०१

विश्वास-प्रस्तुतिः

स वै᳘ पर्णशाख᳘या व्वत्सा᳘नपा᳘करोति॥
तद्य᳘त्पर्णशाख᳘या व्वत्सा᳘नपाकरो᳘ति य᳘त्र वै᳘ गायत्री सो᳘ममच्छा᳘पतत्त᳘दस्या ऽआह᳘रन्त्या ऽअपाद᳘स्ताभ्याय᳘त्य पर्णं प्र᳘चिच्छेद गायत्र्यै᳘ वा सो᳘मस्य वा रा᳘ज्ञस्त᳘त्पतित्वा᳘ प᳘र्णो ऽभवत्त᳘स्मात्पर्णो ना᳘म तद्य᳘देवा᳘त्र सो᳘मस्य न्य᳘क्तं त᳘दिहा᳘प्यसदि᳘ति त᳘स्मात्पर्णशाख᳘या व्वत्सा᳘नपा᳘करोति॥

मूलम् - श्रीधरादि

स वै᳘ पर्णशाख᳘या व्वत्सा᳘नपा᳘करोति॥
तद्य᳘त्पर्णशाख᳘या व्वत्सा᳘नपाकरो᳘ति य᳘त्र वै᳘ गायत्री सो᳘ममच्छा᳘पतत्त᳘दस्या ऽआह᳘रन्त्या ऽअपाद᳘स्ताभ्याय᳘त्य पर्णं प्र᳘चिच्छेद गायत्र्यै᳘ वा सो᳘मस्य वा रा᳘ज्ञस्त᳘त्पतित्वा᳘ प᳘र्णो ऽभवत्त᳘स्मात्पर्णो ना᳘म तद्य᳘देवा᳘त्र सो᳘मस्य न्य᳘क्तं त᳘दिहा᳘प्यसदि᳘ति त᳘स्मात्पर्णशाख᳘या व्वत्सा᳘नपा᳘करोति॥

मूलम् - Weber

स वै᳘ पर्णशाख᳘या वत्सा᳘नपा᳘करोति॥
तद्य᳘त्पर्णशाख᳘या वत्सा᳘नपाकरो᳘ति य᳘त्र वै᳘ गायत्री सो᳘ममछा᳘पतत्त᳘दस्या आह᳘रन्त्या अपाद᳘स्ताभ्याय᳘त्य पर्णम् प्र᳘चिछेद गायत्र्यै᳘ वा सो᳘मस्य वा रा᳘ज्ञस्त᳘त्पतित्वा᳘ पॗर्णो ऽभवत्त᳘स्मात्पर्णो ना᳘म तद्य᳘देवा᳘त्र सो᳘मस्य न्य᳘क्तं त᳘दिहा᳘प्यसदि᳘ति त᳘स्मात्पर्णशाख᳘या वत्सा᳘नपा᳘करोति॥

मूलम् - विस्वरम्

सान्नाय्यसंपादनम् ।

स वै पर्णशाखया वत्सानपाकरोति । तद्यत्पर्णशाखया वत्सानपाकरोति यत्र वै गायत्री सोममच्छापतत्, तदस्या आहरन्त्या अपादस्ताभ्यायत्य पर्णं प्रचिच्छेद गायत्र्यै वा सोमस्य वा राज्ञः । तत् पतित्वा पर्णो ऽभवत् । तस्मात् पर्णो नाम । तद् यदेवात्र सोमस्य न्यक्तं तदिहाप्यसदिति- तस्मात् पर्णशाखया वत्सानपाकरोति ॥ १ ॥

सायणः

प्रधानयागः सकलः साख्यानः सम्प्रकीर्तितः । प्राधान्येनाथ तद्धर्मा निरूप्यन्ते ऽथ सप्तमे ॥ ७ ॥

तत्रादौ सन्निहितत्वात् सान्नाय्यधर्माः 1 प्रथममुच्यन्ते । तत्र वत्सापाकरणाय शाखाच्छेदं विधास्यन् तदुचितं शाखायाः पर्णत्वं सार्थवादमाह- स वै पर्णशाखयेति । ‘सः’ वत्सानामपाकर्ता । शाखायाः पर्णत्वं प्रशंसितुमनुवदति- तद्यत्पर्णशाखयेति । ‘यत्र’ यस्मिन् देशे ‘गायत्री’ पक्षिरूपेण ‘सोमन्’ अभिलक्ष्य आनयनाय अगच्छत्, ‘तत्’ ‘अस्या आहरन्त्याः’ 2 ‘अपाधस्ता’ 3 अधस्तात् प्रदेशे ‘अभ्यायत्य’ यत् ‘पर्णं’ तत्- ‘प्रचिच्छेद’ । कस्येत्याह- गायत्र्यै वा सोमस्य वा राज्ञ इति । ‘वा’- शब्दश्चार्थे, ‘गायत्र्याः’ ‘सोमस्य’ चेत्यर्थः; अननुष्ठानत्वेन विकल्पस्यानुचितत्वात् । पतितात् पर्णान् उत्पन्नः पलाशः, तस्य ‘पर्णत्वम्’ । अस्त्वेवं तथाप्यस्यैव शाखाकरणे को ऽभिप्राय इत्यत आह- तद्यदेवेति । ‘तस्मात्’ सोमांशस्यैव सम्पादितप्रायत्वात् ‘पर्णशाखया’ एव मातृभ्यः सकाशात् ‘वत्सान्’ ‘अपाकुर्यात्’ पृथक्कुर्यात् । कात्यायनस्तु शमीशाखामपि विकल्पेनात्रावोचत्- “पर्णशाखां छिनत्ति शामीलीं वा” इति (का. श्रौ. सू. ४. ३०) “शम्याः ष्लञ्” इति (पा. सू. ४. ३. १४२) विकारे ष्लञि ॥ १ ॥

Eggeling
  1. He (the Adhvaryu) drives the calves away (from the cows) with a parṇa branch 4. The reason why he drives the calves away with a parṇa branch is this. When the Gāyatrī flew towards Soma (the moon), a footless archer aiming at her while she was carrying him off, severed one of the feathers (parṇa) either of the Gāyatrī or of king Soma 5; and on falling down it became a parṇa (palāśa) tree; whence its name parṇa. May that

which then was of the Soma nature 6 be here with us now!’ so he thinks, and for this reason he drives away the calves with a parṇa branch.

०२

विश्वास-प्रस्तुतिः

तामा᳘च्छिनत्ति॥
(त्ती) इषे᳘ त्वोर्जे त्वे᳘ति व्वृ᳘ष्ट्यै त᳘दाह यदा᳘हेषे त्वे᳘त्यूर्ज्जे त्वे᳘ति यो᳘ व्वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाह॥

मूलम् - श्रीधरादि

तामा᳘च्छिनत्ति॥
(त्ती) इषे᳘ त्वोर्जे त्वे᳘ति व्वृ᳘ष्ट्यै त᳘दाह यदा᳘हेषे त्वे᳘त्यूर्ज्जे त्वे᳘ति यो᳘ व्वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाह॥

मूलम् - Weber

तमा᳘छिनत्ति॥
इषे᳘ त्वोर्जे त्वे᳘ति वृ᳘ष्ट्यै त᳘दाह यदा᳘हेषे त्वे᳘त्यूर्जे त्वे᳘ति यो᳘ वृष्टादूर्ग्र᳘सो जा᳘यते त᳘स्मै त᳘दाह॥

मूलम् - विस्वरम्

तामाच्छिनत्ति- ‘इषे त्वा’ ‘ऊर्जे त्वा’ (वा. सं. १ । १) इति । वृष्ट्यै तदाह यदाह इषे त्वेति । ऊर्ज्जे त्वा इति । यो वृष्टादूर्ग्रसो जायते तस्मै तदाह ॥ २ ॥

सायणः

इदानीं छेदने मन्त्रं विधत्ते- तामिति । तदिति । इष्यत इतीट् । यदिट्, तद्वाक्यमित्यर्थः । पृथग्-योगस्य विवक्षितत्वात् वाक्ययोरपि पौर्वापर्यं विवक्षितमिति गम्यते । स्पष्टमन्यत् ।

सूत्रकारस्तु मन्त्रभेदपक्षमप्यङ्गीकृत्य शाखाच्छेदे एव विकल्पितम्, छेदनसन्नमनयोर्वेति योगभिन्नतां चाह- “पर्णशाखां छिनत्ति शामीलीं वेषे त्वेति, ऊर्जे त्वेति वा” (का. श्रौ. सू. ४. ३०) “छिनद्मीति वोभयोः साकाङ्क्षत्वात्” (का. श्रौ. सू. ४. ३१) “सन्नमयामीति वोत्तरे” (का. श्रौ. सू. अ. ४. सू. ३२) इति ॥ २ ॥

Eggeling
  1. That (branch) he cuts off 7, with the formula (Vāj. S. I, 1 a, b), ‘For sap (I cut) thee! for pith thee!’–‘for rain thee’ he means to say, when he says ‘for sap thee;’ and when he says ‘for pith thee’ he means to say ‘for that food-essence which springs from the rain.’

