०१
विश्वास-प्रस्तुतिः
स वै᳘ समि᳘धो यजति॥
प्राणा वै᳘ समि᳘धः प्राणा᳘ने᳘वैतत्स᳘मिन्धे प्राणैर्ह्ययं पु᳘रुषः स᳘मिद्धस्त᳘स्मादभि᳘मृशे᳘ति ब्रूयाद्य᳘द्युपतापी स्यात्स य᳘द्युष्णः स्या᳘दैव ता᳘वच्छᳫँ᳭सेत स᳘मिद्धो हि स ता᳘वद्भ᳘वति य᳘द्यु शीतः स्यान्ना᳘शᳫँ᳭सेत त᳘त्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति त᳘स्मात्समि᳘धो यजति॥
मूलम् - श्रीधरादि
स वै᳘ समि᳘धो यजति॥
प्राणा वै᳘ समि᳘धः प्राणा᳘ने᳘वैतत्स᳘मिन्धे प्राणैर्ह्ययं पु᳘रुषः स᳘मिद्धस्त᳘स्मादभि᳘मृशे᳘ति ब्रूयाद्य᳘द्युपतापी स्यात्स य᳘द्युष्णः स्या᳘दैव ता᳘वच्छᳫँ᳭सेत स᳘मिद्धो हि स ता᳘वद्भ᳘वति य᳘द्यु शीतः स्यान्ना᳘शᳫँ᳭सेत त᳘त्प्राणा᳘ने᳘वास्मिन्नेत᳘द्दधाति त᳘स्मात्समि᳘धो यजति॥
मूलम् - Weber
स वै᳘ समि᳘धो यजति॥
प्राणा वै᳘ समि᳘धः प्राणा᳘नेॗवैतत्स᳘मिन्द्धे प्राणैर्ह्य᳘यम् पु᳘रुषः स᳘मिद्धस्त᳘स्मादभि᳘मृषे᳘ति ब्रूयाद्य᳘द्युपतापी स्यात्स य᳘द्युष्णः स्याॗदैव ता᳘वछंसेत स᳘मिद्धो हि स ता᳘वद्भ᳘वति य᳘द्यु शीतः स्यान्ना᳘शंसेत त᳘त्प्राणा᳘नेॗवास्मिन्नेत᳘द्दधाति त᳘स्मात्समि᳘धो यजति॥
मूलम् - विस्वरम्
‘प्रयाजावृत् ।’
स वै ( १ ) “समिध”- यजति । प्राणा वै समिधः, प्राणानेवैतत्समिन्धे । प्राणैर्ह्ययं पुरुषः समिद्धः । तस्मादभिमृशेति ब्रूयाद्- यद्युपतापी स्यात् । स यद्युष्णः स्याद्- ऐव तावत् शंसेत, समिद्धो हि स तावद् भवति । यद्यु शीतः स्यात्- नाशंसेत । तत्प्राणानेवास्मिन्नेतद्दधाति, तस्मात् समिधो यजति ॥ १ ॥
सायणः
अथ प्रयाजान् प्रकारान्तरेणानूद्य प्रशंसति- स वा इत्यादिना । ‘एतत्’ एतेन समिद्यागेन यजमानस्य ‘प्राणानेव’ समिन्धितवान् भवति । प्राणानां समिद्धत्वमुपपादयति- प्राणैर्हीति । ‘अयं पुरुषः’ क्षेत्रज्ञः । प्राणोपाध्यभावे शरीरसम्बन्धायोगात् तेषां पुरुषसमिन्धनहेतुत्वम् । सैषा प्रसिद्धिः ‘हि’- शब्देनोच्यते । समिधः प्राणत्वसमर्थनाय 1 प्रासङ्गिकं नैमित्तिकमभिमर्शनमाह- तस्मादिति । यजमानो ज्वरादिना उपतापवान् ‘यदि स्यात्’ तदा ऽध्वर्युः समिद्यागसमये प्राणप्राबल्यायात्मना ‘अभिमृशेति’ यजमानं ‘ब्रूयात्’ । ‘स यदि’ ‘उष्णः’ औष्ण्यवानित्यर्थः । ‘तावत्-आशंसेत’ अस्योपतापः शाम्यत्विति; समिद्यागेषु प्राणदेवतामनुध्यायन् कामयेत् । ‘तावता’ तदाशंसनमात्रेणैव ‘समिद्धः’ प्रबलप्राणो गतोपतापो ‘भवति’ एव । तापाभावे तन्न कर्तव्यमित्याह- यदीति । यस्मादेवं तस्मात् ‘प्राणा एव समिधः’ -इति सिद्धमित्यर्थः ॥ तत्प्राणानित्याद्युपसंहारः ॥ १ ॥
Eggeling
- He (accordingly) pronounces the offering-prayer to the Samidhs (kindling-sticks). The Samidhs (kindlers), doubtless, are the breaths (vital airs), and he thereby kindles the breaths; for this man (the sacrificer) is kindled (animated) by his breaths: hence if he (the sacrificer) be burning (with fever, &c.), he (the Adhvaryu) will say, ‘Stroke (thyself)!’ If he be hot, then one may feel confident, for then he is kindled; and if he be cold, then one need hope no longer. Thus he thereby puts the breaths into him: this is the reason why he pronounces the prayer to the Samidhs.
