०१

विश्वास-प्रस्तुतिः

त्व᳘ष्टुर्ह वै᳘ पुत्रः॥
(स्त्रि᳘) त्रि᳘शीर्षा षडक्ष᳘ ऽआस त᳘स्य त्री᳘ण्येव मु᳘खान्यासुस्तद्य᳘देव᳘ᳫँ᳘ रूप ऽआ᳘स त᳘स्माद्विश्व᳘रूपो ना᳘म॥

मूलम् - श्रीधरादि

त्व᳘ष्टुर्ह वै᳘ पुत्रः॥
(स्त्रि᳘) त्रि᳘शीर्षा षडक्ष᳘ ऽआस त᳘स्य त्री᳘ण्येव मु᳘खान्यासुस्तद्य᳘देव᳘ᳫँ᳘ रूप ऽआ᳘स त᳘स्माद्विश्व᳘रूपो ना᳘म॥

मूलम् - Weber

त्व᳘ष्टुर्ह वै᳘ पुत्रः᳟॥
त्रि᳘शीर्षा षडक्ष᳘ आस त᳘स्य त्री᳘ण्येव मु᳘खान्यासुस्तद्य᳘देवं᳘रूप आ᳘स त᳘स्माद्विश्व᳘रूपो ना᳘म॥

मूलम् - विस्वरम्

त्वष्टुर्ह वै पुत्रस्त्रिशीर्षा षडक्ष आस । तस्य त्रीण्येव मुखान्यासुः । तद्यदेवंरूप आस- तस्माद् विश्वरूपो नाम ॥ १ ॥

सायणः

अग्नीषोमीयमेकादशकपालं विधातुमाख्यायिकामाह- त्वेष्टुर्ह 1 वै पुत्र इति । पुरा किल ‘त्वष्टुः’ 2 शिरस्त्रयेण 3 युक्तः कश्चित् ‘पुत्रः’ बभूव । यतो ऽयमुक्तरीत्या बहुरूपः, अतः सः ‘विश्वरूपः’ इत्यन्वर्थनामा अभूत् ॥ १॥

Eggeling
  1. Tvashṭr̥ had a three-headed, six-eyed son. He had three mouths; and because he was thus shaped, his name was Viśvarūpa (‘All-shape’).

०२

विश्वास-प्रस्तुतिः

त᳘स्य सोमपा᳘नमेवै᳘कं मु᳘खमा᳘स॥
सुरापा᳘णमेकमन्य᳘स्मा ऽअ᳘शनायै᳘कं तमि᳘न्द्रो दिद्वेष त᳘स्य ता᳘नि शीर्षा᳘णि प्र᳘चिछेद॥

मूलम् - श्रीधरादि

त᳘स्य सोमपा᳘नमेवै᳘कं मु᳘खमा᳘स॥
सुरापा᳘णमेकमन्य᳘स्मा ऽअ᳘शनायै᳘कं तमि᳘न्द्रो दिद्वेष त᳘स्य ता᳘नि शीर्षा᳘णि प्र᳘चिछेद॥

मूलम् - Weber

त᳘स्य सोमपा᳘नमेवै᳘कम् मु᳘खमास॥
सुरापा᳘णमे᳘कमन्य᳘स्मा अ᳘शनायै᳘कं तमि᳘न्द्रो दिद्वेष त᳘स्य ता᳘नि शीर्षा᳘णि प्र᳘चिछेद॥

मूलम् - विस्वरम्

तस्य सोमपानमेवैकं मुखमास, सुरापाणमेकम्, अन्यस्मा अशनायैकम् । तमिन्द्रो दिद्वेष-तस्य तानि शीर्षाणि प्रचिच्छेद ॥ २ ॥

सायणः

तस्येति । ‘तस्य’ शिरस्त्रयगतेषु मुखत्रयेषु मध्ये ‘एक मुखं’ ‘सोमपान’ सोमः पीयते ऽनेनेति करणे ल्युट्, (पा. सू. ३ । ३ । ११७) सोमपानायाभूत् । अन्यन्मुखं ‘सुरापाणं’ सुरापानसाधनम् । ‘वा भावकरणयोः’ (पा. सू. ८-४-१०) इति णत्वम् । ‘अन्यस्मै’ पानव्यतिरिक्ताय ‘अशनाय’ भोजनाय ‘एकं मुखमासीत्’ ‘तं’ विश्वरूपं दृष्ट्वा ‘इन्द्रः’ ‘दिद्वेष’ द्वेषमकरोत् । द्वेषकारणं तैत्तिरीयके समाम्नातम् “स प्रत्यक्षं देवेभ्यो भागमवदत् । परोक्षमसुरेभ्यः” (तै. सं. २. ५. १. १.) इति । स क्रुद्ध इन्द्रः- ‘तानि’ त्रीण्यपि शिरांसि प्रचिच्छेद ॥ २ ॥

Eggeling
  1. One of his mouths was Soma-drinking, one spirit-drinking, and one for other kinds of food. Indra hated him and cut off those heads of his.

०३

विश्वास-प्रस्तुतिः

स य᳘त्सोमपा᳘नमा᳘स॥
त᳘तः कपि᳘ञ्जलः सम᳘भवत्त᳘स्मात्स᳘ बभ्रुक᳘ ऽइव बभ्रु᳘रिव हि सो᳘मो राजा᳘॥

मूलम् - श्रीधरादि

स य᳘त्सोमपा᳘नमा᳘स॥
त᳘तः कपि᳘ञ्जलः सम᳘भवत्त᳘स्मात्स᳘ बभ्रुक᳘ ऽइव बभ्रु᳘रिव हि सो᳘मो राजा᳘॥

मूलम् - Weber

स य᳘त्सोमपा᳘नमा᳘स॥
त᳘तः कपि᳘ञ्जलः स᳘मभवत्त᳘स्मात्स᳘बभ्रुक᳘ इव बभ्रु᳘रिव हि सो᳘मो रा᳘जा॥

मूलम् - विस्वरम्

स यत् सोमपानमास- ततः कपिञ्जलः समभवत् । तस्मात् स बभ्रुक इव । बभ्रुरिव हि सोमो राजा ॥ ३ ॥

सायणः

स यत्सोमपान इति । तेषु त्रिषु मुखेषु मध्ये ‘यत्’ सोमपानाय मुखं ‘ततः’ ‘कपिञ्जलः’ पक्षी ‘समभवत्’ “कपिञ्जलः कपिरिव जीर्णः, कपिरिव जवते, ईषत्पिङ्गलो वा 1" (नि. ३, ४, १) इति यास्कः । उक्तार्थविश्वासाय पक्षिणः सोमस्य च साम्यमाह- तस्मात् स बभ्रुक इवेति ॥ ३ ॥

Eggeling
  1. Now from the one which was Soma-drinking, a hazel-cock (francoline partridge) sprang forth; whence the latter is of brownish colour, for king Soma is brown.

०४

विश्वास-प्रस्तुतिः

(ऽथ) अ᳘थ य᳘त्सुरापा᳘णमा᳘स॥
त᳘तः कलवि᳘ङ्कः स᳘मभवत्त᳘स्मा᳘त्सो ऽभिमाद्यत्क᳘ ऽइव व्वदत्यभिमा᳘द्यन्निव हि सु᳘रां पीत्वा व्व᳘दति॥

मूलम् - श्रीधरादि

(ऽथ) अ᳘थ य᳘त्सुरापा᳘णमा᳘स॥
त᳘तः कलवि᳘ङ्कः स᳘मभवत्त᳘स्मा᳘त्सो ऽभिमाद्यत्क᳘ ऽइव व्वदत्यभिमा᳘द्यन्निव हि सु᳘रां पीत्वा व्व᳘दति॥

मूलम् - Weber

अ᳘थ य᳘त्सुरापा᳘णमा᳘स॥
त᳘तः कलवि᳘ङ्कः स᳘मभवत्त᳘स्माॗत्सो ऽभिमाद्यत्क᳘ इव वदत्यभिमा᳘द्यन्निव हि सु᳘राम् पीत्वा व᳘दति॥

मूलम् - विस्वरम्

अथ यत् सुरापानमास- ततः कलविङ्कः समभवत् । तस्मात् सो ऽभिमाद्यत्क इव वदति- अभिमाद्यन्निव हि सुरां पीत्वा बदति ॥ ४ ॥

सायणः

अथ यत् सुरापाणमिति । तथा कलविङ्को ऽपि शब्दयति, अतः- ततस्तदुत्पत्तिर्युक्ता ॥ ४ ॥

Eggeling
  1. From the one which was spirit-drinking, further, a sparrow sprang; whence the latter talks as if stammering, for he who has drunk spirits, talks as if he stammered.

०५

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ य᳘दन्य᳘स्मा ऽअ᳘शनाया᳘स॥
त᳘तस्तित्ति᳘रिः स᳘मभवत्त᳘स्मात्स᳘ व्विश्व᳘रूपतम ऽइव स᳘न्त्येव᳘ घृस्तोका᳘ ऽइव त्वन्मधुस्तोका᳘ ऽइव त्वत्पर्णेष्वा᳘श्चुतिता ऽएव᳘ᳫँ᳘ रूप᳘मिव हि स तेना᳘शनमा᳘वयत्॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ य᳘दन्य᳘स्मा ऽअ᳘शनाया᳘स॥
त᳘तस्तित्ति᳘रिः स᳘मभवत्त᳘स्मात्स᳘ व्विश्व᳘रूपतम ऽइव स᳘न्त्येव᳘ घृस्तोका᳘ ऽइव त्वन्मधुस्तोका᳘ ऽइव त्वत्पर्णेष्वा᳘श्चुतिता ऽएव᳘ᳫँ᳘ रूप᳘मिव हि स तेना᳘शनमा᳘वयत्॥

मूलम् - Weber

अ᳘थ य᳘दन्य᳘स्मा अ᳘शनाया᳘स॥
त᳘तस्तित्ति᳘रिः स᳘मभवत्त᳘स्मात्स᳘ विश्व᳘रूपतम इव स᳘न्त्येव घृस्तोका᳘ इव त्वन्मधुस्तोका᳘ इव त्वत्पर्णेष्वा᳘श्चुतिता एवं᳘ रूपᳫं हि स तेना᳘शनमा᳘वयत्॥

मूलम् - विस्वरम्

अथ यदन्यस्मा अशनायास- ततस्तित्तिरिः समभवत् । तस्मात्स विश्वरूपतम इव । सन्त्येव घृतस्तोका इव त्वत् मधुस्तोका इव त्वत् पर्णेष्वाश्चुतिताः । एवंरूपामेव हि स तेनाशनमावयत् ॥ ५ ॥

सायणः

अथ यदन्यस्मा । इति ‘अथ’ पानात् ‘अन्यस्मा’ ‘अशनाय’ यन्मुखम् ततस्तित्तिरिः 4 । यतो बहुरूपादन्नभक्षकान्मुखात् सम्बभूव; अतः सो ऽत्यन्तं बहुरूपवान् 5 दृश्यते । कथं तस्य तथात्वमिति तद्दर्शयति- सन्त्येवेति । त्वच्छब्दस्त्वशब्दसमानार्थः 6 सर्वनामसु विकल्पेन 7 पठितः, ‘त्वत्’ एकस्मिन्नङ्गे ‘घृतस्तोका इव’ घृतबिन्दवः परिदृश्यन्ते । तथा ‘त्वत्’ एकत्राङ्गे मधोर्बिन्दव इव । एतदपि कुत इत्यत आह- ‘पर्णेषु’ चटकपक्षेषु ‘आश्रुतिता’ आक्षरं प्राप्ताः, बहुरूपाणि दृश्यन्ते । कार्यगतं वैरूप्यं तत्कारणे ऽपि संभावयति- ‘एवंरूपमिव’ घृतस्तोकादिरूपमिव खलु ‘सः’- ‘तेन’ मुखेन ‘अशनं’ ‘जठरम्’ ‘आवयत्’ अवतिरत्र 8 गत्यर्थः (धा. पा. भ्वा. प. ६००) अगमयत् ॥ ५ ॥

Eggeling
  1. Then from the one which served for other kinds of food, a partridge sprang; whence the latter

is much variegated in colour: on its wings, namely, butter-drops, as it were, have dropped in one place and honey- (or mead-) drops in another, for suchlike, as it were, was the food which he consumed with that (mouth).

०६

विश्वास-प्रस्तुतिः

(त्स) स त्वष्टा᳘ चुक्रोध॥
कुविन्मे पुत्रम᳘वधीदि᳘ति सो᳘ ऽपेन्द्रमेव सो᳘ममा᳘जह्रे स य᳘थायᳫँ᳭ सो᳘मः प्र᳘सुत ऽएवम᳘पेन्द्र ऽए᳘वास᳘॥

मूलम् - श्रीधरादि

(त्स) स त्वष्टा᳘ चुक्रोध॥
कुविन्मे पुत्रम᳘वधीदि᳘ति सो᳘ ऽपेन्द्रमेव सो᳘ममा᳘जह्रे स य᳘थायᳫँ᳭ सो᳘मः प्र᳘सुत ऽएवम᳘पेन्द्र ऽए᳘वास᳘॥

मूलम् - Weber

स त्व᳘ष्टा चुक्रोध॥
कुवि᳘न्मे पुत्रम᳘वधीदि᳘ति सो᳘ ऽपेन्द्रमेव सो᳘ममा᳘जह्रे स य᳘थायᳫं सो᳘मः प्र᳘सुत एवम᳘पेन्द्र एॗवास॥

मूलम् - विस्वरम्

स त्वष्टा चुक्रोध- ‘कुविन्मे पुत्रमवधीद्’ इति । सो ऽपेन्द्रमेव सोममाजह्ने । स यथायं सोमः प्रसुत, एवमपेन्द्र एवास ६ ॥

सायणः

स त्वष्टेति । एवं पुत्रशिरस्सु छिन्नेषु ‘स त्वष्टा’ असाविन्द्रो ‘मे’ ‘पुत्रं’ ‘कुवित्’ बहुप्रकारम् ‘अवधीत्’- ‘इति’ क्रुद्धो भूत्वा ‘अपेन्द्रमेव’ इन्द्रेण विरहितमेव ‘सोममाजह्ने’ । ‘सः’ च ‘सोमः’ ‘यथा’ अपेन्द्रः ‘प्रसुतः’ ‘एवं’ प्रदाने ऽपि ‘अपेन्द्र एव’ अभूत् ॥ ६ ॥

Eggeling
  1. Tvashṭr̥ was furious: ‘Has he indeed slain my son?’ he exclaimed. He brought Soma-juice from which Indra was excluded; and just as the Soma-juice on being produced had Indra excluded from it (apendra), so it remained (when it was offered up).

०७

विश्वास-प्रस्तुतिः

(से᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षा᳘ञ्चक्रे॥
(क्रऽ) इदं वै᳘ मा सो᳘मादन्त᳘र्यन्ती᳘ति स य᳘था ब᳘लीयान᳘बलीयस ऽएवम᳘नुपहूत ऽएव यो᳘ द्रोणकलशे᳘ शुक्र ऽआ᳘स तं᳘ भक्षया᳘ञ्चकार स᳘ हैनं जिहिᳫँ᳭स᳘ सो ऽस्य व्वि᳘ष्वङ्ङेव᳘ प्राणे᳘भ्यो दुद्राव मु᳘खाद्धै᳘वास्य न᳘ दुद्रावा᳘थ स᳘र्व्वेभ्यो ऽन्ये᳘भ्यः प्राणे᳘भ्यो ऽद्रवत्त᳘ददः᳘ सौत्रामणीती᳘ष्टिस्त᳘स्यां तद्व्या᳘ख्यायते य᳘थैनं देवा ऽअ᳘भिषज्यन्॥

मूलम् - श्रीधरादि

(से᳘) इ᳘न्द्रो ह वा᳘ ऽईक्षा᳘ञ्चक्रे॥
(क्रऽ) इदं वै᳘ मा सो᳘मादन्त᳘र्यन्ती᳘ति स य᳘था ब᳘लीयान᳘बलीयस ऽएवम᳘नुपहूत ऽएव यो᳘ द्रोणकलशे᳘ शुक्र ऽआ᳘स तं᳘ भक्षया᳘ञ्चकार स᳘ हैनं जिहिᳫँ᳭स᳘ सो ऽस्य व्वि᳘ष्वङ्ङेव᳘ प्राणे᳘भ्यो दुद्राव मु᳘खाद्धै᳘वास्य न᳘ दुद्रावा᳘थ स᳘र्व्वेभ्यो ऽन्ये᳘भ्यः प्राणे᳘भ्यो ऽद्रवत्त᳘ददः᳘ सौत्रामणीती᳘ष्टिस्त᳘स्यां तद्व्या᳘ख्यायते य᳘थैनं देवा ऽअ᳘भिषज्यन्॥

मूलम् - Weber

इ᳘न्द्रो ह वा᳘ ईक्षां᳘ चक्रे॥
इदं वै᳘ मा सो᳘मादन्त᳘र्यन्ती᳘ति स य᳘था ब᳘लीयान᳘बलीयस एवम᳘नुपहूत एव यो᳘ द्रोणकलशे᳘ शुक्र आ᳘स त᳘म् भक्षयां᳘ चकार स᳘ हैनं जिहिंसॗ सो ऽस्य वि᳘ष्वङ्ङेव प्राणे᳘भ्यो दुद्राव मु᳘खाद्धैॗवास्य न᳘ दुद्रावा᳘थ स᳘र्वेभ्यो ऽन्ये᳘भ्यः प्राणे᳘भ्यो ऽद्रवत्त᳘ददः᳘ सौत्रामणीती᳘ष्टिस्त᳘स्यां तद्व्या᳘ख्यायते य᳘थैनं देवा अ᳘भिषज्यन्॥

मूलम् - विस्वरम्

इन्द्रो ह वा ईक्षाञ्चक्रे- ‘इदं वै मा सोमादन्तर्यन्ति’ इति । स यथा बलीयानबलीयसः- एवमनुपहूत एव- यो द्रोणकलशे शुक्र आस- तं भक्षयाञ्चकार । स हैनं जिहिंस । सो ऽस्य विष्वङ्ङेव प्राणेभ्यो दुद्राव, मुखाद्धैवास्य न दुद्राव- अथ सर्वेभ्यो ऽन्येभ्यः प्राणेभ्यो ऽद्रवत् । तददः ‘सौत्रामणी’ इतीष्टिः, तस्यां तद् व्याख्यायते- यथैनं देवा अभिषज्यन् ॥ ७ ॥

सायणः

इन्द्रो ह वा इति । स च ‘इन्द्रः’ ‘इदम्’ 9 एव सर्वे ऽपि ‘मा’ ‘सोमात्’ व्यवहितं कुर्वत ‘इति’ विचार्य- ‘यथा’ प्रबलो दुर्बलस्य धनमननुज्ञात एवापहरति,- ‘एवम्’ ‘अनुपहूत एव’ द्रोणकलशे 10 शोधितं सोममभक्षयत् । ‘सः’ च भक्षितः सोमः सात्म्यमप्राप्नुवन् तमेव ‘जिहि ँस’ हिंसितवान्- पीडामकरोत् । ततः सर्वतो नासाद्यमुख्यप्राणेभ्यो मुखव्यतिरिक्तेभ्यश्च्युतो ऽभूत् । अथ कर्कन्ध्वादिपदार्थरूपेण सृतेभ्यस्तेभ्यः सकाशात् ‘सौत्रामेणी’ 11 सुत्राम्णः संबन्धिनी इष्टिः निष्पन्ना । सोमे सृते येन प्रकारेण तमिन्द्रं सृतसोमं ‘देवाः’ विचिकित्सितवन्तः ‘तत्’ सर्वं सौत्रामणीप्रकरणे विस्पष्टमाम्नायते 12 ॥ ७ ॥

Eggeling
  1. Indra thought with himself, ‘They are now excluding me from Soma!’ and though uninvited, he consumed what pure (Soma) there was in the tub, even as the stronger (consumes) that of a weaker. That (Soma) however, injured him; it flowed in all directions from (the openings of) his vital airs; from his mouth alone it did not flow, but from all the other (openings of the) vital airs it flowed; hence (was instituted) at that time the ishṭi, called Sautrāmaṇī: on the occasion of that (ceremony) it is explained how the gods healed him 13.