०३

विश्वास-प्रस्तुतिः

(हा) अ᳘थ मातृ᳘भिर्व्वत्सा᳘न्त्सम᳘वार्ज्जन्ति॥
स᳘ व्वत्सᳫँ᳭ शा᳘खयो᳘पस्पृशति व्वाय᳘व स्थे᳘त्ययं वै᳘ व्वायु᳘र्यो ऽयं प᳘वत ऽएष वा᳘ ऽइदᳫँ᳭स᳘र्व्वं प्र᳘प्याययति य᳘दिदं कि᳘ञ्च व्व᳘र्षत्येष वा᳘ ऽएता᳘सां प्रप्याययिता त᳘स्मादाह व्वाय᳘व स्थे᳘त्युपाय᳘व स्थे᳘त्यु है᳘क आहुरू᳘प हि᳘ द्वितीयो᳘ ऽयती᳘ति त᳘दु त᳘था न᳘ ब्रूयात्॥

मूलम् - श्रीधरादि

(हा) अ᳘थ मातृ᳘भिर्व्वत्सा᳘न्त्सम᳘वार्ज्जन्ति॥
स᳘ व्वत्सᳫँ᳭ शा᳘खयो᳘पस्पृशति व्वाय᳘व स्थे᳘त्ययं वै᳘ व्वायु᳘र्यो ऽयं प᳘वत ऽएष वा᳘ ऽइदᳫँ᳭स᳘र्व्वं प्र᳘प्याययति य᳘दिदं कि᳘ञ्च व्व᳘र्षत्येष वा᳘ ऽएता᳘सां प्रप्याययिता त᳘स्मादाह व्वाय᳘व स्थे᳘त्युपाय᳘व स्थे᳘त्यु है᳘क आहुरू᳘प हि᳘ द्वितीयो᳘ ऽयती᳘ति त᳘दु त᳘था न᳘ ब्रूयात्॥

मूलम् - Weber

अ᳘थ मातृ᳘भिर्वत्सा᳘न्त्सम᳘वार्जन्ति॥
स᳘ वत्सं शा᳘खयो᳘पस्पृशति वाय᳘व स्थे᳘त्ययं वै᳘ वायुॗर्यो ऽयम् प᳘वत एष वा᳘ इदᳫं स᳘र्वम् प्र᳘प्यायति य᳘दिदं किं᳘ च व᳘र्षत्येष वा᳘ एता᳘साम् प्रप्याययिता त᳘स्मादाह वाय᳘व स्थे᳘त्युपाय᳘व स्थे᳘त्यु है᳘क आहुरू᳘प हि᳘ द्वितीयो᳘ ऽयती᳘ति त᳘दु त᳘था न᳘ ब्रूयात्॥

मूलम् - विस्वरम्

अथ मातृभिर्वत्सान्त्समवार्ज्जन्ति । स वत्सं शाखयोपस्पृशति- “वायवः स्थ"- (वा. सं. १. १) इति । अयं वै वायुर्यो ऽयं पवते । एष वा इदं सर्वं प्रप्याययिता यदिदं किञ्च वर्षति । एष वा एतासां प्रप्याययिता । तस्मादाह- वायवः स्थ- इति । “उपायवः स्थ”- इत्यु हैक आहुः । उप हि द्वितीयो ऽयतीति- तदु तथा न ब्रूयात् ॥ ३ ॥

सायणः

अथ वत्सानां मातृसंयोजनम् । तत्रैकस्य शाखया समन्त्रकमुपस्पर्शनञ्चाह- अथ मातृभिरिति । ‘समवार्जन्ति’ संयोजयन्ति । हे वत्स ! गावश्च ! यूयं ‘वायवः स्थ’ प्रवर्द्धकत्वेन वायुसम्बन्धाद् यूयमपि वायवो भवथेति मन्त्रार्थः । (का. श्रौ. सू. ४. ३६) 8 कथमेतेषां वायुत्वव्यवहार इति तत्समर्थनायाह- अयं वा इत्यादि । वायोर्गवां वर्द्धकत्वसमर्थनाय सर्वजगद्वर्धकतामाह- एष वा इदं सर्वमिति । एतन्मन्त्रशेषत्वेन शाखान्तरे पठितं (तै. सं. १ । १ । १) (तै. ब्रा. ३ । २ । १) मन्त्रमनूद्य निराचष्टे- उपायवस्थेत्यु हैक इति (तै. सं. १. १. ३.) “उपायवस्थेति चैके” (का. श्रौ. सू. ४. ३७) । यदेनं भागं ब्रूयात्, यजमानस्य ‘द्वितीयः’ शत्रुरुपागच्छति, अतो ‘न ब्रूयात्’ ॥ ३ ॥

Eggeling
  1. They then let the calves join their mothers. He thereupon touches (each) calf (in order to drive it away from the cow), with the formula (Vāj. S. I, 1 c), ‘The winds are ye!’–for, indeed, it is this wind that here blows 9, it is this (wind) that makes swell all the rain that falls here; it is it that makes those (cows) swell; and for this reason he says ’the winds are ye!’ Some people add here the formula 10, ‘Going near are ye!’ but let him not say this, because thereby another (an enemy) approaches (the sacrificer).

०४

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ मातॄणामे᳘काᳫँ᳭शा᳘खयो᳘पस्पृशति॥
व्वत्से᳘न व्याकृ᳘त्य देवो᳘ वः सविता प्रा᳘र्प्पयत्वि᳘ति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूता यज्ञᳫँ᳭ स᳘म्भरानि᳘ति त᳘स्मादाह देवो᳘ वः सविता प्रा᳘र्प्पयत्वि᳘ति॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ मातॄणामे᳘काᳫँ᳭शा᳘खयो᳘पस्पृशति॥
व्वत्से᳘न व्याकृ᳘त्य देवो᳘ वः सविता प्रा᳘र्प्पयत्वि᳘ति सविता वै᳘ देवा᳘नां प्रसविता᳘ सवितृ᳘प्रसूता यज्ञᳫँ᳭ स᳘म्भरानि᳘ति त᳘स्मादाह देवो᳘ वः सविता प्रा᳘र्प्पयत्वि᳘ति॥

मूलम् - Weber

अ᳘थ मातृणामे᳘कां शा᳘खयोपस्पृशति॥
वत्से᳘न व्याकृ᳘त्य देवो᳘ वः सविता प्रा᳘र्पयत्वि᳘ति सविता वै᳘ देवा᳘नाम् प्रसविता᳘ सवितृ᳘प्रसूता यज्ञᳫं स᳘म्भरानि᳘ति त᳘स्मादाह देवो᳘ वः सविता प्रा᳘र्पयत्वि᳘ति॥

मूलम् - विस्वरम्

अथ मातॄणामेकां शाखयोपस्पृशति वत्सेन व्याकृत्य- “देवो वः सविता प्रार्प्पयतु”- (वा० सं० १ । १) इति । सविता वै देवानां प्रसविता । सवितृप्रसूता यज्ञं सम्भरान्- इति- तस्मादाह- “देवो वः सविता प्रार्प्पयतु”- इति ॥ ४ ॥

सायणः

प्रस्तुतानां गवां मध्ये एकस्या वत्सात् पृथक् स्पर्शनम्, तन्मन्त्रं (“देवो व इति मातॄणामेकां व्याकृत्य” का. श्रौ. सू. ४. ३८) चाह- अथ मातॄणामिति । ‘वत्सेन’ ‘व्याकृत्य’ पृथक्कृत्य । प्रेषणकर्मणि सवितुः प्रयोजकत्वे कारणमाह- सविता वा इति । ‘यज्ञं’ यज्ञसाधनं क्षीरम्, तत् ‘सम्भरान्’ सम्भरेयुः ॥ ४ ॥

Eggeling
  1. After separating one of the mothers from her calf, he touches her, with the text (Vāj. S. I, I d), ‘May the divine Savitr̥ animate you–’ for Savitr̥, indeed, is the impeller (prasavitr̥) of the gods:

‘may they, impelled by Savitr̥, prepare the sacrifice!’ so he thinks, and for this reason he says, ‘May the divine Savitr̥ animate you!’

०५

विश्वास-प्रस्तुतिः

श्रे᳘ष्ठतमाय क᳘र्मण ऽइ᳘ति॥
यज्ञो वै श्रे᳘ष्ठतमं क᳘र्म्म यज्ञा᳘य हि त᳘स्मादाह श्रे᳘ष्ठतमाय क᳘र्मण इ᳘ति॥

मूलम् - श्रीधरादि

श्रे᳘ष्ठतमाय क᳘र्मण ऽइ᳘ति॥
यज्ञो वै श्रे᳘ष्ठतमं क᳘र्म्म यज्ञा᳘य हि त᳘स्मादाह श्रे᳘ष्ठतमाय क᳘र्मण इ᳘ति॥

मूलम् - Weber

श्रे᳘ष्ठतमाय क᳘र्मण इ᳘ति॥
यज्ञो वै श्रे᳘ष्ठतमं क᳘र्म यज्ञा᳘य हि त᳘स्मादाह श्रे᳘ष्ठतमाय क᳘र्मण इ᳘ति॥

मूलम् - विस्वरम्

“श्रेष्ठतमाय कर्मणे”- (वा० सं० १ । १) इति । यज्ञो वै श्रेष्ठतमं कर्म्म । यज्ञाय हि । तस्मादाह- “श्रेष्ठतमाय कर्मणे”- इति ॥ ५ ॥

सायणः

किं तत् श्रेष्ठतमं कर्म ? इति, तदाह- यज्ञो वा इति । साक्षात्स्वर्गसाधनत्वादितरकर्मभ्यः ‘श्रेष्ठतमत्वम्’ ॥ ५ ॥

Eggeling
  1. ‘–To the most glorious work!’ for assuredly the sacrifice is the most glorious work: hence, when he says ’to the most glorious work!’ he means to say ’to the sacrifice.’

०६

विश्वास-प्रस्तुतिः

(त्या᳘) आ᳘प्यायध्वमघ्न्या ऽइ᳘न्द्राय भागमि᳘ति॥
तद्य᳘थै᳘वादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मे᳘वैत᳘द्देव᳘ताया ऽआ᳘दिशति यदाहा᳘प्यायध्वमघ्न्या ऽइ᳘न्द्राय भागमि᳘ति॥

मूलम् - श्रीधरादि

(त्या᳘) आ᳘प्यायध्वमघ्न्या ऽइ᳘न्द्राय भागमि᳘ति॥
तद्य᳘थै᳘वादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मे᳘वैत᳘द्देव᳘ताया ऽआ᳘दिशति यदाहा᳘प्यायध्वमघ्न्या ऽइ᳘न्द्राय भागमि᳘ति॥

मूलम् - Weber

आ᳘प्यायध्वमघ्न्या इ᳘न्द्राय भागमि᳘ति॥
तद्य᳘थैॗवादो देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मेवैत᳘द्देव᳘ताया आ᳘दिशति यदाहा᳘प्यायध्वमघ्न्या इ᳘न्द्राय भागमि᳘ति॥

मूलम् - विस्वरम्

“आप्यायध्वमघ्न्या इन्द्राय भागम्”- (वा० सं० १ । १) इति । तद्यथैवादो देवतायै हविर्गृह्णन्नादिशति । एवमेवैतद्देवताया आदिशति- यदाह- “आप्यायध्वमघ्न्या इन्द्राय भागम्”- इति ॥ ६ ॥

सायणः

मन्त्रभागे यद्देवताविशेषनामनिर्देशपूर्वकमादेशनम्, तत्प्रशंसति- आप्यायध्वमघ्न्या इति । यथा अग्नये हविर्ग्रहणादौ अग्नये जुष्टमितीति (श. अ. १. ब्रा. २ कं. १७) नामविशेषतो देवतादेशनं क्रियते, तद्वदिदमपि पाठेनैव कृतं भवतीत्यर्थः (“ऐन्द्रम्भवति माहेन्द्रं वा” का. श्रौ. सू. ४. ३९) ॥ ६ ॥

Eggeling
  1. ‘Make swell, ye invincible (or inviolable) ones, the share for Indra!’ In like manner as then 11, taking the sacrificial food (rice), he announces it to the deity, so now also he announces that (libation of milk) to the deity when he says ‘make swell, ye invincible ones, the share for Indra!

