०१

विश्वास-प्रस्तुतिः

स वै᳘ प्रवराया᳘श्रावयति॥
तद्य᳘त्प्रवरा᳘याश्राव᳘यति यज्ञो वा᳘ ऽआश्रा᳘वणं यज्ञ᳘मभिव्याहृत्या᳘थ हो᳘तारं प्र᳘वृणा ऽइ᳘ति त᳘स्मात्प्रवराया᳘श्रावयति॥

मूलम् - श्रीधरादि

स वै᳘ प्रवराया᳘श्रावयति॥
तद्य᳘त्प्रवरा᳘याश्राव᳘यति यज्ञो वा᳘ ऽआश्रा᳘वणं यज्ञ᳘मभिव्याहृत्या᳘थ हो᳘तारं प्र᳘वृणा ऽइ᳘ति त᳘स्मात्प्रवराया᳘श्रावयति॥

मूलम् - Weber

स वै᳘ प्रवराया᳘श्रावयति॥
तद्य᳘त्प्रवरा᳘याश्राव᳘यति यज्ञो वा᳘ आश्रा᳘वणं यज्ञ᳘मभिव्याहृत्या᳘थ हो᳘तारम् प्र᳘वृणा इ᳘ति त᳘स्मात्प्रवराया᳘श्रावयति॥

मूलम् - विस्वरम्

होतृप्रवरणम् ।

स वै प्रवरायाश्रावयति । तद् यत् प्रवरायाश्रावयति- यज्ञो वा आश्रावणम्, यज्ञमभिव्याहृत्याथ होतारं प्रवृणै- इति । तस्मात्प्रवरायाश्रावयति ॥ १ ॥

सायणः

यस्य निःश्वसितं वेदा यो वेदेभ्यो ऽखिलं जगत् । निर्ममे, तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थे सामिधेन्यादिराघारान्तः प्रदर्शितः । प्रयोगः, पञ्चमे ऽथास्मिन् प्रवरादिर्निरूप्यते ॥

तत्र देवहोत्रार्षेयमानुषहोतॄणां वरणं विवक्षुरादौ तदङ्गतया आश्रावणं विधत्ते- स वै प्रवरायाश्रावयतीति । ‘सः’ अध्वर्युः प्रवरार्थम् ‘आश्रावयति’ आश्रावयेत् । विहितमाश्रावणं प्रशंसति- तद्यत् प्रवरायेत्यादिना । आश्रावणस्य यज्ञनिर्वर्त्तकत्वाद्यज्ञत्वम् । अथ होतारमिति । दैवं होतारम् अग्निमित्यर्थः ॥ १ ॥

Eggeling
  1. He (the Adhvaryu) now utters his call for the Pravara (choosing of the Hotr̥) 1. The reason why he utters his call, is that the (Adhvaryu’s) call is

the sacrifice: ‘having bespoke the sacrifice, I will choose the Hotr̥,’ thus (he thinks, and) for this reason he utters his call for the Pravara.

०२

विश्वास-प्रस्तुतिः

स᳘ इध्मसन्न᳘हनान्ये᳘वाभिपद्या᳘श्रावयति॥
स यद्धा᳘नारभ्य यज्ञ᳘मध्वर्युराश्राव᳘येद्वेपनो᳘ वा ह स्या᳘दन्यां वा᳘र्तिमा᳘र्च्छेत्॥

मूलम् - श्रीधरादि

स᳘ इध्मसन्न᳘हनान्ये᳘वाभिपद्या᳘श्रावयति॥
स यद्धा᳘नारभ्य यज्ञ᳘मध्वर्युराश्राव᳘येद्वेपनो᳘ वा ह स्या᳘दन्यां वा᳘र्तिमा᳘र्च्छेत्॥

मूलम् - Weber

स᳘ इध्मसंन᳘हनान्येॗवाभिपद्या᳘श्रावयति॥
स यद्वा᳘नारभ्य यज्ञ᳘मध्वर्यु᳘राश्राव᳘येद्वेपनो᳘ वा ह स्या᳘दन्यां वा᳘र्त्तिमा᳘र्छेत्॥

मूलम् - विस्वरम्

स इध्मसन्नहनान्येवाभिपद्य- आश्रावयति । स यद् ह अनारभ्य यज्ञमध्वर्युराश्रावयेद्- वेपनो वा ह स्याद् अन्यां वा ऽऽर्तिमार्च्छेत् ॥ २ ॥

सायणः

आश्रावणाङ्गतयेध्मबन्धनदर्भाणां ग्रहणं विधत्ते- स इध्मसन्नहनान्येवेति । एवकारो वक्ष्यमाणपक्षद्वयनिरासार्थः ।

विपक्षे बाधमाह- स यद्धेति । यज्ञावयवस्य कस्यचिदनन्वालम्भे सति निरालम्बनत्वेन ‘वेपनः’ कम्पनशीलो ‘वा स्यात्’ ‘अन्यां वा’ पतनादिलक्षणाम् ‘आर्तिम्’ प्राप्नुयात् ॥ २ ॥

Eggeling
  1. He utters his call after taking the fuel-band; for if the Adhvaryu were to utter his call without taking hold of the sacrifice, he would either be unsteady or meet with some other ailment.

०३

विश्वास-प्रस्तुतिः

(त्त) तद्धै᳘के॥
व्वे᳘देस्तीर्णा᳘यै बर्हि᳘रभिपद्या᳘श्रावयन्तीध्म᳘स्य वा श᳘कलमपच्छि᳘द्या᳘भिपद्या᳘श्रावयन्तीदं वै कि᳘ञ्चिद्यज्ञ᳘स्येदं᳘ यज्ञ᳘मभिपद्या᳘श्रावयाम ऽइ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यादेतद्वैकि᳘ञ्चिद्यज्ञ᳘स्य यै᳘रिध्मः स᳘न्नद्धो भ᳘वत्यग्नि᳘ᳫँ᳭ सम्मृज᳘न्ति त᳘द्वेव ख᳘लु यज्ञ᳘मभिपद्या᳘श्रावयति त᳘स्मादिध्मसन्न᳘हनान्ये᳘वाभिपद्या᳘श्रावयेत्॥

मूलम् - श्रीधरादि

(त्त) तद्धै᳘के॥
व्वे᳘देस्तीर्णा᳘यै बर्हि᳘रभिपद्या᳘श्रावयन्तीध्म᳘स्य वा श᳘कलमपच्छि᳘द्या᳘भिपद्या᳘श्रावयन्तीदं वै कि᳘ञ्चिद्यज्ञ᳘स्येदं᳘ यज्ञ᳘मभिपद्या᳘श्रावयाम ऽइ᳘ति व्व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यादेतद्वैकि᳘ञ्चिद्यज्ञ᳘स्य यै᳘रिध्मः स᳘न्नद्धो भ᳘वत्यग्नि᳘ᳫँ᳭ सम्मृज᳘न्ति त᳘द्वेव ख᳘लु यज्ञ᳘मभिपद्या᳘श्रावयति त᳘स्मादिध्मसन्न᳘हनान्ये᳘वाभिपद्या᳘श्रावयेत्॥

