘था न᳘ कुर्याद्वि᳘लोम ह ते᳘ यज्ञे᳘ कुर्व्वन्ति ये᳘ देव᳘तां पू᳘र्व्वां कुर्व्व᳘न्त्ययाट्कारा᳘दिदᳫं᳭ हि᳘ प्रथम᳘मभिव्याह᳘रन्नयाट्कार᳘मे᳘वाभिव्याह᳘रति त᳘स्मादयाट्कार᳘मेव पू᳘र्व्वं कुर्यात्॥

मूलम् - श्रीधरादि

तद्धै᳘के॥
देव᳘तां पू᳘र्व्वां कुर्व्वन्त्ययाट्कारा᳘दग्ने᳘रयाट् सो᳘मस्यायाडि᳘ति त᳘दु त᳘था न᳘ कुर्याद्वि᳘लोम ह ते᳘ यज्ञे᳘ कुर्व्वन्ति ये᳘ देव᳘तां पू᳘र्व्वां कुर्व्व᳘न्त्ययाट्कारा᳘दिदᳫं᳭ हि᳘ प्रथम᳘मभिव्याह᳘रन्नयाट्कार᳘मे᳘वाभिव्याह᳘रति त᳘स्मादयाट्कार᳘मेव पू᳘र्व्वं कुर्यात्॥

मूलम् - Weber

तद्धै᳘के॥
देव᳘ताम् पू᳘र्वां कुर्वन्त्ययाट्कारा᳘दग्ने᳘रयाट्सो᳘मस्यायाडि᳘ति त᳘दु त᳘था न᳘ कुर्याद्वि᳘लोम ह ते᳘ यज्ञे᳘ कुर्वन्ति ये᳘ देव᳘ताम् पू᳘र्वां कुर्व᳘न्त्ययाट्कारा᳘दिदᳫं हि᳘ प्रथम᳘मभिव्याह᳘रन्नयाट्कार᳘मेॗवाभिव्याह᳘रति त᳘स्मादयाट्कार᳘मेव पू᳘र्वं कुर्यात्॥

मूलम् - विस्वरम्

तद्धैके देवतां पूर्वां कुर्वन्त्ययाट्कारात्- अग्नेरयाट्, सोमस्यायाडिति । तदु तथा न कुर्यात् । विलोम ह ते यज्ञे कुर्वन्ति- ये देवतां पूर्वां कुर्वन्त्ययाट्कारात् । इदं हि प्रथममभिव्याहरन्नयाट्कारमेवाभिव्याहरति । तस्मादयाट्कारमेव पूर्वं कुर्यात् ॥ १२ ॥

सायणः

अयाट्कारात् प्राग् देवतानामनिर्देशमेकीयपक्षत्वेनोपन्यस्य निराचष्टे- तद्धैक इति । तत् स्वयमेव प्रदर्शयति- अग्नेरयाट् सोमस्यायाडिति । अग्नेः सोमस्य च यानि धामानि, तानि स्विष्टकृदग्निः सम्यगिष्टवानित्यर्थः । ‘विलोम’ विरुद्धम्, स्विष्टीकरणस्यैवाभ्यर्हितत्वेन प्रथमनिर्देष्टव्यत्वात् 11 । अतः ‘प्रथममभिव्याहरन्’ पुरुषो ऽयाट्कारमेव प्रथममभिव्याहरेत् ॥ १२ ॥

Eggeling
  1. Here now some make (the name of) the deity precede the ‘may he offer (ayāṭ)!’ thus–‘Of Agni may he offer (the favourite dainties)!’ ‘Of Soma may he offer!’ But let him not do this; for those who make the deity precede the ‘may he offer!’ violate the proper order at the sacrifice, since it is by pronouncing the ‘may he offer,’ that he pronounces what comes first here: let him therefore place the ‘may he offer’ first.

१३

विश्वास-प्रस्तुतिः

(द्य᳘) य᳘क्षत्स्वं᳘ महिमा᳘नमि᳘ति॥
य᳘त्र वा᳘ ऽअदो᳘ देव᳘ता ऽआवाह᳘यति तद᳘पि स्वं᳘ महिमा᳘नमा᳘वाहयति तद᳘तः प्रा᳘ङ्नैव कि᳘ञ्चन स्वा᳘य महिम्न ऽइ᳘ति क्रियते तद᳘त्र तं᳘ प्रीणाति त᳘थो हास्यैषो᳘ ऽमोघाया᳘वाहितो भवति त᳘स्मादाह य᳘क्षत्स्वं᳘ महिमा᳘नमिति᳘॥

मूलम् - श्रीधरादि

(द्य᳘) य᳘क्षत्स्वं᳘ महिमा᳘नमि᳘ति॥
य᳘त्र वा᳘ ऽअदो᳘ देव᳘ता ऽआवाह᳘यति तद᳘पि स्वं᳘ महिमा᳘नमा᳘वाहयति तद᳘तः प्रा᳘ङ्नैव कि᳘ञ्चन स्वा᳘य महिम्न ऽइ᳘ति क्रियते तद᳘त्र तं᳘ प्रीणाति त᳘थो हास्यैषो᳘ ऽमोघाया᳘वाहितो भवति त᳘स्मादाह य᳘क्षत्स्वं᳘ महिमा᳘नमिति᳘॥

मूलम् - Weber

य᳘क्षत्स्व᳘म् महिमा᳘नमि᳘ति॥
य᳘त्र वा᳘ अदो᳘ देव᳘ता आवाह᳘यति तद᳘पि स्व᳘म् महिमा᳘नमा᳘वाहयति तद᳘तः प्राॗङ्न्यै किं᳘ चन स्वा᳘य महिम्न इ᳘ति क्रियते तद᳘त्र त᳘म् प्रीणाति त᳘थो हास्यैषो᳘ ऽमोघाया᳘वाहितो भवति त᳘स्मादाह य᳘क्षत्स्व᳘म् महिमा᳘नमिति॥

मूलम् - विस्वरम्

“यक्षत् स्वं महिमानम्” -इति । यत्र वा अदो देवता आवाहयति, तदपि स्वं महिमानमावाहयति । तदतः प्राङ् नैव किञ्चन स्वाय महिम्न इति क्रियते । तदत्र तं प्रीणाति । तथो हास्यैषो ऽमोघायावाहिता भवति । तस्मादाह- यक्षत् स्वं महिमानमिति ॥ १३ ॥

सायणः

स्वं महिमानमित्यस्य तात्पर्यमाह- यक्षत् स्वं महिमानमिति । अयं स्विष्टकृदग्निः ‘स्वं महिमानं’ स्वकीयं देवतारूपमपि ‘यक्षत्’ यजेत । स्विष्टकृत इदानीमपि अकृतत्वादयाडिति नोच्यत इत्यभिप्रायः । ‘यत्र’ यष्टव्यदेवताः ‘आवाहयति’ तत्रापि ‘स्वं महिमानं’ महत्त्वस्य विग्रहमप्यावाहयति । अतो यथा आवाहिता देवताः सर्वा अपीष्टाः, एवं स्वमहिमार्थमपि यष्टव्यम् । यतः, अतः ‘प्राक्’ ‘किञ्चन’ ‘स्वाय महिम्ने’ इदं हविः ‘इति’ ‘न क्रियते’, तस्माद् ‘अत्र’ स्विष्टकृन्निगदाभिधानसमये ‘तत्’ तेन स्वं महिमानमित्यनेन ‘तम्’ अग्नेर्महिमानं प्रीणितवान् भवति । अत एव यक्षदग्नेरित्येतद् अग्नेरपि यागानुज्ञाप्रदानादेव पूर्वं प्रागावाहनसमये आवाहितः स्वो महिमा । ‘तथो ह’ तथैव सति ‘अस्य’ यजमानस्य ‘अमोघाय’ साफल्याय ‘आवाहितो’ भवेत् । तस्मादित्युपसंहारः ॥ १३ ॥

Eggeling
  1. [The Hotr̥ continues to recite]: ‘May he sacrifice to his own greatness!’ When, on that occasion 12, he asks him (Agni) to bring hither the deities, he also makes him bring hither his own greatness; but before this no worship of any kind has been offered to ‘his (Agni’s) own greatness:’ and he therefore now gratifies him, and thus that (fire) has been established so as to prevent failure on his (the sacrificer’s) part. This is the reason why he says ‘may he sacrifice to his own greatness.’

