०१
विश्वास-प्रस्तुतिः
ऋत᳘वो ह वै᳘ देवे᳘षु यज्ञे᳘ भाग᳘मीषिरे॥
आ᳘ नो यज्ञे᳘ भजत मा᳘ नो यज्ञा᳘दन्त᳘र्गता᳘स्त्वेव नो᳘ ऽपि यज्ञे᳘ भाग ऽइ᳘ति॥
मूलम् - श्रीधरादि
ऋत᳘वो ह वै᳘ देवे᳘षु यज्ञे᳘ भाग᳘मीषिरे॥
आ᳘ नो यज्ञे᳘ भजत मा᳘ नो यज्ञा᳘दन्त᳘र्गता᳘स्त्वेव नो᳘ ऽपि यज्ञे᳘ भाग ऽइ᳘ति॥
मूलम् - Weber
ऋत᳘वो ह वै᳘ देवे᳘षु यज्ञे᳘ भाग᳘मीषिरे॥
आ᳘ नो यज्ञे᳘ भजत मा᳘ नो यज्ञा᳘दन्त᳘र्गता᳘स्त्वेव नो᳘ ऽपि यज्ञे᳘ भाग इ᳘ति॥
मूलम् - विस्वरम्
“प्रयाजानामिष्टौ प्राथम्यम्” ।
ऋतवो ह वै देवेषु यज्ञे भागमीषिरे, आ नो यज्ञे भजत, मा नो यज्ञादन्तर्गत, अस्त्वेव नो ऽपि यज्ञे भाग इति ॥ १ ॥
सायणः
यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
अथ वसन्तादिप्रयाजदेवेषु कथमग्नेः सम्बन्ध इति तदुपपादनायाख्यायिकामाह- ऋतवो ह वा इति । ‘ऋतवः’ पुरा दर्शपूर्णमासादियज्ञे ‘भागम्’ ‘ईषिरे’ ऐच्छन् । ते देवान् प्रति अस्मानपि ‘यज्ञे’ भागिनः कुरुत | ‘यज्ञाद्’ अस्मान् ‘अन्तरितान्’ ‘मा’ कुरुत । अतो ऽस्माकम् ‘अपि’ यज्ञे भागो ऽस्त्वित्यब्रुवन् ॥ १ ॥
Eggeling
- Now the Seasons were desirous to have a share in the sacrifice among the gods, and said, ‘Let us share in the sacrifice! Do not exclude us from the sacrifice! Let us have a share in the sacrifice!’
०२
विश्वास-प्रस्तुतिः
तद्वै᳘ देवा न᳘ जज्ञुः॥
(स्त᳘) त᳘ ऽऋत᳘वो देवेष्व᳘जानत्स्व᳘सुरानुपा᳘वर्तन्ता᳘प्रियान्देवा᳘नां द्विषतो भ्रा᳘तृव्यान्॥
मूलम् - श्रीधरादि
तद्वै᳘ देवा न᳘ जज्ञुः॥
(स्त᳘) त᳘ ऽऋत᳘वो देवेष्व᳘जानत्स्व᳘सुरानुपा᳘वर्तन्ता᳘प्रियान्देवा᳘नां द्विषतो भ्रा᳘तृव्यान्॥
मूलम् - Weber
तद्वै᳘ देवा न᳘ जज्ञुः॥
त᳘ ऋत᳘वो देवेष्व᳘जानत्स्व᳘सुरानुपा᳘वर्तन्ता᳘प्रियान्देवा᳘नां द्विषतो भ्रा᳘तृव्यान्॥
मूलम् - विस्वरम्
तद्वै देवा न जज्ञुः । त ऋतवो देवेष्वजानत्स्वसुरानुपावर्तन्त- अप्रियान् देवानां द्विषतो भ्रातृव्यान् ॥ २ ॥
सायणः
तद्वै देवा नेति । ‘तत्’ कार्यं ‘देवाः’ ‘न’ प्राजानन् । तेषु ‘अजानत्सु’ कथमेतैः सह वासेनेति तद्वैरिभूतान् द्वेषकारिणः ‘असुरान्’ उपागत्य- ॥ २ ॥
Eggeling
- The gods, however, did not approve of this. The gods not approving, the Seasons went to the Asuras, the malignant, spiteful enemies of the gods.
०३
विश्वास-प्रस्तुतिः
(व्यांस्ते᳘) ते᳘ हैता᳘मेधतु᳘मेधां᳘चक्रिरे॥
या᳘मेषामेता᳘मनुशृण्व᳘न्ति कृष᳘न्तो ह स्मैव पू᳘र्व्वे व्व᳘पन्तो य᳘न्ति लुनन्तो᳘ ऽपरे मृण᳘न्तः श᳘श्वद्धैभ्यो ऽकृष्टपच्या᳘ ऽएवौ᳘षधयः पेचिरे॥
मूलम् - श्रीधरादि
(व्यांस्ते᳘) ते᳘ हैता᳘मेधतु᳘मेधां᳘चक्रिरे॥
या᳘मेषामेता᳘मनुशृण्व᳘न्ति कृष᳘न्तो ह स्मैव पू᳘र्व्वे व्व᳘पन्तो य᳘न्ति लुनन्तो᳘ ऽपरे मृण᳘न्तः श᳘श्वद्धैभ्यो ऽकृष्टपच्या᳘ ऽएवौ᳘षधयः पेचिरे॥
मूलम् - Weber
ते᳘ हैता᳘मेधतु᳘मेधां᳘ चक्रिरे॥
या᳘मेषामेता᳘मनुशृण्व᳘न्ति कृष᳘न्तो ह स्मैव पू᳘र्वे व᳘पन्तो य᳘न्ति लुनन्तो᳘ ऽपरे मृण᳘न्तः श᳘श्वद्धैभ्यो ऽकृष्टपच्या᳘ एवौ᳘षधयः पेचिरे॥
मूलम् - विस्वरम्
ते हैतामेधतुमेधाञ्चक्रिरे- यामेषामेतामनुशृण्वन्ति । कृषन्तो ह स्मैव पूर्वे वपन्तो यन्ति लुनन्तो ऽपरे मृणन्तः, शश्वद्धैभ्यो ऽकृष्टपच्या एवौषधयः पेचिरे ॥ ३ ॥
सायणः
ते हैतामिति । तेषु ‘याम्’ ऋद्धिं देवाः 1 श्रुत्वा व्यथन्ते, तादृशीम् ‘एधतुम्’ ऋद्धिमसुरेषु प्रवद्धयाञ्चक्रुः ।. तेषु प्रवर्द्धितेषु सत्सु असुराः केचन वपनात्पूर्वभागिनः सन्तः वृष्टिबाहुल्यात् ‘कृषन्तो’ ‘यन्ति’, किल, केचन कृष्टे क्षेत्रे बीजानि ‘वपन्तो’ यन्ति, उप्तबीजाश्च केचन सस्यानि सम्यक् फलितानीति परस्परमुच्चारयन्तः परिणतानि सस्यानि ‘लुनन्तो’ यन्ति, केचन लूनानि व्रीहिफलानि ‘मृणन्तः’ प्रहरन्तः खले बलीवर्दाक्रमणादिना स्तम्बाद्धान्यं पृथक्कुर्वन्तः; तथा असुरदेशे खलु कर्षानपेक्षिता नीवारादयो मुहुर्मुहुः सर्वदा परिपक्वा आसन् ॥ ३ ॥
Eggeling
- Those (Asuras) then throve in such a manner that they (the gods) heard of it; for even while the foremost (of the Asuras) were still ploughing and sowing, those behind them were already engaged in reaping and threshing: indeed even without tilling the plants ripened forthwith for them.
०४
विश्वास-प्रस्तुतिः
तद्वै᳘ देवा᳘नामा᳘ग ऽआस॥
क᳘नीय ऽइन्न्व᳘तो द्विष᳘न्द्विष᳘ते ऽरातीयति कि᳘म्वेतावन्मात्रमु᳘पजानीत य᳘थेद᳘मि᳘तो ऽन्यथा᳘सदि᳘ति॥
मूलम् - श्रीधरादि
तद्वै᳘ देवा᳘नामा᳘ग ऽआस॥
क᳘नीय ऽइन्न्व᳘तो द्विष᳘न्द्विष᳘ते ऽरातीयति कि᳘म्वेतावन्मात्रमु᳘पजानीत य᳘थेद᳘मि᳘तो ऽन्यथा᳘सदि᳘ति॥
मूलम् - Weber
तद्वै᳘ देवा᳘नामा᳘ग आस॥
क᳘नीय इन्न्व᳘तो द्विष᳘न्द्विषॗते ऽरातीयति कि᳘म्वेतावन्मात्रमु᳘पजानीत य᳘थेद᳘मिॗतो ऽन्यथा᳘सदि᳘ति॥
मूलम् - विस्वरम्
तद्वै देवानामाग आस । ‘कनीय इन्न्वतो द्विषन्, द्विषते ऽरातीयतिः किमु एतावन्मात्रमुपजानीत- यथेदमितो ऽन्यथा ऽसदिति’ ॥ ४ ॥
सायणः
तद्वै देवानामिति । एवं वैरिष्वसुरेषु समृद्धेषु सत्सु ‘देवानां’ मनसि ‘आगः’ आसीत् । कथमिति तदुच्यते- ‘अतः’ अस्मात्, इन्नु- इति अतिक्रमाद्धेतोः ‘द्विषन्’ द्वेषकार्येवासुरसंघो ‘द्विषते’ देवसङ्घाय ‘अरातीयति’ शात्रवमाचरितुमिच्छति 2 । एतत् ‘कनीयः इन्नु’ निकृष्टं खलु । ‘अतः’ प्रवृद्वैः सह कलहो न कार्य्यः । किन्तु ‘इदम्’ ऋत्वतिक्रमलक्षणं विच्छिन्नं कार्यम् ‘इतः’ अस्मात् इदानीं प्रवृत्तप्रकारात् ‘अन्यथा’ प्रकारान्तरेण समाहितात्मना ‘असद्’ भवेत् । ‘एतावन्मात्रम्’ अवबुद्ध्यध्वमिति परस्परमब्रुवन् ॥ ४ ॥
Eggeling
- This now caused anxiety to the gods: ‘That owing to that (desertion of the Seasons), enemy
(viz. the Asuras) seeks to injure enemy (viz. us) is of little consequence; but this indeed goes too far: try to find out how henceforth this may be different 3!’
