०१
विश्वास-प्रस्तुतिः
ऋणᳫँ᳭ ह वै᳘ जायते यो᳘ ऽस्ति॥
स जा᳘यमान ऽएव᳘ देवे᳘भ्य ऽऋ᳘षिभ्यः पितृ᳘भ्यो मनु᳘ष्येभ्यः॥
मूलम् - श्रीधरादि
ऋणᳫँ᳭ ह वै᳘ जायते यो᳘ ऽस्ति॥
स जा᳘यमान ऽएव᳘ देवे᳘भ्य ऽऋ᳘षिभ्यः पितृ᳘भ्यो मनु᳘ष्येभ्यः॥
मूलम् - Weber
ऋण᳘ᳫं᳘ ह वै᳘ जायते यो᳘ ऽस्ति॥
स जा᳘यमान एव᳘ देवे᳘भ्य ऋ᳘षिभ्यः पितृ᳘भ्यो मनुॗष्येभ्यः॥
मूलम् - विस्वरम्
अवदानकॢप्तिः ।
ऋणं ह वै जायते यो ऽस्ति । स जायमान एव देवेभ्य ऋषिभ्यः पितृभ्यो मनुष्येभ्यः ॥ १ ॥
सायणः
अवदानस्वरूपं 1 (श. प. ब्रा. ७ । २ । ६) विवक्षुराख्यायिकामाह- ऋणं हेति । ‘यः’ द्विजातिः ‘स जायमान एव’ देवादिभ्यश्चतुर्भ्यो ऽपि ‘ऋणवान्’ अधमर्णिको ‘जायते’ 2 ऋणित्वे जननमेव निमित्तमित्यर्थः ॥ १ ॥
Eggeling
- Verily, whoever exists, he, in being born, is born as (owing) a debt to the gods, to the R̥shis, to the fathers, and to men 3.
०२
विश्वास-प्रस्तुतिः
स य᳘देव य᳘जेत॥
ते᳘न देवे᳘भ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करो᳘ति यदेनान्य᳘जते य᳘देभ्यो जुहोति॥
मूलम् - श्रीधरादि
स य᳘देव य᳘जेत॥
ते᳘न देवे᳘भ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करो᳘ति यदेनान्य᳘जते य᳘देभ्यो जुहोति॥
मूलम् - Weber
स य᳘देव य᳘जेत॥
ते᳘न देवे᳘भ्य ऋणं᳘ जायते तॗद्ध्येभ्य एत᳘त्करो᳘ति य᳘देनान्य᳘जते य᳘देभ्यो जुहोति॥
मूलम् - विस्वरम्
स यदेव यजेत- तेन देवेभ्य ऋणं जायते । तद्ध्येभ्य एतत् करोति- यदेनान् यजते, यदेभ्यो जुहोति ॥ २ ॥
सायणः
सङ्ग्रहोक्तं विवृणोति- स यदेवेति । ‘यजेत’- इति ‘यत्’ ‘तेन’ कारणेन यागेन निमित्तेन ‘देवेभ्यः’ ‘तद् ऋणं जायते’ । ‘हि’ यस्माद् यागकर्मेभ्यः ‘एभ्यः’ देवेभ्यः ‘एतत्’ इदानीं ‘करोति’ अतस्तेभ्यः तद् ऋणमित्यर्थः । तच्छब्दार्थमाह- यदेनानिति । यागहोमावुभावपि नियमेन देवार्थमेव यतः क्रियते; अतस्तेषां तौ स्वम्, तस्यावश्यप्रदानत्वादृणी जायत इत्यर्थः । एवमुत्तरवाक्यान्यपि योज्यानि ॥ २ ॥
Eggeling
- For, inasmuch as he is bound to sacrifice, for that reason he is born as (owing) a debt to the gods: hence when he sacrifices to them, when he makes
offerings to them, he does this (in discharge of his debt) to them.
०३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘दे᳘वानुब्रुवीत᳘॥
तेन᳘ ऽर्षिभ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करोत्यृ᳘षीणां निधिगोप इ᳘तिऽ ह्यनूचान᳘माहुः॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘दे᳘वानुब्रुवीत᳘॥
तेन᳘ ऽर्षिभ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करोत्यृ᳘षीणां निधिगोप इ᳘तिऽ ह्यनूचान᳘माहुः॥
मूलम् - Weber
अ᳘थ य᳘देॗवानुब्रुवीत᳟॥
तेन᳘ ऽर्षिभ्य ऋणं᳘ जायते तॗद्ध्येभ्य एत᳘त्करोत्यृ᳘षीणां निधिगोप इ᳘ति ह्य᳘नूचान᳘माहुः᳟॥
मूलम् - विस्वरम्
अथ यदेवानुब्रुवीत- तेन ऋषिभ्य ऋणं जायते । तद्ध्येभ्य एतत् करोति- ऋषीणां निधिगोपः- इति ह्यनूचानमाहुः ॥ ३॥
सायणः
अथेति । ‘अनुब्रुवीत’ अनुवचनं कुर्यात्, अधीयेतेत्यर्थः । निधिगोप इतीति । उपभुज्यमानो ऽपि यो न विनश्यति, स ‘निधिः’ । तादृशः ऋषीणां सम्बन्धी यो वेदाख्यो निधिः, तस्य गोपायिता ‘इति’ वेदम् ‘अनूच्यमानम्’ ‘आहुः’ बुधाः । अतस्तेषां प्रवचनं धनमिति गम्यते ॥ ३ ॥ ४ ॥
Eggeling
- And further, inasmuch as he is bound to study (the Veda), for that reason he is born as (owing) a debt to the R̥shis: hence it is to them that he does this; for one who has studied (the Veda) they call ’the R̥shis’ treasure-warden.’
०४
विश्वास-प्रस्तुतिः
(र᳘) अ᳘थ य᳘दे᳘व᳘ प्रजा᳘मिच्छे᳘त॥
ते᳘न पितृ᳘भ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करो᳘ति य᳘देषाᳫँ᳭ सन्तता᳘व्यवच्छिन्ना प्रजा भ᳘वति᳘॥
मूलम् - श्रीधरादि
(र᳘) अ᳘थ य᳘दे᳘व᳘ प्रजा᳘मिच्छे᳘त॥
ते᳘न पितृ᳘भ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करो᳘ति य᳘देषाᳫँ᳭ सन्तता᳘व्यवच्छिन्ना प्रजा भ᳘वति᳘॥
मूलम् - Weber
अ᳘थ य᳘देव᳘ प्रजा᳘मिछे᳘त॥
ते᳘न पितृ᳘भ्य ऋणं᳘ जायते तॗद्ध्येभ्य एत᳘त्करो᳘ति य᳘देषाᳫं संतता᳘व्यवछिन्ना प्रजा भ᳘वति॥
मूलम् - विस्वरम्
अथ यदेव प्रजामिच्छेत- तेन पितृभ्य ऋणं जायते । तद्ध्येभ्य एतत् करोति- यदेषां सन्तता ऽव्यवच्छिन्ना प्रजा भवति ॥ ४ ॥
सायणः
[व्याख्यानम् तृतीये]
Eggeling
- And further, inasmuch as he is bound to wish for offspring, for that reason he is born as (owing) a debt to the fathers: hence when there is (provided by him) a continued, uninterrupted lineage, it is for them that he does this.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ य᳘देव᳘ व्वास᳘येत॥
ते᳘न मनु᳘ष्येभ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करो᳘ति य᳘देनान्व्वास᳘यते य᳘देभ्यो᳘ ऽशनं द᳘दाति स य᳘ ऽएता᳘नि स᳘र्व्वाणि करो᳘ति स᳘ कृत᳘कर्मा त᳘स्य स᳘र्व्वमाप्तᳫँ᳭ स᳘र्व्वं जितम्॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ य᳘देव᳘ व्वास᳘येत॥
ते᳘न मनु᳘ष्येभ्य ऽऋणं᳘ जायते त᳘द्ध्येभ्य ऽएत᳘त्करो᳘ति य᳘देनान्व्वास᳘यते य᳘देभ्यो᳘ ऽशनं द᳘दाति स य᳘ ऽएता᳘नि स᳘र्व्वाणि करो᳘ति स᳘ कृत᳘कर्मा त᳘स्य स᳘र्व्वमाप्तᳫँ᳭ स᳘र्व्वं जितम्॥
मूलम् - Weber
अ᳘थ य᳘देव᳘ वास᳘यते॥
ते᳘न मनुॗष्येभ्य ऋणं᳘ जायते तॗद्ध्येभ्य एत᳘त्करो᳘ति य᳘देनान्वास᳘यते य᳘देभ्यो᳘ ऽशनं द᳘दाति स य᳘ एता᳘नि स᳘र्वाणि करो᳘ति स᳘ कृत᳘कर्मा त᳘स्य स᳘र्वमाप्तᳫं स᳘र्वं जितं᳟॥
मूलम् - विस्वरम्
अथ यदेव वासयेत- तेन मनुष्येभ्य ऋणं जायते । तद्ध्येभ्य एतत् करोति- यदेनान् वासयते, यदेभ्यो ऽशनं ददाति । स य एतानि सर्वाणि करोति, स कृतकर्मा, तस्य सर्वमाप्तं, सर्वं जितम् ॥ ५ ॥
सायणः
अथ यदेवेति । ‘वासयेत’ गृहे; अन्नादिप्रदानेनेदानीमवकाशं प्रयच्छेत् । ‘यः’ जायमानो ब्राह्मणः ‘एतानि’ यागानुवचनादीनि ‘सर्वाणि’ अपि ‘करोति’ । ‘सः’ ‘कृतकर्मा’ कृतकृत्यः । तस्मात् आप्तव्यं ‘सर्वमाप्तं’ भवति, देवादिसर्वस्थानं ‘सर्वं’ जेतव्यं ‘जितं’ भवति ॥ ५ ॥
Eggeling
- And further, inasmuch as he is bound to practise hospitality, for that reason he is born as (owing) a debt to men: hence when he harbours them, when he offers food to them, it is (in discharge of his debt) to them that he does so. Whoever does all these things, has discharged his duties: by him all is obtained, all is conquered.
०६
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स ये᳘न देवे᳘भ्य ऽऋणं जा᳘यते॥
त᳘देनांस्तद᳘वदयते यद्य᳘जते᳘ ऽथ य᳘दग्नौ᳘ जुहो᳘ति त᳘देनांस्तद᳘वदयते त᳘स्माद्यत्कि᳘ञ्चाग्नौ जु᳘ह्वति त᳘दवदा᳘नं ना᳘म॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स ये᳘न देवे᳘भ्य ऽऋणं जा᳘यते॥
त᳘देनांस्तद᳘वदयते यद्य᳘जते᳘ ऽथ य᳘दग्नौ᳘ जुहो᳘ति त᳘देनांस्तद᳘वदयते त᳘स्माद्यत्कि᳘ञ्चाग्नौ जु᳘ह्वति त᳘दवदा᳘नं ना᳘म॥
मूलम् - Weber
स ये᳘न देवे᳘भ्य ऋणं जा᳘यते॥
त᳘देनांस्तद᳘वदयते यद्य᳘जते᳘ ऽथ य᳘दग्नौ᳘ जुहो᳘ति त᳘देनांस्तद᳘वदयते त᳘स्माद्यत्किं᳘ चाग्नौ जु᳘ह्वति त᳘दवदा᳘नं ना᳘म॥
मूलम् - विस्वरम्
स येन देवेभ्य ऋणं जायते- तदेनांस्तदवदयते- यद् यजते । अथ यदग्नौ जुहोति- तदेनांस्तदवदयते । तस्माद् यत् किञ्चाग्नौ जुह्वति तदवदानं नाम ॥ ६ ॥
सायणः
स येनेति । इत्थं तेषामृणत्वं प्रति तेन ‘अवदयते’ दयतिर्दानार्थः; (धा. पा. भ्वा. आ. ४८१) अवप्रत्यर्पणम्, देवानां स्वभूतमृणम्, विभज्य दत्तवान् भवति । तच्छब्दार्थमाह- यद्यजत इति । यदस्ति तत्तेन यागेनेत्यर्थः; एवं होमेनापि । ‘यस्मादेवं’ तस्मात् ‘यत् किञ्च’ चरुपुरोडाशादिकं ‘अग्नौ जुह्वति,’ ‘तत्’ अवत्तं हविः ‘अवदानम्’ -इति प्रसिद्धं भवति ॥ ६ ॥
Eggeling
- And, accordingly, in that he is born as (owing) a debt to the gods, in regard to that he satisfies (ava-day) them by sacrificing; and when he makes offerings in the fire, he thereby satisfies them in regard to that (debt): hence whatever they offer up in the fire, is called avadānam (sacrificial portion) 4.