१४

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘ यजतामे᳘ज्या ऽइ᳘ष ऽइ᳘ति॥
प्रजा वा ऽइ᳘षस्ता᳘ ऽए᳘वैत᳘द्यायजू᳘काः करोति ता᳘ ऽइमाः᳘ प्रजा य᳘जमाना ऽअ᳘र्च्चन्त्यः श्रा᳘म्यन्त्यश्चरन्ति॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘ यजतामे᳘ज्या ऽइ᳘ष ऽइ᳘ति॥
प्रजा वा ऽइ᳘षस्ता᳘ ऽए᳘वैत᳘द्यायजू᳘काः करोति ता᳘ ऽइमाः᳘ प्रजा य᳘जमाना ऽअ᳘र्च्चन्त्यः श्रा᳘म्यन्त्यश्चरन्ति॥

मूलम् - Weber

आ᳘ यजतामे᳘ज्या इ᳘ष इ᳘ति॥
प्रजा वा इषस्ता᳘ एॗवैत᳘द्यायजू᳘काः करोति ता᳘ इमाः᳘ प्रजा य᳘जमाना अर्चन्त्यः श्रा᳘म्यन्त्यश्चरन्ति॥

मूलम् - विस्वरम्

“आ यजतामेज्या इषः” -इति । प्रजा वा इषः । ता एवैतद्यायजूकाः करोति । ता इमाः प्रजा यजमाना अर्चन्त्यः श्राम्यन्त्यश्चरन्ति ॥ १४ ॥

सायणः

आ यजतेति । ‘आ यजतामेज्या इषः’ -इति भागस्य तात्पर्यमाह- इट्शब्देनान्नमुच्यते; तदुपजीवित्वात् ‘प्रजाः’ अपि ‘इषः’; ‘एज्याः’ पुनः पुनरिज्याः, अत एतत्पाठेन यजमानरूपाः प्रजाः ‘यायजूकाः’ इष्टिशीलाः ‘करोति’ । अतः कारणात् ‘ता इमाः’ सर्वा यजमानरूपाः प्रजा इदानीम् ‘अर्चन्त्यः’ बहुकर्म कुर्वन्त्यः ‘श्राम्यन्त्यः’ आत्मानं व्यापारैः क्लेशयन्त्यः ‘चरन्ति’ यागाननुतिष्ठन्ति ॥ १४ ॥

Eggeling
  1. ‘By sacrifice may he obtain for himself food worthy of sacrifice 13!’ the food, doubtless, is these creatures: he thereby makes them eager to sacrifice, and these creatures go on sacrificing, worshipping and performing austerities.

१५

विश्वास-प्रस्तुतिः

सो᳘ ऽअध्वरा᳘ जात᳘वेदा जुष᳘ताᳫं हविरि᳘ति॥
त᳘द्यज्ञ᳘स्यै᳘वैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाह जुष᳘ताᳫं हविरि᳘ति॥

मूलम् - श्रीधरादि

सो᳘ ऽअध्वरा᳘ जात᳘वेदा जुष᳘ताᳫं हविरि᳘ति॥
त᳘द्यज्ञ᳘स्यै᳘वैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाह जुष᳘ताᳫं हविरि᳘ति॥

मूलम् - Weber

सो᳘ अध्वरा᳘ जात᳘वेदा जुष᳘ताᳫं हविरि᳘ति॥
त᳘द्यज्ञ᳘स्यैॗवैतत्स᳘मृद्धिमा᳘शास्ते यद्धि᳘ देवा᳘ हवि᳘र्जुष᳘न्ते ते᳘न हि᳘ महज्ज᳘यति त᳘स्मादाह जुष᳘ताᳫं हविरि᳘ति॥

मूलम् - विस्वरम्

“सो ऽअध्वरा जातवेदा जुषतां हविः” -इति । तद्यज्ञस्यैवैतत् समृद्धिमाशास्ते । यद्धि देवा हविर्जुषन्ते तेन हि महज्जयति । तस्मादाह जुषतां हविरिति ॥ १५ ॥

सायणः

सो ऽअध्वरेति । सो अध्वरेत्यस्य तात्पर्यमाह- तद्यज्ञस्यैवैतदिति । ‘हविः’ सौविष्टकृतम्, ‘जातवेदाः’ आहुत्याधारः स्विष्टकृदग्निः । ‘यत्’ ‘हविः’ सौविष्टकृतः ‘देवाः’ सेवन्ते, ‘तेन’ सेवितेन हविषा ‘महत्’ उत्तमं स्थानं ‘जयति’ यजमानः, अतः समृद्धेर्हविषो ऽधीनत्वादेतत्पाठो युक्तः ॥ १५ ॥

Eggeling
  1. ‘May he, the knower of beings, (perform) 14 the sacred cult; may he graciously accept the sacrificial food!’ Thereby he prays for success to this sacrifice; for when the gods graciously accept the sacrificial food, then he (the sacrificer) gains great things 15: for this reason he says ‘may he graciously accept the sacrificial food!’

१६

विश्वास-प्रस्तुतिः

तद्य᳘देते ऽअ᳘त्र॥
याज्यानुवा᳘क्ये ऽअ᳘वकॢप्ततमे भ᳘वतस्तृतीयसवनं वै᳘ स्विष्टकृ᳘द्वैश्वदेवं वै᳘ तृतीयसवनं᳘ पिप्रीहि᳘ देवाँ᳘३ ऽउशतो᳘ यविष्ठे᳘ति त᳘दनुवा᳘क्यायै व्वैश्वदेवम᳘ग्ने य᳘दद्य᳘ व्विशो᳘ ऽअध्वर᳘स्य होतरि᳘ति त᳘द्या᳘ज्यायै व्वैश्वदेवं तद्य᳘देते᳘ ऽएव᳘ᳫँ᳘ रूपे भ᳘वतस्ते᳘नो ऽएते᳘ तृतीयसवन᳘स्य रूपं त᳘स्माद्वा᳘ ऽएते ऽअ᳘त्र याज्यानुवा᳘क्ये ऽअ᳘वकॢप्ततमे भवतः॥

मूलम् - श्रीधरादि

तद्य᳘देते ऽअ᳘त्र॥
याज्यानुवा᳘क्ये ऽअ᳘वकॢप्ततमे भ᳘वतस्तृतीयसवनं वै᳘ स्विष्टकृ᳘द्वैश्वदेवं वै᳘ तृतीयसवनं᳘ पिप्रीहि᳘ देवाँ᳘३ ऽउशतो᳘ यविष्ठे᳘ति त᳘दनुवा᳘क्यायै व्वैश्वदेवम᳘ग्ने य᳘दद्य᳘ व्विशो᳘ ऽअध्वर᳘स्य होतरि᳘ति त᳘द्या᳘ज्यायै व्वैश्वदेवं तद्य᳘देते᳘ ऽएव᳘ᳫँ᳘ रूपे भ᳘वतस्ते᳘नो ऽएते᳘ तृतीयसवन᳘स्य रूपं त᳘स्माद्वा᳘ ऽएते ऽअ᳘त्र याज्यानुवा᳘क्ये ऽअ᳘वकॢप्ततमे भवतः॥

मूलम् - Weber

तद्य᳘देते अ᳘त्र॥
याज्यानुवाॗक्ये अ᳘वकॢप्ततमे भ᳘वतस्तृतीयसवनं वै᳘ स्विष्टकृ᳘द्वैश्वदेवं वै᳘ तृतीयसवन᳘म् पिप्रीहि देवां᳘ उशतो᳘ यविष्ठेति त᳘दनुवाॗक्यायै वैश्वदेवम᳘ग्ने य᳘दद्य᳘ विशो᳘ अध्वर᳘स्य होतरि᳘ति त᳘द्याॗज्यायै वैश्वदेवं तद्य᳘देते᳘ एवं᳘रूपे भ᳘वतस्ते᳘नो एते᳘ तृतीयसवन᳘स्य रूपं त᳘स्माद्वा᳘ एते अ᳘त्र याज्यानुवाॗक्ये अ᳘वकॢप्ततमे भवतः॥

मूलम् - विस्वरम्

तद्यदेते अत्र याज्यानुवाक्ये अवक्लृप्ततमे भवतः । तृतीयसवनं वै स्विष्टकृत् । वैश्वदेवं वै तृतीयसवनम् । “पिप्रीहि देवा ३ उशतो यविष्ठ" -इति । तदनुवाक्यायै वैश्वदेवम् । “अग्ने यदद्य विशो अध्वरस्य होतः" -इति । तद्याज्यायै वैश्वदेवम् । तद्यदेते एवंरूपे भवतः -तेनो एते तृतीयसवनस्य रूपम् । तस्माद्वा एते अत्र याज्यानुवाक्ये अवक्लृप्ततमे भवतः ॥ १६ ॥

सायणः

इत्थं स्विष्टकृन्निगदं व्याख्याय तस्य याज्यां पुरो ऽनुवाक्याञ्चाह- तद्यदिति । ‘अत्र’ स्विष्टकृति । ‘तद्यत्’ तस्मात् ‘एते’ वक्ष्यमाणे एव ‘याज्यानुवाक्ये’ ‘अवक्लृप्ततमे’ अत्यन्तं योग्ये भवतः । तयोरवक्लृप्तत्वमाह- तृतीयसवनं वा इति । अयं ‘स्विष्टकृद्’- यागः ‘तृतीयसवनं’ तत्स्थानीयः; अन्तिमत्वसाम्यात् । तच्च ‘तृतीयसवनं’ ‘वैश्वदेवं’ विश्वेदेवास्तस्याभिमानिनः; अतः सर्वथा वैश्वदेवेन भवितव्यम् । तत्रापि “पिप्रीहि” -इति (ऋ० सं० १० । २ । १ ।) (तै० सं० ४ । ३ । १३ । १- ३) या ऋगस्ति, ‘तत्’ ‘अनुवाक्यायै’ अनुवाक्यायाः ‘वैश्वदेवं’ रूपम्; तत्र “देवान्” -इति देवानां बहुत्वश्रवणात् । “अग्ने यदद्य” इत्येतत् (ऋ० सं० ६ । १५ । १४ ।) (तै० सं० ४ । ३ । १३ । १४) ‘याज्यायै’ याज्यायाः वैश्वदेवत्वम्; अत्र “विशः" -इति बहुवचनलिङ्गात् । ‘एते’ ऋचौ ‘एवंरूपे’ वैश्वदेवलिङ्गके “पिप्रीहि देवान्”-“अग्ने यदद्य विशः” -इत्येवंरूपे; ‘तेन उ’ तेनैव कारणेन ‘एते’ द्वे ऋचौ ‘तृतीयसवनस्य रूपम्’ ॥ १६ ॥

Eggeling
  1. The reason why on this occasion the invitatory and offering-formulas are made closely to correspond to each other (avakliptatama), is that the svishṭakr̥t (is equivalent to) the evening libation, and the evening libation, doubtless, belongs to the Viśve Devāḥ (the ‘All-gods ) 16. ‘Gladden thou the longing gods, O youngest!’ this much in the invitatory formula refers to the Viśve Devāḥ 17. ‘O Agni, Hotr̥ of the cult! when this day (thou comest) to the men 18;’ this much in the offering-formula refers to the Viśve Devāḥ. And because such is the form of these two (formulas), therefore they are of

the form of the evening libation; and this is why the invitatory and offering-formulas on this occasion are made closely to correspond to each other.