०२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ त᳘नून᳘पातं यजति॥
रे᳘तो वै त᳘नून᳘पाद्रे᳘त ऽए᳘वैत᳘त्सिञ्चति त᳘स्मात्त᳘नून᳘पातं यजति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ त᳘नून᳘पातं यजति॥
रे᳘तो वै त᳘नून᳘पाद्रे᳘त ऽए᳘वैत᳘त्सिञ्चति त᳘स्मात्त᳘नून᳘पातं यजति॥
मूलम् - Weber
अ᳘थ त᳘नून᳘पातं यजति॥
रे᳘तो वै त᳘नून᳘पाद्रे᳘त एॗवैत᳘त्सिञ्चति त᳘स्मात्त᳘नून᳘पातं यजति॥
मूलम् - विस्वरम्
अथ ( २ ) “तनूनपातं"- यजति । रेतो वै तनूनपात् । रेत एवैतत् सिञ्चति । तस्मात्तनूनपातं यजति ॥ २॥
सायणः
अथ तनूनपातमिति । ‘रेतसः सप्तमधातोः शरीरावष्टम्भकत्वेन तनूनां पालनात् तनूनपात्त्वम् 2; अतरतद्यागेन स-प्राणे यजमाने ‘रेत एव’ स्थापितवान् भवति ॥ २ ॥
Eggeling
- He then pronounces the offering-prayer to Tanūnapāt. Tanūnapāt, doubtless, is seed; hence he thereby casts seed: this is why he pronounces the prayer to Tanūnapāt.
०३
विश्वास-प्रस्तुतिः
(त्य) अथे᳘डो यजति॥
प्रजा वा ऽइ᳘डो यदा वै रे᳘तः सिक्तं᳘ प्रजा᳘यते᳘ ऽथ त᳘दीडित᳘मिवा᳘न्नमिच्छ᳘मानं चरति त᳘त्प्रै᳘वैत᳘ज्जनयति त᳘स्मादि᳘डो यजति॥
मूलम् - श्रीधरादि
(त्य) अथे᳘डो यजति॥
प्रजा वा ऽइ᳘डो यदा वै रे᳘तः सिक्तं᳘ प्रजा᳘यते᳘ ऽथ त᳘दीडित᳘मिवा᳘न्नमिच्छ᳘मानं चरति त᳘त्प्रै᳘वैत᳘ज्जनयति त᳘स्मादि᳘डो यजति॥
मूलम् - Weber
अथे᳘डो यजति॥
प्रजा घा इ᳘डो यदा वै रे᳘तः सिक्तं᳘ प्रजा᳘यते᳘ ऽथ त᳘दीडित᳘मिवा᳘न्नमिछ᳘मानं चरति तॗत्प्रैॗवैत᳘ज्जनयति त᳘स्मादि᳘डो यजति॥
मूलम् - विस्वरम्
अथ ( ३ ) “इडो” -यजति । प्रजा वा इडः । यदा वै रेतः सिक्तं प्रजायते- अथ तदीडितमिवान्नमिच्छमानं चरति; तत् प्रैवैतज्जनयति- तस्मादिडो यजति ॥ ३ ॥
सायणः
अथेड इति । इड्यन्तीडो ऽन्नानि; तदुपजीवनेन प्रजानामिड्रूपत्वम् । एतदेवोपपादयति ‘यद्’ ‘आसिक्तं रेतः’ ‘प्रजायते’- उत्पद्यते, ‘तद्’ एव ‘ईडितं’ सर्वैः प्रशस्यमानम् ‘अन्नम्’ इच्छत् ‘चरति’, ‘तत्’ तेन इड्यागेन ‘एतत्’ रेतः ‘जनयति’ प्राणिरूपेणोत्पादितवान् भवति ॥ ३ ॥
Eggeling
- He then pronounces the offering-prayer to the Iḍs. The Iḍs, doubtless, are offspring; when the seed thus cast springs into life, then it moves about in quest of food, as it were, praising (īḍ). Hence he thereby makes him (the sacrificer) propagate offspring: this is the reason why he, pronounces the prayer to the Iḍs.
०४
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ बर्हि᳘र्यजति॥
भूमा वै᳘ बर्हि᳘र्भूमा᳘नमे᳘वैतत्प्र᳘जनयति त᳘स्माद्बर्हि᳘र्यजति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ बर्हि᳘र्यजति॥
भूमा वै᳘ बर्हि᳘र्भूमा᳘नमे᳘वैतत्प्र᳘जनयति त᳘स्माद्बर्हि᳘र्यजति॥
मूलम् - Weber
अ᳘थ बर्हि᳘र्यजति॥
भूमा वै᳘ बर्हि᳘र्भूमा᳘नमेॗवैतत्प्र᳘जनयति त᳘स्माद्बर्हि᳘र्यजति॥
मूलम् - विस्वरम्
अथ ( ४ ) बर्हिर्यजति । भूमा वै बर्हिः । भूमानमेवैतत् प्रजनयति; तस्माद् बर्हिर्यजति ॥ ४ ॥
सायणः
अथ बर्हिरिति । बृंहतेर्वृद्ध्यर्थाद् बर्हिःशब्दः; अतो ‘बर्हिर्भूमा’ खलु, अतः प्रजायमानमेतेन बर्हिर्यागेन बहुकृतमुत्पादयति ॥ ४ ॥
अथ स्वाहेत्यादि । यः स्वाहाकाराख्यः प्रयाजः, स ‘ऋतूनां हेमन्तः’ अन्तिमत्वसाम्यात् । ‘हेमन्तः’ खलु ‘इमाः’ सर्वा अपि ‘प्रजाः’ स्वकीयं ‘वशं’ प्रापयति; इतरर्तुषु तथाविधप्रजापीडाभावात् । अत एव च यास्को हेमन्तपर्यायं हिमशब्दमिच्छन् व्युदपादयत्- “हिमं पुनर्हन्तेर्वा हिनोतेर्वा” (निरु. ४. ४. ६.) । वशीकरणप्रकारं स्पष्टं प्रदर्शयति- तस्मादित्यादिना । वशीकृतत्वाद्धेतोः ‘हेमन्’ हेम्नि, हेमन्ते हिमोपघातेन ‘ओषधयः’ वनस्पतयश्च म्लाना गलितपर्णाश्च भवन्ति । तथा ‘वयांसि’ पक्षिणः ‘प्रतितरामिव’ अत्यन्तं प्रतिकूला इव, हिमोपहतपक्षत्वादुपक्षीणा इवेत्यर्थः । ‘अधस्तरामिव’ पत्राणां प्रच्यवनादूर्ध्वङ्गन्तुमशक्ता इव अधः आपतन्ति । ‘पुरुषः’ सर्वो ऽपि ‘विपतितलोमेव’ प्रलुप्तलोमेव कदर्थिताङ्गो ‘भवति’ ॥ ४ ॥
Eggeling
- He then pronounces the offering-prayer to the Barhis. The barhis, doubtless, means abundance, hence he thereby produces an abundance: this is why he pronounces the prayer to the barhis.
