०१

विश्वास-प्रस्तुतिः

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥

मूलम् - श्रीधरादि

यज्ञे᳘न वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्यु᳘र्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्माद्यू᳘पो ना᳘म तद्वा ऋ᳘षीणाम᳘नुश्रुतमास॥

मूलम् - Weber

यज्ञे᳘न वै᳘ देवाः᳟॥
इमां जि᳘तिं जिग्युॗर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इद᳘म् मनुॗष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिॗरो ऽभवन्न᳘थ य᳘देनेना᳘योपयंस्त᳘स्मद्द्यू᳘पो ना᳘म तद्वा᳘ ऋ᳘षीणाम᳘नुश्रुतमास॥

मूलम् - विस्वरम्

(आवाप-प्रदेशः ।)

यज्ञेन वै देवा इमां जितिं जिग्युः- यैषामियं जितिः । ते होचुः- ‘कथं न इदं मनुष्यैरनभ्यारोह्यं स्याद्’ इति । ते यज्ञस्य रसं धीत्वा- यथा मधु मधुकृतो निर्धयेयुः- विदुह्य यज्ञं, यूपेन योपयित्वा तिरो ऽभवन् । अथ यदेनेनायोपयन्- तस्माद् ग्रूपो नाम । तद्वा ऋषीणामनुश्रुतमास ॥ १ ॥

सायणः

आग्नेयं पुरोडाशं 1 विधातुमाख्यायिकामाह- यज्ञेन वा इत्यादिना । पुरा किल ‘देवाः’ ‘इमां जितिम्’ इदानीं परिदृश्यमानप्रकारं स्वर्गजयं ‘यज्ञेन’ एव साधनेन ‘जिग्युः’ जितवन्तः; ‘ते’ देवाः स्वैर्जितं स्वर्गस्थानं तुच्छैर्मनुष्यैः ‘कथम्’ आरोहणार्हं न भवेदिति परस्परमुक्त्वा, ‘यज्ञस्य रसं’ ‘धीत्वा’ पीत्वा ‘यथा’ सरघाः ‘मधु’ निःशेषेणास्राव्य गतसारमेव परिशेषयन्ति- एवं ‘यज्ञं’ । ‘विदुह्य’ विदोहं कृत्वा तं ‘यूपेन’ आच्छाद्य तिरोहिता ‘अभवन्’ । अतो योपनसाधनत्वाद्यूपस्य ‘यूप’ नाम संपन्नम् 2 । ‘तत्’ देवैः कृतं यज्ञविदोहनम् ‘ऋषीणामनुश्रुतमास’ ऋषयो ऽन्वशृण्वन्नित्यर्थः ॥ १ ॥

Eggeling
  1. Verily, by means of the sacrifice the gods made that conquest (of the world of heaven). When they had conquered, they said, ‘How may this (celestial region) be made unattainable by men?’ They then sipped the sap of the sacrifice, as bees would suck out honey; and having drained the sacrifice and effaced the traces of it with the (sacrificial) post 3, they

concealed themselves: and because they effaced (ayopayan, viz. the sacrifice) with it, therefore it is called yūpa (sacrificial post). Now this was heard by the R̥shis:

०२

विश्वास-प्रस्तुतिः

यज्ञे᳘न ह वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्युर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्यᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्नि᳘ति तम᳘न्वेष्टुं दध्रिरे॥

मूलम् - श्रीधरादि

यज्ञे᳘न ह वै᳘ देवाः᳘॥
(ऽ) इमां जि᳘तिं जिग्युर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न ऽइदं᳘ मनु᳘ष्यैरनभ्यारोह्यᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्द्ध᳘येयुर्व्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ ति᳘रो ऽभवन्नि᳘ति तम᳘न्वेष्टुं दध्रिरे॥

मूलम् - Weber

यज्ञे᳘न ह वै᳘ देवाः᳟॥
इमां जि᳘तिं जिग्युॗर्यैषामियं जि᳘तिस्ते᳘ होचुः कथं᳘ न इद᳘म् मनुॗष्यैरनभ्यारोह्य᳘ᳫं᳘ स्यादि᳘ति ते᳘ यज्ञ᳘स्य र᳘सं धीत्वा य᳘था म᳘धु मधुकृ᳘तो निर्ध᳘येयुर्विदु᳘ह्य यज्ञं यू᳘पेन योपयित्वा᳘ तिॗरो ऽभवन्नि᳘ति तम᳘न्वेष्टुं दध्रिरे॥

मूलम् - विस्वरम्

‘यज्ञेन ह वै देवा इमां जितिं जिग्युः- यैषामियं जितिः । ते होचुः- ‘कथं न इदं मनुष्यैरनभ्यारोह्यं स्याद्’- इति । ते यज्ञस्य रसं धीत्वा-यथा मधु मधुकृतो निर्द्धयेयुः- विदुह्य यज्ञं यूपेन योपयित्वा तिरो ऽभवन्, इति । तमन्वेष्टुं दध्रिरे ॥ २ ॥

सायणः

अनुश्रुतप्रकारं पुनरनुवदति 1- यज्ञेन ह वै देवा इति । ‘तं’ यूपेन योपितं यज्ञम्, ऋषयः ‘अन्वेष्टुम्’ अन्वेषणे मतिं कृत्वा ॥ २ ॥

Eggeling
  1. ‘Verily, by means of the sacrifice the gods gained this conquest. When they had conquered, they said, “How may this (celestial region) be made unattainable by men?” They then sipped the sap of the sacrifice, as bees would suck out honey; and having drained the sacrifice and effaced the traces of it with the (sacrificial) post, they concealed themselves.’ They (the R̥shis) thereupon set about searching for it.