०७

विश्वास-प्रस्तुतिः

प्रजा᳘वतीरनमीवा᳘ ऽअयक्ष्मा ऽइ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ति मा᳘ वस्ते᳘न᳘ ऽईशत᳘ माघ᳘शᳫँ᳘ स ऽइ᳘ति मा᳘ वो नाष्ट्रा र᳘क्षाᳫँ᳭सीशते᳘त्ये᳘वैत᳘दाह ध्रुवा᳘ ऽअस्मिन्गो᳘पतौ स्यात बह्वीरित्य᳘नपक्रमिण्यो ऽस्मिन्य᳘जमाने ब᳘ह्व्यः स्याते᳘त्ये᳘वैत᳘दाह᳘॥

मूलम् - श्रीधरादि

प्रजा᳘वतीरनमीवा᳘ ऽअयक्ष्मा ऽइ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ति मा᳘ वस्ते᳘न᳘ ऽईशत᳘ माघ᳘शᳫँ᳘ स ऽइ᳘ति मा᳘ वो नाष्ट्रा र᳘क्षाᳫँ᳭सीशते᳘त्ये᳘वैत᳘दाह ध्रुवा᳘ ऽअस्मिन्गो᳘पतौ स्यात बह्वीरित्य᳘नपक्रमिण्यो ऽस्मिन्य᳘जमाने ब᳘ह्व्यः स्याते᳘त्ये᳘वैत᳘दाह᳘॥

मूलम् - Weber

प्रजा᳘वतीरनमीवा᳘ अयक्ष्मा इ᳘ति॥
ना᳘त्र तिरो᳘हितमिवास्ति मा᳘ व स्तेन᳘ ईशतॗ माघ᳘शंस इ᳘ति मा᳘ वो नाष्ट्रा र᳘क्षांसीशते᳘त्येॗवैत᳘दाह ध्रुवा᳘ अस्मिन्गो᳘पतौ स्यात बह्वीरित्य᳘नपक्रमिण्यो ऽस्मिन्य᳘जमाने बह्व्यः᳘ स्याते᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“प्रजावतीरनमीवा अयक्ष्माः”- (वा० सं० १ । १ इति । नात्र तिरोहितमिवास्ति । ‘मा वस्तेन ईशत माघशंसः”- (वा० सं० १ । १) इति । मा वो नाष्ट्रा रक्षांसीशत- इत्येवैतदाह । “ध्रुवा अस्मिन् गोपततौ स्यात बह्वीः”- (वा० सं० १ । १) इति । अनपक्रपिण्यो ऽस्मिन् यजमाने बह्व्यः स्यात- इत्येवैतदाह ॥ ७ ॥

सायणः

प्रजावतीरित्यादि । स्पष्टार्थतामाह- नात्रेति । ‘मा वः’ इत्यस्य मन्त्रभागस्य तात्पर्यमाह-नाष्ट्रेति । ‘नाष्ट्रा’ नाष्ट्राणि नाशकारीणि, ‘रक्षांसि’ रक्षन्ति याभ्य इति रक्षणापादानभूतानि स्तेनव्याघ्रादीनि ‘नाष्ट्रा’ । ध्रुवशब्दगोपतिशब्दयोरर्थमाह- ध्रुवा अस्मिन्निति ॥ ७ ॥

Eggeling
  1. ‘Over you that are rich in offspring, over you that are free from suffering and disease–;’ in this there is nothing that is obscure; ‘–no thief, no ill-wisher may lord it!’–he thereby means to say, ‘may the evil spirits, the Rakshas, not lord it over you!’–‘May ye be numerous and constant to this lord of cattle!’–thereby he means to say ‘may ye be numerous with this sacrificer, and not abandon him.’

०८

विश्वास-प्रस्तुतिः

(हा᳘) अ᳘थाहवनीयागार᳘स्य वा पुर᳘स्तात्॥
(द्गा) गार्हपत्यागार᳘स्य वा शा᳘खामु᳘पगूहति य᳘जमानस्य पशू᳘न्पाही᳘ति तद्ब्र᳘ह्मणै᳘वैतद्य᳘जमानस्य पशून्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - श्रीधरादि

(हा᳘) अ᳘थाहवनीयागार᳘स्य वा पुर᳘स्तात्॥
(द्गा) गार्हपत्यागार᳘स्य वा शा᳘खामु᳘पगूहति य᳘जमानस्य पशू᳘न्पाही᳘ति तद्ब्र᳘ह्मणै᳘वैतद्य᳘जमानस्य पशून्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - Weber

अ᳘थाहवनीयागार᳘स्य वा पुर᳘स्तात्॥
गार्हपत्यागार᳘स्य वा शा᳘खामु᳘पगूहति य᳘जमानस्य पशू᳘न्पाही᳘ति तद्ब्र᳘ह्मणैॗवैतद्य᳘जमानस्य पशून्प᳘रिददाति गु᳘प्त्यै॥

मूलम् - विस्वरम्

अथाहवनीयागारस्य वा पुरस्ताद् गार्हपत्यागारस्य वा शाखामुपगूहति । “यजमानस्य पशून् पाहि”- (वा० सं० १ । १) इति । तद् ब्रह्मणैवैतद्यजमानस्य पशून् परिददाति गुप्त्यै ॥ ८ ॥

सायणः

शाखागूह्यप्रदेशविशेषम्, तत्र समन्त्रकं गूहनञ्चाह- अथाहवनीयागारस्येति । अग्निपुरोदेशे स्थापयन्नध्वर्युः अमुं मन्त्रं ब्रूयात्- यजमानस्येति (का. श्रौ .सू. ४. ४०) 12 । हे शाखे ! त्वं ‘यजमानस्य पशून्’ रक्ष । एतन्मन्त्रपाठतात्पर्यमाह- तद्ब्रह्मणैवेति । एतन्मन्त्रपाठेन शाखायै पशूनां परिदानं तदधीनत्वेन रक्षणार्थम् ॥ ८॥

Eggeling
  1. He then hides the branch on the front (eastern) side either of the Āhavanīya or the Gārhapatya house, with the formula (Vāj. S. I, 1 e), ‘Protect the sacrificer’s cattle!’ he thus makes over the sacrificer’s cattle to it for protection by means of the Brahman (sacred writ).

०९

विश्वास-प्रस्तुतिः

त᳘स्यां पवि᳘त्रं करोति॥
व्व᳘सोः पवि᳘त्रमसी᳘ति यज्ञो वै व्व᳘सुस्त᳘स्मादाह व्वसोः पवि᳘त्रमसी᳘ति॥

मूलम् - श्रीधरादि

त᳘स्यां पवि᳘त्रं करोति॥
व्व᳘सोः पवि᳘त्रमसी᳘ति यज्ञो वै व्व᳘सुस्त᳘स्मादाह व्वसोः पवि᳘त्रमसी᳘ति॥

मूलम् - Weber

त᳘स्याम् पवि᳘त्रं करोति॥
व᳘सोः पवि᳘त्रमसी᳘ति यज्ञो वै व᳘सुस्त᳘स्मादाह वसोः पवि᳘त्रमसी᳘ति॥

मूलम् - विस्वरम्

तस्यां पवित्रं करोति- “वसोः पवित्रमसि”- (वा० सं० १ । २) इति । यज्ञो वै वसुः । तस्मादाह- “वसोः पवित्रमति”- इति ॥ ९ ॥

सायणः

इदानीं दोहनार्थं शाखायां समन्त्रकं पवित्रबन्धनं विधत्ते- तस्यां पवित्रमिति । (दोहनार्थं) ‘तस्यां’ शाखायां ‘पवित्रं’ कुशद्वयात्मकं त्रिवृतं वा ‘करोति’ बध्नीयात् । तथा च सूत्रम्- “वसोः पवित्रमिति पवित्रमस्यां बध्नाति कुशो” (का. श्रौ. सू. ४. ४४) “त्रिवृद्वा” इति (का. श्रौ. सू. ४. ४५.) । ‘वसु’ शब्दार्थमाह- यज्ञो वा इति । पुनात्यनेनेति (पा. सू. ३. २. १८५) ‘पवित्रम्’ 12 तस्मिन्नित्यर्थः ॥ ९॥

Eggeling
  1. On it he fastens a strainer (pavitram) 13, with

the formula (Vāj. S. I, 2 a), ‘Vasu’s means of purification (ventilator, strainer, pavitram) art thou!’ Vasu, indeed, is the sacrifice: for this reason he says, ‘Vasu’s means of purification art thou!’