०५
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ स्वा᳘हास्वाहे᳘ति यजति॥
हेमन्तो वा᳘ ऽऋतूना᳘ᳫं᳘स्वाहाकारो᳘ हेमन्तो᳘ हीमाः᳘ प्रजाः स्वं व्व᳘शमुपन᳘यते त᳘स्माद्धे᳘मन्म्ला᳘यन्त्यो᳘षधयः प्र व᳘नस्प᳘तीनां पलाशा᳘नि मुच्यन्ते प्रतितिरा᳘मिव व्व᳘याᳫंसि भवन्त्यधस्तरा᳘मिव व्व᳘याᳫंसि पतन्ति व्वि᳘पतितलोमेव पापः पु᳘रुषो भवति हेमन्तो᳘ हीमाः᳘ प्रजाः स्वं व्व᳘शमुपन᳘यते स्वी᳘ ह वै तम᳘र्द्धं कुरुते श्रि᳘ये ऽन्ना᳘द्याय य᳘स्मिन्न᳘र्द्धे भ᳘वति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ स्वा᳘हास्वाहे᳘ति यजति॥
हेमन्तो वा᳘ ऽऋतूना᳘ᳫं᳘स्वाहाकारो᳘ हेमन्तो᳘ हीमाः᳘ प्रजाः स्वं व्व᳘शमुपन᳘यते त᳘स्माद्धे᳘मन्म्ला᳘यन्त्यो᳘षधयः प्र व᳘नस्प᳘तीनां पलाशा᳘नि मुच्यन्ते प्रतितिरा᳘मिव व्व᳘याᳫंसि भवन्त्यधस्तरा᳘मिव व्व᳘याᳫंसि पतन्ति व्वि᳘पतितलोमेव पापः पु᳘रुषो भवति हेमन्तो᳘ हीमाः᳘ प्रजाः स्वं व्व᳘शमुपन᳘यते स्वी᳘ ह वै तम᳘र्द्धं कुरुते श्रि᳘ये ऽन्ना᳘द्याय य᳘स्मिन्न᳘र्द्धे भ᳘वति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
अ᳘थ स्वा᳘हा-स्वाहे᳘ति यजति॥
हेमन्तो वा᳘ ऋतूना᳘ᳫं᳘ स्वाहाकारो᳘ हेमन्तोॗ हीमाः᳘ प्रजाः स्वं व᳘शमुपन᳘यते त᳘स्माद्धे᳘मन्म्ला᳘यन्त्यो᳘षधयः प्र व᳘नस्प᳘तीनाम् पलाशा᳘नि मुच्यन्ते प्रतितिरा᳘मिव व᳘यांसि भवन्त्यधस्तरा᳘मिव व᳘यांसि पतन्ति विपतितलोमेव पापः पु᳘रुषो भवति हेमन्तोॗ हीमाः᳘ प्रजाः स्वं व᳘शमुपन᳘यते स्वा᳘ह वै तम᳘र्धं कुरुते श्रिॗये ऽन्ना᳘द्याय य᳘स्मिन्न᳘र्धे भ᳘वति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
अथ ( ५ ) “स्वाहास्वाहा” -इति यजति । हेमन्तो वा ऋतूनां स्वाहाकारः । हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते । तस्माद्धेमन् म्लायन्त्योषधयः, प्र वनस्पतीनां पलाशानि मुच्यन्ते, प्रतितरामिव वयांसि भवन्ति, अधस्तरामिव वयांसि पतन्ति । विपतितलोमेव पापः पुरुषो भवति- हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते । स्वी ह वै तमर्द्धं कुरुते श्रिये ऽन्नाद्याय- यस्मिन्नर्द्धे भवति- य एवमेतद्वेद ॥ ५ ॥
सायणः
उपसंहरति- हेमन्तो हीति । ‘य एवमेतत्’ कृत्स्नस्यापि हिमवशीकृतत्वं ‘वेद’ ‘सः’ वेदिता यस्मिन् ‘अर्द्धे’ अर्द्धभागे देशे ‘भवति’ सः ‘तम्’ ‘अर्द्धं’ देशं श्रिये ऽन्नाद्याय च स्वीकुरुते खलु; स देशो धनकनकादिश्रिया, अन्नेन च समृद्धस्तदधीनो भवतीत्यर्थः ॥ ५ ॥
Eggeling
- He then pronounces the offering-prayer with ‘Svāhā! Svāhā!’ The Svāhā-call, indeed, is what the winter is among the seasons; for the winter subjects these creatures to its will: hence in winter the plants wither, and the leaves fall off the trees; the birds retire more and more, and fly lower and lower; and the wicked man has his hair, as it were, falling off 3; for the winter subjects these creatures to its will. And, verily, he who knows this, makes that locality wherein he lives, his own, for his own happiness and supply of food.