०३

विश्वास-प्रस्तुतिः

ते᳘ ऽर्च्चन्तः श्रा᳘म्यन्तश्चेरुः॥
श्र᳘मेण ह स्म वै त᳘द्देवा᳘ जयन्ति य᳘देषां ज᳘य्यमास᳘ ऽर्षयश्च ते᳘भ्यो देवा᳘ वैव᳘ प्ररोचया᳘ञ्चक्रुः᳘ स्वयं᳘ वैव᳘ दध्रिरे प्रे᳘त त᳘देष्या᳘मो य᳘तो देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवते᳘ति ते किं प्र᳘रोचते किं प्र᳘रोचत ऽइ᳘ति चेरुरे᳘त्पुरोडा᳘शमेव᳘ कूर्म्मं᳘ भूत्वा स᳘र्प्पन्तं ते᳘ ह स᳘र्व्व ऽएव᳘ मेनिरे ऽयं वै᳘ यज्ञ ऽइ᳘ति॥

मूलम् - श्रीधरादि

ते᳘ ऽर्च्चन्तः श्रा᳘म्यन्तश्चेरुः॥
श्र᳘मेण ह स्म वै त᳘द्देवा᳘ जयन्ति य᳘देषां ज᳘य्यमास᳘ ऽर्षयश्च ते᳘भ्यो देवा᳘ वैव᳘ प्ररोचया᳘ञ्चक्रुः᳘ स्वयं᳘ वैव᳘ दध्रिरे प्रे᳘त त᳘देष्या᳘मो य᳘तो देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवते᳘ति ते किं प्र᳘रोचते किं प्र᳘रोचत ऽइ᳘ति चेरुरे᳘त्पुरोडा᳘शमेव᳘ कूर्म्मं᳘ भूत्वा स᳘र्प्पन्तं ते᳘ ह स᳘र्व्व ऽएव᳘ मेनिरे ऽयं वै᳘ यज्ञ ऽइ᳘ति॥

मूलम् - Weber

ते᳘र्चन्तः श्रा᳘म्यन्तश्चेरुः॥
श्र᳘मेण ह स्म वै त᳘द्देवा᳘ जयन्ति य᳘देषां ज᳘य्यमास᳘र्षयश्च ते᳘भ्यो देवा᳘ वैव᳘ प्ररोचयां᳘ चक्रुः᳘ स्वयं᳘ वैव᳘ दध्रिरे प्रे᳘त त᳘देष्या᳘मो य᳘तो देवाः᳘ स्वर्गं᳘ लोक᳘ᳫं᳘ समा᳘श्नुवते᳘ति ते किम् प्र᳘रोचते किम् प्र᳘रोचत इ᳘ति चेरुरे᳘त्पुरोडा᳘शमेव᳘ कूर्म᳘म् भूत्वा स᳘र्पन्तं ते᳘ह स᳘र्व एव᳘ मेनिरे यं वै᳘ यज्ञ इ᳘ति॥

मूलम् - विस्वरम्

ते ऽर्चन्तः श्राम्यन्तश्चेरुः । श्रमेण ह स्म वै तद्देवा जयन्ति- यदेषां जय्यमास- ऋषयश्च । तेभ्यो देवा वैव प्ररोचयाञ्चक्रुः, स्वयं वैव दध्रिरे; प्रेत तदेष्यामः- यतो देवाः स्वर्गं लोकं समाश्रुवतेति । ते- ‘किं प्ररोचते किं प्ररोचते’ इति चेरुः । एत् पुरोडाशमेव कूर्मं भूत्वा सर्पन्तम् । ते ह सर्व एव मेनिरे- ‘अयं वै यज्ञः’ इति ॥ ३ ॥

सायणः

ते ऽर्च्चन्त इति । तदन्वेषणेन ‘अर्च्चन्तः’ अन्वेष्टव्यं पूजयन्तः, अन्वेषणप्रयासेनात्मानं खेदयन्त इतस्ततः संचेरुः । कथमित्याशङ्क्याह- श्रमेणेति । देवा ऋषयश्च पूर्वं जेतुं शक्यमर्थं 4 श्रमेणैव ‘जयन्ति’ अतः श्राम्यन्तश्चेरुरित्येतद् युक्तमित्यर्थः । अथ तदन्वेषण एतेषां देवा अपि रुच्युत्पादनमकुर्वन् । ते ऽपि स्वयमपि तदर्थं मतिं कृत्वा परस्परं यूपं प्रगच्छन्तः यस्मात् स्वर्गं लोकं देवाः प्राप्ताः, ‘तत्’ साधनम् ‘एष्यामः’ ‘इति’ उक्त्वा इदमन्वेषणं कार्यं ‘किं प्ररोचते किं प्ररोचते’ किं तव मतम्, किं तव मतम् ‘इति’ ब्रुवाणाः ‘चेरुः’ । परिभ्रम्य च ‘पुरोडाशमेव’ 5 कूर्मरूपं धृत्वा ‘सर्प्पन्तम्’ (पुरोडाशम्) 6 ‘आ इत्’ आ-इत्युपसर्गश्रुतेर्योग्यक्रियाध्याहारः; तमाजग्मुरेवेत्यर्थः । ‘ते सर्वे’ अपि ‘अयं’ कूर्म एवास्माभिरन्वेष्टव्यो ‘यज्ञ इति’ निश्चिताः ॥ ३ ॥

Eggeling
  1. They went on praising and toiling; for by (religious) toil, the gods indeed gained what they wished to gain, and (so did) the R̥shis. Now whether it be that the gods caused it (the sacrifice) to attract (or, peep forth to) them, or whether they took to it of their own accord, they said, ‘Come, let us go to the place whence the gods obtained possession of the world of heaven!’ They went about saying (to one another), ‘What attracts? What attracts 7?’ and came upon the sacrificial cake which had become a tortoise and was creeping about. Then they all thought, ‘This surely must be the sacrifice!’