०७
विश्वास-प्रस्तुतिः
तद्वै᳘ चतुरवत्तं᳘ भवति॥
(ती) इदं वा᳘ ऽअनुवाक्या᳘थ याज्या᳘थ व्वषट्कारो᳘ ऽथ सा᳘ देव᳘ता चतुर्थी य᳘स्यै देव᳘तायै हविर्भ᳘वत्येवᳫँ᳭ हि᳘ देव᳘ता ऽअवदा᳘नान्यन्वा᳘यत्ता ऽअवदा᳘नानि वा देव᳘ता ऽअन्वा᳘यत्तान्य᳘तिरिक्तᳫँ᳭ ह त᳘दवदा᳘नं य᳘त्पञ्चमं क᳘स्मा ऽउ हि त᳘दवद्येत्त᳘स्माच्चतुरवत्तं᳘ भवति॥
मूलम् - श्रीधरादि
तद्वै᳘ चतुरवत्तं᳘ भवति॥
(ती) इदं वा᳘ ऽअनुवाक्या᳘थ याज्या᳘थ व्वषट्कारो᳘ ऽथ सा᳘ देव᳘ता चतुर्थी य᳘स्यै देव᳘तायै हविर्भ᳘वत्येवᳫँ᳭ हि᳘ देव᳘ता ऽअवदा᳘नान्यन्वा᳘यत्ता ऽअवदा᳘नानि वा देव᳘ता ऽअन्वा᳘यत्तान्य᳘तिरिक्तᳫँ᳭ ह त᳘दवदा᳘नं य᳘त्पञ्चमं क᳘स्मा ऽउ हि त᳘दवद्येत्त᳘स्माच्चतुरवत्तं᳘ भवति॥
मूलम् - Weber
तद्वै᳘ चतुरवत्त᳘म् भवति॥
इदं वा᳘ अनुवाक्या᳘थ याज्या᳘थ वषट्कारो᳘ ऽथ सा᳘ देव᳘ता चतुर्थी य᳘स्यै देव᳘तायै हविर्भ᳘वत्येवᳫं हि᳘ देव᳘ता अवदा᳘नान्यन्वा᳘यत्ता अवदा᳘नानि वा देव᳘ता अन्वा᳘यत्तान्य᳘तिरिक्तᳫं ह त᳘दवदा᳘नं य᳘त्पञ्चमं क᳘स्मा उ हि त᳘दवद्येत्त᳘स्माच्चतुरवत्त᳘म् भवति॥
मूलम् - विस्वरम्
तद्वै चतुरवत्तं भवति । इदं वा अनुवाक्या, अथ याज्या, अथ वषट्कारः, अथ सा देवता चतुर्थी यस्यै देवतायै हविर्भवति । एवं हि देवता अवदानान्यन्वायत्ता । अवदानानि वा देवता अन्वायत्तानि । अतिरिक्तं ह तदवदानम्, यत् पञ्चमम् । कस्मा उ हि तदवद्येत् । तस्माच्चतुरवत्तं भवति ॥ ७ ॥
सायणः
तस्यावदेयस्य चतुष्ट्वं विधत्ते- तद्वा इति । तत्र कारणमाह- इदं वा इति । ‘इदं वा’ अनुवाक्यात्मकमिदं खलु प्रथमम्; ‘अथ’ पश्चाद् ‘याज्या,’ ‘अथ’ प्रधानसाधनो ‘वषट्कारः’ । पश्चाद्धविस्स्वामिनी ‘देवता’ ‘चतुर्थी’ भवति । ‘एवं’ क्रमेण पुरो ऽनुवाक्याद्याश्चतस्रो ‘देवताः’, क्रमेण चत्वारि ‘अवदानानि अन्वायत्ताः’ । ‘हि’ -शब्दश्चार्थे (“हीत्येषो ऽनेककर्मा” इति निरु. १. २. ४., १. ४. ३); अवदानानि च चत्वारि, चतस्रः पुरो ऽनुवाक्यायाज्यादिदेवताः ‘अन्वायत्तानि’ अनुप्राप्तानि । अत उभयेषां समसङ्ख्याकत्वात् तन्न्यूनाधिकभावो न युक्त इत्यर्थः । चतसृभ्यो ऽवदानचतुष्टयस्यावश्यकत्वात् न्यूनसङ्ख्याकत्वं न शक्यम् । अधिकत्वदोषात् पञ्चममाशङ्क्य परिहरति- अतिरिक्तं हेति । अतिरेकमेव दर्शयति- कस्मा इति । ‘कस्मै’ प्रयोजनाय ‘पञ्चमम् अवद्येत् ?’ तदभिमानिन्याः पञ्चम्या देवताया अभावादिति भावः ॥ ७ ॥
Eggeling
- Now this (oblation) consists of four cuttings; (the reason for this is, that) there is here first, the invitatory prayer (anuvākyā), then the offering-prayer (yājyā), then the vashaṭ-call, and as the fourth, the deity for which the sacrificial food is
(destined): for in this way the deities are dependent on the sacrificial portions, or the portions are dependent on the deities: hence what fifth cutting there is (made by some), that is redundant, for–for whom is he to cut it? For this reason it consists of four cuttings.
०८
विश्वास-प्रस्तुतिः
(त्यु᳘) उ᳘तो पञ्चावत्त᳘मेव᳘ भवति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘स्यै᳘षो पञ्चावत्त᳘स्य सम्प᳘द्बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘स्यैवं᳘ व्विदु᳘षः पञ्चावत्तं᳘ क्रिय᳘त ऽएत᳘द्ध᳘ न्वेव प्र᳘ज्ञातं कौ᳘रुपाञ्चालं य᳘च्चतुरवत्तं त᳘स्माच्चतुरवत्तं᳘ भवति॥
मूलम् - श्रीधरादि
(त्यु᳘) उ᳘तो पञ्चावत्त᳘मेव᳘ भवति॥
पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्च ऽर्त᳘वः संव्वत्सर᳘स्यै᳘षो पञ्चावत्त᳘स्य सम्प᳘द्बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘स्यैवं᳘ व्विदु᳘षः पञ्चावत्तं᳘ क्रिय᳘त ऽएत᳘द्ध᳘ न्वेव प्र᳘ज्ञातं कौ᳘रुपाञ्चालं य᳘च्चतुरवत्तं त᳘स्माच्चतुरवत्तं᳘ भवति॥
मूलम् - Weber
उॗतो पञ्चावत्त᳘मेव᳘ भवति॥
पा᳘ङ्क्तो यज्ञं पा᳘ङ्क्तः पशुः प᳘ञ्च ऽर्त᳘वः संवत्सर᳘स्यैॗषो पञ्चावत्त᳘स्य सम्प᳘द्बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति य᳘स्यैवं᳘ विदु᳘षः पञ्चावत्तं᳘ क्रिय᳘त एत᳘द्धॗ न्वेव प्र᳘ज्ञातं कौ᳘रुपाञ्चालं य᳘च्चतुरवत्तं त᳘स्माच्चतुरवत्त᳘म् भवति॥
मूलम् - विस्वरम्
उतो पञ्चावत्तमेव भवति । पाङ्क्तो यज्ञः, पाङ्क्तः पशुः, पञ्चर्तवः, संवत्सरस्य एषो पञ्चावत्तस्य संपत् । बहुर्हेव प्रजया पशुभिर्भवति- यस्यैवं विदुषः पञ्चावत्तं क्रियते । एतद्ध न्वेव प्रज्ञातं कौरुपाञ्चालं यच्चतुरवत्तं, तस्माच्चतुरवत्तं भवति ॥ ८ ॥
सायणः
अथाभ्युपगम्याधिक्यदोषं यज्ञादिसम्पत्तिलाभाय पञ्चावदानपक्षमप्याह- उतो- इति । यज्ञस्य पाङ्क्तत्वं धानाकरम्भादिहविःपञ्चकादिना ऽवगन्तव्यम् 5 (तै. सं. ६. ५. ११) । ऐतरेयके ऽपि- “यो वै यज्ञम्” इत्यादिना (ऐ. ब्रा. २. ३. ६.) हविरक्षरसङ्ख्यादिभिर्बहुधा 6 यज्ञस्य पाङ्क्तत्वमुपपादितम् । पशोः पाङ्क्तत्वं लोमत्वगादिभिरिति प्रागुक्तम् । (श. प. ९ । २ । ३ । ७) हेमन्तशिशिरयोरैक्याभिप्रायेण संवत्सरः पाङ्क्तः । (ऐ. ब्रा. १. १. १) एवन्तु पञ्चावत्ते सति तद्गतपञ्चसङ्ख्याद्वारा ‘सम्पत्’ यज्ञात्मकं धनं सम्पद्यत इत्यर्थः ॥
एतज्ज्ञानपूर्वकानुष्ठानफलमाह- बहुर्हैवेति ॥
अथ पुनश्चतुरवत्तमेव स्थापयति- एतदिति । एतदेव ‘चतुरवत्तं’ ‘कौरुपाञ्चलं’ कुरुपञ्चालदेशे प्रसिद्धम्; अतस्तत्र प्रज्ञातत्वादनुष्ठानसम्प्रदायानुरोधेन ‘चतुरवत्तम्’ एव कर्तव्यम् ॥ ८॥
Eggeling
- But a fivefold cutting also takes place (with some people): fivefold is the sacrifice, fivefold the animal victim, and five seasons there are in the year,–such is the perfection of the fivefold cutting; and he, assuredly, will have abundant offspring and cattle for whom, knowing this, the fivefold cutting is made. The fourfold cutting, however, is the approved (practice) among the Kuru-Pañcālas, and for this reason a fourfold cutting takes place (with us 7).
०९
विश्वास-प्रस्तुतिः
स वै᳘ यावन्मात्र᳘मिवैवा᳘वद्येत्। (न्मा) मानुष᳘ᳫँ᳭ ह कुर्याद्य᳘न्मह᳘दवद्ये᳘द्व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति तस्माद्यावन्मात्र᳘मिवैवा᳘वद्येत्॥
मूलम् - श्रीधरादि
स वै᳘ यावन्मात्र᳘मिवैवा᳘वद्येत्। (न्मा) मानुष᳘ᳫँ᳭ ह कुर्याद्य᳘न्मह᳘दवद्ये᳘द्व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं ने᳘द्व्यृद्धं यज्ञे᳘ कर᳘वाणी᳘ति तस्माद्यावन्मात्र᳘मिवैवा᳘वद्येत्॥
मूलम् - Weber
स वै᳘ यावन्मात्र᳘मिवैवा᳘वद्येत् मानुष᳘ᳫं᳘ ह कुर्याद्य᳘न्मह᳘दवद्येॗद्व्यृद्धं वै त᳘द्यज्ञ᳘स्य य᳘न्मानुषं नेॗद्व्यृद्धं यज्ञे᳘ कर᳘वाणीति त᳘स्माद्यावन्मात्र᳘मिवैवा᳘वद्येत्॥
मूलम् - विस्वरम्
स वै यावन्मात्रमिवैवावद्येत् । मानुषं ह कुर्याद्- यन्महदवद्येद् । व्यृद्धं वै तद् यज्ञस्य- यन्मानुषं, नेद् व्यृद्धं यज्ञे करवाणीति । तस्माद् यावन्मात्रमिवैवावद्येत् ॥ ९ ॥
सायणः
अवदानस्येयत्तां विधत्ते- स वा इति । ‘यावन्मात्रमिव’ ‘इव ’ -शब्दो ऽनर्थको वाक्यालङ्कारे (“इवशब्दो ऽपि दृश्यते” इत्यादि निरु. १. ३. ५.) ‘यावन्मात्रमिव’ अङ्गुष्ठपर्वमात्रमेवेत्यर्थः ।
आधिक्ये दोषमाह- मानुषं ह इति । मनुष्याणां शरावादिपरिमितत्वादाधिक्यं मानुषत्वकरणम् ॥ ९ ॥
Eggeling
- Let him cut off only a moderate quantity; for were he to cut off a large quantity, he would make it human; and what is human is inauspicious at the sacrifice. Let him therefore cut off only a moderate quantity, lest he should do what is inauspicious at the sacrifice.
