०१
विश्वास-प्रस्तुतिः
अग्निर्हो᳘ता व्वेत्त्वग्ने᳘र्होत्रमि᳘ति। (त्य) अग्नि᳘रिदᳫँ᳭ होता व्वेत्त्यि᳘त्ये᳘वैत᳘दाहाग्ने᳘र्होत्रमि᳘ति त᳘स्यो हि᳘ होत्रं व्वे᳘त्तु प्रावित्रमि᳘ति यज्ञो वै᳘ प्रावित्रं व्वे᳘त्तु यज्ञमि᳘त्ये᳘वैत᳘दाह साधु᳘ ते यजमान देवते᳘ति साधु ते यजमान देव᳘ता य᳘स्य ते ऽग्निर्होतेत्ये᳘वैत᳘दाह घृत᳘वतीमध्वर्यो स्रु᳘चमा᳘स्यस्वे᳘ति त᳘दध्वर्युं᳘ प्र᳘सौति स यदे᳘कामिवा᳘ह॥
मूलम् - श्रीधरादि
अग्निर्हो᳘ता व्वेत्त्वग्ने᳘र्होत्रमि᳘ति। (त्य) अग्नि᳘रिदᳫँ᳭ होता व्वेत्त्यि᳘त्ये᳘वैत᳘दाहाग्ने᳘र्होत्रमि᳘ति त᳘स्यो हि᳘ होत्रं व्वे᳘त्तु प्रावित्रमि᳘ति यज्ञो वै᳘ प्रावित्रं व्वे᳘त्तु यज्ञमि᳘त्ये᳘वैत᳘दाह साधु᳘ ते यजमान देवते᳘ति साधु ते यजमान देव᳘ता य᳘स्य ते ऽग्निर्होतेत्ये᳘वैत᳘दाह घृत᳘वतीमध्वर्यो स्रु᳘चमा᳘स्यस्वे᳘ति त᳘दध्वर्युं᳘ प्र᳘सौति स यदे᳘कामिवा᳘ह॥
मूलम् - Weber
अग्निर्हो᳘ता वेत्त्वग्ने᳘र्होत्रमि᳘ति अग्नि᳘रिदᳫं हो᳘ता वेत्त्वि᳘त्येॗवैत᳘दाहाग्ने᳘र्होत्रमि᳘ति त᳘स्यो हि᳘ होत्रं वे᳘त्तु प्रावित्रमि᳘ति यज्ञो वै᳘ प्रावित्रं वे᳘त्तु यज्ञमि᳘त्येॗवैत᳘दाह साधु᳘ ते यजमान देवतेति साधु᳘ ते यजमान देव᳘ता 1 य᳘स्य ते ऽग्निर्होते᳘त्येॗवैत᳘दाह घृत᳘वतीमध्वर्यो स्रु᳘चमा᳘स्यस्वे᳘ति त᳘दध्वर्यु प्र᳘सौति स यदे᳘कामिवा᳘ह॥
मूलम् - विस्वरम्
पञ्च प्रयाजयागाः ।
“तत्र स्रुगादापननिगदः ।”
“अग्निहोता वेत्त्वग्नेर्होत्रम्”- इति । अग्निरिदं होता वेत्तु- इत्येवैतदाह । अग्नेर्होत्रमिति । तस्यो हि होत्रम् । “वेत्तु प्रावित्रम्”- इति । यज्ञो वै प्रावित्रम् | वेत्तु यज्ञमित्येवैतदाह । ‘साधु ते यजमान ! देवता’- इति । साधु ते यजमान देवता यस्य ते अग्निर्होता इत्येवैतदाह । ‘घृतवतीमध्वर्यो ! स्रुचमास्यस्व’- इति । तदध्वर्युं प्रसौति । स यदेकामिवाह ॥ १ ॥
सायणः
अथ स्रुगादापननिगदं नवधा विभज्य व्याचिख्यासुराद्यं भागमनूद्य तस्यार्थमाह- अग्निर्होतेति । वेदितव्यस्य मन्त्रे ऽनिर्द्देशात् ‘इदम्’- इति तत्कर्मप्रदर्शनम् । दैव्यो ‘होता’ ‘अग्निः’ ‘इदम्’ अनुष्ठेयं कर्म ‘वेत्तु’ जानातु । एतन्मन्त्रवाक्यम् । ‘वेत्त्विति’ किम् ? आह- इदं ‘हौत्रं’ कर्म जानात्वित्याह । किं तद्वेदनेनेति ? तस्य हौत्रेण प्रतिनियतं सम्बन्धमाह- अग्नेरिति । ‘तस्य उ हि’ तस्यैव हि । स च सम्बन्धनियम एवकारार्थेन ‘उ’- शब्देन द्योत्यते । द्वितीयभागे प्रावित्रशब्दार्थमाह- यज्ञो वा इति । प्रकर्षेणावतीति ‘प्रावित्रः’ यज्ञः । अवतेरित्रप्रत्ययः (उणा. ४ । १७१) । यज्ञापरिज्ञाने हौत्रज्ञानमपि व्यर्थमिति तज्ज्ञानमाशास्यते ।
तृतीयभागे सामान्येन निर्दिष्टां यजमानदेवतां विशिष्य व्याचष्टे- साधु त इति । हे ‘यजमान !’ ते तव ‘देवता’ ‘साधु’ साध्वी । कथं साधुत्वम् ? कैषा सा ? तदाह- यस्य त इति । होतृत्वगुणको ऽग्निरेव तव देवतेत्याह स्म मन्त्रवाक्यम् ।
चतुर्थभागे वाक्यार्थस्य स्पष्टत्वात्तात्पर्यमाह- घृतवतीमिति । घृतपूर्णां ‘स्रुचम्’ ‘आस्यस्व’ हस्ते धारयेत्यर्थः । अनेनाध्वर्यवे ऽनुज्ञां दत्तवान् भवति (का. श्रौ. सू. ३ । ३५) 1 । “उपसर्गादस्यत्यूह्योर्वा वचनम्” (पा. सू. ७ । १ । ७ वा. २)- इत्यात्मनेपदम् । मन्त्रे ‘स्रुचम्’- इत्येकस्या एव निर्द्देशं द्वित्वनिर्द्देशपक्षनिन्दापुरःसरं द्रढयति- स यदित्यादिना । ‘सः’ होता ‘एकामिव’ स्रुचमित्येकामेव ब्रूयात् ॥ १ ॥
Eggeling
- [The Hotr̥ continues], ‘May Agni, the priest (hotr̥), know (undertake) Agni’s priestly duty (hautram),’–thereby he says ‘may Agni, as Hotr̥, know this!’ ‘Agni’s priestly duty’ he says, because it is his duty that he must know;–’that means of salvation 2,’–the means of salvation, assuredly, is the sacrifice: ‘may he know the sacrifice’ is what he thereby says.–‘Favourable to thee, O Sacrificer, is
the deity!’ by this he says ‘favourable is the deity to thee, O Sacrificer, whose Hotr̥ is Agni 3!’–‘Take up 4 the spoon, O Adhvaryu, full of butter!’ thereby he urges on the Adhvaryu. The reason why he mentions one (spoon) only (is this).
०२
विश्वास-प्रस्तुतिः
य᳘जमान ऽएव᳘ जुहूम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु स यद्द्वे ऽइव ब्रूयाद्य᳘जमानाय द्विष᳘न्तं भ्रा᳘तृव्यं प्रत्युद्यामि᳘नं कुर्याद᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य उपभृ᳘तम᳘नु स यद्द्वे᳘ ऽइव ब्रूया᳘दत्त्र᳘ ऽआ᳘द्यं प्रत्युद्यामि᳘नं कुर्यात्त᳘स्मादे᳘कामिवै᳘वाह॥
मूलम् - श्रीधरादि
य᳘जमान ऽएव᳘ जुहूम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु स यद्द्वे ऽइव ब्रूयाद्य᳘जमानाय द्विष᳘न्तं भ्रा᳘तृव्यं प्रत्युद्यामि᳘नं कुर्याद᳘त्तैव᳘ जुहूम᳘न्वा᳘द्य उपभृ᳘तम᳘नु स यद्द्वे᳘ ऽइव ब्रूया᳘दत्त्र᳘ ऽआ᳘द्यं प्रत्युद्यामि᳘नं कुर्यात्त᳘स्मादे᳘कामिवै᳘वाह॥
मूलम् - Weber
य᳘जमान एव᳘ जुहूम᳘नु᳟᳟॥
यो स्मा अरातीय᳘ति स᳘ उपभृ᳘तम᳘नु स यद्द्वे᳘ इव ब्रूयाद्य᳘जमानाय द्विष᳘न्तम् भ्रा᳘तृव्यम् प्रत्युद्यामि᳘नं कुर्यादॗत्तैव᳘ जुहूम᳘न्वाद्य᳘ उपभृ᳘तम᳘नु स यद्द्वे᳘ इव ब्रूया᳘दत्त्र᳘ आद्य᳘म् प्रत्युद्यामि᳘नं कुर्यात्त᳘स्मादे᳘कामिवैॗवाह॥
मूलम् - विस्वरम्
यजमान एव जुहूमनु, यो ऽस्मा अरातीयति- स उपभृतमनु । स यद् द्वे इव ब्रूयाद् यजमानाय द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्यात् । अत्तैव जुहूमनु, आद्य उपभृतमनु । स यद् द्वे इव ब्रूयाद्- अत्त्र आद्यं प्रत्युद्यामिनं कुर्यात् । तस्मादेकामिवैवाह ॥ २ ॥
सायणः
यजमान एवेति । ‘जुहूमनु’ जुह्वा अनुकूलः, तदभिमानीत्यर्थः । ‘यः’ च यजमानस्य ‘अरातीयति’ ‘शात्रवमिच्छति, ‘सः’ उपभृतमनु ‘उपभृतो ऽनुकूलः । यत एवमतो होता यदि ‘द्वे इव’ जुहूपभृतावास्यस्वेत्येवं ‘ब्रूयात्’, तदा ‘यजमानाय’ द्वेष्टारं शत्रु, ‘प्रत्युद्यामिनं’ प्रतिकूलोद्योगवन्तं ‘कुर्यात्’ । तथा च तैत्तिरीयकम्- “यजमानदेवत्या वै जुहूः, भ्रातृव्यदेवत्योषभृत्”- (तै. सं. २. ५. ९. ३) इति । दोषान्तरोपन्यासेनापि द्विवचनं निषेधति- अत्तैवेति । ‘आद्यः’ अदनीयो व्रीहियवादिपदार्थः; तम् ‘अग्रे’ यजमानाय प्रतिकूलं कुर्यात् ॥ २ ॥
Eggeling
- The Sacrificer, doubtless, stands behind the juhū, and he, who means evil to him, stands behind the upabhr̥t; and if he were to speak of two (spoons), he would cause the spiteful enemy to countervail the Sacrificer. Behind the juhū stands the eater, and behind the upabhr̥t the one to be eaten; and if he were to speak of two (spoons), he would make the one to be eaten countervail the eater. For these reasons he speaks of one (spoon) only.