१७

विश्वास-प्रस्तुतिः

(स्ते) ते वै᳘ त्रिष्टु᳘भौ भवतः॥
(तो) व्वा᳘स्तु वा᳘ ऽएत᳘द्यज्ञ᳘स्य य᳘त्स्विष्टकृ᳘दवीर्यं वै व्वा᳘स्त्विन्द्रियं᳘ व्वीर्यं᳘ त्रिष्टु᳘बिन्द्रिय᳘मे᳘वैत᳘द्वीर्यं᳘ व्वा᳘स्तौ स्विष्टकृ᳘ति दधाति त᳘स्मात्त्रिष्टु᳘भौ भवतः॥

मूलम् - श्रीधरादि

(स्ते) ते वै᳘ त्रिष्टु᳘भौ भवतः॥
(तो) व्वा᳘स्तु वा᳘ ऽएत᳘द्यज्ञ᳘स्य य᳘त्स्विष्टकृ᳘दवीर्यं वै व्वा᳘स्त्विन्द्रियं᳘ व्वीर्यं᳘ त्रिष्टु᳘बिन्द्रिय᳘मे᳘वैत᳘द्वीर्यं᳘ व्वा᳘स्तौ स्विष्टकृ᳘ति दधाति त᳘स्मात्त्रिष्टु᳘भौ भवतः॥

मूलम् - Weber

ते वै᳘ त्रिष्टु᳘भौ भवतः॥
वा᳘स्तु वा᳘ एत᳘द्यज्ञ᳘स्य य᳘त्स्विष्टकृ᳘दवीर्यं वै वा᳘स्त्विन्द्रियं᳘ वीर्यं᳘ त्रिष्टु᳘बिन्द्रिय᳘मेॗवैत᳘द्वीर्यं᳘ वा᳘स्तौ स्विष्टकृ᳘ति दधाति त᳘स्मात्त्रिष्टु᳘भौ भवतः॥

मूलम् - विस्वरम्

ते वै त्रिष्टुभौ भवतः । वास्तु वा एतद्यज्ञस्य- यत् स्विष्टकृत् । अवीर्यं वै वास्तु । इन्द्रियं वीर्यं त्रिष्टुप् । इन्द्रियमेवैतद्वीर्यं वास्तौ स्विष्टकृति दधाति । तस्मात्त्रिष्टुभौ भवतः ॥ १७ ॥

सायणः

तयोर्यत् त्रिष्टुपत्वम्, तत्प्रशंसति- ते वै त्रिष्टुभाविति । स्विष्टकृतो हुतावशिष्टरूपत्वात् ‘एतद्’ ‘यज्ञस्य’ ‘वास्तु’ वास्तु-स्थानीयम् । तच्च वास्तु ‘अवीर्यं’ निस्सारम्; उपयुक्तशेषत्वात् । त्रिष्टुप्प्रजापतेः बलवद्भ्यः उरोबाहुभ्यः सकाशादिन्द्रेण सहोत्पन्नत्वात् ‘त्रिष्टुबिन्द्रियम्’ अत एव ‘वीर्यम्’ अतः पुरो ऽनुवाक्यायास्त्रिष्टुप्त्वकरणेन अवले ‘स्विष्टकृति’ ‘इन्द्रियं वीर्यमेव’ स्थापितवान् भवति ॥ १७ ॥

Eggeling
  1. They are both trishṭubh verses; for the svishṭakr̥t is, as it were, the residue (or site, vāstu) of the sacrifice, and the residue (or, a vacant site) is without energy 19. Now the trishṭubh means manly power 20, energy: hence he thereby imparts manly power, energy to that residue, the svishṭakr̥t. This is why they are both trishṭubh verses.

१८

विश्वास-प्रस्तुतिः

(ऽ) उ᳘तो ऽअनुष्टु᳘भावेव᳘ भवतः॥
(तो) व्वा᳘स्त्वनुष्टुब्वा᳘स्तु स्विष्टकृद्वा᳘स्तावे᳘वैतद्वा᳘स्तु दधाति पे᳘सुकं वै व्वा᳘स्तु पि᳘स्यति ह प्रज᳘या पशु᳘भिर्य᳘स्यैवं᳘ व्विदु᳘षो ऽनुष्टु᳘भौ भवतः॥

मूलम् - श्रीधरादि

(ऽ) उ᳘तो ऽअनुष्टु᳘भावेव᳘ भवतः॥
(तो) व्वा᳘स्त्वनुष्टुब्वा᳘स्तु स्विष्टकृद्वा᳘स्तावे᳘वैतद्वा᳘स्तु दधाति पे᳘सुकं वै व्वा᳘स्तु पि᳘स्यति ह प्रज᳘या पशु᳘भिर्य᳘स्यैवं᳘ व्विदु᳘षो ऽनुष्टु᳘भौ भवतः॥

मूलम् - Weber

उॗतो अनुष्टु᳘भावेव᳘ भवतः॥
वा᳘स्त्वनुष्टुब्वा᳘स्तु स्विष्टकृद्वा᳘स्तावेॗवैतद्वा᳘स्तु दधाति पे᳘सुकं वै वा᳘स्तु पि᳘स्यति ह प्रज᳘या पशु᳘भिर्य᳘स्यैवं᳘ विदु᳘षो ऽनुष्टु᳘भौ भ᳘वतः॥

मूलम् - विस्वरम्

उतो अनुष्टुभावेव भवतः । वास्त्वनुष्टुप् । वास्तु स्विष्टकृत् । वास्तावेवैतद्वास्तु दधाति । पेसुकं वै वास्तु । पिस्यति ह प्रजया पशुभिः- यस्यैवं विदुषो ऽनुष्टुभौ भवतः ॥ १८ ॥

सायणः

पक्षान्तरमाह- उतो अनुष्टुभावेवेति । स्विष्टकृतः प्रधानेभ्यो ऽतिरिक्तत्वेनाधिकत्वात् ‘वास्तु’ ‘अनुष्टुप्’ अपि गायत्र्यादिसवनच्छन्दसो ऽतिरिक्तत्वाद् ‘वास्तु’; अत एव ‘वास्तावेव’ ‘वास्तु’ स्थापितवान् भवति । तच्च वास्तु ‘पेसुकम्’ अभिवर्द्धनशीलम्; अत एव तज्ज्ञानवान् यः ‘अनुष्टुभौ’ याज्यानुवाक्ये कुर्यात् सो ऽपि ‘प्रजया पशुभिः’ च ‘पिस्यति’ 21 (निघ. २ । १४ । २१ ।) “पिसृ पेसृ गतौ” (धा० पा० भ्वा० प० ७२०) अभिवृद्धो भवति ॥ १८ ॥

Eggeling
  1. Or they are both anushṭubh verses. The anushṭubh is residue (or site, vāstu), and the svishṭakr̥t also is residue: hence he thereby puts a residue to a residue 22. And, verily, one who knows this, and whose (invitatory and offering-formulas) are two anushṭubh verses, his homestead (vāstu) is prosperous, and he himself prospers in regard to progeny and cattle.

