०१
विश्वास-प्रस्तुतिः
ऋत᳘वो ह वै᳘ प्रयाजाः॥
(स्त᳘) त᳘स्मात्प᳘ञ्च भवन्ति प᳘ञ्च᳘ ह्यृत᳘वः॥
मूलम् - श्रीधरादि
ऋत᳘वो ह वै᳘ प्रयाजाः॥
(स्त᳘) त᳘स्मात्प᳘ञ्च भवन्ति प᳘ञ्च᳘ ह्यृत᳘वः॥
मूलम् - Weber
ऋत᳘वो ह वै᳘ प्रयाजाः᳟॥
त᳘स्मात्प᳘ञ्च भवन्ति प᳘ञ्चॗ ह्यृत᳘वः॥
मूलम् - विस्वरम्
“प्रयाजबन्धुः ।”
ऋतवो ह वै प्रयाजाः । तस्मात्पञ्च भवन्ति, पञ्च हि ऋतवः ॥ १ ॥
सायणः
प्रयाजानुपरिष्टाद् विधास्यति; तत्रादौ तद्गतां सङ्ख्यां विधत्ते- ऋतवो ह वा इति । यस्माद्- ‘ऋतवः’ हेमन्तशिशिरयोरक्येन ‘पञ्च’ अतस्तदात्मका अपि ‘प्रयाजाः’ 1 ‘पञ्च’ कर्तव्याः ॥ १ ॥
Eggeling
- The fore-offerings (prayāja), assuredly, are the seasons: hence there are five of them, for there are five seasons.
०२
विश्वास-प्रस्तुतिः
(वो) देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिर ऽएत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संव्वत्स᳘रे ऽस्मा᳘कमयं᳘ भविष्यत्यस्मा᳘कमयं᳘ भविष्यती᳘ति॥
मूलम् - श्रीधरादि
(वो) देवा᳘श्च वा ऽअ᳘सुराश्च॥
(श्चो) उभ᳘ये प्राजापत्याः᳘ पस्पृधिर ऽएत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संव्वत्स᳘रे ऽस्मा᳘कमयं᳘ भविष्यत्यस्मा᳘कमयं᳘ भविष्यती᳘ति॥
मूलम् - Weber
देवा᳘श्च वा अ᳘सुराश्च॥
उभ᳘ये प्राजापत्याः᳘ पस्पृधिर एत᳘स्मिन्यज्ञे᳘ प्रजा᳘पतौ पित᳘रि संवत्स᳘रे ऽस्मा᳘कमयं᳘ भविष्यत्यस्मा᳘कमय᳘म् भविष्यती᳘ति॥
मूलम् - विस्वरम्
देवाश्च वा असुराश्च उभये प्राजापत्याः पस्पृधिरे- एतस्मिन् यज्ञे प्रजापतौ पितरि संवत्सरे ‘अस्माकमयं भविष्यति, अस्माकमयं भविष्यति’ इति ॥ २ ॥
सायणः
निर्वचनद्वारेण प्रशंसितुमाख्यायिकामाह- देवाश्चेति । स्पर्धाया विषयं दर्शयति- एतस्मिन्निति । ‘एतस्मिन्’ दर्शपूर्णमासात्मके ‘यज्ञे’ ‘प्रजापतौ’; आश्रावयास्तु श्रौषडित्यादिसप्तदशात्मकस्य प्रजापतेर्यज्ञरूपत्वाद्- यज्ञे प्रजापतौ- इति सामानाधिकरण्यम् । स च सर्वोत्पादकत्वात् ‘पिता’; तस्य च ‘संवत्सरः प्रजापतिः’ “सो ऽस्य सर्वस्य प्रजनयिता" च इति श्रुतेः (ऐ. ब्रा. २ । २ । ७; २ । ५ । ७) संवत्सरात्मकत्वम् । उक्तरूपे प्रजापतौ ‘अयमस्माकमेव भविष्यति, अस्माकमेवेति’ स्पर्द्धामकुर्वन् ॥ २ ॥
Eggeling
- The gods and the Asuras, both of them sprang from Prajāpati, were once contending for this sacrifice, (which is) their father Prajāpati, the year: ‘Ours it (he) shall be!’ ‘Ours it (he) shall be!’ they said.
०३
विश्वास-प्रस्तुतिः
त᳘तो देवाः॥
(ऽ) अ᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएता᳘न्प्रयाजा᳘न्ददृशुस्तै᳘रयजन्त तै᳘र्ऋतू᳘न्त्संव्वत्सरं प्रा᳘जयन्नृतु᳘भ्यः संव्वत्सरा᳘त्सपत्नानन्त᳘रायंस्त᳘स्मात्प्रजयाः᳘ प्रजया᳘ ह वै ना᳘मैतद्य᳘त्प्रयाजा ऽइ᳘ति त᳘थो ऽए᳘वैष᳘ ऽएतै᳘ ऽर्ऋतू᳘न्त्संव्वत्सरं प्र᳘जयत्यृतु᳘भ्यः संव्वत्सरा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्प्रयाजै᳘र्यजते३॥
मूलम् - श्रीधरादि
त᳘तो देवाः॥
(ऽ) अ᳘र्च्चन्तः श्रा᳘म्यन्तश्चेरुस्त᳘ ऽएता᳘न्प्रयाजा᳘न्ददृशुस्तै᳘रयजन्त तै᳘र्ऋतू᳘न्त्संव्वत्सरं प्रा᳘जयन्नृतु᳘भ्यः संव्वत्सरा᳘त्सपत्नानन्त᳘रायंस्त᳘स्मात्प्रजयाः᳘ प्रजया᳘ ह वै ना᳘मैतद्य᳘त्प्रयाजा ऽइ᳘ति त᳘थो ऽए᳘वैष᳘ ऽएतै᳘ ऽर्ऋतू᳘न्त्संव्वत्सरं प्र᳘जयत्यृतु᳘भ्यः संव्वत्सरा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्प्रयाजै᳘र्यजते३॥
मूलम् - Weber
त᳘तो देवाः᳟॥
अ᳘र्चन्तः श्रा᳘म्यन्तश्चेरुरस्त᳘ एता᳘न्प्रयाजा᳘न्ददृशुस्तै᳘रयजन्त तै᳘रृतू᳘न्त्संवत्सरम् प्रा᳘जयन्नृतु᳘भ्यः संवत्सरा᳘त्सपत्नानन्त᳘रायंस्त᳘स्मात्प्रजयाः᳘ प्रजया᳘ ह वै ना᳘मैतद्य᳘त्प्रयाजा इ᳘ति त᳘थो एॗवैष᳘ एतै᳘रृतू᳘न्त्संवत्सरम् प्र᳘यजत्यृतु᳘भ्यः संवत्सरा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्प्रयाजै᳘र्यजते॥
मूलम् - विस्वरम्
ततो देवा अर्चन्तः श्राम्यन्तश्चेरुः, त एतान् प्रयाजान् ददृशुः- तैरयजन्त । तैर्ऋतून् संवत्सरं प्राजयन्- ऋतुभ्यः संवत्सरात् सपत्नानन्तरायन्; तस्मात्प्रजयाः । प्रजया ह वै नामैतद्- यत्प्रयाजाः- इति । तथो एवैष एतैर्ऋतून् संवत्सरं प्रजयति, ऋतुभ्यः संवत्सरात्सपत्नानन्तरेति । तस्मात् प्रयाजैर्यजते ॥ ३ ॥
सायणः
तत इति । ते ‘देवाः’ ‘अर्चन्तः’ तत्पूजयन्तः, ‘श्राम्यन्तः’ आत्मानं क्लेशयन्तः ‘चेरुः’ अन्वतिष्ठन्,- तत्साधनमन्वतिष्ठन् । ‘तत एतान् प्रयाजान्’ प्रजापतिजयलाभोपायत्वेन दृष्ट्वा, ‘तैः’ इष्ट्वा; तत्फलभूतान् ‘ऋतून्’, तद्द्वारा ‘संवत्सरं’ च प्राजयन् । जितेभ्यस्तेभ्यः सकाशात् स्वसपत्नान् असुरान् विरहितान् अकुर्वन् । ‘तस्मात्’ प्रजयसाधनत्वादेते ‘प्रजयाः- प्रजयाः’ इत्येतदस्ति, एतन्नामतः ‘प्रयाजाः’ खलु । यथा देवाः, ‘तथा’ एव ‘एषः’ इदानीन्तनो ऽपि यजमानः ‘एतैः’ प्रयाजैः ऋतुसंवत्सरजयद्वारा स्वशत्रून् ऋतुसंवत्सरेर्व्यवहितान् करोति ॥ ३ ॥
Eggeling
- Then the gods went on praising and toiling. They saw these fore-offerings and worshipped with them. By means of them they gained (pra-ji) the seasons, the year; they deprived their rivals of the seasons, of the year: hence (the fore-offerings are) victories (prajaya), for, assuredly, prajaya is the very same term as prayāja (fore-offering) 2. And in the same way this one (the sacrificer) wins by means of them the seasons, the year; deprives his rivals of the seasons, of the year. This is the reason why he performs the fore-offerings.
०४
विश्वास-प्रस्तुतिः
ते वा ऽआ᳘ज्यहविषो भवन्ति॥
व्व᳘ज्रो वा ऽआ᳘ज्यमेते᳘न वै᳘ देवा व्व᳘ज्रेणा᳘ज्येन ऽर्तू᳘न्त्संवत्सरं प्रा᳘जयन्नृतु᳘भ्यः संव्वत्सरा᳘त्सप᳘त्नानन्त᳘रायंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येनर्तू᳘न्त्संव्वत्सरं प्र᳘जयत्यृतु᳘भ्यः संव्वत्सरा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - श्रीधरादि
ते वा ऽआ᳘ज्यहविषो भवन्ति॥
व्व᳘ज्रो वा ऽआ᳘ज्यमेते᳘न वै᳘ देवा व्व᳘ज्रेणा᳘ज्येन ऽर्तू᳘न्त्संवत्सरं प्रा᳘जयन्नृतु᳘भ्यः संव्वत्सरा᳘त्सप᳘त्नानन्त᳘रायंस्त᳘थो ऽए᳘वैष᳘ ऽएते᳘न व्व᳘ज्रेणा᳘ज्येनर्तू᳘न्त्संव्वत्सरं प्र᳘जयत्यृतु᳘भ्यः संव्वत्सरा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - Weber
ते वा आ᳘ज्यहविषो भवन्ति॥
व᳘ज्रो वा आ᳘ज्यमेते᳘न वै᳘ देवा व᳘ज्रेणा᳘ज्येनर्तू᳘न्त्संवत्सरम् प्रा᳘जयन्नृतु᳘भ्यः संवत्सरा᳘त्सप᳘त्नानन्त᳘रायंस्त᳘थो एॗवैष᳘ एते᳘न व᳘ज्रेणा᳘ज्येनर्तू᳘न्त्संवत्सरम् प्र᳘जयत्यृतु᳘भ्यः संवत्सरा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - विस्वरम्
ते वा आज्यहविषो भवन्ति । वज्रो वा आज्यम्, एतेन वै देवा वज्रेणाज्येन ऋतून संवत्सरं प्राजयन्-ऋतुभ्यः संवत्सरात् सपत्नान् अन्तरायन्, तथो एवैष एतेन वज्रेणाज्येन ऋतून् संवत्सरं प्रजयति- ऋतुभ्यः संवत्सरात् सपत्नान् अन्तरेति । तस्मादाज्यहविषो भवन्ति ॥ ४ ॥
सायणः
ते वा इति । हूयत इति ‘हविः’ द्रव्यम्, तत्तेषामाज्यात्मकं कर्तव्यत् । सपत्नघातकत्वात् तदाज्यस्य वज्रत्वम् । वैशब्देन सूचितां वज्रत्वप्रसिद्धिमुपपादयति- यतः ‘एतेन ह्याज्येन 3 प्रयाजयागद्वारा सपत्नानजयन्, अतो ऽस्य वज्रत्वं सिद्धमित्यर्थः । “तथो” -इत्यादिर्दृष्टान्तः ॥ ४ ॥
Eggeling
- The sacrificial food at these offerings consists of
clarified butter. Now the butter, indeed, is a thunderbolt, and with that thunderbolt, the butter, the gods gained the seasons, the year, and deprived their rivals of the seasons, of the year. And with that thunderbolt, the butter, he now, in the same way, gains the seasons, the year, and deprives his enemies of the seasons, of the year. For this reason clarified butter forms the sacrificial food at these (offerings).