मूलम् - Weber

तद्धै᳘के॥
वे᳘दे स्तीर्णा᳘यै बर्हि᳘रभिपद्या᳘श्रावयन्तीध्म᳘स्य वा श᳘कलमपछि᳘द्याभिपद्या᳘श्रावयन्तीदं वै किं᳘चिद्यज्ञ᳘स्येदं᳘ यज्ञ᳘मभिपद्या᳘श्रावयाम इ᳘ति व᳘दन्तस्त᳘दु त᳘था न᳘ कुर्यादेतद्वै किं᳘चिद्यज्ञ᳘स्य यै᳘रिध्मः सं᳘नद्धो भ᳘वत्यग्नि᳘ᳫं᳘ सम्मृज᳘न्ति त᳘द्वेव ख᳘लु यज्ञ᳘मभिपद्या᳘श्रावयति त᳘स्मादिध्मसंन᳘हनान्येॗवाभिपद्या᳘श्रावयेत्॥

मूलम् - विस्वरम्

तद्धैके वेदेः स्तीर्णायै बर्हिरभिपद्याश्रावयन्ति, इध्मस्य वा शकलमपच्छिद्याभिपद्याश्रावयन्ति- ‘इदं वै किञ्चिद् यज्ञस्य; इदं यज्ञमभिपद्याश्रावयामः’ इति वदन्तः । तदु तथा न कुर्यात् । एतद् वै किञ्चिद् यज्ञस्य- यैरिध्मः सन्नद्धो भवति; अग्निं संमृजन्ति; तदेव खलु यज्ञमभिपद्याश्रावयति; तस्मादिध्मसन्नहनान्येवाभिपद्याश्रावयेत् ॥ ३ ॥

सायणः

तत्र केषांचित् पक्षमुपन्यस्यति- तद्धैक इति । स्तीर्णाया इति षष्ठ्यर्थे चतुर्थी (पा०सू० २। ३ । ६२ वा. १) । तेषामभिप्रायमाविष्करोति- इदं वा इति । स्तरणसमिन्धनलक्षणस्य कार्यस्य करणात् ‘इदं’ बर्हिरादिकं ‘यज्ञस्य’ ‘किञ्चिद्’ अङ्गम् । स्पष्टमन्यत् । तन्निराकरोति- तदु तथेति । पक्षान्तरादस्य विशेषमाह- एतद्वा इति । इध्मसन्नहनाग्निसम्मार्जनलक्षण-कार्यद्वयकरणाद् ‘एतत्’ इध्मसन्नहनात्मकमेव ‘यज्ञस्य’ ‘किञ्चित्’ प्रशस्तमङ्गम्; अतस्तद्धारणपक्ष एव श्रेयानित्यर्थः । अत एव कात्यायनः आदाविध्मसन्नहनान्येवाभिधाय पश्चात् पक्षान्तरं निर्द्दिदेश- “इध्मसन्नहनान्यादायो श्रावयेत्याहास्तु 2 श्रौषडित्यग्नीद् वेदिबर्हिरिध्मशकलमपच्छिद्यैके" (का० श्रौ० सू० ३ । २१-२३ ) इति ॥ ३ ॥

Eggeling
  1. Here now some utter the call after taking sacrificial grass (barhis) from the covered altar, or they utter the call after cutting off and taking a chip of fire-wood, arguing, ’this, surely, is something belonging to the sacrifice; after taking hold of this, the sacrifice, we will utter the call.’ Let him, however, not do this; for that also wherewith the firewood was tied together and wherewith they sweep the fire 3 is, doubtless, something belonging to the sacrifice; and thus indeed he utters his call after taking hold of the sacrifice: for this reason let him utter the call after taking the fuel-band.

०४

विश्वास-प्रस्तुतिः

(त्स᳘) स᳘ ऽआश्रा᳘व्य॥
य᳘ एव᳘ देवा᳘नाᳫँ᳭ हो᳘ता त᳘मेवा᳘ग्रे प्र᳘वृणीते ऽग्नि᳘मेव त᳘दग्न᳘ये चैवैत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निं᳘ प्रवृणीते त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫँ᳭ हो᳘ता तम᳘ग्रे प्र᳘वृणीते त᳘दु देवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - श्रीधरादि

(त्स᳘) स᳘ ऽआश्रा᳘व्य॥
य᳘ एव᳘ देवा᳘नाᳫँ᳭ हो᳘ता त᳘मेवा᳘ग्रे प्र᳘वृणीते ऽग्नि᳘मेव त᳘दग्न᳘ये चैवैत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निं᳘ प्रवृणीते त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫँ᳭ हो᳘ता तम᳘ग्रे प्र᳘वृणीते त᳘दु देवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - Weber

स᳘ आश्रा᳘व्य॥
य᳘ एव᳘ देवा᳘नाᳫं हो᳘ता त᳘मेवा᳘ग्रे प्र᳘वृणिते ऽग्नि᳘मेव त᳘दग्न᳘ये चैॗवैत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्नि᳘म् प्रवृणीते त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫं हो᳘ता तम᳘ग्रे प्र᳘वृणीते त᳘दुदेवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - विस्वरम्

स आश्राव्य- य एव देवानां होता, तमेवाग्रे प्रवृणीते- अग्निमेव । तद् अग्नये चैवैतद् देवेभ्यश्च निह्नुते । यदहाग्रे ऽग्निं प्रवृणीते- तद् अग्नये निह्नुते, अथ यो देवानां होता, तमग्रे प्रवृणीते; तद् देवेभ्यो निह्नुते ॥ ४ ॥

सायणः

अथ देवहोतुरग्नेर्वरणं विधत्ते- स आश्राव्येति । ‘अग्रे’ आर्षेयहोतृवरण-मानुषहोतृवरणाभ्यां पूर्वम् । देवहोतारं विशिनष्टि- अग्निमेवेति ॥

वरणस्य प्रयोजनमाह- तदग्नय इति । ‘निह्नुते’ ‘निः+ह्नुङ्-अपनयने (धा० पा० अ० आ० ११५६) अपनेतव्यश्चात्र तदसत्कारप्रयुक्तो ऽपराधः । तस्य क्रियमाणत्वादग्नेर्निह्नवः । कथं देवानां निह्नवः स्यादिति तं प्रकारं विभज्य दर्शयति- यदहाग्रे ऽग्निमित्यादिना । अग्नेर्देवहोतृत्वेन देवसम्बन्धात् तद्वरणेन तेषामपि निह्नव इत्यर्थः ॥ ४ ॥

Eggeling
  1. Having uttered the call, he in the first place chooses him who is the Hotr̥ of the gods, that is, Agni. Thereby he propitiates both Agni and the gods: for by first choosing Agni, he propitiates Agni;

and by first choosing him who is the Hotr̥ of the gods, he propitiates the gods.