०३
विश्वास-प्रस्तुतिः
देव᳘युवं विश्व᳘वारामिति॥
(त्यु᳘) उ᳘पस्तौ᳘त्ये᳘वैनामेत᳘न्मह᳘यत्येव यदा᳘ह देवयु᳘वं व्विश्व᳘वारामिती᳘डामहै देवां᳘३ँ॥ ऽईडे᳘न्यान्नमस्या᳘म नम᳘स्यान्य᳘जाम यज्ञि᳘यानिती᳘डामहै ता᳘न्देवान्य᳘ ऽईडे᳘न्या नमस्या᳘म तान्ये᳘ नम᳘स्या य᳘जाम यज्ञि᳘यानि᳘ति मनु᳘ष्या वा᳘ ऽईडे᳘न्याः पित᳘रो नम᳘स्या देवा᳘ यज्ञि᳘याः॥
मूलम् - श्रीधरादि
देव᳘युवं विश्व᳘वारामिति॥
(त्यु᳘) उ᳘पस्तौ᳘त्ये᳘वैनामेत᳘न्मह᳘यत्येव यदा᳘ह देवयु᳘वं व्विश्व᳘वारामिती᳘डामहै देवां᳘३ँ॥ ऽईडे᳘न्यान्नमस्या᳘म नम᳘स्यान्य᳘जाम यज्ञि᳘यानिती᳘डामहै ता᳘न्देवान्य᳘ ऽईडे᳘न्या नमस्या᳘म तान्ये᳘ नम᳘स्या य᳘जाम यज्ञि᳘यानि᳘ति मनु᳘ष्या वा᳘ ऽईडे᳘न्याः पित᳘रो नम᳘स्या देवा᳘ यज्ञि᳘याः॥
मूलम् - Weber
देव᳘युवं विश्ववारामि᳘ति॥
उ᳘पस्तौत्येॗवैनामेत᳘न्मह᳘यत्येव यदा᳘ह देव᳘युवं विश्ववारामिती᳘डामहै देवां᳘ ईडे᳘न्यान्नमस्या᳘म नमॗस्यान्य᳘जाम यज्ञि᳘यानिती᳘डामहै ता᳘न्देवान्य᳘ ईडे᳘न्या नमस्या᳘म तान्ये᳘ नमॗस्या य᳘जाम यज्ञि᳘यानि᳘ति मनुॗष्या वा᳘ ईडे᳘न्याः पित᳘रो नमॗस्या देवा᳘ यज्ञि᳘याः॥
मूलम् - विस्वरम्
“देवयुवं विश्ववाराम्”- इति । उपस्तौत्येवैनामेतद्, महयत्येव- यदाह, देवयुवं विश्ववारामिति । “ईडामहै देवा ३ँ ॥ ईडेन्यान्, नमस्याम नमस्यान्, यजाम यज्ञियान्" -इति । ईडामहै तान् देवान्- य ईडेन्याः, नमस्याम तान्- ये नमस्याः, यजाम यज्ञियान्- इति । मनुष्या वा ईडेन्याः, पितरो नमस्याः, देवा यज्ञियाः ॥ ३ ॥
सायणः
देवयुवमिति । देवानिच्छतीति ‘देवयुः’ “क्याच्छन्दसि” (पा. सू. ३. २. १७०)- इत्युप्रत्ययः । विश्वैरपि देवैर्वरणीया ‘विश्ववारा’ । आभ्यां स्रग्विशेष्यते । ‘एनां’ स्रुचम् एतद् ‘उपस्तौत्येव’ श्लाघयत्येव । अत्र न कश्चिदपूर्वो ऽर्थो ऽभिधीयत इति । सापि किमथ स्तूयत इत्यत आह- ‘एतत्’ ‘महयत्येव’ पूजयत्येव । ‘यदाह’ यदेतद्वाक्यं मन्त्र आहेत्यर्थः । निगदस्य सप्तमादिभागत्रयं पृथक्-पृथग् व्याख्यातुमनुवदति- ईडामहा इत्यादि । ‘ये’ देवाः ‘ईडेन्याः’ स्तुत्याः, स्तुतिभाजना इत्यर्थः ‘ये’ च ‘नमस्याः’ नमस्कारमिच्छन्ति ये च ‘यज्ञियाः’ यष्टव्याः हविर्भाजः, तान् सर्वान् अविशेषेण स्तुति-नमस्कार-यागैः ‘ईडामहै’ पूजयामहै- इति संग्रहार्थः । ‘ईडेन्यान्’- इति “ईड-स्तुतौ” (अदा. आ. ९) इत्यस्य ‘केन्य’ प्रत्ययः । ईडेन्यादीन् प्रशंसति- मनुष्या वा इत्यादिना। कुशलादिस्तुतिमात्रेण प्रायेण परितुष्यन्त 5 इति ‘ईडेन्याः’ 6 मनुष्याः; “नमस्कारो हि पितृणाम्” (तै. ब्रा. ३. ३. १०. ८) इति श्रुतेः ‘नमस्याः’ पितरः, हविःप्रदानमन्तरेणापरितोषाद् ‘देवाः’ यज्ञियाः ॥३॥
Eggeling
- [He continues],’–(the spoon which is) devoted to the gods, possessed of all boons,’ he praises, he magnifies it when he says ‘devoted to the gods, possessed of all boons.’–‘Let us praise the gods, the praiseworthy! let us adore the adorable! let us worship the worshipful!’ that is, ’let us praise those gods who are praiseworthy! let us adore those who are adorable! let us worship those who are worthy of worship!’ the praiseworthy, to wit, are the men, the adorable the fathers, and the worshipful the gods.
०४
विश्वास-प्रस्तुतिः
(ऽ) या वै᳘ प्रजा᳘ यज्ञे᳘ ऽनन्वाभक्ताः॥
प᳘राभूता वै ता᳘ ऽएव᳘मे᳘वैतद्या᳘ ऽइमाः᳘ प्रजा ऽअ᳘पराभूतास्ता᳘ यज्ञ ऽआ᳘भजति मनु᳘ष्यान᳘नु पश᳘वो देवान᳘नु व्व᳘याᳫं स्यो᳘षधयो व्व᳘नस्प᳘तयो य᳘दिदं कि᳘ञ्चैव᳘मु तत्स᳘र्व्वं यज्ञ ऽआ᳘भक्तम्॥
मूलम् - श्रीधरादि
(ऽ) या वै᳘ प्रजा᳘ यज्ञे᳘ ऽनन्वाभक्ताः॥
प᳘राभूता वै ता᳘ ऽएव᳘मे᳘वैतद्या᳘ ऽइमाः᳘ प्रजा ऽअ᳘पराभूतास्ता᳘ यज्ञ ऽआ᳘भजति मनु᳘ष्यान᳘नु पश᳘वो देवान᳘नु व्व᳘याᳫं स्यो᳘षधयो व्व᳘नस्प᳘तयो य᳘दिदं कि᳘ञ्चैव᳘मु तत्स᳘र्व्वं यज्ञ ऽआ᳘भक्तम्॥
मूलम् - Weber
या वै᳘ प्रजा᳘ यज्ञे᳘ ऽनन्वाभक्ताः॥
प᳘राभूता वै ता᳘ एव᳘मेॗवैतद्या᳘ इमाः᳘ प्रजा अ᳘पराभूतत्स्ता᳘ यज्ञ आ᳘भजति मनुॗष्यान᳘नु पश᳘वो देवान᳘नु व᳘यांस्यो᳘षधयो व᳘नस्प᳘तयो य᳘दिदं कि᳘ञ्चैव᳘मु तत्स᳘र्वं यज्ञ आ᳘भक्तम्॥
मूलम् - विस्वरम्
या वै प्रजा यज्ञे अनन्वाभक्ताः- पराभूता वै ताः । एवमेवैतद्- या इमाः प्रजा अपराभूताः- ता यज्ञ आभजति । मनुष्यान् अनु पशवः, देवान् अनु वयांस्योषधयो वनस्पतयो यदिदं किञ्च एवमु तत्सर्वं यज्ञे आभक्तम् ॥ ४ ॥
सायणः
यजाम यज्ञियानितीति कीर्तने यज्ञस्य शुद्धिस्तुतया 7 यागं तदनुप्रवेशेन प्रशंसति- या वा इत्यादिना । देवमनुष्यात्मकासु प्रजासु मध्ये ‘या’ प्रजाः यष्टव्यत्वेन यज्ञमन्वभजन्, तत्प्रकारमाह- मनुष्यानन्विति । ‘मनुष्यान्’ अनुसृत्य ‘पशवः’ गवाद्याः क्षीरोधस्साधनत्वेनानुप्रविष्टाः । ‘देवान्’ अनुसृत्य ‘वयांसि’ पक्षिणो ऽनुप्रविष्टाः; “वसन्ताय कपिञ्जलानालभते" (वा. सं. २४. २०. १) इति श्रुतेः । अथ वा एकहायनप्रभृति-पञ्चदशहायनान्ताः ‘पशवो वयांसि’, तान्यनुप्रविष्टानीत्यर्थः । तान्यनुप्रवेशाच्चरुपुरोडाशाः, यूपादियज्ञसाधनद्वारेणौषधिवनस्पत्यादयः । किं बहुना ‘यत् किं चेदं’ प्रतीयमानं वस्तु अस्ति, ‘तत्’ ‘सर्वम् उ’ सर्वमप्येवमेव द्वारि द्वारया यज्ञमनुप्रविष्टमेव । अतो यज्ञसंस्पर्शवतां न कदाचित् पराभवो ऽस्ति, तदसंस्पृष्टं च न किञ्चिदस्तीति यज्ञस्तुतिः ॥ ४ ॥
Eggeling
- For, indeed, the creatures that are not allowed to take part in the sacrifice are forlorn; and therefore
he makes those creatures here on earth that are not forlorn, take part in the sacrifice: behind the men are the beasts, and behind the gods are the birds, the plants, and the trees; and thus all that here exists is made to take part in the sacrifice.