०५
विश्वास-प्रस्तुतिः
ते᳘ होचुः। (र्ऋ) ऋतू᳘नेवा᳘नुमन्त्रयामहा ऽइ᳘ति केने᳘ति प्रथमा᳘ने᳘वैनान्यज्ञे᳘ यजामे᳘ति॥
मूलम् - श्रीधरादि
ते᳘ होचुः। (र्ऋ) ऋतू᳘नेवा᳘नुमन्त्रयामहा ऽइ᳘ति केने᳘ति प्रथमा᳘ने᳘वैनान्यज्ञे᳘ यजामे᳘ति॥
मूलम् - Weber
ते᳘ होचुः ऋतू᳘नेवा᳘नुमन्त्रयामहा इ᳘ति केने᳘ति प्रथमा᳘नेॗवैनान्यज्ञे᳘ यजामे᳘ति॥
मूलम् - विस्वरम्
ते होचुः- ‘ऋतूनेवानुमन्त्रयामहै- इति । केनेति । ‘प्रथमानेवैनान् यज्ञे यजाम’ इति ॥ ५ ॥
सायणः
ते होचुरिति । उक्त्वा च, ‘ऋतूनेव अनुमन्त्रयामहै’- इति निश्चित्य तेषामुक्तो वः ( ? ) ‘केन’ इतरदेवेभ्यः ‘प्रथमानेव’ ‘यज्ञे’ यजनमङ्गीचक्रुः ॥ ५ ॥
Eggeling
- They then said, ‘Let us invite the Seasons!’–‘How? Let us offer prayer to them first of all at the sacrifice!’
०६
विश्वास-प्रस्तुतिः
स᳘ हाग्नि᳘रुवाच॥
(चा) अ᳘थ यन्मां᳘ पुरा᳘ प्रथमं य᳘जथ᳘ क्वाहं᳘ भवानी᳘ति न त्वा᳘माय᳘तनाच्च्यावयाम ऽइ᳘ति ते य᳘दृतू᳘नभिह्व᳘यमाना अ᳘थाग्नि᳘माय᳘त᳘नान्ना᳘च्च्यावयंस्त᳘स्मादग्नि᳘रच्युतो न᳘ ह वा᳘ ऽआय᳘तनाच्च्यवते य᳘स्मिन्नाय᳘तते भ᳘वति य᳘ ऽएव᳘मेत᳘मग्नि᳘मच्युतं व्वे᳘द॥
मूलम् - श्रीधरादि
स᳘ हाग्नि᳘रुवाच॥
(चा) अ᳘थ यन्मां᳘ पुरा᳘ प्रथमं य᳘जथ᳘ क्वाहं᳘ भवानी᳘ति न त्वा᳘माय᳘तनाच्च्यावयाम ऽइ᳘ति ते य᳘दृतू᳘नभिह्व᳘यमाना अ᳘थाग्नि᳘माय᳘त᳘नान्ना᳘च्च्यावयंस्त᳘स्मादग्नि᳘रच्युतो न᳘ ह वा᳘ ऽआय᳘तनाच्च्यवते य᳘स्मिन्नाय᳘तते भ᳘वति य᳘ ऽएव᳘मेत᳘मग्नि᳘मच्युतं व्वे᳘द॥
मूलम् - Weber
स᳘ हाग्नि᳘रुवाच॥
अ᳘थ यन्मा᳘म् पुरा᳘ प्रथमं य᳘जथॗ क्वाह᳘म् भवानी᳘ति न त्वा᳘माय᳘तनाच्च्यावयाम इ᳘ति ते य᳘दृतू᳘नभिह्व᳘यमाना अ᳘थाग्नि᳘माय᳘तनान्ना᳘च्यावयंस्त᳘स्मादग्नि᳘रच्युतो न᳘ ह वा᳘ आय᳘तनाच्च्यवते य᳘स्मिन्नाय᳘तने भ᳘वति य᳘ एव᳘मेत᳘मग्नि᳘मच्युतं वे᳘द॥
मूलम् - विस्वरम्
स हाग्निरुवाच- ‘अथ यन्मां पुरा प्रथमं यजथ. क्वाहं भवानि’ इति । ‘न त्वामायतनात् च्यावयाम’ इति । ते यदृतूनभिह्वयमाना अथाग्निमायतनात्- नाच्यावयन्- तस्मादग्निरच्युतः । न ह वा आयतनाच्च्यवते- यस्मिन्नायतते, भवति- य एवमेतमग्निमच्युतं वेद ॥ ६ ॥
सायणः
अथ प्राथम्ये तेभ्यो ऽवक्लृप्ते सत्याह- स हाग्निरिति । ‘अग्निः’ पूर्वं ‘माम्’ एव ‘प्रथमम्’ इष्टवन्तः इदानीं ते प्रथमं यष्टव्याश्चेत् ‘अहं’ कुत्र स्थाने यज्ञे ‘भवानीति’ अब्रवीत् । अथ तेनोक्तास्ते तमग्निं स्वस्थानात् ‘न च्यावयाम इति’ प्रतिश्रुत्य, ऋत्वाह्वानसमये ‘अग्निं’ स्वस्थानात् प्रच्युतं न चक्रुः । ‘तस्मात्’ ‘अग्निः’ स्वस्थानात् ‘अच्युतः’ अभूत् । ‘एवं’ ‘यः’ को ऽपि अग्नेरच्युतत्वप्रकारं जानाति, सो ऽपि स्वस्थानान्न च्यवत इति उक्तार्थज्ञानफलम् ॥ ६ ॥
Eggeling
- Agni then said, ‘But whereas hitherto you used to offer prayer to me in the first place, what is now to become of me?’ ‘We will not remove you from your place!’ said they. And since, in inviting the Seasons, they did not remove Agni from his place, for that reason Agni is immutable 4; and verily, he who knows that Agni to be immutable, does not move from the place where he bides.
०७
विश्वास-प्रस्तुतिः
ते᳘ देवा᳘ ऽअग्नि᳘मब्रुवन्। (न्प᳘) प᳘रे ह्येनांस्त्व᳘मेवा᳘नुमन्त्रयस्वे᳘ति स हे᳘त्याग्नि᳘रुवाच᳘ ऽर्तवो᳘ ऽविदं वै᳘ वो देवे᳘षु यज्ञे᳘ भागमि᳘ति कथं᳘ नो ऽविद ऽइ᳘ति प्रथमा᳘नेव᳘ वो यज्ञे᳘ यक्ष्यन्ती᳘ति॥
मूलम् - श्रीधरादि
ते᳘ देवा᳘ ऽअग्नि᳘मब्रुवन्। (न्प᳘) प᳘रे ह्येनांस्त्व᳘मेवा᳘नुमन्त्रयस्वे᳘ति स हे᳘त्याग्नि᳘रुवाच᳘ ऽर्तवो᳘ ऽविदं वै᳘ वो देवे᳘षु यज्ञे᳘ भागमि᳘ति कथं᳘ नो ऽविद ऽइ᳘ति प्रथमा᳘नेव᳘ वो यज्ञे᳘ यक्ष्यन्ती᳘ति॥
मूलम् - Weber
ते᳘ देवा᳘ अग्नि᳘मब्रुवन् प᳘रेह्येनांस्त्व᳘मेवा᳘नुमन्त्रयस्वे᳘ति स हे᳘त्याग्नि᳘रुवाच᳘ ऽर्तेवो᳘ ऽविदं वै᳘ वो देवे᳘षु यज्ञे᳘ भागमि᳘ति कथं᳘ नो ऽविद इ᳘ति प्र᳘थमा᳘नेव᳘ वो यज्ञे᳘ यक्ष्यन्ती᳘ति॥
मूलम् - विस्वरम्
ते देवा अग्निमब्रुवन्- ‘परेहि, एनांस्त्वमेवानुमन्त्रयस्व’ इति । स हेत्याग्निरुवाच- ‘ऋतवः ! अविदं वै वो देवेषु यज्ञे भागमिति’ । ‘अथ नो ऽविदः’ इति, ‘प्रथमानेव वो यज्ञे यक्ष्यन्ति’ इति ॥ ७॥
सायणः
ते देवा इति । अथ ‘ते देवा’ अग्नेः स्थानस्य पालनदाक्षिण्यादृत्वनुमन्त्रणे अग्निमेव प्रेरयामासुः । ‘सः’ तथेत्यङ्गीकृत्य ऋतूनागत्य ‘उवाच’ आह । ऋतव इति । ‘व’ युष्माकं ‘यज्ञे’ ‘देवेषु’ मध्ये ‘भागं’ बुद्धवानस्मि ‘इति’ । केन प्रकारेणेति पृष्टः, ‘प्रथमानेव’ सतो युष्मान् ‘यक्ष्यन्ति’- ‘इति’अब्रवीत् ॥ ७ ॥
Eggeling
- The gods said to Agni, ‘Go and invite them hither!’ Agni went to them and said, ‘O Seasons, I have obtained for you a share in the sacrifice among the gods.’ They said, ‘In what form hast thou obtained it for us?’ He replied, ‘They will offer prayer to you first at the sacrifice.’