०४

विश्वास-प्रस्तुतिः

ते᳘ होचुः॥
(र) अश्वि᳘भ्यां तिष्ठ स᳘रस्वत्यै तिष्ठे᳘न्द्राय तिष्ठे᳘ति स᳘ सस᳘र्प्पैवाग्न᳘ये तिष्ठे᳘ति त᳘तस्तस्थावग्न᳘ये वा᳘ ऽअस्थादि᳘ति त᳘मग्ना᳘वेव᳘ परिगृ᳘ह्य सर्व्वहु᳘तमजुहवुरा᳘हुतिर्हि᳘ देवा᳘नां त᳘त ऽएभ्यो यज्ञः प्रा᳘रोचत त᳘मसृजन्त त᳘मतन्वत᳘ सो ऽयं᳘ परो ऽवरं यज्ञो᳘ ऽनूच्यते पि᳘तैव᳘ पुत्रा᳘य ब्रह्मचारि᳘णे॥

मूलम् - श्रीधरादि

ते᳘ होचुः॥
(र) अश्वि᳘भ्यां तिष्ठ स᳘रस्वत्यै तिष्ठे᳘न्द्राय तिष्ठे᳘ति स᳘ सस᳘र्प्पैवाग्न᳘ये तिष्ठे᳘ति त᳘तस्तस्थावग्न᳘ये वा᳘ ऽअस्थादि᳘ति त᳘मग्ना᳘वेव᳘ परिगृ᳘ह्य सर्व्वहु᳘तमजुहवुरा᳘हुतिर्हि᳘ देवा᳘नां त᳘त ऽएभ्यो यज्ञः प्रा᳘रोचत त᳘मसृजन्त त᳘मतन्वत᳘ सो ऽयं᳘ परो ऽवरं यज्ञो᳘ ऽनूच्यते पि᳘तैव᳘ पुत्रा᳘य ब्रह्मचारि᳘णे॥

मूलम् - Weber

ते᳘ होचुः॥
अश्वि᳘भ्यां तिष्ठ स᳘रस्वत्यै तिष्ठे᳘न्द्राय तिष्ठे᳘ति स᳘ सस᳘र्पैॗवाग्न᳘ये तिष्ठे᳘ति त᳘तस्तस्थावग्न᳘ये वा᳘अस्थादि᳘ति त᳘मग्ना᳘वेव᳘ परिगृ᳘ह्य सर्वहु᳘तमजुहवुरा᳘हुतिर्हि᳘देवा᳘नां त᳘त एभ्यो यज्ञः प्रा᳘रोचत तम᳘सृजन्त त᳘मतन्वतॗ सो ऽय᳘म् परो ऽवरं᳘ यज्ञो᳘ ऽनूच्यते पिॗतैव᳘ पुत्रा᳘य ब्रह्मचारि᳘णे॥

मूलम् - विस्वरम्

ते होचुः ‘अश्विभ्यां तिष्ठ, सरस्वत्यै तिष्ठ, इन्द्राय तिष्ठ’ इति, स ससर्पैव । ‘अग्नये तिष्ठ’ इति- ततस्तस्थौ । अग्नये वा अस्थाद्- इति तमग्नावेव परिगृह्य सर्वहुतमजुहवुः । आहुतिर्हि देवानाम् । तत एभ्यो यज्ञः प्रारोचत, तमसृजन्त, तमतन्वत, सो ऽयं परो ऽवरं यज्ञो ऽनुच्यते- पितैव पुत्राय ब्रह्मचारिणे ॥ ४ ॥

सायणः

ते होचुरिति । ‘ते’ “हे यज्ञावयव-पुरोडाश ! ‘त्वम्’ ‘अश्विभ्याम्’ अर्थाय ‘तिष्ठ’ स्थितिं कुरु- मा पलायिष्ट” इति ‘ऊचुः’ । तथापि (तथैव) ‘सरस्वत्यै’ तिष्ठ इति ‘इद्राय तिष्ठ’- इति चाब्रुवन् । तस्मिन् सर्पति सति ‘अग्नये तिष्ठेति’ ऊचुः । ‘ततः’ स स्थितवान् । अथ ते “अयं पुरोडाशो ऽग्नये स्थितः” इति ‘तम्’ अग्न्यर्थमेव ‘परिगृह्य’ यथा देवतान्तरसम्बन्धराहित्येन सः ‘अग्नये’ एव ‘अस्थात्’, तथा ‘सर्वहुतमजुहवुः’ । किमेकस्मै सर्वस्यापि प्रदानमिति तत्राह- आहुतिर्हि देवानामिति । प्रियेति शेषः । यतः प्रियस्य वस्तुनो ऽसाकल्येन प्रदानमनुचितम्, अतः सर्वहोमो युक्त इत्यर्थः । ‘ततः’ अग्नेः प्रदानात् कारणात्- ‘एभ्यः’ ऋषिभ्यो मनुष्येभ्यः ‘प्रारोचत’ रुचिमुदपादयत् । ‘तम्’ ‘असृजन्त’ उदपादयन्, ‘तम्’ एव- ‘अतन्वत’ अङ्गकलापैर्विस्तारितवन्तः । ‘सो ऽयं’ यज्ञः ‘परो ऽवरम् अनूव्यते’ यथा परभावी सन् कस्यचिदुपादिष्टः सन्मुखादन्यस्योपदेशनात् अयमेव ‘अवरः’ पश्चाद्भावी भवति, तथा ऽनुक्रमेणोच्यत इत्यर्थः । तदेवाह- पितैव पुत्रायेति । ‘ब्रह्मचारिणे’ उपनीतस्यैव वेदविद्याधिकारात् ब्रह्मचारिण इत्युक्तम् ॥ ४ ॥

Eggeling
  1. They said, ‘Stand still for the Aśvins! stand still for Sarasvatī! stand still for Indra!’ still it

crept on;–‘Stand still for Agni!’ at this it stopped. Having then enveloped it in fire (Agni), knowing, as they did, that it had stopped for Agni, they Offered it up entirely, for it was an oblation to the gods. Then the sacrifice pleased them 8; they produced it, they spread it. And this same sacrifice is taught by the former to the later; the father (teaches it) to his son when he is a student (brahmacārin).