१९

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दु ह भाल्लवे᳘यः॥
(योऽ) अनुष्टु᳘भमनुवा᳘क्यां चक्रे᳘ त्रिष्टुभं या᳘ज्यामेत᳘दुभ᳘यं प᳘रिगृह्णामी᳘ति स र᳘थात्पपात स᳘ पतित्वा᳘ बाहुम᳘पि शश्रे स प᳘रिममृशे यत्किम᳘करं त᳘स्मादिदमा᳘पदि᳘ति स᳘ हैत᳘देव᳘ मेने यद्वि᳘लोम यज्ञे᳘ ऽकरमि᳘ति त᳘स्मान्न वि᳘लोम कुर्यात्स᳘च्छन्दसावेव᳘ स्यातामुभे᳘ वै᳘वानुष्टु᳘भा ऽउभे᳘ वा त्रिष्टु᳘भौ॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दु ह भाल्लवे᳘यः॥
(योऽ) अनुष्टु᳘भमनुवा᳘क्यां चक्रे᳘ त्रिष्टुभं या᳘ज्यामेत᳘दुभ᳘यं प᳘रिगृह्णामी᳘ति स र᳘थात्पपात स᳘ पतित्वा᳘ बाहुम᳘पि शश्रे स प᳘रिममृशे यत्किम᳘करं त᳘स्मादिदमा᳘पदि᳘ति स᳘ हैत᳘देव᳘ मेने यद्वि᳘लोम यज्ञे᳘ ऽकरमि᳘ति त᳘स्मान्न वि᳘लोम कुर्यात्स᳘च्छन्दसावेव᳘ स्यातामुभे᳘ वै᳘वानुष्टु᳘भा ऽउभे᳘ वा त्रिष्टु᳘भौ॥

मूलम् - Weber

तदु ह भाल्लवे᳘यः॥
अनुष्टु᳘भमनुवाॗक्यां चक्रे᳘ त्रिष्टुभं याॗज्यामेत᳘दुभ᳘यम् प᳘रिगृह्णामी᳘ति सर᳘थात्पपात स᳘ पतित्वा᳘ बाहुम᳘पि शश्रे स प᳘रिममृशे यत्किम᳘करं त᳘स्मादिदमा᳘पदि᳘ति स᳘ हैत᳘देव᳘ मेने यद्वि᳘लोम यज्ञे᳘ ऽकरमि᳘ति त᳘स्मान्न वि᳘लोम कुर्यात्स᳘छन्दसावेव᳘ स्यातामुभे᳘ वैॗवानुष्टु᳘भा उभे᳘ वा त्रिष्टु᳘भौ॥

मूलम् - विस्वरम्

तदु ह भाल्लवेयो ऽनुष्टुभमनुवाक्यां चक्रे, त्रिष्टुभं याज्याम्- एतदुभयं परिगृह्णामीति । स रथात् पपात, स पतित्वा बाहुमपि शश्रे । स परिममृशे- यत् किमकरम्, तस्मादिदमापदिति । स हैतदेव मेने- यद्विलोम यज्ञे ऽकरमिति । तस्मान्न विलोम कुर्यात् । सच्छन्दसावेव स्याताम्- उभे वैवानुष्टुभौ, उभे वा त्रिष्टुभौ ॥ १९ ॥

सायणः

याज्यानुवाक्ययोर्विलक्षणच्छन्दस्त्वपक्षं निराकर्तुमाख्यायिकामाह- तदु हेति । भाल्लवेयस्तूक्तोभयपक्षोक्तफलावरोधाय ‘अनुष्टुभमनुवाक्यां’, ‘त्रिष्टुभं याज्याम्’ अकरोत् । ‘सः’ विलक्षणानुष्ठानदोषेण कदाचित् सञ्चारसमये ‘रथात् पपात’ । पतन्नेकं ‘बाहुं’ भूमौ प्रसारितवान् 21; स बाहुर्विस्रस्तो ऽभूदित्यभिप्रायः । ‘सः’ च विचार्य किश्चिदविहितं कृतवानस्मि, ‘तस्मात्’ ‘इदं’ रथात्पतनं ‘आपत्’ प्राप्तमभूदिति निश्चित्य, “यदनन्तरं यद्भवति, तत्तस्य कारणम्”- इति न्यायादिदं विपरीतानुष्ठानमेव कारणं बुद्धवान् । यस्मादेवं ‘तस्मात्’ सर्वत्र विपरीतं ‘न’ अनुतिष्ठेत् । अतः ‘उभे’ याज्यानुवाक्ये ‘अनुष्टुभावेव वा त्रिष्टुभावेव वा’; स्विष्टकृद्याज्यानुवाक्ये ‘सच्छन्दसौ’ समानच्छन्दस्के भवेताम् ॥ १९ ॥

Eggeling
  1. Now here Bhāllabeya 23 made the invitatory formula (consist of) an anushṭubh verse, and the offering-formula of a trishṭubh verse, thinking, ‘I thus obtain (the benefits of) both.’ He fell from the cart, and in falling, broke his arm. He reflected: ‘This has befallen because of something or other I have done.’ He then bethought himself of this: ‘(It has befallen) because of some violation, on my part, of the proper course of the sacrifice.’ Hence one must not violate the proper course (of sacrificial performance); but let both (formulas) be verses of the same metre, either both anushṭubh verses, or both trishṭubh verses.

२०

विश्वास-प्रस्तुतिः

स वा᳘ ऽउत्तरार्द्धा᳘दवद्य᳘ति॥
(त्यु) उत्तरार्द्धे᳘ जुहोत्येषा᳘ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्द्धा᳘दवद्य᳘त्युत्तरार्द्धे᳘ जुहोत्येत᳘स्यै वै᳘ दिश ऽउ᳘दपद्य᳘त तं त᳘त ऽए᳘वाशमयंस्त᳘स्मादुत्तरार्द्धा᳘दवद्य᳘त्युत्तरार्द्धे᳘ जुहोति॥

मूलम् - श्रीधरादि

स वा᳘ ऽउत्तरार्द्धा᳘दवद्य᳘ति॥
(त्यु) उत्तरार्द्धे᳘ जुहोत्येषा᳘ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्द्धा᳘दवद्य᳘त्युत्तरार्द्धे᳘ जुहोत्येत᳘स्यै वै᳘ दिश ऽउ᳘दपद्य᳘त तं त᳘त ऽए᳘वाशमयंस्त᳘स्मादुत्तरार्द्धा᳘दवद्य᳘त्युत्तरार्द्धे᳘ जुहोति॥

मूलम् - Weber

स वा᳘ उत्तरार्धा᳘दवद्य᳘ति॥
उत्तरार्धे᳘ जुहोत्येषाॗ ह्येत᳘स्य देव᳘स्य दिक्त᳘स्मादुत्तरार्धा᳘दवद्य᳘त्युत्तरार्धे᳘ जुहोत्येत᳘स्यै वै᳘ दिश उ᳘दपद्यत तं त᳘त एॗवाशमयंस्त᳘स्मादुत्तरार्धा᳘दवद्य᳘त्युत्तरार्धे᳘ जुहोति॥

मूलम् - विस्वरम्

स वा उत्तरार्द्धादवद्यति । उत्तरार्द्धे जुहोति । एषा ह्येतस्य देवस्य दिकू । तस्मादुत्तरार्द्धादवद्यति, उत्तरार्द्धे जुहोति । एतस्यै वै दिश उदपद्यत, तं तत एवाशमयन्- तस्मादुत्तरार्द्धादवद्यति, उत्तरार्द्धे जुहोति ॥ २० ॥

सायणः

स्विष्टकृदवदानहोमप्रदेशयोर्विशेषमाह- स वा उत्तरार्द्धादिति । ‘उत्तरपूर्वदिशो’ लोकपालत्वेन रुद्रसम्बन्धः सर्वशास्त्रप्रसिद्धः 24; तेन कारणेनापि उत्तरार्द्धादेवावदानं, तत्रैव होमश्च कर्तव्य इत्याह- एतस्यै वै दिश इति । स्विष्टकृद्यागविधानसमये “उत्तरतः उपोत्पेदे” इत्युक्तत्वात् (श० प० ७ अ० ३ ब्रा० ३ कं०); “यत उत्पद्यते, ‘तं तत एव’ शमयितव्यम्” -इति नियमात् उत्तरतो ऽवदानहोमौ कर्तव्यौ । तथा च कात्यायनः- “यावद्धविरुत्तरार्द्धात् स्विष्टकृतस्तत एव होमः” इति -(का० श्रौ० सू० ३ अ० ६८-६९) ॥ २० ॥

Eggeling
  1. He cuts (the portions for Agni Svishṭakr̥t) from the north part (of the sacrificial dishes) 25, and offers them up on the north part (of the fire): for this is the region of that god, and therefore he cuts from the north part and offers on the north part. From that side, indeed, he arose 26, and there they (the gods) appeased him: for this reason he cuts from the north part, and offers on the north part.

२१

विश्वास-प्रस्तुतिः

स वा᳘ ऽअभ्यर्द्ध᳘ ऽइवे᳘तराभ्य ऽआ᳘हुतिभ्यो जुहोति॥
(ती᳘) इ᳘तरा आ᳘हुतीः पश᳘वो ऽनुप्र᳘जायन्ते रुद्रि᳘यः स्विष्टकृ᳘द्रुद्रि᳘येण पशून्प्र᳘सजेद्यदि᳘तराभिरा᳘हुतिभिः सᳫँ᳭ सृ᳘जे᳘त्ते ऽस्य गृहाः᳘ पश᳘व ऽउपमू᳘र्यमाणा ऽईयुस्त᳘स्मादभ्यर्द्ध᳘ ऽइवे᳘तराभ्य आ᳘हुतिभ्यो जुहोति॥

मूलम् - श्रीधरादि

स वा᳘ ऽअभ्यर्द्ध᳘ ऽइवे᳘तराभ्य ऽआ᳘हुतिभ्यो जुहोति॥
(ती᳘) इ᳘तरा आ᳘हुतीः पश᳘वो ऽनुप्र᳘जायन्ते रुद्रि᳘यः स्विष्टकृ᳘द्रुद्रि᳘येण पशून्प्र᳘सजेद्यदि᳘तराभिरा᳘हुतिभिः सᳫँ᳭ सृ᳘जे᳘त्ते ऽस्य गृहाः᳘ पश᳘व ऽउपमू᳘र्यमाणा ऽईयुस्त᳘स्मादभ्यर्द्ध᳘ ऽइवे᳘तराभ्य आ᳘हुतिभ्यो जुहोति॥