०६
विश्वास-प्रस्तुतिः
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ते᳘ दण्डैर्ध᳘नुर्भिर्न᳘ व्यजयन्त ते हा᳘व्विजयमाना ऽऊचुर्ह᳘न्त व्वा᳘च्येव ब्र᳘ह्मन्विजि᳘गीषामहै स यो᳘ नो व्वा᳘चं व्या᳘हृतां मिथुने᳘न᳘ नानुनिक्रा᳘मात्स स᳘र्व्वं प᳘राजयाता ऽअ᳘थ सर्व्वमि᳘तरे जयानि᳘ति तथे᳘ति देवा᳘ ऽअब्रुवंस्ते᳘ देवा ऽइ᳘न्द्रमब्रुवन्व्या᳘हरे᳘ति॥
मूलम् - श्रीधरादि
देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ते᳘ दण्डैर्ध᳘नुर्भिर्न᳘ व्यजयन्त ते हा᳘व्विजयमाना ऽऊचुर्ह᳘न्त व्वा᳘च्येव ब्र᳘ह्मन्विजि᳘गीषामहै स यो᳘ नो व्वा᳘चं व्या᳘हृतां मिथुने᳘न᳘ नानुनिक्रा᳘मात्स स᳘र्व्वं प᳘राजयाता ऽअ᳘थ सर्व्वमि᳘तरे जयानि᳘ति तथे᳘ति देवा᳘ ऽअब्रुवंस्ते᳘ देवा ऽइ᳘न्द्रमब्रुवन्व्या᳘हरे᳘ति॥
मूलम् - Weber
देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिरे ते᳘ दण्डैर्ध᳘नुर्भिर्न व्य᳘जयन्त ते हा᳘विजयमाना ऊचुर्ह᳘न्त वाॗच्येव ब्र᳘ह्मन्विजि᳘गीषामहै स यो᳘ नो वा᳘चं व्या᳘हृताम् मिथुने᳘नॗ नानुनिक्रा᳘मात्स स᳘र्वम् प᳘राजयाता अ᳘थ स᳘र्वमि᳘तरे जयानि᳘ति तथेति देवा᳘ अब्रुवंस्ते᳘ देवा इ᳘न्द्रमब्रुवन्व्या᳘हरे᳘ति॥
मूलम् - विस्वरम्
‘प्रयाजानुमन्त्रणम् ।’
देवाश्च वा असुराश्वोभये प्राजापत्याः पस्पृधिरे । ते दण्डैर्धनुर्भिर्न व्यजयन्त । ते हाविजयमाना ऊचुः- ‘हन्त वाच्येव ब्रह्मन् विजिगीषामहै, स यो नो वाचं व्याहृतां मिथुनेन नानुनिक्रामात्- स सर्वं पराजयातै, अथ सर्वमितरे जयान्’ इति । ‘तथा’ इति देवा अब्रुवन् । ते देवा इन्द्रमब्रुवन् ‘व्याहर’ इति ॥ ६ ॥
सायणः
इत्थं प्रयाजान् प्रशस्य तदनुमन्त्रणमन्त्रान् विधातुमाख्यायिकामाह- देवाश्च वा असुराश्चेति । ‘प्राजापत्याः’ प्रजापतेः पुत्राः ‘देवाः असुराश्च उभये’ स्पर्धित्वा, परस्परं दण्डधनुरादिभिर्हननसाधनैर्विजयं नालभन्त; सामर्थ्यस्य समानत्वात् । जयोपायपरिज्ञानहर्षद्योतनार्थो हन्तशब्दः, विजयप्राप्त्यै इत्थम् ‘ऊचुः’- ‘वाच्येव ब्रह्मन् विजिगीषामहै’ । वाग्रूपे एव मन्त्रे विवदमानाः जेतुमिच्छामहै इति । ‘नः’ अस्माकम् ‘वाचम्’ अस्मन्निरुक्तम् 4 पुल्ँलिङ्गवचनं ‘मिथुनेन’ स्त्रीलिङ्गान्तप्रतिवचनाभिधानेन मिथुनं कृत्वा ‘न अनुनिक्रामात्’ अनुक्रमेण न निष्क्रामेत्, नितरां न आक्रामति 5 ‘स सर्वं’ ‘पराजयातै’ पराजयं प्राप्नुयात् । ‘अथ’ ‘सर्वं’ जेतव्यम् ‘इतरे’ मिथुनेन वक्तारः, जेतृपक्षादन्ये सर्व्वे ऽपि ‘जयान्’ जयेयुः । एवं सङ्केते कृते सति ‘तथेति’ अङ्गीकृत्य श्रेष्ठत्वाद् ‘इन्द्रं व्याहर इत्यब्रुवन्’ ॥ ६ ॥
Eggeling
- The gods and the Asuras, both of them sprung from Prajāpati, were once contending for superiority. With staves and bows neither party were able to overcome the other. Neither of them having gained the victory, they (the Asuras) said, ‘Well then, let us try to overcome one another by speech, by sacred writ (brahman)! He who cannot follow up our uttered speech by (making up) a pair, shall be defeated and lose everything, and the other party
shall win everything!’ The gods replied, ‘So be it!’ The gods said to Indra, ‘Speak thou!’
०७
विश्वास-प्रस्तुतिः
स ऽइ᳘न्द्रो ऽब्रवीत्॥
(दे᳘) ए᳘को ममत्य᳘थास्मा᳘कमेकेती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫं ह्ये᳘कश्चै᳘का च॥
मूलम् - श्रीधरादि
स ऽइ᳘न्द्रो ऽब्रवीत्॥
(दे᳘) ए᳘को ममत्य᳘थास्मा᳘कमेकेती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫं ह्ये᳘कश्चै᳘का च॥
मूलम् - Weber
स इ᳘न्द्रो ऽब्रवीत्॥
ए᳘को ममत्य᳘थास्मा᳘कमेकेती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मेॗवाविन्दन्मिथुनᳫं ह्ये᳘कश्चै᳘का च॥
मूलम् - विस्वरम्
स इन्द्रो ऽब्रवीत्- ‘एको मम’ इति । अथ- ‘अस्माकमेका’ इतीतरे ऽब्रुवन् । तदु तन्मिथुनमेवाविन्दन् । मिथुनं हि- एकश्च एका च ॥ ७ ॥
सायणः
स इन्द्र इति । ‘सः’ एवमुक्तः ‘इन्द्रो ऽब्रवीत्’- ‘एकः’ पुत्रो ‘ममेति’ अस्त्विति शेषः । ‘अथ’ ‘इतरे’ असुराः ‘अब्रुवन्’- ‘अस्माकमेका इति’ लिङ्गसामर्थ्यात् पुत्रीति गम्यते । अथ श्रुतिस्तेषां वचनप्रतिवचनस्य तात्पर्यमाह- ‘तदु’ तदा ‘तत्’ तेन एवमभिहितत्वात् ‘मिथुनमेव’ प्रतिज्ञा ऽविरोधेन ‘अविन्दन्’ लब्धवन्तः । तत्कथमिति, तदुच्यते- ‘एकश्चैका च’ मिलित्वा ‘मिथुनं हि’, लोके स्त्रीपुरुषयोर्मिथुनत्वव्यवहारात् ॥ ७ ॥
Eggeling
- Indra said, ‘One (eka, m., unus) for me!’ The others then said, ‘One (ekā, f., una) for us!’ and thus found that (desired) pair, for eka (unus) and ekā (una) make a pair.