०८
विश्वास-प्रस्तुतिः
त᳘ ऽऋत᳘वो ऽग्नि᳘मब्रुवन्॥
(न्ना᳘) आ᳘ व्वयन्त्वा᳘मस्मा᳘सु भजामो यो᳘ नो देवे᳘षु यज्ञे᳘ भागम᳘विद ऽइ᳘ति स᳘ ऽए᳘षो ऽग्नि᳘र्ऋतुष्वा᳘भक्तः समि᳘धो ऽअग्ने त᳘नून᳘पादग्न ऽइ᳘डो ऽअग्ने बर्हि᳘रग्ने स्वा᳘हाग्निमित्या᳘भक्तो ह वै त᳘स्यां पुण्यकृत्या᳘यां भवति या᳘मस्य समानो᳘ ब्रुवाणः᳘ करो᳘त्यग्निम᳘ते ह वा᳘ ऽअस्मा ऽअग्निम᳘न्त ऽऋत᳘व ओ᳘षधीः पचन्तीदᳫँ᳭ स᳘र्व्वं य᳘ ऽएव᳘मेत᳘मग्नि᳘मृतुष्वा᳘भक्तं व्वे᳘द॥
मूलम् - श्रीधरादि
त᳘ ऽऋत᳘वो ऽग्नि᳘मब्रुवन्॥
(न्ना᳘) आ᳘ व्वयन्त्वा᳘मस्मा᳘सु भजामो यो᳘ नो देवे᳘षु यज्ञे᳘ भागम᳘विद ऽइ᳘ति स᳘ ऽए᳘षो ऽग्नि᳘र्ऋतुष्वा᳘भक्तः समि᳘धो ऽअग्ने त᳘नून᳘पादग्न ऽइ᳘डो ऽअग्ने बर्हि᳘रग्ने स्वा᳘हाग्निमित्या᳘भक्तो ह वै त᳘स्यां पुण्यकृत्या᳘यां भवति या᳘मस्य समानो᳘ ब्रुवाणः᳘ करो᳘त्यग्निम᳘ते ह वा᳘ ऽअस्मा ऽअग्निम᳘न्त ऽऋत᳘व ओ᳘षधीः पचन्तीदᳫँ᳭ स᳘र्व्वं य᳘ ऽएव᳘मेत᳘मग्नि᳘मृतुष्वा᳘भक्तं व्वे᳘द॥
मूलम् - Weber
त᳘ ऋत᳘वो ऽग्नि᳘मब्रुवन्॥
आ᳘ वयं त्वा᳘मस्मा᳘सु भजामो यो᳘ नो देवे᳘षु यज्ञे᳘ भागम᳘विद इ᳘ति स᳘ एॗषो ऽग्नि᳘रृतुष्वा᳘भक्तः समि᳘धो अग्ने त᳘नून᳘पादग्न इ᳘डो अग्ने बर्हि᳘रग्ने स्वा᳘हाग्निमित्या᳘भक्तो ह वै त᳘स्याम् पुण्यकृत्या᳘यां भवति या᳘मस्य समानो᳘ब्रुवाणः᳘ करो᳘त्यग्निम᳘ते ह वा᳘ अस्मा अग्निम᳘न्त ऋत᳘व ओ᳘षधीः पचन्तीदᳫं स᳘र्वं य᳘ एव᳘मेत᳘मग्नि᳘मृतुष्वा᳘भक्तं वे᳘द॥
मूलम् - विस्वरम्
त ऋतवो ऽग्निमब्रुवन्- ‘आ वयं त्वामस्मासु भजामो यो नो देवेषु यज्ञे भागमविद’ इति । स एषो ऽग्निर्ऋतुष्वाभक्तः- ** “समिधो ऽअग्ने” - ** “तनूनपादग्ने"- “इडो ऽअग्ने” “बर्हिरग्ने” । **“स्वाहाग्निम्” ** (तै. ब्रा. ३. ५. ५) इति । आभक्तो ह वै तस्यां पुण्यकृत्यायां भवति, यामस्य समानो ब्रुवाणः करोति, अग्निमते ह वा अस्मा अग्निमन्त ऋतव ओषधीः पचन्तीदं सर्वम्, य एवमेतमग्निमृतृष्वाभक्तं वेद ॥ ८ ॥
सायणः
त ऋतव इति । अथ सन्तुष्टाः ‘ऋतवः’ हे अग्ने ! त्वं ‘यज्ञे’ अस्माकं प्रथमम् ‘अविदः;’ अतः ‘त्वाम्’ ‘अस्मासु’ मध्ये ‘आभजामः’- इति ‘अब्रुवन्’ । यत एवमतः ‘अग्निः’ ‘ऋतुषु’ भागं लब्धवान् । ‘समिधो अग्ने’- ‘तनूनपादग्ने’- ‘इडः’ इत्याद्याभजनप्रकारप्रदर्शनम् 5 । उक्तार्थज्ञानं प्रशंसति- आभक्तो ह वा इति । ‘अस्य’ ज्ञातुरहं ‘समानः’ इति स्वात्मानं ‘ब्रुवाणः’ कश्चित्पुरुषो ‘यां पुण्यकृत्यां’ यत्पुण्यं कर्म दर्शपूर्णमासादिकं ‘करोति’ तत्रासावपि भागवान् भवति; तथा ‘एवम्’ उक्तप्रकारेण ‘अग्निमृतुष्वाभक्तं’ ‘यो वेद’ ‘अस्मै’ अग्निमते उक्तार्थज्ञानसामर्थ्येन यागस्यावश्यं लाभादग्निमान् भवत्येव । अतो ऽस्मै खलूक्तप्रकारेणाग्निना सहिता ‘ऋतवः’ ‘ओषधीः’ व्रीहियवादिकाः स्व-कालोचिताः पाकं कुर्वन्ति । कथं पक्तव्या ओषधयः ? कियन्तः १ इति, तत्राह- इदं सर्वमिति । यद्यल्लोके परिदृश्यमानं तदिदं सर्वमोषधिजातमित्यर्थः ॥ ८ ॥
Eggeling
- The Seasons said to Agni, ‘We will let thee share along with us in the sacrifice who hast obtained for us a share in the sacrifice among the gods!’ And because Agni has been allowed a share along with the Seasons (the offering-prayers are): ‘The Samidhs, O Agni, (may accept the butter) 6 . . . !’
‘Tanūnapāt, O Agni . . .!’ ‘The Iḍs, O Agni . . .!’ ‘The Barhis, O Agni. . .!’ ‘Svāhā Agni!’ And verily, whosoever knows that Agni is thus allowed to share (in the sacrifice) along with the Seasons, he is allowed to participate in whatever auspicious rite is performed by one who professes to be equal (in that knowledge) to him;–for him, being possessed of Agni, the Seasons, themselves possessed of Agni, ripen the plants and everything here.
०९
विश्वास-प्रस्तुतिः
त᳘दाहुः॥
(र्य᳘) य᳘दुत्तमा᳘न्प्रयाजा᳘नावाह᳘यन्त्य᳘थ क᳘स्मादेनान्प्रथमा᳘न्यजन्ती᳘त्युत्त᳘मा᳘न्ह्येनान्य᳘ज्ञे ऽवा᳘कल्पयन्प्रथमा᳘न्वो यजामेत्य᳘ब्रुवंस्त᳘स्मादुत्तमा᳘नावाह᳘यन्ति प्रथमा᳘न्यजन्ति॥
मूलम् - श्रीधरादि
त᳘दाहुः॥
(र्य᳘) य᳘दुत्तमा᳘न्प्रयाजा᳘नावाह᳘यन्त्य᳘थ क᳘स्मादेनान्प्रथमा᳘न्यजन्ती᳘त्युत्त᳘मा᳘न्ह्येनान्य᳘ज्ञे ऽवा᳘कल्पयन्प्रथमा᳘न्वो यजामेत्य᳘ब्रुवंस्त᳘स्मादुत्तमा᳘नावाह᳘यन्ति प्रथमा᳘न्यजन्ति॥
मूलम् - Weber
त᳘दाहुः॥
य᳘दुत्तमा᳘न्प्रयाजा᳘नावाह᳘यन्त्य᳘थ क᳘स्मादेनान्प्रथमा᳘न्यजन्ती᳘त्युत्तमाॗन्ह्येनान्यॗज्ञे ऽवा᳘कल्पयन्प्रथमा᳘न्वो यजामेत्य᳘ब्रुवंस्त᳘स्मादुत्तमा᳘नावाह᳘यन्ति प्रथमा᳘न्यजन्ति॥
मूलम् - विस्वरम्
तदाहुः- ‘यद् उत्तमान् प्रयाजानावाहयन्ति- अथ कस्मादेनान् प्रथमान् यजन्ति’ इति । उत्तमान् ह्येनान् यज्ञे ऽवाकल्पयन्- प्रथमान् वो यजाम’- इत्यब्रुवन्- तस्मादुत्तमानावाहयन्ति, प्रथमान् यजन्ति ॥ ९ ॥
सायणः
प्रयाजदेवतानां प्राथम्यं ब्रह्मवादिनां चोद्यमुखेन प्रशंसति- तदाहुरिति । आवाहनक्रमेणैव सर्वत्र यागो दृष्टः; अत्र कथं वैलक्षण्यमिति तेषामाशयः । तैर्दृष्टं तत्कारणं दर्शयति- उत्तमान् हीति । ‘हि’ यस्मात् प्रथमभागकल्पनासमये ‘एनान्’ ‘उत्तमान्’ चरमभाविन एव देवताः कल्पितवन्तः, पश्चादपगतानां तेषां पुनरागमनाय यतो ‘वः’ युष्मान् ‘प्रथमान्’ यजाम ‘इत्यब्रुवन्’ ‘तस्मात्’ उक्तविधं वैलक्षण्यं सञ्जातमिति । अत्रैषामावाहनान्तिमत्वं “देवा ँ आज्यपाँआ वह” इत्यभिधानाद् द्रष्टव्यम् । आज्यपाः खलु प्रयाजानुयाजदेवाः ॥ ९ ॥
Eggeling
- Now, as to this point, some raise the objection, ‘But since they invite the fore-offerings last of all (at the two libations of butter) 7, why do they offer prayer to them first of all?’–Because they established them last of all in the sacrifice 8; and because they said, ‘we will offer prayer to you first:’ for that reason they invite them last, and offer prayer to them first.