१०
विश्वास-प्रस्तुतिः
(त्स) स ऽआ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षो ऽवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति द्वे वा ऽआ᳘हुती सोमाहुति᳘रे᳘वा᳘न्याज्याहुति᳘रन्या त᳘त ऽएषा के᳘वली य᳘त्सोमाहुति᳘र᳘थै᳘षाज्याहुतिर्य᳘द्धविर्यज्ञो य᳘त्पशुस्तदा᳘ज्यमे᳘वैत᳘त्करोति त᳘स्मादुभय᳘त आ᳘ज्यं भवत्येतद्वै जु᳘ष्टं देवा᳘नां यदा᳘ज्यं तज्जु᳘ष्टमे᳘वैत᳘द्देवे᳘भ्यः करोति त᳘स्मादुभय᳘त ऽआ᳘ज्यं भवति॥
मूलम् - श्रीधरादि
(त्स) स ऽआ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षो ऽवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति द्वे वा ऽआ᳘हुती सोमाहुति᳘रे᳘वा᳘न्याज्याहुति᳘रन्या त᳘त ऽएषा के᳘वली य᳘त्सोमाहुति᳘र᳘थै᳘षाज्याहुतिर्य᳘द्धविर्यज्ञो य᳘त्पशुस्तदा᳘ज्यमे᳘वैत᳘त्करोति त᳘स्मादुभय᳘त आ᳘ज्यं भवत्येतद्वै जु᳘ष्टं देवा᳘नां यदा᳘ज्यं तज्जु᳘ष्टमे᳘वैत᳘द्देवे᳘भ्यः करोति त᳘स्मादुभय᳘त ऽआ᳘ज्यं भवति॥
मूलम् - Weber
स आ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षो ऽवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति द्वे वा आ᳘हुती सोमाहुति᳘रेॗवाॗन्याज्याहुति᳘रन्या त᳘त एषा के᳘वली य᳘त्सोमाहुतिर᳘थैॗषाज्याहुतिर्य᳘द्धविर्यज्ञो य᳘त्पशुस्तदा᳘ज्यमेॗवैत᳘त्करोति त᳘स्मादुभय᳘त आ᳘ज्यम् भवत्येतद्वै जु᳘ष्टं देवा᳘नां यदा᳘ज्यं तज्जु᳘ष्टमेॗवैत᳘द्देवे᳘भ्यः करोति त᳘स्मादुभय᳘त आ᳘ज्यम् भवति॥
मूलम् - विस्वरम्
स आज्यस्योपस्तीर्य द्विर्हविषो ऽवदायाथोपरिष्टादाज्यस्याभिघारयति । द्वे वा आहुती- सोमाहुतिरेवान्या- आज्याहुतिरन्या । तत एषा केवली यत् सोमाहुतिः । अथैषाज्याहुतिः- यद्धविर्यज्ञः, यत् पशुः । तदाज्यमेवैतत् करोति- तस्मादुभयत आज्यं भवति । एतद्वै जुष्टं देवानां यदाज्यम्, तज्जुष्टमेवैतद् देवेभ्यः करोति- तस्मादुभयत आज्यं भवति ॥ १० ॥
सायणः
इदानीं चतुरवदानप्रकारं दर्शयति- स आज्यस्येति । पुरोडाशांशौ द्वौ; तदध उपरि चोपस्तृताभिघारिताज्याभ्यां (श. प. ६ अ. १ ब्रा. २१ कं.) चतुरवत्तत्वम् । पुरोडाशस्योभयत आज्यकरणं प्रशंसितुमाह- द्वे वा इति । सर्वाप्याहुतिः सोमाज्यभेदेन द्विविधा; तत्र सोमस्य 8 स्वरूपेणाहुतित्वादाज्यापेक्षैव नास्ति; अवशिष्टौ हविर्यज्ञपशुयज्ञावाज्याहुतिकौ 9 भवितव्यौ; अतस्तत्र तयोः ‘एतत्’ एतेनोपस्तरणाभिघारणेन आज्यमेव कृतवान् भवति । ‘एतद्वै जुष्टम्’ -इत्यादि स्पष्टम् ॥ १० ॥
Eggeling
- Having made an under-layer of butter (in the juhū-spoon) and cut off twice from the havis, he then pours over it some butter. There are, indeed, two (kinds of) oblations; the oblation of Soma being one, and the oblation of (or rather, with) butter being the other. Now the one, viz. the Soma-oblation, is (an oblation) by itself; and the other, viz. the butter-oblation, is the same as the offering of havis (rice, milk, &c.) and the animal offering 10; hence he thereby makes it (the cake) butter, and therefore butter is on both sides of it. Butter, doubtless, is palatable to the gods; hence he thereby renders it palatable to the gods: for this reason butter is on both sides of it.
११
विश्वास-प्रस्तुतिः
(त्य) असौ वा᳘ ऽअनुवा᳘क्येयं᳘ या᳘ज्या॥
ते᳘ ऽउभे यो᳘षे त᳘योर्मिथुन᳘मस्ति वषट्कार᳘ एव तद्वा᳘ ऽएष᳘ एव᳘ व्वषट्कारो य᳘ ऽएष त᳘पति स᳘ ऽउद्य᳘न्ने᳘वामू᳘मधिद्र᳘वत्यस्तं य᳘न्निमाम᳘धिद्रवति त᳘देते᳘न व्वृ᳘ष्णेमां प्र᳘जातिं प्र᳘जायते᳘ यैनयोरियं प्र᳘जातिः᳘॥
मूलम् - श्रीधरादि
(त्य) असौ वा᳘ ऽअनुवा᳘क्येयं᳘ या᳘ज्या॥
ते᳘ ऽउभे यो᳘षे त᳘योर्मिथुन᳘मस्ति वषट्कार᳘ एव तद्वा᳘ ऽएष᳘ एव᳘ व्वषट्कारो य᳘ ऽएष त᳘पति स᳘ ऽउद्य᳘न्ने᳘वामू᳘मधिद्र᳘वत्यस्तं य᳘न्निमाम᳘धिद्रवति त᳘देते᳘न व्वृ᳘ष्णेमां प्र᳘जातिं प्र᳘जायते᳘ यैनयोरियं प्र᳘जातिः᳘॥
मूलम् - Weber
असौ वा᳘ अनुवाॗक्येयं᳘ याॗज्या॥
ते᳘ उभे यो᳘षे त᳘योर्मिथुन᳘मस्ति वषट्कार᳘ एव तद्वा᳘ एष᳘ एव᳘ वषट्कारो य᳘ एष त᳘पति स᳘ उद्य᳘न्नेॗवामू᳘माधेद्र᳘वत्यस्तं य᳘न्निमाम᳘धिद्रवति त᳘देते᳘न वृ᳘ष्णेमाम् प्र᳘जातिम् प्र᳘जायेतेॗ यैनयोरियम् प्र᳘जातिः॥
मूलम् - विस्वरम्
हवनकॢप्तिः ।
असौ वा अनुवाक्या, इयं याज्या- ते उभे योषे । तयोर्मिथुनमस्ति वषट्कार एव । तद्वा एष एव वषट्कारः- य एष तपति । स उद्यन्नेवामूमधिद्रवति, अस्तं यन्निमामधिद्रवति । तदेतेन वृष्णेमां प्रजातिं प्रजायते- यैनयोरियं प्रजातिः ॥ ११ ॥
सायणः
अवदानाय धर्ममुक्त्वा प्रधानधर्मं विधातुमाह- असौ वा इति । अनुवाक्या-याज्ययोः क्रमेण देवताह्वानहविःप्रदानसाधनत्वं वक्ष्यते (श. प. ब्रा. ७ अ. २ ब्रा. १७ कं) आह्वातव्यानां देवानां द्युलोकसम्बन्धात्, प्रदानस्यैवैतल्लोकसम्बन्धात्, तयोः क्रमेण द्युभ्वात्मकता । तयोः स्त्रीलिङ्गत्वाद् द्वन्द्वे, वषट्कारस्य पुँलिङ्गत्वात् सह मिथुनता ऽस्ति । उभयोरन्तराले तपन्नादित्य एव वषट्कारः स चोदयास्तमयसमये दिवं पृथिवीं चाधिकृत्य गच्छति 8 (ऐ. ब्रा. ३. ४. ६) । ‘तत्’ तस्मात् ‘एतेन वृष्णा’ अनेन वर्षकेण, आदित्येन सह सङ्गते सत्यौ, ते एवमिदानीं प्रसिद्धाम् ‘इमां प्रजातिं’ ‘प्रजायेते’; सर्वेषामप्युत्पद्यमानानां भावानां तत्रैवोत्पत्तेः, उत्पद्यमानपदार्थात्मना ते एव प्रकृष्टे जायेते इत्यर्थः ॥ ११ ॥
Eggeling
- The invitatory prayer (anuvākyā, f.), doubtless, is yonder (sky), and the offering-prayer (yājyā, f.) is this (earth)–these two are females. With each of these two the vashaṭ-call (vashaṭkāra, m.) makes up a pair 11. Now the vashaṭ, indeed,
is no other than that scorching one (the sun). When he rises he approaches yonder (sky); and when he sets he approaches this (earth): hence whatever is brought forth here by these two, that they bring forth through that male.
१२
विश्वास-प्रस्तुतिः
सो ऽनुवा᳘क्यामनू᳘च्य॥
या᳘ज्यामनुद्रु᳘त्य पश्चाद्व᳘षट्करोति पश्चाद्वै᳘ परी᳘त्य व्वृषा यो᳘षाम᳘धिद्रवति त᳘देने ऽउभे᳘ पुर᳘स्तात्कृत्वा व्वृ᳘ष्णा व्वषट्कारेणा᳘धिद्रावयति त᳘स्मादुसह᳘ वैव व्वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥
मूलम् - श्रीधरादि
सो ऽनुवा᳘क्यामनू᳘च्य॥
या᳘ज्यामनुद्रु᳘त्य पश्चाद्व᳘षट्करोति पश्चाद्वै᳘ परी᳘त्य व्वृषा यो᳘षाम᳘धिद्रवति त᳘देने ऽउभे᳘ पुर᳘स्तात्कृत्वा व्वृ᳘ष्णा व्वषट्कारेणा᳘धिद्रावयति त᳘स्मादुसह᳘ वैव व्वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥
मूलम् - Weber
सो ऽनुवाॗक्यामनू᳘च्य॥
याॗज्यामनुद्रु᳘त्य पश्चाद्व᳘षट्करोति पश्चाद्वै᳘ परी᳘त्य वृ᳘षा यो᳘षाम᳘धिद्रवति त᳘देने उभे᳘ पुर᳘स्तात्कृत्वा वृ᳘ष्णा वषट्कारेणा᳘धिद्रावयति त᳘स्मादु सह᳘ वैव᳘ वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥
मूलम् - विस्वरम्
सो ऽनुवाक्यामनूच्य, याज्यामनुद्रुत्य, पश्चाद् वषट्करोति । पश्चाद्वै परीत्य वृषा योषामधिद्रवति । तदेने उभे पुरस्तात् कृत्वा वृष्णा वषट्कारेणाधिद्रावयति । तस्मादु सह वैव वषट्कारेण जुहुयाद्, वषट्कृते वा ॥ १२ ॥
सायणः
पुरो ऽनुवाक्यायाज्यानां द्युन्वात्मकताभिधानस्य प्रयोजनमाह- सो ऽनुवाक्यामिति । तयोः समनन्तरं वषट् कुर्यादिति विधिः । उक्ते ऽर्थे लोकाचरणं प्रमाणयति- पश्चाद्वा इति । ‘पश्चात् परीत्य’ स्त्रियाः पश्चाद्देशादागत्य ‘अधिद्रवति’ अभिगच्छति । ‘तत्’ तेन याज्यापुरो ऽनुवाक्यानन्तरं वषट्कारकरणेन ‘एने उभे’ द्यावापृथिव्यात्मिके याज्यापुरो ऽनुवाक्ये ‘पुरस्तात् कृत्वा’ ‘वृष्णा’ सेक्रा ‘वषट्कारेण’ तत्सूर्यात्मकेन द्रवणमाकारितवान् भवति । “तस्मात्” -इति स्पष्टम् । वौषडित्युच्चारणकाले वा, समनन्तरं वा प्रदानमस्तु; सर्वथा वषट्कारात् प्राङ् न जुहुयादित्यर्थः । अनेनैव पुरो ऽनुवाक्यायाज्ययोर्वषट्कारात् पूर्वभावित्वं सिद्धम् ॥ १२ ॥
Eggeling
- Having recited the invitatory prayer and pronounced the offering-prayer 12, he afterwards (paścāt) utters the vashaṭ formula; for from behind (paścāt) the male approaches the female: hence, after placing those two in front, he causes them to be approached by that male, the vashaṭ. For the same reason let him make the offering either simultaneously with the vashaṭ or (immediately) after the vashaṭ has been pronounced.