१०

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यवा᳘ग्वैताᳫँ᳭रा᳘त्रिमग्निहोत्रं᳘ जुहोति॥
(त्या᳘) आ᳘दिष्टं वा᳘ ऽएत᳘द्देव᳘तायै हवि᳘र्भवति यत्प᳘यः स यत्प᳘यसा जुहुयाद्य᳘थान्य᳘स्यै देव᳘तायै हवि᳘र्गृहीतं त᳘दन्य᳘स्यै जुहुया᳘देवं तत्त᳘स्माद्यवा᳘ग्वैताᳫँ᳭रा᳘त्रिमग्निहोत्रं᳘ जुहो᳘ति जु᳘ह्वत्यग्निहोत्रमु᳘पकॢप्तोखा भ᳘वत्य᳘थाहो᳘पसृष्टां प्र᳘ब्रूतादि᳘ति यदा प्राहो᳘पसृष्टेति᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यवा᳘ग्वैताᳫँ᳭रा᳘त्रिमग्निहोत्रं᳘ जुहोति॥
(त्या᳘) आ᳘दिष्टं वा᳘ ऽएत᳘द्देव᳘तायै हवि᳘र्भवति यत्प᳘यः स यत्प᳘यसा जुहुयाद्य᳘थान्य᳘स्यै देव᳘तायै हवि᳘र्गृहीतं त᳘दन्य᳘स्यै जुहुया᳘देवं तत्त᳘स्माद्यवा᳘ग्वैताᳫँ᳭रा᳘त्रिमग्निहोत्रं᳘ जुहो᳘ति जु᳘ह्वत्यग्निहोत्रमु᳘पकॢप्तोखा भ᳘वत्य᳘थाहो᳘पसृष्टां प्र᳘ब्रूतादि᳘ति यदा प्राहो᳘पसृष्टेति᳘॥

मूलम् - Weber

अ᳘थ यवा᳘ग्वैतां रा᳘त्रिमग्निहोत्रं᳘ जुहोति॥
आ᳘दिष्टं वा᳘ एत᳘द्देव᳘तायै हवि᳘र्भवति यत्प᳘यः स यत्प᳘यसा जुहुयाद्य᳘थान्य᳘स्यै देव᳘तायै हवि᳘र्गृहीतं त᳘दन्य᳘स्यै जुहुया᳘देवं तत्त᳘स्माद्यवा᳘ग्वैतां रा᳘त्रिमग्निहोत्रं᳘ जुहोति 14 जु᳘ह्वत्यग्निहोत्रमु᳘पकॢप्तोखा᳘ भवत्य᳘थाहो᳘पसृष्टाम् प्र᳘ब्रूतादे᳘ति यदा प्राहो᳘पसृष्टे᳘ति॥

मूलम् - विस्वरम्

अथ यवाग्वैतां रात्रिमग्निहोत्रं जुहोति । आदिष्टं वा एतद्देवतायै हविर्भवति यत् पयः । स यत् पयसा जुहुयाद्- यथा ऽन्यस्यै देवतायै हविर्गृहीतं तदन्यस्यै जुहुयाद्- एवं तत् । तस्माद्यवाग्वैतां रात्रिमग्निहोत्रं जुहोति । जुह्वत्यग्निहोत्रम्- उपक्ऌतोरवा भवति- अथाह- “उपसृष्टां प्रब्रूतात्” इति । यदा प्राह- उपसृष्टेति ॥ १० ॥

सायणः

अमावास्यायां रात्रौ सन्नयतः क्षीरस्यान्नार्थत्वेन नियोगादग्निहोत्रस्य द्रव्यान्तरं विधत्ते- अथ यवाग्वेति । एतच्छब्दार्थमाह- यत्पय इति । विपक्षबाधपुरःसरं स्वपक्षमुपसंहरति- स यत्पयसेति । इन्द्रार्थस्य दुग्धस्य अग्न्यर्थत्वस्याप्युक्तत्वात् । यद् यवाग्वैव होतव्यम् । “यवाग्वा ऽग्निहोत्रहोमः 14 सन्नयतः”- (का. श्रौ. सू. ४ अ. ४६ सू.) इति कात्यायनः । जुह्वत्यग्निहोत्रमिति । दोहकालोपलक्षणार्थम्, जुह्वति समकालम्; तद्धोमे परिसमाप्त एव ‘उखा’ सान्नाय्यस्थाली सा अध्वर्युणा श्रपणप्रदेशे ‘उपक्ऌप्ता’ भवति । तस्याः समानयनानन्तरम् ‘उपसृष्टां’ वत्सेन सङ्गताम् ‘प्रब्रूतात्’- ‘इति’ दोग्धारं प्रत्यध्वर्युः प्राह ‘यदा’ उपसृष्टा 15, तदा ‘उपसृष्टेति’ दोग्धा ‘प्राह’ ब्रूयादित्यर्थः । दोग्धा च शूद्रव्यतिरिक्तो भवेत्; “वाग्यतो दोहयत्यशूद्रेण” 16- (का. श्रौ. सू. ४ । ५१ सू.) इति सूत्रात् ॥ १० ॥

Eggeling
  1. That night he performs the Agnihotra with rice-gruel (yavāgū). That milk, namely, (which he milks that night) has already been announced as sacrificial food to a (special) deity; hence, if he were to make the offering with milk, he would offer to one deity that which has been set apart as sacrificial food for another deity: this is the reason why on that night he performs the Agnihotra with rice-gruel. As soon as they have performed the Agnihotra, the pot is made ready. He (the Adhvaryu) thereupon says, ‘Announce that she (the cow) has been let loose to (the calf)!’ When he (or she, the milker 17) announces, ‘She has been let loose!’–

११

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोखामा᳘दत्ते। द्यौ᳘रसि पृथि᳘व्यसीत्यु᳘पस्तौत्ये᳘वैनामेत᳘न्यह᳘यत्येव यदा᳘ह द्यौ᳘रसि पृथि᳘व्यसी᳘ति मातरि᳘श्वनो घ᳘र्मो ऽसी᳘ति यज्ञ᳘मे᳘वैत᳘त्करोति य᳘था घर्म्मं᳘ प्रवृञ्ज्या᳘देवं प्र᳘वृणक्ति व्विश्व᳘धा ऽअसि परमे᳘ण धा᳘म्ना दृ᳘ᳫँ᳭ हस्व मा᳘ह्वारि᳘ति दृ᳘ᳫँ᳭हत्ये᳘वैनामेतद᳘शिथिलां करोति मा᳘ते यज्ञ᳘पतिर्ह्वार्षीदि᳘ति य᳘जमानो वै᳘ यज्ञ᳘पतिस्तद्य᳘जमानायै᳘वैतद᳘ह्वलामा᳘शास्ते᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोखामा᳘दत्ते। द्यौ᳘रसि पृथि᳘व्यसीत्यु᳘पस्तौत्ये᳘वैनामेत᳘न्यह᳘यत्येव यदा᳘ह द्यौ᳘रसि पृथि᳘व्यसी᳘ति मातरि᳘श्वनो घ᳘र्मो ऽसी᳘ति यज्ञ᳘मे᳘वैत᳘त्करोति य᳘था घर्म्मं᳘ प्रवृञ्ज्या᳘देवं प्र᳘वृणक्ति व्विश्व᳘धा ऽअसि परमे᳘ण धा᳘म्ना दृ᳘ᳫँ᳭ हस्व मा᳘ह्वारि᳘ति दृ᳘ᳫँ᳭हत्ये᳘वैनामेतद᳘शिथिलां करोति मा᳘ते यज्ञ᳘पतिर्ह्वार्षीदि᳘ति य᳘जमानो वै᳘ यज्ञ᳘पतिस्तद्य᳘जमानायै᳘वैतद᳘ह्वलामा᳘शास्ते᳘॥

मूलम् - Weber

अ᳘थोखामा᳘दत्ते द्यौ᳘रसि पृथिव्य᳘सीत्यु᳘पस्तौत्येॗवैनामेत᳘न्यह᳘यत्येव यदा᳘ह द्यौ᳘रसि पृथिव्य᳘सी᳘ति मातरि᳘श्वनो घॗर्मो ऽसीति यज्ञ᳘मेॗवैत᳘त्करोति य᳘था घर्म᳘म् प्रवृञ्ज्या᳘देवम् प्र᳘वृणक्ति विश्व᳘धा असि परमे᳘ण धा᳘म्ना दृ᳘ᳫं᳘हस्व मा᳘ ह्वारि᳘ति दृ᳘ᳫं᳘हत्येॗवैनामेतद᳘शिथिलां करोति मा᳘ ते यज्ञ᳘पतिर्ह्वार्षीदि᳘ति य᳘जमानो वै᳘ यज्ञ᳘पतिस्तद्य᳘जमानायैॗवैतद᳘ह्वलामा᳘शास्ते॥

मूलम् - विस्वरम्

अथोखामादत्ते- “द्यौरसि पृथिव्यसि”- (वा० सं० १ । २) इति । उपस्तौत्येवैनामेतत्, महयत्येव, यदाह- “द्यौरसि पृथिव्यसि”- इति । “मातरिश्वनो घर्मो ऽसि”- (वा० सं० १ । २) इति । यज्ञमेवैतत् करोति । यथा घर्मं प्रवृञ्ज्याद्- एवं प्रवृणक्ति । “विश्वधा असि परमेण धाम्ना दृंहस्व मा ह्वाः”- (वा० सं० १ । २) इति । दृंहत्येवैनामेतद्- अशिथिलां करोति । “मा ते यज्ञपतिर्ह्वार्षीद्”- (वा० सं० १ । २) इति- यजमानो वै यज्ञपतिः । तद् यजमानानैवैतदह्वलामाशास्ते ॥ ११ ॥

सायणः

अध्वर्योः समन्त्रकं स्थाल्यादानं 14 विधत्ते- अथोखामिति । उखायाः द्यु-पृथिव्यात्मकत्वस्य कदाचिदप्यसम्भवात् उपस्तुतिमात्रमिदमित्याह- उपस्तौत्येवेति । सापि किमर्थेत्यत आह- महयत्येवेति । स्तुत्या पूजनं लोके प्रसिद्धम् । अधिश्रयणे 15 मन्त्रमाह- मातरिश्वन इति । ‘मातरि’ अन्तरिक्षे श्वयतीति ‘मातरिश्वा’ वायुरादित्यो वा (निरुक्त. ७ । ७ । ४) तस्य धर्म्मस्त्वमसि; तेन दीप्यमानत्वात् एतत्पाठेन ‘यज्ञमेव’ कृतवान् भवति । तत्कथमिति, तदुपपादयति- यथेति । यज्ञे ‘यथा’ ‘धर्मं’ प्रवर्ग्यं ‘प्रवृञ्ज्यात्’, ‘एवं’ स्थाल्यधिश्रयणेन ‘प्रवृणक्ति’ प्रवर्ग्यं कृतवान् भवति; अतो यज्ञसम्पादनम् । “विश्वधायाः” -इति मन्त्रभागस्य तात्पर्याभिधानं स्पष्टम् । “मा ते” -इति मन्त्रभागे ‘यज्ञपति’- शब्दार्थमाह- यजमानो वा इति । ‘ह्वला’ नाशः, तदभावम् ‘आशास्ते’ - ‘मा ह्वार्षीत्’ -इत्यनेन । “ह्वृ-कौटिल्ये” (धा. पा. भ्वा. प. ९३१) इति धातुः ॥ ११ ॥

Eggeling
  1. He puts the pot on (the Gārhapatya hearth), with the text (Vāj. S. I, 2 b, c): ‘Thou art the sky! thou art the earth!’–he praises and eulogises her by thus saying, ’thou art the sky! thou art the earth!’–‘Mātariśvan’s cauldron (gharma) art thou 18!’ he thereby makes it (a means of) sacrifice, and puts it on just as if he were putting on the

(pravargya-) cauldron (gharma) 19.–‘All-holding art thou! stand firm by the highest law! do not waver!’–thereby he steadies it, renders it firm.–‘May thy Lord of Sacrifice not waver!’–the Lord of Sacrifice, doubtless, is the sacrificer, hence it is for the sacrificer that he thereby prays for steadiness.