०५

विश्वास-प्रस्तुतिः

स वा᳘ ऽएभ्यस्त᳘त्पु᳘रो ऽदाशयत्॥
(द्य᳘) य᳘ एभ्यो यज्ञं प्रा᳘रोचयत्त᳘स्मात्पुरोदा᳘शः पुरोदा᳘शो ह वै ना᳘मैतद्य᳘त्पुरोडा᳘श ऽइ᳘ति स᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भवति॥

मूलम् - श्रीधरादि

स वा᳘ ऽएभ्यस्त᳘त्पु᳘रो ऽदाशयत्॥
(द्य᳘) य᳘ एभ्यो यज्ञं प्रा᳘रोचयत्त᳘स्मात्पुरोदा᳘शः पुरोदा᳘शो ह वै ना᳘मैतद्य᳘त्पुरोडा᳘श ऽइ᳘ति स᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्ने᳘यो ऽष्टा᳘कपालः पुरोडा᳘शो भवति॥

मूलम् - Weber

स वा᳘ एभ्यस्त᳘त्पुॗरो ऽदाशयत्॥
य᳘ एभ्यो यज्ञम् प्रा᳘रोचयत्त᳘स्मात्पुरोदा᳘शः पुरोदा᳘शो ह वै ना᳘मैतद्य᳘त्पुरोडा᳘श इ᳘ति स᳘ एष᳘ उभय᳘त्राच्युत᳘ आग्नेॗयो ऽष्टा᳘कपालः पुरोडा᳘शो भवति॥

मूलम् - विस्वरम्

स वा एभ्यस्तत् पुरो ऽदाशयत्- य एभ्यो यज्ञं प्रारोचयत्, तस्मात्पुरोदाशः, पुरोदाशो ह वै नामैतद्- यत् पुरोडाश इति । स एष उभयत्राच्युत आग्नेयो ऽष्टाकपालः पुरोडाशो भवति ॥ ५ ॥

सायणः

अथ पुरोडाशं नामनिर्वचनद्वारेण स्तौति- स वा इति । यतः ‘सः’ कूर्मरूपेणाच्छन्नो मनुष्यैर्दृष्टः, ‘तत्’ ततः 9 यागसमये ‘पुरः’ पूर्वस्मिन् काले यज्ञमुखे ‘अदाशयत्’ फलमदापयत् । तथा ‘यः’ पुरोडाशः ‘एभ्यः’ मनुष्येभ्यो ऽर्थं ‘यज्ञं प्रारोचयत्’, यस्मात् पुरो ऽदाशयत् ‘तस्मात्’ सः ‘पुरोदाशः’ वस्तुतः एतन्नाम । ‘यत्’ सर्वैरिदानीन्तनैः ‘पुरोडाश इति’ व्यवह्रियते 10

इत्थमर्थवादेन प्रशस्येदानीं तं विधत्ते- स एष इति । ‘सः’ देवैराच्छादितः ‘एषः’ मनुष्यैर्लब्धः ‘पुरोडाशः’ ‘आग्नेयः’ अग्निदेवताकः 11 । ‘सः’ ‘उभयत्र’ दर्शे पौर्णमास्यां च ‘अच्युतः’ नित्यं कर्त्तव्यः, ‘भवति’ ॥ ५ ॥

Eggeling
  1. Now that (cake), which caused the sacrifice to attract (or, appear to) them, first (puras) bestowed (dāś) it upon them: hence it is (called) purodāśa, for purodāśa, doubtless, is the same as purodāśa 12. This same cake on eight potsherds for Agni is indispensable on both occasions (at the new- and full-moon ceremonies).

०६

विश्वास-प्रस्तुतिः

स न᳘ पौर्णमास᳘ᳫं᳘ हविः᳘॥
(र्ना) नामावास्य᳘मग्नीषोमी᳘य ऽएव᳘ पौर्णमास᳘ᳫँ᳘ हविः᳘ सान्नाय्य᳘मामावास्यं᳘ यज्ञ᳘ ऽए᳘वैष᳘ ऽउभयत्रा᳘वक्लृप्तो ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वेव᳘ पुर᳘स्तात्पौर्णमास᳘स्य क्रिय᳘त ऽएव᳘म्वामावास्य᳘स्यैतन्नु तद्य᳘स्माद᳘त्र क्रियते॥

मूलम् - श्रीधरादि

स न᳘ पौर्णमास᳘ᳫं᳘ हविः᳘॥
(र्ना) नामावास्य᳘मग्नीषोमी᳘य ऽएव᳘ पौर्णमास᳘ᳫँ᳘ हविः᳘ सान्नाय्य᳘मामावास्यं᳘ यज्ञ᳘ ऽए᳘वैष᳘ ऽउभयत्रा᳘वक्लृप्तो ने᳘द्यज्ञाद᳘यानी᳘ति᳘ न्वेव᳘ पुर᳘स्तात्पौर्णमास᳘स्य क्रिय᳘त ऽएव᳘म्वामावास्य᳘स्यैतन्नु तद्य᳘स्माद᳘त्र क्रियते॥