०५
विश्वास-प्रस्तुतिः
ता वा᳘ ऽएताः॥
(०) न᳘व व्या᳘हृतयो भवन्ति न᳘वेमे पु᳘रुषे प्राणा᳘ ऽएता᳘ने᳘वास्मिन्नेत᳘द्दधाति त᳘स्मान्न᳘व व्या᳘हृतयो भवन्ति॥
मूलम् - श्रीधरादि
ता वा᳘ ऽएताः॥
(०) न᳘व व्या᳘हृतयो भवन्ति न᳘वेमे पु᳘रुषे प्राणा᳘ ऽएता᳘ने᳘वास्मिन्नेत᳘द्दधाति त᳘स्मान्न᳘व व्या᳘हृतयो भवन्ति॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
न᳘व व्या᳘हृतयो भवन्ति न᳘वेमे पु᳘रुषे प्राणा᳘ एता᳘नेॗवास्मिन्नेत᳘द्दधाति त᳘स्मान्न᳘व व्या᳘हृतयो भवन्ति॥
मूलम् - विस्वरम्
ता वा एता नव व्याहृतयो भवन्ति । नवेमे पुरुषे प्राणाः- एतानेवास्मिन् एतद् दधाति । तस्मान्नव व्याहृतयो भवन्ति ॥ ५ ॥
सायणः
निगदविभागगतां नवसंख्या 7 प्रशंसति- ता वा इति । ‘व्याहृतयः’ उक्तवाक्यानि । तानि च ‘नव’ । सप्त शीर्षण्याः 8 (ऐ. ब्रा. १ । ३ । ६; ३ । १ । ३) द्वाववाञ्चाविति 9 (ऐ. ब्रा. १ । ३ । ६) प्राणा अपि नव 10 (तै. सं ३ । ५ । १० । ५) । तदेतेन नवविभागकरणेन अस्मिन् यजमाने ‘पुरुषे’ ‘एतान्’ प्राणान् 11 ‘नव’ स्थापितवान् भवति ॥ ५ ॥
Eggeling
- These same (preceding formulas) are nine utterances; for nine, in number, are those breaths (or vital airs) in man 12, and these he thereby puts into him (the sacrificer): for this reason there are nine utterances.
०६
विश्वास-प्रस्तुतिः
यज्ञो᳘ ह देवेभ्यो᳘ ऽपचक्राम॥
तं᳘ देवा ऽअ᳘न्वमन्त्रयन्ता᳘ नः शृणू᳘प नं आ᳘वर्तस्वे᳘ति सो᳘ ऽस्तु तथे᳘त्येव᳘ देवा᳘नुपा᳘ववर्त ते᳘नोपा᳘वृत्तेन देवा᳘ ऽअयजन्त ते᳘ने᳘ष्ट्वैत᳘दभवन्य᳘दिदं᳘ देवाः॥
मूलम् - श्रीधरादि
यज्ञो᳘ ह देवेभ्यो᳘ ऽपचक्राम॥
तं᳘ देवा ऽअ᳘न्वमन्त्रयन्ता᳘ नः शृणू᳘प नं आ᳘वर्तस्वे᳘ति सो᳘ ऽस्तु तथे᳘त्येव᳘ देवा᳘नुपा᳘ववर्त ते᳘नोपा᳘वृत्तेन देवा᳘ ऽअयजन्त ते᳘ने᳘ष्ट्वैत᳘दभवन्य᳘दिदं᳘ देवाः॥
मूलम् - Weber
यज्ञो᳘ ह देवेभ्यो᳘ ऽपचक्राम॥
तं᳘ देवा अ᳘न्वमन्त्रयन्ता᳘ नःशृणू᳘प न आ᳘वर्तस्वे᳘ति सो᳘ ऽस्तु तथे᳘त्येव᳘ देवा᳘नुपा᳘ववर्त ते᳘नोपा᳘वृत्तेन देवा᳘ अयजन्त ते᳘नेॗष्ट्वैत᳘दभवन्य᳘दिदं᳘ देवाः᳟॥
मूलम् - विस्वरम्
“आश्रावणप्रत्याश्रावणनिगदः ।”
यज्ञो ह देवेभ्यो ऽपचक्राम । तं देवा अन्वमन्त्रयन्त- ‘आ नः शृणु, उप न आवर्तस्व’ इति । सः ‘अस्तु तथा’ इत्येव देवानुपाववर्त । तेनोपावृत्तेन देवा अयजन्त । तेनेष्ट्वा एतद् अभवन्- यदिदं देवाः ॥ ६॥
सायणः
अथाश्रावणप्रत्याश्रावणे विधातुमाख्यायिकामाह- यज्ञो हेति । पुरा किल ‘यज्ञः’ केनचिद्व्याजेन ‘देवेभ्यः’ अपक्रान्तवान् । ‘तं देवाः’ ‘अन्वमन्त्रयन्त’ अनुनयेनाह्वयन्त । - हे यज्ञ ! ‘नः’ अस्माकं वचनं ‘शृणु’ ‘नः’ अस्मान् ‘उपावर्त्तस्व’ प्रतिनिवर्त्तस्व । उपावर्त्तेति 7 गुणश्छान्दसः । यद्वा उपावर्तनमुपावर्त्तः । आवर्तनाभावे यागासम्भवात्तस्य साधनत्वव्यपदेशः । देवाः यजमानाः ‘अजयन्त’ भाविगत्या तेषां देवत्वव्यवहारः । ‘देवाः’ इति ‘यदिदं’ देवत्वमस्ति, ‘एतत्’ तस्यानुष्ठानेन ‘अभवन्’ प्राप्तवन्त इत्यर्थः ॥ ६ ॥
Eggeling
- The sacrifice fled away from the gods. The gods called out after it, ‘Listen (a-śru) to us 13! come back to us!’ It replied, ‘So be it!’ and returned to the gods; and with what had thus returned to them, the gods worshipped; and by worshipping with it they became the gods they now are.
०७
विश्वास-प्रस्तुतिः
स य᳘दाश्राव᳘यति॥
यज्ञ᳘मे᳘वैतद᳘नुमन्त्रयत ऽआ᳘ नः शृणू᳘प न आ᳘वर्तस्वेत्य᳘थ य᳘त्प्रत्याश्राव᳘यति यज्ञ᳘ ऽए᳘वैत᳘दुपा᳘वर्तते᳘ ऽस्तु तथे᳘ति ते᳘नोपा᳘वृत्तेन रे᳘तसा भूते᳘न ऽर्त्वि᳘जः सम्प्रदा᳘यं चरन्ति य᳘जमानेन परो᳘क्षं य᳘था पूर्णपात्रे᳘ण सम्प्रदा᳘यं च᳘रेयुरेव᳘मनेन ऽर्त्वि᳘जः सम्प्रदा᳘यं चरन्ति त᳘द्वा᳘चै᳘वैत᳘त्सम्प्रदा᳘यं चरन्ति व्वाग्घि᳘ यज्ञो व्वा᳘गु हिरे᳘तस्त᳘देते᳘नै᳘वैत᳘त्सम्प्रदा᳘यं चरन्ति॥
मूलम् - श्रीधरादि
स य᳘दाश्राव᳘यति॥
यज्ञ᳘मे᳘वैतद᳘नुमन्त्रयत ऽआ᳘ नः शृणू᳘प न आ᳘वर्तस्वेत्य᳘थ य᳘त्प्रत्याश्राव᳘यति यज्ञ᳘ ऽए᳘वैत᳘दुपा᳘वर्तते᳘ ऽस्तु तथे᳘ति ते᳘नोपा᳘वृत्तेन रे᳘तसा भूते᳘न ऽर्त्वि᳘जः सम्प्रदा᳘यं चरन्ति य᳘जमानेन परो᳘क्षं य᳘था पूर्णपात्रे᳘ण सम्प्रदा᳘यं च᳘रेयुरेव᳘मनेन ऽर्त्वि᳘जः सम्प्रदा᳘यं चरन्ति त᳘द्वा᳘चै᳘वैत᳘त्सम्प्रदा᳘यं चरन्ति व्वाग्घि᳘ यज्ञो व्वा᳘गु हिरे᳘तस्त᳘देते᳘नै᳘वैत᳘त्सम्प्रदा᳘यं चरन्ति॥
मूलम् - Weber
स य᳘दाश्राव᳘यति॥
यज्ञ᳘मेॗवैतद᳘नुमन्त्रयत आ᳘ नः शृनू᳘प न आ᳘वर्तस्वेत्य᳘थ य᳘त्प्रत्याश्राव᳘यति यज्ञ᳘ एॗवैत᳘दुपा᳘वर्तते᳘ ऽस्तु तथे᳘ति ते᳘नोपा᳘वृत्तेन रे᳘तसा भूते᳘नर्त्वि᳘जः सम्प्रदा᳘यं चरन्ति य᳘जमानेन परो᳘ ऽक्ष्ं य᳘था पूर्णपात्रे᳘ण सम्प्रदा᳘यं च᳘रेयुरेव᳘मनेनर्त्वि᳘जः सम्प्रदा᳘यं चर᳘न्ति त᳘द्वाॗचैॗवैत᳘त्सम्प्रदा᳘यं चरन्ति वाग्घि᳘ यज्ञो वा᳘गु हि रे᳘तस्त᳘देते᳘नैॗवैत᳘त्सम्प्रदा᳘यं चरन्ति॥
मूलम् - विस्वरम्
स यदाश्रावयति- यज्ञमेवैतदनुमन्त्रयते- ‘आ नः शृणु; उप न आवर्तस्व’ इति । अथ यत्प्रत्याश्रावयति- यज्ञ एवैतदुपावर्तते ‘अस्तु तथा’ इति । तेनोपावृत्तेन रेतसा भूतेन ऋत्विजः संप्रदायं चरन्ति; यजमानेन परोक्षम् । यथा पूर्णपात्रेण सम्प्रदायं चरेयुः- एवमनेन ऋत्विजः सम्प्रदायं चरन्ति । तद्वाचैवैतत् संप्रदायं चरन्ति, वाग् हि यज्ञः, वाग् उ हि रेतः; तदेतेनैवैतत् संप्रदायं चरन्ति ॥ ७ ॥
सायणः
इदानीमाश्रावणं विधत्ते- स यदिति । यस्मादेवं, तस्मात् ‘सः’ अध्वर्युराश्रावयेत् 7 । ‘एतत्’ एतेन यज्ञमेवानुमन्त्रितवान् भवतीति तत्प्रकारप्रदर्शनम् । आ न इति । यत एतदेवं तस्मात् । “आनः शृणु” इत्यस्य आश्रावणार्थत्वात् 14 । अथ प्रत्याश्रावणं 15 विधत्ते- अथ यदिति । तेनाग्नीध्रकर्तृकेन प्रत्याश्रावणेन ‘तथास्त्विति’ प्रतिनिवृत्तिः कृता भवति प्रत्याश्रवणशक्त्या उक्तार्थप्रतीतेः । आश्रावणादिवषट्कारान्तमध्वर्य्वादः स्व-स्व-समये मौनं विधित्सुराह- तेनेति । ‘तेन’ प्रत्यावृत्तेन ‘रेतसा भूतेन’ बीजभूतेन स्वर्गाख्यफलोदयाद् बीजत्वं यज्ञस्य । ‘ऋत्विजः’ अध्वर्य्वादयः स्वस्मिन्नाश्रितं यज्ञं ‘सम्प्रदायं’ सम्यक् प्रदाय-प्रदाय, एको ऽन्यस्मै सो ऽप्यन्यस्मा इत्यैवं प्रकारेण ‘चरन्ति’ अनुतिष्ठन्ति । ‘यजमानेन’ ‘परोक्षं’ तमनपेक्ष्य तस्य तत्र व्यापाराभावात् । परस्परसमर्पणे दृष्टान्तमाह- यथेति । यथा जलैरापूर्णं घटादिपात्रं गृहान्तर्गतप्रभूतभाण्डपूरणसमये परस्परहस्तेन सञ्चरन्ति, तद्वत् । एतदेव विशिनष्टि- तद्वाचैवेति । ‘तत्’ तदा ‘वाचैव’ वाग्रूपेणैव, आश्रावणादिवाचमन्तरेण यज्ञासिद्धेस्तस्या यज्ञत्वव्यपदेशः । अस्त्वेवं किं तत आह- वाग्घीति । वाचा मन्त्रात्मिकया यज्ञस्योत्पत्तेस्तस्या रेतस्त्वम्, तदित्याद्युपसंहारः ॥ ७ ॥
Eggeling
- Now when he (the Adhvaryu) calls (on the Āgnīdhra), he thereby calls after the sacrifice, ‘Listen to us! come back to us!’ and when he (the Āgnīdhra) responds, then the sacrifice comes back, saying ‘so be it!’ and with it, thus passing over to them, as with seed 16, the priests carry on the tradition, imperceptibly to the sacrificer; for even as people hand on from one to the other a full vessel 17, in
the same way they (the priests) hand down that (sacrifice) from one to the other. They hand it down by means of speech, for the sacrifice is speech (prayer), and speech is seed: therefore they keep up the tradition by means of it.