०५

विश्वास-प्रस्तुतिः

स᳘ ऽआह॥
(हा) अग्नि᳘र्द्देवो दै᳘व्यो होते᳘त्यग्निर्हि᳘ देवा᳘नाᳫँ᳭ हो᳘ता त᳘स्मादाहाग्नि᳘र्द्देवो दै᳘व्यो होते᳘ति त᳘दग्न᳘ये चै᳘वत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निमा᳘ह त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫँ᳭ हो᳘ता तम᳘ग्र ऽआह त᳘दुदेवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - श्रीधरादि

स᳘ ऽआह॥
(हा) अग्नि᳘र्द्देवो दै᳘व्यो होते᳘त्यग्निर्हि᳘ देवा᳘नाᳫँ᳭ हो᳘ता त᳘स्मादाहाग्नि᳘र्द्देवो दै᳘व्यो होते᳘ति त᳘दग्न᳘ये चै᳘वत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निमा᳘ह त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫँ᳭ हो᳘ता तम᳘ग्र ऽआह त᳘दुदेवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - Weber

स᳘ आह॥
अग्नि᳘र्देवो दै᳘व्यो होते᳘त्यग्निर्हि᳘ देवा᳘नाᳫं हो᳘ता त᳘स्मादाहाग्नि᳘र्देवो दै᳘व्यो होते᳘ति त᳘दग्न᳘ये चैव᳘ देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निमा᳘ह त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नांहो᳘ता तम᳘ग्र आह त᳘दु देवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - विस्वरम्

स आह- “अग्निर्देवो 2 दैव्यो होता” -इति । अग्निर्हि देवानां होता, तस्मादाह- अग्निर्देवो दैव्यो होतेति । तद् अग्नये चैवैतद् देवेभ्यश्च निह्नुते । यदहाग्रे ऽग्निमाह- तदग्नये निह्नुते । अथ यो देवानां होता-, तमग्रे आह- तदु देवेभ्यो निह्नुते ॥ ५ ॥

सायणः

अत्र मन्त्रपाठ एवाग्नेर्वरणमित्याह- स आहेति । तथैव कात्यायनो ऽप्याह- “अथ 2 प्रवृणीते ऽग्निर्देवो दैव्यो होतेत्यादिना” (का० श्रौ० सू० ३. २५) प्रवरविधिशेषार्थवादे यो देवानां निह्नवः सङ्ग्रहविवरणाभ्यामुक्तः, तं मन्त्रपदतात्पर्याभिधानद्वारेणापि प्रतिपादयति- अग्निर्हीत्यादिना, अग्नेर्देवहोतृत्वसमर्थनेन ॥ ५ ॥

Eggeling
  1. He says, ‘Agni, the god, the divine Hotr̥–,’ for Agni is indeed the Hotr̥ of the gods, therefore he says ‘Agni, the god, the divine Hotr̥:’ thereby he propitiates both Agni and the gods; for by his first mentioning Agni he propitiates Agni; and by his first mentioning him who is the Hotr̥ of the gods, he propitiates the gods.

०६

विश्वास-प्रस्तुतिः

देवा᳘न्यक्षद्विद्वां᳘श्चिकित्वानि᳘ति॥
(त्ये) एष वै᳘ देवा᳘ननु विद्वान्य᳘दग्निः स᳘ ऽएनाननु विद्वा᳘ननुष्ठ्या᳘ यक्षदि᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

देवा᳘न्यक्षद्विद्वां᳘श्चिकित्वानि᳘ति॥
(त्ये) एष वै᳘ देवा᳘ननु विद्वान्य᳘दग्निः स᳘ ऽएनाननु विद्वा᳘ननुष्ठ्या᳘ यक्षदि᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

देवा᳘न्यक्षद्विद्वां᳘श्चिकित्वानि᳘ति॥
एष वै᳘ देवा᳘ननुविद्वान्य᳘दग्निः स᳘ एनाननुविद्वा᳘ननुष्ठ्या᳘ यक्षदि᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“देवान्यक्षद्विद्वांश्चिकित्वान्” -इति । एष वै देवाननु विद्वान्- यदग्निः । स एनाननु विद्वान् अनुष्ठ्या यक्षद्- इत्येवैतदाह ॥ ६ ॥

सायणः

द्वितीयं मन्त्रभागमनूद्य व्याचष्टे- देवान् यक्षदिति । विद्वान्- इत्यनेन यष्टव्यदेवतापरिज्ञानम्, ‘चिकित्वान्’- इति परिज्ञातस्यार्थस्याविस्मरणम् । अग्नेस्तथाविधज्ञानवत्त्वं “विद्वाँ आ वक्षि विदुषो निषत्सि" इत्यादि-मन्त्रेषु (ऋ० सं० ३. १४. २) प्रसिद्धम् । ‘अनुष्ठ्या’ 4 अनुक्रमेणेत्यर्थः ॥ ६ ॥

Eggeling
  1. ‘May he worship, knowing the gods 5, he the thoughtful one,’–for he, Agni, indeed, knows the gods well: hence, he thereby says ‘may he who knows them well worship (them) in due form!

०७

विश्वास-प्रस्तुतिः

मनुष्व᳘द्भरतवदिति॥
म᳘नुर्ह वा ऽअ᳘ग्रे यज्ञे᳘नेजे त᳘दनुकृ᳘त्येमाः᳘ प्रजा᳘ यजन्ते त᳘स्मादाह मनुष्वदि᳘ति म᳘नोर्यज्ञ ऽइ᳘त्युवा᳘ ऽआहुस्त᳘स्माद्वे᳘वाह म᳘नुष्वदि᳘ति॥

मूलम् - श्रीधरादि

मनुष्व᳘द्भरतवदिति॥
म᳘नुर्ह वा ऽअ᳘ग्रे यज्ञे᳘नेजे त᳘दनुकृ᳘त्येमाः᳘ प्रजा᳘ यजन्ते त᳘स्मादाह मनुष्वदि᳘ति म᳘नोर्यज्ञ ऽइ᳘त्युवा᳘ ऽआहुस्त᳘स्माद्वे᳘वाह म᳘नुष्वदि᳘ति॥

मूलम् - Weber

मनुष्व᳘द्भरतवदि᳘ति॥
म᳘नुर्ह वा अ᳘ग्रे यज्ञे᳘नेजे त᳘दनुकृ᳘त्येमाः᳘ प्रजा᳘ यजन्ते त᳘स्मादाह मनुष्वदि᳘ति म᳘नोर्यज्ञ इ᳘त्यु वा᳘ आहुस्त᳘स्माद्वेॗवाह म᳘नुष्वदि᳘ति॥

मूलम् - विस्वरम्

“मनुष्वद् भरतवद्”- इति । मनुर्ह वा अग्रे यज्ञेनेजे; तदनुकृत्येमाः प्रजा यजन्ते; तस्मादाह मनुष्वदिति । मनोर्यज्ञः- इत्यु वा आहुः, तस्माद्वेवाह- मनुष्वदिति ॥ ७ ॥

सायणः

मनुष्वदिति तृतीयमन्त्रभागगतस्य ‘मनुष्वत्’ पदस्य सामर्थ्यलब्धो ऽर्थः- तदनुकृत्येत्यादि । अयमर्थः- यथा मनुः स्वकीये यज्ञे देवान् अनुक्रमेणेष्टवान्, एवम् ‘इमाः प्रजाः’ अपि ‘यजन्ते’ तद्वदग्निरपि होता भूत्वा यजत्वित्यर्थः । तस्यैवाभिप्रायान्तरमाह- मनोर्यज्ञ इत्यादिना । ‘इति’- शब्दो ऽप्यर्थे, ‘वै’- शब्दः प्रसिद्धौ । अस्मिन् पक्षे ‘मनुष्वत्’- इति “तत्र तस्येव” (पा० सू० ५. १. ११६) इति षष्ठ्यर्थे वतिः । यस्मात् ‘मनोर्यज्ञ’ इति ‘आहुः’ सर्वे जनाः, अतो मनोर्यागकर्तृत्वम् मनोर्यज्ञ इवास्मिन् यज्ञे ऽपि देवान् यजत्वित्यर्थः। “नभो ऽङ्गिरोमनुषां वत्युपसङ्ख्यानम्”- (पा० सू० १ । ४ । १८ वा० ३) इति भसञ्ज्ञया पदसञ्ज्ञाया 4 रुत्वाभावः ॥ ७ ॥

Eggeling
  1. ‘Like as Manu (did), like as Bharata;’–Manu, indeed, worshipped with sacrifice in olden times, and doing as he did these descendants of his now sacrifice: therefore he says ’like as Manu.’ Or, say they, (it means) ‘at the sacrifice of Manu,’ and therefore he says ‘as (he did) with Manu.’