मूलम् - Weber

स न᳘ पौर्णमास᳘ᳫं᳘ हविः᳟᳟॥
नामावास्य᳘मग्नीषो᳘मीय एव᳘ पौर्णमास᳘ᳫं᳘ हविः᳘ सांनाय्य᳘मामावास्यं᳘ यज्ञ᳘ एॗवैष᳘ उभयत्रा᳘वकॢप्तो ने᳘द्यज्ञाद᳘यानी᳘तिॗ न्वेव᳘ पुर᳘स्तात्पौर्णमास᳘स्य क्रिय᳘त एव᳘म्वामावास्य᳘स्यैतन्नु तद्य᳘स्माद᳘त्र क्रियते॥

मूलम् - विस्वरम्

स न पौर्णमासं हविः, नामावास्यम् । अग्नीषोमीय एव पौर्णमासं हविः, सान्नाय्यमामावास्यम् । यज्ञ एवैष उभयत्रावक्लृप्तः, ‘नेद् यज्ञादयानि’ इति न्वेव पुरस्तात् पौर्णमासस्य क्रियते, एवम्वामावास्यस्य । एतन्नु तद्- यस्मादत्र क्रियते ॥ ६ ॥

सायणः

उभयसाधारण्यमेव स्थापयति- स नेति । पौर्णमास्यां भवं ‘पौर्णमासम्’ एवं ‘आमावास्यम्’ उभयात्मकस्यान्यतरत्वाभावात् ते हि प्रतिनियतैकहविषी इति- ते आह- अग्नीषोमीय एवेत्यादिना । उभयत्रापि नियमेनानुतिष्ठतामभिप्रायमाह- यज्ञ एवैष इति । यज्ञसाधनत्वात्, ‘एषः’ पुरोडाशः ‘यज्ञ एव’ । स उभयकालो ऽपि नियमेन देषैः ‘अयानि’- ‘इति’ उभयत्रावक्लृप्तमतिक्रम्य नैव गच्छानि, यदा अन्यदनुतिष्ठानि, तदा ‘नेत्’ परिभयं भवति । “नेत्येष इदित्येतेन सम्प्रयुज्यते परिभये” (निरु. १-३-६) इति हि निर्वचनेन खल्वभिप्रायेण ‘पौर्णमासस्य’ ‘आमावास्यस्य’ च यागस्य ‘पुरस्तात्’ पूर्वकाले ‘क्रियते’ 13 । ‘यस्माद्’ दर्शे पौर्णमास्यां च यस्मात्कारणादनुष्ठीयते, ‘तत्’ तत्कारणम् ‘एतन्नु’ उभयं निमित्तं खलु ॥ ६ ॥

Eggeling
  1. That (cake for Agni) does not constitute the (special) sacrificial food (havis) either at the full-moon, or at the new-moon, sacrifice; since the one for Agni and Soma constitutes the havis at the full-moon, and the Sānnāyya 14 at the new-moon sacrifice. That one (for Agni) constitutes rather the regular (or, corresponding) sacrifice on both occasions, and because of its fearing lest it should become detached from the sacrifice, it is offered up at the beginning of both the full-moon and the new-moon sacrifice: this is the reason why it is offered at this particular time.

०७

विश्वास-प्रस्तुतिः

य᳘द्यु ऽएनमुपधा᳘वेत्॥
(दि᳘) इ᳘ष्ट्या मा याजये᳘त्येत᳘यैव᳘ याजयेद्य᳘त्कामा वा ऽएतमृ᳘षयो᳘ ऽजुहवुः स᳘ ऽएभ्यः का᳘मः स᳘मर्द्ध्यत य᳘त्कामो ह वा᳘ ऽएते᳘न यज्ञे᳘न य᳘जते᳘ सो ऽस्मै का᳘मः स᳘मृद्ध्यते य᳘स्यै वै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्यते ऽग्नौ वै त᳘स्यै जुह्वत्यग्ना᳘ ऽउ चे᳘द्धोष्यन्त्स्यात्कि᳘मन्य᳘स्यै देव᳘ताया आ᳘दिशेत्त᳘स्मादग्न᳘य ऽएव᳘॥

मूलम् - श्रीधरादि

य᳘द्यु ऽएनमुपधा᳘वेत्॥
(दि᳘) इ᳘ष्ट्या मा याजये᳘त्येत᳘यैव᳘ याजयेद्य᳘त्कामा वा ऽएतमृ᳘षयो᳘ ऽजुहवुः स᳘ ऽएभ्यः का᳘मः स᳘मर्द्ध्यत य᳘त्कामो ह वा᳘ ऽएते᳘न यज्ञे᳘न य᳘जते᳘ सो ऽस्मै का᳘मः स᳘मृद्ध्यते य᳘स्यै वै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्यते ऽग्नौ वै त᳘स्यै जुह्वत्यग्ना᳘ ऽउ चे᳘द्धोष्यन्त्स्यात्कि᳘मन्य᳘स्यै देव᳘ताया आ᳘दिशेत्त᳘स्मादग्न᳘य ऽएव᳘॥

मूलम् - Weber

य᳘द्यु एनमुपधा᳘वेत्॥
इ᳘ष्ट्या मा याजये᳘त्येत᳘यैव᳘ याजयेद्य᳘त्कामा वा᳘ एतमृ᳘षयो᳘ ऽजुहवुः स᳘ एभ्यः का᳘मः स᳘मर्ध्यत 13 य᳘त्कामो ह वा᳘ एते᳘न यज्ञे᳘न य᳘जतेॗ सो ऽस्मै का᳘मः स᳘मृध्यते य᳘स्यै वै क᳘स्यै च देव᳘तायै हवि᳘र्गृह्य᳘ते ऽग्नौ वै त᳘स्यै युह्वत्यग्ना᳘ उ चे᳘द्धोष्यन्त्स्यात्कि᳘मन्य᳘स्यै देव᳘ताया आ᳘दिशेत्त᳘स्मादग्न᳘य एव᳟॥