१३
विश्वास-प्रस्तुतिः
देवपात्रं वा᳘ एष य᳘द्वषट्कारः॥
(स्त) तद्य᳘था पा᳘त्र उद्धृ᳘त्य प्रय᳘च्छेदेवं तद᳘थ य᳘त्पुरा᳘ व्वषट्कारा᳘ज्जुहुयाद्य᳘थाधो भू᳘मौ नि᳘दिग्धं त᳘दमुया स्या᳘देवं तत्त᳘स्मादु सह᳘ वैवं᳘ व्वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥ [शतम् ६००]
मूलम् - श्रीधरादि
देवपात्रं वा᳘ एष य᳘द्वषट्कारः॥
(स्त) तद्य᳘था पा᳘त्र उद्धृ᳘त्य प्रय᳘च्छेदेवं तद᳘थ य᳘त्पुरा᳘ व्वषट्कारा᳘ज्जुहुयाद्य᳘थाधो भू᳘मौ नि᳘दिग्धं त᳘दमुया स्या᳘देवं तत्त᳘स्मादु सह᳘ वैवं᳘ व्वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥ [शतम् ६००]
मूलम् - Weber
देवपात्रं वा᳘ एष य᳘द्वषट्कारः᳟॥
तद्य᳘था पा᳘त्र उद्धृ᳘त्य प्रय᳘छेदेवं तद᳘थ य᳘त्पुरा᳘ वषट्कारा᳘ज्जुहुयाद्य᳘थाधो भू᳘मौ नि᳘दिग्धं त᳘दमुया स्या᳘देवं तत्त᳘स्मादु सह᳘ वैव᳘ वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥
मूलम् - विस्वरम्
देवपात्रं वा एष यद्वषट्कारः । तद्यथा पात्र उद्धृत्य प्रयच्छेत्- एवं तत् । अथ यत्पुरा वषट्काराज्जुहुयाद्- यथाधो भूमौ निदिग्धं तदमुया स्यात्- एवं तत् । तस्मादु सह वैव वषट्कारेण जुहुयाद्, वषट्कृते वा ॥ १३ ॥
सायणः
प्रदानस्य वषट्कारानन्तरत्वं प्रकारान्तरेणोपपादयति- देवपात्रं वा इति । पिबन्त्यनेन देवा इति ‘देवपात्रं’ ‘वषट्कारः’ । ‘तत्’ वषट्कारावसानं प्रदानम् ‘एवं’ भवति, पात्रोद्धारपूर्वकप्रदानमिव भवति । उक्तवैपरीत्ये दोषमाह- अथ यत्पुरेति । ‘अधोभूमौ निदिग्धम्’ भूमौ प्रास्तं दुष्टत्वेनोपयोगाभावात् दग्धमित्युपचर्यते ‘अमुया’ अनेन वषट्कारात्पूर्वकालहोमेन ‘स्यात्’ दग्धं स्यादित्यर्थः । ‘तस्माद्’- इत्युपसंहारः ॥ १३ ॥
Eggeling
- A vessel of the gods, doubtless, is that vashaṭ. Even as, after ladling, one would mete out (food) into a vessel, so here. If, on the other hand, he were to make the offering before the vashaṭ, it would be lost, as would be that (food) falling to the ground: for this reason also let him make the offering either simultaneously with the vashaṭ or after it has been pronounced.
१४
विश्वास-प्रस्तुतिः
तद्य᳘था यो᳘नौ रे᳘तः सिञ्चे᳘त्॥
(दे) एवं तद᳘थ य᳘त्पुरा᳘ व्वषट्कारा᳘ज्जुहुयाद्य᳘था योनौ रे᳘तः सिक्तं त᳘दमुया स्या᳘देवं तत्त᳘स्मादु सह᳘ वैव᳘ व्वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥
मूलम् - श्रीधरादि
तद्य᳘था यो᳘नौ रे᳘तः सिञ्चे᳘त्॥
(दे) एवं तद᳘थ य᳘त्पुरा᳘ व्वषट्कारा᳘ज्जुहुयाद्य᳘था योनौ रे᳘तः सिक्तं त᳘दमुया स्या᳘देवं तत्त᳘स्मादु सह᳘ वैव᳘ व्वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥
मूलम् - Weber
तद्य᳘था यो᳘नौ रे᳘तः सिञ्चे᳘त्॥
एवं तद᳘थ य᳘त्पुरा᳘ वषट्कारा᳘ज्जुहुयाद्य᳘था यो᳘नौ रे᳘तः सिक्तं त᳘दमुया स्या᳘देवं तत्त᳘स्मादु सह᳘ वैव᳘ वषट्कारे᳘ण जुहुयाद्व᳘षट्कृते वा॥
मूलम् - विस्वरम्
तद् यथा योनौ रेतः सिञ्चेत्- एवं तत् । अथ यत्पुरा वषट्काराज्जुहुयाद्- यथा योनौ रेतः सिक्तं तदमुया स्यात्- एवं तत् । तस्मादु सह वैव वषट्कारेण जुहुयात्, वषट्कृते वा ॥ १४ ॥
सायणः
तद्यथा योनौ - इत्यादि स्पष्टम् ॥ १४ ॥
Eggeling
- As seed is poured into the womb, so here. If, on the other hand, he were to make the offering before the vashaṭ, it would be lost, as would be the seed poured not into the womb: for this reason also let him make the offering either simultaneously with the vashaṭ or after it has been pronounced.
१५
विश्वास-प्रस्तुतिः
(वा ऽसौ) असौ वा᳘ ऽअनुवा᳘क्येयं᳘ या᳘ज्या॥
सा वै᳘ गाय᳘त्रीयं त्रिष्टुबसौ स वै᳘ गायत्रीम᳘न्वाह त᳘दमू᳘मनुब्रुव᳘न्नसौ᳘ ह्यनुवा᳘क्येमाम᳘न्वाहेयᳫँ᳭ हि᳘ गायत्री॥
मूलम् - श्रीधरादि
(वा ऽसौ) असौ वा᳘ ऽअनुवा᳘क्येयं᳘ या᳘ज्या॥
सा वै᳘ गाय᳘त्रीयं त्रिष्टुबसौ स वै᳘ गायत्रीम᳘न्वाह त᳘दमू᳘मनुब्रुव᳘न्नसौ᳘ ह्यनुवा᳘क्येमाम᳘न्वाहेयᳫँ᳭ हि᳘ गायत्री॥
मूलम् - Weber
असौ वा᳘ अनवाॗक्येयं᳘ याॗज्या॥
सा वै᳘ गायॗत्रीयं᳘ त्रिष्टु᳘बसौ स वै᳘ गायत्रीम᳘न्वाह त᳘दमू᳘मनुब्रु᳘वन्नसौ ह्य᳘नुवाॗक्येमाम᳘न्वाहेयᳫं हि᳘ गायत्री᳟॥
मूलम् - विस्वरम्
असौ वा अनुवाक्या, इयं याज्या । सा वै गायत्रीयम्, त्रिष्टुबसौ । स वै गायत्रीमन्वाह । तदमूमनुब्रुवन्- “असौ ह्यनुवाक्या” -इमामन्वाह । इयं हि गायत्री ॥ १५ ॥
सायणः
पुरो ऽनुवाक्यायाज्ये गायत्रीत्रिष्टुभौ कर्तव्ये इति विधातुमाह- असौ वा इति । ‘अनुवाक्या’ ‘असौ’ द्युलोकः, तत्स्थाना; ‘याज्या’ तु ‘इयम्’ भूः । ‘सेयं’ पृथिवी गायत्र्यात्मिका, ‘असौ’ द्युलोकः त्रिष्टुबात्मकः । तथा सति “गायत्रीमन्वाह” -इति यत्, ‘तत्’ तेन अनुवाक्यात्मकम् ‘अब्रुवन्’ गायत्रीछन्दोद्वारा ‘इमां’ पृथिवीमेवोक्तवान् भवति । द्युलोकस्य कथमनुवक्तव्यतेत्याशङ्क्य अनुवाक्यात्मकत्वं वाक्यमध्य एव स्मारयति । पृथिव्या अप्यनुवक्तव्यत्वं गायत्र्यात्मकत्वादित्याह- इयँ होति । इत्थमनुवाक्याया गायत्रीत्वे द्यावापृथिव्यावुभे अपि योजितवान् भवतीत्युक्तम् ॥ १५ ॥
Eggeling
- The invitatory formula, doubtless, is yonder (sky), and the offering-formula is this (earth). The gāyatrī metre also is this (earth), and the trishṭubh
is yonder (sky) 13 He recites the gāyatrī verse, thereby reciting yonder (sky), for the invitatory formula (anuvākyā) is yonder (sky). He recites this (earth), for the gāyatrī verse (viz. the offering-formula) is this (earth).
१६
विश्वास-प्रस्तुतिः
(त्र्य᳘) अ᳘थ त्रिष्टु᳘भा यजति॥
त᳘दन᳘या य᳘जन्नियᳫँ᳭ हि᳘ या᳘ज्यामु᳘ष्या ऽअ᳘धि व्व᳘षट्करोत्यसा᳘ ऽउ हि᳘ त्रिष्टुप्त᳘देने सयु᳘जौ करोति त᳘स्मादिमे स᳘म्भुञ्जाते ऽअन᳘योर᳘नुसम्भोग᳘मिमाः स᳘र्व्वाः प्रजा ऽअ᳘नुस᳘म्भुञ्जते॥
मूलम् - श्रीधरादि
(त्र्य᳘) अ᳘थ त्रिष्टु᳘भा यजति॥
त᳘दन᳘या य᳘जन्नियᳫँ᳭ हि᳘ या᳘ज्यामु᳘ष्या ऽअ᳘धि व्व᳘षट्करोत्यसा᳘ ऽउ हि᳘ त्रिष्टुप्त᳘देने सयु᳘जौ करोति त᳘स्मादिमे स᳘म्भुञ्जाते ऽअन᳘योर᳘नुसम्भोग᳘मिमाः स᳘र्व्वाः प्रजा ऽअ᳘नुस᳘म्भुञ्जते॥
मूलम् - Weber
अ᳘थ त्रिष्टु᳘भा यजति॥
त᳘दन᳘या य᳘जन्नियᳫं हि᳘ याॗज्यामु᳘ष्या अ᳘धि व᳘षट्करोत्यसा᳘ उ हि᳘ त्रिष्टुप्त᳘देने सयु᳘जौ करोति त᳘स्मादिमे स᳘म्भुञ्जाते अन᳘योर᳘नु सम्भोग᳘मिमाः स᳘र्वाः प्रजा अ᳘नु स᳘म्भुञ्जते॥
मूलम् - विस्वरम्
अथ त्रिष्टुभा यजति । तदनया यजन्- “अयं हि याज्या” -अमुष्या अधिवषट्करोति । असौ उ हि त्रिष्टुप् । तदेने सयुजौ करोति । तस्मादिमे सम्भुञ्जाते । अनयोरनुसम्भोगमिमाः सर्वाः प्रजा अनुसम्भुञ्जते ॥ १६ ॥
सायणः
याज्यायास्त्रिष्टुप्त्वसम्पादने ऽपि तथैव योजितवान् भवतीत्याह- अथेति । ‘त्रिष्टुभा यजति’ त्रैष्टुभं याज्यां कुर्यात् । तत्र याज्यया ऋचा यजतीति यत्, ‘तत्’ तेन ‘अनया’ पृथिव्यैव यजति । तत्कथमित्यत आह- तदिति । ‘तत्’ तेन त्रिष्टुप्त्वकरणेनानया यजति । एतां भुवमेव याज्यां कृतवान् भवतीत्यर्थः । उक्तार्थसमर्थनाय पूर्वोक्तं स्मारयति- इयं हि याज्येति । अतः ‘अमुष्या अधि’ द्युलोकस्योपरि एव ‘वषट्’- कृतवान् भवति । एतत्समर्थनाय- त्रिष्टुबिति । ‘तत्’ तेन, पुरो ऽनुवाक्यायाज्ययोर्गायत्रीत्रिष्टुप्त्वकरणेनानेन ‘एने’ द्यावापृथिव्यौ प्रतिपादितप्रकारेण ‘सयुजौ’ परस्परं संयुक्तौ कृतवान् भवति । ‘तस्मात्’ सायुज्यात् ‘इमे’ सहाभ्यवहरतः, “द्यावापृथिवीभ्यां स्वाहा”- इति (ऐ० ब्रा० १. ३. ५ । तै. ब्रा. २ । १ । ७ । १ ॥ ८ । २) सहप्रदानात् । अथवा वृष्ट्यन्नयोः परस्परसापेक्षत्वात् (श० प० कां० १ अ० ५ ब्रा० ३ कं० ५ । १७ । ७ । ३ । १ । ३०) सहभागः । अतस्तयोः सहभागम् ‘अनु’ ‘सर्वाः’ अपि ‘प्रजाः’ तत्सम्बन्धिन्यः ‘अनुसम्भुञ्जते’ अनुसृत्य भुञ्जते । अत उभयोः सभागलोकात्मकत्वात्, तयोश्च परस्परसाहित्याद् याज्यानुवाक्ययोः साहित्येनापि भवितव्यमित्यर्थो लभ्यते ॥ १६ ॥
Eggeling
- He then presents the offering with a trishṭubh verse 14, thereby presenting it by means of this
(earth), for the offering-formula (yājyā) is this (earth). Over yonder (sky) he places the vashaṭ, for yonder (sky) also is the trishṭubh. Thereby he makes those two (sky and earth) yoke-fellows; and as such they feed together; and after their common meal all these creatures get food 15.