०८
विश्वास-प्रस्तुतिः
द्वौ᳘ ममेती᳘न्द्रो ऽब्रवीत्॥
(द᳘) अ᳘थास्मा᳘कं द्वे ऽइती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫँ᳭ हि द्वौ᳘ च द्वे᳘ च॥
मूलम् - श्रीधरादि
द्वौ᳘ ममेती᳘न्द्रो ऽब्रवीत्॥
(द᳘) अ᳘थास्मा᳘कं द्वे ऽइती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫँ᳭ हि द्वौ᳘ च द्वे᳘ च॥
मूलम् - Weber
द्वौ᳘ ममेती᳘न्द्रो ऽब्रवीत्॥
अ᳘थास्मा᳘कं द्वे इती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मेॗवाविन्दन्मिथुनᳫ हि द्वौ᳘ च द्वे᳘ च॥
मूलम् - विस्वरम्
‘द्वौ मम’ इतीन्द्रो ऽब्रवीत् । अथ ‘अस्माकं द्वे’ इतीतरे ऽब्रुवन् । तदु तन्मिथुनमेवाविन्दन् । मिथुनं हि- द्वौ च द्वे च ॥ ८ ॥
सायणः
द्वौ ममेत्यादि- त्रयः पर्याया एवमेव योज्याः ॥ ८ ॥ ९ ॥ १० ॥
Eggeling
- Indra said, ‘Two (dvau, m., duo) for me!’ The others then said, ‘Two (dve, f., duae) for us!’ and thus found that pair, for dvau (duo) and dve (duae) make a pair.
०९
विश्वास-प्रस्तुतिः
त्र᳘यो ममेती᳘न्द्रो ऽब्रवीत्॥
(द᳘) अ᳘थास्मा᳘कं तिस्र ऽइती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫं हि त्र᳘यश्च तिस्र᳘श्च॥
मूलम् - श्रीधरादि
त्र᳘यो ममेती᳘न्द्रो ऽब्रवीत्॥
(द᳘) अ᳘थास्मा᳘कं तिस्र ऽइती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫं हि त्र᳘यश्च तिस्र᳘श्च॥
मूलम् - Weber
त्र᳘यो ममेती᳘न्द्रो ऽब्रवीत्॥
अ᳘थास्मा᳘कं तिस्र इती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मेॗवाविन्दन्मिथुनᳫं हि त्र᳘यश्च तिस्र᳘श्च॥
मूलम् - विस्वरम्
‘त्रयो मम’ इतीन्द्रो ऽब्रवीत् । अथ ‘अस्माकं तिस्रः’ इतीतरे ऽब्रुवन् । तदु तन्मिथुनमेवाविन्दन् । मिथुनं हि- त्रयश्च तिस्रश्च ॥ ९ ॥
सायणः
[व्याख्यानम् अष्टमे]
Eggeling
- Indra said, ‘Three (trayaḥ, m.) for me!’ The others then said, ‘Three (tisraḥ, f.) for us!’ and thus found that pair, for trayaḥ. and tisraḥ make a pair.
१०
विश्वास-प्रस्तुतिः
चत्वा᳘रो ममेती᳘न्द्रो ऽब्रवीत्॥
(द᳘) अ᳘थास्मा᳘कं च᳘तस्र ऽइती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫं हि᳘ चत्वा᳘रश्च च᳘तस्रश्च॥
मूलम् - श्रीधरादि
चत्वा᳘रो ममेती᳘न्द्रो ऽब्रवीत्॥
(द᳘) अ᳘थास्मा᳘कं च᳘तस्र ऽइती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मे᳘वाविन्दन्मिथुनᳫं हि᳘ चत्वा᳘रश्च च᳘तस्रश्च॥
मूलम् - Weber
चत्वा᳘रो ममेती᳘न्द्रो ऽब्रवीत्॥
अ᳘थास्मा᳘कं च᳘तस्र इती᳘तरे ऽब्रुवंस्त᳘दु त᳘न्मिथुन᳘मेॗवाविन्दन्मिथुनᳫं हि᳘ चत्वा᳘रश्च च᳘तस्रश्च॥
मूलम् - विस्वरम्
‘चत्वारो मम’ इतीन्द्रो ऽब्रवीत् । अथ ‘अस्माकं चतस्रः’ इतीतरे ऽब्रुवन् । तदु तन्मिथुनमेवाविन्दन् । मिथुनं हि- चत्वारश्च चतस्रश्च ॥ १० ॥
सायणः
[व्याख्यानम् अष्टमे]
Eggeling
- Indra said, ‘Four (catvāraḥ, m.) for me!’ The others then said, ‘Four (catasraḥ, f.) for us!’ and thus found that pair, for catvāraḥ and catasraḥ make a pair.