०८

विश्वास-प्रस्तुतिः

(न्स) स त्व᳘ष्टा चुक्रोध॥ कुविन्मे᳘ ऽनुपहूतः सो᳘ममबभक्षदि᳘ति स᳘ स्वय᳘मेव᳘ यज्ञवेशसं᳘ चक्रे स यो᳘ द्रोणकलशे᳘ शुक्रः प᳘रिशिष्ट ऽआ᳘स तं᳘ प्रवर्तया᳘ञ्चकारे᳘न्द्रशत्रुर्व्वर्द्धस्वे᳘ति᳘ सो ऽग्नि᳘मेव प्रा᳘प्य स᳘म्बभूवान्त᳘रैव स᳘म्बभूवे᳘त्यु है᳘क ऽआहुः᳘ सो ऽग्नीषो᳘मावे᳘वाभिस᳘म्बभूव स᳘र्व्वा व्विद्याः स᳘र्व्वं य᳘शः स᳘र्व्वमन्ना᳘द्यᳫँ᳭स᳘र्व्वाᳫं श्रीम्॥

मूलम् - श्रीधरादि

(न्स) स त्व᳘ष्टा चुक्रोध॥ कुविन्मे᳘ ऽनुपहूतः सो᳘ममबभक्षदि᳘ति स᳘ स्वय᳘मेव᳘ यज्ञवेशसं᳘ चक्रे स यो᳘ द्रोणकलशे᳘ शुक्रः प᳘रिशिष्ट ऽआ᳘स तं᳘ प्रवर्तया᳘ञ्चकारे᳘न्द्रशत्रुर्व्वर्द्धस्वे᳘ति᳘ सो ऽग्नि᳘मेव प्रा᳘प्य स᳘म्बभूवान्त᳘रैव स᳘म्बभूवे᳘त्यु है᳘क ऽआहुः᳘ सो ऽग्नीषो᳘मावे᳘वाभिस᳘म्बभूव स᳘र्व्वा व्विद्याः स᳘र्व्वं य᳘शः स᳘र्व्वमन्ना᳘द्यᳫँ᳭स᳘र्व्वाᳫं श्रीम्॥

मूलम् - Weber

स त्व᳘ष्टा चुक्रोध कुविन्मे᳘ ऽनुपहूतः सो᳘ममबभक्षदि᳘ति स᳘स्वय᳘मेव᳘ यज्ञवेशस᳘ चक्रे स यो᳘ द्रोणकलशे᳘ शुक्रः प᳘रिशिष्ट आ᳘स त᳘ प्रवर्तयां᳘ चकारे᳘न्द्रशत्रुर्वर्धस्वे᳘तिॗ सोऽग्नि᳘मेव प्रा᳘प्य स᳘म्बभूवान्त᳘रैव स᳘म्बभूवे᳘त्यु है᳘क आहुःॗ सो ऽग्नीषो᳘मावेॗवाभि स᳘म्बभूव स᳘र्वा विद्याः स᳘र्वं य᳘शः स᳘र्वमन्ना᳘द्यᳫं स᳘र्वां श्रीं᳟॥

मूलम् - विस्वरम्

स त्वष्टा चुक्रोध- ‘कुविन् मे ऽनुपहूतः सोममबभक्षद् इति । स स्वयमेव यज्ञवेशसं चक्रे । स- यो द्रोणकलशे शुक्रः परिशिष्ट आस- तं प्रवर्त्तयाञ्चकार- ‘इन्द्रशत्रुर्वर्धस्व’ इति । सो ऽग्निमेव प्राप्य संबभूव । अन्तरैव संबभूवेत्यु हैक आहुः । सो ऽग्नीषोमावेवाभिसंबभूव- सर्वा विद्याः, सर्वं यशः, सर्वमन्नाद्यम्, सर्वां श्रीम् ॥ ८ ॥

सायणः

स त्वष्टेति । अथ ‘सः त्वष्टा’ मम ‘सोमम्’ अतिप्रसूतमनाकारितमेवापिबदिति 9 क्रुद्धः सन् ‘स्वयमेव’ नष्टस्य यज्ञस्य ‘यज्ञवेशसं’ यज्ञहिंसापरिहारं कृतवान् । कथं ? ‘यो द्रोणकलशे’ शुक्रः सोमः ‘परिशिष्टः’ आसीत्, ‘तम्’- आदाय प्रवर्तयामास- “इन्द्रशत्रुर्वर्द्धस्व-” इत्युच्चार्य हुतवान् । ‘सः’ च हुतः सोमः- अग्निप्राप्तिसमकाल एव पुरुषरूपेण ‘सम्बभूव’ केचित् प्रवर्तनसामर्थ्यादग्निमस्पृशन्नेव मध्ये ‘संबभूव’ इति ‘आहुः’ ‘सः’ च संभवन् ‘अग्नीषोमावेव’ अभिव्याप्नुवन् भक्षयन् संबभूव । न केवलं जगत्कारणभूतौ तावेव किन्तु लोके याः ‘विद्याः’ यद् ‘यशः’ यद् अदनीयमन्नम्, या च ‘श्रीः’ तानि सर्वाण्यभिलक्ष्य भक्षयन् ‘सम्बभूव’ ॥ ८ ॥

Eggeling
  1. Tvashṭr̥ was furious, and exclaimed, ‘Has he indeed consumed my Soma uninvited?’ However, he himself desecrated the sacrifice, for what pure (Soma) there was left in the tub he let flow (into the fire), saying, ‘Grow thou, having Indra for thy foe 14!’ The moment it reached the fire, it

developed (into human shape), or, as some say, it so developed whilst on its way (to the fire). It became possessed of 15 Agni and Soma, of all sciences, all glory, all nourishment, all prosperity.

०९

विश्वास-प्रस्तुतिः

(ᳫँ᳭) स यद्व᳘र्तमानः सम᳘भवत्॥
(त्त᳘) त᳘स्माद्वृत्रो᳘ ऽथ य᳘दपा᳘त्सम᳘भवत्त᳘स्माद᳘हिस्तं द᳘नुश्च दनायू᳘श्च मा᳘तेव च᳘ पि᳘तेव च प᳘रिजगृहतुस्त᳘स्माद्दानव ऽइ᳘त्याहुः॥

मूलम् - श्रीधरादि

(ᳫँ᳭) स यद्व᳘र्तमानः सम᳘भवत्॥
(त्त᳘) त᳘स्माद्वृत्रो᳘ ऽथ य᳘दपा᳘त्सम᳘भवत्त᳘स्माद᳘हिस्तं द᳘नुश्च दनायू᳘श्च मा᳘तेव च᳘ पि᳘तेव च प᳘रिजगृहतुस्त᳘स्माद्दानव ऽइ᳘त्याहुः॥

मूलम् - Weber

स यद्व᳘र्तमानः सम᳘भवत्॥
त᳘स्माद्वृत्रो᳘ ऽथ य᳘दपा᳘त्सम᳘भवत्त᳘स्माद᳘हिस्तं द᳘नुश्च दनायू᳘श्च माॗतेव च पिॗतेव च प᳘रिजगृहतुस्त᳘स्माद्दानव इ᳘त्याहुः॥

मूलम् - विस्वरम्

स यद् वर्त्तमानः समभवत्- तस्माद् वृत्रः, अथ यदपात् समभवत्- तस्मादहिः । तं दनुश्च दनायुश्च मातेव च पितेव च परिजगृहतुः- तस्माद् ‘दानव’ इत्याहुः ॥ ९॥

सायणः

स यद् वर्त्तमान इति । तथा ‘सः’ सम्भवन् वर्त्तमानः सर्वं व्याप्नुवन्नेव यतः ‘समभवत्’ ‘तस्मात्’ तस्य नाम- सर्वं व्याप्य वर्तत इति व्युत्पत्त्या ‘वृत्रः’ 16 ‘इति’ संपन्नम् । तथा यस्माद् ‘अपात्’ अपादः सन् सम्भूतः- ‘तस्मात्’ अतः सर्पणसाम्याद् ‘अहिः’ 17 इत्यपि तन्नामासीत् । ‘तं’ ‘दनुश्च दनायूश्च’ मातृ-पितृ-स्थानीयौ भूत्वा रक्षणाय ‘परिजगृहतुः’ यस्मात्ताभ्यां परिजगृहतुः ‘तस्माद्दानव इत्याहुः’ सर्वे जनाः ॥ ९ ॥

Eggeling
  1. And since it so developed whilst rolling onwards (vr̥t), it became Vr̥tra; and since he sprang forth footless, therefore he was a serpent. Danu and Danāyū received him like mother and father 18, whence they call him Dānava.

१०

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ यद᳘ब्रवीदि᳘न्द्रशत्रुर्वर्द्धस्वे᳘ति॥
त᳘स्मादुहैनमि᳘न्द्र ऽएव᳘ जघाना᳘थ य᳘द्ध श᳘श्वद᳘वक्ष्यदि᳘न्द्रस्य श᳘त्रुर्व्वर्द्धस्वे᳘ति श᳘श्वदु ह स᳘ ऽएवे᳘न्द्रमहनिष्यत्॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ यद᳘ब्रवीदि᳘न्द्रशत्रुर्वर्द्धस्वे᳘ति॥
त᳘स्मादुहैनमि᳘न्द्र ऽएव᳘ जघाना᳘थ य᳘द्ध श᳘श्वद᳘वक्ष्यदि᳘न्द्रस्य श᳘त्रुर्व्वर्द्धस्वे᳘ति श᳘श्वदु ह स᳘ ऽएवे᳘न्द्रमहनिष्यत्॥

मूलम् - Weber

अ᳘थ यद᳘ब्रवीदि᳘न्द्रशत्रुर्वर्धस्वे᳘ति॥
त᳘स्मादु हैनमि᳘न्द्र एव᳘ जघाना᳘थ य᳘द्ध श᳘श्वद᳘वक्ष्यदि᳘न्द्रस्य श᳘त्रुर्वर्धस्वे᳘ति श᳘श्वदु ह स᳘ एवे᳘न्द्रमहनिष्यत्॥

मूलम् - विस्वरम्

अथ यदब्रवीद् ‘इन्द्रशत्रुर्वर्धस्व’ इति- तस्मादु हैनमिन्द्र एव जघान, अथ यद्ध शश्वदवक्ष्यद् इन्द्रस्य- ‘शत्रुर्वर्धस्व’ इति- शश्वदु ह स एवेन्द्रमहनिष्यत् ॥ १० ॥

सायणः

अथ यदब्रवीदिति । तथा स त्वष्टा ग्रहप्रचारसमये (इन्द्रशत्रुरिति पूर्वपदोदात्ततया-) इन्द्रः शत्रुर्यस्येति 16 बहुव्रीहिसमासं कृत्वा (“बहुव्रीहौ प्रकृत्या पूर्वपदम्” इति पा. सू. ६ । २ । १ ।) मन्त्रं प्रयुक्तवान्, अतः तम्, ‘इन्द्रो जघान’ । यद्यसौ- अन्तोदात्ततया- तत्पुरुषसमासेन 17 वा ‘इन्द्रस्य शत्रुः’- इति व्यस्तनिर्द्देशेन वा ब्रूयात्, तदा निश्चितमेव ‘स इन्द्रं’ हन्यात् 19 ॥ १० ॥

Eggeling
  1. And because he (Tvashṭr̥) said, ‘Grow thou, having Indra for thy foe!’ therefore Indra slew him (Vr̥tra). Had he said, ‘Grow thou, the foe (slayer) of Indra!’ he (Vr̥tra) would certainly have forthwith slain Indra.

११

विश्वास-प्रस्तुतिः

(द᳘) अ᳘थ यद᳘ब्रवीद्वर्द्धस्वे᳘ति॥
त᳘स्मादु ह स्मेषुमात्र᳘मेव᳘ तिर्यङ् व᳘र्द्धत ऽइषुमात्रं प्राङ्क्सो᳘ ऽवैवा᳘वरᳫँ᳭ समुद्रं᳘ दधाव᳘व पू᳘र्व्ँ वᳫ᳭ स या᳘वत्स ऽआ᳘स स᳘हैव ता᳘वदन्नाद᳘ ऽआस॥

मूलम् - श्रीधरादि

(द᳘) अ᳘थ यद᳘ब्रवीद्वर्द्धस्वे᳘ति॥
त᳘स्मादु ह स्मेषुमात्र᳘मेव᳘ तिर्यङ् व᳘र्द्धत ऽइषुमात्रं प्राङ्क्सो᳘ ऽवैवा᳘वरᳫँ᳭ समुद्रं᳘ दधाव᳘व पू᳘र्व्ँ वᳫ᳭ स या᳘वत्स ऽआ᳘स स᳘हैव ता᳘वदन्नाद᳘ ऽआस॥

मूलम् - Weber

अ᳘थ यद᳘ब्रवीद्वर्धस्वे᳘ति॥
त᳘स्मादु ह स्मेषुमात्र᳘मेव᳘ तिर्यङ्व᳘र्धत इशुमात्रम् प्राङ्क्सो᳘ वैवा᳘वरᳫं समुद्रं᳘ दधाव᳘व पू᳘र्वᳫं स या᳘वत्स आ᳘स स᳘हैव ता᳘वदन्नाद᳘ आस॥

मूलम् - विस्वरम्

अथ यदब्रवीद् ‘वर्धस्व’ इति- तस्मादु ह स्मेषुमात्रमेव तिर्यङ् वर्धते, इषुमात्रं प्राङ् । सो ऽवैवावरं समुद्रं दधौ, अव पूर्वम् । स यावत् स आस, सहैव तावदन्नाद आस ॥ ११ ॥

सायणः

अथ यदिति । तथा वर्द्धस्वेति प्रयोगसामर्थ्यात् । ‘सः’ वृत्रः ‘इषुमात्रम्-इषुमात्रम्’ धनुषः सकाशाद् बलात्प्रमुक्तेषुर्यावद् दूरं गच्छति तावन्मात्रं प्रतिक्षणं ‘तिर्यड्’ उभयपार्श्वतः ‘वर्धते’ । ‘प्राङ्’ हि ‘इषुमात्रम्’ अवर्द्धत । एतत् पश्चाद्वृद्धेरप्युपलक्षणम् । ‘अवरं’ ‘पूर्वं’ च ‘समुद्रं’ तथा प्राक्पश्चात्समुद्रावपि ‘अवदधौ’ शरीरवृद्ध्या- अवाक् चकारेत्यर्थः । यावद्यावत् प्रवृद्ध आस, तावत्तावत् प्रवृद्वो ऽन्नभक्षकं एवाभूत् ॥ ११ ॥

Eggeling
  1. And because he (Tvashṭr̥) said, ‘Grow thou!’ therefore he (Vr̥tra) grew an arrow’s range sideways and an arrow’s range forward: he forced back both the western ocean and the eastern one; and in proportion as he extended did he devour the food.

१२

विश्वास-प्रस्तुतिः

त᳓स्मै ह स्म पूर्वाह्णे᳓ देवा᳓ अ᳓शनम् अभिह᳓रन्ति,
मध्य᳓न्दिने मनु᳓ष्या,
ऽअपराह्णे᳓ पित᳓रः॥

मूलम् - श्रीधरादि

त᳘स्मै ह स्म पूर्वाह्णे᳘ देवाः॥
(ऽ) अ᳘शनमभिह᳘रन्ति मध्य᳘न्दिने मनु᳘ष्या ऽअपराह्णे᳘ पित᳘रः॥

मूलम् - Weber

त᳘स्मै ह स्म पूर्वाह्णे᳘ देवाः᳟॥
अ᳘शनमभिह᳘रन्ति मध्य᳘न्दिने मनुॗष्या अपराह्णे᳘ पित᳘रः॥

मूलम् - विस्वरम्

तस्मै ह स्म पूर्वाह्णे देवा अशनमभिहरन्ति, मध्यन्दिने मनुष्याः, अपराह्णे पितरः ॥ १२ ॥

सायणः

तस्मै ह स्मेति । एवं बह्वाशिने ‘तस्मै’ ‘देवाः’ ‘मनुष्याः’ ‘पितरश्च’ पूर्वमध्यन्दिनापराह्णेषु क्रमेण सर्वतः ‘अशनम्’ प्रयच्छन्ति ॥ १२ ॥

Eggeling
  1. In the fore-noon the gods offered him food, at mid-day the men, and in the after-noon the Fathers.

१३

विश्वास-प्रस्तुतिः

स वा ऽइ᳘न्द्रस्त᳘थैव᳘ नुत्तश्च᳘रन्॥
(न्न) अग्नीषो᳘मा ऽउपमन्त्रया᳘ञ्चक्रे᳘ ऽग्नीषो᳘मौ युवं वै म᳘म स्थो युव᳘योरह᳘मस्मि न᳘ युव᳘योरेष कि᳘ञ्चन कं᳘ म ऽइमं द᳘स्युं व्वर्धयथ ऽउ᳘प मा᳘ व्वर्तेथामि᳘ति॥

मूलम् - श्रीधरादि

स वा ऽइ᳘न्द्रस्त᳘थैव᳘ नुत्तश्च᳘रन्॥
(न्न) अग्नीषो᳘मा ऽउपमन्त्रया᳘ञ्चक्रे᳘ ऽग्नीषो᳘मौ युवं वै म᳘म स्थो युव᳘योरह᳘मस्मि न᳘ युव᳘योरेष कि᳘ञ्चन कं᳘ म ऽइमं द᳘स्युं व्वर्धयथ ऽउ᳘प मा᳘ व्वर्तेथामि᳘ति॥

मूलम् - Weber

स वा इ᳘न्द्रस्त᳘थैव᳘ नुत्तश्च᳘रन्॥
अग्नीषो᳘मा उपमन्त्रयां᳘ चक्रे᳘ ऽग्नीषोमौ युवं वै म᳘म स्थो युव᳘योरह᳘मस्मि न᳘ युव᳘योरेष किं᳘ चन क᳘म् म इमं द᳘स्युं वर्धयथ उ᳘प मा᳘वर्तेथामि᳘ति॥

मूलम् - विस्वरम्

स वा इन्द्रस्तथैव नुत्तश्चरन्नग्नीषोमावुपमन्त्रयाञ्चक्रे- “अग्नीषोमौ ! युवं वै मम स्थो, युवयोरहमस्मि न युवयोरेष किञ्चन, कं म इमं दस्युं वर्धयथ । उप मावर्तेथाम्” इति ॥ १३ ॥

सायणः

स वा इन्द्र इति । इन्द्रस्तु वृत्रशरीरवृद्धिक्रमानुसारेणैवेषदोषत्प्रणुन्नो दूर एव ‘चरन्’ ओदनमसहमानो वृत्रमनुगतौ ‘अग्नीषोमौ’ इच्छन्नुपमन्त्रयामास । कथं ? ‘हे अग्नीषोमौ !’ युवां ‘मम’ स्वं भवथः, युवयोरहं स्वं भवामि । यथा ऽहं युवयोस्तथा ‘एषः’ वृत्रो ‘न किञ्चन’ किमपि न भवति । अतः ‘कम्’ कीदृङ्महत्त्वोपेतं- ‘दस्युं’ ‘वर्द्धयथ’ ? अतो ऽमुं परित्यज्य मां प्रति ‘उपावर्त्तेथाम्’ । ‘इति’- शब्दः उपमन्त्रणप्रकारसमाप्त्यर्थः 20 ॥ १३ ॥

Eggeling
  1. Now while Indra was thus moving on (in pursuit of Vr̥tra), he addressed Agni and Soma, ‘Ye belong to me and I belong to you! That one is nothing to you: why then do ye support that Dasyu against me? Come over to me!’

१४

विश्वास-प्रस्तुतिः

तौ᳘ होचतुः॥
कि᳘माव᳘योस्त᳘तः स्यादि᳘ति ता᳘भ्यामेत᳘मग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘रवपत्त᳘स्मादग्नीषोमी᳘य ऽए᳘कादशकपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

तौ᳘ होचतुः॥
कि᳘माव᳘योस्त᳘तः स्यादि᳘ति ता᳘भ्यामेत᳘मग्नीषोमी᳘यमे᳘कादशकपालं पुरोडा᳘शं नि᳘रवपत्त᳘स्मादग्नीषोमी᳘य ऽए᳘कादशकपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

तौ᳘ होचतुः॥
कि᳘माव᳘योस्त᳘तः स्यादि᳘ति ता᳘भ्यामेत᳘मग्नीषोम् ई᳘यमे᳘कादशकपालम् पुरोडा᳘शं नि᳘रवपत्त᳘स्मादग्नीषोमी᳘य ए᳘कादशकपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

तौ होचतुः- “किमावयोस्ततः स्याद्” इति । ताभ्यामेतमग्नीषोमीयमेकादशकपालं पुरोडाशं निरवपत् । तस्मादग्नीषोमीय एकादशकपालः पुरोडाशो भवति ॥ १४ ॥

सायणः

तौ होचतुरिति । अथ ‘तौ’ इन्द्रम् ‘ऊचतुः’- ‘ततः’ वृत्रवदननिर्गमनात् ‘आवयोः’ ‘किं’ फलं लब्धं ‘स्यात्’ ? ‘इति’ । स एवमुक्तः ‘ताभ्याम्’ ‘एतम्’ इदानीं विधीयमानम् ‘एकादशकपालं पुरोडाशम्’ अग्नीषोमदेवताकं कृत्वा निरुप्त (क्त) वान्, -तयोरिदमिति कल्पितवानित्यर्थः ।

इदानीं तं यागं विधत्ते- तस्मादिति । अग्नीषोमौ देवते यस्य सः ‘अग्नीषोमीयः’ 20, एकादशसु कपालेषु संस्कृतः पुरोडाशः ‘एकादशकपालः’ 21 स भवेत्, पौर्णमास्यां कर्त्तव्यः ॥ १४ ॥

Eggeling
  1. They replied, ‘What is to be our reward in that case?’ He offered them that Agni-Soma cake on eleven potsherds: this is the reason why there is a cake on eleven potsherds for Agni and Soma.