१७
विश्वास-प्रस्तुतिः
स वा᳘ अङ्ख᳘यन्निवै᳘वानुवा᳘क्याम᳘नुब्रूयात्॥
(द) असौ᳘ ह्यनुवा᳘क्या बृह᳘द्ध्यसौ बा᳘र्हतᳫँ᳭ हि त᳘द्रूपं᳘ क्षिप्र᳘ ऽएव᳘ या᳘ज्यया त्वरेतेयᳫँ᳭ हि᳘ या᳘ज्या रथन्तर᳘ᳫँ᳭ हीयᳫँ᳭ रा᳘थन्तरᳫँ᳭ हि त᳘द्रूपᳫं ह्व᳘यति वा᳘ ऽअनुवा᳘क्यया प्र᳘यच्छति या᳘ज्यया त᳘स्मादनुवा᳘क्यायै रूपᳫँ᳭ हु᳘वे ह᳘वामह ऽआ᳘गच्छेद᳘म्बर्हिः᳘ सीदे᳘ति यद्ध᳘यति हि त᳘या प्र᳘यच्छति या᳘ज्यया त᳘स्माद्या᳘ज्यायै रूपं᳘ व्वीहि᳘ हवि᳘र्जुष᳘स्व हविरा᳘व्वृषायस्वाद्धि पि᳘ब प्रे᳘ति यत्प्र हि त᳘या य᳘च्छति॥
मूलम् - श्रीधरादि
स वा᳘ अङ्ख᳘यन्निवै᳘वानुवा᳘क्याम᳘नुब्रूयात्॥
(द) असौ᳘ ह्यनुवा᳘क्या बृह᳘द्ध्यसौ बा᳘र्हतᳫँ᳭ हि त᳘द्रूपं᳘ क्षिप्र᳘ ऽएव᳘ या᳘ज्यया त्वरेतेयᳫँ᳭ हि᳘ या᳘ज्या रथन्तर᳘ᳫँ᳭ हीयᳫँ᳭ रा᳘थन्तरᳫँ᳭ हि त᳘द्रूपᳫं ह्व᳘यति वा᳘ ऽअनुवा᳘क्यया प्र᳘यच्छति या᳘ज्यया त᳘स्मादनुवा᳘क्यायै रूपᳫँ᳭ हु᳘वे ह᳘वामह ऽआ᳘गच्छेद᳘म्बर्हिः᳘ सीदे᳘ति यद्ध᳘यति हि त᳘या प्र᳘यच्छति या᳘ज्यया त᳘स्माद्या᳘ज्यायै रूपं᳘ व्वीहि᳘ हवि᳘र्जुष᳘स्व हविरा᳘व्वृषायस्वाद्धि पि᳘ब प्रे᳘ति यत्प्र हि त᳘या य᳘च्छति॥
मूलम् - Weber
स वा᳘ अङ्ख᳘यन्निवैॗवानुॗवाक्याम᳘नुब्रूयात्॥
असौ ह्य᳘नुवाॗक्या बृहद्ध्य᳘सौ बा᳘र्हतᳫं हि त᳘द्रूपं᳘ क्षिप्र᳘ एव᳘ याज्य᳘या त्वरेतेयᳫं हि᳘ याॗज्या रथन्तर᳘ᳫं᳘ हीयं रा᳘थन्तरᳫं हि त᳘द्रूपᳫं ह्व᳘यति वा᳘ अनुवा᳘क्यया प्र᳘यछति याज्य᳘या त᳘स्मादनुवाॗक्यायै रूपᳫं हु᳘वे ह᳘वामह आ᳘गछेद᳘म् बर्हिः᳘ सीदे᳘ति यद्ध्व᳘यति हि त᳘या प्र᳘यछति याज्य᳘या त᳘स्माद्याॗज्यायै रूपं᳘ वीहि᳘ हवि᳘र्जुष᳘स्व हविरा᳘वृषाय स्वाद्धि पि᳘ब प्रे᳘ति यत्प्र हि त᳘या यछति॥
मूलम् - विस्वरम्
स वा अङ्खयन्निवैवानुवाक्यामनुब्रूयात् । असौ ह्यनुवाक्या, बृहद्ध्यसौ । बार्हतं हि तद्रूपम् । क्षिप्र एव याज्यया त्वरेत । इयं हि याज्या, रथन्तरं हीयम्, राथन्तरं हि तद्रूपम् । ह्वयति वा अनुवाक्यया, प्रयच्छति याज्यया । तस्मादनुवाक्यायै रूपम्- हुवे, हवामहे, आगच्छ, इदम्बर्हिः सीद- इति । यद् ह्वयति हि तया । प्रयच्छति याज्यया- तस्माद् याज्यायै रूपम्- वीहि, हविर्जुषस्व, हविरावृषायस्व, अद्धि, पिब, प्र, इति यत्प्र हि तया यच्छति ॥ १७ ॥
सायणः
अथानुवाक्याया उच्चारणधर्ममाह- स वा अङ्खयन्निवैवेति । ‘अङ्खयन्निव’ वर्णानालोडयन्निव शनैरनुवाक्यां ब्रूयात् । अङ्खतिर्गत्यर्थः ‘पर्यङ्ख्याते’ (ऋ० मं० १० सू० १६ ऋ० ७) । उक्तविधानुवचनं ‘बृहत्’ साम्ना (सा० सं० आ० गा० १. १. २७) स्तौति- असौ हीति । ‘अनुवाक्या’ ‘असौ’ द्यौः, एवं ‘बृहत्’ सामापि द्यौः (ता० ब्रा० १६ । ११ ।) (तै० ब्रा० ३. ५. १३) । ‘हि’ यतो द्यभागो ऽनुवाक्या बृहत्साम, ‘तत्’ तस्मात् तद्गतं मन्द्रत्वं ‘बार्हतं’ बृहतीसम्बन्धि ‘रूपम्’ ॥
याज्याया उच्चारणे धर्ममाह- क्षिप्र एव याज्ययेति । ‘याज्यया’ निमित्तया उच्चारणे वर्णविषयां त्वरां कुर्यात् । इयं हीत्यादि (सा० सं० आ० गा० २. १. २१ ।) (तै० ब्रा० ३. ५. १३ ।) पूर्वापेक्षया त्वरतीति ‘तत्’ क्षिप्रोच्चारणं ‘राथन्तरम्’ 16 (ता० ब्रा० १६. ११) । अथ पुरोनुवाक्यायाज्ययोर्लक्षणान्यन्यानि वक्तुं कार्यभेदमाह- ह्वयति वा इति । ‘अनुवाक्यया’ यष्टव्यदेवान् आह्वयति, तानेव ‘याज्यया’ यजति । ‘तस्मात्’ आह्वानार्थत्वात्, आह्वानार्थं यल्लिङ्गम्, तत् ‘अनुवाक्याया रूपम्’ तानि लिङ्गानि दर्शयति- हुव इत्यादिना । ‘हि’ यस्मात् ‘तया’ अनुवाक्यया यष्टव्यदेवान् आह्वयति, तस्मादाह्वानप्रकाशकं “हुवे” -इत्यादि यल्लिङ्गजातम्, तद्वत्येव सर्वत्रानुवाक्या कार्येत्यर्थः ॥ प्रयच्छति याज्ययेत्यादि । यस्माद् याज्या हविःप्रदानसाधनम्, ‘तस्मात्’ अस्याः तत्प्रदानप्रकाशकं लिङ्गं ‘रूपम्’ । अभिहितलिङ्गानि दर्शयति- वीहीति । ‘हि’ यस्मात् ‘तया’ याज्यया प्रयच्छति हविः, ‘तस्मात्’ प्रदानप्रकाशकं यद् “वीहि”- इत्यादिलिङ्गम्, तद्वत्येव सर्वत्र याज्या कार्येत्यर्थः ॥ १७ ॥
Eggeling
- Let him pronounce the invitatory formula lingering, as it were: the invitatory formula, namely, is yonder (sky), and the br̥hat(-sāman) also is yonder (sky), since its form is that of the br̥hat. With the offering-formula let him, as it were, hurry on fast: the offering-formula, doubtless, is this (earth), and the rathantara(-sāman) also is this (earth), since its form is that of the rathantara 17. With the invitatory formula he calls (the gods), and with the
offering-formula he presents (food to them): hence the invitatory formula (anuvākyā) has some such form as ‘I call,’ ‘We call,’ ‘Come hither!’ ‘Sit on the barhis!’ for with it he calls. With the offering-formula (yājyā) he offers: hence the offering-formula has some such form as, ‘Accept the sacrificial food!’ ‘Relish the sacrificial food!’ ‘Accept the potation (āvr̥shāyasva)!’ ‘Eat! Drink! There 18!’ for by it he offers that which (is indicated by) ’there!’
१८
विश्वास-प्रस्तुतिः
सा या᳘ पुर᳘स्ताल्लक्षणा᳘॥
सानुवा᳘क्या स्यादसौ᳘ ह्यनुवा᳘क्या त᳘स्या ऽअमु᳘ष्या ऽअव᳘स्ताल्ल᳘क्ष्म चन्द्र᳘मा न᳘क्षत्राणि सूर्यः᳘॥
मूलम् - श्रीधरादि
सा या᳘ पुर᳘स्ताल्लक्षणा᳘॥
सानुवा᳘क्या स्यादसौ᳘ ह्यनुवा᳘क्या त᳘स्या ऽअमु᳘ष्या ऽअव᳘स्ताल्ल᳘क्ष्म चन्द्र᳘मा न᳘क्षत्राणि सूर्यः᳘॥
मूलम् - Weber
सा या᳘ पुर᳘स्ताल्लक्षणा᳟॥
सानुवाॗक्या स्यादसौ ह्य᳘नुवाॗक्या त᳘स्या अमु᳘ष्या अव᳘स्ताल्ल᳘क्ष्म चन्द्र᳘मा न᳘क्षत्राणि सूर्यः᳟॥
मूलम् - विस्वरम्
सा या पुरस्ताल्लक्षणा- सानुवाक्या स्यात् । असौ ह्यनुवाक्या । तस्या अमुष्या अवस्ताल्लक्ष्म,- चन्द्रमा नक्षत्राणि सूर्यः ॥ १८ ॥
सायणः
लक्षणान्तरमाह- सा या पुरस्ताल्लक्षणेति । ‘पुरस्तात्’ मन्त्रस्य पुरोभागे ‘लक्षणं’ यष्टव्यदेवनाम यस्यां ‘सा’ ‘अनुवाक्या’ पुरो ऽनुवाक्या । तस्या अधस्ताल्लक्षणत्वे कारणमाह- तस्या इति । ‘तस्याः’ पुरो ऽनुवाक्यायाः ‘अमुष्याः’ “असौ हि अनुवाक्या" इत्युक्तत्वात् (श० प० कां० १. अ० ७. ब्रा० २. कं० १७) सामानाधिकरण्यम् । तस्याः चन्द्रनक्षत्रसूर्याः ‘अवस्ताल्लक्ष्म’ अधस्ताल्लक्ष्माणीव; अधोभागे तेषां परिभ्रमणात् । अतो ऽस्या अपि तथात्वं युक्तम् ॥ १८ ॥
Eggeling
- Let the invitatory formula be one that has its distinctive indication (in the form of the name of the respective deity) at the beginning (in front): for the invitatory formula is yonder (sky); and that (sky) yonder has the moon, the stars, and the sun for its mark below 19.
१९
विश्वास-प्रस्तुतिः
(र्यो᳘ ऽथा᳘) अ᳘थ᳘ योप᳘रिष्टाल्लक्षणा॥
सा᳘ या᳘ज्या स्यादियᳫँ᳭ हि᳘ या᳘ज्या त᳘स्या ऽअस्या᳘ ऽउप᳘रिष्टाल्लक्ष्मौ᳘षधयो व्व᳘नस्प᳘तय ऽआ᳘पो ऽग्नि᳘रिमाः᳘ प्रजाः॥
मूलम् - श्रीधरादि
(र्यो᳘ ऽथा᳘) अ᳘थ᳘ योप᳘रिष्टाल्लक्षणा॥
सा᳘ या᳘ज्या स्यादियᳫँ᳭ हि᳘ या᳘ज्या त᳘स्या ऽअस्या᳘ ऽउप᳘रिष्टाल्लक्ष्मौ᳘षधयो व्व᳘नस्प᳘तय ऽआ᳘पो ऽग्नि᳘रिमाः᳘ प्रजाः॥
मूलम् - Weber
अ᳘थॗ योप᳘रिष्टाल्लक्षणा॥
सा᳘ याॗज्या स्यादियᳫं हि᳘ याॗज्या त᳘स्या अस्या᳘ उप᳘रिष्टाल्लक्ष्मौ᳘षधयो व᳘नस्प᳘तय आ᳘पो ऽग्नि᳘रिमाः᳘ प्रजाः᳟॥
मूलम् - विस्वरम्
अथ योपरिष्टाल्लक्षणा- सा याज्या स्यात् । इयं हि याज्या । तस्या अस्या उपरिष्टाल्लक्ष्म-ओषधयः, वनस्पतयः, आपः, अग्निः, इमाः प्रजाः ॥ १९ ॥
सायणः
अथ योपरिष्टाल्लक्षणेति वाक्यं पूर्ववाक्यवद्व्याख्येयम् । ‘तस्याः’ याज्यारूपायाः ‘अस्याः’ भूम्याः ॥ १९ ॥
Eggeling
- The offering-formula then should be one that has its characteristic indication (further) back 20; for the offering-formula is this (earth), and this same (earth) has plants, trees, waters, fire, and these creatures for its mark above.