०५
विश्वास-प्रस्तुतिः
(न्त्ये) एतद्वै᳘ संव्वत्सर᳘स्य स्वं प᳘यः॥
(यो) यदा᳘ज्यं तत्स्वे᳘नै᳘वैनमेतत्प᳘यसा देवाः᳘ स्व्यकुर्व्वत त᳘थो ऽए᳘वैनमेष᳘ ऽएतत्स्वे᳘नैव प᳘यसा स्वी᳘कुरुते त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - श्रीधरादि
(न्त्ये) एतद्वै᳘ संव्वत्सर᳘स्य स्वं प᳘यः॥
(यो) यदा᳘ज्यं तत्स्वे᳘नै᳘वैनमेतत्प᳘यसा देवाः᳘ स्व्यकुर्व्वत त᳘थो ऽए᳘वैनमेष᳘ ऽएतत्स्वे᳘नैव प᳘यसा स्वी᳘कुरुते त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - Weber
एतद्वै᳘ संवत्सर᳘स्य स्वम् प᳘यः॥
यदा᳘ज्यं तत्स्वे᳘नैॗवैनमेतत्प᳘यसा देवाः स्व्य᳘कुर्वत त᳘थो एॗवैनमेष᳘ एतत्स्वे᳘नैव प᳘यसा स्वी᳘कुरुते त᳘स्मादा᳘ज्यहविषो भवन्ति॥
मूलम् - विस्वरम्
एतद्वै संवत्सरस्य स्वं पयः- यदाज्यम् । तत् स्वेनैवैनमेतत्पयसा देवाः स्व्यकुर्वत । तथो एवैनमेष एतत् स्वेनैव पयसा स्वीकुरुते । तस्मादाज्यहविषो भवन्ति ॥ ५ ॥
सायणः
प्रकारान्तरेणाज्यद्रव्यकत्वं प्रशंसति- एतद्वा इति । आज्यमिति यदस्ति, ‘एतत्’ खलु संवत्सरस्य ‘स्वं पयः’। प्रतिनियतधनरूपं क्षीरम्; पयःकार्यत्वादाज्यमपि पयः; गोमहिष्यादीनां संवत्सरपर्यन्तं प्रायेण दोहात्मत्वम् 3 । ‘तत्’ तस्माद् ‘देवाः’ पूर्वम् ‘एनं’ प्रजापतिं ‘स्वेनैव’ स्वद्रव्यभूतेनैव ‘पयसा’ ‘स्व्यकुर्वत’ स्वकीयधनवत्तामगमयन् । ‘तथा’ एवेदानीमपि यजमानः प्रयाजानाज्येन यजन् प्रजापतिमेव स्वद्रव्यतां करोति । अतस्तेषामाज्यहविष्कत्वं प्रशस्तम् ॥ ५ ॥
Eggeling
- Now this butter is the year’s own liquor: hence the gods gained it (the year) by means of its own liquor; and in the same way he also now gains it by means of its own liquor. This is the reason why clarified butter forms the sacrificial food at these (fore-offerings).
०६
विश्वास-प्रस्तुतिः
स य᳘त्रैव ति᳘ष्ठन्प्रयाजे᳘भ्य ऽआश्राव᳘येत्॥
(त्त᳘) त᳘त ऽएव ना᳘पक्रामेत्सङ्ग्रामो वा᳘ ऽएष᳘ सन्नि᳘धीयते यः᳘ प्रयाजैर्य᳘जते यतरो वै सं᳘यत्तयोः पराज᳘यते᳘ ऽप वै स᳘ क्रामत्यभितरा᳘मु वै ज᳘यन्क्रामति त᳘स्मादभितरा᳘मभितरामेव क्रा᳘मेदभितरा᳘मभितरामा᳘हुतीर्जुहुयात्॥
मूलम् - श्रीधरादि
स य᳘त्रैव ति᳘ष्ठन्प्रयाजे᳘भ्य ऽआश्राव᳘येत्॥
(त्त᳘) त᳘त ऽएव ना᳘पक्रामेत्सङ्ग्रामो वा᳘ ऽएष᳘ सन्नि᳘धीयते यः᳘ प्रयाजैर्य᳘जते यतरो वै सं᳘यत्तयोः पराज᳘यते᳘ ऽप वै स᳘ क्रामत्यभितरा᳘मु वै ज᳘यन्क्रामति त᳘स्मादभितरा᳘मभितरामेव क्रा᳘मेदभितरा᳘मभितरामा᳘हुतीर्जुहुयात्॥
मूलम् - Weber
स य᳘त्रैव ति᳘ष्ठन्प्रयाजे᳘भ्य आश्राव᳘येत्॥
त᳘त एव ना᳘पक्रामेत्संग्रामो वा᳘ एष᳘ संनि᳘धीयते यः᳘ प्रयाजैर्य᳘जते यतरो वै सं᳘यत्तयोः पराज᳘यते᳘ ऽप वै स᳘ क्रामत्यभितरा᳘मु वै ज᳘यङ्क्रामति त᳘स्मादभितरा᳘मभितरामेव क्रा᳘मेदभितरा᳘मभितरामा᳘हुतीर्जुहुयात्॥
मूलम् - विस्वरम्
स यत्रैव तिष्ठन् प्रयाजेभ्य आश्रावयेत्, तत एव नापक्रामेत् । सङ्ग्रामो वा एष सन्निधीयते- यः प्रयाजैर्यजते; यतरो वै संयत्तयोः पराजयते- अप वै स क्रामति, अभितरामु वै जयन् क्रामति । तस्मादभितरामभितरामेव क्रामेद्, अभितरामभितरामाहुतीर्जुहुयात् ॥ ६ ॥
सायणः
प्रयाजहोमविषये स्थाननियममाह- स यत्रैवेति । ‘प्रयाजेभ्यः’ प्रयाजार्थं ‘यत्रैव’ प्रदेशे स्थितः ‘आश्रावयेत्’ ‘ततः’ पश्चात् ‘नापक्रामेत्’ । अनपक्रमे कारणमाह- सङ्ग्रामो वेति । ‘यः प्रयाजैर्यजते’ अयं युद्धाय ‘सङ्ग्रामः सन्निधीयते’ अतो युद्धाय ‘सङ्गतयोः’ मध्ये ‘यः पराजयते’, ‘सो ऽपक्रामति’ पश्चात् पलायते । तस्मादपक्रमणं न युक्तमित्यर्थः ।
अथ पुरो ऽभिक्रमणपक्षमुपन्यस्य निराकरोति- अभितराम्विति । ‘जयन्’ कश्चिज्जिगीषुः ‘अभितरामु वै’ शत्रोरत्यन्तमभिमुखं खलु ‘क्रामति’ यस्मादेवं ‘तस्मात्’ प्रयाजमभिमुखमभिमुखमीषदीषत्पुरस्तादाक्रामेत्। आक्रमणानुसारेणाग्नावपि ईषदीषत्पुरस्तादाक्रम्य 4 ‘जुहुयात्’ ॥ ६ ॥
Eggeling
- Let him (the Adhvaryu) not move from that same spot where he may be standing when he calls for the fore-offerings. A battle, it is true, is witnessed whenever any one performs the fore-offerings, and whichever of the two combatants is worsted, that one, no doubt, retreats; and he who obtains the victory, advances still nearer: he (the Adhvaryu) might therefore (feel inclined to) step nearer and nearer (to the fire), and offer the oblations (while moving) nearer and nearer 5.
०७
विश्वास-प्रस्तुतिः
(त्त᳘) त᳘दु त᳘था न᳘ कुर्यात्॥
(द्य᳘) य᳘त्रैव ति᳘ष्ठन्प्रयाजे᳘भ्य ऽआश्राव᳘येत्त᳘त ऽएव ना᳘पक्रामेद्य᳘त्रो ऽएव स᳘मिद्धतमं म᳘न्येत तदा᳘हुतीर्जुहुयात्समिद्धहोमे᳘न᳘ ह्येव स᳘मृद्धा ऽआ᳘हुतयः॥
मूलम् - श्रीधरादि
(त्त᳘) त᳘दु त᳘था न᳘ कुर्यात्॥
(द्य᳘) य᳘त्रैव ति᳘ष्ठन्प्रयाजे᳘भ्य ऽआश्राव᳘येत्त᳘त ऽएव ना᳘पक्रामेद्य᳘त्रो ऽएव स᳘मिद्धतमं म᳘न्येत तदा᳘हुतीर्जुहुयात्समिद्धहोमे᳘न᳘ ह्येव स᳘मृद्धा ऽआ᳘हुतयः॥
मूलम् - Weber
त᳘दु त᳘था न᳘ कुर्यात्॥
य᳘त्रैव ति᳘ष्ठन्प्रयाजे᳘भ्य आश्राव᳘येत्त᳘त एव ना᳘पक्रामेद्य᳘त्रो एव स᳘मिद्धतमम् म᳘न्येत तदा᳘हुतीर्जुहुयात्समिद्धहोमे᳘नॗ ह्येव स᳘मृद्धा आ᳘हुतयः॥
मूलम् - विस्वरम्
तदु तथा न कुर्यात् । यत्रैव तिष्ठन् प्रयाजेभ्य आश्रावयेत्- तत एव नापक्रामेद्; यत्रो एव समिद्धतमं मन्येत- तदाहुतीर्जुहुयात् । समिद्धहोमेन ह्येव समृद्धा आहुतयः ॥ ७ ॥
सायणः
अमुं पक्षं निषेधति- तद्विति । तर्हि कथमित्याशङ्क्य पूर्वोक्तमेव पक्षं निगमयति- यत्रैवेति । आश्रावणस्य प्रदानाङ्गतया तयोः प्रदेशैक्यलाभादित्यभिप्रायः । पक्षान्तरमाह-यत्रो एवेति । आहवनीयमध्ये यस्मिन्नेव प्रदेशे ऽग्निं प्रज्वलितं मन्येत, तत्र पञ्चापि ‘आहुतीर्जुहुयात्’ । ‘हि’ यस्मात् समिद्धाग्निदेशहोमात् ‘आहुतयः’ अपि ‘समिद्धाः’ प्रदीप्ताः, फलजननसमर्थाः स्युः, अतो ऽयमेव पक्षः श्रेयान् ॥ ७ ॥
Eggeling
- This, however, he should not do; he should not move from that same spot where he may be standing when he calls for the fore-offerings. Let
him rather offer the (five) oblations in that part (of the fire) where he thinks there is the fiercest blaze; for only by being offered in blazing (fire), oblations are successful.
०८
विश्वास-प्रस्तुतिः
स᳘ ऽआश्रा᳘व्याह॥
समि᳘धो यजे᳘ति त᳘द्वसन्तᳫँ᳭ स᳘मिन्धे स᳘ व्वसन्तः स᳘मिद्धो ऽन्या᳘नृतून्त्स᳘मिन्ध ऽऋत᳘वः स᳘मिद्धाः प्रजा᳘श्च प्रजन᳘यन्त्यो᳘षधीश्च पचन्ति त᳘द्वेव ख᳘लु स᳘र्व्वानृतून्नि᳘राहा᳘थ य᳘ज-यजे᳘त्येवो᳘त्तरानाहा᳘जामितायै जामि᳘ ह कुर्याद्यत्त᳘नून᳘पातं यजे᳘डो यजे᳘ति ब्रूयात्त᳘स्माद्य᳘ज-यजे᳘त्येवो᳘त्तरानाह॥
मूलम् - श्रीधरादि
स᳘ ऽआश्रा᳘व्याह॥
समि᳘धो यजे᳘ति त᳘द्वसन्तᳫँ᳭ स᳘मिन्धे स᳘ व्वसन्तः स᳘मिद्धो ऽन्या᳘नृतून्त्स᳘मिन्ध ऽऋत᳘वः स᳘मिद्धाः प्रजा᳘श्च प्रजन᳘यन्त्यो᳘षधीश्च पचन्ति त᳘द्वेव ख᳘लु स᳘र्व्वानृतून्नि᳘राहा᳘थ य᳘ज-यजे᳘त्येवो᳘त्तरानाहा᳘जामितायै जामि᳘ ह कुर्याद्यत्त᳘नून᳘पातं यजे᳘डो यजे᳘ति ब्रूयात्त᳘स्माद्य᳘ज-यजे᳘त्येवो᳘त्तरानाह॥
मूलम् - Weber
स᳘ आश्रा᳘व्याह॥
समि᳘धो यजे᳘ति त᳘द्वसन्तᳫं स᳘मिन्द्धे स᳘ वसन्तः स᳘मिद्धो ऽन्या᳘नृतून्त्स᳘मिन्द्ध ऋत᳘वः स᳘मिद्धाः प्रजा᳘श्च प्रजना᳘यन्त्यो᳘षधीश्च पचन्ति त᳘द्वेव ख᳘लु स᳘र्वानृतून्नि᳘राहा᳘थ य᳘ज-यजे᳘त्येवो᳘त्तरानाहा᳘जामितायै जामि᳘ ह कुर्याद्यत्त᳘नून᳘पातं यजे᳘डो यजे᳘ति ब्रूयात्त᳘स्माद्य᳘ज-यजे᳘त्येवो᳘त्तरानाह॥
मूलम् - विस्वरम्
“उत्तरः प्रैषः ।”
स आश्राव्य आह- ‘समिधो यज’ इति । तद् वसन्तं समिन्धे, स वसन्तः समिद्धो अन्यान् ॠतून् समिन्धे, ऋतवः समिद्धाः प्रजाश्च प्रजनयन्ति, ओषधीश्च पचन्ति । तदेव खलु सर्वानृतून् निराह । अथ ‘यज यज’ इत्येव उत्तरानाह- अजामितायै । जामि ह कुर्याद्- यत् ‘तनूनपातं यज, इडो यज’ इति ब्रूयात् । तस्माद्यज यजेत्येवोत्तरानाह ॥ ८ ॥
सायणः
आश्रावणानन्तरं कर्तव्यमाह- स इति । हे होतः ! समिन्नामिका अग्निमूर्तीः प्रति तासां यागाय याज्यां पठेति प्रैषार्थः । तेन प्रैषेण साक्षाद् ‘वसन्तम्’ एव ‘समिन्धे’ दीप्तं करोति । न केवलं तस्यैव समिन्धनम्, अपि तु तद्द्वारा सर्वेषामप्यृतूनां समिन्धनं कृतं भवति । तथा च सति सर्वे ऋतवः स्व-स्व-कालोचिताः ‘प्रजाः’ सर्वा अभ्युत्पादयन्ति, तदुपजीवनाय ‘ओषधीश्च पचन्ति’ । तद्वेवेति । यस्मादेव कारणात् वसन्तसमिन्धनेन स्वयमपि समिद्धाः सन्तः प्राप्युत्पादनमोषधिपाकं चैव कुर्वन्ति, तस्माद्वसन्तः समिद्धो ऽन्यान् ऋतून् समिन्ध इति ‘सर्वान् ऋतून् निराह’ । समिद्यागवदितरेषामपि नामनिर्द्देशपूर्वकत्वप्रसक्तौ तन्निवारयति- अथ यजयजेति । तदनिर्द्देशस्य प्रयोजनमाह- अजामिताया इति । अनतिरेकाय । “जाम्यातिरेकनाम" 4– इति यास्कः (निरु. ४. ३. ४.) एकस्मिन् प्रथमे समिद्यागे नामनिर्द्देशे सतीतरेषामप्यूहयितुं शक्यत्वेन निर्द्देशप्रायत्वात् पुनर्नामनिर्द्देशे ‘जामि’ भवेत् । जामित्वपक्षमुदाहृत्य प्रदर्शयति- जामि हेति । अतस्तनूनपात्प्रभृतीन् ‘यज-यजेति’ एवं ब्रूयात् 6 ॥ ८ ॥
Eggeling
- He (the Adhvaryu), having called (on, and having been responded to by, the Āgnīdhra), says (to the Hotr̥), ‘Pronounce the offering-prayer (yājyā) to the Samidhs (kindling-sticks)!’ Thereby he kindles the spring; the spring, when kindled, kindles the other seasons; the seasons, when kindled, generate the creatures and ripen the plants. In the same (formula) he also implies the (four) remaining seasons, and in order to avoid sameness, he introduces the others by merely saying each time, ‘Pronounce the offering-prayer!’ For were he to say, ‘Pronounce the offering-prayer to Tanūnapāt!’ ‘Pronounce the offering-prayer to the Iḍs!’ and so on, he would commit (the fault of) repetition: hence he introduces the remaining (seasons or fore-offerings) by merely saying each time, ‘Pronounce the offering-prayer 7!’