१५

विश्वास-प्रस्तुतिः

ता᳘वेनमुपा᳘ववृततुः॥
(स्ता) ताव᳘नु स᳘र्व्वे देवाः प्रे᳘युः स᳘र्व्वा व्विद्याः स᳘र्व्वं य᳘शः स᳘र्व्वमन्ना᳘द्यᳫँ᳭ स᳘र्व्वा श्रीस्ते᳘नेष्ट्वे᳘न्द्र ऽएत᳘दभवद्य᳘दिदमि᳘न्द्र एष᳘ उ पौर्णमास᳘स्य ब᳘न्धुः स यो᳘ हैवं᳘ व्विद्वा᳘न्पौर्णमासे᳘न य᳘जत ऽएता᳘ᳫँ᳭ हैव श्रि᳘यं गच्छत्येवं य᳘शो भवत्येव᳘मन्नादो᳘ भवति॥

मूलम् - श्रीधरादि

ता᳘वेनमुपा᳘ववृततुः॥
(स्ता) ताव᳘नु स᳘र्व्वे देवाः प्रे᳘युः स᳘र्व्वा व्विद्याः स᳘र्व्वं य᳘शः स᳘र्व्वमन्ना᳘द्यᳫँ᳭ स᳘र्व्वा श्रीस्ते᳘नेष्ट्वे᳘न्द्र ऽएत᳘दभवद्य᳘दिदमि᳘न्द्र एष᳘ उ पौर्णमास᳘स्य ब᳘न्धुः स यो᳘ हैवं᳘ व्विद्वा᳘न्पौर्णमासे᳘न य᳘जत ऽएता᳘ᳫँ᳭ हैव श्रि᳘यं गच्छत्येवं य᳘शो भवत्येव᳘मन्नादो᳘ भवति॥

मूलम् - Weber

ता᳘वेनमुपा᳘ववृततुः॥
ताव᳘नु स᳘र्वे देवाः प्रे᳘युः स᳘र्वा विद्याः स᳘र्वं यशः स᳘र्वमन्ना᳘द्यᳫं स᳘र्वा श्रीस्ते᳘नेष्ट्वे᳘न्द्र एत᳘दभवद्य᳘दिदमि᳘न्द्र एष᳘ उ पौर्णमास᳘स्य ब᳘न्धुः स यो᳘ हैवं᳘ विद्वा᳘न्पौर्णमासे᳘न य᳘जत एता᳘ᳫं᳘ हैव श्रि᳘यं गछत्येवं य᳘शो भवत्येव᳘मन्नादो᳘ भवति॥

मूलम् - विस्वरम्

तावेनमुपाववृततुः, तावनु सर्वे देवाः प्रेयुः सर्वा विद्याः, सर्वं यशः, सर्वमन्नाद्यम्, सर्वा श्रीः । तेनेष्ट्वेन्द्र एतदभवद्- यदिदमिन्द्रः । एष उ पौर्णमासस्य बन्धुः । स यो हैवं विद्वान् पौर्णमासेन यजते- एतां हैव श्रियं गच्छति, एवं यशो भवति, एवमन्नादो भवति ॥ १५ ॥

सायणः

तावेनमिति । अथ ‘तौ’ ‘एनम्’ इन्द्रं प्रत्युपावृत्तावभूताम् । ‘तावनु’ ‘सर्वे’ अपि वृत्रमुखान्तर्गताः ‘देवाः’ ‘प्रेयुः’ निरीयुः । तथा वृत्रेण भक्षिता विद्यायशो ऽन्नश्रियः ‘सर्वाः’ अपीन्द्रं प्रति निर्गताः । ‘यत्’ ‘इदम्’ इदानीं परिदृश्यमानप्रकारमिन्द्रस्य सर्वाधिपत्यमस्ति, तत् ‘तेन’ अग्नीषोमीयैकादशकपालयागेन ‘इष्ट्वा’ ‘अभवत्’ । उक्तमर्थं निगमयति- एष उ इति । ‘एष’ एव “त्वष्टुर्ह वै-” इत्याद्युपक्रम्य “तेनेष्ट्वेन्द्र एतदभवत्”- इत्यन्तेनोक्त एव ‘पौर्णमासस्य’ पौर्णमास्यामसाधारण्येनानुष्ठेयस्य हविषो ‘बन्धुः’ बन्धको ऽर्थनियामकः । एतदेव ब्राह्मणमित्यर्थः । विहितमर्थमनूद्य प्रशंसति- यो हैवं विद्वानिति । अत्र यद्यपि पौर्णमासीशब्देन कालवाचिना तत्कालक्रियमाणं सर्वं कर्म्माश्रयणीयम् । तथाप्याग्नेयाष्टाकपालस्य साधारण्याद्, वाक्यशेषे श्रीप्रभृतेरेव फलत्वेन श्रवणाच्चाग्नीषोमीय एकादशकपाल एव परिगृह्यते । ‘यः’ यजमानः ‘एवम्’ उक्तमर्थं विद्वान् जानन्, ‘पौर्णमासेन’ पौर्णमास्यां क्रियमाणेनाग्नीषोमीयेन ‘यजते’ अनुतिष्ठति ‘सः’ ‘एताम्’ इन्द्रेणानुभूतां ‘श्रियम्’ तथाविधं यशो ऽन्नं च प्राप्नोति ॥ १५ ॥

Eggeling
  1. They went over to him, and after them went forth 22 all the gods, all the sciences, all glory, all nourishment, all prosperity: thus by offering that (cake to Agni and Soma) Indra became what Indra now is. Such then is the significance of the full-moon offering; and he who, knowing this, performs the full-moon offering in this wise, attains to the same state of prosperity, becomes thus endowed with glory, becomes such a consumer of food (as Vr̥tra).

१६

विश्वास-प्रस्तुतिः

त᳘द्वेव ख᳘लु हतो᳘ व्वृत्रः॥
स य᳘था दृ᳘तिर्न्नि᳘ष्पीत ऽएवᳫँ᳭ सं᳘व्लीनः शिश्ये य᳘था नि᳘र्द्धूतसक्तुर्भस्त्रैवᳫँ᳭ सं᳘व्लीनः शिश्ये तमि᳘न्द्रो ऽभ्या᳘दुद्राव हनिष्यन्॥

मूलम् - श्रीधरादि

त᳘द्वेव ख᳘लु हतो᳘ व्वृत्रः॥
स य᳘था दृ᳘तिर्न्नि᳘ष्पीत ऽएवᳫँ᳭ सं᳘व्लीनः शिश्ये य᳘था नि᳘र्द्धूतसक्तुर्भस्त्रैवᳫँ᳭ सं᳘व्लीनः शिश्ये तमि᳘न्द्रो ऽभ्या᳘दुद्राव हनिष्यन्॥

मूलम् - Weber

त᳘द्वेव ख᳘लु हतो᳘ वृत्रः᳟॥
स य᳘था दृ᳘तिर्नि᳘ष्पीत एवᳫं सं᳘लीनः शिश्ये य᳘था नि᳘र्धूतसक्तुर्भॗस्त्रैवᳫं सं᳘लीनः शिश्ये तमि᳘न्द्रो ऽभ्या᳘दुद्राव हनिष्य᳘न्॥

मूलम् - विस्वरम्

तद्वेव खलु हतो वृत्रः, स यथा दृतिर्निष्पतिः,- एवं संव्लीनः शिश्ये । यथा निर्धूतसक्तुर्भस्त्रा- एवं संव्लीनः शिश्ये । तमिन्द्रो ऽभ्यादुद्राव हनिष्यन् ॥ १६ ॥

सायणः

तद्वेव खल्विति । अथ तदानीमग्नीषोमादिनिर्गमनानन्तरमेव ‘वृत्रो’ ‘हतः’, निष्पीतो दृतिरिव चर्मनिर्मितपात्रमिव, सः यथा ‘संव्लीनः’ 23 सङ्कुचितकुक्षिरिति 24, एवं संव्लीनो भूमावशयिष्ट, यथा ‘निर्द्धूतसक्तुकाभस्त्रा’ चर्ममयी संव्लीना, ‘तद्वत्’ ‘संव्लीनः’ शेते; कुक्षिगतानां सक्तुस्थानीयानां देवानाम्,- उदकस्थानीयानामसृगादीनां च स्रावात् दृष्टान्तद्वयाभिधानम् । अथ 25 शयानं वृत्रं हननेच्छयेन्द्रः शीघ्रमाजगाम ॥ १६ ॥

Eggeling
  1. Now Vr̥tra, on being struck, lay contracted like a leather bottle drained of its contents, like a skin bag with the barley-meal shaken out. Indra rushed at him, meaning to slay him.

१७

विश्वास-प्रस्तुतिः

(न्त्स᳘) स᳘ होवाच॥
मा नु᳘ मे प्र᳘हार्षीस्त्वं वै त᳘देत᳘र्ह्यसि य᳘दहं᳘ व्येव᳘ मा कुरु᳘ मामुया᳘ भूवमि᳘ति स वै मे᳘ ऽन्नमेधी᳘ति तथे᳘ति तं᳘ द्वेधा᳘न्वभिनत्त᳘स्य य᳘त्सौम्यं᳘ न्यक्तमा᳘स तं᳘ चन्द्र᳘मसं चकारा᳘थ य᳘दस्यासुर्यमा᳘स ते᳘नेमाः᳘ प्रजा᳘ ऽउद᳘रेणाविध्यत्त᳘स्मादाहुर्व्वृत्र᳘ ऽएव त᳘र्ह्यन्नाद ऽआसीद्वृत्र᳘ ऽएतर्ही᳘तीदᳫँ᳭ हि य᳘दसा᳘वापूर्य᳘ते ऽस्मा᳘दे᳘वैत᳘ल्लोकादा᳘प्यायते᳘ ऽथय᳘दिमाः᳘ प्रजा ऽअ᳘शनमिच्छ᳘न्ते ऽस्मा᳘ ऽए᳘वैत᳘द्वृत्रा᳘योद᳘राय बलि᳘ᳫँ᳭ हरन्ति स यो᳘ हैव᳘मेतं᳘ व्वृत्र᳘मन्नादं व्वे᳘दानादो᳘ हैव᳘ भवति॥

मूलम् - श्रीधरादि

(न्त्स᳘) स᳘ होवाच॥
मा नु᳘ मे प्र᳘हार्षीस्त्वं वै त᳘देत᳘र्ह्यसि य᳘दहं᳘ व्येव᳘ मा कुरु᳘ मामुया᳘ भूवमि᳘ति स वै मे᳘ ऽन्नमेधी᳘ति तथे᳘ति तं᳘ द्वेधा᳘न्वभिनत्त᳘स्य य᳘त्सौम्यं᳘ न्यक्तमा᳘स तं᳘ चन्द्र᳘मसं चकारा᳘थ य᳘दस्यासुर्यमा᳘स ते᳘नेमाः᳘ प्रजा᳘ ऽउद᳘रेणाविध्यत्त᳘स्मादाहुर्व्वृत्र᳘ ऽएव त᳘र्ह्यन्नाद ऽआसीद्वृत्र᳘ ऽएतर्ही᳘तीदᳫँ᳭ हि य᳘दसा᳘वापूर्य᳘ते ऽस्मा᳘दे᳘वैत᳘ल्लोकादा᳘प्यायते᳘ ऽथय᳘दिमाः᳘ प्रजा ऽअ᳘शनमिच्छ᳘न्ते ऽस्मा᳘ ऽए᳘वैत᳘द्वृत्रा᳘योद᳘राय बलि᳘ᳫँ᳭ हरन्ति स यो᳘ हैव᳘मेतं᳘ व्वृत्र᳘मन्नादं व्वे᳘दानादो᳘ हैव᳘ भवति॥

मूलम् - Weber

स᳘ होवाच॥
मा नु᳘ मे प्र᳘हार्षीस्त्वं वै त᳘देत᳘र्ह्यसि य᳘दॗहं व्येव᳘ मा कुरुॗ मामुया᳘ भूवमि᳘ति स वै मे᳘ ऽन्नमेधी᳘ति तथे᳘ति तं᳘ द्वेधा᳘न्वभिनत्त᳘स्य य᳘त्सौम्यं न्य᳘क्तमा᳘स तं᳘ चन्द्र᳘मसं चकारा᳘थ य᳘दस्यासुर्य᳘मा᳘स ते᳘नेमाः᳘ प्रजा᳘ उद᳘रेणाविध्यत्त᳘स्मादाहुर्वृत्र᳘ एव त᳘र्ह्यन्नाद आसीद्वृत्र᳘ एतर्ही᳘तीदᳫं हि य᳘दसा᳘वापूर्य᳘ते ऽस्मा᳘देॗवैत᳘ल्लोकादा᳘प्यायते᳘ ऽथ य᳘दिमाः᳘ प्रजा अ᳘शनमिछ᳘न्ते ऽस्मा᳘ एॗवैत᳘द्वृत्रा᳘योद᳘राय बलि᳘ᳫं᳘ हरन्ति स यो᳘ हैव᳘मेतं᳘ वृत्र᳘मन्नादं वे᳘दानादो᳘ हैव᳘ भवति॥

मूलम् - विस्वरम्

स होवाच- “मा नु मे प्रहार्षीः, त्वं वै तदेतर्ह्यसि- यदहम्; व्येव मा कुरु, मामुया भूवम्” इति । स वै “मे ऽन्नमेधि” इति । “तथा” इति । तं द्वेधा ऽन्वभिनत्, तस्य यत् सौम्यं न्यक्तमास- तं चन्द्रमसं चकार । अथ यदस्यासुर्यमास- तेनेमाः प्रजा उदरेणाविध्यत् । तस्मादाहुः- ‘वृत्र एव तर्ह्यन्नाद आसीद्, वृत्र एतर्हि’ इति । इदं हि यदसावापूर्यते- अस्मादेवैतल्लोकादाप्यायते । अथ यदिमाः प्रजा अशनमिच्छन्ते- अस्मा एवैतद् वृत्रायोदराय बलिं हरन्ति । स यो हैवमेतं वृत्रमन्नादं वेद- अन्नादो हैव भवति ॥ १७ ॥

सायणः

स होवाचेति । तं दृष्ट्वा वृत्रो ऽब्रवीत्- “इदानीमेतत् सर्वं त्वमेव भवसि, पूर्वं यदहं सर्वमभवम्; अतो व्याकुर्वेव शरीरं विविधम्; आ सर्वतो भग्नपर्यन्तं 26 कुरु, विदारयेत्यर्थः । ‘अमुया’ इदानीमनुभूयमानप्रकारया स्थित्या ‘मा भूवम्’ सर्वदा न भवामि, ‘इति’ । ‘सः’ एवमुक्तः इन्द्रः, “तर्हि ममान्नं भव” इत्युवाच । ‘तथा’ अस्तु ‘इति’ उक्तम् । ‘तम्’ इन्द्रो ‘द्वेधा’ ‘अन्वभिनत्’ तदनुक्रमेण व्यदारयत् । तेन ‘यत्’ 27 सौम्यं श्रेष्ठं स्रुतमासीत्, ‘तं चन्द्रमसं चकार’ प्रतिनिर्द्देशापेक्षया 28 पुल्ँलिङ्गता । ‘यत्’ ‘असुर्यम्’ असुरेभ्यो हितम् 29- उच्छिष्टमासीत्, ‘तेन’ ‘इमाः’ सर्वा अपि प्रजा उदरप्रदेशेन अयुज्यत् 30- तद्रूपेणोपस्थापयामासेत्यर्थः । यस्मादेवं ‘तस्माद्’ यः कश्चिद् यदि बह्वन्नं भक्षयेत्, ‘तर्हि’ तदा सर्वे ऽपि जनाः इदानीं वृत्र एतर्हि- अन्नाद आसीद्- ‘इत्याहुः’ । प्रसिद्धेः सार्वत्रिकत्वप्रदर्शनाय दृष्टान्तः । उक्तमर्थं समर्थयते- एतर्हीति । ‘असौ’ चन्द्रः पूर्वपक्षे ‘आपूर्यते’- इति यत् तत् ‘इदं हि’ किमिदम् ? तदाह- ‘अस्मात्’ ‘लोकादेव’ चन्द्रः ‘आप्यायते’ अस्माल्लोकाच्चन्द्रस्याप्यायनप्रकारमुपरिष्टाद् वक्ष्यते- “तदेनमद्भ्य ओषधिभ्यः सम्भृत्याहुतिभ्यो ऽधिजनयति, स एष आहुतिभ्यो जातः पश्चाद्ददृशे” 31- इति । यदा ‘इमाः’ बुभुक्षिताः ‘प्रजाः’ ‘अशनमिच्छन्ति’ तदा ‘अस्मा एव वृत्राय’ षष्ठ्यर्थे चतुर्थी 32 । वृत्ररूपाय ‘उदरायैवः’ ‘बलिं हरन्ति’ । अतो वृत्रभागविशेषस्यान्नरूपेण स्थापनं युक्तमित्यर्थः । ‘स यो हैवमिति’ ज्ञानफलम् ॥ १७॥

Eggeling
  1. He said, ‘Do not hurl (thy thunderbolt) at me! thou art now what I (was before) Only cut me in twain; but do not let me be annihilated!’ He (Indra) said, ‘Thou shalt be my food!’ He replied, ‘So be it!’ He accordingly cut him in twain; and from that (part) of his which was of the Soma nature 33, he made the moon, and that which was demoniacal (asurya) he made enter these creatures as their belly; hence people say 34: ‘Vr̥tra was then a consumer of food, and Vr̥tra is so now.’ For even now, whenever that one (the moon) waxes fuller, it fills itself out of this world 35; and whenever

these creatures crave for food, they pay tribute to this Vr̥tra, the belly. Whosoever knows that Vr̥tra as a consumer of food, becomes himself a consumer of food.

१८

विश्वास-प्रस्तुतिः

ता᳘ ऽउ हैता᳘ देव᳘ता ऽऊचुः॥
(र्या᳘) या᳘ ऽइमा᳘ ऽअग्नीषो᳘मावन्वाजग्मुर᳘ग्नीषोमौ युवं वै᳘ नो भूयिष्ठभा᳘जौ स्थो य᳘योर्वामिदं᳘ युव᳘योरस्मा᳘नन्वा᳘भजतमि᳘ति॥

मूलम् - श्रीधरादि

ता᳘ ऽउ हैता᳘ देव᳘ता ऽऊचुः॥
(र्या᳘) या᳘ ऽइमा᳘ ऽअग्नीषो᳘मावन्वाजग्मुर᳘ग्नीषोमौ युवं वै᳘ नो भूयिष्ठभा᳘जौ स्थो य᳘योर्वामिदं᳘ युव᳘योरस्मा᳘नन्वा᳘भजतमि᳘ति॥

मूलम् - Weber

ता᳘ उ हैता᳘ देव᳘ता ऊचुः॥
या᳘ इमा᳘ अग्नीषोमावन्वाजग्मुर᳘ग्नीषोमौ युवं वै᳘ नो भूयिष्ठभा᳘जौ स्थो य᳘योर्वामिदं᳘ युव᳘योरस्मा᳘नन्वा᳘भजतमि᳘ति॥

मूलम् - विस्वरम्

ता उ हैता देवता ऊचुः- या इमा अग्नीषोमावन्वाजग्मुः “अग्नीषोमौ ! युवं वै नो भूयिष्ठभाजौ स्थः, ययोर्वामिदम् । युवयोरस्मानन्वाभजतम्” इति ॥ १८ ॥

सायणः

प्रयाजानन्तरमाज्यभागौ वक्तव्यावन्तरितौ, अतस्तावग्नीषोमीयपुरोडाशप्रसङ्गेन विधातुमाह- ता उ हेति । वृत्रदेहाद् ‘अग्नीषोमावनु’ निर्गताः सर्वाः ‘देवताः’ ‘तौ’ अग्नीषोमौ प्रतीदमब्रुवन्-“यतो वृत्रदेहान्निर्गतयोर्युवयोरिदं पुरोडाशद्रव्यं प्रातिस्विकमभूत् 36, अतो युवामेव प्रभूतभागभाजौ भवथः, ‘युवयोः’ मध्ये ‘अस्मान्’ अपि ‘अन्वाभजतम्’, इति ॥ १८॥

Eggeling
  1. Those deities then said, ‘Ye, Agni and Soma, whom we have followed hither, take the best part (of the sacrificial food): do let us share along with you in what ye have!’