१२

विश्वास-प्रस्तुतिः

(स्ते᳘ ऽथ) अ᳘थ पवि᳘त्रं नि᳘दधाति॥
तद्वै प्राङ्नि᳘दध्यात्प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दगु᳘दीची हि᳘ मनु᳘ष्याणां दि᳘गयं वै᳘ पवि᳘त्रं᳘ यो ऽयं प᳘वते᳘ सो ऽय᳘मिमाल्ँ᳘लोकां᳘स्तिर्यङ्ङ᳘नुपवते त᳘स्मादु᳘दङ्निदध्यात्॥

मूलम् - श्रीधरादि

(स्ते᳘ ऽथ) अ᳘थ पवि᳘त्रं नि᳘दधाति॥
तद्वै प्राङ्नि᳘दध्यात्प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो ऽउ᳘दगु᳘दीची हि᳘ मनु᳘ष्याणां दि᳘गयं वै᳘ पवि᳘त्रं᳘ यो ऽयं प᳘वते᳘ सो ऽय᳘मिमाल्ँ᳘लोकां᳘स्तिर्यङ्ङ᳘नुपवते त᳘स्मादु᳘दङ्निदध्यात्॥

मूलम् - Weber

अ᳘थ पवि᳘त्रं नि᳘दधति॥
तद्वै प्राङ्निदध्यात्प्रा᳘ची हि᳘ देवा᳘नां दिग᳘थो उ᳘दगु᳘दीची हि᳘ मनुॗष्याणां दि᳘गयं वै᳘ पविॗत्रं यो ऽयम् प᳘वतेॗ सो ऽय᳘मिमां᳘ल्लोका᳘ᳫं᳘स्तिर्यङ्ङनुपवते त᳘स्मादु᳘दङ्निदध्यात्॥

मूलम् - विस्वरम्

अथ पवित्रं निदधाति । तद्वै प्राङ् निदध्यात् । प्राची हि देवानां दिक् । अथो उदक् । उदीची हि मनुष्याणां दिक् । अयं वै पवित्रम्, यो ऽयं पवते । सो ऽयमिमाल्ँ लोकांस्तिर्यङ्ङनुपवते । तस्मादुदङ् निदध्यात् ॥ १२ ॥

सायणः

अथ पवित्रस्थापनं तदग्रनियमञ्चाह 20- अथ पवित्रमिति । वत्सापाकरणानन्तरं यत् शाखापवित्रं कृतम्, तत् प्रागग्रं स्थाल्यां ‘निदध्यात्’ । दैव्यस्य पवित्रस्य देवदिगाभिमुख्यं युक्तम्; प्राच्या इन्द्राधिष्ठितत्वात्, इन्द्रस्य च सर्वदेवतात्मकत्वात्, तद्देवत्यं पवित्रम् । दिगन्तरमाह- अथो ऽउदगुदीची हीति । उत्तरस्यां प्रायेण मनुष्यप्राचुर्यात् । किञ्च यस्माज्जगत्पवित्रभूतो वायुरपि ‘तिर्यङ्ङनुपवते’ तिर्यग् गच्छति; अतो ऽस्यापि पवित्रत्वात् तत्सौम्याय ‘उदङ् निदध्यात्’ ॥ १२ ॥

Eggeling
  1. He then puts the strainer (on the pot). He puts it down with the top turned eastwards, for the east is the region of the gods; or with the top turned northwards, for the north is the region of the men; means of purification (pavitram) assuredly is that (wind) which here blows, it sweeps across these worlds: let him therefore put it down with the front northwards 21.

१३

विश्वास-प्रस्तुतिः

(त्त) तद्य᳘थै᳘वादः॥
सो᳘मᳫँ᳭रा᳘जानं पवि᳘त्रेण सम्पाव᳘यन्त्येव᳘मे᳘वैतत्स᳘म्पावयत्युदीची᳘नदशं वै त᳘त्पवि᳘त्रं भवति ये᳘न तत्सो᳘मᳫँ᳭रा᳘जानᳫं᳭सम्पाव᳘यन्ति त᳘स्मादु᳘दङ्नि᳘दध्यात्॥

मूलम् - श्रीधरादि

(त्त) तद्य᳘थै᳘वादः॥
सो᳘मᳫँ᳭रा᳘जानं पवि᳘त्रेण सम्पाव᳘यन्त्येव᳘मे᳘वैतत्स᳘म्पावयत्युदीची᳘नदशं वै त᳘त्पवि᳘त्रं भवति ये᳘न तत्सो᳘मᳫँ᳭रा᳘जानᳫं᳭सम्पाव᳘यन्ति त᳘स्मादु᳘दङ्नि᳘दध्यात्॥

मूलम् - Weber

तद्य᳘थैॗवादः᳟॥
सो᳘मं रा᳘जानम् पवि᳘त्रेण सम्पाव᳘यन्त्येव᳘मेॗवैतत्स᳘म्पावयत्युदीची᳘नदशं वै त᳘त्पवि᳘त्रम् भवति ये᳘न तत्सो᳘मं रा᳘जानᳫं सम्पाव᳘यन्ति त᳘स्मादु᳘दङ्निदध्यात्॥

मूलम् - विस्वरम्

तद्यथैवादः सोमं राजानं पवित्रेण सम्पावयन्ति- एवमेवैतत् सम्पावयति । उदीचीनदशं वै तत् पवित्रं भवति- येन तत् सोमं राजानं सम्पावयन्ति । तस्मादुदङ् निदध्यात् ॥ १३ ॥

सायणः

सान्नाय्यस्य सोमात्मकत्वात् तत्पवनसाधनदशापवित्रवदस्याप्युदगग्रत्वं युक्तमिति सदृष्टान्तमाह-तद्यथैवाद इति ॥ १३ ॥

Eggeling
  1. Just as then (i.e. at the Soma-sacrifice) they clarify king Soma with a strainer, in like manner he now clarifies (the milk); and since the strainer wherewith on that occasion they clarify king Soma has its fringe directed towards the north, therefore let him now also put it down with the top northward.

१४

विश्वास-प्रस्तुतिः

(त्त) तन्नि᳘दधाति व्व᳘सोः पवि᳘त्रमसी᳘ति॥
यज्ञो वै व्वसुस्त᳘स्मादाह व्व᳘सोः पवि᳘त्रमसी᳘ति शत᳘धारᳫँ᳭ सह᳘स्रधारमित्यु᳘पस्तौत्ये᳘वैनदेत᳘न्मह᳘यत्येव यदा᳘ह शत᳘धारᳫँ᳭ सह᳘स्रधारमि᳘ति॥

मूलम् - श्रीधरादि

(त्त) तन्नि᳘दधाति व्व᳘सोः पवि᳘त्रमसी᳘ति॥
यज्ञो वै व्वसुस्त᳘स्मादाह व्व᳘सोः पवि᳘त्रमसी᳘ति शत᳘धारᳫँ᳭ सह᳘स्रधारमित्यु᳘पस्तौत्ये᳘वैनदेत᳘न्मह᳘यत्येव यदा᳘ह शत᳘धारᳫँ᳭ सह᳘स्रधारमि᳘ति॥

मूलम् - Weber

तन्नि᳘दधाति॥
व᳘सोः पवि᳘त्रमसी᳘ति यज्ञो वै वसुस्त᳘स्मादाह व᳘सोः पवि᳘त्रमसी᳘ति शत᳘धारᳫं सह᳘स्रधारमित्यु᳘पस्तौत्येॗवैनदेत᳘न्मह᳘यत्येव यदा᳘ह शत᳘धारᳫं सह᳘स्रधारमि᳘ति॥

मूलम् - विस्वरम्

तन्निदधाति- “वसोः पवित्रमसि”- (वा० सं० १ । ३) इति । यज्ञो वै वसुः । तस्मादाह- “वसोः पवित्रमसि” इति । “शतधारं सहस्रधारम्” -(वा. सं० १ । ३) इति । उपस्तौत्येवैनदेतद्, महयत्येव यदाह- “शतधारं सहस्रधारम्” इति ॥ १४ ॥

सायणः

पवित्रनिधानस्य मन्त्रमाह- तन्निदधाति वसोरिति (का. श्रौ. सू. ४ अ. ५२ सू.) ॥ १४ ॥

Eggeling
  1. He puts it down, with the text (Vāj. S. I, 3 a), ‘Vasu’s means of purification (pavitram) art thou!’–Vasu, indeed, is the sacrifice: for this reason he says, ‘Vasu’s means of purification art thou! flowing in a hundred streams, flowing in a thousand streams!’–he praises and eulogises it when he says, ‘flowing in a hundred streams, flowing in a thousand streams.’

१५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ वाचंयमो᳘ भवति। (त्या᳘) आ᳘ तिसृणां दो᳘ग्धोर्व्वाग्वै᳘ यज्ञो᳘ व्विक्षुब्धो यज्ञं᳘ तनवा ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ वाचंयमो᳘ भवति। (त्या᳘) आ᳘ तिसृणां दो᳘ग्धोर्व्वाग्वै᳘ यज्ञो᳘ व्विक्षुब्धो यज्ञं᳘ तनवा ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ वाचंयमो᳘ भवति आ᳘ तिसृणां दो᳘ग्धोर्वाग्वै᳘ यज्ञो᳘ ऽविक्षुब्धो यज्ञं᳘ तनवा इ᳘ति॥

मूलम् - विस्वरम्

अथ वाचंयमो भवति- आ तिसृणां दोग्धोः । वाग्वै यज्ञः । अविक्षुब्धो यज्ञं तनवा- इति ॥ १५॥

सायणः

मौनकालनियमावधिमाह- अथेति । ‘तिसृणां दोग्धोः’ तिसृणां गवां दोहावधि । ‘वाचा’ मन्त्रेण साध्यत्वात् ‘वाग्-यज्ञः’ । अथ वाक्शब्देन नियता वाग् विवक्षिता । वाचि यज्ञोपयोगिन्यां सत्यां मनसि विक्षेपो भवति, तत्परिहाराय वाङ्नियमविधानम् ॥ १५ ॥

Eggeling
  1. He now maintains silence as long as the milking of the three (cows) lasts, for the sacrifice, doubtless, is speech: ‘May I perform the sacrifice undisturbed!’ so he thinks.