१०
विश्वास-प्रस्तुतिः
चतुर्थे᳘न वै᳘ प्रयाजे᳘न देवाः᳘॥
(०) यज्ञ᳘माप्नुवंस्तं᳘ पञ्च᳘मेन स᳘मस्थापयन्न᳘थ यद᳘त ऊर्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य स्वर्ग᳘मेव ते᳘न लोकᳫँ᳭स᳘माश्नुवत॥
मूलम् - श्रीधरादि
चतुर्थे᳘न वै᳘ प्रयाजे᳘न देवाः᳘॥
(०) यज्ञ᳘माप्नुवंस्तं᳘ पञ्च᳘मेन स᳘मस्थापयन्न᳘थ यद᳘त ऊर्ध्वम᳘सᳫंस्थितं यज्ञ᳘स्य स्वर्ग᳘मेव ते᳘न लोकᳫँ᳭स᳘माश्नुवत॥
मूलम् - Weber
चतुर्थे᳘न वै᳘ प्रयाजे᳘न देवाः᳟॥
यज्ञ᳘माप्नुवंस्त᳘म् पञ्च᳘मेन स᳘मस्थापयन्न᳘थ यद᳘त ऊर्ध्वम᳘संस्थितं यज्ञ᳘स्य स्वर्ग᳘मेव ते᳘न लोकᳫं स᳘माश्नुवत॥
मूलम् - विस्वरम्
चतुर्थेन वै प्रयाजेन देवा यज्ञमाप्नुवन्, तं पञ्चमेन समस्थापयन्, अथ यदत ऊर्द्ध्वमसंस्थितं यज्ञस्य स्वर्गमेव तेन लोकं समाश्नुवत ॥ १० ॥
सायणः
आदिमध्यावसानेष्वनुष्ठेयानामाज्यभागप्रधानस्विष्टकृद्यागानामग्निदेवताकत्वमभिधातुमाह-चतुर्थेनेति । चतुर्थप्रयाजेनैव पुरा ‘देवाः’ दर्शपूर्णमासाख्यं ‘यज्ञम्’ आप्त्वा ‘तं पञ्चमेन समस्थापयन्’ तत्र यष्टव्यान् देवान् क्रमेणोद्दिश्य स्वाहाकृतत्वात् । ‘यदत ऊर्ध्वं’ ‘यज्ञस्य’ अवशिष्टमाज्यभागाद्यस्ति, तेन स्वर्गं लोकं ‘समाश्नुवत’ ॥ १० ॥
Eggeling
- By the fourth fore-offering the gods, assuredly, obtained the sacrifice, and by the fifth they firmly established it; and by what part of the sacrifice after that remained unaccomplished they gained the world of heaven.
११
विश्वास-प्रस्तुतिः
ते᳘ स्वर्गं᳘ लोकं य᳘न्तः॥
(न्तोऽ) असुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभया᳘ञ्चक्रु᳘स्ते ऽग्निं᳘पुर᳘स्तादकुर्व्वत रक्षोह᳘णᳫँ᳭र᳘क्षसामपहन्ता᳘रमग्निं᳘ मध्य᳘तो ऽकुर्व्वत रक्षोह᳘णᳫँ᳭र᳘क्षसामपहन्ता᳘रमग्निं᳘ पश्चा᳘दकुर्व्वत रक्षोह᳘णᳫँ᳭र᳘क्षसामपहन्ता᳘रम्॥
मूलम् - श्रीधरादि
ते᳘ स्वर्गं᳘ लोकं य᳘न्तः॥
(न्तोऽ) असुररक्षसे᳘भ्य ऽआसङ्गा᳘द्बिभया᳘ञ्चक्रु᳘स्ते ऽग्निं᳘पुर᳘स्तादकुर्व्वत रक्षोह᳘णᳫँ᳭र᳘क्षसामपहन्ता᳘रमग्निं᳘ मध्य᳘तो ऽकुर्व्वत रक्षोह᳘णᳫँ᳭र᳘क्षसामपहन्ता᳘रमग्निं᳘ पश्चा᳘दकुर्व्वत रक्षोह᳘णᳫँ᳭र᳘क्षसामपहन्ता᳘रम्॥
मूलम् - Weber
ते᳘ स्वर्गं᳘ लोकं य᳘न्तः॥
असुररक्षसे᳘भ्य आसङ्गा᳘द्बिभयां᳘ चक्रु᳘स्ते ऽग्नि᳘म् पुर᳘स्तादकुर्वत रक्षोह᳘णं र᳘क्षसामपहन्ता᳘रमग्निं᳘ मध्यॗतो ऽकुर्वत रक्षोह᳘णं र᳘क्षसामपहन्ता᳘रमग्नि᳘म् पश्चा᳘दकुर्वत रक्षोह᳘णं र᳘क्षसामपहन्ता᳘रं॥
मूलम् - विस्वरम्
ते स्वर्गं लोकं यन्तो ऽसुररक्षसेभ्य आसङ्गात् विभयाञ्चक्रुः । ते ऽग्निं पुरस्तादकुर्वत- रक्षोहणं रक्षसामपहन्तारम्, अग्निं मध्यतो ऽकुर्वत- रक्षोहणं रक्षसामपहन्तारम्, अग्निं पश्चादकुर्वत रक्षोहणं रक्षसामपहन्तारम् ॥ ११ ॥
सायणः
ते स्वर्गमिति । असुरेभ्यो राक्षसेभ्यश्च तेषाम् ‘आसङ्गाद्’ निरोधाद्भीता आसन्; तत्परिहाराय ‘रक्षोहन्तारम्’ ‘अग्निं’ ‘पुरस्तात्’ पूर्वभागे रक्षसां वधाय स्थापितवन्तः । तथा मध्ये पश्चाच्च- अग्निमेव रक्षोहन्तारं चक्रुः ॥ ११ ॥
Eggeling
- In going to heaven they were afraid of an attack from the Asuras and Rakshas. They placed Agni at their head, as the Rakshas-killer, the repeller of the Rakshas; they placed Agni in their midst, as the Rakshas-killer, the repeller of the Rakshas; they placed Agni in their rear, as the Rakshas-killer, the repeller of the Rakshas.
१२
विश्वास-प्रस्तुतिः
(ᳫं᳭) स य᳘द्येनान्पुर᳘स्तात्॥
(द) असुररक्षसान्या᳘सिसङ्क्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्ता य᳘दि मध्यत ऽआ᳘सिसङ्क्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्ता य᳘दि पश्चादा᳘सिसङ्क्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्तात᳘ ऽएव᳘ᳫं᳘सर्व्व᳘तो ऽग्नि᳘भिर्गुप्य᳘मानाः स्वर्गं᳘ लोकᳫं᳭स᳘माश्नुवत॥
मूलम् - श्रीधरादि
(ᳫं᳭) स य᳘द्येनान्पुर᳘स्तात्॥
(द) असुररक्षसान्या᳘सिसङ्क्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्ता य᳘दि मध्यत ऽआ᳘सिसङ्क्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्ता य᳘दि पश्चादा᳘सिसङ्क्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्तात᳘ ऽएव᳘ᳫं᳘सर्व्व᳘तो ऽग्नि᳘भिर्गुप्य᳘मानाः स्वर्गं᳘ लोकᳫं᳭स᳘माश्नुवत॥
मूलम् - Weber
स य᳘द्येनान्पुर᳘स्तात्॥
असुररक्षसान्या᳘सिसंक्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्ता य᳘दि मध्यत आ᳘सिसंक्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्ता य᳘दि पश्चादा᳘सिसंक्षन्नग्नि᳘रेव तान्य᳘पाहन्रक्षोहा र᳘क्षसामपहन्ता᳘त एव᳘ᳫं᳘ सर्वॗतो ऽग्नि᳘भिर्गुप्य᳘मानाः स्वर्गं᳘ लोकᳫं स᳘माश्नुवत॥
मूलम् - विस्वरम्
स यद्येनान् पुरस्तादसुररक्षसान्यासिसङ्क्षन्- अग्निरेव तान्यपाहन्- रक्षोहा रक्षसामपहन्ता । यदि मध्यत आसिसङ्क्षन्- अग्निरेव तान्यपाहन्- रक्षोहा रक्षसामपहन्ता । यदि पश्चादासिसङ्क्षन्- अग्निरेव तान्यपाहन्- रक्षोहा रक्षसामपहन्ता । त एवं सर्वतो ऽग्निभिर्गुप्यमानाः स्वर्गं लोकं समाश्नुवत ॥ १२ ॥
सायणः
स यद्येनानिति । अतः कारणात् ‘सः’ रक्षोहा ‘अग्निः’, स्वर्गं प्रति गच्छतः ‘एनान्’ देवान् असुरराक्षसाश्च ‘पुरस्तात्’ पूर्वदेशे ‘आसिसङ्क्षन्’ आसङ्गं प्रतिबन्धमैच्छन्, ‘तानि’ असुररक्षांसि चापहतवान् एवं मध्ये, पश्चाद्देशे च ॥ १२ ॥
Eggeling
- And if the Asuras and Rakshas wished to attack them in front, Agni repelled them, as the Rakshas-killer, the repeller of the Rakshas; if they wished to attack in the centre, Agni repelled them, as the Rakshas-killer, the repeller of the Rakshas; and if they wished to attack in the rear, Agni repelled them, as the Rakshas-killer, the repeller of the Rakshas: being thus guarded on all sides by Agnis, they reached the world of heaven.