मूलम् - विस्वरम्

यद्यु एनमुपधावेत्- ‘इष्ट्या मा याजय’ इति- एतयैव याजयेत् । यत्कामा वा एतमृषयो ऽजुहवुः- स एभ्यः कामः समर्द्ध्यत । यत्कामो ह वा एतेन यज्ञेन यजते- सो ऽस्मै कामः समृद्ध्यते । यस्यै वै कस्यै च देवतायै हविर्गृह्यते- अग्नौ वै तस्यै जुह्वति । अग्ना उ चेद्घोष्यन् स्यात्- किमन्यस्यै देवताया आदिशेत् । तस्मादग्नय एव ॥ ७ ॥

सायणः

अस्यैवाग्नेयस्य 13 ऋद्धिफलाय पृथक्-प्रयोक्तव्यतामाह- यद्यु इति । ‘एनम्’ अध्वर्युम् । ‘एतयैव’ । आग्नेयेष्ट्यैव । यत्कामा वा इति । पुरा ‘एतम्’ आग्नेयाष्टाकपालपुरोडाशम् ‘ऋषयः’ यं काममपेक्ष्य ‘अजुहवुः’ अन्वतिष्ठन्, ‘एभ्यः’ ‘स कामः’ समृद्धो ऽभूत् । अत इदानीमपि यः ‘एतेन यजते’ ‘अस्मै’ अपि ‘स कामः’ भवत्येव ।

यत्सम्बन्धादष्टाकपालेष्टिरेवंविधसामर्थ्या ऽभूत्- तमग्निं बहुधा प्रशंसति- यस्यै वै कस्यै चेत्यादिना । यां काञ्चिद्देवतामुद्दिश्याज्यसोमादि ‘हविः’ ‘गृह्यते’ तत् ‘अग्नौ’ एव ‘जुह्वति’ नान्यत्र; अतः सर्वं वा सर्वस्य ‘अग्ना ऽउ’ अग्नावेव ‘होष्यन्’ यदि भवेत्, तर्हि किमर्थम् ‘अन्यस्यै’ इन्द्रादिदेवतायै- अमुष्या इदमिति ‘आदिशेत्’; ‘तस्माद्’ अग्नौ होमस्यावश्यकत्वाद् ‘अग्नय एव’ होमः प्रशस्त इति शेषः ॥ ७ ॥

Eggeling
  1. And if any one (householder) were to resort to him (the Adhvaryu) and say, ‘Perform an ishṭi for me!’ let him perform it. Whatever desire the R̥shis entertained when they performed that sacrifice, that desire of theirs was accomplished; and accordingly whatever desire he (the sacrificer) entertains in having this sacrifice performed, that desire of his is accomplished. For whatever deity sacrificial food is taken, to that deity they offer it up in the fire (Agni);–and if he is about to offer it up in the fire, why should he announce it to another deity? To Agni alone therefore (it is announced).

०८

विश्वास-प्रस्तुतिः

(वा) अग्निर्व्वै स᳘र्व्वा देव᳘ताः॥
(ऽ) अग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वति तद्य᳘था स᳘र्व्वा देव᳘ता ऽउपधा᳘वेदेवं तत्त᳘स्मादग्न᳘य ऽएव᳘॥

मूलम् - श्रीधरादि

(वा) अग्निर्व्वै स᳘र्व्वा देव᳘ताः॥
(ऽ) अग्नौ हि स᳘र्व्वाभ्यो देव᳘ताभ्यो जु᳘ह्वति तद्य᳘था स᳘र्व्वा देव᳘ता ऽउपधा᳘वेदेवं तत्त᳘स्मादग्न᳘य ऽएव᳘॥

मूलम् - Weber

अग्निर्वै स᳘र्वा देव᳘ताः॥
अग्नौ हि स᳘र्वाभ्यो देव᳘ताभ्यो जु᳘ह्वति तद्य᳘था स᳘र्वा देव᳘ता उपधा᳘वेदेवं तत्त᳘स्मादग्न᳘य एव᳟॥

मूलम् - विस्वरम्

अग्निर्वै सर्वा देवताः- अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वति । तद्यथा सर्वा देवता उपधावेद्- एवं तत् । तस्मादग्नय एव ॥ ८ ॥

सायणः

इतो ऽप्यग्नय एव प्रदानं युक्तमित्याह- अग्निर्वा इति । उक्तप्रकारेण अग्नावेव सर्वदेवतार्थहवनात्तदुपधावितत्वात् ‘सर्वाः’ ‘अग्निः’ एव । ‘तत्’ तस्मात् सर्वदेवतोपधावनाद् यद्भवति, तदग्नेरुपधावनेनैव स्यात् । ‘तस्मादग्नय एव’ हविरादेशः प्रशस्तः ॥ ८ ॥

Eggeling
  1. Agni (the fire), assuredly, represents all the deities, since it is in the fire that they make offering to all deities: to Agni alone therefore (he should announce it), since he thereby has recourse to all the deities.

०९

विश्वास-प्रस्तुतिः

(वा) अग्निर्व्वै᳘ देवा᳘नामद्धातमाम्॥
यं व्वा᳘ ऽअद्धातमां म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य ए᳘व॥

मूलम् - श्रीधरादि

(वा) अग्निर्व्वै᳘ देवा᳘नामद्धातमाम्॥
यं व्वा᳘ ऽअद्धातमां म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य ए᳘व॥

मूलम् - Weber

अग्निर्वै᳘ देवा᳘नामद्धातमा᳘म्॥
यम् वा᳘ अद्धातमाम् म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य एव᳟॥

मूलम् - विस्वरम्

अग्निर्वै देवानामद्धातमाम् । यं वा अद्धातमां मन्येत- तमुपधावेत् । तस्मादग्नय एव ॥ ९ ॥

सायणः

अग्निर्वै देवानामिति । किं यथा लोके यम् ‘अद्धातमाम्’ 15 अतिशयेन प्रत्यक्षफलदं मन्येत; ‘तम्’ एव ‘उपधावेत्’, एवमग्नेः प्रत्यक्षदेवत्वात् ‘अग्नय एव’ ॥ ९ ॥

Eggeling
  1. Agni, assuredly, is the safest 16 among the gods: let him then have recourse to him whom he considers the safest among the gods, and therefore (announce the sacrifice) to Agni.