२०
विश्वास-प्रस्तुतिः
सा᳘ ह᳘ न्वेव स᳘मृद्धानुवा᳘क्या॥
य᳘स्यै प्रथमा᳘त्पदा᳘द्देव᳘तामभिव्याह᳘रति᳘ सो ऽएव स᳘मृद्धा या᳘ज्या य᳘स्या ऽउत्तमा᳘त्पदा᳘द्देव᳘ताया अ᳘धिव्वषट्करो᳘ति व्वी᳘र्यं वै᳘ देवत᳘ ऽर्च्चस्त᳘दुभय᳘त ऽए᳘वैत᳘द्वी᳘र्येण परिगृ᳘ह्य य᳘स्यै देव᳘तायै हविर्भवति त᳘स्यै प्र᳘यच्छति॥
मूलम् - श्रीधरादि
सा᳘ ह᳘ न्वेव स᳘मृद्धानुवा᳘क्या॥
य᳘स्यै प्रथमा᳘त्पदा᳘द्देव᳘तामभिव्याह᳘रति᳘ सो ऽएव स᳘मृद्धा या᳘ज्या य᳘स्या ऽउत्तमा᳘त्पदा᳘द्देव᳘ताया अ᳘धिव्वषट्करो᳘ति व्वी᳘र्यं वै᳘ देवत᳘ ऽर्च्चस्त᳘दुभय᳘त ऽए᳘वैत᳘द्वी᳘र्येण परिगृ᳘ह्य य᳘स्यै देव᳘तायै हविर्भवति त᳘स्यै प्र᳘यच्छति॥
मूलम् - Weber
सा᳘ हॗ न्वेव स᳘मृद्धानुवाॗक्या॥
य᳘स्यै प्रथमा᳘त्पदा᳘द्देव᳘तामभिव्याह᳘रतिॗ सो एव स᳘मृद्धा याॗज्या य᳘स्या उत्तमा᳘त्पदा᳘द्देव᳘ताया अ᳘धि वषट्करो᳘ति वीर्यं᳘ वै᳘ देवत᳘ ऽर्चस्त᳘दुभय᳘त एॗवैत᳘द्वीॗर्येण परिगृ᳘ह्य य᳘स्यै देव᳘तायै हविर्भ᳘वति त᳘स्यै प्र᳘यछति॥
मूलम् - विस्वरम्
साह न्वेव समृद्धानुवाक्या- यस्यै प्रथमात् पदाद्देवतामभिव्याहरति । सो एव समृद्धा याज्या- यस्या उत्तमात् पदाद्देवताया अधि वषट्करोति । वीर्यं वै देवतर्च्चः । तदुभयत एवैतद् वीर्येण परिगृह्य यस्यै देवतायै हविर्भवति- तस्यै प्रयच्छति ॥ २० ॥
सायणः
उक्तं पुरस्तादुपरिष्टाल्लक्षणत्वं विशिनष्टि- सा ह न्वेवेति । ‘यस्यै’ यस्या अनुवाक्यायाः ‘प्रथमात् पदात्’ “अग्निः प्रत्नेन सोमगीर्भिः" इत्यादिलक्षणाद् (ऋ० सं० ८. ४४. १२. तै० ब्रा० ३. ५. ६. ३ । तै० सं० २. ६. २. २) यष्टव्यदेवता ब्रूयात्, ‘सा एव समृद्धा अनुवाक्या’ । ‘याज्या’ तु सा समृद्धा, ‘यस्या उत्तमात् पदात्’ “जिह्वा अग्ने चकृषे” इत्यादिकात् (ऋ० सं० १०. ८. ६. । तै० ब्रा० ३. ५. ७. २ । तै० सं० २. ६. २. ८) तैरभिहितायाः ‘देवतायाः’ उपरि ‘वषट्करोति’ । ननु कथं देवतासद्भावमात्रेण समृद्धत्वमिति, तदाह वीर्यं वा इति । ‘देवता वै वीर्यम्’ ऋगाम्नानस्य तत्प्रकाशनार्थत्वात् । (ऋ० सं० १. ५५. ३.) ॥ २० ॥
Eggeling
- Verily, that invitatory formula alone is auspicious, in the first word of which he utters the (name of the) deity; and that offering-formula alone is auspicious in the last word of which he pronounces the vashaṭ upon the deity 21; for the (name
of the) deity constitutes the vigour of the R̥c (verse): hence after thus enclosing it 22 on both sides with vigour, he offers the sacrificial food to that deity for which it is intended.
२१
विश्वास-प्रस्तुतिः
स वै व्वौगि᳘ति करोति॥
व्वाग्वै᳘ व्वषट्कारो वाग्रे᳘तो रे᳘त ऽए᳘वैत᳘त्सिञ्चति षडि᳘त्यृत᳘वो वै षट् त᳘दृतु᳘ष्वे᳘वैतद्रे᳘तः सिच्यते त᳘दृत᳘वो रे᳘तः सिक्त᳘मिमाः᳘ प्रजाः प्र᳘जनयन्ति त᳘स्मादेवं व्व᳘षट्करोति॥
मूलम् - श्रीधरादि
स वै व्वौगि᳘ति करोति॥
व्वाग्वै᳘ व्वषट्कारो वाग्रे᳘तो रे᳘त ऽए᳘वैत᳘त्सिञ्चति षडि᳘त्यृत᳘वो वै षट् त᳘दृतु᳘ष्वे᳘वैतद्रे᳘तः सिच्यते त᳘दृत᳘वो रे᳘तः सिक्त᳘मिमाः᳘ प्रजाः प्र᳘जनयन्ति त᳘स्मादेवं व्व᳘षट्करोति॥
मूलम् - Weber
स वै वौगि᳘ति करोति॥
वाग्वै᳘ वषट्कारो वाग्रे᳘तो रे᳘त एॗवैत᳘त्सिञ्चति षडि᳘त्यृत᳘वो वै षट्तदृतु᳘ष्वेॗवैतद्रे᳘तः सिच्यते त᳘दृत᳘वो रे᳘तः सिक्त᳘मिमाः᳘ प्र᳘जाः प्र᳘जनयन्ति त᳘स्मादेवं व᳘षट्करोति॥
मूलम् - विस्वरम्
सवै वौगिति करोति । वाग्वै वषट्कारः, वाग्रेतः, रेत एवैतत्सिञ्चति । षडिति । ऋतवो वै षट् । तदृतुष्वेवैतद्रेतः सिच्यते । तदृतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति । तस्मादेवं वषट्करोति ॥ २१॥
सायणः
अथ याज्यानन्तरभाविनं वषट्कारं विभज्य विधाय प्रशंसति- स वै वौगितीति । ‘वौगिति’ उच्चारणं कुर्यात् । तत्प्रशंसति- वाग्वा इति । ‘वौग्’- इत्येतदौकारस्थाने आकारे कृते ‘वाग्’- इति भवति, अतो ‘वषट्कारो वाक्’ । सा च ‘वाक्’ ‘रेतः’ सेचनसाधनत्वात् । उच्चारणमेव तत्सेकः । तथा षडिति करोतीत्यनुषज्यते, ब्रूयादित्यर्थः । सङ्ख्याया ऋतुष्वपि सम्भवात् ‘ऋतवः’ एव ‘षट्’ -इत्यनेन विवक्षिताः; प्राक् षडित्यतः वौगित्येतस्य स्थापनात् । तेन ‘सिक्तं’ ‘रेतः’ ‘इमाः’ सर्वाः ‘प्रजाः’ उत्पादयन्ति । ‘तस्मात्’ ‘एवं’ वौषडिति ‘वषट्’ कुर्यात् ॥ २१ ॥
Eggeling
- He pronounces (the syllable) vauk 23; for, assuredly, the vashaṭ-call is speech; and speech means seed: hence he thereby casts seed. ‘Shaṭ’ (he pronounces), because there are six seasons: he thereby casts that seed into the seasons, and the seasons cause that seed so cast to spring up here as creatures. This is the reason why he pronounces the vashaṭ.
२२
विश्वास-प्रस्तुतिः
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितु᳘र्दायमु᳘पेयुरेता᳘वे᳘वार्द्धमासौ य᳘ ऽए᳘वापूर्य᳘ते तं᳘ देवा᳘ ऽउपा᳘य᳘न्यो ऽपक्षीय᳘ते तम᳘सुराः॥
मूलम् - श्रीधरादि
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितु᳘र्दायमु᳘पेयुरेता᳘वे᳘वार्द्धमासौ य᳘ ऽए᳘वापूर्य᳘ते तं᳘ देवा᳘ ऽउपा᳘य᳘न्यो ऽपक्षीय᳘ते तम᳘सुराः॥
मूलम् - Weber
देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ प्रजा᳘पतेः पितु᳘र्दायमु᳘पेयुरेता᳘वेॗवार्धमासौ य᳘ एॗवापूर्य᳘ते तं᳘ देवा᳘ उपा᳘यॗन्यो ऽपक्षीय᳘ते तम᳘सुराः॥
मूलम् - विस्वरम्
दर्शपूर्णमासनिर्वचनम् ।
देवाश्च वा असुराश्च- उभये प्राजापत्याः प्रजापतेः पितुर्दायमुपेयुः- एतावेवार्द्धमासौ । य एवापूर्यते- तं देवा उपायन् । यो ऽपक्षीयते तमसुराः ॥ २२ ॥
सायणः
इत्थं दर्शपूर्णमासोभयसाधारणमवदानादिकं वषट्कारान्तं धर्ममभिधाय तत्प्रसङ्गाद्यवादिशब्दाभिधानद्वारेण दर्शपूर्णमासयागं प्रशंसति- देवाश्च वा असुराश्चेत्यादिना । ‘प्राजापत्याः’ प्रजापतेः पुत्राः ‘दायं’ पैतृकं वित्तम् (मं० सं०. ९. १६४ । ऋ० सं० १० । ११४ । १० । ऐ० ब्रा० ७ । ३ । ५ ता० ब्रा० १६ । ४ । तै० सं० ३ । १ । ९ । ४ ।) ‘उपेयुः’ । किं तत् ? ‘एतावेव’ प्रसिद्धावेव ‘अर्धमासौ’ मासस्यार्द्धौ शुक्लकृष्णपक्षौ । “अर्द्धं नपुंसकम्” (पा० सू० २ । २ । २ ।) इत्येकदेशिसमासः । विभज्याह- य एवापूर्यत इति । प्रजापतेः कालात्मकत्वादनयोस्तद्वत्त्वम् ॥ २२ ॥
Eggeling
- Now the gods and the Asuras, both of them sprung from Prajāpati, entered upon their father Prajāpati’s inheritance 24, to wit, these two half-moons. The gods entered upon the one which waxes, and the Asuras on the one which wanes.