१३
विश्वास-प्रस्तुतिः
त᳘थो ऽए᳘वैष᳘ ऽएत᳘त्॥
(च्च) चतुर्थे᳘नैव᳘ प्रयाजे᳘न यज्ञ᳘माप्नोति तं᳘ पञ्चमे᳘न स᳘ᳫं᳘स्थापयत्य᳘थ यद᳘त ऽऊर्द्धम᳘सᳫंस्थितं यज्ञ᳘स्य स्वर्ग᳘मेव ते᳘न लोकᳫँ᳭ स᳘मश्नुते॥
मूलम् - श्रीधरादि
त᳘थो ऽए᳘वैष᳘ ऽएत᳘त्॥
(च्च) चतुर्थे᳘नैव᳘ प्रयाजे᳘न यज्ञ᳘माप्नोति तं᳘ पञ्चमे᳘न स᳘ᳫं᳘स्थापयत्य᳘थ यद᳘त ऽऊर्द्धम᳘सᳫंस्थितं यज्ञ᳘स्य स्वर्ग᳘मेव ते᳘न लोकᳫँ᳭ स᳘मश्नुते॥
मूलम् - Weber
त᳘थो एॗवैष᳘ एत᳘त्॥
चतुर्थे᳘नैव᳘ प्रयाजे᳘न यज्ञ᳘माप्नोति त᳘म् पञ्चमे᳘न स᳘ᳫं᳘स्थापयत्य᳘थ यद᳘त ऊर्ध्वम᳘संस्थितं यज्ञ᳘स्य स्वर्ग᳘मेव ते᳘न लोकᳫं स᳘मश्नुते॥
मूलम् - विस्वरम्
तथो एवैष एतच्चतुर्थेनैव प्रयाजेन यज्ञमाप्नोति तं पञ्चमेन संस्थापयति, अथ यदत ऊर्ध्वमसंस्थितं यज्ञस्य- स्वर्गमेव तेन लोकं समश्नुते ॥ १३ ॥
सायणः
तथो एवैष इति । अत्र सर्वत्राग्निभिरादिमध्यान्तस्थितै रक्षिताः स्वर्गलोकं प्राप्ता यथा देवास्तथैवेदानीन्तनो ऽपि यजमानः, चतुर्थेन प्रयाजेन यज्ञं स्वाधीनं कृत्वा पञ्चमेन समाप्य तदूर्ध्वभाविना असंस्थितेनावशिष्टेन यज्ञेन पुरस्तान्मध्ये पश्चाच्चाग्निनैव यज्ञविघातकान् घातयित्वा निर्बाधं स्वर्गमश्नुते ॥ १३ ॥
Eggeling
- And in the same way this one now obtains the sacrifice by means of the fourth fore-offering, and by means of the fifth he establishes it; and by what part of the sacrifice after that remains un-accomplished, he gains the world of heaven.
१४
विश्वास-प्रस्तुतिः
स य᳘दाग्नेयमा᳘ज्यभागं य᳘जति॥
(त्य) अग्नि᳘मे᳘वैत᳘त्पुर᳘स्तात्कुरुते रक्षोह᳘णᳫं᳭ र᳘क्षसामपहन्ता᳘रम᳘थ य᳘दाग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यग्नि᳘मे᳘वैत᳘न्मध्यतः᳘ कुरुते रक्षोह᳘णᳫं᳭ र᳘क्षसामपहन्ता᳘रम᳘थ य᳘दग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं य᳘जत्यग्नि᳘मे᳘वैत᳘त्पश्चा᳘त्कुरुते रक्षोह᳘णᳫँ᳭ र᳘क्षसामपहन्ता᳘रम्॥
मूलम् - श्रीधरादि
स य᳘दाग्नेयमा᳘ज्यभागं य᳘जति॥
(त्य) अग्नि᳘मे᳘वैत᳘त्पुर᳘स्तात्कुरुते रक्षोह᳘णᳫं᳭ र᳘क्षसामपहन्ता᳘रम᳘थ य᳘दाग्नेयः᳘ पुरोडा᳘शो भ᳘वत्यग्नि᳘मे᳘वैत᳘न्मध्यतः᳘ कुरुते रक्षोह᳘णᳫं᳭ र᳘क्षसामपहन्ता᳘रम᳘थ य᳘दग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं य᳘जत्यग्नि᳘मे᳘वैत᳘त्पश्चा᳘त्कुरुते रक्षोह᳘णᳫँ᳭ र᳘क्षसामपहन्ता᳘रम्॥
मूलम् - Weber
स य᳘दाग्नेयमा᳘ज्यभागं य᳘जति॥
अग्नि᳘मेॗवैत᳘त्पुर᳘स्तात्कुरुते रक्षोह᳘णं रक्षसामपहन्ता᳘रम᳘थ य᳘दाग्नेयः᳘ पुरोडा᳘षो भ᳘वत्यग्नि᳘मेॗवैत᳘न्मध्यतः᳘ कुरुते रक्षोह᳘णं र᳘क्षसामपहन्ता᳘रम᳘थ य᳘दग्नि᳘ᳫं᳘ स्विष्टकृ᳘तं य᳘जत्यग्नि᳘मेॗवैत᳘त्पश्चा᳘त्कुरुते रक्षोह᳘णं र᳘क्षसामपहन्ता᳘रं॥
मूलम् - विस्वरम्
स यदाग्नेयमाज्यभागं यजति- अग्निमेवैतत् पुरस्तात्कुरुते- रक्षोहणं रक्षसामपहन्तारम् । अथ यदाग्नेयः पुरोडाशो भवति- अग्निमेवैतन्मध्यतः कुरुते- रक्षोहणं रक्षसामपहन्तारम् । अथ यदग्निं स्विष्टकृतं यजति- अग्निमेवैतत् पश्चात्कुरुते- रक्षोहणं रक्षसामपहन्तारम् ॥ १४ ॥
सायणः
अग्नेः पुरस्तान्मध्ये पश्चाच्च स्थापनप्रकारं दर्शयति- स यदाग्नेयमित्यादिना । सौम्यस्याप्याज्यभागस्य संभवाद् ‘आग्नेयम्’- इति विशेषितम् । प्रथममाज्यभागमाग्नेयं कृतवान् यजमानः स्वर्गप्राप्तिसमये ‘अग्निमेव’ रक्षोहननाय ‘पुरस्तात्’ कृतवान् भवति । अनेन प्रथममाग्नेयाज्यभागं कुर्य्यादिति ह लभ्यते । एवमाग्नेयेनाष्टाकपालयागेनाग्निं मध्यतः कुरुते आग्नेयेन स्विष्टकृता च पश्चात् ॥ १४ ॥
Eggeling
- Now when he pronounces the offering-prayer over Agni’s butter-portion, he thereby places Agni in front, as the Rakshas-killer, the repeller of the Rakshas; and when Agni’s sacrificial cake is (offered), he thereby places Agni in the midst, as the Rakshas-killer, the repeller of the Rakshas; and when he pronounces the offering-prayer to Agni Svishṭakr̥t (the maker of good offering), he thereby places Agni in the rear, as the Rakshas-killer, the repeller of the Rakshas.