मूलम् - Weber

स वा᳘ अभ्यर्ध᳘ इवे᳘तराभ्य आ᳘हुतिभ्यो जुहोति॥
इ᳘तरा आ᳘हुती:ः पश᳘वो ऽनुप्र᳘जायन्ते रुद्रि᳘यः स्विष्टकृ᳘द्रुद्रि᳘येण पशून्प्र᳘सजेद्यदि᳘तराभिरा᳘हुतिभिः संसृ᳘जेॗत्ते ऽस्य गृहाः᳘ पश᳘व उपमू᳘र्यमाणा ईयुस्त᳘स्मादभ्यर्ध᳘ इवे᳘तराभ्य आ᳘हुतिभ्यो जुहोति॥

मूलम् - विस्वरम्

स वा अभ्यर्द्ध इवेतराभ्य आहुतिभ्यो जुहोति । इतरा आहुतीः पशवो ऽनुप्रजायन्ते । रुद्रियः स्विष्टकृत् । रुद्रियेण पशून् प्रसजेत्- यदितराभिराहुतिभिः संसृजेत् । ते ऽस्य गृहाः पशव उपसूर्यमाणा ईयुः । तस्मादभ्यर्द्ध इवेतराभ्य आहुतिभ्यो जुहोति ॥ २१ ॥

सायणः

उत्तरदेशे प्रदाने ऽपि प्रधानहविषा सहासंस्पर्शं विधत्ते- स वा अभ्यर्द्ध इवेति । ‘इतराभ्यः’ प्रधान- ‘आहुतिभ्यः’ सकाशात् ‘अभ्यर्द्धे’ सन्निहितप्रदेश एव; न तासां स्थाने । विपक्षे बाधमाह- इतरा इति । ‘इतरा आहुतीरनु’ यजमानस्य ‘पशवः’ ‘प्रजायन्ते’; ताः पशुफलजनका इत्यर्थः । स्विष्टकृद्यागश्च ‘रुद्रियः’ रुद्रदेवत्यः । एवं सति यदि ताभिः सह स्विष्टकृदाहुतिमासंयोजयेत्, तदा रुद्रेण सह पशून् ‘प्रसजेद्’ योजयेत् । अत एतेनापराधेन यजमानस्य गृहावस्थिताः ‘पशवः’ ‘उपमूर्यमाणाः’ समीप एव म्रियमाणाः प्राप्नुयुः । तस्मादितराभ्यो नातिदूरे जुहुयात् । तथा च सूत्रम्- “असंसृष्टामाहुतिभिः” -इति (का० श्रौ० सू० ३-७१) ॥ २१ ॥

Eggeling
  1. He offers on this side (in front), as it were, of the other oblations. Following the other oblations cattle are produced, and the Svishṭakr̥t represents Rudra’s power: he would impose Rudra’s power on

the cattle if he were to bring it (the Svishṭakr̥t) into contact with the other oblations; and his (the sacrificer’s) household and cattle would be destroyed. For this reason he offers on this side, as it were, of the other oblations.

२२

विश्वास-प्रस्तुतिः

(त्ये) एष वै स᳘ यज्ञः᳘॥
(ज्ञो) ये᳘न त᳘द्देवा दि᳘वमुपोद᳘क्रामन्नेष᳘ ऽआहवनीयो᳘ ऽथ य᳘ ऽइहा᳘हीयत स गा᳘र्हपत्यस्त᳘स्मादेतं गा᳘र्हपत्यात्प्रा᳘ञ्चमु᳘द्धरन्ति॥

मूलम् - श्रीधरादि

(त्ये) एष वै स᳘ यज्ञः᳘॥
(ज्ञो) ये᳘न त᳘द्देवा दि᳘वमुपोद᳘क्रामन्नेष᳘ ऽआहवनीयो᳘ ऽथ य᳘ ऽइहा᳘हीयत स गा᳘र्हपत्यस्त᳘स्मादेतं गा᳘र्हपत्यात्प्रा᳘ञ्चमु᳘द्धरन्ति॥

मूलम् - Weber

एष वै स᳘ यज्ञः᳟॥
ये᳘न त᳘द्देवा दि᳘वमुपोद᳘क्रामन्नेष᳘ आहवनीयो᳘ ऽथ य᳘ इहा᳘हीयत स गा᳘र्हपत्यस्त᳘स्मादेतं गा᳘र्हपत्यात्प्रा᳘ञ्चमु᳘द्धरन्ति॥

मूलम् - विस्वरम्

“यज्ञपरिशिष्टम् ।"

एष वै स यज्ञो येन तद्देवा दिवमुपोदक्रामन्- एष आहवनीयः । अथ य इहाहीयत- स गाईपत्यः । तस्मादेतं गार्हपत्यात् प्राञ्चमुद्धरन्ति ॥ २२ ॥

सायणः

आहवनीयगार्हपत्ययोरन्यतरस्मिन् हविः- श्रपणं विधास्यति, तदर्थं तयोराधानप्रदेशपरिमाणं विधातुमाह- एष वा इति । ‘येन’ साधनेन ‘तद्देवाः’ ‘दिवं’ गताः, ‘स एष यज्ञः’ खलु । एष यज्ञ इत्येतद्विशिनष्टि- एष आहवनीय इति । यज्ञसाधनत्वादाहवनीयस्य यज्ञत्वम् । यस्त्विह भूमावेवावशिष्टः, ‘स गार्हपत्यः’ । ‘तस्मात्’ इदानीमपि दिवङ्गन्तुकामाः ‘एतम्’ आहवनीयं यज्ञसाधनं ‘गार्हपत्यात्’ ‘प्राञ्चं’ प्राग्देशं प्रति ‘उद्धरन्ति’ यजमानायोद्धरेयुरित्यर्थः ॥ २२ ॥

Eggeling
  1. That (fire)—to wit, the Āhavanīya–is, indeed, that sacrifice by which the gods then ascended to heaven; and that (other fire) which was left behind here, is the Gārhapatya: hence they take out the former from the Gārhapatya, (so as to be) before (east) of it.

२३

विश्वास-प्रस्तुतिः

तं वा᳘ ऽअष्टासु᳘ विक्रमेष्वा᳘दधीत॥
(ता) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गाय᳘त्र्यै᳘वैतद्दि᳘वमुपो᳘त्क्रामति॥

मूलम् - श्रीधरादि

तं वा᳘ ऽअष्टासु᳘ विक्रमेष्वा᳘दधीत॥
(ता) अष्टा᳘क्षरा वै᳘ गायत्री᳘ गाय᳘त्र्यै᳘वैतद्दि᳘वमुपो᳘त्क्रामति॥

मूलम् - Weber

तं वा᳘ अष्टासु᳘ विक्रमेष्वा᳘दधीत॥
अष्टा᳘क्षरा वै᳘ गायत्री᳘ गायॗत्र्यैॗवैतद्दि᳘वमुपो᳘त्क्रामति॥

मूलम् - विस्वरम्

तं वा अष्टासु विक्रमेष्वादधीत । अष्टाक्षरा वै गायत्री । गायत्र्यैवैतद्दिवमुपोत्क्रामति ॥ २३ ॥

सायणः

उद्धृत्य प्राच्यां कियत्पुर आदध्यात् ? इत्यत्र बहून् पक्षानाहुः- तमष्टास्वित्यादिना । विक्रमशब्देनात्र विक्रम्यते अनेनैवेति व्युत्पत्त्यैकपादप्रक्षेपपरिमितों ऽश उच्यते ‘क्रमु पादविक्षेपे’ (धा० पा० भ्वा० प० ४७३) अन्यत्र यजमानसम्मानस्य करणात् । गार्हपत्यमवधीकृत्य तथाविधेषु अष्टसु प्रक्रमेषु 27 गतेष्वाहवनीयमादधीत । तथा सति तद्द्वारा अष्टसंख्यायुक्त- ‘गायत्र्यैव’ ‘दिवं’ प्राप्तवान् भवति । तस्माद्गायत्रीसाम्यलाभादष्टप्रक्रमपरिमाणाधानं प्रशस्तमित्यर्थः ॥ २३ ॥

Eggeling
  1. He may lay it (the Āhavanīya) down at the distance of eight steps (from the Gārhapatya); for of eight syllables, doubtless, consists the gāyatrī hence he thereby ascends to heaven by means of the gāyatrī.

२४

विश्वास-प्रस्तुतिः

(त्ये) एकादशस्वा᳘दधीत॥
(तै᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रिष्टु᳘भै᳘वैतद्दि᳘वमुपो᳘त्क्रामति॥

मूलम् - श्रीधरादि

(त्ये) एकादशस्वा᳘दधीत॥
(तै᳘) ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रिष्टु᳘भै᳘वैतद्दि᳘वमुपो᳘त्क्रामति॥

मूलम् - Weber

एकादशस्वा᳘दधीत॥
ए᳘कादशाक्षरा वै᳘ त्रिष्टुप्त्रिष्टु᳘भैॗवैतद्दि᳘वमुपो᳘त्क्रामति॥

मूलम् - विस्वरम्

एकादशस्वादधीत । एकादशाक्षरा वै त्रिष्टुप् । त्रिष्टुभैवैतद्दिवमुपोत्क्रामति ॥ २४ ॥

सायणः

एवमुत्तरवाक्यान्यपि योज्यानि ॥ २४ ॥

Eggeling
  1. Or he may lay it down at the distance of eleven steps 28; for of eleven syllables, indeed, consists the trishṭubh: hence he thereby ascends to heaven by means of the trishṭubh.