११
विश्वास-प्रस्तुतिः
प᳘ञ्च ममेती᳘न्द्रो ऽब्रवीत्॥
(त्त᳘) त᳘त इ᳘तरे मिथु᳘नं नाविन्द᳘न्नो ह्य᳘त ऽऊर्द्धं᳘ मिथुनम᳘स्ति प᳘ञ्च-पञ्चे᳘ति᳘ ह्ये᳘वैत᳘दुभ᳘यं भ᳘वति ततो᳘ ऽसुराः स᳘र्व्वं प᳘राजयन्त स᳘र्व्वस्माद्देवा ऽअ᳘सुरानजयन्त्स᳘र्व्वस्मात्सपत्नान᳘सुरान्नि᳘रभजन्॥
मूलम् - श्रीधरादि
प᳘ञ्च ममेती᳘न्द्रो ऽब्रवीत्॥
(त्त᳘) त᳘त इ᳘तरे मिथु᳘नं नाविन्द᳘न्नो ह्य᳘त ऽऊर्द्धं᳘ मिथुनम᳘स्ति प᳘ञ्च-पञ्चे᳘ति᳘ ह्ये᳘वैत᳘दुभ᳘यं भ᳘वति ततो᳘ ऽसुराः स᳘र्व्वं प᳘राजयन्त स᳘र्व्वस्माद्देवा ऽअ᳘सुरानजयन्त्स᳘र्व्वस्मात्सपत्नान᳘सुरान्नि᳘रभजन्॥
मूलम् - Weber
प᳘ञ्च ममेती᳘न्द्रो ऽब्रवीत्॥
त᳘त इ᳘तरे मिथुॗनं नाविन्दॗन्नो ह्य᳘त ऊर्ध्वं᳘ मिथुनम᳘स्ति प᳘ञ्च-पञ्चे᳘तिॗ ह्येॗवैत᳘दुभ᳘यम् भ᳘वति ततो᳘ ऽसुराः स᳘र्वम् प᳘राजयन्त स᳘र्वस्माद्देवा अ᳘सुरानजयन्त्स᳘र्वस्मात्सप᳘त्नान᳘सुरान्नि᳘रभजन्॥
मूलम् - विस्वरम्
‘पञ्च मम’ इतीन्द्रो ऽब्रवीत् । तत इतरे मिथुनं नाविन्दन्, नो ह्यत ऊर्ध्वं मिथुनमस्ति- पञ्च-पञ्च इति ह्येवैतदुभयं भवति । ततो ऽसुराः सर्वं पराजयन्त, सर्वस्माद् देवा असुरानजयन् । सर्वस्मात्सपत्नानसुरान् निरभंजन् ॥ ११ ॥
सायणः
पञ्च ममेतीति । अथ ‘इन्द्रः’ ‘पञ्च ममेत्यब्रवीत्’; ‘ततः’ ‘इतरे’ असुराः ‘मिथुनं’ ‘नाविन्दन्’; लिङ्गद्वये ऽपि रूपाविशेषात् । अलाभे कारणं श्रुतिरेवाह- नो हीति । हिशब्दसूचितमर्थमाह- पञ्च-पञ्चेति । स्त्रियाः पुंसश्चोभयोरप्यभिधानं पञ्च पञ्चेत्येव, न व्यावर्तको रूपभेदो ऽस्ति; ‘ततः’ पञ्चप्रभृतीनां मिथुनत्वस्यालाभात् ‘असुराः’ ‘सर्वं’ विवादास्पदं जेयम् ‘पराजयन्त’ जेतुं नाशक्नुवन्नित्यर्थः । अतो ‘देवाः’ ‘सर्वस्माद्’ अपि जयविषयात् ‘असुरान् अजयन्’ । जयशब्दार्थमाह- सर्वस्मात्सपत्नानसुरान्निरभजन्निति ॥ ११ ॥
Eggeling
- Indra said, ‘Five (pañca, m. f., quinque) for me!’ Then the others found no pair, for after that (numeral four) there is no pair, for then both (masculine and feminine) are pañca. Thereupon the Asuras were defeated and lost everything, and the gods won everything from the Asuras, and stripped their rivals, the Asuras, of everything.
१२
विश्वास-प्रस्तुतिः
(जंस्त᳘) त᳘स्मात्प्रथमे᳘ प्रयाज᳘ ऽइष्टे᳘ ब्रूयात्॥
(दे᳘) ए᳘को ममेत्ये᳘का त᳘स्य य᳘महं द्वेष्मी᳘ति य᳘द्यु न᳘ द्विष्या᳘द्यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति ब्रूयात्॥
मूलम् - श्रीधरादि
(जंस्त᳘) त᳘स्मात्प्रथमे᳘ प्रयाज᳘ ऽइष्टे᳘ ब्रूयात्॥
(दे᳘) ए᳘को ममेत्ये᳘का त᳘स्य य᳘महं द्वेष्मी᳘ति य᳘द्यु न᳘ द्विष्या᳘द्यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति ब्रूयात्॥
मूलम् - Weber
त᳘स्मात्प्रथमे प्रयाज᳘ इष्टे᳘ ब्रूयात्॥
ए᳘को ममेत्ये᳘का त᳘स्य य᳘महं द्वेष्मी᳘ति य᳘द्यु न᳘ द्विष्याॗद्यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्म इ᳘ति ब्रूयात्॥
मूलम् - विस्वरम्
तस्मात् प्रथमे प्रयाज इष्टे ब्रूयाद्- ‘एको मम इति । एका तस्य यमहं द्वेष्मि’ इति । यद्यु न द्विष्याद्- ‘यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः’ इति ब्रूयात् ॥ १२ ॥
सायणः
इदानीमर्थवादसिद्धं प्रयाजानुमन्त्रणमन्त्रान् 6 प्रतिप्रयाजं विभज्य योजयति- तस्मादित्यादिना । यस्मादिन्द्रेणैको ममेत्युक्तम्, असुरेणैका ममेत्युक्तम्, ‘तस्मात्’ ‘प्रथमे प्रयाजे’ ‘एको मम’- इत्यादि ‘ब्रूयात्’ । एवं द्वितीयादिष्वपि- ‘द्वौ मम’, ‘द्वे तस्य’ इत्यादि द्रष्टव्यम् । ‘यं’ च ‘अहं’ ‘द्वेष्मि’ अहं यस्य द्वेषं करोमि, ‘तस्य’ एका पुत्री स्यादिति ब्रूयादिति प्रथमप्रयाजानुमन्त्रणमन्त्रशेषस्यार्थः । पुत्र्या रक्षणप्रदानादौ बहुतरदुःखसम्भवात् तच्छत्रोराशा स्यात् । यदि कस्मैचिदपि द्वेषं न कुर्यात्, तदा ‘यो ऽस्मानित्यादि ब्रूयात् । वस्तुतो द्वेषाभावे ऽपि रागादिभिर्द्वेषाचरणात् तन्निबन्धनं द्वेषमभिप्रेत्य ‘यं च वयं द्विष्मः’ इत्यभिधानम् ॥ १२-१५ ॥
Eggeling
- For this reason let him (the sacrificer) say 7, when the first fore-offering has been performed, ‘One (eka) for me!’ and ‘One (ekā) for him whom
we hate!’ And if he should not hate any one, let him say, ‘who hates us and whom we hate!’