०८
विश्वास-प्रस्तुतिः
सो᳘ ऽनुब्रूही᳘त्ये᳘वो᳘क्त्वाध्वर्युः᳘॥
(र्ना) नापव्या᳘हरे᳘न्नो ऽएव हो᳘तापव्या᳘हरेदा᳘श्रावयत्यध्वर्युस्त᳘दग्नी᳘धं यज्ञ᳘ ऽउपा᳘वर्तते᳘॥
मूलम् - श्रीधरादि
सो᳘ ऽनुब्रूही᳘त्ये᳘वो᳘क्त्वाध्वर्युः᳘॥
(र्ना) नापव्या᳘हरे᳘न्नो ऽएव हो᳘तापव्या᳘हरेदा᳘श्रावयत्यध्वर्युस्त᳘दग्नी᳘धं यज्ञ᳘ ऽउपा᳘वर्तते᳘॥
मूलम् - Weber
सो᳘ ऽनुब्रूही᳘त्येॗवोॗक्त्वाध्वर्युः᳟᳟॥
नापव्या᳘हरेॗन्नो एव हो᳘तापव्या᳘हरेदा᳘श्रावयत्यध्वर्युस्त᳘दग्नी᳘धं यज्ञ᳘ उपा᳘वर्तते᳟᳟॥
मूलम् - विस्वरम्
सः ‘अनुब्रूहि’ इत्येवोक्त्वा अध्वर्युर्नापव्याहरेत्, नो एव होतापव्याहरेत् । आश्रावयति अध्वर्युः तदग्नीधं यज्ञ उपावर्तते ॥ ८ ॥
सायणः
अथ सङ्ग्रहेणोक्तं यज्ञसम्प्रदानं विशिषन्नध्वर्य्वादेः स्व-स्व-कालेषु मौनं विधत्ते- सो ऽनुब्रूहीत्यादिना । ‘सो ऽध्वर्युः’ होतारं प्रति ‘अनुब्रूहीत्युक्त्वैव’ 18 तत्समनन्तरमेव ‘नापव्याहरेत्’ प्रस्तुतानुपयोगि वचनं न ब्रूयात् । ‘होता’ अपि अनुवचनद्वारेण 14 वाग्रूपयज्ञस्य स्वस्मिन् समावेशात् ‘नो एव अपव्याहरेत्’ पुनः ‘अग्नीधं’ प्रति ‘अध्वर्युः’ यदा ‘आश्रावयति’ तदानीं स वाग्यज्ञः तं प्राप्नोति ॥ ८ ॥
Eggeling
- After he has said (to the Hotr̥), ‘Recite!’ the Adhvaryu must utter nothing improper (worldly); neither must the Hotr̥ utter anything improper. The Adhvaryu 19 utters his call: thereby the sacrifice passes on to the Āgnīdhra.
०९
विश्वास-प्रस्तुतिः
सो ऽग्नी᳘न्नापव्या᳘हरेत्॥
(दा᳘) आ᳘ प्रत्याश्रा᳘वणात्प्रत्या᳘श्रावयत्यग्नीत्तत्पु᳘नरध्वर्युं᳘ यज्ञ᳘ ऽउपा᳘वर्तते॥ [काण्डस्यार्धम्]
मूलम् - श्रीधरादि
सो ऽग्नी᳘न्नापव्या᳘हरेत्॥
(दा᳘) आ᳘ प्रत्याश्रा᳘वणात्प्रत्या᳘श्रावयत्यग्नीत्तत्पु᳘नरध्वर्युं᳘ यज्ञ᳘ ऽउपा᳘वर्तते॥ [काण्डस्यार्धम्]
मूलम् - Weber
सो ऽग्निॗन्नापव्या᳘हरेत्॥
आ᳘ प्रत्याश्रा᳘वणात्प्रत्या᳘श्रावयत्यग्नीत्तत्पुनरध्वर्युं यज्ञ᳘ उपा᳘वर्तते॥
मूलम् - विस्वरम्
सो ऽग्नीन्नापव्याहरेत्- आ प्रत्याश्रावणात् । प्रत्याश्रावयत्यग्नीत्- तत् पुनरध्वर्युं यज्ञ उपावर्तते ॥९॥
सायणः
अतः ‘सः’ अपि ‘न व्याहरेत्’ स्वप्रत्याश्रावणावधि । सः ‘अग्नीत्’ यदा ‘अध्वर्युं’ प्रति प्रत्याश्रावयेत्, तदैव ‘यज्ञः’ पुनः आगच्छेत् ॥ ९ ॥
Eggeling
- The Āgnīdhra must utter nothing improper until his response. The Āgnīdhra responds: thereby the sacrifice passes back to the Adhvaryu.
१०
विश्वास-प्रस्तुतिः
सो ऽध्वर्यु᳘र्न्नापव्या᳘हरेत्॥
(दा᳘) आ᳘ यजे᳘ति व्व᳘क्तोर्यजे᳘त्ये᳘वाध्वर्युर्हो᳘त्रे यज्ञ᳘ᳫँ᳘ सम्प्रयच्छति॥
मूलम् - श्रीधरादि
सो ऽध्वर्यु᳘र्न्नापव्या᳘हरेत्॥
(दा᳘) आ᳘ यजे᳘ति व्व᳘क्तोर्यजे᳘त्ये᳘वाध्वर्युर्हो᳘त्रे यज्ञ᳘ᳫँ᳘ सम्प्रयच्छति॥
मूलम् - Weber
सो ऽध्वर्यु᳘र्नापव्याहरेत्॥
आ यजे᳘ति व᳘क्तोर्यजे᳘त्येॗवाध्वर्युर्हो᳘त्रे यज्ञ᳘ᳫं᳘ सम्प्र᳘यछति॥
मूलम् - विस्वरम्
सो ऽध्वर्युर्नापव्याहरेत्- आ ‘यज’ इति वक्तोः । यजेत्येवाध्वर्युर्होत्रे यज्ञं सम्प्रयच्छति ॥१०॥
सायणः
अतः ‘सः’ अपि ‘अध्वर्युः’ ‘आ यजेति’ यजेतिवचनावधि 20 ‘न’ अपव्याहरेत्’ । अथ पुनः ‘अध्वर्युः’ यदा ‘यजेति’ स्व-वाग्यज्ञं ‘होत्रे’ सम्प्रयच्छति ॥ १० ॥
Eggeling
- The Adhvaryu must utter nothing improper until he pronounces (the word) ‘yaja (recite the offering-prayer):’ in saying ‘yaja the Adhvaryu hands the sacrifice on to the Hotr̥.