०९
विश्वास-प्रस्तुतिः
स वै᳘ समि᳘धो यजति॥
व्वसन्तो वै᳘ समि᳘द्वसन्त᳘मेव त᳘द्देवा ऽअ᳘वृञ्जत व्वसन्ता᳘त्सप᳘त्नानन्त᳘रायन्वसन्त᳘म्वे᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ व्वसन्ता᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्समि᳘धो यजति᳘॥
मूलम् - श्रीधरादि
स वै᳘ समि᳘धो यजति॥
व्वसन्तो वै᳘ समि᳘द्वसन्त᳘मेव त᳘द्देवा ऽअ᳘वृञ्जत व्वसन्ता᳘त्सप᳘त्नानन्त᳘रायन्वसन्त᳘म्वे᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ व्वसन्ता᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्समि᳘धो यजति᳘॥
मूलम् - Weber
स वै᳘ समि᳘धो यजति॥
वसन्तो वै᳘ समि᳘द्वसन्त᳘मेव त᳘द्देवा अ᳘वृञ्जत वसन्ता᳘त्सप᳘त्नानन्त᳘रायन्वसन्त᳘मेॗवैष᳘ एत᳘द्वृङ्क्ते᳘ वसन्ता᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्समि᳘धो यजति॥
मूलम् - विस्वरम्
“प्रयाजब्राह्मणम्” ।
स वै ( १ ) “समिधो” यजति । वसन्तो वै समिद् । वसन्तमेव तद्देवा अवृञ्जत- वसन्तात् सपत्नानन्तरायन् । वसन्तमु एवैष एतद् वृङ्क्ते- वसन्तात् सपत्नानन्तरेति । तस्मात्समिधो यजति ॥ ९ ॥
सायणः
“ऋतवो ह वै” इत्यत्र सङ्घशो विहिताः पञ्च 8 प्रयाजाः, तेष्वेकैकं विधाय प्रशंसति- स वै समिध इत्यादिना । अत्र समिदादीनां वसन्ताद्यात्मतया स्तुतौ सङ्ख्यासाम्यमेव साधारणम्, कारणविशेषस्तु तत्र प्रदर्श्यते- वसन्तो वा इत्यादि । वसन्ते ऽपि निखिलवृक्षाणां कुसुमाद्युद्गमेन प्रदीप्तता ऽस्तीति समिधो वसन्तत्वाभिधानम् । अतः ‘तत्’ तेन समिद्यागेन ‘वसन्तमेव अवृञ्जत’ स्वैर्लब्धत्वादसुरेभ्यस्तंवर्जितमकुर्वन् । तस्माद् ‘वसन्तात्’ ‘सपत्नान्’ असुरान् अन्तरायन् । यद्येषां नास्ति, तेन ते ऽन्तर्हिता इति प्रसिद्धम् ।
पुरातनवृत्तान्तप्रदर्शनस्य प्रयोजनमाह- वसन्तम्विति । ‘उ’ अपि च, इदानीमपीत्यर्थः । ‘एतत्’ एतेन समिद्यागेन ‘वसन्तमेव वृङ्क्ते’ वर्जयति, स्वसपत्नेभ्य 6 इत्यर्थः । सिद्धमन्यत् । एवमुत्तरवाक्यान्यपि योज्यानि ॥ ९ ॥
Eggeling
- He (the Hotr̥) now pronounces the offering-prayer (yājyā) to the Samidhs. The samidh (kindler), doubtless, is the spring. The gods, at that time, appropriated the spring, and deprived their rivals of the spring; and now this one (the
sacrificer) also appropriates the spring, and deprives his rivals of the spring: this is the reason why he pronounces the offering-prayer to the Samidhs.
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ त᳘नून᳘पातं यजति॥
ग्रीष्मो वै त᳘नून᳘पाद्ग्रीष्मो᳘ ह्यासां᳘ प्रजा᳘नां तनूस्त᳘पति ग्रीष्म᳘मेव त᳘द्देवा ऽअ᳘वृञ्जत ग्रीष्मा᳘त्सप᳘त्नानन्त᳘रायन्ग्रीष्म᳘म्वे᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ ग्रीष्मा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्त᳘नून᳘पातं यजति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ त᳘नून᳘पातं यजति॥
ग्रीष्मो वै त᳘नून᳘पाद्ग्रीष्मो᳘ ह्यासां᳘ प्रजा᳘नां तनूस्त᳘पति ग्रीष्म᳘मेव त᳘द्देवा ऽअ᳘वृञ्जत ग्रीष्मा᳘त्सप᳘त्नानन्त᳘रायन्ग्रीष्म᳘म्वे᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ ग्रीष्मा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्त᳘नून᳘पातं यजति॥
मूलम् - Weber
अ᳘थ त᳘नून᳘पातं यजति॥
ग्रीष्मो वै त᳘नून᳘पाद्ग्रीष्मोॗ ह्यासा᳘म् प्रजा᳘नां तनूस्त᳘पति ग्रीष्म᳘मेव त᳘द्देवा अ᳘वृञ्जत ग्रीष्मा᳘त्सप᳘त्नानन्त᳘रायङ्ग्रीष्म᳘मेवैष एत᳘द्वृङ्क्ते᳘ ग्रीष्मा᳘त्सप᳘त्नानन्त᳘रेति त᳘स्मात्त᳘नून᳘पातं यजति॥
मूलम् - विस्वरम्
अथ ( २ ) **“तनूनपातं” यजति । ग्रीष्मो वै तनूनपाद्- ग्रीष्मो हि आसां प्रजानां तनूस्तपति । ग्रीष्ममेव तद्देवा अवृञ्जत-ग्रीष्मात् सपत्नानन्तरायन् । ग्रीष्ममु एवैष एतद् वृङ्क्ते- ग्रीष्मात् सपत्नानन्तरेति । तस्मात्तनूनपातं यजति ॥ १० ॥
सायणः
अथ तनूनपातमित्यादि । ग्रीष्मस्य तनूनपात्साम्यं दर्शयति- ग्रीष्मो हीति । अस्य सकलप्रजाशरीरतापकत्वेन तनूनां पालकत्वात् तनूनपात्त्वम्; अतो ऽर्थतः साम्याद् ग्रीष्मस्तनूनपात् 8 । शिष्टं पूर्ववत् ॥ १० ॥
Eggeling
- After that he pronounces the offering-prayer to Tanūnapāt. Tanūnapāt, doubtless, is the summer; for the summer burns the bodies (tanūn tapati) of these creatures. The gods, at that time, appropriated the summer, and deprived their rivals of the summer; and now this one also appropriates the summer, and deprives his rivals of the summer: this is the reason why he pronounces the offering-prayer to Tanūnapāt.
११
विश्वास-प्रस्तुतिः
(त्य) अथे᳘डो यजति॥
व्वर्षा वा ऽइ᳘ड इ᳘ति हि᳘ व्वर्षा ऽइ᳘डो य᳘दिदं᳘ क्षुद्र᳘ᳫँ᳘ सरीसृपं᳘ ग्रीष्महेमन्ता᳘भ्यां नि᳘त्यक्तं भ᳘वति त᳘द्वर्षा᳘ ऽईडित᳘मिवा᳘न्नमिच्छ᳘मानं चरति त᳘स्माद्वर्षा ऽइ᳘डो व्वर्षा᳘ ऽएव त᳘द्देवा ऽअ᳘वृञ्जत व्वर्षा᳘भ्यः सप᳘त्नानन्त᳘रायन्वर्षा᳘ ऽउ ऽए᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ व्वर्षा᳘भ्यः सप᳘त्नानन्त᳘रेति त᳘स्मादि᳘डो यजति॥
मूलम् - श्रीधरादि
(त्य) अथे᳘डो यजति॥
व्वर्षा वा ऽइ᳘ड इ᳘ति हि᳘ व्वर्षा ऽइ᳘डो य᳘दिदं᳘ क्षुद्र᳘ᳫँ᳘ सरीसृपं᳘ ग्रीष्महेमन्ता᳘भ्यां नि᳘त्यक्तं भ᳘वति त᳘द्वर्षा᳘ ऽईडित᳘मिवा᳘न्नमिच्छ᳘मानं चरति त᳘स्माद्वर्षा ऽइ᳘डो व्वर्षा᳘ ऽएव त᳘द्देवा ऽअ᳘वृञ्जत व्वर्षा᳘भ्यः सप᳘त्नानन्त᳘रायन्वर्षा᳘ ऽउ ऽए᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ व्वर्षा᳘भ्यः सप᳘त्नानन्त᳘रेति त᳘स्मादि᳘डो यजति॥
मूलम् - Weber
अथे᳘डो यजति॥
वर्षा वा इ᳘ड इ᳘ति हि᳘ वर्षा इ᳘डो य᳘दिदं᳘ क्षुद्र᳘ᳫं᳘ 8 सरीसृपं᳘ ग्रीष्महेमन्ता᳘भ्यां नि᳘त्यक्तम् भवति त᳘द्वर्षा᳘ ईडित᳘मिवा᳘न्नमिछ᳘मानं चरति त᳘स्माद्वर्षा इ᳘डो वर्षा᳘ एव तद्देवा अ᳘वृञ्जत वर्षा᳘भ्यः सप᳘त्नानन्त᳘रायन्वर्षा᳘ उ एॗवैष᳘ एत᳘द्वृङ्क्ते᳘ वर्षा᳘भ्यः सप᳘त्नानन्त᳘रेति त᳘स्मादि᳘डो यजति॥
मूलम् - विस्वरम्
अथ ( ३ ) **“इडो” यजति । वर्षा वा इडः । इति हि वर्षा इडः- **यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्तं भवति- तद् वर्षा ईडितमिवान्नमिच्छमानं चरति- तस्माद्वर्षा इडः । वर्षा एव तद् देवा अवृञ्जत- वर्षाभ्यः सपत्नानन्तरान् । वर्षा उ एवैष एतद् वृङ्क्ते- वर्षाभ्यः सपत्नानन्तरेति । तस्मादिडो यजति ॥ ११ ॥
सायणः
अथेड इत्यादि । इड इत्येतद्देवता यजेत । इडो वर्षात्वेनोपचारे स्त्रीत्वं बहुत्वञ्च बीजम् । उक्तं साम्यं समर्थयते- इति हीति । ‘हि’ एवं खलु ‘इडो वर्षाः’ । कथमिति तत्राह- ‘यदिदं क्षुल्लकम्’ प्राणिजातमित्यर्थः । ‘सरीसृपं’ कृकलासगोधादिकम् । ‘ग्रीष्महेमन्ताभ्यां’ निमित्ताभ्यां ‘नित्यक्तं’ नितरां परित्यक्तशरीरं क्षीणं ‘भवति’; हिमे सर्वपदार्थानां शीतेनार्त्तत्वात्, ग्रीष्मे रसानां शोषणादिति भावः । ‘तत्’ सर्वं ‘वर्षाः’ द्वितीयाबहुवचनं, ताः ताः- प्रति ‘ईडितमिव’ अहो विनष्टप्रायं सदिदानीं पुनश्चेष्टत इति सर्वैः प्रशंसितमिव ‘अन्नं’ स्वोचितं तृणजलादिरूपम् ‘इच्छमानम्’ इच्छां कुर्वत्, इतस्ततः `चरति’; वर्षासु तृणजलादिसमृद्धिसम्भवात् । यस्मादेवं ‘तस्माद्’ वर्षाणामिड्रूपत्वमुक्तमित्यर्थः । इष्यत इतीडित- इट्शब्दव्युत्पत्तेर्वर्षास्वपि सम्भवात् 9 । शिष्टं पूर्ववत् ॥ ११ ॥
Eggeling
- He then pronounces the offering-prayer to the Iḍs. The Iḍs (praises), doubtless, are the rains; they are the rains, inasmuch as the vile, crawling (vermin) 10 which shrink during the summer and winter, then (in the rainy season) move about in quest of food, as it were, praising (īḍ) the rains: therefore the Iḍs are the rains. The gods, at that time, appropriated the rains, and deprived their rivals of the rains; and now this one also appropriates the rains, and deprives his rivals of the rains: this is the reason why he pronounces the offering-prayer to the Iḍs.