१९

विश्वास-प्रस्तुतिः

तौ᳘ होचतुः॥
कि᳘माव᳘योस्त᳘तः स्यादि᳘ति य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्न्निर्व्व᳘पांस्त᳘द्वां पुर᳘स्तादा᳘ज्यस्य यजानि᳘ति त᳘स्माद्यस्यै क᳘स्यै च देव᳘तायै हवि᳘र्निर्व्व᳘पन्ति त᳘त्पुर᳘स्तादा᳘ज्यभागावग्नीषो᳘माभ्यां यजन्ति तन्न᳘ सौ᳘म्ये ऽध्वरे न᳘ पशौ य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्निर्व्व᳘पानि᳘ति ह्य᳘ब्रुवन्॥

मूलम् - श्रीधरादि

तौ᳘ होचतुः॥
कि᳘माव᳘योस्त᳘तः स्यादि᳘ति य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्न्निर्व्व᳘पांस्त᳘द्वां पुर᳘स्तादा᳘ज्यस्य यजानि᳘ति त᳘स्माद्यस्यै क᳘स्यै च देव᳘तायै हवि᳘र्निर्व्व᳘पन्ति त᳘त्पुर᳘स्तादा᳘ज्यभागावग्नीषो᳘माभ्यां यजन्ति तन्न᳘ सौ᳘म्ये ऽध्वरे न᳘ पशौ य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्निर्व्व᳘पानि᳘ति ह्य᳘ब्रुवन्॥

मूलम् - Weber

तौ᳘ होचतुः॥
कि᳘माव᳘योस्त᳘तः स्यादि᳘ति य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्निर्व᳘पांस्त᳘द्वाम् पुर᳘स्तादा᳘ज्यस्य यजानि᳘ति त᳘स्माद्य᳘स्यै क᳘स्यै च देव᳘तायै हवि᳘र्निर्व᳘पन्ति त᳘त्पुर᳘स्तादा᳘ज्यभागावग्नीषो᳘माभ्यां यजन्ति तन्न᳘ सौॗम्ये ऽध्वरे न᳘ पशौ य᳘स्यै क᳘स्यै च देव᳘तायै निर्व᳘पानि᳘ति ह्य᳘ब्रुवन्॥

मूलम् - विस्वरम्

तौ होचतुः- “किमावयोस्ततः स्याद्” इति । “यस्यै कस्यै च देवतायै हविर्निर्वपान्- तद् वां पुरस्तादाज्यस्य यजान्” इति । तस्माद् यस्यै कस्यै च देवतायै हविर्निर्वपन्ति- तत्पुरस्तादाज्यभागावग्नीषोमाभ्यां यजन्ति । तन्न सौम्ये ऽध्वरे, न पशौ । ‘यस्यै कस्यै च देवतायै हविर्निर्वपान्’ इति ह्यब्रुवन् ॥ १९ ॥

सायणः

तौ होचतुरिति । अथ ‘तावूचतुः’- " ‘ततः युष्मदनुप्रवेशाद् ‘आवयोः’ किं, ‘स्यात् ?’ " ‘इति’ उक्ता देवतास्तयोः- “हे अग्नीषोमौ ! लोके यष्टारो ‘यस्यै कस्यै च देवतायै’ इन्द्रादिदेवतानां मध्ये यां कांचिद्देवतां प्रति ‘हविः’ ‘निर्वपान्’ निर्वपेयुः, तत्र च निरुप्तप्रधानदेवताभ्यः पूर्वम् ‘आज्यस्य’ आज्यं 36 ‘यजान्’ यजेयुः इदानीं विधत्ते- तस्मादिति । ‘तस्माद्’ देवैर्दत्तत्वाद् यत्र निर्वपति, तत्र ‘आज्यभागावग्नीषोमाभ्याम्’ अनुष्ठेयौ । आज्यभागौ प्रशंसति- तत्र सौम्ये इति । पशुसोमयोराज्यभागौ ‘न’ कुर्यात् । निर्वापाभावादेव पशुसोमयोरप्राप्तस्याज्यभागस्य पुनर्निषेधेनैष्टिकमाज्यभागविधानं स्तूयते । यथा दशमाध्यायस्याष्टमे पादे द्वितीयाधिकरणे- ‘न सौम्ये ऽध्वर इत्यत्र किं निषिध्यते, उत पर्युदस्यते, अथार्थवादः ?’ इति त्रेधा विकल्प्यार्थवाद इति राद्धान्तितम् 37 । सोमपश्वोस्तदप्राप्तौ कारणमाह- यस्यै कस्यै चेति । ‘निर्वपानिति ह्यब्रुवन्’ इति निर्वापस्य विशेषितत्वात्, तयोस्तदभावादिति भावः ॥ १९ ॥

Eggeling
  1. They both said, ‘What (share) shall then be ours?’ They replied, ‘For whatever deity they shall take out sacrificial food, they shall in the first place offer to you some clarified butter!’ Whenever, therefore, they take out sacrificial food for any deity, they in the first place offer two butter-portions to Agni and Soma. This does not take place at the Soma-sacrifice, nor at the animal offering; for they said, ‘for whatever deity they take out . . . 38.’

२०

विश्वास-प्रस्तुतिः

(न्त्स᳘) स᳘ हाग्नि᳘रुवाच॥
म᳘य्येव᳘ वः स᳘र्व्वेभ्यो जुह्वतु त᳘द्वो ऽहं मय्या᳘भजामी᳘ति त᳘स्मादग्नौ स᳘र्व्वेभ्यो देवे᳘भ्यो जुह्वति तस्मादाहुरग्निः स᳘र्व्वा देव᳘ता ऽइ᳘ति॥

मूलम् - श्रीधरादि

(न्त्स᳘) स᳘ हाग्नि᳘रुवाच॥
म᳘य्येव᳘ वः स᳘र्व्वेभ्यो जुह्वतु त᳘द्वो ऽहं मय्या᳘भजामी᳘ति त᳘स्मादग्नौ स᳘र्व्वेभ्यो देवे᳘भ्यो जुह्वति तस्मादाहुरग्निः स᳘र्व्वा देव᳘ता ऽइ᳘ति॥

मूलम् - Weber

स᳘ हाग्नि᳘रुवाच॥
म᳘य्येव᳘ वः स᳘र्वेभ्यो जुह्वतु त᳘द्वो ऽहं मय्या᳘भजामी᳘ति त᳘स्मादग्नौ स᳘र्वेभ्यो देवे᳘भ्यो जुह्वति तस्मादाहुरग्निः स᳘र्वा देव᳘ता इ᳘ति॥

मूलम् - विस्वरम्

स हाग्निरुवाच- “मय्येव वः सर्वेभ्यो जुह्वतु, तद्वो ऽहं मय्याभजामि” इति । तस्मादग्नौ सर्वेभ्यो देवेभ्यो जुह्वति- तस्मादाहुः- ‘अग्निः सर्वा देवताः’ इति ॥ २० ॥

सायणः

इदानीं ताभ्यां देवताभ्यः कृतमुपकारं दर्शयति- सहाग्निरित्यादिना, अथ ह सोम इत्यादिना च । अग्निः सर्वदेवार्थमाहुत्याधारतालक्षणम्- सोमस्तु सर्वदेवतानामाहुतिलक्षणाम्, उपकारं क्रतवन्तौ । यस्मादेवं ‘तस्माद्’ वेदवादिनः- अग्नेः सोमस्य च सर्वदेवतात्मकताम् ‘आहुः’ ॥ २० ॥ २१ ॥

Eggeling
  1. Agni then said, ‘In me they shall sacrifice for all of you, and thus I give you a share in me!’ For this reason they sacrifice in Agni (the fire) to all the gods; and for this reason they say that Agni is all the deities.

२१

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ ह सो᳘म ऽउवाच॥
मा᳘मेव᳘ वः स᳘र्व्वेभ्यो जुह्वतु त᳘द्वो ऽहं मय्या᳘भजामी᳘ति त᳘स्मात्सो᳘मᳫँ᳭स᳘र्व्वेभ्यो देवे᳘भ्यो जुह्व᳘ति त᳘स्मादाहुः सो᳘मः स᳘र्व्वा देव᳘ता ऽइ᳘ति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ ह सो᳘म ऽउवाच॥
मा᳘मेव᳘ वः स᳘र्व्वेभ्यो जुह्वतु त᳘द्वो ऽहं मय्या᳘भजामी᳘ति त᳘स्मात्सो᳘मᳫँ᳭स᳘र्व्वेभ्यो देवे᳘भ्यो जुह्व᳘ति त᳘स्मादाहुः सो᳘मः स᳘र्व्वा देव᳘ता ऽइ᳘ति॥

मूलम् - Weber

अ᳘थ ह सो᳘म उवाच॥
मा᳘मेव᳘ वः स᳘र्वेभ्यो जुह्वतु त᳘द्वो ऽहं मय्या᳘भजामी᳘ति त᳘स्मात्सो᳘मᳫं स᳘र्वेभ्यो देवे᳘भ्यो जुह्वति त᳘स्मादाहुः सो᳘मः स᳘र्वा देव᳘ता इ᳘ति॥

मूलम् - विस्वरम्

अथ ह सोम उवाच- “मामेव वः सर्वेभ्यो जुह्वतु, तद्वो ऽहं मय्याभजामि” इति । तस्मात् सोमं सर्वेभ्यो देवेभ्यो जुह्वति, तस्मादाहुः- ‘सोमः सर्वा देवताः’ इति ॥ २१ ॥

सायणः

[व्याख्यानम् विंशे]

Eggeling
  1. Soma then said, ‘Me they shall offer up to all of you, and thus I give you a share in me!’ For this reason they offer up Soma to all the gods; and hence they say that Soma is all the deities.

२२

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ यदि᳘न्द्रे स᳘र्व्वे देवा᳘स्तस्थानाः॥
(स्त᳘) त᳘स्मादाहुरि᳘न्द्रः स᳘र्व्वा देव᳘ता ऽइ᳘न्द्रश्रेष्ठा देवा ऽइ᳘त्येत᳘द्ध वै᳘ देवा᳘स्त्रे᳘धैकदेव᳘त्या ऽअभवन्त्स यो᳘ हैव᳘मेतद्वे᳘दैकधा᳘ हैव स्वा᳘नाᳫं श्रे᳘ष्ठो भवति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ यदि᳘न्द्रे स᳘र्व्वे देवा᳘स्तस्थानाः॥
(स्त᳘) त᳘स्मादाहुरि᳘न्द्रः स᳘र्व्वा देव᳘ता ऽइ᳘न्द्रश्रेष्ठा देवा ऽइ᳘त्येत᳘द्ध वै᳘ देवा᳘स्त्रे᳘धैकदेव᳘त्या ऽअभवन्त्स यो᳘ हैव᳘मेतद्वे᳘दैकधा᳘ हैव स्वा᳘नाᳫं श्रे᳘ष्ठो भवति॥

मूलम् - Weber

अ᳘थ यदि᳘न्द्रे स᳘र्वे देवा᳘स्तस्थानाः᳟॥
त᳘स्मादाहुरि᳘न्द्रः स᳘र्वा देव᳘ता इ᳘न्द्रश्रेष्ठा 39 देवा इ᳘त्येत᳘द्ध वै देवा᳘स्त्रेॗधैकदेव᳘त्या अभवन्त्स यो᳘ हैव᳘मेतद्वे᳘दैकधा᳘ हैव स्वा᳘नां श्रे᳘ष्ठो भवति॥

मूलम् - विस्वरम्

अथ यदिन्द्रे सर्वे देवास्तस्थानास्तस्मादाहुः- ‘इन्द्रः सर्वा देवताः, इन्द्रश्रेष्ठा देवाः’ इति । एतद्ध वै देवास्त्रेधैकदेवत्या अभवन् । स यो हैवमेतद् वेद, एकधा हैव स्वानां श्रेष्ठो भवति ॥ २२ ॥

सायणः

अथ यदिन्द्र इतिः । ‘यद्’ यस्माच्च ‘इन्द्रे’ सर्वे देवाः । ‘तस्थानाः’ स्थितवन्तः, अतः ‘इन्द्रः सर्वा देवताः’ अत्र कारणमाह- इन्द्रज्येष्ठा देवा इतीति । ज्येष्ठत्वं 39 तु “तावेनमुपाववृततुस्तावनु सर्वे देवाः”- इत्यादिनोक्तत्वादवगन्तव्यम् 40 । ‘एतद्ध’ एतेनैव खलु कारणेन सर्वे ऽपि ‘देवाः’ ‘त्रेधा’ त्रिप्रकारेण अग्निसोमेन्द्रात्मकाः ‘एकदेवत्याः’ एकैकदेवतार्थाः । ‘अभवन्’ तादर्थ्ये यत् । उक्तार्थज्ञं प्रशंसति- स य इति । अग्न्यादीनामेकदेवत्वलक्षणश्रेष्ठत्वपरिज्ञानेन स्वयमपि स्वकीयानां मध्ये एक एव ‘श्रेष्ठो भवति’ ॥ २२ ॥

Eggeling
  1. And further, since all the gods were abiding in Indra, for that reason they say that Indra is all the deities, that the gods have Indra for their chief (śreshṭḥa). Thus the gods came in a three-fold

way to consist of one deity; and he who knows this becomes individually the chief of his own (people).

२३

विश्वास-प्रस्तुतिः

द्वयं व्वा᳘ ऽइदं न᳘ तृती᳘यमस्ति॥
(स्त्या) आर्द्र᳘ञ्चैव शु᳘ष्कञ्च यच्छु᳘ष्कं त᳘दाग्नेयं य᳘दार्द्रं त᳘त्सौम्यम᳘थ य᳘दिदं᳘ द्वय᳘मेवा᳘थ कि᳘मेता᳘वत्क्रियत ऽइ᳘त्यग्नीषो᳘मयोरेवा᳘ज्यभागावग्नीषो᳘मयोरुपाᳫंशुया᳘जो ऽग्नीषो᳘मयोः पुरोडा᳘शो यद᳘त ए᳘कतमेनै᳘वेदᳫँ᳭स᳘र्व्वमाप्नोत्य᳘थ कि᳘मेता᳘वत्क्रियत ऽइ᳘त्यग्नीषो᳘मयोर्है᳘वैता᳘वती व्वि᳘भूतिः प्र᳘जातिः॥

मूलम् - श्रीधरादि

द्वयं व्वा᳘ ऽइदं न᳘ तृती᳘यमस्ति॥
(स्त्या) आर्द्र᳘ञ्चैव शु᳘ष्कञ्च यच्छु᳘ष्कं त᳘दाग्नेयं य᳘दार्द्रं त᳘त्सौम्यम᳘थ य᳘दिदं᳘ द्वय᳘मेवा᳘थ कि᳘मेता᳘वत्क्रियत ऽइ᳘त्यग्नीषो᳘मयोरेवा᳘ज्यभागावग्नीषो᳘मयोरुपाᳫंशुया᳘जो ऽग्नीषो᳘मयोः पुरोडा᳘शो यद᳘त ए᳘कतमेनै᳘वेदᳫँ᳭स᳘र्व्वमाप्नोत्य᳘थ कि᳘मेता᳘वत्क्रियत ऽइ᳘त्यग्नीषो᳘मयोर्है᳘वैता᳘वती व्वि᳘भूतिः प्र᳘जातिः॥

मूलम् - Weber

द्वयं वा᳘ इदं न᳘ तृती᳘यमस्ति॥
आर्द्रं᳘ चैव शु᳘ष्कं च यछु᳘ष्कं त᳘दाग्नेयं य᳘दार्द्रं त᳘त्सौम्यम᳘थ य᳘दिदं᳘ द्वय᳘मेवा᳘प्य कि᳘मेता᳘वत्क्रियत इ᳘त्यग्नीषो᳘मयोरेवा᳘ज्यभागावग्नीषो᳘मयोरुपांशुयाॗजो ऽग्नीषो᳘मयोः पुरोडा᳘शो यद᳘त ए᳘कतमेनैॗवेदᳫं स᳘र्वमाप्नोत्य᳘थ कि᳘मेता᳘वत्क्रियत इ᳘त्यग्नीषो᳘मयोर्हैॗवैता᳘वती वि᳘भूतिः प्र᳘जातिः॥

मूलम् - विस्वरम्

द्वयं वा इदं न तृतीयमस्ति- आर्द्रं चैव, शुष्कं च । यच्छुष्कं- तदाग्नेयम्, यदार्द्रं तत्सौम्यम् । अथ यदिदं द्वयमेव- अथ किमेतावत् क्रियते ? इति । अग्नीषोमयोरेवाज्यभागौ, अग्नीषोमयोरुपांशुयाजः, अग्नीषोमयोः पुरोडाशः । यदत एकतमेनैवेदं सर्वमाप्नोति- अथ किमेतावत् क्रियता ? इति । अग्नीषोमयोर्हैवैतावती विभूतिः- प्रजातिः ॥ २३ ॥

सायणः

आज्याभागोपांशुयाजपुरोडाशानां यदग्नीषोमदेवताकत्वमस्ति, तत् प्रशंसितुमाह- द्वयं वा इत्यादि । लोके पदार्थाः सर्वे ऽपि शुष्कार्द्रभावेन द्विविधाः, अतः, तृतीयविधस्याभावाद्- ‘यच्छुष्कं तदाग्नेयम्’ भविष्यति, यच्चार्द्रं ‘तत्सौम्यम्’ अतो लोके विद्यमानं वस्तुद्वयमेव, अस्मादेव कारणात्- अग्नीषोमयोर्योगेन समाप्तं भविष्यति । ‘किम्’ ‘एतावद्’ बहु ‘क्रियते’ ‘इति’ ब्रह्मवादिनां चोद्यम् । एतावदिति संग्रहेणोक्तस्य विवरणम्- अग्नीषोमयोरिति । अग्नीषोमयोरेवाज्यभागावित्यादित्रयाणामपि प्रदानस्योपपत्तिमाह- अग्नीषोमयोर्हेत्यादिना । ‘एतावती’ सूर्यचन्द्रादिभेदेन त्रेधा ‘विभूतिः’ विभवो 41 बहुभावः । विभूतिरित्यस्य व्याख्यानं प्रजातिरिति । ‘प्रजातिः’ प्रकर्षेणोत्पत्तिः॥॥॥ २३ ॥

Eggeling
  1. Twofold, verily, is this, there is no third: to wit, the moist and the dry; and what is dry, that relates to Agni; and what is moist, that relates to Soma. But (it may be objected) if this is twofold only, why then this manifold performance:–the two butter-portions for Agni and Soma, the low-voiced offering to Agni and Soma, and the rice-cake for Agni and Soma,–when by means of any one of these he obtains all, why then this manifold performance? [The answer to this objection is that] so manifold is the power, the generative force of Agni and Soma.

२४

विश्वास-प्रस्तुतिः

सू᳘र्य ऽए᳘वाग्नेयः॥
(श्च) चन्द्र᳘माः सौम्यो᳘ ऽहरे᳘वाग्नेयᳫँ᳭ रा᳘त्रिः सौम्या य᳘ ऽए᳘वापूर्य᳘ते ऽर्द्धमासः स᳘ ऽआग्नेयो᳘ यो ऽपक्षीय᳘ते स᳘ सौम्यः॥

मूलम् - श्रीधरादि

सू᳘र्य ऽए᳘वाग्नेयः॥
(श्च) चन्द्र᳘माः सौम्यो᳘ ऽहरे᳘वाग्नेयᳫँ᳭ रा᳘त्रिः सौम्या य᳘ ऽए᳘वापूर्य᳘ते ऽर्द्धमासः स᳘ ऽआग्नेयो᳘ यो ऽपक्षीय᳘ते स᳘ सौम्यः॥

मूलम् - Weber

सू᳘र्य एॗवाग्नेयः᳟॥
चन्द्र᳘माः सौम्यो᳘ ऽहरेॗवाग्नेयं रा᳘त्रिः सौम्या य᳘ एॗवापूर्य᳘ते ऽर्धमासः स᳘ आग्नेयोॗ यो ऽपक्षी᳘यते स᳘ सौम्यः᳟॥

मूलम् - विस्वरम्

सूर्य एवाग्नेयश्चन्द्रमाः सौम्यः (१) । अहरेवाग्नेयम्, रात्रिः सौम्या (२) । य एवापूर्यते अर्द्धमासः स आग्नेयो ऽपक्षीयते स सौम्यः ( ३ ) ॥ २४ ॥

सायणः

सूर्यादियुगलत्रयस्याग्नीषोमात्मकतां विभज्य योजयति- सूर्य एवेति । सूर्याह्नोश्चन्द्ररात्र्योश्चाग्निसोमात्मकतायामुष्णत्वशीतत्वे हेतू । आपूर्यमाणपक्षस्याग्नेयत्वमग्नेर्भिन्नस्य सवितुः किरणानामनुक्रमेण चन्द्रमस्यनुप्रवेशात्; अपक्षीयमाणपक्षस्य सौम्यत्वं च क्रमेण सूर्यांशापनये सति स्वकीयकिरणोपवापादिति 41 द्रष्टव्यम् ॥ २४ ॥

Eggeling
  1. The sun, indeed, relates to Agni, and the moon to Soma; the day relates to Agni, and the night to Soma; the waxing half-moon relates to Agni, and the waning one to Soma.