१५
विश्वास-प्रस्तुतिः
(ᳫँ᳭) स य᳘द्येनं पुर᳘स्तात्॥
(द) असुररक्षसा᳘न्यासि᳘सङ्क्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता य᳘दि मध्यत᳘ ऽआसि᳘सङ्क्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता य᳘दि पश्चा᳘दासि᳘सङ्क्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता स᳘ ऽएव᳘ᳫँ᳭ सर्व्व᳘तो ऽग्नि᳘भिर्गुप्य᳘मानः स्वर्गं᳘ लोकᳫँ᳭ स᳘मश्नुते॥
मूलम् - श्रीधरादि
(ᳫँ᳭) स य᳘द्येनं पुर᳘स्तात्॥
(द) असुररक्षसा᳘न्यासि᳘सङ्क्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता य᳘दि मध्यत᳘ ऽआसि᳘सङ्क्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता य᳘दि पश्चा᳘दासि᳘सङ्क्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता स᳘ ऽएव᳘ᳫँ᳭ सर्व्व᳘तो ऽग्नि᳘भिर्गुप्य᳘मानः स्वर्गं᳘ लोकᳫँ᳭ स᳘मश्नुते॥
मूलम् - Weber
स य᳘द्येनम् पुर᳘स्तात्॥
असुररक्षसा᳘न्यासि᳘संक्षन्त्याग्ने᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता य᳘दि मध्यत᳘ असुररक्षसा᳘न्यासि᳘संक्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता य᳘दि पश्चा᳘दसुररक्षसा᳘न्यासि᳘संक्षन्त्यग्नि᳘रेव तान्य᳘पहन्ति रक्षोहा र᳘क्षसामपहन्ता स᳘ एव᳘ᳫं᳘ सर्वॗतो ऽग्नि᳘भिर्गुप्य᳘मानः स्वर्गं᳘ लोकᳫं स᳘मश्नुते॥
मूलम् - विस्वरम्
स यद्येनं पुरस्तादसुररक्षसान्यासिसङ्क्षन्ति- अग्निरेव तान्यपहन्ति- रक्षोहा रक्षसामपहन्ता । यदि मध्यत आसिसङ्क्षन्ति- अग्निरेव तान्यपहन्ति- रक्षोहा रक्षसामपहन्ता । यदि पश्चादासिसङ्क्षन्ति- अग्निरेव तान्यपहन्ति- रक्षोहा रक्षसामपहन्ता । स एवं सर्वतो ऽग्निभिर्गुप्यमानः स्वर्गं लोकं समश्नुते ॥ १५ ॥
सायणः
त्रिष्वपि यागेष्वाग्नेयत्वकरणस्य प्रयोजनमाह- स यद्येनं पुरस्तादित्यादिना । एतत्पूर्ववाक्यवद् 9 व्याख्येयम् ॥ १५ ॥
Eggeling
- And if the Asuras and Rakshas try to attack him (the sacrificer) in front, Agni repels them, as the Rakshas-killer, the Repeller of the Rakshas: if they try to attack him in the centre, Agni repels them, as the Rakshas-killer, the repeller of the Rakshas; and if they try to attack him from behind, Agni repels them, as the Rakshas-killer, the repeller of the Rakshas: being thus guarded on every side by Agnis, he gains the world of heaven.
१६
विश्वास-प्रस्तुतिः
स य᳘द्येनं पुर᳘स्ताद्॥
(द्य) यज्ञ᳘स्यानुव्याह᳘रेत्तं प्र᳘ति ब्रूयान्मु᳘ख्यामा᳘र्त्तिमा᳘रिष्यस्यन्धो᳘ वा बधिरो᳘ वा भविष्यसी᳘त्येता वै मु᳘ख्या ऽआ᳘र्त्तयस्त᳘था हैव᳘ स्यात्॥
मूलम् - श्रीधरादि
स य᳘द्येनं पुर᳘स्ताद्॥
(द्य) यज्ञ᳘स्यानुव्याह᳘रेत्तं प्र᳘ति ब्रूयान्मु᳘ख्यामा᳘र्त्तिमा᳘रिष्यस्यन्धो᳘ वा बधिरो᳘ वा भविष्यसी᳘त्येता वै मु᳘ख्या ऽआ᳘र्त्तयस्त᳘था हैव᳘ स्यात्॥
मूलम् - Weber
स य᳘द्येनम् पुर᳘स्तात्॥
यज्ञ᳘स्यानुव्याह᳘रेत्तम् प्र᳘ति ब्रूयान्मु᳘ख्यामा᳘र्त्तिमा᳘रिष्यस्यन्धो᳘ वा बधिरो᳘ वा भविष्यसी᳘त्येता वै मु᳘ख्या आ᳘र्त्तयस्त᳘था हैव᳘ स्यात्॥
मूलम् - विस्वरम्
स यद्येनं पुरस्ताद् यज्ञस्यानुव्याहरेत्– तं प्रति ब्रूयाद्- ‘मुख्यामार्तिमारिष्यसि- अन्धो वा बधिरो वा भविष्यसि’ इति । एता वै मुख्या आर्तयः । तथा हैव स्यात् ॥ १६ ॥
सायणः
“स एवं सर्वतो ऽग्निभिर्गुप्यमानः” -इति यदग्निरक्षणमुक्तम्, तत्प्रशंसनाय कञ्चिद् दृष्टं प्रयोजनमाह- स यद्येनमिति । ‘सः’ अनुव्याहारी निन्दकः ‘एनम्’ अग्निना रक्षितं यजमानं ‘यज्ञस्य’ ‘पुरस्तात्’ पूर्वभागे ‘अनुव्याहरेत्’ वैकल्यविषयं वाक्यं ब्रूयात्, ‘तं’ निन्दकं ‘प्रति’ स यजमानो ऽपि ‘ब्रूयात्’- ‘मुख्यामार्त्तिमारिष्यसि, -अन्धो वा बधिरो वा भविष्यसीति’ । एषैव मुख्या ऽऽर्त्तिरित्याह- ‘एताः’ अन्धबधिरादयः, ज्वरशिरोव्यथादितात्कालिकीमार्त्तिमपेक्ष्यैतासां मुख्यत्वम् 10 ॥ १६ ॥
Eggeling
- And if any one were to imprecate evil on him
previously to (or, in the fore-part of) the (chief) sacrifice, let him be thus spoken to, ‘Thou shalt suffer some disease of the face! thou shalt become either blind or deaf!’ for these, in truth, are diseases of the face: and thus it would indeed fare with him.
१७
विश्वास-प्रस्तुतिः
य᳘दि मध्यतो᳘ यज्ञ᳘स्यानुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयादप्रजा᳘ ऽअपशु᳘र्भविष्यसी᳘ति प्रजा वै᳘ पश᳘वो म᳘ध्यं त᳘था हैव᳘ स्यात्॥
मूलम् - श्रीधरादि
य᳘दि मध्यतो᳘ यज्ञ᳘स्यानुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयादप्रजा᳘ ऽअपशु᳘र्भविष्यसी᳘ति प्रजा वै᳘ पश᳘वो म᳘ध्यं त᳘था हैव᳘ स्यात्॥
मूलम् - Weber
य᳘दि मध्यतो᳘ यज्ञ᳘स्यानुव्याह᳘रेत्॥
तम् प्र᳘ति ब्रूयादप्रजा᳘ अपशु᳘र्भविष्यसी᳘ति प्रजा वै᳘ पश᳘वो म᳘ध्यं त᳘था हैव᳘ स्यात्॥
मूलम् - विस्वरम्
यदि मध्यतो यज्ञस्यानुव्याहरेत्- तं प्रति ब्रूयाद्- ‘अप्रजा अपशुर्भविष्यसि’ इति । प्रजा वै पशवो मध्यम्, तथा हैव स्यात् ॥ १७ ॥
सायणः
यदि मध्यत इत्यादि । स्पष्टम् ॥ १७ ॥
Eggeling
- If any one were to imprecate evil on him in the middle of the sacrifice, let him be thus spoken to, ‘Thou shalt be without offspring, without cattle!’ for offspring and cattle, indeed, constitute the centre (i.e. the substantial possession of man): and thus it would indeed fare with him.
१८
विश्वास-प्रस्तुतिः
य᳘द्यन्ततो᳘ यज्ञ᳘स्यानुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाद᳘प्रतिष्ठितो द᳘रिद्रः क्षि᳘प्रे ऽमुं᳘ लोक᳘मेष्यसी᳘ति त᳘था हैव᳘ स्यात्त᳘स्मादु ह᳘ नानुव्याहा᳘रीव स्यादुत᳘ ह्येवंव्वित्प᳘रो भ᳘वति॥
मूलम् - श्रीधरादि
य᳘द्यन्ततो᳘ यज्ञ᳘स्यानुव्याह᳘रेत्॥
(त्तं) तं प्र᳘ति ब्रूयाद᳘प्रतिष्ठितो द᳘रिद्रः क्षि᳘प्रे ऽमुं᳘ लोक᳘मेष्यसी᳘ति त᳘था हैव᳘ स्यात्त᳘स्मादु ह᳘ नानुव्याहा᳘रीव स्यादुत᳘ ह्येवंव्वित्प᳘रो भ᳘वति॥
मूलम् - Weber
य᳘द्यन्ततो᳘ यज्ञ᳘स्यानुव्याह᳘रेत्॥
तम् प्र᳘ति ब्रूयाद᳘प्रतिष्ठितो द᳘रिद्रः क्षिॗप्रे ऽमुं᳘ लोक᳘मेष्यसी᳘ति त᳘था हैव᳘ स्यात्त᳘स्मादुहॗ नानुव्याहाॗरीव स्यादुतॗ ह्येवंवित्प᳘रो भ᳘वति॥
मूलम् - विस्वरम्
यद्यन्ततो यज्ञस्यानुव्याहरेत्- तं प्रति ब्रूयाद्- ‘अप्रतिष्ठितो दरिद्रः क्षिप्रे ऽमुं लोकमेष्यसि’ इति । तथा हैव स्यात् । तस्मादु ह नानुव्याहारीव स्यात् । उत ह्येवंवित्परो भवति ॥ १८ ॥
सायणः
यद्यन्तत इति ‘क्षिप्रे’ अविलम्बितस्वकाले भूमौ प्रतिष्टारहितो ‘दरिद्रः’ सन् ‘अमुं लोकम्’ स्वर्गम् ‘एष्यसि’ ‘इति’ । अत्र स्वर्गस्य नाशात्मकत्वात् ‘अमुं लोकम्’ इत्येतदस्माल्लोकात्प्रच्युतिमात्रे पर्यवस्यति । किमेवमभिधानमात्रेण तथाविधा ऽसुखप्राप्तिः सिद्धा स्यादित्याशङ्क्योक्तम्- तथा हैव स्यादिति । उक्तप्रकारः स्यादेवेत्यर्थः । यस्मादेवमवश्यं फलम् ‘तस्मात्’ ‘अनुव्याहारीव न स्यात्’ यज्ञस्य निन्दको न भवेदिति विधिः । उक्तार्थज्ञं प्रशंसति- न केवलं यष्टैव; अपि तु ‘एवंविद्’ अपि स्वदूषकात् स्वयं ‘परः’ उत्कृष्टो ‘भवति’ । अथवा- एवं वेदनायां तात्पर्य्यवान् भवेदिति व्याख्येयम् । तस्मादाज्यभागादीनामाग्नेयत्वकरणं प्रशस्तमिति तात्पर्यार्थः ॥ १८ ॥
Eggeling
- If any one were to imprecate evil on him after the completion of the (chief) sacrifice, let him be thus spoken to, ‘Unstable and poor, thou shalt swiftly go to yonder world!’ for thus it would indeed fare with him. One should not therefore utter imprecations: for whosoever thus understands this has the advantage.