०८

विश्वास-प्रस्तुतिः

भरतवदि᳘ति॥
(त्ये) एष हि᳘ देवे᳘भ्यो हव्यं भ᳘रति त᳘स्माद्भर᳘तो ऽग्निरि᳘त्याहुरेष᳘ ऽउ वा᳘ ऽइमाः᳘ प्रजाः᳘ प्राणो᳘ भूत्वा᳘ बिभर्त्ति त᳘स्माद्वे᳘वाह भरतवदिति॥

मूलम् - श्रीधरादि

भरतवदि᳘ति॥
(त्ये) एष हि᳘ देवे᳘भ्यो हव्यं भ᳘रति त᳘स्माद्भर᳘तो ऽग्निरि᳘त्याहुरेष᳘ ऽउ वा᳘ ऽइमाः᳘ प्रजाः᳘ प्राणो᳘ भूत्वा᳘ बिभर्त्ति त᳘स्माद्वे᳘वाह भरतवदिति॥

मूलम् - Weber

भरतवदि᳘ति॥
एष हि᳘ देवे᳘भ्यो हव्यम् भ᳘रति त᳘स्माद्भरॗतो ऽग्निरि᳘त्याहुरेष᳘ उ वा᳘ इमाः᳘ प्रजाः᳘ प्राणो᳘ भूत्वा᳘ बिभर्ति त᳘स्माद्वेॗवाह भरतवदि᳘ति॥

मूलम् - विस्वरम्

भरतवदिति- एष हि देवेभ्यो हव्यं भरति, तस्माद्भरतो ऽग्निरित्याहुः । एष उ वा इमाः प्रजाः प्राणो भूत्वा बिभर्ति, तस्माद्वेवाह- भरतवदिति ॥ ८ ॥

सायणः

भरतवदितीति । भरतशब्दस्याग्न्यभिधायकत्वे द्वेधा व्युत्पत्तिं दर्शयति- एष हीत्यादिना ॥ ८ ॥

Eggeling
  1. ‘Like as (with) Bharata,’–for, say they, he bears (bhar) the oblation to the gods, hence Bharata (the bearer) is Agni; or, say they, he, having become the breath, supports (bhar) these creatures, and therefore he says ’like as Bharata.’

०९

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थार्षेयं प्र᳘वृणीते॥
(तऽ) ऋ᳘षिभ्यश्चै᳘वैनमेत᳘द्देवे᳘भ्यश्च नि᳘वेदयत्ययं᳘ महा᳘वीर्यो यो᳘ यज्ञं प्रा᳘पदि᳘ति त᳘स्मादार्षेयं प्र᳘वृणीते॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थार्षेयं प्र᳘वृणीते॥
(तऽ) ऋ᳘षिभ्यश्चै᳘वैनमेत᳘द्देवे᳘भ्यश्च नि᳘वेदयत्ययं᳘ महा᳘वीर्यो यो᳘ यज्ञं प्रा᳘पदि᳘ति त᳘स्मादार्षेयं प्र᳘वृणीते॥

मूलम् - Weber

अ᳘थार्षेयम् प्र᳘वृणीते॥
ऋ᳘षिभ्यश्चैॗवैनमेत᳘द्देवे᳘भ्यश्च नि᳘वेदयत्यय᳘म् महा᳘वीर्यो यो᳘ यज्ञम् प्रा᳘पदि᳘ति त᳘स्मादार्षेयम् प्र᳘वृणीते॥

मूलम् - विस्वरम्

अथार्षेयं प्रवृणीते । ऋषिभ्यश्चैवैनम्- एतद् देवेभ्यश्च निवेदयति- ‘अयं महावीर्यो यो यज्ञं प्रापद्’ इति, तस्मादार्षेयं प्रवृणीते ॥ ९ ॥

सायणः

यजमानस्यार्षेयवरणं विधत्ते- अथार्षेयमिति । ‘अथ’ दैवहोतृवरणानन्तरम्, ‘आर्षेयम्’ ऋषीणां सम्बन्धिनं तमध्वर्युः ‘वृणीते’ वरणं कुर्यात् । “अमुवदमुवत्” 6 इति (का० श्रौ० सू० ३. २६) कीर्तयेत् । तत्प्रयोजनमाह- ऋषिभ्यश्चेति । ‘यः’ यष्टुमुपक्रान्तवान् ‘अयं’ यजमानः शारीरश्रुताध्ययनसम्पत्त्या हि महासामर्थ्यवानित्येतदमुवदमुवदिति पुरातनप्रसिद्धऋषिदृष्टान्तेन गम्यते, अतस्तेभ्यो ऽस्य यजमानस्य सामर्थ्यमावेदितं भवति । अत्रान्वाधाने देवतापरिग्रहात् तत्सन्निधानं सिद्धमित्यभिप्रेत्य ‘ऋषिभ्यश्चैवैनमेतद्देवेभ्यश्च’- इत्युक्तम् ॥ ९ ॥

Eggeling
  1. He then chooses (Agni as) the ancestral (Hotr̥). He thus introduces him both to the (ancestral) r̥shis and to the gods (as if he were saying), ‘he is of mighty strength who obtained the sacrifice!’ for this reason he chooses (him as) the ancestral one.

१०

विश्वास-प्रस्तुतिः

पर᳘स्तादर्वाक्प्र᳘वृणीते॥
पर᳘स्ताद्ध्यर्व्वा᳘च्यः प्रजाः᳘ प्रजा᳘यन्ते ज्या᳘यसस्प᳘तय ऽउ चैवैतन्नि᳘ह्नुत ऽइदᳫं हि᳘ पि᳘तैवाग्रे᳘ ऽथ पुत्रो᳘ ऽथ पौ᳘त्रस्त᳘स्मात्पर᳘स्तादर्व्वाक्प्र᳘वृणीते॥

मूलम् - श्रीधरादि

पर᳘स्तादर्वाक्प्र᳘वृणीते॥
पर᳘स्ताद्ध्यर्व्वा᳘च्यः प्रजाः᳘ प्रजा᳘यन्ते ज्या᳘यसस्प᳘तय ऽउ चैवैतन्नि᳘ह्नुत ऽइदᳫं हि᳘ पि᳘तैवाग्रे᳘ ऽथ पुत्रो᳘ ऽथ पौ᳘त्रस्त᳘स्मात्पर᳘स्तादर्व्वाक्प्र᳘वृणीते॥

मूलम् - Weber

पर᳘स्तादर्वाक्प्र᳘वृणीते॥
पर᳘स्ताद्ध्य᳘र्वा᳘च्यः प्रजाः᳘ प्रजा᳘यन्ते ज्या᳘यसस्प᳘तय उ चैॗवैतन्नि᳘ह्नुत इदᳫं हि᳘ पिॗतैवाग्रे᳘ ऽथ पुत्रो᳘ ऽथ पौ᳘त्रस्त᳘स्मात्पर᳘स्तादर्वाक्प्र᳘वृणिते॥