१२
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ बर्हि᳘र्यजति॥
शरद्वै᳘ बर्हिरि᳘ति हि᳘ शर᳘द्बर्हिर्या᳘ ऽइमा ऽओ᳘षधयो ग्रीष्महेमन्ता᳘भ्यां नि᳘त्यक्ता भ᳘वन्ति ता᳘ व्वर्षा᳘ व्वर्द्धन्ते ताः᳘ शर᳘दि बर्हि᳘षो रूपं प्र᳘स्तीर्णाः शेरे त᳘स्माच्छर᳘द्बर्हिः᳘ शर᳘दमेव त᳘द्देवा ऽअ᳘वृञ्जत शर᳘दः सप᳘त्नानन्त᳘रायञ्छर᳘दम्वे᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ शर᳘दः सप᳘त्नानन्त᳘रेति त᳘स्माद्बर्हि᳘र्यजति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ बर्हि᳘र्यजति॥
शरद्वै᳘ बर्हिरि᳘ति हि᳘ शर᳘द्बर्हिर्या᳘ ऽइमा ऽओ᳘षधयो ग्रीष्महेमन्ता᳘भ्यां नि᳘त्यक्ता भ᳘वन्ति ता᳘ व्वर्षा᳘ व्वर्द्धन्ते ताः᳘ शर᳘दि बर्हि᳘षो रूपं प्र᳘स्तीर्णाः शेरे त᳘स्माच्छर᳘द्बर्हिः᳘ शर᳘दमेव त᳘द्देवा ऽअ᳘वृञ्जत शर᳘दः सप᳘त्नानन्त᳘रायञ्छर᳘दम्वे᳘वैष᳘ ऽएत᳘द्वृङ्क्ते᳘ शर᳘दः सप᳘त्नानन्त᳘रेति त᳘स्माद्बर्हि᳘र्यजति॥
मूलम् - Weber
अ᳘थ बर्हि᳘र्यजति॥
शरद्वै᳘ बर्हिरि᳘ति हि᳘ शर᳘द्बर्हिर्या᳘ इमाओ᳘षधयो ग्रीष्महेमन्ता᳘भ्यां नि᳘त्यक्ता भ᳘वन्ति ता᳘ वर्षा᳘ वर्धन्ते ताः शर᳘दि बर्हि᳘षो रूपं प्र᳘स्तीर्णाः शेरे त᳘स्माछर᳘द्बर्हिः᳘ शर᳘दमेव त᳘द्देवा अ᳘वृञ्जत शर᳘दः सप᳘त्नान्त᳘रायंछर᳘दमेॗवैष᳘ एत᳘द्वृङ्क्ते᳘ शर᳘दः सप᳘त्नानन्त᳘रेति त᳘स्माद्बर्हि᳘र्यजति॥
मूलम् - विस्वरम्
अथ ( ४ ) बर्हिः यजति । शरद्वै बर्हिः । इति हि शरद् बर्हिः- या इमा ओषधयो ग्रीष्महेमन्ताभ्यां नित्यक्ता भवन्ति, ता वर्षा वर्द्धन्ते, ताः शरदि बर्हिषो रूपं प्रस्तीर्णाः शेरे- तस्मात् शरद्बर्हिः । शरदमेव तद्देवा अवृञ्जत- शरदः सपत्नानन्तरायन् । शरदम्वेवैष एतद् वृङ्क्ते- शरदः सपत्नानन्तरेति । तस्माद्बर्हिर्यजति ॥ १२ ॥
सायणः
अथ बर्हिरित्यादि । वर्षा इति । उक्तप्रकारेण विनष्टाः, ता ‘ओषधयः’ वर्षासु प्रवृद्धाः सत्यः ‘शरदि’ प्राप्तायां ‘बर्हिषः’ आस्तीर्णस्य ‘रूपम्’ प्राप्नुवन्ति । तत् कुत इत्यत आह- ‘आस्तीर्णाः’ अनुक्रमणसामान्येना ऽऽस्तृतदर्भवत् ‘शेरे’ शेरते । ‘तस्माद्’ उपपादिताद्धेतोः; शरद् बर्हिः 9 ॥ १२ ॥
Eggeling
- He then pronounces the offering-prayer to the Barhis (covering of sacrificial grass on the altar). The barhis, doubtless, is the autumn; the barhis is the autumn, inasmuch as these plants which shrink during the summer and winter grow by the rains, and in autumn lie spread open after the fashion of barhis: for this reason the barhis is the autumn. The gods, at that time, appropriated the autumn, and deprived their rivals of the autumn;
and now this one also appropriates the autumn, and deprives his rivals of the autumn: this is why he pronounces the prayer to the barhis.
१३
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ स्वा᳘हा-स्वाहे᳘ति यजति॥
(त्य᳘) अ᳘न्तो वै᳘ यज्ञ᳘स्य स्वाहाकारो᳘ ऽन्त ऋतूना᳘ᳫँ᳘ हेमन्तो᳘ व्वसन्ताद्धि᳘ परार्द्ध्यो᳘ ऽन्तेनैव तद᳘न्तं देवा ऽअ᳘वृञ्जता᳘न्तेना᳘न्तात्सप᳘त्नानन्त᳘रायन्न᳘न्तेनो ऽए᳘वैष᳘ ऽएतद᳘न्तं वृङ्क्ते᳘ ऽन्तेना᳘न्तात्सप᳘त्नानन्त᳘रेति त᳘स्मात्स्वा᳘हा-स्वाहे᳘ति यजति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ स्वा᳘हा-स्वाहे᳘ति यजति॥
(त्य᳘) अ᳘न्तो वै᳘ यज्ञ᳘स्य स्वाहाकारो᳘ ऽन्त ऋतूना᳘ᳫँ᳘ हेमन्तो᳘ व्वसन्ताद्धि᳘ परार्द्ध्यो᳘ ऽन्तेनैव तद᳘न्तं देवा ऽअ᳘वृञ्जता᳘न्तेना᳘न्तात्सप᳘त्नानन्त᳘रायन्न᳘न्तेनो ऽए᳘वैष᳘ ऽएतद᳘न्तं वृङ्क्ते᳘ ऽन्तेना᳘न्तात्सप᳘त्नानन्त᳘रेति त᳘स्मात्स्वा᳘हा-स्वाहे᳘ति यजति॥
मूलम् - Weber
अ᳘थ स्वा᳘हास्वाहे᳘ति यजति॥
अ᳘न्तो वै᳘ यज्ञ᳘स्य स्वाहाकारो᳘ ऽन्त ऋतू᳘नाᳫं हेमन्तो᳘ वसन्ताद्धि᳘ परार्द्ध्यो᳘ ऽन्तेनैव त᳘द᳘न्तं देवा अ᳘वृञ्जता᳘न्तेना᳘न्तात्सप᳘त्नानन्त᳘रायन्न᳘न्तेनो एॗवैष᳘ एतद᳘न्तं वृङ्क्ते᳘ ऽन्तेना᳘न्तात्सप᳘त्नानन्त᳘रेति त᳘स्मात्स्वा᳘हे᳘ति यजति॥
मूलम् - विस्वरम्
अथ ( ५ ) “स्वाहा-स्वाहा” -इति यजति । अन्तो वै यज्ञस्य स्वाहाकारः, अन्त ऋतूनां हेमन्तः- वसन्ताद्धि परार्द्ध्यः । अन्तेनैव तदन्तं देवा अवृञ्जत- अन्तेनान्तात् सपत्नानन्तरायन् । अन्तेनो एवैष एतदन्तं वृङ्क्ते- अन्तेनान्तात् सपत्नानन्तरेति । तस्मात् स्वाहा-स्वाहेति यजति ॥ १३ ॥
सायणः
अथ स्वाहेत्यादि । अन्त्यप्रयाजे ‘स्वाहाग्निम्’ ‘स्वाहा सोमम्’ इति (तै. ब्रा. ३ । ५ । ५ । ५) स्वाहाकृतिरस्ति; तां देवतां यजेति स्वाहाकारेण हविःप्रदानात् तत्प्रदानस्य च यागत्वात्, तस्य तद्देवत्वम् । हेमन्तो ऽपि वसन्ताद्यृतूनामन्तिमः । तदेवोपपादयति- ‘हि’ यस्माद् ‘वसन्तात्’ ‘परार्द्ध्यः’ परस्मिन्- अर्द्धे भागे भवः । ‘अन्तेन’ स्वाहाकारेण ‘अन्तं’ हेमन्तमसुरेभ्यः ‘अवृञ्जत’ 11 । गतमन्यत् ॥ १३ ॥
Eggeling
- He then pronounces the offering-prayer with ‘Svāhā! Svāhā 12!’ The Svāhā-call, namely, marks the end of the sacrifice, and the end of the year is the winter, since the winter is on the other (remoter) side of the spring. By the end (of the sacrifice) the gods, at that time, appropriated the end (of the year); by the end they deprived their rivals of the end; and by the end this one also now appropriates the end; by the end he deprives his rivals of the end: this is why he pronounces the offering-prayers with ‘Svāhā! Svāhā!’
१४
विश्वास-प्रस्तुतिः
तद्वा᳘ ऽएत᳘त्॥
(द्व) व्वसन्त᳘ ऽएव᳘ हेमन्ता᳘त्पुनरसु᳘रेत᳘स्मा᳘द्ध्येष पु᳘नर्भ᳘वति पु᳘नर्ह वा᳘ ऽअस्मिल्ँ᳘लोके᳘ भवति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - श्रीधरादि
तद्वा᳘ ऽएत᳘त्॥
(द्व) व्वसन्त᳘ ऽएव᳘ हेमन्ता᳘त्पुनरसु᳘रेत᳘स्मा᳘द्ध्येष पु᳘नर्भ᳘वति पु᳘नर्ह वा᳘ ऽअस्मिल्ँ᳘लोके᳘ भवति य᳘ ऽएव᳘मेतद्वे᳘द॥
मूलम् - Weber
तद्वा᳘ एत᳘त्॥
वसन्त᳘ एव᳘ हेमन्ता᳘त्पुनरसु᳘रेत᳘स्माॗद्ध्येष पु᳘न्र्भ᳘वति पु᳘नर्ह वा᳘ अस्मिं᳘लोके᳘ भवति य᳘ एव᳘मेतद्वे᳘द॥
मूलम् - विस्वरम्
तद्वा एतद्- वसन्त एव हेमन्तात् पुनरसुः, एतस्माद्ध्येष पुनर्भवति । पुनर्ह वा अस्मिन् लोके भवति- य एवमेतद् वेद ॥ १४ ॥
सायणः
हेमन्तस्यान्तिमत्वं प्रकारान्तरेण प्रशंसति- तद्वा इति । ‘तद्’ वक्ष्यमाणप्रकारं ‘वै’ खलु ‘एतत्’, ‘तदिदमपि हेमन्तप्राशस्त्यमस्तीत्यर्थः । किं तदेतत् ? ‘वसन्त एव’ ‘पुनः’ ऋत्वारम्भे आवर्तमानः सन्, ‘हेमन्तात्’ स्वपूर्वभाविनः सकाशात् ‘पुनरसुः’ पुनः प्राप्तप्राणो ‘भवति’ । कथमित्यत आह- एतस्मादिति । उक्तार्थवेदनं प्रशंसति- पुनर्ह वा इति ॥ १४ ॥
Eggeling
- Now the spring, assuredly, comes into life again out of the winter, for out of the one the other is born again: therefore he who knows this, is indeed born again in this world.