२५

विश्वास-प्रस्तुतिः

(ऽ) आ᳘ज्यभागाभ्यामेव᳘॥
सूर्याचन्द्रम᳘सावाप्नोत्युपाᳫंशुयाजे᳘नै᳘वाहोरात्रे᳘ ऽआप्नोति पुरोडा᳘शेनै᳘वार्द्धमासा᳘वाप्नोती᳘त्यु है᳘क ऽआहुः॥

मूलम् - श्रीधरादि

(ऽ) आ᳘ज्यभागाभ्यामेव᳘॥
सूर्याचन्द्रम᳘सावाप्नोत्युपाᳫंशुयाजे᳘नै᳘वाहोरात्रे᳘ ऽआप्नोति पुरोडा᳘शेनै᳘वार्द्धमासा᳘वाप्नोती᳘त्यु है᳘क ऽआहुः॥

मूलम् - Weber

आ᳘ज्यभागाभ्यामेव᳟॥
सूर्याचन्द्रम᳘सावाप्नोत्युपांशुयाजे᳘नैॗवाहोरात्रे᳘ आप्नोति पुरोडा᳘शेनैॗवार्धमासा᳘वाप्नोती᳘त्यु है᳘क आहुः॥

मूलम् - विस्वरम्

आज्यभागाभ्यामेव सूर्याचन्द्रमसावाप्नोति, उपांशुयाजेनैवाहोरात्रे आप्नोति, पुरोडाशेनैवार्द्धमासावाप्नोति, इत्यु हैक- आहुः ॥ २५ ॥

सायणः

अस्त्वेवं किं तत इत्यत आह- आज्यभागाभ्यामेवेति । अतस्त्रिविधविभूत्याप्तये त्रयाणामपि यागानामग्नीषोमीयत्वं युक्तमिति केचिदाहुः ॥ २५ ॥

Eggeling
  1. ‘By means of the two butter-portions he obtains the sun and the moon; by means of the low-voiced offering he obtains the day and the night; and by means of the rice-cake he obtains the two half-moons,’ thus say some.

२६

विश्वास-प्रस्तुतिः

(स्त᳘) त᳘दु होवाचा᳘सुरिः॥
(रा᳘) आ᳘ज्यभागाभ्यामेवा᳘तो यतमे᳘ वा यतमे वा द्वे᳘ ऽआप्नोत्युपाᳫंशुयाजे᳘नैवा᳘तो यतमे᳘ वा यतमे वा द्वे᳘ ऽआप्नोति पुरोडा᳘शेनैवा᳘तो यतमे᳘ वा यतमे वा द्वे᳘ ऽआप्नोति स᳘र्व्वं म ऽआप्त᳘मसत्स᳘र्वं जितᳫँ᳭स᳘र्व्वेण व्वृत्रंᳫँ᳭हनानि स᳘र्व्वेण द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭हनानी᳘ति त᳘स्माद्वा᳘ ऽएता᳘वत्क्रियत ऽइ᳘ति॥

मूलम् - श्रीधरादि

(स्त᳘) त᳘दु होवाचा᳘सुरिः॥
(रा᳘) आ᳘ज्यभागाभ्यामेवा᳘तो यतमे᳘ वा यतमे वा द्वे᳘ ऽआप्नोत्युपाᳫंशुयाजे᳘नैवा᳘तो यतमे᳘ वा यतमे वा द्वे᳘ ऽआप्नोति पुरोडा᳘शेनैवा᳘तो यतमे᳘ वा यतमे वा द्वे᳘ ऽआप्नोति स᳘र्व्वं म ऽआप्त᳘मसत्स᳘र्वं जितᳫँ᳭स᳘र्व्वेण व्वृत्रंᳫँ᳭हनानि स᳘र्व्वेण द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭हनानी᳘ति त᳘स्माद्वा᳘ ऽएता᳘वत्क्रियत ऽइ᳘ति॥

मूलम् - Weber

त᳘दु होवाचा᳘सुरिः॥
आ᳘ज्यभागाभ्यामेवा᳘तो यतमे᳘ वा यतमे वा द्वे᳘ आप्नो᳘त्युपांशुयाजे᳘नैवा᳘तो ऽहोरात्रे᳘ आप्नोति पुरोडा᳘शेनैवा᳘तो ऽर्धमासा᳘वाप्नोति स᳘र्वं म आप्त᳘मसत्स᳘र्वं जितᳫं स᳘र्वेण वृत्र᳘ᳫं᳘ हनानि स᳘र्वेण द्विष᳘न्तं भ्रा᳘तृव्यᳫं हनानी᳘ति त᳘स्माद्वा᳘ एता᳘वत्क्रियत इ᳘ति॥

मूलम् - विस्वरम्

तदु होवाचासुरिः- आज्यभागाभ्यामेवातो यतमे वा यतमे वा द्वे आप्नोति । उपांशुयाजेनैवातो यतमे वा यतमे वा द्वे आप्नोति । पुरोडाशेनैवातो यतमे वा यतमे वा द्वे आप्नोति । सर्वे मे आप्तमसत्, सर्वं जितम्, सर्वेण वृत्रं हनानि, सर्वेण द्विषन्तं भ्रातृव्यं हनानि, इति । तस्माद् वा एतावत् क्रियते- इति ॥ २६ ॥

सायणः

तदु होवाचेति । ‘आसुरिः’ त्वेवम् ‘उवाच’ उभयेषु त्रिषु यागेष्वाज्यभागाभ्यामेव सूर्याहो ऽर्द्धमासयुगलत्रयात्मिकासु त्रिविधासु विभूतिषु ‘यतमे वा यतमे वा’ ‘द्वे’ वस्तुनी, ‘यतमे वा’ अहोरात्ररूपे वा, शुक्लकृष्णपक्षरूपे वा, द्वे ‘आप्नोति’ वीप्सया त्रिविधान्यपि युगलानि परिगृह्यन्ते । आज्यभागपुरोडाशाभ्यामग्नीषोमाग्नीषोमदेवताकानामप्येवं त्रिष्वपि यागेष्वेकैकेनैव त्रिविधामप्यग्नीषोमयोर्विभूतिमाप्तवान् भवतीत्यासुरिराचार्यो 41 मन्यते । आसुरिपक्षं निगमयति- तस्मादिति । ‘तस्माद्वै’ यस्मादेकैकेन सर्वविभूतिराप्ता भवति, तस्मात् कारणाद्- ‘एतावत्’ यागत्रयमप्यग्नीषोमीयमेव ‘क्रियते’ ॥ २६ ॥

Eggeling
  1. Āsuri, on the other hand, said: ‘By means of the two butter-portions he gains any two (of those objects 42); by means of the low-voiced offering he obtains any (other) two; and by means of the rice-cake he obtains any (other) two: “all has been obtained, all has been conquered by me! with that All I will slay Vr̥tra; with the All I will slay the

spiteful enemy!” thus he thinks, and for that reason there is this manifold performance.’

२७

विश्वास-प्रस्तुतिः

त᳘दाहुः॥
कि᳘मिदं᳘ जामि᳘ क्रियते ऽग्नीषो᳘मयोरेवा᳘ज्यस्याग्नीषो᳘मयोः पुरोडा᳘शस्य यद᳘नन्तर्हितं ते᳘न जामी᳘त्यने᳘न ह᳘ त्वेवा᳘जाम्या᳘ज्यस्ये᳘तरं पुरोडा᳘शस्ये᳘तरं त᳘दन्य᳘दिवे᳘तरमन्य᳘दिवे᳘तरं भवत्यृ᳘चमनूच्य जुषाणे᳘न यजत्यृ᳘चमनू᳘च्यर्च्चा᳘ यजति त᳘दन्य᳘दिवे᳘तरमन्य᳘दिवे᳘तरं भवत्यने᳘न ह᳘ त्वेवा᳘जाम्युपाᳫंश्वा᳘ज्यस्य य᳘जत्युच्चैः᳘ पुरोडा᳘शस्य स य᳘दुपाᳫंशु त᳘त्प्राजापत्यᳫँ᳭रूपं त᳘स्मात्त᳘स्यानुष्टु᳘भमनुवा᳘क्याम᳘न्वाह व्वाग्घ्यनुष्टुब्वाग्घि᳘ प्रजा᳘पतिः॥

मूलम् - श्रीधरादि

त᳘दाहुः॥
कि᳘मिदं᳘ जामि᳘ क्रियते ऽग्नीषो᳘मयोरेवा᳘ज्यस्याग्नीषो᳘मयोः पुरोडा᳘शस्य यद᳘नन्तर्हितं ते᳘न जामी᳘त्यने᳘न ह᳘ त्वेवा᳘जाम्या᳘ज्यस्ये᳘तरं पुरोडा᳘शस्ये᳘तरं त᳘दन्य᳘दिवे᳘तरमन्य᳘दिवे᳘तरं भवत्यृ᳘चमनूच्य जुषाणे᳘न यजत्यृ᳘चमनू᳘च्यर्च्चा᳘ यजति त᳘दन्य᳘दिवे᳘तरमन्य᳘दिवे᳘तरं भवत्यने᳘न ह᳘ त्वेवा᳘जाम्युपाᳫंश्वा᳘ज्यस्य य᳘जत्युच्चैः᳘ पुरोडा᳘शस्य स य᳘दुपाᳫंशु त᳘त्प्राजापत्यᳫँ᳭रूपं त᳘स्मात्त᳘स्यानुष्टु᳘भमनुवा᳘क्याम᳘न्वाह व्वाग्घ्यनुष्टुब्वाग्घि᳘ प्रजा᳘पतिः॥

मूलम् - Weber

त᳘दाहुः॥
कि᳘मिदं᳘ जामि᳘ क्रियते ऽग्नीषो᳘मयोरेवा᳘ज्यस्याग्नीषो᳘मयोः पुरोडा᳘शस्य यद᳘नन्तर्हितं ते᳘न जामी᳘त्यने᳘न हॗ त्वेवा᳘जाम्या᳘ज्यस्ये᳘तरम् पुरोडा᳘शस्ये᳘तरं त᳘दन्य᳘दिवे᳘तरमन्य᳘दिवे᳘तरम् भवत्यृ᳘चमनू᳘च्य जुषाणे᳘न यजत्यृ᳘चमनू᳘च्यर्चा᳘ यजति त᳘दन्य᳘दिवे᳘तरमन्य᳘दिवे᳘तरम् भवत्यने᳘न हॗ त्वेवा᳘जाम्युपांश्वा᳘ज्यस्य य᳘जत्युच्चैः᳘ पुरोडा᳘शस्य स य᳘दुपांशु त᳘त्प्राजापत्यं᳘ रूपं त᳘स्मात्त᳘स्यानुष्टु᳘भमनुवाॗक्याम᳘न्वाह वाग्घ्य᳘नुष्टुब्वाग्घि᳘ प्रजा᳘पतिः॥

मूलम् - विस्वरम्

तदाहुः- किमिदं जामि क्रियते अग्नीषोमयोरेवाज्यस्य, अग्नीषोमयोः पुरोडाशस्य, यदनन्तर्हितं तेन जामि- इति । अनेन ह त्वेवाजामि- आज्यस्येतरम्, पुरोडाशस्येतरम्- तदन्यदिवेतरमन्यदिवेतरं भवति । ऋचमनूच्य जुषाणेन यजति, ऋचमनूच्य ऋचा यजति- तदन्यदिवेतरमन्यदिवेतरं भवति । अनेन ह त्वेवाजामि- उपांश्वाज्यस्य यजति, उच्चैः पुरोडाशस्य । स यदुपांशु- तत् प्राजापत्यं रूपम् । तस्मात्तस्यानुष्टुभमनुवाक्यामन्वाह । वाग् ह्यनुष्टुब्, वाग् हि प्रजापतिः ॥ २७ ॥

सायणः

अथाज्यभागादियागत्रयद्रव्ययोराज्यपुरोडाशयोरेकदेवतात्वप्रयुक्तं जामितादोषमाक्षिप्य द्रव्यमन्त्रधर्माणां भेदेन तत्परिहरति 43- तदाहुरित्यादिना । आज्यपुरोडाशस्य, प्रदानमिति शेषः । अथवा ‘आज्यस्य’ ‘पुरोडाशस्य’ वा पशावपि ‘अग्नीषोमयोः’ एव दीयत इत्यर्थः । कथमेतावता जामितेति, तत्राह- यदिति । एकरूपं ‘यद्’ वस्तुद्वयं तद्विलक्षणेन वस्त्वन्तरेणाव्यवहितम्, ‘तेन’ अव्यवधानेन तद्वस्तु ‘जामि’ भवति । अत्र तु व्यवधानमाग्नेयेन ‘अनेन’ वक्ष्यमाणेन च खल्वजामि । केनेति- उच्यते- ‘आज्यस्य’ द्रव्यस्य ‘इतरम्’ इतरत् कर्म-उपांशुयाजाख्यम्, तथा ‘पुरोडाशस्येतरम्’ आज्याख्यम्; अन्योन्यापेक्षयोरुभयोरितरत्वम् । अन्यदिवेति । द्रव्यभेदादेकदेवत्यमपि कर्मद्वयम् ‘अन्यदिवान्यदिव’ भवतीत्यर्थः, अतो ऽन्ययोर्न जामिता ऽस्ति । द्वितीयः परिहारः- आज्यभागः प्रधानद्वयं वेति कोटिद्वयं विषयीकृत्य प्रवृत्त इति द्रष्टव्यम् 44 । (मन्त्रभेदेन 45 चाज्यभागप्रधानद्वययोरजामित्वम्,) प्रधानद्वययोः ‘जुषाणः’- इत्यस्यासम्भवात् । यद्यप्याज्यभागप्रधानयोर्देवतैक्यम्, तथाप्याज्यभागस्य ‘ऋचम्’, “अग्निर्वृत्राणि”- (वा. सं. ३३ । ९ ।) “त्वं सोमासि”- इत्यादिकामनुवाक्यां कृत्वा “जुषाणो अग्निराज्यस्य वेतु”- “जुषाणः सोमः”- (तै० ब्रा० ३ । ५ । ६ । १, २) इति ‘जुषाणेन यजति;’ प्रधानाभ्यां तु क्रमेण “अग्नीषोमा यो अद्य वाम्” (ऋ० १. ९-३, २.) “अग्नीषोमा सवेदसा”- (ऋ. सं. १. ९३.९ । तै. ब्रा. ३. ५. ७. ४.) इत्यनूच्य 46, “आन्यं दिवो मातरिश्वा जभार-” (ऋ. १. ९३. ६) “युवमेतानि”- (ऋ. सं. १. ९३. ५ । तै. ब्रा. ३. ५. । ७. ४) इत्यृग्भ्यां यजति। अन्यदिवेत्यादि । पूर्ववन्न दोषः । तथा ऽऽज्यपुरोडाशयोरुपांशुत्वोच्चैस्त्वभेदादप्यजामित्वम् । “तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजन्निति”- श्रुत्यन्तरादुपांशुत्वविधानं युक्तम् । विहितमाज्यस्योपांशुत्वं प्रशंसति- स यदुपांश्विति । उपांशुत्वस्यानिरुक्तत्वात्- प्रजापतेरपि सर्वात्मकत्वेन तथात्वात्प्रजापतिरूपत्वम् । ‘तस्मात्’- उपांशोः प्रजापतिरूपत्वात् ‘तस्य’ प्रजापतेरुचितामनुष्टुप्छन्दस्काम् “अग्नीषोमा यो अद्य वाम्”- इत्येताम्, ‘अनुवाक्याम्’ अनुब्रूते । एतावता कथं साम्यप्रतीतिरित्यत आह- वाग्घीति । “अनुष्टुप् च वै सप्तदशश्च समभवता सानुष्टुप् चतुरुत्तराणि छन्दांस्यसृजत”- इति सामब्राह्मणे (१ प्र. २ ख.) श्रवणादनुष्टुभो वाग्रूपत्वम् । ततो ऽपि किमित्यत आह- वाग्घि प्रजापतिरिति । “आश्रावयास्तु श्रौषडित्यादि”- “एष वै सप्तदशः प्रजापतिरिति” श्रुतेः- (तै. सं. १ । ५ । ११)- प्रजापतिरूपत्वम् ॥ २७ ॥

Eggeling
  1. On this point it has also been remarked: ‘Why this sameness (of performance)? By what is introduced between the butter(-offering) to Agni and Soma and the rice-cake to Agni and Soma, a repetition of performance (is committed) 47.’ Sameness (of performance), nevertheless, is avoided in this way: the one (viz. the low-voiced offering) consists of butter, and the other of a rice-cake, hence the one is different from the other. Moreover, after reciting a R̥k-verse as anuvākyā, he pronounces the yājyā with the word ‘pleased’ (in the case of the butter-portions to Agni and Soma); and after reciting a R̥k-verse as anuvākyā, he pronounces the yājyā in the form of a R̥k-verse (in the case of the low-voiced offering to Agni and Soma), hence the one is (again) different from the other 48. Sameness of performance is also avoided in this way: in a low voice (he utters the formulas when) he offers of the butter, and with a loud voice of the cake; and what is (uttered) in a low voice, that is the manner of Prajāpati: hence he recites for that (low-voiced

offering) an anushṭubh-verse as the invitatory formula (anuvākyā), for the anushṭubh represents speech, and Prajāpati also is speech.

२८

विश्वास-प्रस्तुतिः

(रे) एते᳘न वै᳘ देवाः᳘॥
(ऽ) उपाᳫंशुयाजे᳘न यं᳘ यम᳘सुराणाम᳘कामयन्त त᳘मुपत्स᳘र्य व्व᳘ज्रेण व्वषट्कारे᳘णाघ्नंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘नोपाᳫंशुयाजे᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यमुपत्स᳘र्य व्व᳘ज्रेण व्वषट्कारे᳘ण हन्ति त᳘स्मादुपाᳫंशुयाजं᳘ यजति॥

मूलम् - श्रीधरादि

(रे) एते᳘न वै᳘ देवाः᳘॥
(ऽ) उपाᳫंशुयाजे᳘न यं᳘ यम᳘सुराणाम᳘कामयन्त त᳘मुपत्स᳘र्य व्व᳘ज्रेण व्वषट्कारे᳘णाघ्नंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘नोपाᳫंशुयाजे᳘न पाप्मा᳘नं द्विष᳘न्तं भ्रा᳘तृव्यमुपत्स᳘र्य व्व᳘ज्रेण व्वषट्कारे᳘ण हन्ति त᳘स्मादुपाᳫंशुयाजं᳘ यजति॥

मूलम् - Weber

एते᳘न वै᳘ देवाः᳟॥
उपांशुयाजे᳘न यं᳘-यम᳘सुराणाम᳘कामयन्त त᳘मुपत्स᳘र्य 49 व᳘ज्रेण वषट्कारे᳘णाघ्नंस्त᳘थो एॗवैष᳘ एते᳘नोपांशुयाजे᳘न पाप्मा᳘नं द्विष᳘न्तम् भ्रा᳘तृव्यमुपत्स᳘र्य व᳘ज्रेण वषट्कारे᳘ण हन्ति त᳘स्मादुपांशुयाजं᳘ यजति॥

मूलम् - विस्वरम्

एतेन वै देवा उपांशुयाजेन यं यमसुराणामकामयन्त- तमुपत्सर्य वज्रेण वषट्कारेणाघ्नन्, तथो एवैष एतेनोपांशुयाजेन पाप्मानं द्विषन्तं भ्रातृव्यमुपत्सर्य वज्रेण वषट्कारेण हन्ति । तस्मादुपांशुयाजं यजति ॥ २८॥

सायणः

सिद्धवद् व्यवहृतमुपांशुयाजमिदानीं सार्थवादं विदधाति- एतेन वै देवा इति । ‘एतेन’ उपांशुयाजेन, ‘असुराणां’ मध्ये ‘यं-यम्’ असुरं हन्तुमैच्छन्, ‘तं-तम्’ उपत्सार्य उप पार्श्वे च गत्वा, उच्चैरुच्चार्य्यमाणेन वषट्काराख्येन च ‘वज्रेण’ ‘अघ्नन्’ । वषट्कारस्य वृत्रशिरश्छेदनसाधनत्वाद्वज्रत्वम् । तथो एवेत्यादि स्पष्टम् । तस्माद्- उपांशुयाजं यजेदिति विधिः । उपांश्विज्यते देवता अत्र यागे इति ‘उपांशुयाजः’ ॥ २८ ॥

Eggeling
  1. By means of that low-voiced offering the gods stealing near slew, with that thunderbolt, the vashaṭ-call, whichever they wished of the Asuras; and so does this one, after stealing near by means of that low-voiced offering, slay with that thunderbolt, the vashaṭ-call, the wicked, spiteful enemy 50. This is why he performs the low-voiced offering.