१६

विश्वास-प्रस्तुतिः

त᳘दानीय᳘मानमभि᳘मन्त्रयते॥
देव᳘स्त्वा सविता᳘ पुनातु व्व᳘सोः पवि᳘त्रेण शत᳘धारेण सुप्वे᳘ति तद्य᳘थै᳘वादः सो᳘मᳫँ᳭ रा᳘जानं पवि᳘त्रेण सम्पाव᳘यन्त्येव᳘मे᳘वैतत्स᳘म्पावयति᳘॥

मूलम् - श्रीधरादि

त᳘दानीय᳘मानमभि᳘मन्त्रयते॥
देव᳘स्त्वा सविता᳘ पुनातु व्व᳘सोः पवि᳘त्रेण शत᳘धारेण सुप्वे᳘ति तद्य᳘थै᳘वादः सो᳘मᳫँ᳭ रा᳘जानं पवि᳘त्रेण सम्पाव᳘यन्त्येव᳘मे᳘वैतत्स᳘म्पावयति᳘॥

मूलम् - Weber

त᳘दानीय᳘मानमभि᳘मन्त्रयते॥
देव᳘स्त्वा सविता᳘ पुनातु व᳘सोः पवि᳘त्रेण शत᳘धारेण सुप्वे᳘ति तद्य᳘थैॗवादः सो᳘मं रा᳘जानम् पवि᳘त्रेण सम्पाव᳘यन्त्येव᳘मेॗवैतत्स᳘म्पावयति॥

मूलम् - विस्वरम्

तदानीयमानमभिमन्त्रयते- “देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्वा” -(वा० सं० १ । ३) इति । तद् यथैवादः सोमं राजानं पवित्रेण सम्पावयन्ति- एवमेवैतत् सम्पावयति ॥ १६ ॥

सायणः

पयस आसेचनसमये अध्वर्योर्जपं विधत्ते- तदानीयमानमिति । अभिमन्त्रणम् ‘आभिमुख्येन जपः; “स्थाल्यन्वारब्धे देवस्त्वा” -इति- “आसिच्यमाने जपति” इति सूत्रात् (का. श्रौ. सू. ४ अ. ५२ सू.) ‘सुप्वा’ सुष्ठु पवित्रेण पावयित्वा । स्पष्टमन्यत् ॥ १६ ॥

Eggeling
  1. When it (the milk of each of the three cows) is poured (by the milker from the wooden pail through the strainer into the pot), he (the Adhvaryu) consecrates it by (whispering each time) the formula (Vāj. S. I, 3 b), ‘May the divine Savitr̥ purify thee with Vasu’s means of purification, well cleansing and flowing in a hundred streams!’ for just as then (at the Soma-sacrifice) they clarify king Soma with a strainer, so he thereby clarifies (the milk).

१७

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थाह का᳘मधुक्ष ऽइ᳘ति। अमूमि᳘ति सा᳘ व्विश्वा᳘युरित्य᳘थ द्विती᳘यां पृच्छति का᳘मधुक्ष ऽइ᳘त्यमूमि᳘ति सा᳘ व्विश्व᳘कर्मेत्य᳘थ तृती᳘यां पृच्छति का᳘मधुक्ष ऽइ᳘त्यमूमि᳘ति सा᳘ व्विश्व᳘धाया इ᳘ति तद्य᳘त्पृच्छ᳘ति व्वी᳘र्याण्ये᳘वास्वेत᳘द्दधाति तिस्रो᳘ दोग्धि त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽएभ्य᳘ ऽए᳘वैनदेत᳘ल्लोके᳘भ्यः स᳘म्भरत्य᳘थ का᳘मं व्वदति᳘॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थाह का᳘मधुक्ष ऽइ᳘ति। अमूमि᳘ति सा᳘ व्विश्वा᳘युरित्य᳘थ द्विती᳘यां पृच्छति का᳘मधुक्ष ऽइ᳘त्यमूमि᳘ति सा᳘ व्विश्व᳘कर्मेत्य᳘थ तृती᳘यां पृच्छति का᳘मधुक्ष ऽइ᳘त्यमूमि᳘ति सा᳘ व्विश्व᳘धाया इ᳘ति तद्य᳘त्पृच्छ᳘ति व्वी᳘र्याण्ये᳘वास्वेत᳘द्दधाति तिस्रो᳘ दोग्धि त्र᳘यो वा᳘ ऽइमे᳘ लोका᳘ ऽएभ्य᳘ ऽए᳘वैनदेत᳘ल्लोके᳘भ्यः स᳘म्भरत्य᳘थ का᳘मं व्वदति᳘॥

मूलम् - Weber

अ᳘थाह का᳘मधुक्ष इ᳘ति अमूमि᳘ति सा᳘ विश्वा᳘युरित्य᳘थ द्विती᳘याम् पृछति का᳘मधुक्ष इ᳘त्यमूमि᳘ति सा᳘ विश्व᳘कर्मेत्य᳘थ तृती᳘याम् पृछति का᳘मधुक्ष इ᳘त्यमूमि᳘ति सा᳘ विश्व᳘धाया इ᳘ति तद्य᳘त्पृछ᳘ति वीॗर्याण्येॗवास्वेत᳘द्दधाति तिस्रो᳘ दोग्धि त्र᳘यो वा᳘ इमे᳘ लोका᳘ एभ्य᳘ एॗवैनदेत᳘ल्लोके᳘भ्यः स᳘म्भरत्य᳘थ का᳘मं वदति॥

मूलम् - विस्वरम्

अथाह- “कामधुक्षः” -(वा. सं. १ । ३) इति । अमूमिति । “सा विश्वायुः” -(वा० सं० १ । ४) इति । अथ द्वितीयां पृच्छति- कामधुक्ष- इति । अमूम्- इति । “सा विश्वकर्मा”- (वा० सं० १ । ४) इति । अथ तृतीयां पृच्छति- “कामधुक्ष” -इति । अमूमिति । “सा विश्वधायाः” -(वा० सं० १ । ४) इति । तद् यत्पृच्छति- वीर्याण्येवास्वेतद्द्धाति । तिस्रो दोग्धी । त्रयो वा इमे लोकाः । एभ्य एवैनतल्लोकेभ्यः सम्भरति, अथ कामं वदति ॥ १७ ॥

सायणः

अथाहेति । अध्वर्युः प्रथमायां गवि दुग्धायां ‘कां’ गाम् ‘अधुक्षः’ दुग्धवानसीति (“कामधुक्ष इति प्रश्नः” इति का. श्रौ. सू. ४. अ. ५३ सू.) ब्रूयात् । सो ऽपि दोग्धा गङ्गां गौरीमिति दुग्धाया गोर्नाम ‘अमूम्’ इति निर्दिशेत् । अथ सो ऽध्वर्युस्तां ‘सा विश्वायुः’ -‘इति’ ब्रूयात् । (“प्रोक्ते सा विश्वायुरित्याह” इति । का. श्रौ. सू. ४. ५४) एवमुत्तरयोरपि व्याख्या । ‘विश्वायुः’ बह्वन्ना, बहुक्षीरेत्यर्थः । ‘विश्वकर्मा’ बहुतृप्तिसाधनदोहकर्मोपेता (“एवमितरे उत्तराभ्यां प्रतिमन्त्रम्” इति का. श्रौ. सू. ४. ५५) ‘विश्वधाया’ धीयत इति ‘धायाः’ अन्नम् बह्वन्ना (का. श्रौ. सू. ४ अ. ५५ सू.) एवं प्रश्नपूर्वकं तासां गुणकथनेन तासु वीर्यमवस्थापयति । दोग्धव्यगवां सङ्ख्यां विधत्ते- तिस्रो दोग्धीति । तिसृभ्यः क्षीरसम्भर्त्ता त्रिभ्यो लोकेभ्य एव सम्भृतवान् भवति, अतः तिस्रो दुह्यात् । अत्र “यावत् स्वमधिकारात्” (का. श्रौ. सू. ४ अ. ५७ सू.) “तिस्रो वा नित्यत्वात्” इत्यादि (का. श्रौ. सू. ४ अ. ५८- ६० सूत्रं) द्रष्टव्यम् । अतः परं वाङ्नियमं विसृजेदित्याह- अथ कामं वदतीति ॥ १७ ॥

Eggeling
  1. He then says (Vāj. S. I, 3-4), ‘Which didst thou milk?’ ‘Such and such a one,’ (the milker replies.) ‘This one is Viśvāyu (containing all life),’ he (the Adhvaryu) says. He then 22 asks regarding the second one, ‘Which didst thou milk?’ ‘Such and such a one,’ is the reply. ‘This one is Viśvakarman (all-doing),’ he says. He then asks regarding the third, ‘Which didst thou milk?’ ‘Such and such a one,’ is the reply. ‘This one is Viśvadhāyas (all-sustaining),’ he says. The reason why he thus asks is that he thereby bestows certain energies on them. Three (cows) he milks, for three are these worlds: he thereby renders them fit for these worlds. He is now at liberty to speak.