१३
विश्वास-प्रस्तुतिः
(द्वौ) द्वौ ममे᳘ति द्विती᳘ये प्रयाजे॥
द्वे त᳘स्य᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म इ᳘ति॥
मूलम् - श्रीधरादि
(द्वौ) द्वौ ममे᳘ति द्विती᳘ये प्रयाजे॥
द्वे त᳘स्य᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म इ᳘ति॥
मूलम् - Weber
द्वौ ममे᳘ति द्विती᳘ये प्रयाजे᳟॥
द्वे त᳘स्यॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्म इ᳘ति॥
मूलम् - विस्वरम्
‘द्वौ मम’ इति द्वितीये प्रयाजे- ‘द्वे तस्य- यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः’ इति ॥ १३ ॥
सायणः
[व्याख्यानम् द्वादशे]
Eggeling
- With the second fore-offering, ‘Two (dvau) for me!’ and ‘Two (dve) for him who hates us and whom we hate!’
१४
विश्वास-प्रस्तुतिः
त्र᳘यो ममे᳘ति तृती᳘ये प्रयाजे᳘॥
तिस्रस्त᳘स्य᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति॥
मूलम् - श्रीधरादि
त्र᳘यो ममे᳘ति तृती᳘ये प्रयाजे᳘॥
तिस्रस्त᳘स्य᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति॥
मूलम् - Weber
त्र᳘यो ममे᳘ति तृती᳘ये प्रयाजे᳟॥
तिस्रस्त᳘स्यॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्म इ᳘ति॥
मूलम् - विस्वरम्
‘त्रयो मम’ इति तृतीये प्रयाजे- ‘तिस्रस्तस्य- यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः’ इति ॥ १४ ॥
सायणः
[व्याख्यानम् द्वादशे]
Eggeling
- With the third fore-offering, ‘Three (trayaḥ) for me!’ and ‘Three (tisraḥ) for him who hates us and whom we hate!’
१५
विश्वास-प्रस्तुतिः
चत्वा᳘रो ममे᳘ति चतुर्थे᳘ प्रयाजे॥
च᳘तस्रस्त᳘स्य᳘ यो ऽस्मान्द्वेष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति॥
मूलम् - श्रीधरादि
चत्वा᳘रो ममे᳘ति चतुर्थे᳘ प्रयाजे॥
च᳘तस्रस्त᳘स्य᳘ यो ऽस्मान्द्वेष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति॥
मूलम् - Weber
चत्वा᳘रो ममे᳘ति चतुर्थे᳘ प्रयाजे᳟॥
च᳘तस्रस्त᳘स्यॗ यो ऽस्मान्द्वेस्टि यं᳘च वयं᳘ द्विष्म इ᳘ति॥
मूलम् - विस्वरम्
‘चत्वारो मम’ इति चतुर्थे प्रयाजे- ‘चतस्रस्तस्य- यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः’ इति ॥ १५॥
सायणः
[व्याख्यानम् द्वादशे]
Eggeling
- With the fourth fore-offering, ‘Four (katvāraḥ) for me!’ and ‘Four (catasraḥ) for him who hates us and whom we hate!’
१६
विश्वास-प्रस्तुतिः
प᳘ञ्च ममे᳘ति पञ्चमे᳘ प्रयाजे॥
न त᳘स्य कि᳘ञ्चन᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति स प᳘ञ्च-पञ्चे᳘त्येव भ᳘वन्प᳘राभवति त᳘थास्य स᳘र्व्ँ वᳫ᳭सं᳘वृङ्क्ते स᳘र्व्वस्मात्सप᳘त्नान्नि᳘र्भजति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
प᳘ञ्च ममे᳘ति पञ्चमे᳘ प्रयाजे॥
न त᳘स्य कि᳘ञ्चन᳘ यो ऽस्मान्द्वे᳘ष्टि य᳘ञ्च व्वयं᳘ द्विष्म ऽइ᳘ति स प᳘ञ्च-पञ्चे᳘त्येव भ᳘वन्प᳘राभवति त᳘थास्य स᳘र्व्ँ वᳫ᳭सं᳘वृङ्क्ते स᳘र्व्वस्मात्सप᳘त्नान्नि᳘र्भजति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
प᳘ञ्च ममे᳘ति पञ्चमे प्रयाजे᳟॥
न त᳘स्य किं᳘ चनॗ यो ऽस्मान्द्वे᳘ष्टि यं᳘ च वयं᳘ द्विष्म इ᳘ति स प᳘ञ्च-पञ्चे᳘त्येव भ᳘वन्प᳘राभवति त᳘थास्य स᳘र्वᳫं सं᳘वृङ्क्ते स᳘र्वस्मात्सप᳘त्नान्नि᳘र्भजति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
‘पञ्च मम’ इति पञ्चमे प्रयाजे- ‘न तस्य किंचन- यो ऽस्मान् द्वेष्टि, यं च वयं द्विष्मः’ इति । स पञ्च पञ्चेत्येव भवन् पराभवति । तथास्य सर्वं संवृङ्क्ते -सर्वस्मात् सपत्नान् निर्भजति- य एवमेतद्वेद ॥ १६ ॥
सायणः
पञ्च ममेतीति । ‘पञ्चमे प्रयाजे पञ्च ममेति’ ब्रूयात् । पूर्ववद् द्वेष्टरि विपरीतफलकामनायां प्राप्तायामाह- न तस्य किञ्चनेति । ‘तस्य’ द्वेषकृतः शत्रोः ‘किञ्चन’ पञ्च पुत्राः पञ्च कन्या वा स्युरिति ‘न’ ब्रूयादित्यर्थः । असुरैः पञ्चसङ्ख्यायां मिथुनरूपस्य वचनस्यादर्शनादिति भावः 8 । उक्तार्थज्ञानं प्रशंसति- पञ्च-पञ्चेत्येवेति । ‘सर्वं’ ‘संवृङ्क्ते’ वर्जयति, स्वयं तत्प्राप्नोतीत्यर्थः ॥ १६ ॥ ५ ॥ [ ५. ४. ]
इति श्रीसायणाचार्यविरचिते मानवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमाध्याये चतुर्थं ब्राह्मणम् ॥
वेदार्थस्य 9 प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ ५ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं; सप्ताब्धीन् पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः ।
रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो; व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटञ्च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः; कार्पासीयं कृपावान् गुडकृतमजडो राजतं राजपूज्यः ।
आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा; रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीहरिहरमहाराजसाम्रज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमाध्यायः समाप्तः ॥ ५ ॥
Eggeling
- With the fifth fore-offering, ‘Five (pañca) for me!’ and ‘Nothing for him who hates us and whom we hate!’ For, there being ‘five’ to five,’ he (the enemy) is defeated, and whoever knows this, appropriates to himself everything that belongs to that (enemy of his), strips his enemies of everything.