२९

विश्वास-प्रस्तुतिः

स वा ऽऋ᳘चमनू᳘च्य जुषाणे᳘न यजति। तद᳘न्विमा᳘ ऽअन्यतर᳘तोदन्ताः प्रजाः प्र᳘जायन्ते᳘ ऽस्थि ह्यृग᳘स्थि हि द᳘न्तो ऽन्यतर᳘तो᳘ ह्येतद᳘स्थि करोति॥

मूलम् - श्रीधरादि

स वा ऽऋ᳘चमनू᳘च्य जुषाणे᳘न यजति। तद᳘न्विमा᳘ ऽअन्यतर᳘तोदन्ताः प्रजाः प्र᳘जायन्ते᳘ ऽस्थि ह्यृग᳘स्थि हि द᳘न्तो ऽन्यतर᳘तो᳘ ह्येतद᳘स्थि करोति॥

मूलम् - Weber

स वा ऋ᳘चमनू᳘च्य जुषाणे᳘न यजति तद᳘न्विमा᳘ अन्यतर᳘तोदन्ताः प्रजाः प्र᳘जायन्ते᳘ ऽस्थि ह्यृग᳘स्थि हि द᳘न्तो ऽन्यतर᳘तोॗ ह्येतद᳘स्थि करो᳘ति॥

मूलम् - विस्वरम्

स वा ऋचमनूच्य जुषाणेन यजति, तदन्विमा अन्यतरतोदन्ताः प्रजाः प्रजायन्ते । अस्थि हि ऋग्, अस्थि हि दन्तः, अन्यतरतो ह्येतदस्थि करोति ॥ २९ ॥

सायणः

आज्यभागोपांशुयाजयोर्जामितापरिहाराय याज्यापुरो ऽनुवाक्ययोर्वैलक्षण्यमुक्तम्, तदेव विधाय प्रशंसति- स वा ऋचमनूच्य जुषाणेनेत्यादिना । उदाहृतौ जुषाणशब्दयुक्तौ मन्त्रौ, ‘तत्’ तादृगनुष्ठानम् ‘अनु’ तत्सामर्थ्यादित्यर्थः । ‘अन्यतरतः’ तयोरन्यत्र ऋक्करणादेतत् कर्म्म ‘अन्यतरतः’ ‘अस्थि’ अस्थिवद् दृढं करोति । तस्मादन्यतरत ऋक्करणं युक्तमित्यर्थः ॥ २९ ॥

Eggeling
  1. Having recited (at the butter-portions) a R̥k-verse as the anuvākyā, he recites the yājyā with the word ‘pleased:’ in consequence of this, creatures are brought forth here with teeth on one side (in one jaw); for the R̥k means bone and the tooth also is bone, so that he thereby produces bone on one side.

३०

विश्वास-प्रस्तुतिः

(त्य) अथ᳘ ऽर्च्चमनू᳘च्य ऽर्च्चा᳘ यजति॥
तद᳘न्विमा᳘ ऽउभय᳘तोदन्ताः प्रजाः प्र᳘जायन्ते᳘ ऽस्थि ह्यृग᳘स्थि हि द᳘न्त ऽउभय᳘तो᳘ ह्येतद᳘स्थि करो᳘त्येता वा᳘ इमा᳘ द्वय्यः᳘ प्रजा᳘ ऽअन्यतर᳘तोदन्ताश्चै᳘वोभय᳘तोदन्ताश्च स यो᳘ हैवं᳘ व्विद्वा᳘नग्नीषो᳘मयोः प्र᳘जातिं य᳘जति बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति॥

मूलम् - श्रीधरादि

(त्य) अथ᳘ ऽर्च्चमनू᳘च्य ऽर्च्चा᳘ यजति॥
तद᳘न्विमा᳘ ऽउभय᳘तोदन्ताः प्रजाः प्र᳘जायन्ते᳘ ऽस्थि ह्यृग᳘स्थि हि द᳘न्त ऽउभय᳘तो᳘ ह्येतद᳘स्थि करो᳘त्येता वा᳘ इमा᳘ द्वय्यः᳘ प्रजा᳘ ऽअन्यतर᳘तोदन्ताश्चै᳘वोभय᳘तोदन्ताश्च स यो᳘ हैवं᳘ व्विद्वा᳘नग्नीषो᳘मयोः प्र᳘जातिं य᳘जति बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति॥

मूलम् - Weber

अथ᳘र्चमनू᳘च्यर्चा᳘ यजति॥
तद᳘न्विमा᳘ उभय᳘तोदन्ताः प्रजाः प्र᳘जायन्ते᳘ ऽस्थि ह्यृग᳘स्थि हि द᳘न्त उभय᳘तोॗ ह्येतद᳘स्थि करो᳘त्येता वा᳘ इमा᳘ द्वय्यः᳘ प्रजा᳘ अन्यतर᳘तोदन्ताश्चैॗवोभय᳘तोदन्ताश्च स यो᳘ हैवं᳘ विद्वा᳘नग्नीषो᳘मयोः प्र᳘जातिं य᳘जति बहु᳘र्हैव᳘ प्रज᳘या पशु᳘भिर्भवति॥

मूलम् - विस्वरम्

अथ ऋचमनूच्यर्चा यजति, तदन्विमा उभयतोदन्ताः प्रजाः प्रजायन्ते । अस्थि हि ऋग्, अस्थि हि दन्तः- उभयतो ह्येतदस्थि करोति । एता वा इमा द्वय्यः प्रजाः- अन्यतरतोदन्ताश्चैवाभयतोदन्ताश्च । स यो हैवं विद्वानग्नीषोमयोः प्रजातिं यजति- बहुर्हैव प्रजया पशुभिर्भवति ॥ ३० ॥

सायणः

अथर्च्चमनूच्यर्चेति । एवम् ‘ऋचमनूच्य ऋचा’- इत्येतद् व्याख्येयम् । ‘उभयतोदन्ताः’ पुरुषाश्वादयः प्रसिद्धाः । द्विविधप्रजाव्यतिरेकेण प्रजान्तराभावात् सर्वप्रजालाभाय याज्यानुवाक्यायुगलयोरुक्तं वैलक्षण्यम् । उक्तार्थज्ञानपूर्वकानुष्ठानं प्रशंसति- स य इति । अग्नीषोमयोः प्रजापतिसूर्यसोमादिरूपं त्रिविधवैभवम्, तदाप्तिकारणमाज्यभागोपांशुयाजाग्नीषोमीयपुरोडाशाख्यं यागत्रयमनुतिष्ठतीत्यर्थः ॥ ३०-३२ ॥

Eggeling
  1. Having recited (at the low-voiced offering) a R̥k-verse as the anuvākyā, he recites as the yājyā a (second) R̥k-verse: in consequence of this, creatures with teeth on both sides are brought forth here; for the R̥k means bone and the tooth also is bone, so that he thereby produces bone on both sides. These creatures, indeed, are of two kinds, viz. such as have teeth on one side only, and such as have teeth on both sides 51; and verily he who sacrifices, knowing

thus the generative power of Agni and Soma, becomes rich in offspring and cattle.

३१

विश्वास-प्रस्तुतिः

स वै᳘ पौर्णमासे᳘नोपवत्स्यन्॥
न᳘ सत्रा सु᳘हित ऽइव स्यात्ते᳘नेद᳘मुद᳘रमसु᳘र्यं व्लिनात्या᳘हुतिभिः प्रातर्द्दै᳘वमेष᳘ ऽउ पौर्णमास᳘स्योपचारः॥

मूलम् - श्रीधरादि

स वै᳘ पौर्णमासे᳘नोपवत्स्यन्॥
न᳘ सत्रा सु᳘हित ऽइव स्यात्ते᳘नेद᳘मुद᳘रमसु᳘र्यं व्लिनात्या᳘हुतिभिः प्रातर्द्दै᳘वमेष᳘ ऽउ पौर्णमास᳘स्योपचारः॥

मूलम् - Weber

स वै᳘ पौर्णमासे᳘नोपवत्स्य᳘न्॥
न᳘ सत्रा सु᳘हित इव स्यात्ते᳘नेद᳘मुद᳘रमसुर्यं᳘ व्लिनात्या᳘हुतिभिः प्रातर्दै᳘वमेष᳘ उ पौर्णमास᳘स्योपचारः᳟॥

मूलम् - विस्वरम्

पूर्णमासोपचारः ।

स वै पौर्णमासेनोपवत्स्यन्न सत्रा सुहित इव स्यात्- तेनेदमुदरमसुर्यं व्लिनात्याहुतिभिः प्रातर्दैवम् । एष उ पौर्णमासस्योपचारः ॥ ३१ ॥

सायणः

[व्याख्यानम् त्रिंशे]

Eggeling
  1. When he (the sacrificer) is about to enter upon the fast of the full-moon ceremony, he may not be entirely sated. He therefore now compresses (that part of) his belly which relates to the Asuras; and next morning, by means of the oblations, that which relates to the gods. Now the practice regarding the full-moon ceremony is as follows:

३२

विश्वास-प्रस्तुतिः

स वै᳘ संप्र᳘त्येवो᳘पवसेत्॥
(त्स) सम्प्रति᳘ वृत्र᳘ᳫँ᳭हनानि सम्प्रति᳘ द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭हनानी᳘ति॥

मूलम् - श्रीधरादि

स वै᳘ संप्र᳘त्येवो᳘पवसेत्॥
(त्स) सम्प्रति᳘ वृत्र᳘ᳫँ᳭हनानि सम्प्रति᳘ द्विष᳘न्तं भ्रा᳘तृव्यᳫँ᳭हनानी᳘ति॥

मूलम् - Weber

स वै᳘ संप्रॗत्येवो᳘पवसेत्॥
संप्रति᳘ वृत्र᳘ᳫं᳘ हनानि संप्रति᳘ द्विष᳘न्तम् भ्रा᳘तृव्यᳫं हनानी᳘ति॥

मूलम् - विस्वरम्

स वै संप्रत्येवोपवसेत्- संप्रति वृत्रं हनानि, संप्रति द्विषन्तं भ्रातृव्यं हनानीति ॥ ३२ ॥

सायणः

[व्याख्यानम् त्रिंशे]

Eggeling
  1. One may (enter on the) fast at the very time (of full moon), thinking, ‘Now I will slay Vr̥tra, now I will slay the spiteful enemy!’

३३

विश्वास-प्रस्तुतिः

स वा ऽउ᳘त्तरामेवो᳘पवसेत्॥
(त्स᳘) स᳘मिव वा᳘ ऽएष᳘ क्रमते यः᳘ सम्प्र᳘त्युपव᳘सत्य᳘नद्धा वै सं᳘क्रान्तयोर्यदी᳘तरो वे᳘तरमभिभ᳘वती᳘तरो वे᳘तरम᳘थ य ऽउ᳘त्तरामुपव᳘सति य᳘था प᳘राञ्चमा᳘वृत्तᳫँ᳭सम्पिᳫं᳭ष्याद᳘प्रत्यालभमानᳫँ᳭सो ऽन्यतोघा᳘त्येव स्या᳘देवं तद्य ऽउ᳘त्तरामुपव᳘सति॥

मूलम् - श्रीधरादि

स वा ऽउ᳘त्तरामेवो᳘पवसेत्॥
(त्स᳘) स᳘मिव वा᳘ ऽएष᳘ क्रमते यः᳘ सम्प्र᳘त्युपव᳘सत्य᳘नद्धा वै सं᳘क्रान्तयोर्यदी᳘तरो वे᳘तरमभिभ᳘वती᳘तरो वे᳘तरम᳘थ य ऽउ᳘त्तरामुपव᳘सति य᳘था प᳘राञ्चमा᳘वृत्तᳫँ᳭सम्पिᳫं᳭ष्याद᳘प्रत्यालभमानᳫँ᳭सो ऽन्यतोघा᳘त्येव स्या᳘देवं तद्य ऽउ᳘त्तरामुपव᳘सति॥

मूलम् - Weber

स वा उ᳘त्तरामेवो᳘पवसेत्॥
स᳘मिव वा᳘ एष᳘ क्रमते यः᳘ संप्रॗत्युपव᳘सत्यन᳘द्धा वै सं᳘क्रान्तयोर्यदी᳘तरो वे᳘तरमभिभ᳘वती᳘तरो वे᳘तरम᳘थ य उ᳘त्तरामुपव᳘सति य᳘था प᳘राञ्चमा᳘वृत्तᳫं संपिंष्याद᳘प्रत्यालभमाॗनᳫं सो ऽन्यतोघाॗत्येव स्या᳘देवं तद्य उ᳘त्तरामुपव᳘सति॥

मूलम् - विस्वरम्

स वा उत्तरामेवोपवसेत् । समिव वा एष क्रमते- यः सम्प्रत्युपवसति; अनद्धा वै संक्रान्तयोर्यदीतरो वेतरमभिभवति, इतरो वेतरम् । अथ य उत्तरामुपवसति- यथा पराञ्चमावृतं संपिंष्यादप्रत्यालभमानम्- सो ऽन्यतोघात्येव स्याद्, एवं तद्, -य उत्तरामुपवसति ॥ ३३ ॥

सायणः

पक्षान्तरमाह- स वा उत्तरामिति । न पूर्वां पौर्णमासीमुपवसेत् 52 ‘उत्तरामेव’ । उत्तरोपवासपक्षे 53 गुणमाह- अथ य उत्तरामिति । यथा कश्चित्परराष्ट्रं प्राप्य प्रतिमुखं पलायमानं हननोद्योगरहितं सम्यक् चूर्णितं करोति, तदुत्तरं पेषणमप्येवं 54 भवति; प्रतिनिवृत्तस्योत्तरपक्षस्याक्रान्तप्रायत्वात् । ‘य उत्तराम्’ इति पुनरुपसंहारः ॥ ३३ ॥

Eggeling
  1. One may also fast only on the following day. Now he who (enters on the) fast at the very time (of full moon), gets, as it were, into collision 55 (with some one); and when two come into collision with one another, it is indeed doubtful which of the two will get the better of the other. He, on the other hand, who prefers to fast on the second day (only), is as one who crushes from behind a retreating (enemy) before he is able to resist the attack: striking in one direction 56, in fact, is he who thus keeps the fast on the second day only.

३४

विश्वास-प्रस्तुतिः

स वै᳘ सम्प्र᳘त्येवो᳘पवसेद्॥
(द्य᳘) य᳘था वा᳘ ऽअन्य᳘स्य हत᳘ᳫँ᳭सम्पिᳫंष्या᳘देवं तद्य ऽउ᳘त्तरामुपव᳘सति᳘ सो ऽन्य᳘स्यैव᳘ कृतानुक᳘रो ऽन्य᳘स्योपावसायी᳘ भवति त᳘स्मादु सम्प्र᳘त्येवो᳘पवसेत्॥

मूलम् - श्रीधरादि

स वै᳘ सम्प्र᳘त्येवो᳘पवसेद्॥
(द्य᳘) य᳘था वा᳘ ऽअन्य᳘स्य हत᳘ᳫँ᳭सम्पिᳫंष्या᳘देवं तद्य ऽउ᳘त्तरामुपव᳘सति᳘ सो ऽन्य᳘स्यैव᳘ कृतानुक᳘रो ऽन्य᳘स्योपावसायी᳘ भवति त᳘स्मादु सम्प्र᳘त्येवो᳘पवसेत्॥

मूलम् - Weber

स वै᳘ संप्रॗत्येवो᳘पवसेत्॥
य᳘था वा᳘ अन्य᳘स्य हत᳘ᳫं᳘ संपिंष्या᳘देवं तद्य उ᳘त्तरामुपव᳘सतिॗ सो ऽन्य᳘स्यैव᳘ कृतानुकॗरो ऽन्य᳘स्योपावसायी᳘ भवति त᳘स्मादु संप्रॗत्येवो᳘पवसेत्॥

मूलम् - विस्वरम्

स वै संप्रत्येवोपवसेत् । यथा वा अन्यस्य हतं संपिंष्याद्; एवं तद्- य उत्तरामुपवसति । सो ऽन्यस्यैव कृतानुकरः, अन्यस्योपावसायी भवति; तस्मादु संप्रत्येवोपवसेत् ॥ ३४ ॥

सायणः

इत्थं पक्षान्तरं सोपपत्तिकमभिधाय प्रथमं पक्षं सिद्धान्तयितुं पुनरुपादत्ते- स वै सम्प्रत्येवोपवसेदिति । ननु द्वितीयपक्षानादरे किं कारणमिति तदाह- यथा वा अन्यस्येति । ‘यथा’ कश्चिन्मन्दो ऽन्येन पूर्वमेव पातितम्, पुनः स्वयम् ‘पिंष्यात्’, ‘एवं’ ‘तद्’ उत्तरपेषणं भवति । स्वत एव प्रतिनिवृत्तस्य पक्षस्य स्वेनाक्रान्तत्वात् । उत्तरानादरे कारणान्तरमाह- सो ऽन्यस्यैवेति । किञ्च उत्तरोपवासी ‘अन्यस्य’ अन्येन यत्कृतं कार्यं तस्य- ‘अनुकरः’ अनुकारी-कृतस्यैव कार्यस्य पुनः करणशीलो भवति । तथा ‘अन्यस्य उपावसायी’ अन्येनाध्यवसितस्य पुनरध्यवसायी ‘भवति’ । सम्प्रत्युपवसन्तं दृष्ट्वा, तदनुकर्त्तुं स्वयमपि परेद्युरसावुपवसतीत्येवं प्रतिभानात् । ‘तस्मादु’ संप्रति- इति स्वपक्षनिगमनम् ॥ ३४ ॥

Eggeling
  1. Let him therefore enter on the fast at the very time (of full moon). He who keeps the fast on the following day only is as one who finally crushes one struck down by some one else; he only does what has been done before by some one else, he only

follows another’s lead; let him therefore enter on the fast at the very time (of full moon).

३५

विश्वास-प्रस्तुतिः

(त्प्र) प्रजा᳘पतेर्ह वै᳘ प्रजाः᳘ ससृजान᳘स्य॥
प᳘र्व्वा᳘णि व्वि᳘सस्रᳫँ᳭ सुः स वै᳘ संव्वत्सर᳘ ऽएव᳘ प्रजा᳘पतिस्त᳘स्यैता᳘नि प᳘र्व्वाण्यहोरात्र᳘योः सन्धी᳘ पौर्णमासी᳘ चामावा᳘स्या च ऽर्त्तुमुखा᳘नि॥

मूलम् - श्रीधरादि

(त्प्र) प्रजा᳘पतेर्ह वै᳘ प्रजाः᳘ ससृजान᳘स्य॥
प᳘र्व्वा᳘णि व्वि᳘सस्रᳫँ᳭ सुः स वै᳘ संव्वत्सर᳘ ऽएव᳘ प्रजा᳘पतिस्त᳘स्यैता᳘नि प᳘र्व्वाण्यहोरात्र᳘योः सन्धी᳘ पौर्णमासी᳘ चामावा᳘स्या च ऽर्त्तुमुखा᳘नि॥

मूलम् - Weber

प्रजा᳘पतेर्ह वै᳘ प्रजाः᳘ ससृजान᳘स्य॥
प᳘र्वाणि वि᳘सस्रंसुः स वै᳘ संवत्सर᳘ एव᳘ प्रजा᳘पतिस्त᳘स्यैता᳘नि प᳘र्वाण्यहोरात्र᳘योः संधी᳘ पौर्णमासी᳘ चामावा᳘स्या चर्तुमुखा᳘नि॥

मूलम् - विस्वरम्

प्रजापतेर्ह वै प्रजाः ससृजानस्य पर्वाणि विसस्रंसुः । स वै संवत्सर एव प्रजापतिः, तस्यैतानि पर्वाणि-अहोरात्रयोः सन्धी, पौर्णमासी च अमावास्या च ऋतुमुखानि ॥ ३५ ॥

सायणः

सम्प्रति- पक्षमेव सिद्धान्तयितुमाख्यायिकामाह- प्रजापतेर्हेति । पुरा ‘प्रजाः’ सृष्टवतः ‘प्रजापतेः’ सन्धयो विस्रस्ता आसन् किल । ननु कः प्रजापतिः ? कानि पर्वाणि ? इति, उच्यते- संवत्सरे सकलप्रजोत्पत्तेः ‘स संवत्सर एव प्रजापतिः,’ ‘तस्य’ कालात्मकस्य ‘पर्वाणि’ ‘अहोरात्रयोः सन्धी’ प्रातस्सायङ्कालौ तथा एतौ ‘सन्धी’ ‘पौर्णमासी च अमावास्या च’ कालौ । ‘ऋतुमुखानि’ वसन्तादीनि, तानि विस्रस्तानि ॥ ३५ ॥

Eggeling
  1. After Prajāpati had created the living beings, his joints (parvan) were relaxed. Now Prajāpati, doubtless, is the year, and his joints are the two junctions of day and night (i.e. the, twilights), the full moon and new moon, and the beginnings of the seasons.