१८

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थोत्तमां᳘ दोहयित्वा॥
ये᳘न दोह᳘यति पा᳘त्रेण त᳘स्मिन्नुदस्तोक᳘मानी᳘य पल्य᳘ङ्ग्य प्रत्या᳘नयति यद᳘त्र प᳘यसो᳘ ऽहायि त᳘दिहा᳘प्यसदि᳘ति र᳘सस्यो चैव᳘ सर्व्वत्वा᳘येदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौ᳘षधयो जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त ऽएष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्व्व᳘त्वा᳘य त᳘दुद्वास्या᳘तनक्ति तीव्री᳘करोत्ये᳘वैनदेतत्त᳘स्मादुद्वास्या᳘तनक्ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थोत्तमां᳘ दोहयित्वा॥
ये᳘न दोह᳘यति पा᳘त्रेण त᳘स्मिन्नुदस्तोक᳘मानी᳘य पल्य᳘ङ्ग्य प्रत्या᳘नयति यद᳘त्र प᳘यसो᳘ ऽहायि त᳘दिहा᳘प्यसदि᳘ति र᳘सस्यो चैव᳘ सर्व्वत्वा᳘येदᳫँ᳭ हि᳘ यदा व्व᳘र्षत्यथौ᳘षधयो जायन्त ऽओ᳘षधीर्ज᳘ग्ध्वापः᳘ पीत्वा त᳘त ऽएष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्व्व᳘त्वा᳘य त᳘दुद्वास्या᳘तनक्ति तीव्री᳘करोत्ये᳘वैनदेतत्त᳘स्मादुद्वास्या᳘तनक्ति॥

मूलम् - Weber

अ᳘थोत्तमां᳘ दोहयित्वा᳟॥
ये᳘न दोह᳘यति पा᳘त्रेण त᳘स्मिन्नुदस्तोक᳘मानी᳘य पल्य᳘ङ्य प्रत्या᳘नयति यद᳘त्र प᳘यसो᳘ ऽहायि त᳘दिहा᳘प्यसदि᳘ति र᳘सस्यो चैव᳘ सर्वत्वा᳘येदᳫं हि᳘ यदा व᳘र्षत्यथौ᳘षधयो जायन्त ओ᳘षधीर्जॗग्ध्वापः᳘ पीत्वा त᳘त एष र᳘सः स᳘म्भवति त᳘स्मादु र᳘सस्यो चैव᳘ सर्वत्वा᳘य त᳘दुद्वास्या᳘तनक्ति तीव्री᳘करोत्येॗवैनदेतत्त᳘स्मादुद्वास्या᳘तनक्ति॥

मूलम् - विस्वरम्

अथोत्तमां दोहयित्वा येन दोहयति पात्रेण- तस्मिन्नुदस्तोकमानीय, पल्यङ्ग्य, प्रत्यानयति । यदत्र पयसो ऽहायि तदिहाप्यसदिति । रसस्यो चैव सर्वत्वाय । इदं हि यदा वर्षति- अथौषधयो जायन्ते । ओषधीर्जग्ध्वा, अपः पीत्वा, तत एष रसः सम्भवति । तस्मादु रसस्यो चैव सर्वत्वाय । तदुद्वास्यातनक्ति । तीव्रीकरोत्येवैनदेतत् । तस्मादुद्वास्यातनक्ति ॥ १८ ॥

सायणः

दोहनपात्रक्षालनोदकस्य पुनः क्षीरे समर्पणमाह- अथोत्तमामिति ‘उदस्तोकम्’ उदकबिन्दुधारामित्यर्थः । ‘पल्यङ्ग्य’ परितो गमयित्वा, दोहपात्र उदकमासिच्य प्रक्षाल्येत्यर्थः । ‘पयसः अवशिष्टं ‘यत्’ ‘अहायि’ दृतमभूत् । तदिहापीति । ‘अपि’ -शब्दो भिन्नक्रमः, -तदपीह ‘असत्’ भवेदिति । एतत् सङ्क्षालनोदकानयनप्रयोजनम् । तदपि किमर्थमित्यत आह- रसस्यो चैवेति । ‘उ च, एव’ इति निपातत्रयम् । ‘रसस्य’ क्षीरस्यैव ‘सर्वत्वाय’ कार्त्स्न्याय । अस्तु नाम क्षीरांशेन सर्वत्वम्, तत्संयुक्तेन क्षालितोदकेन कथं सर्वत्वमित्युदकस्यापि क्षीरोपादानतामाह- इदं हि यदेति । परिक्षालनानयनमन्त्रः (तै. सं. १ कां. १ प्र. ३. १) सूत्रे दर्शितः- “परिक्षालनमानयति सम्पृच्यध्वमृतावरी” रित्यादिना (का. श्रौ. सू. ४ अ. ६१) । तदुद्वास्येत्यादि । आतञ्चनेनैतत् क्षीरं तीव्रीकृतवान् भवति । तीव्रीकरणं सारत्वकरणम् । क्षीरादपि दध्नो बलकरत्वं लोके दृष्टम्- “यन्मा धिनवत्तन्मे कुरुत” -इति ह्युक्तम् (श. ब्रा. ६ अ. ४ ब्रा ११ कं.) आतञ्चनद्रव्यं सूत्रकार आह- “प्राग्घुतशेषेण” (का. श्रौ. सू. ४ अ. ६२ सू.) यवाग्वेत्यर्थः ॥ १८ ॥

Eggeling
  1. After having the last (cow) milked, and having poured a drop of water into the pail which he has made the milker use, and stirred it, he pours it to (the milk) 23, thinking ‘what milk was left there, let that also be here!’–(he does so) for the completeness of the sap; for when it rains here, then plants spring up, and on the plants being eaten and the water drunk, thence is this juice produced: and therefore (the water is poured to the milk) for the completeness of the sap. Having then taken it off (the fire), he coagulates it 24: he thereby makes it sharp (pungent); for this reason he coagulates it, after taking it off (the fire).

१९

विश्वास-प्रस्तुतिः

स ऽआ᳘तनक्ति॥
(क्ती᳘) इ᳘न्द्रस्य त्वा भागᳫँ᳭सो᳘मेना᳘तनच्मी᳘ति तद्य᳘थै᳘वादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मे᳘वैत᳘द्देव᳘ताया ऽआ᳘दिशति यदाहे᳘न्द्रस्य त्वा भागमि᳘ति सो᳘मेना᳘तनच्मी᳘ति स्वद᳘यत्ये᳘वैनदेत᳘द्देवेभ्यः॥

मूलम् - श्रीधरादि

स ऽआ᳘तनक्ति॥
(क्ती᳘) इ᳘न्द्रस्य त्वा भागᳫँ᳭सो᳘मेना᳘तनच्मी᳘ति तद्य᳘थै᳘वादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मे᳘वैत᳘द्देव᳘ताया ऽआ᳘दिशति यदाहे᳘न्द्रस्य त्वा भागमि᳘ति सो᳘मेना᳘तनच्मी᳘ति स्वद᳘यत्ये᳘वैनदेत᳘द्देवेभ्यः॥

मूलम् - Weber

आ᳘तनक्ति॥
इ᳘न्द्रस्य त्वा भागᳫं सो᳘मेना᳘तनच्मी᳘ति तद्य᳘थैॗवादो᳘ देव᳘तायै हवि᳘र्गृह्ण᳘न्नादिश᳘त्येव᳘मेॗवैत᳘द्देव᳘ताया आ᳘दिशति यदाहे᳘न्द्रस्य त्वा भागमि᳘ति सो᳘मेना᳘तनच्मी᳘ति स्वद᳘यत्येॗवैनदेत᳘द्देवे᳘भ्यः॥

मूलम् - विस्वरम्

स आतनक्ति- “इन्द्रस्य त्वा भागं सोमेनातनच्मि” -(वा० सं० १ । ४) इति । तद् यथैवादो देवतायै हविर्गृह्णन्नादिशति- एवमेवैतद्देवताया आदिशति- यदाह- “इन्द्रस्य त्वा भागम्" -इति । “सोमेनातनच्मि”- इति । स्वदयत्येवैनदेतद्देवेभ्यः ॥ १९ ॥

सायणः

तत्र मन्त्रमाह- स आतनक्ति इन्द्रस्य त्वेति । मन्त्रे देवतानामनिर्द्देशं प्रशंसति- तद्यथेति । पूर्ववद्व्याख्येयम् (श. ब्रा. ७ अ. १ ब्रा. ६ कं.) सोमस्य देवतानामतिप्रियत्वात् कीर्तितेन एतद्धव्यं तेभ्यः स्वादु कृतवान् भवति ॥ १९ ॥

Eggeling
  1. He coagulates it, with the formula (Vāj. S. I, 4 d), ‘With Soma I coagulate thee, the portion of Indra!’ Just as on a former occasion 25, when taking sacrificial food for a deity, he announces it (to that deity), in like manner he now announces it to the deity, saying, ‘Thee, the portion of Indra!’ By saying ‘with Soma I coagulate thee,’ he makes it palatable to the gods.

२०

विश्वास-प्रस्तुतिः

(भ्यो᳘ ऽथो) अ᳘थोदक᳘वतोत्ताने᳘न पा᳘त्रेणा᳘पिदधाति॥
ने᳘देनदुप᳘रिष्टान्नाष्ट्रा र᳘क्षाᳫंस्यवमृ᳘शानि᳘ति व्व᳘ज्रो वा ऽआ᳘पस्तद्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫंस्यतो᳘ ऽपहन्ति त᳘स्मादुदक᳘वतोत्ताने᳘न पा᳘त्रेणा᳘पिदधाति॥

मूलम् - श्रीधरादि

(भ्यो᳘ ऽथो) अ᳘थोदक᳘वतोत्ताने᳘न पा᳘त्रेणा᳘पिदधाति॥
ने᳘देनदुप᳘रिष्टान्नाष्ट्रा र᳘क्षाᳫंस्यवमृ᳘शानि᳘ति व्व᳘ज्रो वा ऽआ᳘पस्तद्व᳘ज्रेणै᳘वैत᳘न्नाष्ट्रा र᳘क्षाᳫंस्यतो᳘ ऽपहन्ति त᳘स्मादुदक᳘वतोत्ताने᳘न पा᳘त्रेणा᳘पिदधाति॥

मूलम् - Weber

अ᳘थोदक᳘वतोत्ताने᳘न पा᳘त्रेणा᳘पिदधाति॥
ने᳘देनदुप᳘रिष्टान्नाष्ट्रा र᳘क्षांस्यवमृ᳘शानि᳘ति व᳘ज्रो वा आ᳘पस्तद्व᳘ज्रेणैॗवैत᳘न्नाष्ट्रा र᳘क्षांस्यतो᳘ ऽपहन्ति त᳘स्मादुदक᳘वतोत्ताने᳘न पा᳘त्रेणा᳘पिदधाति॥

मूलम् - विस्वरम्

अथोदकवतोत्तानेन पात्रेणापिदधाति । नेदेनदुपरिष्टान्नाष्ट्रा रक्षांस्यवमृशानिति । वज्रो वा आपः । तद्वज्रेणैवैतन्नाष्ट्रा रक्षांस्यतो ऽपहन्ति । तस्मादुदकवतोत्तानेन पात्रेणापिदधाति ॥ २० ॥

सायणः

अथोदकवतेति । पिधानपात्रस्योदकपूर्णत्वे प्रयोजनमाह- नेदिति । ‘नेत्’ -इति परिभये (“नेत्येष इदित्येतेन सम्प्रयुज्यते परिभये” इति निरु० १ । ३ । ६) यद्युदकपूर्णं न कुर्यात्, ‘एनत्’ क्षीरमुपरिभागे, ‘रक्षांसि’ ‘अवमृशान्’ अवमृशेयुः; एतद्भयावहमित्यर्थः । सोदकत्वे कथं तत्परिहार इति तदाह- वज्रो वा आप इति ॥ २० ॥

Eggeling
  1. He then covers it over by a vessel 26, with the hollow part upwards and containing water, ’lest the evil spirits, the Rakshas, should touch it from above;’ for water, indeed, is a thunderbolt; hence

he thus drives away from it the evil spirits, the Rakshas, with a thunderbolt: this is the reason why he covers it over by a vessel with the hollow part upwards and containing water.