१०

विश्वास-प्रस्तुतिः

(वा) अग्निर्व्वै᳘ देवा᳘नां मृदु᳘हृदयतमः॥
(मो) यं वै᳘ मृदु᳘हृदयतमं म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य ऽएव᳘॥

मूलम् - श्रीधरादि

(वा) अग्निर्व्वै᳘ देवा᳘नां मृदु᳘हृदयतमः॥
(मो) यं वै᳘ मृदु᳘हृदयतमं म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य ऽएव᳘॥

मूलम् - Weber

अग्निर्वै᳘ देवा᳘नां मृदु᳘हृदयतमः॥
यं वै᳘ मृदु᳘हृदयतमम् म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य एव᳟॥

मूलम् - विस्वरम्

अग्निर्वै देवानां मृदुहृदयतमः । यं वै मृदुहृदयतमं मन्येत- तमुपधावेत् । तस्मादग्नय एव ॥ १० ॥

सायणः

तथा- इतरदेवताभ्यो ऽग्नेरेव शीघ्रं प्रसादाय मृदुहृदयत्वात् प्रत्यक्षदेवत्वेन समीप एव सेव्यत्वाच्चाग्नय एव होमो युक्त इत्याह- अग्निर्वै देवानां मृदुहृदयतम इति । अग्निर्वै देवानां नेदिष्ठमिति च ॥ १० ॥ ११ ॥

Eggeling
  1. Agni, assuredly, is the most tender-hearted of gods: let him then have recourse to him whom he considers the most tender-hearted of gods, and therefore (announce the sacrifice) to Agni.

११

विश्वास-प्रस्तुतिः

(वा) अग्निर्व्वै᳘ देवा᳘नां ने᳘दिष्ठम्॥
यं वै ने᳘दिष्ठमुपसर्त᳘व्यानां म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य ऽएव॥

मूलम् - श्रीधरादि

(वा) अग्निर्व्वै᳘ देवा᳘नां ने᳘दिष्ठम्॥
यं वै ने᳘दिष्ठमुपसर्त᳘व्यानां म᳘न्येत तमु᳘पधावेत्त᳘स्मादग्न᳘य ऽएव॥

मूलम् - Weber

अग्निर्वै देवानां नेदिष्ठम्॥
यं वै नेदिष्ठमुपसर्तव्यानाम् म᳘न्येत तमुपधावेत्तस्मादग्नय एव॥

मूलम् - विस्वरम्

अग्निर्वै देवानां नेदिष्ठम् । यं वै नेदिष्ठमुपसर्त्तव्यानां मन्येत- तमुपधावेत् । तस्मादग्नय एव ॥ ११॥

सायणः

[व्याख्यानम् दशमे]

Eggeling
  1. Agni, assuredly, is the nearest of the gods: let him then have recourse to him whom he considers as the nearest of those to be approached, and therefore (let him announce the sacrifice) to Agni.

१२

विश्वास-प्रस्तुतिः

स यदी᳘ष्टिं कुर्व्वीत᳘॥
सप्त᳘दश सामिधेनीर᳘नुब्रूयादुपाᳫंशु᳘ देव᳘तां यजति त᳘द्धीष्टिरूपं᳘ मूर्द्धन्व᳘त्यौ याज्यानुवा᳘क्ये स्या᳘तां व्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संया᳘ज्ये॥

मूलम् - श्रीधरादि

स यदी᳘ष्टिं कुर्व्वीत᳘॥
सप्त᳘दश सामिधेनीर᳘नुब्रूयादुपाᳫंशु᳘ देव᳘तां यजति त᳘द्धीष्टिरूपं᳘ मूर्द्धन्व᳘त्यौ याज्यानुवा᳘क्ये स्या᳘तां व्वा᳘र्त्रघ्नावा᳘ज्यभागौ व्विरा᳘जौ संया᳘ज्ये॥

मूलम् - Weber

स यदी᳘ष्टिं कुर्वीत᳟॥
सप्त᳘दश सामिधेनीर᳘नुब्रूयादुपांशु᳘ देव᳘तां यजति तॗद्धीष्टिरूप᳘म् मूर्धन्व᳘त्यौ याज्यानुवाॗक्ये स्या᳘तां वा᳘र्त्रघ्नावा᳘ज्यभागौ विरा᳘जौ संयाॗज्ये॥

मूलम् - विस्वरम्

स यदीष्टिं कुर्वीत- सप्तदश सामिधेनीरनुब्रूयाद् । उपांशु देवतां यजति- तद्धीष्टिरूपम् । मूर्द्धन्वत्यौ याज्यानुवाक्ये स्याताम्, वार्त्रघ्नावाज्यभागौ, विराजौ संयाज्ये ॥ १२ ॥