११
विश्वास-प्रस्तुतिः
स हो᳘ता᳘ नापव्या᳘हरेत्॥
(दा᳘) आ᳘ वषट्कारात्तं व्वषट्कारे᳘णाग्ना᳘वेव यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘सिञ्चत्यग्निर्व्वै यो᳘निर्यज्ञ᳘स्य स त᳘तः प्र᳘जायत ऽइ᳘ति नु᳘ हविर्यज्ञे᳘ ऽथ सौ᳘म्ये ऽध्वरे᳘॥
मूलम् - श्रीधरादि
स हो᳘ता᳘ नापव्या᳘हरेत्॥
(दा᳘) आ᳘ वषट्कारात्तं व्वषट्कारे᳘णाग्ना᳘वेव यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘सिञ्चत्यग्निर्व्वै यो᳘निर्यज्ञ᳘स्य स त᳘तः प्र᳘जायत ऽइ᳘ति नु᳘ हविर्यज्ञे᳘ ऽथ सौ᳘म्ये ऽध्वरे᳘॥
मूलम् - Weber
स हो᳘ताॗ नापव्या᳘हरेत्॥
आ᳘ वषट्कारात्तं᳘ वषट्कारे᳘णाग्ना᳘वेव यो᳘नौ रे᳘तो भूत᳘ᳫं᳘ सिञ्चत्यग्निर्वै यो᳘निर्यज्ञ᳘स्य स त᳘तः प्र᳘जायत इ᳘ति नु᳘ हविर्यज्ञे᳘ ऽथ सौॗम्ये ऽध्वरे᳟॥
मूलम् - विस्वरम्
स होता नापव्याहरेत्- आ वषट्कारात् । तं वषट्कारेणाग्नावेव योनौ रेतोभूतं सिञ्चति । अग्निर्वै योनिर्यज्ञस्य- स ततः प्रजायते इति नु हविर्यज्ञे । अथ सौम्ये ऽध्वरे ॥ ११ ॥
सायणः
तदा प्राप्तयज्ञः ‘सः’ ‘होता’ वषट्कारपर्यन्तं ‘नापव्याहरेत्’ । स वषट्कारेणेति । ‘सो ऽध्वर्युः’ होतृकृतेन ‘वषट्कारेण’ हविःप्रदानसाधनेन ‘अग्नौ’ योनिभूते ‘रेतोभूतं’ हविः ‘सिञ्चति’ प्रयच्छति । यस्माद्य उत्पद्यते तत्तस्य योनिरिति प्रसिद्धिः ‘वै’- शब्देन उच्यते । उक्तं वाङ्नियमं विषयविशेषे व्यवस्थापयति- न्विति । अत्र सूत्रम्- “अनुब्रूहीत्युक्त्वा नापव्याहरेद्धोता 20 चा ऽऽश्रावणात्” (का. श्रौ. सू. ३. ५६.) “आश्राविते ऽग्नीदाप्रत्याश्रावणात्" (का . श्रौ. सू. ३. ५७) “प्रत्याश्राविते ऽध्वर्युराहोतृप्रैषात्” (का. श्रौ. सू. ३. ५८) “होतावषट्कारादिति” (का. श्रौ. सू. ३. ५९) । अथ सोमविषयं वाङ्नियमं प्रतिजानीते- अथ सौम्ये ऽध्वरे इति ॥ ११ ॥
Eggeling
- The Hotr̥ must utter nothing improper until his vashaṭ-call. By the vashaṭ-call he pours it (the sacrifice) into the fire, as seed into the womb; for the fire is indeed the womb of the sacrifice, from thence it is brought forth. So now at the havis-sacrifice. And at the Soma-cult,–
१२
विश्वास-प्रस्तुतिः
स वै ग्र᳘हं गृही᳘त्वाध्वर्युः᳘॥
(र्ना) नापव्या᳘हरे᳘दोपाक᳘रणादुपा᳘वर्तध्वमि᳘त्ये᳘वाध्वर्यु᳘रुद्गातृ᳘भ्यो यज्ञ᳘ᳫँ᳘सम्प्र᳘यच्छति॥
मूलम् - श्रीधरादि
स वै ग्र᳘हं गृही᳘त्वाध्वर्युः᳘॥
(र्ना) नापव्या᳘हरे᳘दोपाक᳘रणादुपा᳘वर्तध्वमि᳘त्ये᳘वाध्वर्यु᳘रुद्गातृ᳘भ्यो यज्ञ᳘ᳫँ᳘सम्प्र᳘यच्छति॥
मूलम् - Weber
स वै ग्र᳘हं गृहीॗत्वाध्वर्युः᳟᳟॥
नापव्या᳘हरेॗदोपाक᳘रणादुपा᳘वर्तध्वमि᳘त्येॗवाध्वर्यु᳘रुद्गातृ᳘भ्यो यज्ञ᳘ᳫं᳘ सम्प्र᳘यछति॥
मूलम् - विस्वरम्
स वै ग्रहं गृहीत्वाध्वर्युर्नापव्याहरेद्- आ उपाकरणाद् । ‘उपावर्तध्वम्’ इत्येवाध्वर्युरुद्गातृभ्यो यज्ञं सम्प्रयच्छति ॥ १२ ॥
सायणः
स वा इत्यादि । ‘अध्वर्युः’ ग्रहग्रहणादनन्तरम् ‘आ उपाकरणात्’ 20 । यदा चोद्गातारः स्तोत्रं प्रारभेरन्, तावत् ‘नापव्याहरेत्’ । यदा ‘अध्वर्युः’ उपावर्तध्वमिति ब्रूयात्, तदानीं तस्य यज्ञस्तान् ‘उद्गातॄन्’ प्राप्नोति ॥ १२॥
Eggeling
- When he has drawn (the Soma), the Adhvaryu must not utter anything improper until his summons
(for the chanting of the stotra 21): with the call ‘draw near!’ the Adhvaryu hands the sacrifice on to the Udgātr̥s (chanters).
१३
विश्वास-प्रस्तुतिः
त᳘ ऽउद्गाता᳘रो᳘ नापव्या᳘हरेयुः᳘॥
(रो) ओत्तमा᳘या ऽए᳘षोत्तमे᳘त्ये᳘वोद्गाता᳘रो हो᳘त्रे यज्ञ᳘ᳫँ᳘सम्प्र᳘यच्छन्ति॥
मूलम् - श्रीधरादि
त᳘ ऽउद्गाता᳘रो᳘ नापव्या᳘हरेयुः᳘॥
(रो) ओत्तमा᳘या ऽए᳘षोत्तमे᳘त्ये᳘वोद्गाता᳘रो हो᳘त्रे यज्ञ᳘ᳫँ᳘सम्प्र᳘यच्छन्ति॥
मूलम् - Weber
त᳘ उद्गाता᳘रोॗ नापव्या᳘हरेयुः᳟᳟॥
ओत्तमा᳘या एॗषोत्तमे᳘त्येॗवोद्गाता᳘रो हो᳘त्रे यज्ञ᳘ᳫं᳘ सम्प्र᳘यछन्ति॥
मूलम् - विस्वरम्
त उद्गातारो नापव्याहरेयुः- आ उत्तमायाः । ‘एषोत्तमा’ इत्येवोद्गातारो होत्रे यज्ञं सम्प्रयच्छन्ति ॥ १३ ॥
सायणः
‘ते उद्गातारः’ अपि ‘आ उत्तमायाः’ ‘नापव्याहरेयुः’ । तत्प्रभृत्युत्तमस्तोत्रीयापर्यन्तं 20 न वदेयुः । यदा च ‘एषा’ अन्तिमा स्तोत्रीयेति ‘उद्गातारः’ प्रज्ञापयन्ति ॥ १३ ॥
Eggeling
- The Udgātr̥s must not utter anything improper until the last (stotra-verse): ’this is the last one,’ thus thinking, the Udgātr̥s hand on the sacrifice to the Hotr̥.
१४
विश्वास-प्रस्तुतिः
स हो᳘ता᳘ नापव्या᳘हरेत्॥
(दा᳘) आ᳘ वषट्कारात्तं᳘ व्वषट्कारे᳘णाग्ना᳘वेव यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘सिञ्चत्यग्निर्वै यो᳘निर्यज्ञ᳘स्य स त᳘तः प्र᳘जायते॥
मूलम् - श्रीधरादि
स हो᳘ता᳘ नापव्या᳘हरेत्॥
(दा᳘) आ᳘ वषट्कारात्तं᳘ व्वषट्कारे᳘णाग्ना᳘वेव यो᳘नौ रे᳘तोभूत᳘ᳫँ᳘सिञ्चत्यग्निर्वै यो᳘निर्यज्ञ᳘स्य स त᳘तः प्र᳘जायते॥
मूलम् - Weber
स हो᳘ताॗ नापव्या᳘हरेत्॥
आ᳘ वषट्कारात्तं᳘ वषट्कारेणाग्ना᳘वेव यो᳘नौ रे᳘तो भूत᳘ᳫं᳘ सिञ्चत्यग्निर्वै यो᳘निर्यज्ञ᳘स्य स त᳘तः प्र᳘जायते॥
मूलम् - विस्वरम्
स होता नापव्याहरेत्- आ वषट्कारात् । तं वषट्कारेणाग्नावेव योनौ रेतोभूतं सिञ्चति । अग्निर्वै योनिर्यज्ञस्य- स ततः प्रजायते ॥ १४ ॥
सायणः
‘होता’ अपि तदा प्रभृति ‘नापव्याहरेत्’ ‘आवषट्कारात्’ । तं वषट्कारेणेत्यादि पूर्ववत् । अत्र सूत्रम्- “सोमे च ग्रहं गृहीत्वोपाकरणात्” (का. श्रौ. सू. ३. ६०) इति । “उत्तमस्तोत्रीयां प्रस्तुत्य होतुरेवेति ब्रुवन्त उद्गातोरः” 22 (का. श्रौ. सू. ३ । ६१, ६२) शंसिष्यते होत्रे यज्ञं प्रयच्छन्ति 23, तदा प्रभृति वषट्कारपर्यन्तं होता 24 नापव्याहरेत् ॥ १४ ॥
Eggeling
- The Hotr̥ must utter nothing improper until the vashaṭ-call. With the vashaṭ-call he pours it (the sacrifice) into the fire, as seed into the womb; for the fire is indeed the womb of the sacrifice, since from thence it is brought forth.