१९
विश्वास-प्रस्तुतिः
संव्वत्सर᳘ᳫँ᳭ ह वै᳘ प्रयाजैर्ज᳘यञ्जयति॥
स᳘ ह᳘ न्वे᳘वैनं जयति᳘ यो ऽस्य द्वा᳘राणि व्वे᳘द किᳫँ᳘हि᳘ स तै᳘र्गृहैः᳘ कुर्याद्या᳘नन्तरतो न᳘ व्यवव्विद्याद्य᳘थायथास्य ते भ᳘वन्ति त᳘स्य व्वसन्त᳘ एव द्वा᳘रᳫँ᳭ हेमन्तो द्वा᳘रं तं वा᳘ एत᳘ᳫँ᳭ संव्वत्सर᳘ᳫं᳘ स्वर्गं᳘ लोकं प्र᳘पद्यते स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वं वा᳘ ऽअक्षय्य᳘मेते᳘नो हास्याक्षय्य᳘ᳫँ᳘सुकृतं᳘ भवत्यक्षय्यो᳘ लोकः॥
मूलम् - श्रीधरादि
संव्वत्सर᳘ᳫँ᳭ ह वै᳘ प्रयाजैर्ज᳘यञ्जयति॥
स᳘ ह᳘ न्वे᳘वैनं जयति᳘ यो ऽस्य द्वा᳘राणि व्वे᳘द किᳫँ᳘हि᳘ स तै᳘र्गृहैः᳘ कुर्याद्या᳘नन्तरतो न᳘ व्यवव्विद्याद्य᳘थायथास्य ते भ᳘वन्ति त᳘स्य व्वसन्त᳘ एव द्वा᳘रᳫँ᳭ हेमन्तो द्वा᳘रं तं वा᳘ एत᳘ᳫँ᳭ संव्वत्सर᳘ᳫं᳘ स्वर्गं᳘ लोकं प्र᳘पद्यते स᳘र्व्वं वै᳘ संव्वत्सरः स᳘र्व्वं वा᳘ ऽअक्षय्य᳘मेते᳘नो हास्याक्षय्य᳘ᳫँ᳘सुकृतं᳘ भवत्यक्षय्यो᳘ लोकः॥
मूलम् - Weber
संवत्सर᳘ᳫं᳘ ह वै प्रयाजैर्ज᳘यञ्जयति॥
स᳘ हॗ न्वेॗवैनं जयतिॗ यो ऽस्य द्वा᳘राणि वे᳘द किᳫं हि स तै᳘र्गृहैः᳘ कुर्याद्या᳘नन्तरतो न᳘ व्यवविद्याद्य᳘थास्य ते भ᳘वन्ति त᳘स्य वसन्त᳘ एव द्वा᳘रᳫं हेमन्तो द्वा᳘रं तं वा᳘ एत᳘ᳫं᳘ संवत्सर᳘ᳫं᳘ स्वर्गं᳘ लोकम् प्र᳘पद्यते स᳘र्वं वै᳘ संवत्सरः स᳘र्वं वा᳘ अक्षय्य᳘मेते᳘न हास्याक्षय्य᳘ᳫं᳘ सुकृत᳘म् भवत्यक्षय्यो᳘ लोकः᳟॥
मूलम् - विस्वरम्
संवत्सरं ह वै प्रयाजैर्जयन् जयति । स ह न्वेवैनं जयति- यो ऽस्य द्वाराणि वेद । किं हि स तैर्गृहैः कुर्याद्- यानन्तरतो न व्यवविद्याद्- यथा यथास्य ते भवन्ति । तस्य वसन्त एव द्वारम्, हेमन्तो द्वारम् । तं वा एतं संवत्सरं स्वर्गं लोकं प्रपद्यते । सर्वं वै संवत्सरः, सर्वं वा अक्षय्यम् । एतेनो हास्याक्षय्यं सुकृतं भवति, अक्षय्यो लोकः ॥ १९ ॥
सायणः
प्रयाज एव किञ्चिद्वेदितव्यमित्याह- संवत्सरं हेति । ‘प्रयाजैः’ साधनैः साध्यं ‘जयन्’ संवत्सरं खलु ‘जयति’ जितप्रकारः पूर्वाध्याये “देवाश्च वा असुराश्च” इत्यत्र “ऋतून् संवत्सरं प्राजयन्” इत्यादिनोक्तः (श. १ कां. ५ अ. ३ ब्रा. ३ कं. इत्यत्र) । ‘यः’ ‘अस्य’ संवत्सरस्य ‘द्वाराणि’ जानाति- ‘सः’ खल्वेव ‘एनं’ संवत्सरं ‘जयति’ नानभिज्ञः । ‘यान्’ प्रयाजान् ‘अन्तरतः’ मध्यतो ‘हि’ ‘न’ व्यवजानाति- ‘ते’ च ‘यथा’ येन प्रकारेण ‘अस्य’ उपकारका ‘भवन्ति’- ‘सः’ अनुष्ठाता ‘तैः’ गृह्यमाणैरनुष्ठेयैः प्रयाजैः ‘किं कुर्यात्’ किं साधयेत् । ‘संवत्सरः’ यदेकैकं तत् क्षयिष्णु, यत् ‘सर्वं’ तदपरिच्छेदात् तावदक्षयि । एतत्परिज्ञानेन च ‘सुकृतं’ तत्फलभूतं पुण्यलोकश्च- उभावप्यक्षय्यौ भवतः ॥ १९ ॥
Eggeling
- He who gains by means of the fore-offerings, assuredly, gains the year 11. But he alone gains it who knows its doors; for what were he to do with a house who cannot find his way inside? Even as those (fore-offerings) are (the doors) of this (sacrifice), so is the spring a door, and so is the winter a door, of that (year). This same year he enters, as the world of heaven; for, assuredly, the year is all, and the All (universe) is imperishable: his thereby becomes imperishable merit, the imperishable world.
२०
विश्वास-प्रस्तुतिः
(स्त᳘) त᳘दाहुः॥
किन्देव᳘त्यान्या᳘ज्यानी᳘ति प्राजापत्यानी᳘ति ह ब्रूया᳘दनिरुक्तो वै᳘ प्रजा᳘पतिर᳘निरुक्तान्या᳘ज्यानि ता᳘नि हैता᳘नि यजमानदेव᳘त्यान्येव यजमानो᳘ ह्येव स्वे᳘ यज्ञे᳘ प्रजा᳘पतिरेते᳘न᳘ ह्युक्ता᳘ ऽऋत्वि᳘जस्तन्व᳘ते तं᳘ जन᳘यन्ति॥
मूलम् - श्रीधरादि
(स्त᳘) त᳘दाहुः॥
किन्देव᳘त्यान्या᳘ज्यानी᳘ति प्राजापत्यानी᳘ति ह ब्रूया᳘दनिरुक्तो वै᳘ प्रजा᳘पतिर᳘निरुक्तान्या᳘ज्यानि ता᳘नि हैता᳘नि यजमानदेव᳘त्यान्येव यजमानो᳘ ह्येव स्वे᳘ यज्ञे᳘ प्रजा᳘पतिरेते᳘न᳘ ह्युक्ता᳘ ऽऋत्वि᳘जस्तन्व᳘ते तं᳘ जन᳘यन्ति॥
मूलम् - Weber
त᳘दाहुः॥
किंदेव᳘त्यान्या᳘ज्यानी᳘ति प्राजापत्यानी᳘ति ह ब्रूया᳘दनिरुक्तो वै᳘ प्रजा᳘पतिर᳘निरुक्तान्या᳘ज्यानि ता᳘नि हैता᳘नि यजमानदेव᳘त्यान्येव य᳘जमानोॗ ह्येव स्वे᳘ यज्ञे᳘ प्रजा᳘पतिरेते᳘नॗ ह्युक्ता ऋत्वि᳘जस्तन्व᳘ते तं᳘ जन᳘यन्ति॥
मूलम् - विस्वरम्
तदाहुः- ‘किंदेवत्यान्याज्यानि’ इति । ‘प्राजापत्यानि’- इति ह ब्रूयाद् । अनिरुक्तो वै प्रजापतिः, अनिरुक्तान्याज्यानि । तानि हैतानि यजमानदेवत्यात्येव, यजमानो ह्येव स्वे यज्ञे प्रजापतिः- एतेन ह्युक्ता ऋत्विजस्तन्वते- तं जनयन्ति ॥ २० ॥
सायणः
अथाज्यद्रव्यं प्राजापत्यत्वेन प्रशंसितुमाह- तदाहुरिति । प्रजापतेः सकलदेवतासमष्ट्यात्मकत्वेनायमसाविति निर्वक्तुमशक्यत्वादनिरुक्तत्वम् । अतः ‘आज्यानि प्राजापत्यानीति ब्रूयात्’ । आहुतिभेदेन बहुवचनम् । प्रजापतिशब्दस्यात्र विवक्षितमर्थमाह- तानि हेति । ‘तानि एतानि’ प्रयाजादियागसाधनद्रव्याण्याज्यानि ‘यजमानदेवत्यानि’ । एवकारेण प्रसिद्धः प्रजापतिरपोद्यते । एतदुपपादयति- यजमानो हीति । इतरेषामपरो ऽस्त्येवेत्याशङ्क्याह- एतेनेति । ऋत्विजां दक्षिणादिदानेन पालनात् प्रजापतित्वम् । ‘ऋत्विजः’ तु ‘एतेन’ नियुक्ता एव यज्ञं ‘तन्वते’ स्व-स्वभागं विस्तारयन्ति । तदेवाह- तं जनयन्तीति । ‘तं’ यज्ञम् ॥ २० ॥
Eggeling
- Here now some say, ‘To what deity belong the butter-portions?’ Let him reply, ‘To Prajāpati;’
for, assuredly, Prajāpati is undefined 12 (mysterious); and undefined are the butter-portions, because they have the sacrificer for their deity; for the sacrificer is Prajāpati at his own sacrifice, since it is by his order that the priests spread and produce it.