-
प्राणित्वधर्मसमर्थनाय- इति क्व० पा० । ↩︎
-
अत्र यद्यपि शतपथे अविशेषेण श्रुतं “अथ तनूनपातं यजति” इति । परंतु शाखान्तरे ऽत्रास्ति विशेषो ऽपि । तथाहि । “वसिष्ठशुनकवार्घ्र्यश्वसंकृतिराजन्यवैश्यकण्वात्रिकश्यपप्रजापशुकामानां द्वितीयो नराशं ँ सस्तनूनपादन्येषाम्” इति का. हौ. सू. १ । ३ । २५ । इत्युपसंहृतम् । “नराशंसो अग्न आज्यस्य वेत्विति द्वितीयो वसिष्ठशुनकानामत्रिवार्घ्र्यश्वानां कण्वसंकृतीनां राजन्यानां प्रजाकामानां च” इति शांखा. १ । ७ । ३ । “तान्येतान्येकादशाप्रीसूक्तानि तेषां वासिष्ठमात्रेयं वार्घ्र्यश्वं गार्त्समदमितिनाराशंसवन्ति । मैधातिथं दैर्घतमसं प्रैषिकमित्युभयवन्ति अतो ऽन्यानि तनूनपान्त्विति" इति चाह यास्कः (नि्रु० ८ । ३ । ७) आपस्तंबस्तु “नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानां तनूनपादितरेषां गोत्राणां” इत्येवाह श्रौ. सू. १ । आश्वलायनेन त्विह बहून्युक्तानि तानि तत्रैव द्रष्टव्यानि । (श्रौ. सू. ३ । २ । १ । ८) प्रयाजयागदेवताविचारो ऽप्यस्ति । तत्र यास्केन हि- “किंदेवताः प्रयाजानुयाजाः" इत्युपक्रम्य बहुविचारानंतरं “आग्नेया इति तु स्थितिः” इति निर्णीतम् । (निरु० ८ । ३ । ६ । ७ ।) एतदवलम्ब्य मीमांसादर्शने ऽपि बहूनि सूत्राणि रचितानि (२ । २ । २ ॥ ३ । १ । १९-२० ॥ ३ । ३ । ११ ॥ ४ । १ । ३३–४१ ॥ ५ । २ । १६ ॥ ९ । २ । ५६-६० ॥ १० । १ । १४-१५ ।) एतान्येवावलम्ब्याष्टावधिकरणान्यारचितानि माधवाचार्येण जैमिनीयन्यायमालायाम् ॥ इति ॥ ↩︎
-
153:1 The Kāṇva recension has, ’the beasts retire more and more, and the birds fly lower and lower; and the vile-caste man (pāpavarṇaḥ purushaḥ) has his hair, as it were, falling off.’ ↩︎
-
अस्माभिरुक्तम् इ. क्व. पा. । ↩︎
-
अनुक्रमेण नितरां न आक्रामतीत्येव क्व० पा० । ↩︎
-
“एको मम एका तस्य यो ऽस्मान्द्वेष्टि यञ्च व्वयं द्विष्म इत्येवं मिथुनैर्यथासंख्यम्" इति का. श्रौ. सू. ३ । ३ । ३ । एते च मंत्रा भाषिकस्वरेण पठनीयाः मंत्रत्वादिति केचित् । ↩︎
-
154:1 Viz. as anumantraṇa, or after-call, supplementary prayer, pronounced immediately after the oblation has been poured into the fire. According to Kāty. III, 3, 5, a second anumantraṇa has to be added each time, consisting of a single word, viz. ‘brilliant,’ ‘respectable,’ ‘famous,’ ‘holy,’ ‘an eater of food’ [suppl. ‘may I become’] respectively. Differently the Black Yajus; cf. Hillebrandt, p. 96, note 6. ↩︎
-
उक्तमिदं सर्वं कात्यायनेनापि- ‘प्रयाजानुमन्त्रणमको ममैका तस्य यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इति’ (श्रौ. सू. ३ । ४५) ‘एवं मिथुनैर्यथासंख्यम्’ (श्रौ. सू. ३ । ४६) ‘न तस्य किंचनेति पञ्चमे’ (श्रौ. सू. ३ । ४७) अग्रे चात्रानुक्तः काम्यप्रयाजानुमन्त्रणविधिरपि- ‘त्विषिमानपचितिमान्यशस्वी ब्रह्मवर्चस्व्यन्नाद इति च’ (श्रौ. सू. ३. ४८) इति । अत्र च भूयासमित्यध्याहार उक्तो वृत्तिकारेण । ↩︎
-
श्लोका इमे ऽत्र न सन्ति क्वचित् पुस्तके । ↩︎