सायणः

अथ पृथक्प्रयोक्तव्याया आग्नेयेष्टेर्वैशेषिकमङ्गजातमाह- स यदीत्यादिना । ‘यदि’ ‘इष्टिं’ दर्शपूर्णमासात् पृथगेव ‘कुर्वीत,’ ‘सः’ ‘सामिधेनीः’ 15 ‘सप्तदश’ ‘अनुब्रूयात्’; तथा प्रधानदेवता उपांशु यजेत । ‘तद्’ उपांशुत्वं काम्येष्टिरूपं खलु; उपांशु काम्या इष्टयः क्रियन्त 17 इति । एवं ‘मूर्द्धन्वत्यौ’ 18 “अग्निर्मूर्द्धा,- भुवो यज्ञस्य (य. सं. १३-१४, १५)” इत्येते मूर्द्धशब्दवत्यौ प्रधानस्य याज्ये स्विष्टकृद्याज्यापुरोनुवाक्ये, ‘विराजौ’ विराट्छन्दस्के “प्रेद्धो अग्न, इमो अग्ने (य. सं. १७, ७६)” इत्येते भवतः 19 ॥ १२॥ १ ॥ [६.२]

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे षष्ठाध्याये द्वितीयं ब्राह्मणम् ॥

Eggeling
  1. If (beside the full-moon sacrifice) he perform an ishṭi (with a view to the accomplishment of some

special desire) 20, let him recite seventeen kindling verses; (and in that case) he utters the offering-prayer (yājyā) in a low voice, for this is the characteristic form of an ishṭi; the yājyā and the anuvākyā should contain the word ‘head [^egg_381];’ the two butter-portions should be offered to the Vr̥tra-slayer (Indra); and the two saṁyājyās [^egg_382] should be in the virāj metre.


  1. ‘यथोक्तदेवतां प्रति हविष्ट्वेन प्रदेयद्रव्यरूपः पक्वः पिष्टपिण्डः पुरोडाश इत्युच्यते’ इत्यैतरेयब्राह्मणाभाष्ये (१. १. १.) माधवेनैवोक्तम् । ↩︎ ↩︎

  2. “यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायंस्ते ऽबिभयुरिमन्नो दृष्ट्वा मनुष्याश्च ऋषयश्चानु प्रज्ञास्यन्तीति तं वै यूपेनैवायोपयंस्तं यद्यृपेनैवायोपयंस्तद्यूपस्य यूपत्वम्” इति ऐ. ब्रा. २ । १ । १ ॥ ↩︎

  3. 160:2 Yūpena yopāyitvā, literally ‘having made it level by means of the yūpa,’ = yūpenācchādya, ‘having covered it over with the yūpa,’ Sāyaṇa (cf. also on Rig-veda I, 104, 4). For other versions of the same myth, cf. Ait. Br. II, 1 [’they debarred them (ayopayan, viz. the men and R̥shis from the sacrificial knowledge) by means of the yūpa,’ Haug]; Taitt. S. VI, 3, 4, 7; 5, 3, 1. The legend is intended to supply, by means of a fanciful etymology, a symbolical meaning for the yūpa or sacrificial post to which the victim is tied. ↩︎

  4. ‘क्षय्यजय्यो शक्यार्थे’ (पा. सू. ६. १. ८१) इति जय्यशब्दस्य शक्यार्थ एव साधुत्वबोधनात् । ↩︎

  5. ‘अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति यावन्तं वा मन्यते’ इति पुरोडाशविषये आपस्तम्बः । आप. श्रौ. सू. १ । २५ । ४ । ५ ॥ ↩︎

  6. ( ) चिह्नान्तर्गतः पाठः क्वचिन्नास्ति । ↩︎

  7. 161:1 Kim prarocate = ‘what thinkest thou?’ Sāyaṇa. The primary meaning of pra-ruc is ’to shine forth.’ Here it has apparently to be taken in the double sense of ’to peep forth, to appear,’ and ’to please.’ The German ’einleuchten’ (St. Petersburg Dictionary) approaches more nearly to the original. ↩︎

  8. 162:1 Or ‘appeared to them, shone forth to them, prārocata; see preceding note. ↩︎

  9. तत्रेति क्वचित् । ↩︎

  10. पा. सू. ३ । २ । ३१ ॥ ८ । २ । ६७ ॥ वा. २० ३६ ॥ २०३८ ॥ य. बा. प्रा. २ । ४३ ॥ ↩︎

  11. “सा ऽस्य देवता” “अग्नेर्ढक्” इति पा० सू० ४ । २ । २४ । ३३ ॥ ↩︎

  12. 162:2 In the compound puroḍāsa or puroḍāś the original dental d has been changed to the lingual ḍ, apparently through the influence of the preceding r. ↩︎

  13. “यज्ञ एव” स उभयकालो ऽपि तयोः पूर्वकाले क्रियते” इति क्वचित्पाठः ॥ ↩︎ ↩︎ ↩︎

  14. 162:3 See I, 6, 4, 9. One would expect the Sānnāyya (to Indra) or the cake to Indra-Agni. The full-moon offering is sacred to Agni-Soma: and the new-moon offering to Indra-Agni; see I, 8, 3, 1 seq. ↩︎

  15. अद्धा इत्यव्ययं सत्यनामसु निघण्टौ पठितम् । निघ. ३ । १० । ४ । इहोत्तरत्रापि बहुत्र २ । ३ | १ । २५ ॥ ३ । १ । ४ । ११ ॥ इति ॥ ↩︎ ↩︎

  16. 163:1 Addhātamām, adv., literally ‘most surely;’ according to Sāyaṇa = atiśayena pratyakshaphaladam, ‘pre-eminently a giver of perceptible benefits.’ ↩︎

  17. पुरस्तात् (३ । ५ । १०) इत्यत्र द्रष्टव्यम् । ↩︎

  18. “वयस्या सुमूर्ध्नोमतुप्” इति पा. सू. ४ । ४ । १२७ । ↩︎

  19. संयाज्यशब्दार्थस्त्वैतरेयब्राह्मणभाष्ये (१. १. ५.) “स्विष्टकृत्सम्बन्धिन्यौ याज्यानुवाक्ये इत्यर्थः" इत्येवं माधवेन निरूपितम् । ↩︎

  20. 164:1 See I, 3, 5, 10. ↩︎