१५
विश्वास-प्रस्तुतिः
स वै᳘ व्यन्तु व्वेत्वि᳘ति यजति॥
अ᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्व्यन्तु व्यन्त्वि᳘ति वैव य᳘जेद्वेतु व्वेत्त्वि᳘ति वा व्यन्त्वि᳘ति वै यो᳘षा व्वेत्वि᳘ति व्वृ᳘षा मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माद्व्यन्तु व्वेत्वि᳘ति यजति॥
मूलम् - श्रीधरादि
स वै᳘ व्यन्तु व्वेत्वि᳘ति यजति॥
अ᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्व्यन्तु व्यन्त्वि᳘ति वैव य᳘जेद्वेतु व्वेत्त्वि᳘ति वा व्यन्त्वि᳘ति वै यो᳘षा व्वेत्वि᳘ति व्वृ᳘षा मिथुन᳘मे᳘वैत᳘त्प्रज᳘ननं क्रियते त᳘स्माद्व्यन्तु व्वेत्वि᳘ति यजति॥
मूलम् - Weber
स वै᳘ व्यत्तु वेत्वि᳘ति यजति॥
अ᳘जामितायै जामि᳘ ह कुर्याद्य᳘द्व्यन्तु-व्यन्त्विति वैव य᳘जेद्वेतु-वेत्त्वि᳘ति वा व्यन्त्वि᳘ति वै यो᳘षा वेत्वि᳘ति वृ᳘षा मिथुन᳘मेॗवैत᳘त्प्रज᳘ननं क्रियते त᳘स्माद्व्यन्तु वेत्वि᳘ति यजति॥
मूलम् - विस्वरम्
स वै ‘व्यन्तु, वेतु’ इति यजति- अजामितायै । जामि ह कुर्याद्- यद् ‘यन्तु-व्यन्तु’- इति वैव यजेद्; ‘वेतु’ वेतु इति वा । व्यन्तु- इति वै योषा, वेतु- इति वृषा; मिथुनमेवैतत् प्रजननं क्रियते । तस्माद् व्यन्तु वेतु- इति यजति ॥ १५ ॥
सायणः
प्रयाजमन्त्रेषु तद्देवताबहुत्वैकत्वप्रयुक्तं ‘व्यन्तु’-‘वेतु’- इति बहुत्वमेकत्वं वा ऽस्ति, तदनूद्य प्रशंसति- स वै व्यन्त्विति । उक्तो जामिशब्दार्थो ऽसकृत् । ऐकरूप्येण व्यन्त्विति वा वेत्विति वा पाठे सति शृण्वतां मनसि अनादरः स्यात्, अतस्तद् ‘जामि’ अधिकं भवति । प्रकारान्तरेण तदेव प्रशंसति- व्यन्त्विति वा इति । एकस्य पुंसो जायाबहुत्वसम्भवे ऽपि स्त्रियास्त्वेक एव पतिरिति नियमाद् व्यन्तु- वेतु इति योषावृषणौ 11, अत ‘एतत्’ एतेन तथाविधपाठेनास्य पुत्रस्योत्पादनं ‘मिथुनमेव’ सम्पादितवान् भवति ॥ १५ ॥
Eggeling
- In order to avoid sameness he prays (alternately) with ‘may they accept!’ and ‘may he (or it) accept 13!’ for he would commit (the fault) of repetition,
if he were to pray with ‘may they accept!’ each time, or with ‘may he accept!’ each time. By ‘may they accept!’ doubtless, females (are implied); and by ‘may he accept!’ a male (is implied): thereby a productive union is effected, and for this reason he prays (alternately) with ‘may they accept!’ and ‘may he (or it) accept!’
१६
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
प्रजा वै᳘ बर्ही रे᳘त ऽआ᳘ज्यं त᳘त्प्रजा᳘स्वे᳘वैतद्रे᳘तः सिच्यते ते᳘न रे᳘तसा सिक्ते᳘नेमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
प्रजा वै᳘ बर्ही रे᳘त ऽआ᳘ज्यं त᳘त्प्रजा᳘स्वे᳘वैतद्रे᳘तः सिच्यते ते᳘न रे᳘तसा सिक्ते᳘नेमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तं प्र᳘जायन्ते त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
मूलम् - Weber
अ᳘थ चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
प्रजा वै᳘ ब्रहीरे᳘त आ᳘ज्यं त᳘त्प्रजा᳘स्वेॗवैतद्रे᳘तः सिच्यते ते᳘न रे᳘तसा सिक्ते᳘नेमाः᳘ प्रजाः पु᳘नरभ्याव᳘र्तम् प्र᳘जायन्ते त᳘स्माच्चतुर्थे᳘प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
मूलम् - विस्वरम्
अथ चतुर्थे प्रयाजे समानयति बर्हिषि । प्रजा वै बर्हिः, रेत आज्यम् । तत् प्रजास्वेवैतद् रेतः सिच्यते । तेन रेतसा सिक्तेनेमाः प्रजाः पुनरभ्यावर्तं प्रजायन्ते । तस्माच्चतुर्थे प्रयाजे समानयति बर्हिषि ॥ १६ ॥
सायणः
तैत्तिरीयके “यदुपभृति प्रयाजानुयाजेभ्यस्तदिति” (तै. ब्रा. ३. ३. ६.) यदुभयार्थमाज्यग्रहणमुक्तम् 14, तस्य विभागमाह- अथ चतुर्थ इति । ‘चतुर्थे’ बर्हिराख्ये ‘प्रयाजे’ होतव्ये सति, उपभृतः सकाशात् जुह्वां ‘समानयति’ आज्यम् (“उपभृतो जुह्वामानयति” इति का. श्रौ. सू. ३ । ३९) एतत् प्रशंसति- प्रजा वा इत्यादिना । प्रजानां पुत्रादिद्वारा उपरिबर्हणसम्भवाद् बर्हिष्ट्वम् । तस्यास्य वृष्टिद्वारा प्रजादिरूपेणोत्पत्तेराज्यं रेतः; अतो बर्हिष्यानयनात् ‘प्रजासु’ ‘रेतः’ सिक्तं भवति । ‘सिक्तेन रेतसा’ रेतोभूतेनाज्येन ‘इमाः’ परिदृश्यमानाः ‘प्रजाः’ ‘अभ्यावर्तम्’ अभ्यावृत्याभ्यावृत्य कर्मवशाद् देहसम्बन्धं प्राप्नुवन्ति । तस्मादित्युपसंहारः ॥ १६ ॥
Eggeling
- Now at the fourth fore-offering, to the barhis, he pours (butter) together (into the juhū 15). The barhis, namely, represents descendants, and the butter seed: hence seed is thereby infused into the descendants, and by that infused seed descendants are generated again and again. For this reason he pours together (butter) at the fourth fore-offering, that to the barhis.
१७
विश्वास-प्रस्तुतिः
सङ्ग्रामो वा᳘ ऽएष संन्नि᳘धीयते॥
यः᳘ प्रयाजैर्य᳘जते यतरं वै सं᳘यत्तयोर्म्मित्र᳘माग᳘च्छति स᳘ जयति त᳘देत᳘दुपभृतो᳘ ऽधि जुहूं᳘ मित्रमा᳘गच्छति ते᳘न प्र᳘जयति त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
मूलम् - श्रीधरादि
सङ्ग्रामो वा᳘ ऽएष संन्नि᳘धीयते॥
यः᳘ प्रयाजैर्य᳘जते यतरं वै सं᳘यत्तयोर्म्मित्र᳘माग᳘च्छति स᳘ जयति त᳘देत᳘दुपभृतो᳘ ऽधि जुहूं᳘ मित्रमा᳘गच्छति ते᳘न प्र᳘जयति त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
मूलम् - Weber
संग्रामो वा᳘ एष सं᳘निधीयते॥
यः᳘ प्रयाजैर्य᳘जते यतरं वै सं᳘यत्तयोर्मित्र᳘माग᳘छति स᳘ जयति त᳘देत᳘दुपभृतो᳘ ऽधि जुहू᳘म् मित्रमा᳘गछति ते᳘न प्र᳘जयति त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति बर्हि᳘षि॥
मूलम् - विस्वरम्
सङ्ग्रामो वा एष संनिधीयते- यः प्रयाजैर्यजते । यतरं वै संयत्तयोर्मित्रमागच्छति- स जयति । तदेतद्- उपभृतो ऽधि जुहूं मित्रमागच्छति- तेन प्रजयति । तस्माच्चतुर्थे प्रयाजे समानयति बर्हिषि ॥ १७॥
सायणः
जुह्वामुपभृतः प्राप्तमाज्यं मित्रप्राप्त्यात्मना प्रशंसति- सङ्ग्राम इति । ‘यः’ च ‘प्रयाजैः’ संसृष्टो ऽध्वर्युः तेन सङ्ग्राम एव सन्निधापितो भवति । अतः ‘संयत्तयोः’ युद्धाय प्रयतमानयोर्मध्ये ‘यतरम्’ एव योद्धारं ‘मित्रं’ सखायं साहाय्यं कर्तुम् ‘आगच्छति’ ‘स जयति’ इति लोके प्रसिद्धम्; एवम् ‘उपभृतः’ सकाशाद् ‘जुहूं’ जुहूगतमाज्यं ‘मित्रं’ सद् ‘आगच्छति;’ ‘तेन’ मित्रप्राप्तिकारणेन ‘जयति’ । ‘तस्मात् समानयति’ ॥ १७ ॥
Eggeling
- Now, a battle, as it were, is going on here when any one performs the fore-offerings; and whichever of the two combatants a friend (an ally) joins, he obtains the victory: hence a friend thereby joins the juhū from out of the upabhr̥t, and by him it (or he) obtains the victory. This is why he pours together (butter) at the fourth fore-offering, that to the barhis.
१८
विश्वास-प्रस्तुतिः
य᳘जमान ऽएव᳘ जुहूम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु य᳘जमानायै᳘वैत᳘द्द्विष᳘न्तं भ्रा᳘तृव्यं बलि᳘ᳫँ᳘हारयत्य᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य ऽउपभृ᳘तम᳘न्वत्त्र᳘ ऽए᳘वैत᳘दा᳘द्यं बलि᳘ᳫ᳘हारयति त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति॥
मूलम् - श्रीधरादि
य᳘जमान ऽएव᳘ जुहूम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु य᳘जमानायै᳘वैत᳘द्द्विष᳘न्तं भ्रा᳘तृव्यं बलि᳘ᳫँ᳘हारयत्य᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य ऽउपभृ᳘तम᳘न्वत्त्र᳘ ऽए᳘वैत᳘दा᳘द्यं बलि᳘ᳫ᳘हारयति त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति॥
मूलम् - Weber
य᳘जमान एव᳘ जुहूम᳘नु᳟᳟॥
यो स्मा अरातीय᳘ति स᳘ उपभृ᳘तम᳘नुय᳘जमानायैॗवैत᳘द्द्विष᳘न्तम् भ्रा᳘तृव्यम् बलि᳘ᳫं᳘ हारयत्यॗत्तैव᳘ जुहूम᳘न्वाद्य᳘ उपभृ᳘तम᳘न्वत्त्र᳘ एॗवैत᳘दाद्य᳘म् बलि᳘ᳫं᳘ हारयति त᳘स्माच्चतुर्थे᳘ प्रयाजे᳘ समा᳘नयति॥
मूलम् - विस्वरम्
यजमान एव जुहूमनु यो ऽस्मा अरातीयति- स उपभृतमनु । यजमानायैवैतद् द्विषन्तं भ्रातृव्यं बलिं हारयति । अत्तैव जुहूमनु, आद्य उपभृतमनु । अत्र एवैतद्- आद्यं बलिं हारयति । तस्मात् चतुर्थे प्रयाजे समानयति ॥ १८ ॥
सायणः
यजमान एव जुहूमिति । “अत्तैव जुहूम्”- इत्याज्यानयनार्थवादद्वयम् । “अध्वर्यो ! स्रुचमास्यस्व"- इत्येतस्य ब्राह्मणवद् 14 व्याख्येयम् । उपभृतः सकाशादाज्यस्य आनेता ऽध्वर्युः, शत्रोः सकाशात् ‘बलिम्’ उपायनद्रव्यमदनीयमन्नं च अब्रे यजमानाय प्रदापितवान् भवतीति सङ्ग्रहार्थः ॥ १८ ॥
Eggeling
- The sacrificer, doubtless, (stands) behind the juhū, and he who means evil to him, (stands)
behind the upabhr̥t: hence he thereby makes the spiteful enemy pay tribute to the sacrificer. The consumer, doubtless, (stands) behind the juhū, and the one to be consumed behind the upabhr̥t hence he thereby makes the one that is to be consumed pay tribute to the consumer. This is the reason why he pours (butter) together at the fourth fore-offering, that to the barhis.