मूलम् - विस्वरम्

परस्तादर्वाक् प्रवृणीते । परस्ताद्धि अर्वाच्यः प्रजाः प्रजायन्ते, ज्यायसस्पतय उ चैवैतन्निह्नुते । इदं हि- पितैवाग्रे, अथ पुत्रः, अथ पौत्रः । तस्मात्परस्तादर्वाक् प्रवृणीते ॥ १० ॥

सायणः

विहितमार्षेयवरणमवरोहेण कर्तव्यमिति विधत्ते- परस्तादर्वागित्यादिना । ज्यायसस्पतय- इति । ‘ज्यायान्’ वृद्धः पूर्वमित्यर्थः, तस्य पतिः ततो ऽपि ज्येष्ठः पूर्वपुरुषः । प्रत्येकविवक्षयैकवचनप्रयोगः, यः पूर्वः- पूर्वस्तस्मै-तस्मै तत्तन्नामग्रहणेन निह्नवं कृतवान् भवतीत्यर्थः ॥

परस्तादर्वाग्वरणमुपपादयति- इदं हीति । पिता, पुत्रः, पौत्रः, इत्यनेनैव क्रमेणोत्पत्तिरिति यत्, ‘इदं हि’ लोकसिद्धम्,अतस्तदनुसारेण आर्षे वरणे ऽपि पूर्वपूर्वपुरुषमारभ्य अर्वाक्त्वमेव युक्तमित्यर्थः । तथा च कात्यायनः 6 प्रवराभिधानसमये अवरोहक्रमेणैव वरणमाह- “भृगुवच्च्यवनवदप्नवानवदौर्ववज्जमदग्निवदित्यादिना” ॥ १० ॥

Eggeling
  1. He chooses from the remote end (of the sacrificer’s ancestral line) 7 downwards; for it is from the

remote end downwards that a race is propagated. Thereby he also propitiates the lord of seniority; for here among men the father comes first, then the son, and then the grandson: this is the reason why he chooses from the remote end downwards.

११

विश्वास-प्रस्तुतिः

स᳘ ऽआर्षेय᳘मु᳘क्त्वाह॥
ब्रह्मण्वदि᳘ति ब्र᳘ह्म᳘ ह्यग्निस्त᳘स्मादाह ब्रह्मण्वदित्या᳘ च व्वक्षदि᳘ति तद्या᳘ ऽए᳘वैत᳘द्देव᳘ता ऽआ᳘वोढ्वा ऽआ᳘ह ता᳘ ऽए᳘वैत᳘दाहा᳘ च व्वक्षदि᳘ति॥

मूलम् - श्रीधरादि

स᳘ ऽआर्षेय᳘मु᳘क्त्वाह॥
ब्रह्मण्वदि᳘ति ब्र᳘ह्म᳘ ह्यग्निस्त᳘स्मादाह ब्रह्मण्वदित्या᳘ च व्वक्षदि᳘ति तद्या᳘ ऽए᳘वैत᳘द्देव᳘ता ऽआ᳘वोढ्वा ऽआ᳘ह ता᳘ ऽए᳘वैत᳘दाहा᳘ च व्वक्षदि᳘ति॥

मूलम् - Weber

स᳘ आर्षेय᳘मुॗक्त्वाह॥
ब्रह्मण्वदि᳘ति ब्र᳘ह्म ह्य᳘ग्निस्त᳘स्मादाह ब्रह्मण्वदित्या᳘ च वक्षदि᳘ति तद्या᳘ एॗवैत᳘द्देव᳘ता आ᳘वोढवा आ᳘ह ता᳘ एॗवैत᳘दाहा᳘ च वक्षदि᳘ति॥

मूलम् - विस्वरम्

स आर्षेयमुक्त्वा आह- ‘ब्रह्मण्वद्’ इति । ब्रह्म ह्यग्निः, तस्मादाह- ब्रह्मण्वदिति । ‘आ च वक्षद्’ इति । तद्या एवैतद् देवता आवोढ्वा आह ता एवैतदाह- आ च वक्षदिति ॥ ११॥

सायणः

आर्षेयमिति । प्रवरशेषस्य प्रथमभाममनूद्य व्याचष्टे- ब्रह्मण्वदिति 6 । ‘ब्रह्म’ परिवृढं कर्म 8, । तत्साधकत्वाद् ‘अग्निः’ अपि ‘ब्रह्म’ स यथा आवहति, तद्वदित्यर्थः । आ च वक्षदिति । ‘या एव देवताः’ आवोढुम् आह्वातुम् “अग्निमग्न आ वह”- इत्यादिना ‘आह’ होता, ‘ता एव’ आवहत्विति ॥ ११ ॥

Eggeling
  1. Having named the ancestral, he says, ‘Like as, Brahman;’–for Agni is the Brahman (the Veda, or the sacerdotium), and therefore he says ’like as Brahman;’–‘may he bring (the gods) hither!’ what deities he bids him bring hither, those he refers to in saying ‘may he bring (them) hither.’

१२

विश्वास-प्रस्तुतिः

ब्राह्मणा᳘ ऽअस्य᳘ यज्ञ᳘स्य प्राविता᳘र ऽइ᳘ति॥
(त्ये) एते वै᳘ ब्राह्मणा᳘ यज्ञ᳘स्य प्राविता᳘रो᳘ ये ऽनूचाना᳘ ऽएते᳘ ह्येनं तन्व᳘त ऽएत᳘ ऽएनं जन᳘यन्ति त᳘दु ते᳘भ्यो नि᳘ह्नुते त᳘स्मादाह ब्रा᳘ह्मणा᳘ ऽअस्य᳘ यज्ञ᳘स्य प्राविता᳘र ऽइ᳘ति॥

मूलम् - श्रीधरादि

ब्राह्मणा᳘ ऽअस्य᳘ यज्ञ᳘स्य प्राविता᳘र ऽइ᳘ति॥
(त्ये) एते वै᳘ ब्राह्मणा᳘ यज्ञ᳘स्य प्राविता᳘रो᳘ ये ऽनूचाना᳘ ऽएते᳘ ह्येनं तन्व᳘त ऽएत᳘ ऽएनं जन᳘यन्ति त᳘दु ते᳘भ्यो नि᳘ह्नुते त᳘स्मादाह ब्रा᳘ह्मणा᳘ ऽअस्य᳘ यज्ञ᳘स्य प्राविता᳘र ऽइ᳘ति॥

मूलम् - Weber

ब्राह्मणा᳘ अस्य᳘ यज्ञ᳘स्य प्राविता᳘र इ᳘ति॥
एते वै᳘ ब्राह्मणा᳘ यज्ञ᳘स्यप्राविता᳘रोॗ ये ऽनूचाना᳘ एतेॗ ह्येनं तन्व᳘त एत᳘ एनं जन᳘यन्ति त᳘दु ते᳘भ्यो नि᳘ह्नुते त᳘स्मादाह ब्राह्मणा᳘ अस्य᳘ यज्ञ᳘स्य प्राविता᳘र इ᳘ति॥