१५
विश्वास-प्रस्तुतिः
स य᳘द्ध᳘ सो ऽपव्याह᳘रेत्॥
(ह्यं᳘) यं᳘ यज्ञ᳘ ऽउपाव᳘र्तते य᳘था पूर्णपात्रं᳘ परासिञ्चे᳘देव᳘ᳫँ᳘ह स य᳘जमानं प᳘रासिञ्चेत्स य᳘त्र हैव᳘मृत्वि᳘जः संविदाना᳘ यज्ञे᳘न च᳘रन्ति स᳘र्व्वमेव त᳘त्र कल्पते न मुह्यति त᳘स्मादेव᳘मेव᳘ यज्ञो᳘ भर्त᳘व्यः॥
मूलम् - श्रीधरादि
स य᳘द्ध᳘ सो ऽपव्याह᳘रेत्॥
(ह्यं᳘) यं᳘ यज्ञ᳘ ऽउपाव᳘र्तते य᳘था पूर्णपात्रं᳘ परासिञ्चे᳘देव᳘ᳫँ᳘ह स य᳘जमानं प᳘रासिञ्चेत्स य᳘त्र हैव᳘मृत्वि᳘जः संविदाना᳘ यज्ञे᳘न च᳘रन्ति स᳘र्व्वमेव त᳘त्र कल्पते न मुह्यति त᳘स्मादेव᳘मेव᳘ यज्ञो᳘ भर्त᳘व्यः॥
मूलम् - Weber
स य᳘द्धॗ सो ऽपव्याह᳘रेत्॥
यं᳘ यज्ञ᳘ उपाव᳘र्तते य᳘था पूर्णपात्र᳘म् परासिञ्चे᳘देव᳘ᳫं᳘ ह स य᳘जमानम् प᳘रासिञ्चेत्स य᳘त्र हैव᳘मृत्वि᳘जः संविदाना᳘ यज्ञे᳘न च᳘रन्ति स᳘र्वमेव त᳘त्र कल्पते न मुह्यति त᳘स्मादेव᳘मेव᳘ यज्ञो᳘ भर्त᳘व्यः॥
मूलम् - विस्वरम्
स यद् ह सो ऽपव्याहरेत्- यं यज्ञ उपावर्तते; यथा पूर्णपात्रं परासिञ्चेद्- एवं ह स यजमानं परासिञ्चेत् । स यत्र हैवमृत्विजः संविदाना यज्ञेन चरन्ति- सर्वमेव तत्र कल्पते, न मुह्यति । तस्मादेवमेव यज्ञो भर्तव्यः ॥ १५ ॥
सायणः
उक्तवाङ्नियमाभावे बाधमाह- स यद्धेति । सोमयागे तस्य ग्रहणादि-प्रदानावधिकाले ‘यं यज्ञ उपावर्तते,’ ‘सः’ ‘यद्’ यदि ‘अपव्याहरेत्,’ ‘सः’ ‘यजमानं परासिञ्चेत्’ । अत्र दृष्टान्तः- ‘यथा’ ‘पूर्णपात्रम्’ अभिमतप्रदेशे घटादिषु प्रक्षेपमकृत्वा अन्यत्र ‘परासिञ्चेत्’ तादृगेव तत् । अपव्याहारेण यज्ञभ्रंशे सति स्वर्गाख्यफलभ्रंशाद् यजमान एव परासिक्तो भवति । उक्तवैपरीत्ये को गुण इत्याह- स यत्रेति । एवं सर्वे ऽध्वर्य्वादयः क्रमेण ‘यत्र’ यज्ञे ‘संविदानाः’ ऐकमत्यं प्राप्ताः स्व-स्व-कर्तव्यमेकाग्रेण जानन्तो ऽनुतिष्ठन्ति, ‘तत्र’ तस्मिन् यज्ञे ‘सर्वमेव’ अङ्गजातं ‘कल्पते’ फलजननसमर्थं भवति । एवं सत्येको ऽप्यृत्विक् ‘न मुह्यति’ स्वानुष्ठेयं न विस्मरति; अपव्याहारात्मकविक्षेपासम्भवात् । निगमयति- तस्मादिति । ‘एवमेव’ अध्वर्य्वादिभिः यज्ञसम्प्रदानक्रमेण ‘यज्ञः’ ‘भर्तव्यः’ पोषयितव्यः ॥ १५ ॥
Eggeling
- If he whom the sacrifice approaches were to utter anything improper, he would waste the sacrifice, even as he might waste (water by spilling from) a full vessel. And where the officiating priests thus practice sacrifice with a perfect mutual understanding between them, there everything works regularly and no hitch occurs: therefore it is in this way that the sacrifice must be nursed.
१६
विश्वास-प्रस्तुतिः
(स्ता) ता वा᳘ ऽएताः॥
प᳘ञ्च व्या᳘हृतयो भव᳘न्त्यो श्रावया᳘स्तु श्रौ᳘षड्य᳘ज ये य᳘जामहे व्वौ᳘षडि᳘ति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संव्वत्सर᳘स्यैषै᳘का यज्ञ᳘स्य मा᳘त्रैषा᳘ सम्पत्॥
मूलम् - श्रीधरादि
(स्ता) ता वा᳘ ऽएताः॥
प᳘ञ्च व्या᳘हृतयो भव᳘न्त्यो श्रावया᳘स्तु श्रौ᳘षड्य᳘ज ये य᳘जामहे व्वौ᳘षडि᳘ति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तः पशुः प᳘ञ्चर्त᳘वः संव्वत्सर᳘स्यैषै᳘का यज्ञ᳘स्य मा᳘त्रैषा᳘ सम्पत्॥
मूलम् - Weber
ता वा᳘ एताः᳟॥
प᳘ञ्च व्या᳘हृतयो भवॗन्त्यो श्रावया᳘स्तु श्रौ᳘षड्य᳘ज ये य᳘जामहे वौ᳘षडि᳘ति पा᳘ङ्क्तो यज्ञः पा᳘ङ्क्तःपशुः प᳘ञ्चर्त᳘वः संवत्सर᳘स्यैषै᳘का यज्ञ᳘स्य माॗत्रैषा᳘ सम्प᳘त्॥
मूलम् - विस्वरम्
ता वा एताः पञ्च व्याहृतयो भवन्ति- ‘ओ श्रावय,’ ‘अस्तु श्रौंषड्,’ ‘यज,’ ‘यें यजामहे,’ ‘वौषट्’ इति । पाङ्क्तो यज्ञः, पाङ्क्तः पशुः, पञ्च ऽर्तवः संवत्सरस्य । एषैका यज्ञस्य मात्रा, एषा सम्पत् ॥ १६ ॥
सायणः
आश्रावणादिपञ्चकमनूद्य प्रशंसति- ता वा इति । व्याह्रियन्त इति ‘व्याहृतयः’ वाक्यानि । तानि आश्रावयेत्यादिकानि । पञ्चसङ्ख्यास्ति 25, यज्ञो ऽपि ‘पाङ्क्तः’; धानाः करम्भ-इत्यादिहविर्गतपञ्चसङ्ख्यायोगात् 26 । अतः सङ्ख्यासाम्यद्वारा व्याहृतिपञ्चको यज्ञो ऽस्तु, ततः किमित्यत आह- पाङ्क्तः पशुरित्यादिना । चत्वारः पादाः, शिर एकमिति वा, लोमत्वङ्मांसास्थिमज्जभेदेन वा-पशोः पाङ्क्तत्वम् । हेमन्तशिशिरयोरेकत्वेन 27 ‘पञ्चर्तवः संवत्सरस्य’ अयं यज्ञो व्याहृतिपञ्चकद्वारा पशुसंवत्सररूपाभ्यां शब्दाभ्यां परिमितो भवतीत्यर्थः । ‘एषा’ पशुसंवत्सरात्मिका ‘यज्ञस्य’ ‘एका’ ‘मात्रा’ इयत्ता । प्रकारान्तरमपेक्ष्योक्तम्- एषा सम्पदिति । सङ्ख्याद्वारा सम्पादितसमृद्धिर्यज्ञस्य विभुत्वमित्यर्थः ॥ १६॥
Eggeling
- Now there are here five utterances, viz. (1) ‘Bid (him, Agni, or them) hear!’ (2) ‘Yea, may he (or, one) hear!’ (3) ‘Pronounce the prayer to the kindling-sticks!’ (4) ‘We who pronounce the prayer . . .’ (5) ‘May he bear (the sacrifice to the gods) 28!’ fivefold is the sacrifice, fivefold the animal victim, five are the seasons of the year: this is the one measure of the sacrifice, this its consummation.
१७
विश्वास-प्रस्तुतिः
(त्ता᳘) ता᳘साᳫँ᳭ सप्त᳘दशाक्ष᳘राणि॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञ᳘ ऽएषै᳘का यज्ञ᳘स्य मा᳘त्रैषा᳘ सम्प᳘त्॥
मूलम् - श्रीधरादि
(त्ता᳘) ता᳘साᳫँ᳭ सप्त᳘दशाक्ष᳘राणि॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञ᳘ ऽएषै᳘का यज्ञ᳘स्य मा᳘त्रैषा᳘ सम्प᳘त्॥
मूलम् - Weber
ता᳘साᳫं सप्त᳘दशाक्ष᳘राणि॥
सप्तदशो वै᳘ प्रजा᳘पतिः प्रजा᳘पतिर्यज्ञ᳘ एषै᳘का यज्ञ᳘स्य माॗत्रैषा᳘ सम्पत्᳟᳟॥
मूलम् - विस्वरम्
तासां सप्तदशाक्षराणि । सप्तदशो वै प्रजापतिः । प्रजापतिर्यज्ञः । एषैका यज्ञस्य मात्रा, एषा सम्पत् ॥ १७ ॥
सायणः
आश्रावणादिकं स्ववाक्यगतसङ्ख्याद्वारेण प्रशस्य, तद्गताक्षरसङ्ख्ययापि प्रशंसति- तासामिति । “ओ श्रावयेति चतुरक्षरम्, अस्तु श्रौषडिति चतुरक्षरम्, यजेति द्व्यक्षरम्, ये यजामह इति पञ्चाक्षरम्, द्व्यक्षरो वषट्कारः” इति सप्तदशाक्षरता; प्रजापतिरपि मासर्तुगतसङ्ख्यया सप्तदशः । यज्ञस्रष्टृत्वात्सो ऽपि यज्ञः । ‘एषा’ अक्षरसङ्ख्या प्राप्ता प्रजापत्यात्मकत्वलक्षणा ‘यज्ञस्य’ सम्पत् ॥ १७ ॥
Eggeling
- These (five formulas) consist of seventeen syllables;–seventeenfold, indeed, is Prajāpati, and Prajāpati is the sacrifice: this is the one measure of the sacrifice, this its consummation.