३६

विश्वास-प्रस्तुतिः

स व्वि᳘स्रस्तैः प᳘र्व्वभिः॥
(र्न᳘) न᳘ शशाक स᳘ᳫं᳭ हातुं त᳘मेतै᳘र्हविर्यज्ञै᳘र्देवा᳘ ऽअभिषज्यन्नग्निहोत्रे᳘णै᳘वाहोरात्र᳘योः सन्धी तत्प᳘र्व्वाभिषज्यंस्तत्स᳘मदधुः पौर्णमासे᳘न चै᳘वामावास्ये᳘न च पौर्णमासीं᳘ चामावा᳘स्यां च तत्प᳘र्व्वाभिषज्यंस्तत्स᳘मदधुश्चातुर्म्मास्यै᳘रेव᳘ ऽर्तुमुखा᳘नि तत्प᳘र्व्वाभिषज्यंस्तत्स᳘मदधुः॥

मूलम् - श्रीधरादि

स व्वि᳘स्रस्तैः प᳘र्व्वभिः॥
(र्न᳘) न᳘ शशाक स᳘ᳫं᳭ हातुं त᳘मेतै᳘र्हविर्यज्ञै᳘र्देवा᳘ ऽअभिषज्यन्नग्निहोत्रे᳘णै᳘वाहोरात्र᳘योः सन्धी तत्प᳘र्व्वाभिषज्यंस्तत्स᳘मदधुः पौर्णमासे᳘न चै᳘वामावास्ये᳘न च पौर्णमासीं᳘ चामावा᳘स्यां च तत्प᳘र्व्वाभिषज्यंस्तत्स᳘मदधुश्चातुर्म्मास्यै᳘रेव᳘ ऽर्तुमुखा᳘नि तत्प᳘र्व्वाभिषज्यंस्तत्स᳘मदधुः॥

मूलम् - Weber

स वि᳘स्रस्तैः प᳘र्वभिः॥
न᳘ शशाक स᳘ᳫं᳘हातुं त᳘मेतै᳘र्हविर्यज्ञै᳘र्देवा᳘ अभिषज्यन्नग्निहोत्रे᳘णैॗवाहोरात्र᳘योः संधी तत्प᳘र्वाभिषज्यंस्तत्स᳘मदधुः पौर्णमासे᳘न चैॗवामावास्ये᳘न च पौर्णमासीं᳘ चामावा᳘स्यां च तत्प᳘र्वाभिषज्यंस्तत्स᳘मदधुश्चातुर्मास्यै᳘रेव᳘र्तुमुखा᳘नि तत्प᳘र्वाभिषज्यंस्तत्स᳘मदधुः॥

मूलम् - विस्वरम्

स विस्रस्तैः पर्वभिर्न शशाक संहातुम्, तमेतैर्हविर्यज्ञैर्देवा अभिषज्यन्- अग्निहोत्रेणैवाहोरात्रयोः सन्धी, तत्पर्वाभिषज्यन्- तत्समदधुः । पौर्णमासेन चैवामावास्येन च पौर्णमासीं च अमावास्यां च, तत्पर्वाभिषज्यन्- तत् समदधुः । चातुर्मास्यैरेवर्तुमुखानि तत्पर्वाभिषज्यन्- तत् समदधुः ॥ ३६ ॥

सायणः

स विस्त्रस्तैरिति । ‘सः’ विस्रस्तपर्वा ‘संहातुं’ सङ्गतो भवितुं शक्तो नाभूत् । ‘तम्’ अशक्तं ‘एतैर्हविर्यज्ञैः’ ‘देवाः’ ‘अभिषज्यन्’ भेषजमकुर्वन् । सोमव्यतिरिक्ताज्यपुरोडाशादिसाध्याः 57 ‘हविर्यज्ञाः’ । विभज्य योजयति- सायं प्रातश्च- क्रियमाणेनाग्निहोत्रेण ‘अहोरात्रयोः’ ‘सन्धी’ एतदात्मकं प्रजापतेः ‘तत् पर्व’ अचिकित्सन्, ‘समदधुः’ समाहितमकुर्वन् । तथा ‘पौर्णमासीं चामावास्यां च’ पौर्णमास्यमावास्यारूपे पर्वणी । वैश्वदेवादि- चातुर्मास्यैरेव वसन्ताद्यृतुमुखानि ‘समदधुः’ ॥ ३६ ॥

Eggeling
  1. He was unable to rise with his relaxed joints; and the gods healed him by means of these havis-offerings: by means of the Agnihotra they healed that joint (which consists of) the two junctions of day and night, joined that together; by means of the full-moon and the new-moon sacrifice they healed that joint (which consists of) the full and new moon, joined that together; and by means of the (three) Cāturmāsyas (seasonal offerings) they healed that joint (which consists of) the beginnings of the seasons, joined that together.

३७

विश्वास-प्रस्तुतिः

स स᳘ᳫँ᳘ हितैः प᳘र्व्वभिः॥
(रि) इद᳘मन्ना᳘द्यमभ्यु᳘त्तस्थौ य᳘दिदं᳘ प्रजा᳘पतेरन्ना᳘द्यᳫँ᳭ स यो᳘ हैवं᳘विद्वा᳘न्त्सम्प्र᳘त्युपव᳘सति सम्प्रति᳘ हैव᳘ प्रजा᳘पतेः प᳘र्व्व भिषज्यत्य᳘वति हैवं प्रजा᳘पतिः स᳘ ऽएव᳘मे᳘वान्नादो᳘ भवति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सम्प्र᳘त्युपव᳘सति त᳘स्मादु सम्प्र᳘त्येवो᳘पवसेत्॥

मूलम् - श्रीधरादि

स स᳘ᳫँ᳘ हितैः प᳘र्व्वभिः॥
(रि) इद᳘मन्ना᳘द्यमभ्यु᳘त्तस्थौ य᳘दिदं᳘ प्रजा᳘पतेरन्ना᳘द्यᳫँ᳭ स यो᳘ हैवं᳘विद्वा᳘न्त्सम्प्र᳘त्युपव᳘सति सम्प्रति᳘ हैव᳘ प्रजा᳘पतेः प᳘र्व्व भिषज्यत्य᳘वति हैवं प्रजा᳘पतिः स᳘ ऽएव᳘मे᳘वान्नादो᳘ भवति य᳘ ऽएवं᳘ व्विद्वा᳘न्त्सम्प्र᳘त्युपव᳘सति त᳘स्मादु सम्प्र᳘त्येवो᳘पवसेत्॥

मूलम् - Weber

स स᳘ᳫं᳘हितैः प᳘र्वाभिः॥
इद᳘मन्ना᳘द्यमभ्यु᳘त्तस्थौ य᳘दिद᳘म् प्रजा᳘पतेरन्ना᳘द्यᳫं स यो᳘ हैवं᳘ विद्वा᳘न्त्संप्रॗत्युपव᳘सति संप्रति᳘ हैव᳘ प्रजा᳘पतेः प᳘र्व भिषज्यत्य᳘वति हैनं प्रजा᳘पतिः स᳘ एव᳘मेॗवान्नादो᳘ भवति य᳘ एवं᳘ विद्वा᳘न्त्संप्रॗत्युपव᳘सति त᳘स्मादु संप्रॗत्येवो᳘पवसेत्॥

मूलम् - विस्वरम्

स संहितैः पर्वभिरिदमन्नाद्यमभ्युत्तस्थौ- यदिदं प्रजापतेरन्नाद्यम् । स यो हैवं- विद्वान् संप्रत्युपवसति- संप्रति हैव प्रजापतेः पर्व भिषज्यति; अवति हैनं प्रजापतिः, स एवमेवान्नादो भवति- य एवं विद्वान् सम्प्रत्युपवसति । तस्मादु सम्प्रत्येवोपवसेत् ॥ ३७ ॥

सायणः

स सँहितैरिति । ‘सः’ एव कालात्मकः प्रजापतिः दृढपर्वा 57 संवत्सरमध्ये यदन्नं व्रीह्यादिरूपं पक्वं भवति- तत् सर्वमभिलक्ष्य भोक्तुमुत्थितवान् । कालावयवानां विच्छेदाभावात् तत्तत्कालोचितमन्नं भोगयोग्यमासीदित्यर्थः ।

इदानीमुपवासयोग्यं पर्व विधत्ते- सम्प्रतीति । ‘सम्प्रति’ ‘हैव’ पर्वविस्रंसनसमकाल एव ‘प्रजापतेः पर्व’ सम्प्रति उपवसन् चिकित्सितवान् भवति । तथैव सम्प्रत्युपवासिनं रक्षति; प्रजापतिवत् स्वयमपि सर्वान्नादो भवति ‘य एवं विद्वान्’- इत्युपसंहारः । तस्मादिति स्वाभिमतपक्षनिगमनम् । कात्यायनस्तु ब्राह्मणे सोपपत्तिकाभिधानमभिप्रेत्य पक्षद्वयमपि विकल्पेनोवाच- “पूर्वां पौर्णमासीमुपवसेत्, उत्तरां वा”- (का. श्रौ. सू. २. १) इति ॥ ३७ ॥

Eggeling
  1. With his joints thus repaired he betook himself to this food,–to the food which is here (offered) to Prajāpati; and he who, knowing this, enters upon the fast at the very time (of full moon), heals Prajāpati’s joint at the proper time, and Prajāpati favours him. Thus he who, knowing this, enters upon the fast at the very time (of full moon) becomes a consumer of food: let him therefore enter on the fast at the very time (of full moon).

३८

विश्वास-प्रस्तुतिः

(च्च᳘) च᳘क्षुषी ह वा᳘ ऽएते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ॥
त᳘स्मात्पुर᳘स्ताज्जुहोति पुर᳘स्ता᳘द्धीमे च᳘क्षुषी त᳘त्पुर᳘स्तादे᳘वैतच्च᳘क्षुषी दधाति त᳘स्मादिमे᳘ पुर᳘स्ताच्च᳘क्षुषी॥

मूलम् - श्रीधरादि

(च्च᳘) च᳘क्षुषी ह वा᳘ ऽएते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ॥
त᳘स्मात्पुर᳘स्ताज्जुहोति पुर᳘स्ता᳘द्धीमे च᳘क्षुषी त᳘त्पुर᳘स्तादे᳘वैतच्च᳘क्षुषी दधाति त᳘स्मादिमे᳘ पुर᳘स्ताच्च᳘क्षुषी॥

मूलम् - Weber

च᳘क्षुषी ह वा᳘ एते᳘ यज्ञ᳘स्य यदा᳘ज्यभागौ॥
त᳘स्मात्पुर᳘स्ताज्जुहोति पुर᳘स्ताॗद्धीमे च᳘क्षुषी त᳘त्पुर᳘स्तादेॗवैतच्च᳘क्षुषी दधाति त᳘स्मादिमे᳘ पुर᳘स्ताच्च᳘क्षुषी॥

मूलम् - विस्वरम्

चक्षुषी ह वा एते यज्ञस्य- यदाज्यभागौ तस्मात्पुरस्ताद् जुहोति । पुरस्ताद्धीमे चक्षुषी तत्पुरस्तादेवैतच्चक्षुषी दधाति- तस्मादिमे पुरस्ताच्चक्षुषी ॥ ३८ ॥

सायणः

आज्यभागस्थाननियममाह- चक्षुषी ह वा इति । ‘यत्’ यतः ‘आज्यभागौ’ चक्षुःस्थानीयौ- अतः ‘पुरस्तात्’ कर्तव्यौ; तयोः पुरस्तात्करणेन ‘यज्ञस्य चक्षुषी’ ‘पुरस्तात्’ कृतवान् भवति । यतो यज्ञे ते ‘पुरस्तात् क्रियेते, अत इदानीमपि प्राणिनां चक्षुषी’ पुरस्ताद् वर्तेते ॥ ३८ ॥

Eggeling
  1. These two butter-portions (to Agni and Soma), truly, are the eyes of the sacrifice; he, therefore, offers them in front (of, or before, the havis), for these eyes are in the front (of the head). Hence he thereby places the eyes in the front; and for this reason these eyes are in the front (of the head).

३९

विश्वास-प्रस्तुतिः

उत्तरार्द्ध᳘पूर्वार्द्धे है᳘के॥
(कऽ) आग्नेयमा᳘ज्यभागं जु᳘ह्वति दक्षिणार्द्ध᳘पूर्वार्द्धे सौम्यमा᳘ज्यभागमेत᳘त्पुर᳘स्ताच्च᳘क्षुषी दध्म ऽइ᳘तिव्व᳘दन्तस्त᳘दु तदा᳘विज्ञान्यमिव हवी᳘ᳫं᳘षि ह वा᳘ ऽआत्मा᳘ यज्ञ᳘स्य स य᳘देव᳘ पुर᳘स्ताद्धवि᳘षां जुहो᳘ति त᳘त्पुर᳘स्ताच्च᳘क्षुषी दधाति य᳘त्रो ऽएव स᳘मिद्धतं म᳘न्येत तदा᳘हुतीर्जुहुयात्समिद्धहोमे᳘न᳘ ह्येव स᳘मृद्धा ऽआ᳘हुतयः॥

मूलम् - श्रीधरादि

उत्तरार्द्ध᳘पूर्वार्द्धे है᳘के॥
(कऽ) आग्नेयमा᳘ज्यभागं जु᳘ह्वति दक्षिणार्द्ध᳘पूर्वार्द्धे सौम्यमा᳘ज्यभागमेत᳘त्पुर᳘स्ताच्च᳘क्षुषी दध्म ऽइ᳘तिव्व᳘दन्तस्त᳘दु तदा᳘विज्ञान्यमिव हवी᳘ᳫं᳘षि ह वा᳘ ऽआत्मा᳘ यज्ञ᳘स्य स य᳘देव᳘ पुर᳘स्ताद्धवि᳘षां जुहो᳘ति त᳘त्पुर᳘स्ताच्च᳘क्षुषी दधाति य᳘त्रो ऽएव स᳘मिद्धतं म᳘न्येत तदा᳘हुतीर्जुहुयात्समिद्धहोमे᳘न᳘ ह्येव स᳘मृद्धा ऽआ᳘हुतयः॥

मूलम् - Weber

उत्तरार्ध᳘पूर्वार्धे है᳘के॥
आग्नेयमा᳘ज्यभागं जु᳘ह्वति दक्षिणार्ध᳘पूर्वार्धे सौम्यमा᳘ज्यभागमेत᳘त्पुर᳘स्ताच्च᳘क्षुषी दध्म इ᳘ति व᳘दन्तस्त᳘दु तदा᳘विज्ञान्यमिव हवीं᳘षि ह वा᳘ आत्मा᳘ यज्ञ᳘स्य स य᳘देव᳘ पुर᳘स्ताद्धवि᳘षां जुहो᳘ति त᳘त्पुर᳘स्ताच्च᳘क्षुषी दधाति य᳘त्रो एव᳘ स᳘मिद्धतम् म᳘न्येत तदा᳘हुतीर्जुहुयात्समिद्धहोमे᳘नॗ ह्येव स᳘मृद्धा आ᳘हुतयः॥

मूलम् - विस्वरम्

उत्तरार्द्धपूर्वार्द्धे हैके आग्नेयमाज्यभागं जुह्वति, दक्षिणार्द्धपूर्वार्द्धे सौम्यमाज्यभागम्- एतत्पुरस्ताच्चक्षुषी दध्मः- इति वन्दन्तः । तदु तदा अविज्ञान्यमिव । हवींषि ह वा आत्मा यज्ञस्य । स यदेव पुरस्ताद्धविषी जुहोति- तत्पुरस्ताच्चक्षुषी दधाति । यत्रो एव समिद्धतमं मन्येत तदाहुतीर्जुहुयात् । समिद्धहोमेन ह्येव समृद्धा आहुतयः ॥ ३९ ॥

सायणः

अत्र केषाञ्चित् पक्षमाह- उत्तरार्द्धपूर्वार्द्ध इति । तेषामभिप्रायमाह- एतदिति । ‘एतत्’ एतेन- पूर्वभागे ऽप्युत्तरदक्षिणभागयोर्होमेन ‘पुरस्तात्’ साक्षात् ‘चक्षुषी’ स्थान एव स्थापयाम इति । अस्य पक्षस्य दुरवगमत्वमाशङ्क्य पूर्वोक्तमेव पक्षं सिद्धान्तयति- तदु तदेत्यादिना । ‘अविज्ञान्यमिव’ विज्ञानेन हीनमिव, वैषम्याभावेन साक्षात् स्थानविज्ञानस्याशक्यत्वात् । तस्य कस्य पुरस्तादित्यत आह- हवींषीति । यागशरीररूपस्य द्रव्यत्यागात्मकत्वाद् यत्र प्रधानानि हवींषि हूयन्ते, -तेषां पुरोभागमात्रहवनात् स्वस्थाने चक्षुः- स्थानं भवतीत्यर्थः । उक्तपुरोभागविशेषमाह- यत्रो एवेति । उत्तरपूर्वार्द्धादिस्थानमनपेक्ष्य प्रधानहविःपुरोभागे यत्रकुत्राग्नौ समिद्धे होतव्यम्; तथा सति ‘आहुतयः’ अपि ‘समृद्धाः’ स्युः । अत्र कात्यायनः- “आग्नेयमुत्तरपूर्वार्द्धे, दक्षिणपूर्वार्द्धे सौम्यम्, समिद्वतमे वा” इति (श्रौ. सू. ३ । ३ । १७ । २० । २१ । २२) ॥ ३९ ॥

Eggeling
  1. Some people offer Agni’s butter-portion in the north-eastern part (of the fire), and Soma’s butter-portion in the south-eastern part, thinking, ‘Thereby we place the eyes in the front (of the head).’ This, however, is rather unintelligible; for the several dishes of sacrificial food (havis) represent the body of the sacrifice; when therefore he offers in front of (or before) the havis, he thereby places the eyes in the front. Let him rather make the offerings (in that part of the fire) where he thinks the fiercest blaze is; for only by being offered in blazing (fire) are oblations successful 58.

४०

विश्वास-प्रस्तुतिः

स वा ऋ᳘चमनू᳘च्य जुषाणे᳘न यजति॥
त᳘स्मादिमे᳘ ऽअस्थ᳘न्त्सत्य᳘न᳘स्थिके च᳘क्षुषी ऽआ᳘श्लिष्टे ऽअ᳘थ यदृ᳘चमनू᳘च्य ऽर्च्चा य᳘जेद᳘स्थि हैव᳘ कुर्यान्न च᳘क्षुः॥

मूलम् - श्रीधरादि

स वा ऋ᳘चमनू᳘च्य जुषाणे᳘न यजति॥
त᳘स्मादिमे᳘ ऽअस्थ᳘न्त्सत्य᳘न᳘स्थिके च᳘क्षुषी ऽआ᳘श्लिष्टे ऽअ᳘थ यदृ᳘चमनू᳘च्य ऽर्च्चा य᳘जेद᳘स्थि हैव᳘ कुर्यान्न च᳘क्षुः॥

मूलम् - Weber

स वा ऋ᳘चमनू᳘च्य जुषाणे᳘न यजति॥
त᳘स्मादिमे᳘ अस्थ᳘न्त्सत्य᳘न᳘स्थिके च᳘क्षुषी आ᳘श्लिष्टे अ᳘थ यदृ᳘चमनू᳘च्यर्चा य᳘जेद᳘स्थि हैव᳘ कुर्यान्न च᳘क्षुः॥

मूलम् - विस्वरम्

स वा ऋचमनूच्य जुषाणेन यजति । तस्मादिमे अस्थन् सत्यनस्थिके चक्षुषी आश्लिष्टे । अथ यदृचमनूच्यर्चा यजेद्- अस्थि हैव कुर्याद् न चक्षुः ॥ ४० ॥

सायणः

आज्यभागयाज्यानुवाक्ययोर्यादृग् जुषाणवैलक्षण्यं पूर्वमुक्तम्, तदपि तयोश्चक्षुष्ट्वप्रयुक्तमित्याह- स वा ऋचमनूच्येति । ‘अस्थन्’ अस्थनि, -मुखे ऽस्थिमये सति ऋग्जुषयोः 59 काठिन्यमृदुत्वात् साम्यादस्थ्यनस्थ्यात्मता । यद्वै यज्ञस्य समाम्नातेन यजुषा क्रियते, तत् शिथिलितम्; यदृचा तद् दृढमिति । ‘ऋचा’ “अग्निर्वृत्राणि” -इत्यादिकया; ‘यजुषा’ “जुषाणो अग्निर्जुषाणः सोमः” -इति, ऋग्यजुषोश्च मृदुशिथिलत्वे समाम्नाते । उक्तप्रकारतामर्थान्यभावे 60 दोषदर्शनेन समर्थयते- यदृचमनूच्येति । अप्यृचावेव कुर्वन् प्राणिनां यज्ञस्य वा ‘अस्थि’ अस्थिस्थानं मुखं केवलं ‘कुर्यात्,’ ‘न चक्षुः’ चक्षुस्तु वर्जयत्येव ॥ ४० ॥

Eggeling
  1. Having recited (at the butter-portions) a R̥k-verse as anuvākyā (invitatory formula), he recites by way of yājyā (offering-prayer) the (formula containing the word) ‘pleased;’ thereby these boneless eyes are set in what is bone. If, on the other hand, after reciting a R̥k-verse as anuvākyā, he

were to use a R̥k-verse as the yājyā, he would make it bone instead of eye.