२३
विश्वास-प्रस्तुतिः
(स्ते᳘) ते᳘ देवा᳘ ऽअकामयन्त॥
कथं᳘ न्विमम᳘पि सं᳘वृञ्जीमहि᳘ यो ऽयम᳘सुराणामि᳘ति ते᳘ ऽर्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएत᳘ᳫँ᳘ हविर्यज्ञं᳘ ददृशुर्य᳘द्दर्शपूर्णमासौ ता᳘भ्यामयजन्त ता᳘भ्यामि᳘ष्ट्वैतम᳘पि स᳘मवृञ्जत॥
मूलम् - श्रीधरादि
(स्ते᳘) ते᳘ देवा᳘ ऽअकामयन्त॥
कथं᳘ न्विमम᳘पि सं᳘वृञ्जीमहि᳘ यो ऽयम᳘सुराणामि᳘ति ते᳘ ऽर्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएत᳘ᳫँ᳘ हविर्यज्ञं᳘ ददृशुर्य᳘द्दर्शपूर्णमासौ ता᳘भ्यामयजन्त ता᳘भ्यामि᳘ष्ट्वैतम᳘पि स᳘मवृञ्जत॥
मूलम् - Weber
ते᳘ देवा᳘ अकामयन्त॥
कॗथं न्विमम᳘पि सं᳘वृञ्जीमहिॗ यो ऽय᳘मसुराणामि᳘ति ते᳘ ऽर्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ एत᳘ᳫं᳘ हविर्यज्ञं᳘ ददृशुर्य᳘द्दर्शपूर्णमासौ ता᳘भ्यामयजन्त ता᳘भ्यामिॗष्ट्वैतम᳘पि स᳘मवृञ्जत॥
मूलम् - विस्वरम्
ते देवा अकामयन्त- “कथं न्विममपि संवृञ्जीमहि, यो ऽयमसुराणामिति” । ते ऽर्चन्तः श्राम्यन्तश्चेरुः । त एतं हविर्यज्ञं ददृशुः- यद्दर्शपूर्णमासौ । ताभ्यामयजन्त । ताभ्यामिष्ट्वैतमपि समवृञ्जत ॥ २३ ॥
सायणः
एवं विभागे सति ‘देवाः’ ‘कथम्’ असुरेभ्यः, तदीयमपि भागं ‘संवृञ्जीमहि ?’ अपहरेमहि । एवं कामयित्वा तत्साधनं प्रयासेनान्विष्य ‘दर्शपूर्णमासौ’ यागावेवापश्यन् । ‘ताभ्यां’ ‘एतमपि’ कृष्णपक्षमपि स्वयमलभन्त ॥ २३ ॥
Eggeling
- The gods were desirous as to how they might appropriate also the one that had fallen to the Asuras. They went on worshipping and toiling. They saw this haviryajña, to wit, the new- and full-moon sacrifices, and performed them; and by performing them they likewise appropriated the one–
२४
विश्वास-प्रस्तुतिः
य᳘ ऽएषो᳘ ऽसुराणामा᳘सीद्॥
(द्य) यदा वा᳘ ऽएता᳘ ऽउभौ᳘ परिप्ल᳘वेते ऽअ᳘थ मा᳘सो भवति मासशः᳘ संव्वत्सरः स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वमेव त᳘द्देवा ऽअ᳘सुराणाᳫं सम᳘वृञ्जत स᳘र्व्वस्मात्सप᳘त्नान᳘सुरान्नि᳘रभजन्त्स᳘र्व्वम्वे᳘वैष᳘ ऽएत᳘त्सप᳘त्नानाᳫँ᳘ सं᳘वृङ्क्ते स᳘र्व्वस्मात्सप᳘त्नान्नि᳘र्भजति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
य᳘ ऽएषो᳘ ऽसुराणामा᳘सीद्॥
(द्य) यदा वा᳘ ऽएता᳘ ऽउभौ᳘ परिप्ल᳘वेते ऽअ᳘थ मा᳘सो भवति मासशः᳘ संव्वत्सरः स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वमेव त᳘द्देवा ऽअ᳘सुराणाᳫं सम᳘वृञ्जत स᳘र्व्वस्मात्सप᳘त्नान᳘सुरान्नि᳘रभजन्त्स᳘र्व्वम्वे᳘वैष᳘ ऽएत᳘त्सप᳘त्नानाᳫँ᳘ सं᳘वृङ्क्ते स᳘र्व्वस्मात्सप᳘त्नान्नि᳘र्भजति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
य᳘ एषो᳘ ऽसुराणामा᳘सीत्॥
यदा वा᳘ एता᳘ उभौ᳘ परिप्ल᳘वेते अ᳘थ मा᳘सो भवति मासशः᳘ संवत्सरः स᳘र्वं वै᳘ संवत्सरः स᳘र्वमेव त᳘द्देवा अ᳘सुराणाᳫं स᳘मवृञ्जत स᳘र्वस्मात्सप᳘त्नान᳘सुरान्नि᳘रभजन्त्स᳘र्वम्वेॗवैष᳘ एत᳘त्सप᳘त्नानाᳫं सं᳘वृङ्क्ते स᳘र्वस्मात्सप᳘त्नान्नि᳘र्भजति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
य एषो ऽसुराणामासीत् । यदा वा एता उभौ परिप्लवेते- अथ मासो भवति । मासशः संवत्सरः । सर्वं वै संवत्सरः । सर्वमेव तद्देवा असुराणां समवृञ्जत, सर्वस्मात्सपत्नानसुरान् निरभजन् । सर्वम्वेवैष एतत्सपत्नानां संवृङ्के, सर्वस्मात्सपत्नान्निर्भजति- य एवमेतद्वेद ॥ २४ ॥
सायणः
तद्द्वारा तदुभयावर्तनात्मकं मासम्, तदावर्तनात्मकं संवत्सरं च असुरेभ्यः ‘समवृञ्जत’ स्वाधीनं कृतवन्तः । अतो न्यूनाधिककालावयवानां संवत्सरे ऽन्तर्भावात् ‘संवत्सरः सर्वम्’ संवत्सरात्मकात् ‘सर्वस्मात्’ कालात् ‘सपत्नान् असुरान्’ भागरहितान् अकुर्वन् । ‘निरभजन्’- इति तात्पर्याभिधानम् । ‘सर्वम् एव एषः’ -इति वेदितुः फलम् । अतो दर्शपूर्णमासानुष्ठानं सपत्नसर्वस्वहरणमिति प्रशंसा ॥ २४ ॥
Eggeling
- Which belonged to the Asuras. Now when these two revolve, then the month is produced; and month (revolving) after month, the year (is produced). But the year, doubtless, means all; hence the gods thereby appropriated all that belonged to
the Asuras, they deprived their enemies, the Asuras, of all. And in the same way he (the sacrificer) who knows this appropriates all that belongs to his enemies, deprives his enemies of all.
२५
विश्वास-प्रस्तुतिः
स यो᳘ देवा᳘नामा᳘सीत्॥
(त्स) स यवा᳘युवत हि ते᳘न देवा यो᳘ ऽसुराणाᳫँ᳭ सो᳘ ऽयवा न हि तेना᳘सुरा ऽअ᳘युवत॥
मूलम् - श्रीधरादि
स यो᳘ देवा᳘नामा᳘सीत्॥
(त्स) स यवा᳘युवत हि ते᳘न देवा यो᳘ ऽसुराणाᳫँ᳭ सो᳘ ऽयवा न हि तेना᳘सुरा ऽअ᳘युवत॥
मूलम् - Weber
स यो᳘ देवा᳘नामा᳘सीत्॥
स यवा᳘युवत हि ते᳘न देवा यो᳘ ऽसुराणाᳫं सो᳘ ऽयवा न हि तेना᳘सुरा अ᳘युवत॥
मूलम् - विस्वरम्
स यो देवानामासीत् स यवा । अयुक्त हि तेन देवाः । यो ऽसुराणां सो ऽयवा । न हि तेनासुरा अयुक्त ॥ २५ ॥
सायणः
स यो देवानामिति । ‘सः यः’ इति वाक्यालङ्कारे । ‘सः’ आपूर्यमाणपक्षः पुरा ‘देवानामासीत्’ । ‘सः’ ‘यवायुवत’ । यौतीति “यु मिश्रणे ऽमिश्रणे च” (धा० पा० अदा० प० २२ ।) यवः, तस्य यवेति नाम । कथम् ? ‘हि’ यस्मात् ‘तेन’ आपूर्यमाणपक्षेण सह ‘देवाः’ ‘अयुवत’ समसृज्यन्त । ‘असुराणां’ कृष्णपक्षस्तु ‘अथवा’ । कथम् ? ‘हि’ यस्मात् ‘तेन’ कृष्णपक्षेण सह ‘नायुवत’ तस्य देवैरपहृतत्वात् ॥ २५ ॥
Eggeling
- That (half-moon) which belonged to the gods is (called) yavan, for the gods possessed themselves (yu, ’to join’) of it; and that which belonged to the Asuras is ayavan, because the Asuras did not possess themselves of it.
२६
विश्वास-प्रस्तुतिः
(ता᳘) अ᳘थो ऽइतर᳘थाहुः। (र्य᳘) य᳘ ऽएव᳘ देवा᳘नामा᳘सीत्सो᳘ ऽयवा न हि तम᳘सुरा ऽअ᳘युवत यो᳘ ऽसुराणाᳫं᳭ स यवा᳘युवत हि तं᳘ देवाः स᳘ब्दम᳘हः स᳘गरा रा᳘त्रिर्यव्या मा᳘साः सुमे᳘कः संव्वत्सरः᳘ स्वे᳘को ह वै ना᳘मैतद्य᳘त्सुमे᳘क ऽइ᳘ति य᳘वा च हि वा ऽअ᳘यवा यवे᳘तीवा᳘थ ये᳘नैते᳘षाᳫँ᳭ हो᳘ता भ᳘वति त᳘द्याविहोत्रमित्या᳘चक्षते॥
मूलम् - श्रीधरादि
(ता᳘) अ᳘थो ऽइतर᳘थाहुः। (र्य᳘) य᳘ ऽएव᳘ देवा᳘नामा᳘सीत्सो᳘ ऽयवा न हि तम᳘सुरा ऽअ᳘युवत यो᳘ ऽसुराणाᳫं᳭ स यवा᳘युवत हि तं᳘ देवाः स᳘ब्दम᳘हः स᳘गरा रा᳘त्रिर्यव्या मा᳘साः सुमे᳘कः संव्वत्सरः᳘ स्वे᳘को ह वै ना᳘मैतद्य᳘त्सुमे᳘क ऽइ᳘ति य᳘वा च हि वा ऽअ᳘यवा यवे᳘तीवा᳘थ ये᳘नैते᳘षाᳫँ᳭ हो᳘ता भ᳘वति त᳘द्याविहोत्रमित्या᳘चक्षते॥
मूलम् - Weber
अ᳘थो इतर᳘थाहुः य᳘ एव᳘ देवा᳘नामा᳘सीत्सो᳘ ऽयवा न हि तम᳘सुरा अ᳘युवत यो᳘ ऽसुराणाᳫं स यवा᳘युवत हि तं᳘ देवाः स᳘ब्दम᳘हः स᳘गरा रा᳘त्रिर्यव्या मा᳘साः सुमे᳘कः संवत्सरः स्वे᳘को ह वै ना᳘मैतद्य᳘त्सुमे᳘क इ᳘ति य᳘वा च हि वा अ᳘यवा यवे᳘तीवा᳘थ ये᳘नैते᳘षाᳫं हो᳘ता भ᳘वति त᳘द्याविहोत्रमित्या᳘चक्षते॥
मूलम् - विस्वरम्
अथो इतरथाहुः । य एव देवानामासीत् सो ऽयवा । न हि तमसुरा अयुवत । यो ऽसुराणां स यवा । अयुक्त हि तं देवाः । सब्दमहः । सगरा रात्रिः । यव्या मासाः । सुमेकः संवत्सरः । स्वेको ह वै नामैतत्- यत्सुमेक इति । यवा च हि वा अयवा- यवेतीव । अथ येनैतेषां होता भवति, तद् याविहोत्रमित्याचक्षते ॥ २६ ॥
सायणः
शुक्लकृष्णपक्षयोर्नामधेयव्यत्यासमाह- अथो इति । ‘देवानां’ स्वभूतो ‘यः’ असौ ‘अयवा’, देवानां प्रतिनियतस्वभूतत्वेनासुरसम्बन्धाभावात् । अतो ऽयवनादमिश्रणादयवा शुक्लपक्षः । ‘असुराणां’ स्वभूतः कृष्णपक्षो ‘यवा’, उपायेनापहृत्य देवैर्मिश्रितत्वात् ।
अनयोरेवावयवावयवप्रशंसार्थमहोरात्रमाससंवत्सराणामपि नाम दर्शयति- सब्दमित्यादिना । यवशब्दाभिधेयान् शुक्लकृष्णपक्षान् अर्हतीति (यवशब्दात् ‘दण्डादिभ्यो यत्’ इत्यर्हत्यर्थे यत्स्यात् । स्याच्च-दण्डादेराकृतिगणत्वं मन्तव्यम्) (पा० सू० ५ अ० १ पा० ६६ सू०) ‘मासः यव्यः’ ‘स्वेकः’ -इत्यस्य मकारोपजनेन ‘सुमेकः’- इति संवत्सरस्य नाम सम्पन्नम् । ‘सु’ सुष्ठु ‘एकः’ ’ स्वेकः’ । “सर्वं वै संवत्सरः” -इत्युक्तत्वेन (श० प० ७ अ० २ ब्रा० २४ कं.) सर्वस्यापि कालस्य तत्रैवान्तर्भावात् संवत्सर एक एव कालः । अतस्तस्यैतन्नाम युक्तम्, तस्यैव परोक्षेण “परोक्षप्रिया इव हि देवाः” (तै० ब्रा० १ । ५ । ९ । २ । ऐ० ब्रा० ३ । ३ । ९ ।) ‘सुमेकः’ -इति व्यवहारः । प्रसङ्गादहरादिनामाभिधाय प्रकृतमुपसंहरति- यवा चेति । ‘यवा अयवा च हि’ ‘यवेतीव’ यवेत्येव भवति, यवनस्योभयानुगतत्वात् । अथवा देवैरेवायवात्मकस्य कृष्णपक्षस्यापि यवनात् पक्षद्वयमपि ‘यवा’ । अतः ‘एतेषां’ यवादीनां मध्ये ‘येन’ निमित्तेन ‘होता’ भवेत्, ‘तत्’ कार्यं ‘याविहोत्रम्’ । तैत्तिरीयके ऽपि “ऋतव्या उपदधाति” -इत्यत्र (तै० सं० ५. ३. १. २.) चयनप्रकरणे 25 यवादयो व्याख्याताः ॥ २६ ॥ ( ७.२ )
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे सप्तमाध्याये द्वितीयं ब्राह्मणम् ॥ ( ७-२ )॥
॥ इति प्रथमकाण्डे पञ्चमप्रपाठकः समाप्तः ॥ (१-५ )
Eggeling
- But they also say contrariwise:–That which belonged to the gods is (called) ayavan, because the Asuras did not get possession of it; and that which belonged to the Asuras is yavan, because the gods did get possession of it. The day is (called) sabda, the night sagarā, the months yavya, the year sumeka 26: sveka (’eminently one’), doubtless, is the same as sumeka. And since the Hotr̥ is concerned with these–to wit, the yavan and the ayavan, which (according to some) is yavan–they call (his office) yāvihotram 27.