२१

विश्वास-प्रस्तुतिः

सो ऽपिदधाति॥
व्वि᳘ष्णो हव्यᳫँ᳭रक्षेति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञा᳘यै᳘वैत᳘द्धविः प᳘रिददाति गु᳘प्त्यै त᳘स्मादाह व्वि᳘ष्णो हव्य᳘ᳫँ᳭ रक्षे᳘ति॥

मूलम् - श्रीधरादि

सो ऽपिदधाति॥
व्वि᳘ष्णो हव्यᳫँ᳭रक्षेति यज्ञो वै व्वि᳘ष्णुस्त᳘द्यज्ञा᳘यै᳘वैत᳘द्धविः प᳘रिददाति गु᳘प्त्यै त᳘स्मादाह व्वि᳘ष्णो हव्य᳘ᳫँ᳭ रक्षे᳘ति॥

मूलम् - Weber

सो᳘ ऽपिदधाति॥
वि᳘ष्णो हव्यं᳘ रक्षे᳘ति यज्ञो वै वि᳘ष्णुस्त᳘द्यज्ञा᳘यैॗवैत᳘द्धविः प᳘रिददाति गु᳘प्त्यै त᳘स्मादाह वि᳘ष्णो हव्यं᳘ रक्षे᳘ति॥

मूलम् - विस्वरम्

सो ऽपिदधाति- “विष्णो हव्यं रक्ष” -(वा० सं० १ । ४) इति । यज्ञो वै विष्णुः । तद्- यज्ञायैवैतद्धविः परिददाति गुप्त्यै । तस्मादाह- “विष्णो हव्यं रक्ष” -इति ॥ २१ ॥

सायणः

सो ऽपिदधातीति । पिधानमन्त्रे (“सोदकेनापिदधात्यमृण्मयेन 27 विष्णो हव्यमिति” इति का. श्रौ. सू. ४ अ. ६३ सू.) विष्णुशब्दार्थमाह- यज्ञो वा इति । स च त्रय्यात्मना व्यापित्वात् ‘यज्ञो विष्णुः’ ॥ २१ ॥ ४ ॥ ( ७. १ )

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनीये शतपथब्राह्मणभाष्ये प्रथमकाण्डे सप्तमाध्याये प्रथमं ब्राह्मणम् ॥ ( १ - ७ - १ ) ॥

Eggeling
  1. He covers it over, with the formula (Vāj. S. I, 4 e), ‘O Vishṇu, protect the oblation!’ for Vishṇu, indeed, is the sacrifice; hence he thereby makes over this sacrificial food to the sacrifice for protection: for this reason he says, ‘O Vishṇu, protect the oblation!’

  1. “सम्यङ्नीयते होमार्थमग्निं प्रति इति सान्नाय्यं हविर्विशेषः” इति (पा. सू. ३ । १ । १२९) सूत्रवृत्तौ दीक्षितः ॥ ‘तच्च दधिपयोलक्षणम्’ इति चात्रैव (११ । २ । ६ । ६) भाष्ये सायणः ॥ ‘सान्नाय्यं’ दुग्धदधिरूपं हविरिति (का. श्रौ. सू. ४ । २ । १७) सूत्रवृत्तौ याज्ञिकदेवश्च । सान्नाय्यविधानादिकं सर्वश्चेतः पूर्वस्मिन्त्राह्मणे ४ । ११ कण्डिकायां द्रष्टव्यम् ॥ ↩︎

  2. “आनयनायागच्छन्नाहरन्त्या” इति क्व. पा. । ↩︎

  3. “अपादस्ता” इति बहुषु पुस्तकेषु पाठः । स एव साधुः । अप-अदस्तम्-अनुपक्षीणमित्यर्थः । तै. आ. ४ । १ । २ तै. ब्रा. ३ । २ । ३ । १२ द्रष्टव्यम् । ↩︎

  4. 183:1 Parṇa = palāśa, Butea Frondosa. ↩︎

  5. 183:2 Gāyatryai vā somasya vā=‘both of G. and of S.,’ Sāyaṇa. Apād astā, ‘a footless shooter,’ is a doubtful reading and perhaps an old corruption; Sāyaṇa reads apādhastā (? adhastāt); cf. Weber, various readings, p. 133. The Kāṇva MS. reads, ‘devebhyas tasyā āharantyā avādastābhyāyatya parṇaṁ pracicheda.’ According to Rig-veda IV, 27, 3, it was the archer Kr̥śānu, who hit the falcon when it was carrying off the Soma from heaven, and brought down one of its feathers. On the whole myth, see A. Kuhn, Herabkunft des Feuers and des Göttertranks, p. 137 seq. Cf. Taitt. S. III, 5, 7, 1; Taitt. Br. I, 1, 3, 10, ‘Soma was in the third heaven from here; Gāyatrī fetched him away; one of his feathers was cut off, it became a parṇa (palāśa) tree.’ Similarly Taitt. Br. I, 2, 1, 6; see also Śat. Br. I, 8, 2, 10. ↩︎

  6. 184:1 ‘Somasya nyaktam,’ see p. 167, note 2. ↩︎

  7. 184:2 This act as well as that of letting the calves join the cows, of course, precedes the driving away of the calves. These proceedings take place on the day before the new moon, after the agnyanvādhāna. According to Kāty., the sacrificer enters on the vow of abstinence, after the branch has been cut. Previously to these rites, however, the so-called Piṇḍa-pitr̥yajña, or oblation of obsequial piṇḍas (balls, dumplings) to the deceased ancestors, has to be performed; for which see II, 4, 2, 1 seq. ↩︎

  8. “मातृभिर्वत्सान्सँ सृज्यवत्स शाखयोपस्पृशति वायवस्थेति” इति । ↩︎

  9. 184:3 Pavate, ‘blows, purifies.’ ↩︎

  10. 184:4 Thus Taitt. S. I, 1, 1, 1. ↩︎

  11. 185:1 Viz. on the occasion of his taking from the cart the rice for the oblations, see I, 1, 2, 17-19. ↩︎

  12. “यजमानस्य पशुनित्यग्न्यगारस्यान्यतरस्य पुरस्ताच्छाखामुपगूहति” इति । ↩︎ ↩︎

  13. 185:2 See p. 19, note 1. According to Karka this takes place before the hiding of the branch, Scholl. on Kāty. IV, 2, 15. According to Kāty. IV, 2, 12, 13, the upavesha (see I, 2, 1, 3) is cut at this juncture–with the text, ‘Accomplishing (vesha) art thou’–from the bottom part of the palāśa branch on the remaining part of which he thereupon fixes the strainer. When the sānnāyya oblation is not made (and consequently no palāśa branch is used), the upavesha is made of varaṇa wood. ↩︎

  14. यो यवाग्वैव नित्यमग्निहोत्रं जुहोति न तस्मा एतद्विधीयते, अपि तु यः पयसा नित्यमग्निहोत्रं जुहोति तस्य दर्शेष्ट्याः पूर्वद्युरमायां पयसः स्थाने यवागूर्विधीयते । येन द्रव्येणाग्निहोत्रमुपक्रमते तेनैव हविर्द्रव्येण यावज्जीवनं जुहुयादिति नियमस्यानेन शास्त्रेणापवादः । ↩︎ ↩︎ ↩︎

  15. वत्सेन संगता इत्यर्थः । ↩︎ ↩︎

  16. शुद्रपर्युदासात्क्षत्रियवैश्ययोरभ्यनुज्ञा इति कर्कः । त्रैवर्णिकेनेति माधवः । ↩︎

  17. 186:1 The milker may be anybody except a Sūdra, Taitt. Br. III, 2, 3, 9; Kāty. IV, 2, 22; Āpast. I, 12, 25. ↩︎

  18. 186:2 Mātariśvan’s cauldron is identified in Taitt. Br. III, 2, 3, 2 with the atmosphere. Mātariśvan, though sometimes identified with the wind, is more generally either a name of Agni, or the name of a mythic personage who (Prometheus-like) is supposed to have fetched the fire from heaven and brought it to the Bhr̥gus, who communicated it to man. See Roth, Nir. p. 111; Kuhn, Herabkunft des Feuers and des Göttertranks, p. 5 seq. ↩︎

  19. 187:1 See I, 2, 2, 7, and note. Compare also the interesting introduction to Dr. Garbe’s edition and translation of Āpastamba’s aphorisms on the Pravargya ceremony, Zeitsch. der D. Morg. Ges. XXXIV, p. 319 seq. ↩︎

  20. “वसोः पवित्रमिति पवित्रमस्यां करोत्युदग्वा” इति का. श्रौ. सू. ४ । ५० ॥ ↩︎

  21. 187:2 The direction from west to east is the chief one in all sacrificial arrangements: hence that from south to north is the one that lies across the former. ↩︎

  22. 188:1 That is, when the milk has been poured through the strainer as before. The Taittirīya school make the mystic names (or epithets) of the three cows Viśvāyu, Viśvavyacas (all-embracing), and Viśvakarman, cf. Taitt. S. I, 1, 3; Taitt. Br. III, 2, 3, 7. In the latter passage these names are, as here, identified with the earth, atmosphere, and heavens respectively. The milker, in replying to the Adhvaryu, apparently calls the cows by their ordinary names. Cf. p. 178, note 4. ↩︎

  23. 189:1 According to Taitt. S. I, 1, 3, Kāty. IV, 2, 32, &c., he, whilst doing so, pronounces the text, ‘Unite, ye that follow the eternal law, ye waving ones (with the wave, Katy.), ye sweetest,–[filling the milk with honey, Kāty.],–ye delightful ones, for the obtainment of wealth!’ ↩︎

  24. 189:2 Viz. by adding to it the (sour) milk that is left from the performance of the Agnihotra. ↩︎

  25. 189:3 See I, 1, 2, 18. ↩︎

  26. 189:4 According to Taitt. Br. III, 2, 3, 11, it may be either a metal or wooden vessel, but not an earthen one (Kāty. IV, 2, 34). ↩︎

  27. यदिमृण्मयंस्यात्तृणं दारुंवा ऽन्तर्दधाति ॥ ↩︎