मूलम् - विस्वरम्

“ब्राह्मणा अस्य यज्ञस्य प्रावितारः” -इति । एते वै ब्राह्मणा यज्ञस्य प्रावितारो ये ऽनूचानाः । एते ह्येनं तन्वते, एत एनं जनयन्ति । तदु तेभ्यो निह्नुते । तस्मादाह- ब्राह्मणा अस्य यज्ञस्य प्रावितार इति ॥ १२ ॥

सायणः

तन्मन्त्रवाक्यमाह- ब्राह्मणा इति । साङ्गवेदाध्यायिनः ‘अनूचानाः’ ‘ये’ सन्ति, त एवात्र ‘ब्राह्मण’- शब्दाभिधेया ऋत्विजः; ते ‘प्रावितारः’ कर्तारः । अवतिरत्र क्रियावचनः । ‘तन्वते’- इत्यस्य तात्पर्याभिधानं ‘जनयन्ति’ इति । यस्मादेतद्भागपाठात् तेभ्यो निह्नवः कृतो भवति, तस्मादयं मन्त्रभागः पठनीय इत्यर्थः ॥ १२ ॥

Eggeling
  1. ‘The Brāhmaṇas (priests) are the guardians of this sacrifice;’ for guardians of the sacrifice, indeed, are those Brāhmaṇas who are versed in the sacred writ, because they spread it, they originate it: these he thereby propitiates; and for this reason he says, ’the Brāhmaṇas are the guardians of the sacrifice.’

१३

विश्वास-प्रस्तुतिः

(त्य) असौ मा᳘नुष ऽइ᳘ति॥
त᳘दिमं मा᳘नुषᳫँ᳭ हो᳘तारं प्र᳘वृणीते᳘ ऽहोता हैष᳘ पुरा᳘थैत᳘र्हि हो᳘ता॥

मूलम् - श्रीधरादि

(त्य) असौ मा᳘नुष ऽइ᳘ति॥
त᳘दिमं मा᳘नुषᳫँ᳭ हो᳘तारं प्र᳘वृणीते᳘ ऽहोता हैष᳘ पुरा᳘थैत᳘र्हि हो᳘ता॥

मूलम् - Weber

असौ मा᳘नुष इ᳘ति॥
त᳘दिमम् मा᳘नुषᳫं हो᳘तारं प्र᳘वृणीते᳘ होता हैष᳘ पुरा᳘थैत᳘र्हि हो᳘ता॥

मूलम् - विस्वरम्

‘असौ मानुषः’ इति तदिमं मानुषं होतारं प्रवृणीते । अहोता हैष पुरा; अथैतर्हि होता ॥ १३ ॥

सायणः

आर्षेयवरणानन्तरं मानुषहोतृवरणं कर्तव्यम्, तत्र मन्त्रपाठ एव तद्वरणमित्याह- असाविति । ‘तत्’ तेन ‘असौ’- इति मन्त्रपाठेन । असावित्यत्र होतुर्नाम प्रथमान्तं निर्द्दिशेत् । तथा च कात्यायनः- “असौ मानुष इति होतृनामग्रहणम्” -(का० श्रौ० सू० ३. ३१. ३२) इति । ‘अहोता’9 -इति च्छेदः । ‘एतर्हि’ एतस्मिन् मन्त्रलक्षणे वरणे सति 10 ॥ १३ ॥

Eggeling
  1. ‘N.N. is the man,’ thereby he chooses this man for his Hotr̥; heretofore he was not a Hotr̥, but now he is a Hotr̥.

१४

विश्वास-प्रस्तुतिः

स प्र᳘वृ᳘तो हो᳘ता जपति॥
देव᳘ता ऽउ᳘पधावति य᳘थानुष्ठ्᳘या देवे᳘भ्यो व्वषट्कुर्याद्य᳘थानुष्ठ्᳘या᳘ देवे᳘भ्यो हव्यं व्व᳘हेद्य᳘था न ह्व᳘लेदेवं᳘ देव᳘ता ऽउ᳘पधावति॥

मूलम् - श्रीधरादि

स प्र᳘वृ᳘तो हो᳘ता जपति॥
देव᳘ता ऽउ᳘पधावति य᳘थानुष्ठ्᳘या देवे᳘भ्यो व्वषट्कुर्याद्य᳘थानुष्ठ्᳘या᳘ देवे᳘भ्यो हव्यं व्व᳘हेद्य᳘था न ह्व᳘लेदेवं᳘ देव᳘ता ऽउ᳘पधावति॥

मूलम् - Weber

स प्र᳘वृतो हो᳘ता॥
जपति देव᳘ता उ᳘पधावति य᳘थानुष्ठ्या᳘ देवे᳘भ्यो वषट्कुर्याद्य᳘थानुष्ठ्या᳘ देवे᳘भ्यो हव्यं व᳘हेद्य᳘था न ह्व᳘लेदेवं᳘ देव᳘ता उ᳘पधावति॥

मूलम् - विस्वरम्

स्वस्त्ययनजपः ।

स प्रवृतो होता जपति, देवता उपधावति । यथानुष्ठ्या देवेभ्यो वषट्कुर्याद्, यथानुष्ठ्या देवेभ्यो हव्यं वहेद्, यथा न ह्वलेद्- एवं देवता उपधावति ॥ १४ ॥

सायणः

इत्थमध्वर्युकर्तृकं होतृवरणमभिधाय तस्य स्वं जपं विधत्ते- स प्रवृतो होता जपतीति । ‘देवता उपधावतीति’ जपप्रयोजनकथनम्; ‘तस्मात्’ मन्त्रे सति पित्रग्न्यादीनां श्रवणात् । उपधावनप्रकारं योजयित्वा दर्शयति- यथानुष्ठ्येति । यथा याज्यासमये होता वषट्कर्तव्यदेवता अनुदिश्य 9 अनुदिश्य वषट्करोति, यथा वा अग्निस्तं तं देवमुद्दिश्य हव्यं वहति, तथा च स यज्ञो यथा ‘न ह्वलेत्’ न चलेत्, न भ्रंश्येत; एवं स होता देवेभ्य उपधावनं कृतवान् भवति ॥ १४ ॥

Eggeling
  1. The chosen Hotr̥ mutters,–has recourse to the deities: in order that he may give the vashaṭ-call to the gods in its proper order, that he may convey the oblation to the gods in its proper order, that he may not stumble, he has thus recourse to the deities.

१५

विश्वास-प्रस्तुतिः

त᳘त्र जपति। (त्ये) एत᳘त्त्वा देव सवितर्वृणत ऽइ᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसवि᳘ताग्नि᳘ᳫँ᳭ होत्राये᳘ति त᳘दग्न᳘ये चै᳘वैत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निमा᳘ह त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫँ᳭ हो᳘ता तम᳘ग्र ऽआह त᳘दु देवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - श्रीधरादि

त᳘त्र जपति। (त्ये) एत᳘त्त्वा देव सवितर्वृणत ऽइ᳘ति त᳘त्सविता᳘रं प्रसवायो᳘पधावति स हि᳘ देवा᳘नां प्रसवि᳘ताग्नि᳘ᳫँ᳭ होत्राये᳘ति त᳘दग्न᳘ये चै᳘वैत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निमा᳘ह त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫँ᳭ हो᳘ता तम᳘ग्र ऽआह त᳘दु देवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - Weber