१८
विश्वास-प्रस्तुतिः
(दो) ओ श्रावये᳘ति वै᳘ देवाः᳘॥
पुरोवात᳘ᳫँ᳘ ससृजिरे᳘ ऽस्तु श्रौ᳘षडि᳘त्यंभ्रा᳘णि स᳘मप्लावयन्यजे᳘ति व्विद्यु᳘तं ये य᳘जामह ऽइ᳘ति स्तनयित्त्नुं᳘ व्वषट्कारे᳘णैव प्रा᳘वर्षन्॥
मूलम् - श्रीधरादि
(दो) ओ श्रावये᳘ति वै᳘ देवाः᳘॥
पुरोवात᳘ᳫँ᳘ ससृजिरे᳘ ऽस्तु श्रौ᳘षडि᳘त्यंभ्रा᳘णि स᳘मप्लावयन्यजे᳘ति व्विद्यु᳘तं ये य᳘जामह ऽइ᳘ति स्तनयित्त्नुं᳘ व्वषट्कारे᳘णैव प्रा᳘वर्षन्॥
मूलम् - Weber
ओ श्रावये᳘ति वै᳘ देवाः᳟॥
पुरोवात᳘ᳫं᳘ ससृजिरे᳘ ऽस्तु श्रौ᳘षडि᳘त्यभ्रा᳘णि स᳘मप्लावयन्यजे᳘ति विद्यु᳘तं ये य᳘जामह इ᳘ति स्तनयित्नुं᳘ वषट्कारे᳘णैव प्रा᳘वर्षयन्॥
मूलम् - विस्वरम्
‘ओ श्रावय’ इति वै देवाः पुरोवातं ससृजिरे । ‘अस्तु श्रौषड्’ इति अभ्राणि समप्लावयन् । ‘यज’ इति विद्युतम् । ‘ये यजामहे’ इति स्तनयित्नुम् । वषट्कारेणैव प्रावर्षन् ॥ १८ ॥
सायणः
विहितेष्वाश्रावणादिषु वृष्ट्याख्यफलाय तत्र विशेषं विवक्षुस्तदुपोद्घातमाह- ओ श्रावयेतीति । ‘अस्तु श्रौषट्’- ‘इति’ अनेन ‘अभ्राणि’ उदक्-सञ्चरणसमर्थान् मेघान् ‘समप्लावयन्’ सर्वत्र-व्याप्तानकुर्वन् । ‘ससृजिरे’- इति सर्वत्र सम्बन्धः । एवमुत्तरत्रापि उद्देशिनामनुद्देशिनां च पूर्वपूर्वाभाव उत्तरोत्तरानुदयात् कार्यकारणभावाभिधानम् । अत उक्तवैपरीत्ये न तथा शङ्कनीयम् । स्तनयित्नुशब्दः स्तनयतीति व्युत्पत्त्या 25 मेघवाची, तथा ऽपि तस्य पृथगभिधानादत्र स्तननमात्रमभिधत्ते ॥ १८ ॥
Eggeling
१९
विश्वास-प्रस्तुतिः
(न्त्स) स य᳘दि व्वृ᳘ष्टिकामः स्यात्॥
(द्य) यदी᳘ष्ट्या वा य᳘जेत दर्शपूर्णमास᳘योर्व्वैव᳘ ब्रूयाद्वृ᳘ष्टिकामो वा᳘ अस्मी᳘ति त᳘त्रो ऽअध्वर्युं᳘ ब्रूयात्पुरोवात᳘ञ्च व्विद्यु᳘तञ्च म᳘नसा ध्याये᳘त्यभ्रा᳘णि म᳘नसा ध्याये᳘त्यग्नी᳘धᳫंस्तनयित्नु᳘ञ्च व्वर्ष᳘ञ्च म᳘नसा ध्याये᳘ति हो᳘तारᳫँ᳭ स᳘र्व्वाण्येता᳘नि म᳘नसा ध्याये᳘ति ब्रह्मा᳘णं व्व᳘र्षति हैव त᳘त्र य᳘त्रैव᳘मृत्वि᳘जः संविदाना᳘ यज्ञे᳘न च᳘र᳘न्ति॥
मूलम् - श्रीधरादि
(न्त्स) स य᳘दि व्वृ᳘ष्टिकामः स्यात्॥
(द्य) यदी᳘ष्ट्या वा य᳘जेत दर्शपूर्णमास᳘योर्व्वैव᳘ ब्रूयाद्वृ᳘ष्टिकामो वा᳘ अस्मी᳘ति त᳘त्रो ऽअध्वर्युं᳘ ब्रूयात्पुरोवात᳘ञ्च व्विद्यु᳘तञ्च म᳘नसा ध्याये᳘त्यभ्रा᳘णि म᳘नसा ध्याये᳘त्यग्नी᳘धᳫंस्तनयित्नु᳘ञ्च व्वर्ष᳘ञ्च म᳘नसा ध्याये᳘ति हो᳘तारᳫँ᳭ स᳘र्व्वाण्येता᳘नि म᳘नसा ध्याये᳘ति ब्रह्मा᳘णं व्व᳘र्षति हैव त᳘त्र य᳘त्रैव᳘मृत्वि᳘जः संविदाना᳘ यज्ञे᳘न च᳘र᳘न्ति॥
मूलम् - Weber
स य᳘दि वृ᳘ष्टिकामः स्या᳘त्॥
यदी᳘ष्ट्या वा य᳘जेत दर्शपूर्णमास᳘योर्वैव᳘ ब्रूयाद्वृ᳘ष्टिकामो वा᳘ अस्मी᳘ति त᳘त्रो अध्वर्युं᳘ ब्रूयात्पुरोवातं᳘ च विद्यु᳘तं च म᳘नसा ध्याये᳘त्यभ्रा᳘णि म᳘नसा ध्याये᳘त्यग्नी᳘धᳫं स्तनयित्नुं᳘ च वर्षं᳘ च म᳘नसा ध्याये᳘ति हो᳘तारᳫं स᳘र्वाण्येता᳘नि म᳘नसा ध्याये᳘ति ब्रह्मा᳘णं व᳘र्षति हैव त᳘त्र य᳘त्रैव᳘मृत्वि᳘जः संविदाना᳘ यज्ञे᳘न च᳘रन्ति॥
मूलम् - विस्वरम्
स यदि वृष्टिकामः स्यात्, यदीष्ट्या वा यजेत,- दर्शपूर्णमासयोर्वैव ब्रूयाद्- “वृष्टिकामो वा अस्मि” इति । तत्रो अध्वर्युं ब्रूयात्- ‘पुरोवातं च विद्युतं च मनसा ध्याय’ इति । ‘अभ्राणि मनसा ध्याय’ इति अग्नीधम् । ‘स्तनयित्नुं च वर्षं च मनसा ध्याय’ इति होतारम् । ‘सर्वाण्येतानि मनसा ध्याय’ इति ब्रह्माणम् । वर्षति हैव तत्र- यत्रैवम् ऋत्विजः संविदाना यज्ञेन चरन्ति ॥ १९ ॥
सायणः
अथौपोद्धातिकमाह- स यदीति । ‘सः’ यजमानो ‘यदि वृष्टिकामः स्यात्’; स एव ‘यदीष्ट्या’ सौर्यादिकया फलान्तरसाधनभूतया ‘यजेत’, तत्र प्रकृतिभूतयोः ‘दर्शपूर्णमासयोर्वा एव ब्रूयात्’ ऋत्विजः ‘वृष्टि-कामः’ अहम् ‘अस्मीति’ । कं प्रति किं ब्रूयादिति तद्विभज्याह- तत्रो इत्यादिना । ‘तत्र’ तेष्वेव कर्मसु ‘अध्वर्युम्’ ‘ब्रूयात्’, आश्रावणसमये पुरोवातविद्युतोर्ध्यानं ‘मनसा कुर्यात्’ 31 इति । मनोव्यतिरेकेण ध्यानासम्भवाद्, एकाग्रमना इत्यर्थः । एवमुत्तरवाक्येष्वपि योज्यम् । आग्नीध्रहोत्रोः प्रत्येकस्य व्याहृतिद्वये सम्भवाद् एकैकस्य द्वयोर्द्वयोर्ध्यानम् । “सर्वैर्ब्रह्मा” इति (ऐ० ब्रा० ५ । ५ । ८) ब्रह्मणः सर्वकर्तव्यानुसन्धानस्मरणात् सर्वविषयध्यानाभिधानम् । एवमङ्गेषु ध्याने सति वृष्टिफलं नियतमेवेत्याह- वर्षति हैवेति । ‘संविदानाः’ फल-विषये परस्परमैकमत्यं प्राप्ताः ॥ १९ ॥
Eggeling
- Should he (the sacrificer) be desirous of rain, or should he perform a special offering 32, or even at the new- and full-moon sacrifice itself, he may say, ‘Verily, I am desirous of rain!’–and he may also say to the Adhvaryu, ‘Ponder thou in thy mind the east wind and the lightning!’–to the Āgnīdhra, ‘Ponder thou the clouds in thy mind!’–to the Hotr̥, ‘Ponder thou in thy mind the thunder and rain!’–to the Brahman, ‘Ponder thou all, these in thy mind!’–for where the officiating priests thus practice sacrifice with a perfect mutual understanding between them, there it will indeed rain.