२१
विश्वास-प्रस्तुतिः
स ऽआ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षो ऽवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति᳘ सैषा᳘ज्येन मिश्रा᳘हुतिर्हूयते य᳘जमानेन है᳘वै᳘षैत᳘न्मिश्रा᳘ हूयते य᳘दि ह वा ऽअ᳘पि दूरे सन्य᳘जते य᳘द्यन्तिके य᳘था हैवा᳘न्ते सत᳘ ऽइष्टᳫं स्या᳘देव᳘ᳫँ᳭है᳘वैवं᳘विदु᳘ष ऽइष्ट᳘म्भवति य᳘द्यु हा᳘पि ब᳘ह्विव पापं᳘ करो᳘ति᳘ नो हैव᳘ बहिर्द्धा᳘ यज्ञा᳘द्भवति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
स ऽआ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षो ऽवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयति᳘ सैषा᳘ज्येन मिश्रा᳘हुतिर्हूयते य᳘जमानेन है᳘वै᳘षैत᳘न्मिश्रा᳘ हूयते य᳘दि ह वा ऽअ᳘पि दूरे सन्य᳘जते य᳘द्यन्तिके य᳘था हैवा᳘न्ते सत᳘ ऽइष्टᳫं स्या᳘देव᳘ᳫँ᳭है᳘वैवं᳘विदु᳘ष ऽइष्ट᳘म्भवति य᳘द्यु हा᳘पि ब᳘ह्विव पापं᳘ करो᳘ति᳘ नो हैव᳘ बहिर्द्धा᳘ यज्ञा᳘द्भवति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
स आ᳘ज्यस्योपस्ती᳘र्य॥
द्वि᳘र्हवि᳘षो ऽवदाया᳘थोप᳘रिष्टादा᳘ज्यस्याभि᳘घारयतिॗ सैषा᳘ज्येन मिश्रा᳘हुतिर्हूयते य᳘जमानेन हैॗवैॗषैत᳘न्मिश्रा᳘ हूयते य᳘दि ह वा अ᳘पि दूरे सन्य᳘जते यद्य᳘न्तिके य᳘था हैवा᳘न्ते सत᳘ इष्टᳫं स्या᳘देव᳘ᳫं᳘ हैॗवैवं᳘ विदु᳘ष इष्ट᳘म् भवति य᳘द्यु हा᳘पि बॗह्विव पापं᳘ करो᳘तिॗ नो हैव᳘ बहिर्धा᳘ यज्ञा᳘द्भवति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
स आज्यस्योपस्तीर्य, द्विर्हविषो ऽवदाय, अथोपरिष्टादाज्यस्याभिधारयति । सैषाज्येन मिश्राहुतिर्हूयते । यजमानेन हैवैषैतन्मिश्राहूयते । यदि ह वा अपि दूरे सन् यजते, यद्यन्तिके- यथा हैवान्ते सत इष्टं स्यात्, एवं हैवैवंविदुष इष्टं भवति । यद्यु हापि बह्विव पापं करोति- नो हैव बहिर्द्धा यज्ञाद्भवति- य एवमेतद् वेद ॥ २१ ॥
सायणः
इदमाज्यं यजमानदेवताकत्वेन प्रशस्तम्, अतस्तेनोपस्तरणाभिघारणादि कर्त्तव्यमित्याह- स आज्यस्येति । ‘सः’ अध्वर्युः ‘आज्यस्य उपस्तीर्य्य’ पुरोडाशस्थापनदेशमाज्येनास्तृतं कृत्वा, ‘हविषः’ हविः-पुरोडाशादि ‘द्विरवदाय’ अवत्तस्य ‘आज्यस्य’ ‘उपरि’ आज्यम् ‘अभिघारयति’ ‘सैषा’ उपस्तृताभिघारिता ‘आज्येन मिश्रा’ सती अध्वर्युणा ‘हूयते,’ आज्यस्य यजमानदेवताकत्वस्य प्रतिपादितत्वात् ‘यजमानेन एव मिश्रा हूयते’ । यत एवमत आज्येनोपस्तरणाभिघारणं कृत्वा जुहुयादित्यर्थः ॥
उक्तार्थज्ञं प्रशंसति- यदि हेति । ‘यथा हैव’ यथैव खलु ‘अन्तेसदः’ सदसो देवयजनस्य सन्निधौ ‘इष्टं’ साङ्गं ‘स्यात्,’ ‘एवम्’ आज्यस्य यजमानदेवत्यत्वप्रकारं जानतो यजमानस्य देशान्तरस्थस्यापि ‘इष्टं भवति’ व्यवधानदोषो नास्तीत्यर्थः । न केवलं विप्रकर्षदोषाभावः- किन्तु वैकल्यदोषो ऽपि नास्तीत्याह- यद्यु हेति । ‘य एतदेवं वेद’ सः ‘पापम्’ अङ्गभ्रंशादिलक्षणं ‘यदि’ ‘बहु अपि’ कुर्य्यात्, स ‘यज्ञात्’ साङ्गात् ‘नैव’ ‘बहिर्द्धा’ बाह्यो ‘भवति’ । अथवा-उक्तार्थज्ञानेन बहुपापो ऽपि 13 यज्ञाधिकारी भवेदित्यर्थः ॥ २१ ॥ ६ ॥ (६.१) ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे षष्ठाध्याये प्रथमं ब्राह्मणम् ॥
Eggeling
- Having basted the havis with butter and made two cuttings from it, he pours some of the butter thereon: thus the oblation is offered combined with butter, and thereby indeed it is offered combined with the sacrificer; and for one who knows this,–whether he has a sacrifice performed for him while he is far away, or while he is near,–the sacrifice is performed in the same way as it would be performed if he were near; and he who knows this, even though he do much evil, is not shut out from the sacrifice.
-
देवेषु अन्वायन्ते- इति पाठान्तरम् । ↩︎
-
पा० सू० ३ । १ । १० । ↩︎
-
156:1 ‘Kanīya in nv ato dvishan dvishate ’rātīyati kim v etāvanmātram upajānīta yathedam ito ’nyathāsad iti.’ The Kāṇva MS. has, ’tad u vai devānām atathāsa kanīya in nu tam dvishan dvishate ’rātīyed atha kiṁ tāvanmātram. Te hocuḥ katham idam ito no ’nyathā syād iti.’ ↩︎
-
156:2 Acyuta, literally ’not fallen,’ hence invariable, indispensable is an epithet frequently applied to Agni’s sacrificial cake; cf. I, 4, 2, 16; I, 6, 2, 5. ↩︎
-
समिध इत्यादीनि प्रयाजमन्त्रप्रतीकानि । ते च मन्त्राः का. हौ. सू. उक्ताः । तथा तै. ब्रा. ३ । ३ । ५ तै. सं० २ । ६ । १ । अत्रापि विहिताः सन्तीति । ↩︎
-
156:3 See p. 148, note 2. ↩︎
-
157:1 In the devatānām āvahanam or invitation of the deities, the last formula, addressed to the butter-drinking deities, is supposed to refer to the fore- and after-offerings. Cf. I, 4, 2, 16-17. ↩︎
-
157:2 See I, 5, 3, 23. ↩︎
-
द्वादशकण्डिकावदित्यर्थः । ↩︎
-
वयं तु ब्रूमः । नेह मुख्याशब्दः प्रधानार्थः । किन्तु मुखे मुखप्रदेशे भवा पीडा मुख्या । यज्ञस्य मुखे ऽनुव्याहरणादनुव्याहर्तुरपि मुखभागस्थेष्वक्षिकर्णादिष्वेव पीडा जायते- इति तात्पर्यम् ॥ ↩︎
-
159:1 See I, 5, 3, 3. ↩︎
-
160:1 Because he (? as lord of creatures) represents all the deities, and one cannot say ‘he is such or such a one,’ Sāyaṇa. Cf. also I, 1, 1, 12. ↩︎
-
‘पापः’ “पातापेयानां पापत्यमानो ऽवाङेव पततीति वा पापत्यतेर्वा स्यात्” इति निरु. ५ । १ । २ । पुनः ‘न पापासोमनामहे’ ऋ. सं. ६ । ४ । ३७ । ६ इत्यस्य व्याख्यायां ‘न पापा मन्यामहे’ । अस्त्यस्मासु ब्रह्मचर्यमध्ययनं तपोदानकर्मेत्यृषिरवोचदिति च तत्रैव ६ । ५ । २ । इति ॥ ↩︎