त᳘त्र जपति एत᳘तत्त्वा देव सवितर्वृणत इ᳘ति त᳘त्सविता᳘रम् प्रसवायो᳘पधावति स हि᳘ देवा᳘नाम् प्रसविॗताग्नि᳘ᳫं᳘ होत्राये᳘ति त᳘दग्न᳘ये चैॗवैत᳘द्देवे᳘भ्यश्च नि᳘ह्नुते यदहा᳘ग्रे ऽग्निमा᳘ह त᳘दग्न᳘ये निह्नुते᳘ ऽथ यो᳘ देवा᳘नाᳫं हो᳘ता तम᳘ग्र आह त᳘दु देवे᳘भ्यो नि᳘ह्नुते॥

मूलम् - विस्वरम्

तत्र जपति- “एतत्त्वा देव सवितर्वृणते” -इति । तत्सवितारं प्रसवायोपधावति । स हि देवनां प्रसविता । “अग्निं होत्राय” -इति । तदग्नये चैवैतद् देवेभ्यश्च निह्नुते । यदहाग्रे ऽग्निमाह- तद् अग्नये निह्नुते । अथ यो देवानां होता तमग्रे आह- तदु देवेभ्यो निह्नुते ॥ १५ ॥

सायणः

तत्र जपतीति । ‘तत्र’ तस्मिन् वरणाख्ये कर्मणि । मन्त्रभागस्यायमर्थः- हे ‘सवितः !’ सकलकर्मानुज्ञातः ! ‘देव’ ‘एतत्’ एतेन मम वरणेन मद्व्याजेन ‘त्वा’ त्वामेव ‘वृणते’ अध्वर्यवः । ‘तत्’ तेन मन्त्रपाठेन सवितुरनुज्ञा लब्धा भवति । ‘हि’- शब्देन “सविता वै प्रसवानामीशे” (ऐ० ब्रा० १. ३. ५) इत्यादिश्रुतिप्रसिद्धिर्द्योत्यते । अग्नि ँ होत्रायेतीति । होतुः कर्म ‘होत्रं’ स्व-स्व-मन्त्रपाठादि; तत् होत्रं कर्तुम् ‘अग्निं’ वृणते; न तु मामित्यर्थः । मन्त्रगतं यदग्नि-पदम्, यच्च तद्विशेषणं देवहोतृपदम्, तदुभयं पूर्ववद् विभज्य प्रशंसति- तदग्नय इत्यादिना ॥ १५ ॥

Eggeling
  1. He mutters on this occasion 11, ‘Thee, O divine Savitr̥, they now choose,’–thereby he has recourse to Savitr̥ for his impulsion (prasava), for Savitr̥ is the impeller (prasavitr̥) of the gods;–’(thee who art) Agni, for the Hotr̥ship,’ thereby he

propitiates both Agni and the gods; for by first naming Agni, he propitiates Agni; and by first naming him who is the Hotr̥ of the gods, he propitiates the gods.

१६

विश्वास-प्रस्तुतिः

सह᳘ पित्रा᳘ व्वैश्वानरेणे᳘ति॥
संव्वत्सरो वै᳘ पिता᳘ व्वैश्वानरः᳘ प्रजा᳘पतिस्त᳘त्संव्वत्सरा᳘यै᳘वैत᳘त्प्रजा᳘पतये नि᳘ह्नुते᳘ ऽग्ने पू᳘षन्बृ᳘हस्पते प्र᳘ च व्व᳘द प्र᳘ च यजे᳘त्यनुवक्ष्यन्वा᳘ ऽएत᳘द्यक्ष्य᳘न्भवति त᳘देता᳘भ्य ऽए᳘वैत᳘द्देव᳘ताभ्यो नि᳘ह्नुते यूयम᳘नुब्रूत यूयं᳘ यजते᳘ति॥ [शतम् ४००]

मूलम् - श्रीधरादि

सह᳘ पित्रा᳘ व्वैश्वानरेणे᳘ति॥
संव्वत्सरो वै᳘ पिता᳘ व्वैश्वानरः᳘ प्रजा᳘पतिस्त᳘त्संव्वत्सरा᳘यै᳘वैत᳘त्प्रजा᳘पतये नि᳘ह्नुते᳘ ऽग्ने पू᳘षन्बृ᳘हस्पते प्र᳘ च व्व᳘द प्र᳘ च यजे᳘त्यनुवक्ष्यन्वा᳘ ऽएत᳘द्यक्ष्य᳘न्भवति त᳘देता᳘भ्य ऽए᳘वैत᳘द्देव᳘ताभ्यो नि᳘ह्नुते यूयम᳘नुब्रूत यूयं᳘ यजते᳘ति॥ [शतम् ४००]

मूलम् - Weber

सह᳘ पित्रा᳘ वैश्वानरेणे᳘ति॥
संवत्सरो वै᳘ पिता᳘ वैश्वानरः᳘ प्रजा᳘पतिस्त᳘त्संवत्सरा᳘यैॗवैत᳘त्प्रजा᳘पतये नि᳘ह्नुते᳘ ऽग्ने पू᳘षन्बृ᳘हस्पते प्र᳘ च वद प्र᳘ च यजे᳘त्यनुवक्ष्यन्वा᳘ एत᳘द्यक्ष्य᳘न्भवति त᳘दैता᳘भ्य एॗवैत᳘द्देव᳘ताभ्यो नि᳘ह्नुते यूयम᳘नुब्रूत यूयं᳘ यजते᳘ति॥

मूलम् - विस्वरम्

“सह पित्रा वैश्वानरेण” -इति । संवत्सरो वै पिता वैश्वानरः प्रजापतिः । तत्संवत्सरायैव एतत्प्रजापतये निह्नुते- “अग्ने पूषन् बृहस्पते प्र च वद, प्र च यज” इति । अनुवक्ष्यन् वा एतद् यक्ष्यन् भवति; तदेताभ्य एवैतद् देवताभ्यो निह्नुते- ‘यूयमनुब्रूत, यूयं यजत’ इति ॥ १६ ॥

सायणः

सह पित्रेत्यादि । विश्वे च ते नराश्च विश्वनराः, तेषां सम्बन्धी वैश्वानरः; स च पालनात् ‘पिता’ उच्चते; तेन सह, अग्निं वृणत इति पूर्वत्र सम्बन्धः । वैश्वानरात्मकं देवमग्निं च वृणत इत्यर्थः 12 । वैश्वानरशब्दस्याग्नौ प्रसिद्धेश्चाभिमतमर्थमाह- संवत्सरो वा इति । “संवत्सरो वै प्रजापतिः” (ऐ० ब्रा० ३. २. ७.) इति श्रुतेः । संवत्सरस्य प्रजापतित्वम्, तस्यैव सकलमनुष्योत्पादकत्वेन सम्बन्धाद् वैश्वानरत्वम् । अग्ने पूषन्निति मन्त्रभागस्याभिप्रायमाह- अनुवक्ष्यन् वा इति । होता ह्यनुवाक्याः पठिष्यन्, याज्याभिः ‘यक्ष्यन्’ च ‘भवति’ ‘तत्’ एतदनुवचनं यजनस्यैव ‘एताभ्यः’ अग्न्यादिदेवताभ्यः । निह्नुवाय भवति । ‘प्र च वद’ ‘प्र च यजेति’ प्रवचनयजनयोस्तेष्वारोपः । इमामेव निह्नुतिं विशदयति- यूयमिति ॥ १६ ॥

Eggeling
  1. ‘Together with father Vaiśvānara,’–for the father Vaiśvānara (‘common to all men’), doubtless, is the year, is Prajāpati (lord of creatures); hence he thereby propitiates the year and thus Prajāpati.–‘O Agni! O Pūshan! O Br̥haspati! speak forth and offer up sacrifice (pra-yaj)!’–he (the Hotr̥), namely, will have to recite the anuvākyās and the yāgyās 13; he therefore now propitiates those gods: do ye recite, ‘do ye offer!’ thus (he thereby says).