२५

विश्वास-प्रस्तुतिः

द्वादशस्वा᳘दधीत॥
द्वा᳘दशाक्षरा वै ज᳘गती ज᳘गत्यै᳘वैतद्दि᳘वमुपो᳘त्क्रामति ना᳘त्र मा᳘त्रास्ति य᳘त्रैव᳘ स्वयं म᳘नसा म᳘न्येत तदा᳘दधीत स यद्वा ऽअ᳘प्यल्पक᳘मिव प्रा᳘ञ्चमुद्ध᳘रति ते᳘नैव दि᳘वमुपो᳘त्क्रामति॥

मूलम् - श्रीधरादि

द्वादशस्वा᳘दधीत॥
द्वा᳘दशाक्षरा वै ज᳘गती ज᳘गत्यै᳘वैतद्दि᳘वमुपो᳘त्क्रामति ना᳘त्र मा᳘त्रास्ति य᳘त्रैव᳘ स्वयं म᳘नसा म᳘न्येत तदा᳘दधीत स यद्वा ऽअ᳘प्यल्पक᳘मिव प्रा᳘ञ्चमुद्ध᳘रति ते᳘नैव दि᳘वमुपो᳘त्क्रामति॥

मूलम् - Weber

द्वादशस्वा᳘दधित॥
द्वा᳘दशाक्षरा वै ज᳘गती ज᳘गत्यैॗवैतद्दि᳘वमुपो᳘त्क्रामति ना᳘त्र माॗत्रास्ति य᳘त्रैव᳘ स्वयम् म᳘नसा म᳘न्येत तदा᳘दधीत स यद्वा अ᳘प्यल्पक᳘मिव प्रा᳘ञ्चमुद्ध᳘रति ते᳘नैव दि᳘वमुपो᳘त्क्रामति॥

मूलम् - विस्वरम्

द्वादशस्वादधीत । द्वादशाक्षरा वै जगती । जगत्येवैतद्दिवमुपोत्क्रामति । नात्र मात्रा ऽस्ति । यत्रैव स्वयं मनसा मन्येत तदादधीत । स यद्वा अप्यल्पकमिव प्राञ्चमुद्धरति, तेनैव दिवमुपोत्क्रामति ॥ २५ ॥

सायणः

क्रियासौकर्यानह्नवेनान्यान् पक्षानभिधाय कर्मणो यावन्मात्रं पर्याप्तमिति मन्यते, तावन्मात्रमेव कुर्यादित्याह- नात्रेति । ‘अत्र’ आधानविषये अष्टत्वादि- ‘मात्रा’ ‘नास्ति’ शास्त्रतः । अतः स्वेच्छया ‘यत्रैव’ देशे आहवनीय आहिते कर्म सुकरं भवतीति ‘स्वयं मनसैव मन्येत’ निश्चिनुयात्, तत्र ‘आदधीत’; तस्मात् ‘अल्पकमिव’ अल्पकमपि, अष्टप्रक्रमादत्यल्पमपि ‘प्राञ्चं’ दिशं प्रत्युद्धरेत् । ‘तेनैव’ आत्मनैव ‘दिवं’ प्राप्नोत्येव । अत्र कात्यायनः- “पुरस्तादाहवनीयस्याष्टासु प्रक्रमेष्वेकादशसु द्वादशसु मत्या वा”- इति (का० श्रौ० सू० ४- २१३) ॥ २५ ॥

Eggeling
  1. Or he may lay it down at the distance of twelve steps; for of twelve syllables, indeed, consists the jaga: hence he thereby ascends to heaven by means of the jagatī. Here, however, there is no (fixed) measure: let him, therefore, lay it down where in his own mind he may think proper 29. If he takes it ever so little east (of the Gārhapatya), he ascends to heaven by it.

२६

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
(रा) आहवनी᳘ये हवी᳘ᳫं᳘षि श्रप᳘येयुर᳘तो वै᳘ देवा दि᳘वमुपोद᳘क्रामंस्ते᳘नो ऽएवा᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘स्मिन्हवी᳘ᳫं᳘षि श्रपयाम त᳘स्मिन्यज्ञं᳘ तनवामहा ऽइ᳘त्यपस्खल᳘ ऽइव ह स᳘ हवि᳘षां यद्गा᳘र्हपत्ये श्रप᳘येयुर्यज्ञ᳘ ऽआहवनी᳘यो यज्ञे᳘ यज्ञं᳘ तनवामहा ऽइ᳘ति॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
(रा) आहवनी᳘ये हवी᳘ᳫं᳘षि श्रप᳘येयुर᳘तो वै᳘ देवा दि᳘वमुपोद᳘क्रामंस्ते᳘नो ऽएवा᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘स्मिन्हवी᳘ᳫं᳘षि श्रपयाम त᳘स्मिन्यज्ञं᳘ तनवामहा ऽइ᳘त्यपस्खल᳘ ऽइव ह स᳘ हवि᳘षां यद्गा᳘र्हपत्ये श्रप᳘येयुर्यज्ञ᳘ ऽआहवनी᳘यो यज्ञे᳘ यज्ञं᳘ तनवामहा ऽइ᳘ति॥

मूलम् - Weber

त᳘दाहुः॥
आहवनी᳘ये हवीं᳘षि श्रपयेयुर᳘तो वै᳘ देवा दि᳘वमुपोद᳘क्रामंस्ते᳘नो एवा᳘र्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘स्मिन्हवीं᳘षि श्रपयाम त᳘स्मिन्यज्ञं᳘ तनवामहा इ᳘त्यपस्खल᳘ इव ह स᳘ हवि᳘षां यद्गा᳘र्हपत्ये श्रप᳘येयुर्यज्ञ᳘ आहवनी᳘यो यज्ञे᳘ यज्ञं᳘ तनवामहा इ᳘ति॥

मूलम् - विस्वरम्

तदाहुः । आहवनीये हवींषि श्रपयेयुः । अतो वै देवा दिवमुपोदक्रामन् । तेनो एवार्चन्तः श्राम्यन्तश्चेरुः- तस्मिन् हवींषि श्रपयाम, तस्मिन् यज्ञं तनवामहा इति । अपस्खल इव ह स हविषां- यद् गार्हपत्ये श्रपयेयुः । यज्ञ आहवनीयः, यज्ञे यज्ञं तनवामहा इति ॥ २६ ॥

सायणः

इदानीं हविः- श्रपणविषये केषाञ्चित्पक्षमाह- तदाहुरिति । आहवनीय एव श्रपयतामभिप्रायमाह- अतो वा इति । ‘अतः’ अस्मादाहवनीयात् ‘देवाः’ ‘दिवं’ प्राप्ताः, अतो ऽस्माभिरपि तत्रैव श्रपणं कर्तव्यमिति तेषामाशयः । उपोत्क्रमणसाधनत्वमेव कुत इत्यत आह- तेनो एवेति । तेनैवाहवनीयेन साधनेन प्रवासात्मकं हविः-प्रदानादि सकलं कर्मान्वतिष्ठन्; अतस्तस्योपोत्क्रमणसाधनत्वम् । अतो वयमपि अन्यत्र श्रपणमन्यत्र जुहवाम इति वैयधिकरण्यं मा भूदिति तस्मिन्नेव आहवनीये श्रपणं यागञ्च करवामेति । वैयधिकरण्ये दोषमाह- अपस्खल इवेति । ‘गार्हपत्ये श्रपयेयुः’ इति यत् ‘सो ऽपस्खल इव’ अपस्खलनमिव ‘हविषां’ भवति । फलितानां व्रीह्यादीनां तुषविमोकादिसम्पादनप्रदेशः ‘स्खलः’ । यथा व्रीह्यादिराशिः खलाद् 30 बहिरपि प्राप्तो व्यर्थो भवति, एवमन्यत्र श्रपणमपि । अतः प्रागुक्तप्रकारेण आहवनीय एव ‘यज्ञे’, ‘यज्ञं’ यज्ञसाधनत्वात् श्रप्यमाणं हविरपि यज्ञः ॥ २६ ॥

Eggeling
  1. Here now they say, ‘Let them cook the sacrificial

dishes on the Āhavanīya; for thence, assuredly, the gods ascended to heaven, and therewith they went on worshipping and toiling: therein we will cook the sacrificial dishes; therein we will perform the sacrifice! For, as it were, a displacement 31 of the sacrificial dishes would take place, if they were to cook them on the Gārhapatya. The Āhavanīya is the sacrifice: we will perform the sacrifice in the sacrifice!’