१९
विश्वास-प्रस्तुतिः
स वा ऽअ᳘नवमृशन्त्समा᳘नयति॥
स य᳘द्धावमृशेद्य᳘जमानं द्विषता भ्रा᳘तृव्येणा ऽवमृशेदत्ता᳘रमा᳘द्येना᳘वमृशेत्त᳘स्माद᳘नवमृशन्त्समा᳘नयति॥
मूलम् - श्रीधरादि
स वा ऽअ᳘नवमृशन्त्समा᳘नयति॥
स य᳘द्धावमृशेद्य᳘जमानं द्विषता भ्रा᳘तृव्येणा ऽवमृशेदत्ता᳘रमा᳘द्येना᳘वमृशेत्त᳘स्माद᳘नवमृशन्त्समा᳘नयति॥
मूलम् - Weber
स वा अ᳘नवमृशन्त्समा᳘नयति॥
स य᳘द्धावमृषेद्य᳘जमानं द्विषता भ्रा᳘तृव्येना᳘वमृशेदत्ता᳘रमाॗद्येना᳘वमृशेत्त᳘स्माद᳘नवमृशन्त्समा᳘नयति॥
मूलम् - विस्वरम्
स वा अनवमृशन् समानयति । स यद्धावमृशेद्- यजमानं द्विषता भ्रातृव्येणावमृशेद्; अत्तारमाद्येनावमृशेत् । तस्मादनवमृशन् समानयति ॥ १९ ॥
सायणः
आज्यसमानयनसमये उपभृदवमर्शनं विपक्षे बाधदर्शनेन निषेधति 16- स वा इत्यादिना । अत्तारमाद्येनेति । अत्तुरन्नस्यावमर्शो युक्तः, तद्वैपरीत्येन ‘आद्येन’ अन्नेनावमर्शने भोक्तुर्यजमानस्य प्रतिकूलं कृतवान् भवति ॥ १९ ॥
16‘अनवमृशंश्चतुर्थम्’ (का. श्रौ. सू. ३. ३९)
Eggeling
- He pours (the butter) together without (the two spoons) touching (each other). If he were to touch (the one spoon with the other) he would touch the sacrificer with his spiteful enemy, he would touch the consumer with the one to be consumed: for this reason he pours (the butter) together without touching.
२०
विश्वास-प्रस्तुतिः
(त्य) अथो᳘त्तरां जुहूम᳘ध्यूहति॥
य᳘जमानमेवैतद्द्विषति [[!!]] भ्रा᳘तृव्ये᳘ ऽध्यूहत्यत्ता᳘रमाद्ये᳘ ऽध्यूहति त᳘स्मादु᳘त्तरां जुहूम᳘ध्यूहति॥
मूलम् - श्रीधरादि
(त्य) अथो᳘त्तरां जुहूम᳘ध्यूहति॥
य᳘जमानमेवैतद्द्विषति [[!!]] भ्रा᳘तृव्ये᳘ ऽध्यूहत्यत्ता᳘रमाद्ये᳘ ऽध्यूहति त᳘स्मादु᳘त्तरां जुहूम᳘ध्यूहति॥
मूलम् - Weber
अथो᳘त्तरां जुहूम᳘ध्यूहति॥
य᳘जमानमेॗवैत᳘द्विषति भ्रा᳘तृव्ये᳘ ऽध्यूहत्यत्ता᳘रमाद्ये᳘ ऽध्यूहति त᳘स्मादु᳘त्तरां जुहूम᳘ध्यूहति॥
मूलम् - विस्वरम्
अथोत्तरां जुहूमध्यूहति । यजमानमेवैतद् द्विषति भ्रातृव्ये ऽध्यूहति; अत्तारमाद्ये ऽध्यूहति । तस्मादुत्तरां जुहूमध्यूहति ॥ २० ॥
सायणः
अथोत्तरामिति । ‘उत्तराम्’ 16 उपभृदुपरितनीं कृत्वा ‘जुहूम्’ ‘अध्यूहति’ विधारयेत् । स्पष्टमन्यत् ॥ २०॥
Eggeling
- He holds the juhū over the upabhr̥t). Thereby he keeps the sacrificer above his spiteful enemy, he keeps the consumer above the one to be consumed: for this reason he holds the juhū over (the upabhr̥t).
२१
विश्वास-प्रस्तुतिः
देवा᳘ ह वा᳘ ऽऊचुः॥
(र्ह᳘) ह᳘न्त व्वि᳘जितमेवा᳘नु स᳘र्व्वं यज्ञ᳘ᳫँ᳭ सᳫंस्थाप᳘याम य᳘दि नो ऽसुररक्षसा᳘न्यास᳘जेयुः स᳘ᳫं᳘स्थित ऽएव᳘ नो यज्ञः᳘ स्यादि᳘ति॥
मूलम् - श्रीधरादि
देवा᳘ ह वा᳘ ऽऊचुः॥
(र्ह᳘) ह᳘न्त व्वि᳘जितमेवा᳘नु स᳘र्व्वं यज्ञ᳘ᳫँ᳭ सᳫंस्थाप᳘याम य᳘दि नो ऽसुररक्षसा᳘न्यास᳘जेयुः स᳘ᳫं᳘स्थित ऽएव᳘ नो यज्ञः᳘ स्यादि᳘ति॥
मूलम् - Weber
देवा᳘ ह वा᳘ ऊचुः॥
ह᳘न्त वि᳘जितमेवा᳘नु स᳘र्वं यज्ञ᳘ᳫं᳘ संस्थाप᳘याम य᳘दि नो ऽसुररक्षसा᳘न्यास᳘जेयुः स᳘ᳫं᳘स्थित एव᳘ नो यज्ञ᳘ᳫं᳘ स्यादि᳘ति॥
मूलम् - विस्वरम्
देवा ह वा ऊचुः- हन्त विजितमेवानु सर्वं यज्ञं संस्थापयाम, यदि नो ऽसुररक्षसान्यासजेयुः- ‘संस्थित एव नो यज्ञः स्याद्’ इति ॥ २१ ॥
सायणः
आज्यभागादिदेवतां तदनुक्रमेण निर्द्दिश्य स्वाहाकारेण तत्र स्तोतुमाख्यायिकामाह- देवा ह वेति । कृत्स्नयज्ञसमाप्त्युपायपरिज्ञानद्योतनार्थो निष्प्रत्यूहं प्रयाजलामहषद्योतनार्थो वा हन्तशब्दः । ‘हन्त ! विजितमेव’ प्रयाजपञ्चकमपि असुरविघातमन्तरेण स्वाधीनं कृतमेव । ‘अनु’ तदनुसृत्य एतस्मिन्नेवान्त्यप्रयाजे ‘सर्वं’ प्रयाजव्यतिरिक्तं सकलमपि ‘यज्ञं’ ‘संस्थापयाम’ इति । तेषामभिप्रायं दर्शयति- यदि न इति । ‘यदि’ समापनात् प्रागेव असुरा राक्षसाश्च ‘नः’ अस्माकम् यज्ञमागच्छेयुः, तर्हि तस्य भङ्गः स्यात्; अतः प्रागेव समापित एवास्त्विति तेषामभिप्रायः ॥ २१ ॥
Eggeling
- The gods once said, ‘Well then, now that the battle has been won, let us establish the entire sacrifice on a firm basis; and should the Asuras and Rakshas (again) trouble us, our sacrifice will then be firmly established!’
२२
विश्वास-प्रस्तुतिः
त᳘ उत्तमे᳘ प्रयाजे᳘॥
स्वाहाकारे᳘णैव स᳘र्व्वं य᳘ज्ञᳫँ᳭ स᳘मस्थापयन्त्स्वा᳘हाग्निमि᳘ति त᳘दाग्नेयमा᳘ज्यभागᳫँ᳭ स᳘मस्थापयन्त्स्वा᳘हा सो᳘ममि᳘ति त᳘त्सौम्यमा᳘ज्यभागᳫँ᳭ स᳘मस्थापयन्त्स्वा᳘हाग्निमि᳘ति तद्य᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्नेयः᳘ पुरोडा᳘शो भ᳘वति तᳫँ᳘ स᳘मस्थापयन्॥
मूलम् - श्रीधरादि
त᳘ उत्तमे᳘ प्रयाजे᳘॥
स्वाहाकारे᳘णैव स᳘र्व्वं य᳘ज्ञᳫँ᳭ स᳘मस्थापयन्त्स्वा᳘हाग्निमि᳘ति त᳘दाग्नेयमा᳘ज्यभागᳫँ᳭ स᳘मस्थापयन्त्स्वा᳘हा सो᳘ममि᳘ति त᳘त्सौम्यमा᳘ज्यभागᳫँ᳭ स᳘मस्थापयन्त्स्वा᳘हाग्निमि᳘ति तद्य᳘ ऽएष᳘ ऽउभय᳘त्राच्युत᳘ ऽआग्नेयः᳘ पुरोडा᳘शो भ᳘वति तᳫँ᳘ स᳘मस्थापयन्॥
मूलम् - Weber
त᳘ उत्तमे᳘ प्रयाजे᳟॥
स्वाहाकारे᳘णैव स᳘र्वं य᳘ज्ञᳫं स᳘मस्थापयन्त्स्वा᳘हाग्निमि᳘ति त᳘दाग्नेयमा᳘ज्यभागᳫं स᳘मस्थापयन्त्स्वा᳘हा सो᳘ममि᳘ति त᳘त्सौम्यमा᳘ज्यभागᳫं स᳘मस्थापयन्त्स्वा᳘हाग्निमि᳘ति तद्य᳘ एष᳘ उभय᳘त्राच्युत᳘ आग्नेयः᳘ पुरोडा᳘शो भ᳘वति तᳫं स᳘मस्थापयन्॥
मूलम् - विस्वरम्
त उत्तमे प्रयाजे स्वाहाकारेणैव सर्वं यज्ञं समस्थापयन् । ‘स्वाहाग्निम्’ इति तदाग्नेयमाज्यभागं समस्थापयन् । ‘स्वाहा सोमम्’ इति तत् सौम्यमाज्यभागं समस्थापयन् । स्वाहाग्निमिति- तद्य एष उभयत्राच्युत आग्नेयः पुरोडाशो भवति- तं समस्थापयन् ॥ २२ ॥
सायणः
त इति । एवं विचार्य ‘उत्तमे प्रयाजे’ ‘स्वाहाकारेणैव’ स्वाहा- स्वाहेत्युक्त्यैव ‘सवम्’ अवशिष्टं ‘यज्ञं’ ‘समस्थापयन्’ । तत्प्रकारं विभज्य दर्शयति- स्वाहाग्निमितीत्यादिना । उभयत्राच्युत आग्नेयः पुरोडाशः इति । “यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति” इति श्रुत आग्नेयो ऽष्टाकपालः पुरोडाशो दर्शे पौर्णमास्यां च नित्य इत्यर्थः ॥ २२ ॥
Eggeling
- At the last fore-offering they established the entire sacrifice by means of the Svāhā (‘hail!’). With ‘Svāhā Agni!’ they established the butter-portion for Agni; with ‘Svāhā Soma!’ they established the butter-portion for Soma; and with (the second) ‘Svāhā Agni!’ they established that indispensable sacrificial cake which there is on both occasions (i.e. at the new- and full-moon sacrifices).