-
“मध्यात्पूर्वार्धाच्चासम्भिन्दन्नंगुष्ठपर्वमात्रमवदानम्” इति का. श्रौ. सू. १ । ९ । ६ ॥ ↩︎
-
“जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी" (तै. सं. ६३. ११. १३) मं. सं. ६. ३५-३७, ४. २५७ । रामा. २. ४. १३ । म. भा. १. ४६ । ५६ । ५८ । ↩︎
-
190:1 The wording of this passage is very ambiguous; so much so indeed, that it could also be taken in the sense that ‘whoever exists, is born as (one to whom) a debt (is owed) from the gods,’ &c. cf. I, 1, 2, 19: ‘Whichever deities are chosen (for the oblations), they consider it as a debt (clue from them), that they are bound to fulfil whatever wish he entertains while taking the oblation.’ But see Taitt. Br. VI, 3, 10, 5: ‘Verily, a Brāhmaṇa who is born, is born as owing a debt in respect to three things: in the shape of sacred study (brahmacarya) to the R̥shis, in the shape of sacrifice to the gods, and in the shape of offspring to the fathers. Free from debt, verily, is he who has a son, who is a sacrificer, who lives (for a time with a guru) as a religious student.’ Ath.-veda VI, 117, 3 (Taitt. Br. III, 7, 9, 8): ‘May we be debtless in this, debtless in the other, debtless in the third, world! What worlds (paths, Taitt. Br.) there are trodden by the gods and trodden by the fathers,–may we abide debtless on all (those) paths!’ ↩︎
-
191:1 The word is really derived from ava-dā (do), ’to cut off.’ The Taitt. Br. gives the same fanciful etymological explanation of the term as here. ↩︎
-
‘धानाः, करम्भः, परिवापः पुरोडाशः, पयस्या’ इति । ↩︎
-
हविष्पङ्क्तिः, अक्षरपङ्क्तिः, नराशंसपंक्तिः, सवनपङ्क्तिः इति । ↩︎
-
192:1 The four ‘cuttings’ of which each oblation of rice-cake consists are made in the following way: first, some clarified butter, ‘cut out’ or drawn from the butter in the dhruvā-spoon by means of the sruva (dipping-spoon) and poured into the juhū (this is called the upastaraṇa or under-layer of butter); second and third, two pieces of the size of a thumb’s joint, cut out from the centre and the fore-part of the rice-cake and laid on that butter; and fourth, some clarified butter poured on these pieces of cake (the technical name of this basting of butter being abhighāraṇa). The family of the Jamadagnis, which is mentioned as always making five cuttings (Kāty. I, 9, 3-4), take three pieces of cake instead of two, viz. an additional one from the back (or west) part of the cake. Yājñika Deva on Kāty. quotes a couplet from some Smr̥ti, in which the Vatsas, the Vidas, and the Ārshṭisheṇas are mentioned beside the Jamadagnis, as pañcāvattinaḥ or making five cuttings. At the Upāṁśuyāja (low-voiced offering),–which is performed between the cake-oblation to Agni and that to Agni-Soma at the full moon, and between the cake-oblation to Agni and that to Indra-Agni (or the sānnāyya, or oblation of sweet and sour milk, to Indra) at the new moon, and which consists entirely of butter,–the four cuttings are effected in the same way as described page 174 note. At the sānnāyya, two (or three) sruva-fuls of both the sweet and the sour milk take the place of the two (or three) pieces of cake. ↩︎
-
“अग्निष्टोमो ऽत्यग्निष्टोम उक्थः षोडशिमांस्ततः । वाजपेयो ऽतिरात्रश्चाप्तोर्यामो ऽत्र सप्तमः । इत्येते सुत्याः” इति गो० ब्रा. १. ५. २३ । सुत्याः सोमसंस्थाः सोमयज्ञाः इत्येते ऽभिन्नार्थाः । ↩︎ ↩︎
-
“अग्न्याधेयमग्निहोत्रं पौर्णमास्यममावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्येते हविर्यज्ञाः” इति गो. ब्रा. १. ५. २३. “अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्तपाकयज्ञसंस्थाः" गौ. ध. सू. ८ । ५ ॥ अत्र- अष्टका, पार्वणः, श्राद्धम्, श्रावण्याग्रहायणी, चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः इत्येवमासां सप्तानामपि पाकयज्ञसंस्थानां पशुयज्ञसंस्थात्वं ब्रुवन् सत्यव्रतसामाश्रमिर्नितान्तं बभ्राम । “तत्रापि पाकयज्ञेनेजे स घृतं दधि मध्वामिक्षामित्यप्सु मुहयांचकार” इति (श. प. १ । ८ । १ । ७) शतपथश्रुत्या घृतदध्यादिद्रव्यसाधनयज्ञस्य पाकयज्ञतया ऽऽख्यानात्, पशुपुरोडाशकयज्ञस्य पशुयज्ञताया अन्यत्राख्यानाच्च पाकयज्ञपशुयज्ञयोर्भेदस्य सुप्रसिद्धत्वात् । विशेषस्त्वत्र “आर्यसर्वस्व" ग्रन्थस्य द्वितीये यज्ञविभागाध्याये द्रष्टव्यः । ↩︎
-
193:1 See page 26, note 1. The parts of the cakes or the sānnāyya, from which cuttings have been made, he bastes, each once, with butter taken with the sruva from the butter-pot; and whenever butter is ladled with the sruva from the dhruvā into the juhū, the former is replenished from the butter-pot. ↩︎
-
193:2 Tayor mithunam asti vashaṭkāra eva, ’to these two the vashaṭ-call is the complement in forming a pair.’ On the vashaṭ (vaushaṭ) and the other two formulas, see note on I, 5, 2, 16. ↩︎
-
194:1 The usual formalities, which have been detailed before (see page 174 note), have, of course, to be gone through at each oblation. ↩︎
-
195:1 In this passage the invitatory formula (anuvākyā or puro’nuvākyā), which is in the gāyatrī metre, is identified with the sky, and the offering-formula (yājyā), which is in the trishṭubh metre, with the earth. On the other hand, the gāyatrī also is the earth (cf. I, 4, I, 34), and the trishṭubh the sky; so that, according to this mode of reasoning, there is not only an intimate connection between the two metres, but actual identity. The gāyatrī verse, used as invitatory formula, on the occasion of the rice-cake offering to Agni, is Rig-veda VIII, 4.4, 16 [agnir mūrdhā divaḥ kakut, ‘Agni, the head and summit of the sky,’ &c.]; with that to Agni and Soma, at the full-moon sacrifice, Rig-veda I, 93, 3 [agnīshomau savedasau, sahūtī vanatam giraḥ, ‘O Agni and Soma, of self-same wealth and invocation, accept this song!’ &c.]; and to Indra and Agni, at the new moon, Rig-veda VII, 94, 7 [indrāgnī avasā gatam, ‘O Indra and Agni, come to us with favour I’ &c.] or with the (optional) milk-offering (sānnāyyam), at the new moon, Rig-veda I, 8, 1 [endra sānasiṁ rayim, hither, O Indra, bring abundant treasure!!’ &c.], if to Indra; or Rig-veda VIII, 6, 1 [mahāṅ indro ya ojasā parjanyo vr̥shṭimāṅ iva, ’the Great Indra, who in might is equal to the rainy thunder-cloud,’ &c.], if to Mahendra. ↩︎
-
195:2 The trishṭubh verse, used as offering-formula with the oblation of cake to Agni, both at the new and full moon, is Rig-veda X, 8, 6 [bhuvo yajñasya rajasaś ca netā . . . agne . . ., ‘be thou the leader of the sacrifice and welkin, . . . O Agni!’ &c.]; with that to Agni and Soma, at the full moon, Rig-veda I, 93, 5 [yuvam etāni divi rocanāni . . . agnīshomau . . ., ‘you, O Agni and Soma, (fixed) those lights in the heaven,’ &c.]; with that to Indra and Agni, at the new moon, Rig-veda VII, 93 4 [gīrbhir vipraḥ pramatim icchamāna, .. indrāgnī . . ., ’the bard, seeking your grace by songs . . ., O Indra and Agni,’ &c.]; and with the milk-offering, at the same sacrifice, if to Indra, Rig-veda X, 180, 1 [pra sasāhishe puruhūta śatrūn . . . indrā . . ., thou, O Indra, the much-invoked, hast vanquished the enemies!’ &c.]; or, if to Mahendra, Rig-veda X, 50, 4 [bhuvas tvam indra brahmaṇā mahān, ‘mighty, O Indra, mayest thou be through (our) prayer!’ &c.]. ↩︎
-
196:1 For the notion that there is rain (and consequently food) when heaven and earth are on friendly terms with each other, see I, 8, 3, 12. The rain is the food of the earth; and the food, produced thereby, in its turn furnishes food for the sky (or the gods) in the form of oblations. ↩︎
-
शांखायनब्राह्मणमप्यत्रानुसंधेयं “बार्हतराथन्तरं वषट्कुर्यात्- पुरस्ताद्दीर्घमुपरिष्टाद्ध्रस्वं- यद्ध्रस्वं तद्रथन्तरं- यद्दीर्घं तद्बृहत्- अथो इयं वै रथन्तरं- असौ बृहत् । अनयोरेव तत्प्रतितिष्ठति- एतावान्वै वाचो विकारः- सर्वेणैव तद्वाचो विकारेण देवेभ्यो हविः प्रयच्छति” इति । शां. ब्रा. अ ३, खं ५ । ↩︎
-
196:2 The br̥hat-sāman (tvam id dhi havāmahe, ‘on thee, indeed, we call,’ &c., Sāma-veda II, 159-160 = Rig-veda VI, 46, 1-2) and the rathantara-sāman (abhi tvā śūra nonumaḥ, ’to thee, O Hero, we call,’ &c., Sāma-veda II, 30-31 = Rig-veda VII, 32, 22-23) are two of the most highly prized Sāma-hymns, which are especially used in forming the so-called pr̥shṭḥas, or combinations of two hymns in such a way that one of them (being a mystic representation of the embryo) is enclosed in the other, which is supposed to represent the womb. In these symbolical combinations the br̥hat and rathantara, which must never be used together, are often employed as the enclosing chants, representative of the womb. They are already mentioned in Rig-veda X, 181. See also Śat. Br. IX, 1, 2, 36-37. Taitt. S. VII, 1, I, 4, Prajāpati is said to have first created from his mouth Agni together with the Gāyatrī, the Rathantara-sāman, the Brāhmaṇa, and the goat; and then from his chest and arms Indra, the Trishṭubh, the Br̥hat-sāman, the Rājanya, and the ram. ↩︎
-
197:1 Literally, ‘forwards, thither (pra).’ ↩︎
-
197:2 Avastāllakshma, ’the sign below or on this (the, to us, nearest or front) side.’ See the formulas above, p. 195, note 1. ↩︎
-
197:3 Or upwards, on the upper side, uparishṭāllakshaṇam. See the offering-formulas above, p. 195, note 2. ↩︎
-
197:4 Vashaṭ, or rather vāushaṭ [‘may he (Agni) carry it (to the gods)!’], is pronounced after each yājyā or offering-formula, which contains the name of the deity towards the end, or at least not at the very beginning. ↩︎
-
198:1 Viz. the invitatory and offering-formulas. ↩︎
-
198:2 The sacrificial call vaushaṭ (for vashaṭ, irregular aorist of vah, ’to bear,’ cf. p. 88, note 2) is here fancifully explained as composed of vauk, for vāk, ‘speech,’ + shaṭ, ‘six.’ ↩︎
-
198:3 Prajāpati, or Lord of Creatures, is here, as often (cf. I, 2, 5, 13), taken as representing the year, or Time. ↩︎
-
‘कल्पः’- यावा अयावा इति सप्तर्तव्याः । पाठस्तु “यावा, अयावा, एवा, ऊमाः सब्दः, सगरः, सुमेकः” इति यावाद्याः षट्शब्दा वसन्ताद्यृतुवाचिनः । सुमेकशब्दः संवत्सरवाची । हे इष्टके त्वं त्वद्रूपा ऽसीति योज्यम् । इति तै० सं० ४ । ४ । ८ । २३-२९ । सा० भा० ॥ ↩︎
-
199:1 Sumeka is taken by the St. Petersburg Dictionary to mean ‘firmly established;’ by Grassmann, ‘bountiful,’ literally ‘well-showering.’ Our author identifies it with su-eka. The words sabdam (śabdam, Kāṇva rec., ? = the sounding one) and sagarā are obscure; yavya here apparently means, ‘consisting of the yavas or half-months.’ ↩︎
-
199:2 The term yāvihotram is obscure, and does not seem to occur anywhere else. The Kāṇva MS. reads yāmihotram (? = jāmihotram). Sāyaṇa’s comment is corrupt in several places and affords little help. ↩︎