२७

विश्वास-प्रस्तुतिः

(त्यु) उतो गा᳘र्हपत्य ऽएव᳘ श्रपयन्ति॥
(न्त्या) आहवनी᳘यो वा᳘ ऽएष न वा᳘ ऽएष त᳘स्मै य᳘दस्मिन्न᳘शृतᳫं श्रप᳘येयुस्त᳘स्मै वा᳘ ऽएष य᳘दस्मिञ्छृतं᳘ जुहुयुरित्य᳘तो यतर᳘था काम᳘येत त᳘था कुर्यात्॥

मूलम् - श्रीधरादि

(त्यु) उतो गा᳘र्हपत्य ऽएव᳘ श्रपयन्ति॥
(न्त्या) आहवनी᳘यो वा᳘ ऽएष न वा᳘ ऽएष त᳘स्मै य᳘दस्मिन्न᳘शृतᳫं श्रप᳘येयुस्त᳘स्मै वा᳘ ऽएष य᳘दस्मिञ्छृतं᳘ जुहुयुरित्य᳘तो यतर᳘था काम᳘येत त᳘था कुर्यात्॥

मूलम् - Weber

उॗतो गा᳘र्हपत्य एव᳘ श्रपयन्ति॥
आहवनी᳘यो वा᳘ एष न वा᳘ एष त᳘स्मै य᳘दस्मिन्न᳘शृतं श्रप᳘येयुस्त᳘स्मै वा᳘ एष य᳘दस्मिंछूतं᳘ जुहुयुरित्य᳘तो यतर᳘था काम᳘येत त᳘था कुर्यात्॥

मूलम् - विस्वरम्

उतो गार्हपत्य एव श्रपयन्ति । आहवनीयो वा एषः । न वा एष तस्मै- यदस्मिन्नश्यतं श्रपयेयुः । तस्मै वा एष- यदस्मिञ्छृतं जुहुयुरिति । अतो यतरथा कामयेत तथा कुर्यात् ॥ २७ ॥

सायणः

अन्येषां पक्षमाह- उतो इति । प्रथमपक्षोक्तमाहवनीये श्रपणमत्रापि सम्भावयति- आहवनीयो वा इति । आहवनीयस्य इतः प्रणीतत्वात् । किमुपचरितेनाहवनीयेन, साक्षात्तस्मिन्नेव श्रपणमस्त्वित्याशङ्क्य तस्य श्रपणायोग्यत्वमाह- न वा एष इति । ‘एषः’ आहवनीयः शृतश्रपणाय ‘न वै’ नोचितः खल्वित्यर्थः । तर्हि कस्मा उचित इति तत्राह- तस्मै वा इति । असौ शृतस्य होमायोचित इत्यर्थः । अथवा एवं व्याख्येयम् । “आहवनीयो वा एष” इति मुख्य आहवनीय एवोच्यते । यस्मात् ‘एष आहवनीयः’ आहवनार्हः, अत एष पक्वस्य हविषो होमाय योग्यः; न त्वामस्य पाकायेति अग्निद्वयपक्षे ऽप्युपपत्तिसम्भवाच्छ्रपणस्यैच्छिकत्वमाह- अतो यतरथेति । यथा कामयते, तथैव कुर्यात् ॥ २७ ॥

Eggeling
  1. However, they also do cook on the Gārhapatya, arguing, ‘The former is indeed āhavanīya (i.e. “suitable for a burnt-offering”); but that one, surely, is not (intended) for this,–viz. that they should cook uncooked (food) on it; but it is (intended) for this,–viz. that they should offer up cooked (food) on it.’ He may therefore do it on whichever (fire) he pleases.

२८

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ हैष᳘ यज्ञ᳘ ऽउवाच॥
नग्न᳘ताया वै᳘ बिभेमी᳘ति का᳘ ते ऽनग्नते᳘त्यभि᳘त एव᳘ मा प᳘रिस्तृणीयुरि᳘ति त᳘स्मादेत᳘दग्नि᳘मभि᳘तः प᳘रिस्तृणन्ति तृ᳘ष्णाया वै᳘ बिभेमी᳘ति का᳘ ते तृ᳘प्तिरि᳘ति ब्राह्मण᳘स्यैव तृ᳘प्तिम᳘नुतृप्येयमि᳘ति त᳘स्मात्स᳘ᳫं᳘स्थिते यज्ञे᳘ ब्राह्मणं त᳘र्प्पयितवै᳘ ब्रूयाद्यज्ञ᳘मे᳘वैत᳘त्तर्प्पयति॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ हैष᳘ यज्ञ᳘ ऽउवाच॥
नग्न᳘ताया वै᳘ बिभेमी᳘ति का᳘ ते ऽनग्नते᳘त्यभि᳘त एव᳘ मा प᳘रिस्तृणीयुरि᳘ति त᳘स्मादेत᳘दग्नि᳘मभि᳘तः प᳘रिस्तृणन्ति तृ᳘ष्णाया वै᳘ बिभेमी᳘ति का᳘ ते तृ᳘प्तिरि᳘ति ब्राह्मण᳘स्यैव तृ᳘प्तिम᳘नुतृप्येयमि᳘ति त᳘स्मात्स᳘ᳫं᳘स्थिते यज्ञे᳘ ब्राह्मणं त᳘र्प्पयितवै᳘ ब्रूयाद्यज्ञ᳘मे᳘वैत᳘त्तर्प्पयति॥

मूलम् - Weber

स᳘ हैष᳘ यज्ञ᳘ उवाच॥
नग्न᳘ताय वै᳘ बिभेमी᳘ति का᳘ ते ऽनग्नते᳘त्यभि᳘त एव᳘ मा प᳘रिस्तृणीयुरि᳘ति त᳘स्मादेत᳘दग्नि᳘मभि᳘तः प᳘रिस्तृणन्ति तृ᳘ष्णाया वै᳘ बिभेमी᳘ति का᳘ ते तृ᳘प्तिरि᳘ति ब्राह्मण᳘स्यैव तृ᳘प्तिम᳘नुतृप्येयमि᳘ति त᳘स्मात्स᳘ᳫं᳘स्थिते यज्ञे᳘ ब्राह्मणं त᳘र्पयितवै᳘ ब्रूयाद्यज्ञ᳘मेॗवैत᳘त्तर्पयति॥

मूलम् - विस्वरम्

स हैष यज्ञ उवाच । नग्नताया वै बिभेमीति । का ते ऽनग्नतेति । अभित एव मा परिस्तृणीयुरिति । तस्मादेतदग्निमभितः परिस्तृणन्ति । तृष्णाया वै बिभेमीति । का ते तृप्तिरिति । ब्राह्मणस्यैव तृप्तिमनुतृप्येयमिति । तस्मात् संस्थिते यज्ञे ब्राह्मणं तर्प्पयितवै ब्रूयात् । यज्ञमेवैतत् तर्प्पयति ॥ २८ ॥

सायणः

अथाग्नेः परिस्तरणं विधातुमाह- स हैष इति । ‘यज्ञः’ अग्निः; एष आहवनीय इत्युक्तत्वात् । ‘नग्नता’ प्रावरणराहित्यम् । अग्नेर्नग्नत्वपरिहारमजानानाः पृच्छन्ति- का त इति । ‘अनग्नता’- इति च्छेदः । तस्मादिति परिस्तरणविधिः । इष्ट्यङ्गभूतब्राह्मणसंतर्पणं विधातुमाह- तृष्णाया इति । भीत्युपन्यासस्तस्यावश्यपरिहर्तव्यत्वद्योतनार्थः । कः परिहारस्तृष्णाया इति पृष्ट आह- ब्राह्मणस्यैवेति । ‘एव’-कारेण स्वतर्पणादपि ब्राह्मणतर्पणमेव श्रेय इत्ययमर्थो द्योतते । ‘ब्राह्मणस्य’ -इति जातावेकवचनम् (पा. सू. १ । ३ । ५८) ब्राह्मणमित्यभिधानात् । तस्मादिति । ‘ब्राह्मणं तर्पयितवै ब्रूयात्’ यजमान इति शेषः ‘एतत्’ एतेन । ब्राह्मणतर्पणेन ‘यज्ञमेव’ अग्निमेव ॥ २८ ॥ १ ॥ (७. ३) ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे सप्तमाध्याये तृतीयं ब्राह्मणम् ॥ 32

Eggeling
  1. That sacrifice spake, ‘I dread nakedness.’ ‘What is unnakedness for thee?’ ‘Let them strew (sacrificial grass) all round me!’ For this reason they strew (sacrificial grass) all round the fire. ‘I dread thirst.’ ‘How art thou to be satiated?’ ‘May I satiate myself after the priest has been satisfied!’ Let him therefore, on the completion of the sacrifice, order that the priest be satisfied; for then he satisfies the sacrifice.