२३
विश्वास-प्रस्तुतिः
(न्न᳘) अ᳘थ यथादेवतᳫं॥
स्वा᳘हा देवा᳘ ऽआज्यपा ऽइ᳘ति त᳘त्प्रयाजानुयाजान्त्स᳘मस्थापयन्प्रयाजानुयाजा वै᳘ देवा᳘ ऽआज्यपा᳘ जुषाणो᳘ ऽअग्निरा᳘ज्यस्य व्वेत्वि᳘ति त᳘दग्नि᳘ᳫं᳘ स्विष्टकृ᳘तᳫँ᳭ स᳘मस्थापयन्नग्निर्हि᳘ स्विष्टकृत्स᳘ ऽएषो᳘ ऽप्येत᳘र्हि त᳘थैव᳘ यज्ञः स᳘न्तिष्ठते य᳘थै᳘वैनं देवाः᳘ सम᳘स्थापयंस्त᳘स्मादुत्तमे᳘ प्रयाजे स्वा᳘हा-स्वाहे᳘ति यजति या᳘वन्ति हवी᳘ᳫं᳘षि भ᳘वन्ति व्वि᳘जितमे᳘वैतद᳘नु स᳘र्व्वं यज्ञᳫँ᳭ स᳘ᳫं᳘स्थापयति त᳘स्माद्यद᳘त ऽऊर्ध्वं व्वि᳘लोम यज्ञे᳘ क्रिये᳘त न तदा᳘द्रियेत स᳘ᳫं᳘स्थितो मे यज्ञ ऽइ᳘ति ह व्विद्यात्स᳘ हैष᳘ यज्ञो᳘ यात᳘यामेवास य᳘था व्व᳘षट्कृतᳫँ᳭ हुतᳫं स्वा᳘हाकृतम्॥
मूलम् - श्रीधरादि
(न्न᳘) अ᳘थ यथादेवतᳫं॥
स्वा᳘हा देवा᳘ ऽआज्यपा ऽइ᳘ति त᳘त्प्रयाजानुयाजान्त्स᳘मस्थापयन्प्रयाजानुयाजा वै᳘ देवा᳘ ऽआज्यपा᳘ जुषाणो᳘ ऽअग्निरा᳘ज्यस्य व्वेत्वि᳘ति त᳘दग्नि᳘ᳫं᳘ स्विष्टकृ᳘तᳫँ᳭ स᳘मस्थापयन्नग्निर्हि᳘ स्विष्टकृत्स᳘ ऽएषो᳘ ऽप्येत᳘र्हि त᳘थैव᳘ यज्ञः स᳘न्तिष्ठते य᳘थै᳘वैनं देवाः᳘ सम᳘स्थापयंस्त᳘स्मादुत्तमे᳘ प्रयाजे स्वा᳘हा-स्वाहे᳘ति यजति या᳘वन्ति हवी᳘ᳫं᳘षि भ᳘वन्ति व्वि᳘जितमे᳘वैतद᳘नु स᳘र्व्वं यज्ञᳫँ᳭ स᳘ᳫं᳘स्थापयति त᳘स्माद्यद᳘त ऽऊर्ध्वं व्वि᳘लोम यज्ञे᳘ क्रिये᳘त न तदा᳘द्रियेत स᳘ᳫं᳘स्थितो मे यज्ञ ऽइ᳘ति ह व्विद्यात्स᳘ हैष᳘ यज्ञो᳘ यात᳘यामेवास य᳘था व्व᳘षट्कृतᳫँ᳭ हुतᳫं स्वा᳘हाकृतम्॥
मूलम् - Weber
अ᳘थ यथादेवतं॥
स्वा᳘हा देवा᳘ आज्यपा इ᳘ति त᳘त्प्रयाजानुयाजान्त्स᳘मस्थापयन्प्रयाजानुयाजा वै᳘ देवा᳘ आज्यपा᳘ जुषाणो᳘ अग्निरा᳘ज्यस्य वेत्वि᳘ति त᳘दग्नि᳘ᳫं᳘ स्विष्टकृ᳘तᳫं स᳘मस्थापयन्नग्निर्हि᳘ स्विष्टकृत्स᳘ एषो᳘ ऽव्येत᳘र्हि त᳘थैव᳘ यज्ञᳫं सं᳘तिष्टते य᳘थैॗवैनं देवाः᳘ सम᳘स्थापयंस्त᳘स्मादुत्तमे᳘ प्रयाजे स्वा᳘हा-स्वाहे᳘ति यजति या᳘वन्ति हवीं᳘षि भ᳘वन्ति विजितमेॗवैतद᳘नु स᳘र्वं यज्ञᳫं स᳘ᳫं᳘स्थापयति त᳘स्माद्यद᳘त ऊर्ध्वं वि᳘लोम यज्ञे᳘ क्रिये᳘त न तदा᳘द्रियेत स᳘ᳫं᳘स्थितो मे यज्ञ इ᳘ति ह विद्यात्स᳘ हैष᳘ यज्ञो᳘ यात᳘यामेवास य᳘था व᳘षट्कृतᳫं हुतᳫं स्वा᳘हाकृतं॥
मूलम् - विस्वरम्
अथ यथादेवतम् । ‘स्वाहा देवा आज्यपाः’ इति- तत् प्रयाजानुयाजान् समस्थापयन्; प्रयाजानुयाजा वै देवा आज्यपाः । **“जुषाणो अग्निराज्यस्य वेतु”- (तै. ब्रा. ३. ५. ६. २) इति तदग्निं स्विष्टकृतं समस्थापयन् अग्निर्हि स्विष्टकृत् । स एषो ऽप्येतर्हि तथैव यज्ञः संतिष्ठते- यथैवैनं देवाः समस्थापयन् । तस्मादुत्तमे प्रयाजे स्वाहास्वाहेति यजति । यावन्ति हवींषि भवन्ति, -विजितमेवैतद्- अनु सर्वं यज्ञ संस्थापयति । तस्माद् यदत ऊर्ध्वं विलोम यज्ञे क्रियेत- न तदाद्रियेत; ‘संस्थितो मे यज्ञः’ इति ह विद्यात् । स ह एष यज्ञो यातयामेवास- यथा वषट्कृतम्, हुतम्, स्वाहाकृतम् ॥ २३ ॥
सायणः
अथ यथादेवतमिति । पौर्णमास्याममावास्यायां च विष्णुः 17, अग्नीषोमौ, प्रजापतिश्चेति विकल्पिता उपांशुयाजदेवताः (का. श्रौ. सू. ३ । ६७) एकादशकपालदेवताः; अग्नीषोमौ अमावास्यायां चोभयत्र साधारणो ऽष्टाकपालदेवो ऽग्निः, इन्द्राग्नी-एकादशकपालदेवता, दधिपयोदेवते इन्द्रमहेन्द्राविति या दर्शपूर्णमास-प्रधानदेवताः सन्ति, ता अनतिक्रम्य (तत्तद्देवता अनतिक्रम्य) तत्तद्देवताकं यागं समस्थापयन्नित्यर्थः । अत्र देवतानामनियतत्वात् यथादेवतमिति सङ्ग्रहेणाभिधानम् । आज्यपाः ’ प्रयाजानुयाजा देवाः ’ ( ऐ. बा. २ । २ । ८ ) समिदाद्याः स्वाहान्ताः (ऐ. ब्रा. २ । १ । ४) तेभ्य इदं हविः स्वाहुतमस्त्विति तस्यार्थः । “जुषाणो अग्निः” (तै. ब्रा. ३ । ५ । ६ । २ । ३) निरु. ८ । २ । ३ । निघ० ५ । २ । २ । १३ । इत्यत्र ‘स्विष्टकृदग्निः’ विवक्षितः, स्विष्टकृत्त्वाभावे जोषस्यैवासम्भवात् । तेन ‘स्विष्टकृतमग्निं’ तद्देवताकं यागं ‘समस्थापयन्’ इत्यर्थः, सकलकर्मन्यूनातिरेकपरिहारायाग्नौ स्विष्टकृद्धोमस्यानुष्ठेयत्वात् । सैषा प्रसिद्धिः “अग्निर्हीति" ‘हि’- शब्देनोच्यते ।
विभज्यान्वाख्यानस्य तात्पर्यमाह- यथैवेति । ‘यथा’ कृत्स्नो ऽपि ‘यज्ञः’ समाप्तो भवति, तथा ‘देवाः’ प्रतिपादितप्रकारेणान्त्यप्रयाज एव ‘समस्थापयन्’ । यदर्थमाख्यायिका ऽत्र प्रपञ्चिता, तदिदानीं सार्थवादमाह- तस्मादिति । यावन्ति ‘हवींषि’ आज्यभागादिस्विष्टकृदन्तानि, तानि सर्वाणि प्रयाजयागेनैव सम्पादितवान् भवति । समापनफलमाह- तस्माद्यदत ऊर्ध्वमिति । ‘तस्मात्’ समापनाद्धेतोः ‘अतः’ अन्त्यप्रयाजाद् ‘ऊर्ध्वं’ ‘विलोम’ न्यूनं विपरीतप्रकारं वा, यदि ‘क्रियेत’ तद्विषयमादरं न कुर्यात्, तत्कथं समादध्यामिति चिन्तां न कुर्यादित्यर्थः । किन्तु ‘यज्ञः संस्थितः’ एव ‘इति’ जानीयात् । ‘स एष’ उक्तविधो ‘यज्ञः’, ‘अयातयामेव’ अगतसार एव; ‘यथा’ अपेक्षानतिक्रमेणैव यतो वषट्कारादिना उक्त आसीत्, अतो यातयामत्वशङ्का नास्तीत्यर्थः । अथवा ऽपेक्षितस्य वषट्कारादेरसत्त्वात् ‘स एष’ शिष्टः ‘यज्ञः’ ‘यातयाम एव’ निर्गतसार एव ॥ २३ ॥
Eggeling
- And so with the (other) deities
respectively 18. With ‘Svāhā the butter-drinking gods!’ they established the fore-offerings and the after-offerings (anuyājas), for the fore-offerings and after-offerings, doubtless, represent the butter-drinking gods. With the formula ‘May Agni graciously accept of the butter!’ they established Agni as Svishṭakr̥t (‘maker of good offering’), for Agni is indeed the maker of good offering. And till this day that sacrifice stands as firm as the gods established it. This is the reason why at the last fore-offering he prays with Svāhā! Svāhā!’ according to the number of oblations (there are at the chief sacrifice). After he (the sacrificer) has won his battle, he establishes the entire sacrifice on a firm basis, so that, if after this he should violate the proper order of the sacrifice, he need not heed it; for he will know that his sacrifice is firmly established. Now what with exclaiming ‘Vashat,’ with offering, and with calling out ‘Svāhā,’ this same sacrifice was well-nigh exhausted.
२४
विश्वास-प्रस्तुतिः
(त्ते᳘) ते᳘ देवा᳘ ऽअकामयन्त॥
कथं᳘ न्विमं᳘ यज्ञं पु᳘नरा᳘प्याययेमा᳘यातयामानं कुर्याम तेना᳘यातयाम्ना प्र᳘चरेमे᳘ति॥
मूलम् - श्रीधरादि
(त्ते᳘) ते᳘ देवा᳘ ऽअकामयन्त॥
कथं᳘ न्विमं᳘ यज्ञं पु᳘नरा᳘प्याययेमा᳘यातयामानं कुर्याम तेना᳘यातयाम्ना प्र᳘चरेमे᳘ति॥
मूलम् - Weber
ते᳘ देवा᳘ अकामयन्त॥
कॗथं न्विमं᳘ यज्ञम् पु᳘नरा᳘प्याययेमा᳘यातयामानं कुर्याम तेना᳘यातयाम्ना प्र᳘चरेमेति॥
मूलम् - विस्वरम्
ते देवा अकामयन्त- ‘कथं न्विमं यज्ञं पुनराप्याययेम, अयातयामानं कुर्याम, तेनायातयाम्ना प्रचरेम’ इति ॥ २४ ॥
सायणः
अथ देवैः कृतमवशिष्टस्य यातयामत्वपरिहारं दर्शयति- ते देवा इति । केवलेनाङ्गेन फलानिष्पत्तेरवश्य प्रधानमनुष्ठेयम्; तच्च गतसारमभूत्; अतः कथं तत्परिह्रियत इति तेषां कामना; गतसारं हि ‘पुनराप्याययेम’ इति कस्तस्य प्रसङ्ग इति ? तमाह- अयातयामानमिति । यामपर्यन्तमवस्थितमशनादिकं यथा नीरसं भवति, एवमयमपीति; गतरसत्वसाम्यादस्यापि यातयामत्वम् ॥ २४ ॥
Eggeling
- The gods were anxious as to how they might replenish it, how they might again render it efficient and practise (worshipping) with it, when efficient.