२०
विश्वास-प्रस्तुतिः
(न्त्यो) ओ श्रावये᳘ति वै᳘ देवाः᳘॥
(०) विरा᳘जमभ्या᳘जुहुवुर᳘स्तु श्रौ᳘षडि᳘ति व्वत्स᳘मुपा᳘वासृजन्यजेत्यु᳘दनयन्ये य᳘जामह ऽइत्यु᳘पासीदन्वषट्कारे᳘णैव᳘ व्विरा᳘जमदुहतेयं वै᳘ व्विरा᳘डस्यै वा᳘ एष दो᳘ह ऽएव᳘ᳫँ᳘ ह वा᳘ ऽअस्मा ऽइयं᳘ व्विराट्स᳘र्व्वान्का᳘मान्दुहे य᳘ ऽएव᳘मेतं᳘ व्विरा᳘जो दो᳘हं व्वे᳘द॥
मूलम् - श्रीधरादि
(न्त्यो) ओ श्रावये᳘ति वै᳘ देवाः᳘॥
(०) विरा᳘जमभ्या᳘जुहुवुर᳘स्तु श्रौ᳘षडि᳘ति व्वत्स᳘मुपा᳘वासृजन्यजेत्यु᳘दनयन्ये य᳘जामह ऽइत्यु᳘पासीदन्वषट्कारे᳘णैव᳘ व्विरा᳘जमदुहतेयं वै᳘ व्विरा᳘डस्यै वा᳘ एष दो᳘ह ऽएव᳘ᳫँ᳘ ह वा᳘ ऽअस्मा ऽइयं᳘ व्विराट्स᳘र्व्वान्का᳘मान्दुहे य᳘ ऽएव᳘मेतं᳘ व्विरा᳘जो दो᳘हं व्वे᳘द॥
मूलम् - Weber
ओ श्रावये᳘ति वै᳘ देवाः᳟॥
विरा᳘जमभ्या᳘जुहुवुर᳘स्तु श्रौषडि᳘ति वत्स᳘मुपा᳘वासृजन्यजेत्यु᳘दनयन्ये य᳘जामह इत्यु᳘पासीदन्वषट्कारे᳘णैव᳘ विरा᳘जमदुहतेयं वै᳘ विरा᳘डस्यै वा᳘ एष दो᳘ह एव᳘ᳫं᳘ ह वा᳘ अस्मा इयं᳘ विराट्स᳘र्वाङ्का᳘मान्दुहे य᳘ एव᳘मेतं᳘ विरा᳘जो दोहं वे᳘द॥
मूलम् - विस्वरम्
‘ओ श्रावय’ इति वै देवाः विराजमभ्याजुहुवुः । ‘अस्तु श्रौषड्’ इति वत्समुपावासृजन् । ‘यज’ इति उदनयन् । ‘ये यजामहे’ इति उपासीदन् । वषट्कारेणैव विराजमदुहत । इयं वै विराड्, अस्यै वा एष दोहः । एवं ह वा अस्मै इयं विराट् सर्वान् कामान् दुहे- य एवमेतं विराजो दोहं वेद ॥ २० ॥
सायणः
प्रकारान्तरेणाश्रावणादिपञ्चकं प्रशंसति- ओ श्रावयेतीति । चरुपुरोडाशादिना विशेषेण राजत इति ‘विराट्’ वैद्यात्मिका पृथिवी, सा धेनुत्वेन प्रकल्प्यते “सा मे धुक्ष्व यजमानाय कामान्”- इत्यादिमन्त्रेषु दोहनसाधनत्वश्रवणात् । तां विराड्धेनुम् ओ श्रावयेत्यनेनाभिमुखमाह्वयन् । ‘वत्समुपावासृजन्’ स्तनपानाय वत्सस्य कण्ठगतं पाशं व्यश्लेषयन् । ‘यजेति’ अनेन तम् ‘उदनयन्’ अपरिवीतं वत्समूर्द्ध्वमूधसो ऽभिमुखमनयन् । ‘उपासीदन्’ दोहाय गोः समीपे स्थिताः । ‘वषट्कारेण’ हविःप्रदानसाधनेन ताम् ‘अदुहत’ दोहनेनेमं यज्ञमुदपादयन्नित्यर्थः । विराट्शब्दमाह 31- इयं वा इति । ‘इयं’ पृथिव्येव खलु ‘विराट्’ उक्तमर्थं समर्थयते- अस्यै वा इति । ‘एषः’ उक्तो ‘दोहः’ ‘अस्यै वै’ अस्या वेद्यात्मिकस्याः पृथिव्याः सम्बन्धी खलु, चरुपुरोडाशादियज्ञसाधनानां तस्या एवोत्पत्तेः । उक्तार्थवेदनं प्रशंसति- एवं ह वा इति । एतदाश्रावणादिकम् ‘एवं’ दोहात्मकतया ‘वेद’ जानाति ‘अस्मै’ अस्याः उक्तार्थं वेदित्रे ‘इयं विराट्’ पृथिवी ‘सर्वान्’ धनादिकान् ‘कामान्’ ‘दुहे’ प्रयच्छतीति ॥ २० ॥ ३ ॥ ( ५ । २ )
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्र० माध्यन्दिनशतपथब्रा० प्रथमकाण्डे पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥
Eggeling
- With ‘O śrāvaya!’ the gods called the shining one (virāj, viz. cow), with ‘Astu śraushaṭ!’ they untied the calf and let it go to her; with ‘Yaja!’ they raised (its head to the udder of the cow) 33; with
‘Ye yajāmahe!’ they sat down by her (for milking); with the vashaṭ-call they milked her. The shining one, doubtless, is this (earth), and of her this is the milking: and for him who knows this to be the milking of the shining one, this shining (earth-cow) thus milks out all his desires.
-
मन्त्रश्चैष तैत्तिरीयके श्रुतः । ‘यजमानदेवता’ इति मन्त्रभागस्याग्रे यो ऽग्निं होतारमवृथा इत्येतावान् मन्त्रभागो ऽन्यत्र दृश्यते । ↩︎ ↩︎
-
138:1 Prāvitram, literally ’that which promotes, protects’ (‘unser Hort’). Sāyaṇa on Taitt. S. II, 5, 9, 5 explains it by’ prakr̥shṭam avitram phaladānarūpam asmadrakshaṇam yasmin homānushṭḥāne tad idam prāvitram.’ For this and the succeeding formulas, see Āśv. I, 4, 10-11. ↩︎
-
139:1 Āśv. I, 4, 10, and Sāṅkh. I, 6 give as belonging to the text of the mantra: yo agniṁ hotāram avr̥thāḥ, ’thou who hast chosen Agni for thy Hotr̥;’ the same reading is mentioned in Taitt. S. II, 5, 9, 5. ↩︎
-
139:2 Thus Sāyaṇa (āsyasva = haste dhāraya); ‘schöpfe ein (ladle in),’ St. Petersburg Dictionary; ‘pour into the fire,’ Hillebrandt, p. 93. ↩︎
-
परितोषात्- पा० । ↩︎
-
‘औणादिक एन्यप्रत्ययः’- इति ऋ. सं. १ । ७९ । ५ इत्यत्र सा. भाष्ये । ↩︎
-
“सप्त वै शीर्षन्प्राणाः” इति ऐ. ब्रा. १ । ३ । ६; ३ । १ । ३ । ↩︎
-
“अवाञ्चः” नाभेरधस्ताद्वर्तमाना अपानवाय्वादयः" इति ऐ. ब्रा. १ । ३ । ६ इति सा० भा० । ↩︎
-
“नव वै पुरुषे प्राणाः” इति तै. सं. ३ । ५ । १० । ५ । “शिरो ऽवस्थितेषु सप्तसु छिद्रेषु अधो ऽवस्थितयोश्च द्वयोश्छिद्रयोः सञ्चरन्तः प्राणा नवसङ्ख्याकाः” इति तत्रैव सा. भा. । ↩︎
-
प्राणानेव स्थापितवान् भवति- पा० । ↩︎
-
140:1 See p. 20, note 1. ↩︎
-
140:2 The legend is intended to explain the origin and symbolical meaning of the call (āśrāvaṇa) of the Adhvaryu (viz. O śrāvaya! make listen!’) and the response (pratyāśravaṇa) of the Āgnīdhra (viz. astu śraushaṭ!). ↩︎
-
‘अस्तु श्रौ ३ षट्’ इत्यस्य प्रत्याश्रावणसंज्ञा । ↩︎
-
140:3 The sacrifice is the seed (vīja) that produces heaven as its fruit. Sāyaṇa. ↩︎
-
140:4 I.e. ’even as they pass on from hand to hand a pail (ghaṭa) filled with water when a tub is to be filled inside the house.’ Sāyaṇa. ↩︎
-
‘अनुब्रूहि’ इत्यनुवाक्यापाठार्थो होत्रे प्रैषः । ↩︎
-
141:1 As soon as the Hotr̥ has pronounced the formula ‘O Adhvaryu, take up the spoon full of butter!’ (par. 2 above), the Adhvaryu takes the two offering-spoons (juhū and upabhr̥t) and steps back (from the west side along the north side of the altar and the west side of the fire) to the south side of the altar and the fire (the yajati-sthāna), and (with his face to north-east) utters his call, and (having been responded to by the Āgnīdhra) calls on the Hotr̥: ‘samidho yaja (pronounce the offering-prayer to the kindling-sticks)!’ Kāty. III, 2, 16. ↩︎
-
142:1 See IV, 2, 5, 7-8. ↩︎
-
उद्गातृप्रस्तोतृप्रतिहर्तार इत्यर्थः । ↩︎
-
“उपाकृत उद्गातार आहोतृप्रैषात्” इति का० श्रौ० सू० ३ । ३ । १८ । ↩︎
-
“होतावषट्कारात्” इति का० श्रौ० सू० ३ । ३ । १९ । ↩︎
-
“धानाः, करम्भः, परिवापः, पुरोडाशः, पयस्येत्येष वै यज्ञो हविष्पङ्क्तिः” इति (ऐ० ब्रा० २. ३. ६) ↩︎
-
“सप्तदशो वै प्रजापतिः द्वादश मासाः पंचर्तवो हेमन्तशिशिरयोः समासेन तावान्संवत्सरः संवत्सरः प्रजापतिः" इति ऐ. ब्रा. १ । १ । १ । ↩︎
-
142:2 (1) O śrāvaya (for ā srāvaya), the Adhvaryu’s call; (2) astu śraushaṭ, the Āgnīdhra’s response; (3) (samidho) yaja, the Adhvaryu’s summons to the Hotr̥; (4) ye yajāmahe, the beginning of the Hotr̥’s yājyā, or offering-prayer (see p. 135 note); (5) vaushaṭ, concluding formula of the yājyā. ↩︎
-
143:1 For āśrāvaya (cf. p. 131, note 2), i.e. ‘bid (him, Agni, or them) hear!’ but the author here makes śrāvaya the causative of śru (sru), ’to flow;’ hence ā śrāvaya, ‘make flow;’ and astu śraushaṭ [properly ‘Yea, may he (or one) hear!’] he makes ‘Yea, may it flow!’ ↩︎ ↩︎
-
143:2 A fanciful etymology of vashaṭ from root vr̥sh, ’to rain;’ for the true derivation of the word, see p. 88, note 2. ↩︎
-
143:3 I.e. an offering made with a view to the obtainment of some special wish (kāmyeshṭi). ↩︎
-
143:4 Thus (or ’they led it up to the udder of the cow’) Sāyaṇa explains udanayan. In his commentary on Taitt. S. I, 6, 11 he interprets the analogous udanaishīt by ‘he raises (or brings) the milk-pail;’ where the St. Petersburg Dictionary apparently takes it in the sense of ‘he led the calf away from the cow.’ ↩︎