  1. 200:1 Or perhaps, he was left behind with, or in, the remains (of the sacrifice);’ vāstu being evidently also taken in this sense by our author, in par. 7. ↩︎

  2. ‘प्रत्युत्तमासन्नद्धः’ इति क्व. पा. । ↩︎

  3. 200:2 The text has ayatayā merely, which, to become intelligible, clearly requires some noun, which may have been lost here. Sāyaṇa is silent on this point. In Dr. Muir’s version of the legend, Original Sanskrit Texts, IV, p. 202, the word is left untranslated. I am inclined to supply some such noun as heti, ‘weapon;’ cf. XII, 7, 3, 20, where this very word is used in connection with Rudra: in later times it is also specially applied to Agni’s weapon or flame (jihvā, ’tongue’). It is not impossible, however, that we have to supply tanvā (‘with his raised body, or self’). To mā vi srākshīḥ (for which the Kāṇva recension reads mā ’sthāḥ), ‘do not hurl,’ and to saṁvivarha (‘he drew back’), Sāyaṇa supplies yajñam, ‘sacrifice:’ hence he apparently takes it thus,–‘do not scatter (the sacrifice),’–‘he kept (the sacrifice) together and did not injure it in any way.’ ↩︎

  4. 201:1 On the identification of Agni with Rudra, see also VI, 1, 3, 7; and Muir, Original Sanskrit Texts, IV, p. 339 seq. ↩︎

  5. 201:2 Passages such as this and VI, 1, 3, 7 seq. are of considerable interest, as showing, on the one hand, the tendency towards identifying and blending originally distinct and apparently local Vedic gods, especially Rudra, with the person of Agni, the representative of the divine power on earth in the later Vedic triad; and, on the other hand, the origin of the conception of Siva, in the pantheistic system of the post-Vedic period. On our passage, see also Weber, Ind. Stud. II, p. 37; I, p. 189; Muir, Original Sanskrit Texts, IV, p. 328. ↩︎

  6. ‘स्विष्टकृत इति विशेषणस्य कारणमाह’ इति क्व० पाठः । ↩︎ ↩︎

  7. 202:1 That is, according to Sāyaṇa, on the Āhavanīya fire-place. ↩︎

  8. 202:2 The anuvākyā for the Svishṭakr̥t is Rig-veda X, 2, 1: piprīhi devān̐ uśato yavishṭḥa (‘gladden thou the longing gods, O youngest!’) &c. Āśv. S. I, 6, 2. ↩︎

  9. 202:3 See I, 4, 2, 16-17. These formulas (nigada) of enumeration (ayaḍ agnir agneḥ priyā dhāmāni, &c.–yakshad agner hotuḥ priyā dhāmāni, &c.) form part of the offering-formula. The yājyā proper, however, which they precede is Rig-veda VI, 15, 14, agne yad adya viśo adhvarasya hotaḥ [‘O Agni, Hotr̥ of the cult! when this day (thou comest) to the men ‘], &c. ↩︎

  10. 203:1 Or, resort, abode, dhāman. ↩︎

  11. देवतां देवतानामपूर्वामयाट्कारात् प्राक् । तद्विरुद्धं स्विष्टीकरणस्यैवानभ्यर्हितत्वेन प्रथमं निर्देष्टव्यत्वात् । इति क्व. पाठः । ↩︎

  12. 203:2 Viz. at the ‘devatānām āvahanam,’ cf. I, 4, 2, 17; p. 118, n. 1. ↩︎

  13. 203:3 ‘Āyajatām ejyā ishaḥ.’ Mahīdhara, on Vāj. S. XXI, 47, interprets it thus: ‘May these (ishaḥ) desirous (creatures), fit for sacrifice, sacrifice properly!’ Similarly perhaps Sāyaṇa on our passage. ↩︎

  14. 204:1 Here kr̥ṇotu is omitted in the text, but cf. Vāj. S. XXI, 47; Taitt. Br. III, 5, 7, 6; Āśv. Ś. I, 6, 5. Dr. Hillebrandt, Altind. Neu- and Vollmondsopfer, p. 11 construes it with the preceding formula: ’er mache darbringungswerth die Speisen; er, der Wesenkenner, nehme beim Opfer das havis an.’ (?) ↩︎

  15. 204:2 Mahat, ‘grosses.’ ↩︎

  16. 204:3 See Vāj. S. XIX, 26. Here the author, as usual (cf. p. 5 note), attempts to enhance the solemnity of the ceremony by identifying it with the tr̥tīya-savana, or evening libation at the Soma-sacrifice, both offerings constituting the final ceremonies in the main performance of the respective sacrifices. We shall, however, see (cf. I, 8, 3, 25) that as at the evening libation the remains of the Soma are offered up, so also are the remains of havis offered to the viśve devāḥ at the conclusion of the present sacrifice. At IV, 4, 5, 17 it is more especially the offering of rice-cake to Agni and Varuṇa, at the evening libation, which is identified with the svishṭakr̥t. ↩︎

  17. 204:4 See p. 202, note 2. ↩︎

  18. 204:5 See p. 202, note 3. ↩︎

  19. 205:1 Avīryam; cf. II, 1, 2, 9, where the (śarīra) empty body (of Prajāpati) is called a vāstu ayajñiyam avīryam. See also above, I, 7, 3, 7, where we met with vāstu in the sense of ‘remainder, that which remains,’ as Sāyaṇa also seems to take it here. ↩︎

  20. 205:2 Indriyam, literally ‘Indra’s power.’ The trishṭubh often (ej. Rig-veda X, 130, 5) appears specially related to Indra; and the hymns addressed to him are almost entirely in this metre. Taitt. S. VII, 1, 1, 4 it is said to have been created by Prajāpati from his own chest and arms, immediately after Indra, and together with the Br̥hat-sāman, the Rājanya, and the ram; and that these are therefore vīryāvant, having been created out of vīrya (i.e. the seats of ‘manly power’). ↩︎

  21. अत्र व्यत्ययेन श्यन् । ↩︎ ↩︎

  22. 205:3 For this symbolical explanation see Taitt. S. VII, 1, 1, 5, where the anushṭubh is said to have been created by Prajāpati, by his fourth and last creative act, from his feet, together with the Vairāja-sāman, the Śūdra, and the horse; the two last named being, therefore, styled ‘bhūta-saṅkrāmin (? subservient to creatures).’ I do not find it stated anywhere, what anushṭubh verses may optionally be taken for the anuvākyā and yājyā of the svishṭakr̥t. ↩︎

  23. 206:1 That is, Indradyumna Bhāllabeya, as the Kāṇva recension reads here and II, 1, 4, 6. Cf. X, 6, 1, 1. ↩︎

  24. “इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् । कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात्" अम० १ । ३ । ३ ॥ ↩︎

  25. 206:2 He makes, as usual, an under-layer (upastaraṇa) of butter in the juhū; cuts a piece from the north part of each of the two cakes (or of the one cake and of both the sweet and the sour milk constituting the sānnāyya); and thereupon bastes the pieces twice (not once) with butter. ↩︎

  26. 206:3 See above, par. 3. The same quarter is assigned to Rudra, IX, 1, 1, 10. See also Weber, Ind. Stud, I, p. 225. ↩︎

  27. “प्रकर्षेण क्रमणं प्रक्रमः । क्रमणेनारत्निमात्रः प्रक्रमो भवति” तस्मात्प्राङ् प्रक्रामति त्रीन्विक्रमान्” इत्यादिश्रुतेः (३ । ५ । १ । १) अरत्निस्तु पुरुषपञ्चमांशः । तस्माद्विपदः प्रक्रमः । इति सत्यव्रतसामाश्रमिणः । परं चायं द्विपदः प्रक्रमो ज्योतिष्टोम एव । आधाने तु एकपद एवेति । तदुक्तं कात्यायनेन लोकशुल्बे “आधाने पदिकं कुर्याद्द्विपदः सौमिको भवेत् । अग्नौ च त्रिपदं कुर्यात्प्रक्रमं याज्ञिको बुधः” इति शुल्ब सूत्रे ७ कं. ३४ श्लो. । ↩︎

  28. 207:1 The Baudhāy. Śulvas. (66) lays it down as the rule that the Brāhmaṇa has to construct his Āhavanīya fire at the distance of eight prakramas (step of two padas or feet each) to the east of the Gārhapatya, the Rājanya at the distance of eleven, and the Vaiśya at the distance of twelve, steps. Thibaut, Pandit X, p. 22. ↩︎

  29. 207:2 See 1, 2, 5, 14. ↩︎

  30. ‘स्खलाद्’ इति पाठान्तरम् । वस्तुतो निःसकार एव पाठः साधुः । ”खल उत्तरवेदिः”- इति का० श्रौ० सू० २२ अ० ११४ सू० ॥ का० श्रौ० सू० २२ अ० १६६. सू० । आश्व० श्रौ० सू० ७ । १३ । १४ । “खलात् क्षेत्रादगाराद्वा" इति । ११. १७. मनुनोक्तेश्च । ↩︎

  31. 208:1 Apaskhala. Sāyaṇa takes skhala to mean winnowing- (or threshing-) floor (? khala): hence apaskhala would mean ’the leaping (of the husk, &c.) out of the winnowing-floor.’ The Kāṇva MS. reads, ‘apaskhala iva sa havishāṁ yad gārhapatyaḥ’ (? ’the Gārhapatya is to the sacrificial food the outside of a winnowing-floor, as it were.’) ↩︎

  32. उपलब्धेषु सर्वेष्वपि पुस्तकेषु शतपथब्राह्मणीयप्रथमकाण्डस्यैतदन्तमेव सायणभाष्यं दृश्यते । अप्येतदारभ्य काण्डसमाप्तिपर्यन्तं हरिस्वामिकृतं भाष्यमेव सर्वत्र विद्यते । अतस्तदेव संगृह्यते । “काण्डस्यावशिष्टं सायणीयं भाष्यं लुप्तकल्पतामुपगतमिति मंतव्यं तदन्वेषणे च यावच्छक्यं प्रयतनीयं प्राच्यवैदिकवाङ्मयसंशोधकैः ॥ इति ॥ ↩︎