२५
विश्वास-प्रस्तुतिः
स य᳘ज्जुह्वामा᳘ज्यं प᳘रिशिष्टमा᳘सीत्॥
(द्ये᳘) ये᳘न यज्ञ᳘ᳫँ᳘ सम᳘स्थापयंस्ते᳘नैव᳘ यथापूर्व्व᳘ᳫँ᳘ हवी᳘ᳫं᳘ष्य᳘भ्यघारयन्पु᳘नरे᳘वैनानि तदाप्याययन्न᳘यातयामान्यकुर्व्वन्न᳘यातयाम ह्या᳘ज्यं त᳘स्मादुत्तमं᳘ प्रयाज᳘मिष्ट्वा᳘ यथापूर्व᳘ᳫँ᳭हवी᳘ᳫं᳘ष्यभि᳘घारयति पु᳘नरे᳘वैनानि तदा᳘प्याययत्य᳘यातयामानि करोत्य᳘यातयाम ह्या᳘ज्यं त᳘स्माद्य᳘स्य क᳘स्य च हवि᳘षो ऽवद्य᳘ति पु᳘नरेव त᳘दभि᳘घारयति स्विष्टकृ᳘त ऽएव तत्पु᳘नरा᳘प्यायत्य᳘यातयाम करोत्य᳘थ यदा᳘ स्विष्टकृ᳘ते ऽवद्य᳘ति न त᳘तः पु᳘नरभि᳘घारयति᳘ नो हि त᳘तः का᳘ञ्चन᳘ हवि᳘षो ऽग्नावा᳘हुतिᳫँ᳭ होष्यन्भवति॥
मूलम् - श्रीधरादि
स य᳘ज्जुह्वामा᳘ज्यं प᳘रिशिष्टमा᳘सीत्॥
(द्ये᳘) ये᳘न यज्ञ᳘ᳫँ᳘ सम᳘स्थापयंस्ते᳘नैव᳘ यथापूर्व्व᳘ᳫँ᳘ हवी᳘ᳫं᳘ष्य᳘भ्यघारयन्पु᳘नरे᳘वैनानि तदाप्याययन्न᳘यातयामान्यकुर्व्वन्न᳘यातयाम ह्या᳘ज्यं त᳘स्मादुत्तमं᳘ प्रयाज᳘मिष्ट्वा᳘ यथापूर्व᳘ᳫँ᳭हवी᳘ᳫं᳘ष्यभि᳘घारयति पु᳘नरे᳘वैनानि तदा᳘प्याययत्य᳘यातयामानि करोत्य᳘यातयाम ह्या᳘ज्यं त᳘स्माद्य᳘स्य क᳘स्य च हवि᳘षो ऽवद्य᳘ति पु᳘नरेव त᳘दभि᳘घारयति स्विष्टकृ᳘त ऽएव तत्पु᳘नरा᳘प्यायत्य᳘यातयाम करोत्य᳘थ यदा᳘ स्विष्टकृ᳘ते ऽवद्य᳘ति न त᳘तः पु᳘नरभि᳘घारयति᳘ नो हि त᳘तः का᳘ञ्चन᳘ हवि᳘षो ऽग्नावा᳘हुतिᳫँ᳭ होष्यन्भवति॥
मूलम् - Weber
स य᳘ज्जुह्वामा᳘ज्यम् प᳘रिशिष्टमा᳘सीत्॥
ये᳘न यज्ञ᳘ᳫं᳘ सम᳘स्थापयंस्ते᳘नैव᳘ यथापूर्व᳘ᳫं᳘ हवीं᳘ष्यभ्य᳘घारयन्पु᳘नरेॗवैनानि तदाप्याययन्न᳘यातयामान्यकुर्वन्न᳘यातयाम ह्या᳘ज्यं त᳘स्मादुत्तम᳘म् प्रयाज᳘मिष्ट्वा᳘ यथापूर्व᳘ᳫं᳘ हवीं᳘ष्यभि᳘घारयति पु᳘नरेॗवैनानि तदा᳘प्याययत्य᳘यातयामानि करोत्य᳘यातयाम ह्या᳘ज्यं त᳘स्माद्य᳘स्य क᳘स्य च हवि᳘षो ऽवद्य᳘ति पु᳘नरेव त᳘दभि᳘घारयति स्विष्टकृ᳘त एव तत्पु᳘नरा᳘प्यायत्य᳘यातयाम करोत्य᳘थ यदा᳘ स्विष्टकृ᳘ते ऽवद्य᳘ति न त᳘तः पु᳘नरभि᳘घारयतिॗ नो हि त᳘तः कां᳘ चन᳘ हवि᳘षो ऽग्नावा᳘हुतिᳫं होष्यन्भ᳘वति॥
मूलम् - विस्वरम्
स यद् जुह्वामाज्यं परिशिष्टमासीत्- येन यज्ञं समस्थापयन्;- तेनैव यथापूर्वं हवींष्यभ्यघारयन्, पुनरेवैनानि तदाप्याययन्, अयातयामान्यकुर्वन् । अयातयाम ह्याज्यम् । तस्मादुत्तमं प्रयाजमिष्ट्वा यथापूर्वं हवींष्यभिघारयति, पुनरेवैनानि तदाप्याययति, अयातयामानि करोति । अयातयाम ह्याज्यम् । तस्माद् यस्य कस्य च हविषो ऽवद्यति- पुनरेव तदभिघारयति, स्विष्टकृत एव तत् पुनराप्याययति, अयातयाम करोति । अथ यदा स्विष्टकृते ऽवद्यति- न ततः पुनरभिघारयति । नो; हि ततः कांचन हविषो ऽग्नावाहुतिं होष्यन् भवति ॥ २५ ॥
सायणः
अत्र तैर्दृष्टमुपायं दर्शयति- स यदिति । ‘सः’- इत्यनर्थको वाक्यालङ्कारार्थः । ‘आज्यं’ जुह्वां ‘परिशिष्टं’ प्रयाजहोमेभ्यो ऽवशिष्टमभूत्, उपयुक्तादन्यः शेषः; अतो ऽस्याज्यस्य क्वचिदुपयोग इति तं दर्शयति- येनेति । यं प्रति यस्य रसो निर्गतः, तस्य तत एव हि आप्यायनमुचितमिति संस्थापितावशेषाज्योपादानाभिधानम् । यथापूर्वमिति । आग्नेयो ऽग्नीषोमीयादिति हविषा पूर्वपूर्वमनतिक्रम्येत्यर्थः ।
अभिघारमेवाप्यायनमित्याह- पुनरेवेति । आज्येनाप्यायनमेवायातयामत्वकरणम् । आज्यस्यायातयामत्वप्रसिद्धिः ‘हि’- शब्देनोच्यते । यदर्थं पुरावृत्ताभिधानम्, तदिदानीं विधत्ते- तस्मादुत्तममिति । “एत्य जुह्वा ऽभिघारणं ध्रुवाया हविष उपभृतश्च" इति (का. श्रौ. सू. ३ । ५२) । अन्यत्रावत्तशेषस्य यातयामत्वपरिहाराय पुनरभिघारणप्रदर्शनेनाज्यस्यायातयामत्वं समर्थ्यते- तस्मादिति । यस्य कस्य चेति । चरोः 19 पुरोडाशस्य वा आज्यव्यतिरिक्तस्य ‘हविषः’ अवत्तमिति शेषः, तमवत्तशेषमित्यर्थः । अवशिष्टस्य स्विष्टकृत्युपयोगात् ‘तत्’ तेनाभिघारणेन स्विष्टकृतमेवाप्यायितवान् भवति, आप्यायनेन तदवशिष्टम् ‘अयातयामं करोति’; शेषामिघारणस्यावत्तहविषो ऽभिघारणात् ।
साधारणत्वशङ्कां व्युदसितुं व्यतिरेकमाह- अथ यदेति । ‘स्विष्टकृति’ स्विष्टकृदर्थं ‘यदा’ एतत्साधारणं स्यात्, तदा ‘ततः’ स्विष्टकृतो ऽवशिष्टस्याभिघारणात् न तानि आप्याययेदित्यर्थः ।
अनभिवारणे हेतुमाह- नो हीति । ततः हविषः सकाशात् ‘काञ्चन’ प्रधानस्याङ्गस्य वा सम्बन्धिनीम् ‘आहुतिम्’ अध्वर्युः ‘होष्यन्’ भवति । अतो ऽभिघारणस्याप्यायनार्थत्वमिति सिद्धम् ॥ २५ ॥ ४ ॥ ( ५. ३. ) ॥
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमाध्याये तृतीयं ब्राह्मणम् ॥
Eggeling
- Now what was left in the juhū of the butter wherewith they had established the sacrifice, with that they sprinkled the havis (dishes, or kinds, of sacrificial food) one after another, and thereby replenished them and again rendered them efficient, because the butter is indeed efficient. Hence after offering the last fore-offering, he sprinkles the havis one after another, and thereby replenishes them and again renders them efficient, because the butter is indeed efficient 20. Hence also from whatever sacrificial
food he (afterwards at the principal oblations) cuts off (a portion for a deity), that he again sprinkles (with butter), that he replenishes and renders efficient for the (Svishṭakr̥t) maker of good offering. But when he cuts off the portion for the maker of good offering, then he does not again sprinkle (the sacrificial food out of which the portion has been cut), since after that he will not make any other oblation in the fire from the sacrificial food 21.
-
समिधः, तनूनपात्, इडः, बर्हिः, स्वाहाकारः- इति पञ्च प्रयाजाः । द्वादशस्वाप्रीदेवतासु पञ्चैताः प्रयाजा उच्यन्ते ॥ ↩︎
-
144:1 In reality prayāja (from yaj, ’to sacrifice’) has, of course, nothing to do with prajaya (from ji, ’to conquer’). ↩︎
-
“आज्येन प्रयाजा इज्यन्त आज्येन पत्नीसंयाजाः । पंच प्रयाजा इज्यन्ते चत्वारः पत्नीसंयाजाः" इति तै० सं. २ । ६ । १० । ↩︎ ↩︎
-
‘ध्रुवस्तिष्ठन्’ (श्रौ० सू० ३. ३७) ‘पूर्वं पूर्वं वाभिक्रामम्’ (श्रौ० सू० ३. ३८) । ↩︎ ↩︎
-
145:1 Though the author does not state expressly that this change of position in performing the five fore-offerings is advocated by some other ritualists, he apparently argues in this passage against an actually adopted theory and practice, which the Sūtras also mention as optional. In the case of the Adhvaryu changing his position, he is at each successive fore-offering to pour the butter on a part of the fire east of the preceding one. Kāty. III, 2, 18-21. ↩︎
-
146:1 On the necessity of avoiding sameness of ritualistic practices cf. note on I, 3, 2, 8. The five fore-offerings (prayāja, here identified with the five seasons) are addressed respectively to the kindling-sticks (samidh), to Tanūnapāt (or Narāśaṁsa, both mystical forms of Agni), to the Iḍs (personifications of the forms of devotional feeling), to the sacrificial grass-covering of the altar (barhis), and to Agni and Soma (or other deities). Since, in introducing the first fore-offering, the Adhvaryu has mentioned its recipient, he is not to do so in the case of the remaining four. ↩︎
-
‘पञ्च प्रयाजान्यजतीयं पञ्चसंख्या प्रयाजानामुत्त्पत्तिशिष्टा । नवप्रयाजान्यजतीति, एकादश प्रयाजान्यजतीति, नवैकादशसंख्ययाबाधा योगाद्वैकृती संख्या अभ्यासेनैव पूरणीया" इति या० वृ० (का० श्रौ० सू० ३ । ३ । ८) ↩︎ ↩︎ ↩︎
-
इड्व्याख्यायामाह यास्कः “इक ईट्टेः स्तुतिकर्मणइन्धतेर्वा” इति निरु० ८ । २ । ४ । ↩︎ ↩︎
-
147:1 Such as lizards, alligators. Sāyaṇa. ↩︎
-
स्वाहाकृतिव्याख्यायामाह यास्कः “स्वाहाकृतयः। स्वाहेत्येतत्- सुआहेति वा, स्वाहागाहेतिवा, स्वंप्राहेति वा, स्वाहुतं हविर्जुहोतिवा" इति निरु० ८ । ३ । ५ । ↩︎ ↩︎
-
148:1 See further on, par. 22. As to Svāhā! marking the conclusion of the sacrifice, see the Samishṭayajus I, 9, 2, 25-28. ↩︎
-
148:2 The first offering-prayer (to the logs) is ‘yê yajāmahe samidhaḥ, samidho agna ājyasya vyantū vāushaṭ!’ i.e. ‘we who pronounce the offering-prayer to the Samidhs,–the Samidhs, O Agni, may accept the butter! vāushaṭ!’ Similarly at the other fore-offerings; but at the second and fourth, where the object of worship is a single one (viz. Tanūnapāt and the Barhis respectively), ‘may he (or it) accept (vetu)!’ has to be substituted for ‘may they accept (vyantu)!’ The difference of number in these verbal forms is symbolically explained as implying a distinction of sex, for the reason that there may be more wives to one man, but only one husband to a woman. The elliptic expression ye yajāmahe is thus explained by Sāyaṇa on Taitt. S. I, 6, 11: ‘All we Hotr̥ priests that are urged on by the Adhvaryu calling “Recite (thou)!” we do recite, we do pronounce the yājyā.’ This introductory part of the offering-formula is called āgur, ‘acclamation, assent’ (Āśv. I, 5, 4); it is alluded to in Mahābhār. Vanap. I2480 (cf. Muir, O. S. T. I, p. 135), and apparently by Pāṇ. VIII, 2, 88 (cf. Haug, Ait. Br. II, p. 133 n.). ↩︎
-
इहापि पूर्वं २ प्र० ५ ब्रा० इत्यत्राम्नातं द्रष्टव्यम् । ↩︎ ↩︎
-
149:1 In making the oblation, the Adhvaryu holds the juhū over the upabhr̥t and pours some of the butter from the juhū over the spout of the upabhr̥t into the fire. At the third prayāja he empties all the butter remaining in the juhū into the fire, and thereupon, for the fourth oblation, replenishes the empty spoon with half the contents of the upabhr̥t, after which he proceeds as before. ↩︎
-
‘उत्तरां जुहूमध्युह्य प्राचीमवहृत्य जुहोति’ (श्रौ. सू. ३. ४२) ‘एवं सर्वत्र’ (श्रौ. सू. ३. ४३) ‘नाभिदेशे धारणम्’ (३. ४४) इति च । ↩︎ ↩︎ ↩︎
-
“विष्णुर्वा ऽऽमावास्याया ँ हौत्राम्नानात्” का. श्रौ. सू. ३ । ३ । २५ । व्यवस्थितविकल्पो ऽयम्“ सन्नयतो ऽग्नीषोमौ असन्नयतो विष्णुरिति” इति शांखा. १ । ३ । १६-१८ । सान्नाय्ये दार्शिके दधिपयसी तदनुतिष्ठन्सन्नयन्निति । ↩︎
-
151:1 Cf. p. 118, note 3. The words ‘Svāhā Agnim’ &c. are preceded by ‘ye yajāmahe,’ see before, p. 148, note 2. ↩︎
-
पशोः- इति क्वचित् पाठः । ↩︎
-
151:2 After the Adhvaryu has performed the last fore-offering, he steps back behind the altar and sitting down beside the dishes of sacrificial food, anoints, with the butter remaining in the juhū, first the (butter in the) dhruvā, then the several sacrificial dishes; and finally the (butter in the) upabhr̥t. Kāty. III, 3, 9. ↩︎
-
152:1 What remains of the dish of sacrificial food, after the oblation to Agni Svishṭakr̥t (I, 7, 3, 1 seq.) has been made, is eaten by the priests and the sacrificer, and in their case the several portions are basted with butter, as they are cut off, but not the dish of food from which the portions have been taken. ↩︎