४१

विश्वास-प्रस्तुतिः

(ष्टे) ते वा᳘ ऽएते᳘॥
अग्नीषो᳘मयोरेव᳘ रूप᳘मन्वा᳘यत्ते य᳘च्छुक्लं त᳘दाग्नेयं य᳘त्कृष्णं त᳘त्सौम्यं य᳘दि वेतर᳘था य᳘देव᳘ कृष्णं त᳘दाग्नेयं य᳘च्छुक्लं त᳘त्सौम्यं य᳘देव व्वी᳘क्षते त᳘दाग्नेय᳘ᳫँ᳭रूपᳫँ᳭शु᳘ष्के ऽइव हि व्वी᳘क्षमाणस्या᳘क्षिणी भ᳘वतः शु᳘ष्कमिव᳘ ह्याग्नेयं य᳘देव स्व᳘पिति त᳘त्सौम्यᳫँ᳭ रूप᳘मार्द्रे᳘ इव हि᳘ सुषुपुषो᳘ ऽक्षिणी भ᳘वत ऽआर्द्र᳘ ऽइव हि सो᳘म आजरसᳫँ᳭ ह वा᳘ ऽस्मिल्ँ᳘लोके च᳘क्षुष्मान्भवति स᳘चक्षुरमु᳘ष्मिल्ँ लोके स᳘म्भवति य᳘ ऽएव᳘मेतौ च᳘क्षुषी ऽआ᳘ज्यभागौ व्वे᳘द॥

मूलम् - श्रीधरादि

(ष्टे) ते वा᳘ ऽएते᳘॥
अग्नीषो᳘मयोरेव᳘ रूप᳘मन्वा᳘यत्ते य᳘च्छुक्लं त᳘दाग्नेयं य᳘त्कृष्णं त᳘त्सौम्यं य᳘दि वेतर᳘था य᳘देव᳘ कृष्णं त᳘दाग्नेयं य᳘च्छुक्लं त᳘त्सौम्यं य᳘देव व्वी᳘क्षते त᳘दाग्नेय᳘ᳫँ᳭रूपᳫँ᳭शु᳘ष्के ऽइव हि व्वी᳘क्षमाणस्या᳘क्षिणी भ᳘वतः शु᳘ष्कमिव᳘ ह्याग्नेयं य᳘देव स्व᳘पिति त᳘त्सौम्यᳫँ᳭ रूप᳘मार्द्रे᳘ इव हि᳘ सुषुपुषो᳘ ऽक्षिणी भ᳘वत ऽआर्द्र᳘ ऽइव हि सो᳘म आजरसᳫँ᳭ ह वा᳘ ऽस्मिल्ँ᳘लोके च᳘क्षुष्मान्भवति स᳘चक्षुरमु᳘ष्मिल्ँ लोके स᳘म्भवति य᳘ ऽएव᳘मेतौ च᳘क्षुषी ऽआ᳘ज्यभागौ व्वे᳘द॥

मूलम् - Weber

ते वा᳘ एते᳟॥
अग्नीषो᳘मयोरेव᳘ रूप᳘मन्वा᳘यत्ते य᳘छुक्लं त᳘दाग्नेयं य᳘त्कृष्णं त᳘त्सौम्यं य᳘दि वेतर᳘था य᳘देव᳘ कृष्णं त᳘दाग्नेयं य᳘छुक्लं त᳘त्सौम्यं य᳘देव वी᳘क्षते त᳘दाग्नेयं᳘ रूपं शु᳘ष्के इव हि वी᳘क्षमाणस्या᳘क्षिणी भ᳘वतः शु᳘ष्कमिवॗ ह्याग्नेयंय᳘देव स्वपिति त᳘त्सौम्यं᳘ रूप᳘मार्द्रे᳘ इव हि᳘ सुषुपुषो᳘ ऽक्षिणी भ᳘वत आर्द्र᳘ इव हि सो᳘म आजरस᳘ᳫं᳘ ह वा᳘ अस्मिं᳘ लोके च᳘क्षुष्मान्भवति स᳘चक्षुरमु᳘ष्मिंलोके स᳘म्भवति य᳘ एव᳘मेतौ च᳘क्षुषी आ᳘ज्यभागौ वे᳘द॥

मूलम् - विस्वरम्

ते वा एते अग्नीषोमयोरेव रूपमन्वायत्ते । यत् शुक्लम्- तद् आग्नेयम्, यत् कृष्णं तत् सौम्यम् । यदि वेतरथा- यदेव कृष्णं तदाग्नेयम्, यत् शुक्लं तत् सौम्यम् । यदेव वीक्षते तदाग्नेयं रूपम्- शुष्के इव हि वीक्षमाणस्याक्षिणी भवतः, शुष्कमिव ह्याग्नेयम् । यदेव स्वपिति तत्सौम्यं रूपम्- आर्द्रे इव हि सुषुपुषो ऽक्षिणी भवतः, आर्द्र इव हि सोमः । आ-जरसं ह वा अस्मिन् लोके चक्षुष्मान् भवति, सचक्षुरमुष्मिन् लोके संभवति- य एवमेतौ चक्षुषी आज्यभागौ वेद ॥ ४१ ॥

सायणः

आग्नेयसौम्ययोराज्यभागयोर्यज्ञचक्षुष्ट्वं लौकिकचक्षुस्साम्येन समर्थयते- ते वा एते इति । ‘ते’ चक्षुत्री प्रत्येकम् ‘अग्नीषोमयोः रूपम्’ ‘अन्वायत्ते’ अनुप्राप्ते । कथम् ? चक्षुषि ‘यच्छुक्लं तदाग्नेयम्’ सितभास्वरत्वसाम्यात्; चन्द्रमसि कार्ष्ण्यस्य वृद्ध्यनुसारेण स्फुटं प्रतिभास्पद् ‘यत्कृष्णं तत् सौम्यम्’ । अथ “आग्नेयः कृष्णग्रीवः” -(य० वा० सं० २९. २८.) इत्यादिषु कार्ष्ण्यस्याग्नेयत्वश्रवणादक्षिमध्यस्य प्रकाशकाग्निधर्मत्वाच्च सोमे भूयसः शौक्ल्यस्य दर्शनाच्च- उक्तवैपरीत्यमाशङ्क्याह- यदि वेतरथेति । इदानीं दर्शनादर्शनांशभेदेनाग्नीषोमात्मकतामाह- यदेव वीक्षत इति । ‘यदेव’ चक्षुरुन्मीलनकाले सर्वं पश्यति । एतदुपपादयति- शुष्के इवेति । सर्वमपि वस्त्वग्निसम्बन्धे शुष्कं भवतीति प्रसिद्धम् । स्वपितिरप्यदर्शनमुपलक्षयति- यदेवेति । दर्शनं न करोतीत्यर्थः, ‘सुषुपुषः’ सुप्तवतः- स्वपेः क्वसुः (पा० सू० ३ । २ । १०७, ६ । १ । १५) सोमो ऽप्यार्द्रप्रसवः आप्यमण्डलत्वात् । वेदितुः प्रशंसा- आ-जरसमिति । वयोहानिपर्यन्तं ‘चक्षुष्मान् भवति’ इत्यर्थः । ‘अमुष्मिन्’ स्वर्गलोके ऽपि ‘सचक्षुः’ एव ‘सम्भवति’ । आज्यभागयोश्चक्षुष्ट्ववेदिता ॥ ४१ ॥ २ ॥ [ ६.३ ] ॥

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे षष्ठाध्याये तृतीयं ब्राह्मणम् ॥

Eggeling
  1. Those two (qualities), truly, are related to the natures of Agni and Soma: that which is white is related to Agni, and that which is black is related to Soma. If, however (it were asserted), on the contrary, that what is black is related to Agni, and what is white is related to Soma,–[the answer would be:–] what sees is of the nature of Agni, for dry, as it were, are the eyes of one who looks, and that which is dry relates to Agni;–and what sleeps is of the nature of Soma, for moist, as it were, are the eyes of one who is asleep, and moist also is Soma. And, verily, he who thus knows those two butter-portions to be eyes, remains endowed with eye-sight till old age in this world, and starts in yonder world possessed of eye-sight.

  1. एतदारभ्याष्टमकण्डिकास्थ ‘न दुद्राव’ इत्यन्तं ग्रन्थजातं पुनः पञ्चमे काण्डे ऽपि श्रुतं ५ । ५ । ४ । २ । ८ ॥ ↩︎ ↩︎

  2. अस्य निर्वचनम् ‘त्वष्टा तूर्णमश्नुत इति नैरुक्ताः, त्विषेर्वा स्याद् दीप्तिकर्मणः, त्वक्षतेर्वा स्यात् करोतिकर्मणः’ इति यास्केनाभिहितम्- (निरु. ८-२- १०) अभ्यदप्येतदितिहासविषये तत्रतत्रोक्तं निरुक्ते । ↩︎

  3. त्रिशिरोवर्णनं कृतं सायणाचार्येण ऋ. सं. .१ मं. २ अ. १ सूक्तारम्भे । विशेषतस्तु ‘त्रिशीर्षाणं’ ०-० त्रितोगाः’ इत्यादौ द्रष्टव्यम् । ऋ. सं. १० । ८ । ८ । ९९ । ६ ॥ ↩︎

  4. ‘तित्तिरिस्तरणात्’ ‘बिलमात्रचित्र इति वा’ इति निरुक्तम् (३. ४. १.) ↩︎

  5. एवंविधेषु पदेषु प्रथमं मत्वर्थीयेन प्रत्ययेन भाव्यम् । ततः समासः । अतएव “न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः” इति नात्र विरुध्यते । ↩︎

  6. अन्यार्थ इति यावत् । ↩︎

  7. केषाञ्चिन्मते ऽकारान्तावेव द्वावपि त्वशब्दौ, केषाञ्चित्तु तान्तो ऽपीति विकल्पार्थः । ग. पा. १ । १ । १ (१ । १ । २७ सू.) इति ॥ ↩︎

  8. अयतिरत्रेति क्वचित्पाठः । ↩︎

  9. ‘इमे ऽपि च सर्वे ऽपि मां सोमाद् व्यवहितं कुर्वन्तीति विचार्य’ इति क. पा. । ↩︎ ↩︎

  10. द्रोणकलशो द्रुममयः कलशाकारो वैकङ्कतः सोमरसपात्रविशेषः । अस्योपर्येव धाराग्रहागृह्यन्ते । का. श्रौ. सू. ८ । ७ । ५ । द्रष्टव्यम् । ↩︎

  11. “ते देवा अब्रुवन् सुत्रातं बतैनमत्रासतामिति तस्मात्सौत्रामणीनाम” इति (५। ५ । ४ । १२) नाम निर्वचनम् । “सूत्रा तंबतैनं पाप्मनो ऽत्रास्महीति” इत्यादिचोपरिष्टादिहैव । (५ । ५ । ४ । १२ ॥ १२ । ७ । १ । १४ ॥) ॥ ↩︎

  12. इहैवोत्तर भागे द्रष्टव्यं । उत्तरभागेहि अष्टाध्यायिसौत्रामण्यश्वमेधाख्यं काण्डत्रयं चतुर्थम्बृहदारण्यं ब्रह्मप्रतिपादकमिति ॥ ↩︎

  13. 165:1 See V, 5, 4, 2 seq., where the whole legend is repeated; and Taitt. S. II, 4, 12, 1. One of the objects of the Sautrāmaṇī is the expiation of an immoderate consumption of Soma by a priest. ↩︎

  14. 165:2 According to Taitt. S. II, 4, 12, 1, also the fault committed by Tvashṭr̥ consisted in his faulty accentuation of the compound indraśatru in the formula. What he intended to say was that Agni, on drinking the Soma, should grow strong so as to be ’the foe (slayer) of Indra,’ and the compound should therefore have been accented on the second member, viz. indraśátru (the foe of Indra); but by accenting it on the first member, indraśatru, he made it ‘having Indra for his foe (slayer).’ According to the version of the Taitt. S., Agni, the fire, on the Soma being poured into it, rose up (spirted) as if to execute Tvashṭr̥’s wish; but immediately relapsed into its former state of inertness on hearing the mis-pronounced word. ↩︎

  15. 166:1 Abhisambabhūva, ‘he grew by consuming,’ &c. Sāyaṇa. ↩︎

  16. “वृत्रो वृणातेर्वा, वर्त्ततेर्वा, वर्द्धतेर्वा, यदवृणोत्तद्वृत्रस्य वृत्रत्वमिति विज्ञायते यदवर्तत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते, यदवर्द्धत तद्वृत्रस्य वृत्रत्वमिति विज्ञायते” इति निरुक्ते (२ । ५ । ३ ।) इति ॥ ↩︎ ↩︎

  17. “अहिरयनात्” एत्यन्तरिक्षे । अयमपीतरो ऽहिरेतस्मादेव । निर्हसितोपसर्ग आहन्तीति” इति निरु. २ । ५ । ३ ॥ ↩︎ ↩︎

  18. 166:2 The Kāṇva text has, ‘Danu and Dānavī received him as mother and father.’ ↩︎

  19. “इन्द्रस्य शातयिता इन्द्रशत्रुरिति विवक्षायां तत्पुरुषसमासस्यान्तोदात्तत्वेन भवितव्यम् । आद्युदात्तस्त्वयं शब्दः प्रयुक्तः । स च बहुव्रीहितां द्योतयति । बहुव्रीहौ प्रकृत्या पूर्वपदमिति पूर्वपदाद्युदात्तत्वविधानात् । सति बहुव्रीहौ इन्द्रः शातयिता यस्येत्यर्थो भवति । सो ऽयं मन्त्रगतः स्वरापराधः । इति तै. सं. २ । ४ । १२ । सा. भा. । अतएवाह पस्पशायां “दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुःस्वरतो ऽपराधात्” इति. पा. म. भा. १ । १ । १ आ. । ↩︎

  20. तैत्तिरीयसंहितायामत्रैव प्रजापतेर्वज्रलाभादिकमप्याम्नातम् (२. ५. २) । ↩︎ ↩︎

  21. “संस्कृतं भक्षाः” इति पा. सू. ४ । २ । १६ ॥ ↩︎

  22. 167:1 Preyuh, ’the gods &c. that were in Vr̥tra’s mouth went out,’ Sāyaṇa; see preceding page, note 1. ↩︎

  23. ‘संलीनः’ इति क्व. पा. एवमग्रे ऽपि । ↩︎

  24. ‘संकुचितकुक्षितनुः पतति’ इति पा० । ↩︎

  25. ‘अथ रिक्तं शयानं हननेच्छया’ इति क्व. पा. । ↩︎

  26. ‘भग्नं कुरु’ इति क्वचित् पा. । ↩︎

  27. ‘यद्वस्तु सौम्यं’ इत्यादि पा. । ↩︎

  28. विधेयस्य चन्द्रमसो ऽपेक्षयेत्यर्थः । ‘उद्दिश्यमानप्रतिनिर्द्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तत्तल्लिङ्गमुपाददते’ इति न्यायादिति भावः । ↩︎

  29. असुरशब्दस्य गवादिषु पाठात् । “तस्मै हितं” (पा. सू. ५ । १ । ५) इत्यर्थे “उगवादिभ्यो यत्” (पा. सू. ५ । १ । २) इति यत् । वस्तुतो ऽत्र “असुरस्य स्वं” (पा. सू. ४ । ४ । १२३) इति यदित्येव स्यात्सुवचम् ॥ ↩︎

  30. अयुध्यत्- इति पा. । ↩︎

  31. इहैवाग्रे (६-४-१५) इत्यत्र द्रष्टव्यम् । ↩︎

  32. पा. सू. २ । ३ । ६२ । वा. १ (१५०९) ↩︎

  33. 167:2 ‘Yat saumyam nyaktam āsa’ [‘yat saumyo nyaṅga āsa,’ Kāṇva rec.], ‘what was imbued with Soma,’ ‘what had Soma inherent in it.’ Cf. ‘yat somasya nyaktam āsa,’ I, 7, 1, 1. ↩︎

  34. 167:3 ‘People say so when anybody eats much food.’ Sāyaṇa. ↩︎

  35. 167:4 See I, 6, 4, 15. ↩︎

  36. “प्रातिस्विकमसाधारणधर्मे” इति त्रिकाण्डशेषकोषः ॥ ↩︎ ↩︎

  37. “अपूर्वेचार्थवादः स्यात्“ इत्यत्र मीमांसादर्शने १०-८-५ । ↩︎

  38. 168:1 The nirvapanam, or taking out (literally throwing out) of (handfuls of) havis from the receptacle and putting it into the winnowing basket (or other vessels), does not apply to these two kinds of sacrifices. Cf. I, 1, 2, 5 seq. ↩︎

  39. ‘इन्द्रज्येष्ठा’ इति ‘भाष्यसंमतः पाठः । ↩︎ ↩︎

  40. अस्मिन्नेव ब्राह्मणे पुरस्तात् १५ कंडिका द्रष्टव्या । ↩︎

  41. विभावः इति क्वचित्पाठः । ↩︎ ↩︎ ↩︎

  42. 169:1 ‘Yatame vā yatame vā dve āpnoti.’ Sāyaṇa supplies vastunī, ‘objects.’ The Kāṇva recension, on the other hand, reads, ‘Yatame vā yatame vā dve devate āpnoti.’ ↩︎

  43. ‘त्रेधा तत्परिहरति’ इति क्व. पा. । ↩︎

  44. ‘द्वितीयः परिहारः’- इत्यादिकं नास्ति क्वचित् । ↩︎

  45. नास्त्येतत् क्वचित् । ↩︎

  46. ‘इत्यनयर्चा’ अग्नीषोमावान्यं दिवो मातरिश्वा जभार’ अग्नीषोमौ युवमेतानि’ इत्यृग्भ्यां यजति’ इति क्वचित्पाठः । ↩︎

  47. 170:1 See p. 80, note 2. The objection here raised is, that the low-voiced offering, which is intermediate between the two above-mentioned oblations to Agni-Soma, is made to the same two deities. ↩︎

  48. 170:2 When the two butter-portions to Agni and Soma are offered, the Hotr̥ recites the verses Rig-veda VI, 16, 34 (Vāj. S. 33, 9), and Rig-veda, I, 95, 5 (Vāj. S. 19, 42) respectively, as anuvākyās, or invitatory prayers, each of which is followed by the yājyā (offering-formula): ‘We who pronounce the offering-prayer to Agni (or Soma respectively),–may Agni (Soma) pleased (jushāṇaḥ) accept of the butter-oblation! Vāushaṭ!’ At the low-voiced offering (upāṁśuyāja) to Agni-Soma, on the other hand, he first utters (in a low voice) as anuvākyā the verse Rig-veda I, 93, 2, and thereupon as yājyā Rig-veda I, 93, 6. ↩︎

  49. ‘उपत्सर्य्य’ ‘उपत्सार्य्य’- इति वा पाठो लभ्यते । सायणभाष्यसंमत्या तु ‘उपोत्सार्य्य’- इति पाठो युक्तः प्रतीयते । अथवा- उपोपसृष्टो वैदिकः प्रकृते ‘त्सृ’ धातुः स्यात् । त्सरुः खङ्गादिमुष्टिरित्यादौ तद्धातुप्रयोगस्य दृष्टत्वात् ॥ ↩︎

  50. 171:1 The two prayers of the low-voiced offering are muttered in a low voice; but the ‘Vāushaṭ!’ at the end of the offering-prayer (as the ‘Om!’ at the end of the invitatory prayer) is uttered aloud. Hence the above symbolical explanation. ↩︎

  51. 171:2 The same distinction is made in Rig-veda X, 90, 10, where it is stated that from the Purusha sprang the horse and what other animals with two rows of teeth (viz. the ass and mule, according to Sāyaṇa) on the one hand, and cows, goats, and sheep on the other. In Taitt. II, 2, 6, 3, also the horse is mentioned along with man as belonging to the former class of living beings. Cf. also Taitt. V, 1, 2, 6; Ath.-veda V, 19, 2; 31, 3; Weber, Ind. Stud. X, 58. ↩︎

  52. “पूर्वां पौर्णमासीमुत्तरां केपवसेत्” का. श्रौ. सू. २ । १ । १ । इति ॥ ↩︎

  53. पक्षान्तरमाहेत्याद्येतत्पर्यन्तो ग्रन्थो नास्ति क्वचित् । ↩︎

  54. ‘तदुत्तरं पोषणम्’ इत्यादि पा. । ↩︎

  55. 172:1 Sam-kramate, literally ‘comes together with, meets (somebody).’ This symbolical explanation was probably suggested by the circumstance that the full moon marks the junction (sandhi) of the two pakshas or half months; whereas the new moon (amāvāsyā, ‘dwelling together’) marks the point of least distance between sun and moon. ↩︎

  56. 172:2 Anyatoghātin, ? thus St. Petersburg Dictionary. ↩︎

  57. ‘सोमव्यतिरिक्तपुरोडाशादि’ इत्येव क्वचित् । ↩︎ ↩︎

  58. 174:1 Katy. III, 3, 20-22 admits either mode of offering the butter-portions. These oblations are effected in the following way:–The Adhvaryu, having called on the Hotr̥ to recite the anuvākyā, takes with the dipping-spoon (sruva) butter from the dhruvā and puts it into the juhū; he then draws some with the sruva from the butter-pot and replenishes the dhruvā with it [according to the Kāṇvas, with the text ‘May the dhruvā fatten with the havis-butter, sacrifice after sacrifice, for those who go to the gods,–the udder of Sūryā in the lap of Aditi: may the earth flow abundantly at this sacrifice!’]. The same process is then repeated three (additional) times (with a Jamadagni four times): hence the offering is said to consist of four (or five) cuttings. The Hotr̥ then recites the anuvākyā (see note on I, 6, 3, 27), which is followed by the Adhvaryu’s call ‘om śrāvaya’ and the Āgnīdhra’s response ‘astu śraushaṭ.’ Thereupon the Hotr̥, having been called upon by the Adhvaryu to give the offering-prayer to Agni (or Soma), recites the respective yājyā, at the concluding vaushaṭ of which the oblation is poured into the fire, (whilst the sacrificer utters the usual dedicatory formula, ‘This for Agni (Soma), not for me!’) ↩︎

  59. ‘ऋग्जुषाणयोः’ ‘ऋग्यजुषोः’ इति च क्वचित्पाठः । ↩︎

  60. मन्यथान्यभावे - क्व. पा. । ↩︎