१७

विश्वास-प्रस्तुतिः

व्व᳘सूनाᳫँ᳭ रातौ᳘ स्याम॥
रुद्रा᳘णामुर्व्वा᳘याᳫं स्वादित्या ऽअ᳘दितये स्यामानेह᳘स ऽइ᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽएते᳘षामभि᳘गुप्तौ स्यामे᳘त्ये᳘वैत᳘दाह॥

मूलम् - श्रीधरादि

व्व᳘सूनाᳫँ᳭ रातौ᳘ स्याम॥
रुद्रा᳘णामुर्व्वा᳘याᳫं स्वादित्या ऽअ᳘दितये स्यामानेह᳘स ऽइ᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ ऽआदित्या᳘ ऽएते᳘षामभि᳘गुप्तौ स्यामे᳘त्ये᳘वैत᳘दाह॥

मूलम् - Weber

व᳘सूनां रातौ᳘ स्याम॥
रुद्रा᳘णामुर्व्या᳘याᳫं स्वादित्या अ᳘दितये स्यामानेह᳘स इ᳘त्येते वै᳘ त्रया᳘ देवा यद्व᳘सवो रुद्रा᳘ आदित्या᳘ एते᳘षामभि᳘गुप्तौ स्यामे᳘त्येॗवैत᳘दाह॥

मूलम् - विस्वरम्

“वसूनां रातौ स्याम, रुद्राणाम् उर्वायाम्, स्वादित्या अदितये स्यामानेहसः” -इति । एते वै त्रया देवाः- यद् वसवो रुद्रा आदित्याः । एतेषामभिगुप्तौ स्याम- इत्येवैतदाह ॥ १७॥

सायणः

वसूनामिति । रातिर्दानम्, तस्यां भवेम; धनं लभेमहीत्यर्थः । ‘रुद्राणाम्’ ‘उर्वायाम्’ -इति उरुत्वे, तेषां यन्महत्त्वम्- तस्मिन् स्यामेति सम्बन्धः । ‘स्वादित्याः’ तेषामुपसदनेन सुप्रीताः आदित्याः वयम् ‘अदितये’ देवमात्रे, एतन्नामिकायै देवतायै वा ‘अनेहसः’ अपापिनः- अनपराधिनो भवेम, अथ वा दितिः खण्डनं नाशः, तदभावाय चिरकालजीवनाय भवेमेत्यर्थः ।

अत्र सङ्घविवक्षया “त्रया देवाः"- इत्युक्तम् । पृथक् पृथक् प्रार्थनायाः पयवसितं फलमाह- एतेषामिति ॥ १७ ॥

Eggeling
  1. ‘May we partake of the bounty of the Vasus, of the wide sway of the Rudras! may we be beloved of the Ādityas for the sake of (aditi) security from injury, free from obstruction!’–these, to wit, the Vasus, Rudras, and Ādityas, namely, are three (classes of) gods: ‘may we enjoy their protection’ he thereby says.

१८

विश्वास-प्रस्तुतिः

जु᳘ष्टामद्य᳘ देवे᳘भ्यो व्वा᳘चमुद्यासमि᳘ति॥
जु᳘ष्टमद्य᳘देवे᳘भ्यो᳘ ऽनूच्यासमि᳘त्येवैत᳘दाह तद्धि स᳘मृद्धं यो जु᳘ष्टं देवे᳘भ्यो ऽनुब्र᳘वत्॥

मूलम् - श्रीधरादि

जु᳘ष्टामद्य᳘ देवे᳘भ्यो व्वा᳘चमुद्यासमि᳘ति॥
जु᳘ष्टमद्य᳘देवे᳘भ्यो᳘ ऽनूच्यासमि᳘त्येवैत᳘दाह तद्धि स᳘मृद्धं यो जु᳘ष्टं देवे᳘भ्यो ऽनुब्र᳘वत्॥

मूलम् - Weber

जु᳘ष्टामद्य᳘ देवे᳘भ्यो वा᳘चमुद्यासमि᳘ति॥
जु᳘ष्टमद्य᳘ देवे᳘भ्यो᳘ ऽनूच्यासमि᳘त्येॗवैत᳘दाह तद्धि स᳘मृद्धं यो जु᳘ष्टं देवे᳘भ्यो ऽनुब्र᳘वत्॥

मूलम् - विस्वरम्

“जुष्टामद्य देवेभ्यो वाचमुद्यासम्” -इति । जुष्टमद्य देवेभ्यो ऽनूच्यासमित्येवैतदाह । तद्धि समृद्धं- यो जुष्टं देवेभ्यो ऽनुब्रवत् ॥ १८ ॥

सायणः

मन्त्रभागे विशेष्यभूतस्य वाक्शब्दस्यार्थे ‘उद्यासम्’ इत्यत्र वदिधातुनैव उपात्तमित्यभिप्रेत्य तद्विशेषणीभूतं जुष्टामिति पदं क्रियाविशेषणतया व्याचष्टे- जुष्टामित्यादिना । अत्र केवलो ऽपि वदिरुच्चारणार्थे वर्तते । किमनेन वाचो जुष्टत्वप्रार्थनयेति तदुपपादयति- तद्धीति । ‘यो जुष्टम्’ ‘अनुब्रवत्’ अनुब्रूयात्, ‘तत्’ तदीयं कर्म ‘समृद्धम्’ इत्यर्थः। ब्रूञो (धा० पा० अ० उ० ३४) लेट्यडागमः । (पा० सू० ३ । ४ ।९४) एवमुत्तरवाक्ययोरपि योजना ॥ १८ ॥

Eggeling
  1. ‘May I this day utter speech that is agreeable to the gods;’–by this he means to say ‘may I this day recite what is agreeable to the gods,’ for auspicious it is when one recites what is agreeable to the gods.

१९

विश्वास-प्रस्तुतिः

(ज्जु᳘) जु᳘ष्टां ब्रह्म᳘भ्य ऽइ᳘ति॥
जु᳘ष्टमद्य᳘ ब्राह्मणेभ्यो᳘ ऽनूच्यासमि᳘त्ये᳘वैत᳘दाह तद्धि स᳘मृद्धं यो जु᳘ष्टं ब्राह्मणे᳘भ्यो ऽनुब्र᳘वत्॥

मूलम् - श्रीधरादि

(ज्जु᳘) जु᳘ष्टां ब्रह्म᳘भ्य ऽइ᳘ति॥
जु᳘ष्टमद्य᳘ ब्राह्मणेभ्यो᳘ ऽनूच्यासमि᳘त्ये᳘वैत᳘दाह तद्धि स᳘मृद्धं यो जु᳘ष्टं ब्राह्मणे᳘भ्यो ऽनुब्र᳘वत्॥

मूलम् - Weber

जु᳘ष्टाम् ब्रह्म᳘भ्य इ᳘ति॥
जु᳘ष्टमद्य᳘ ब्राह्मणेभ्यो᳘ ऽनूच्यासमि᳘त्येॗवैत᳘दाह तद्धि स᳘मृद्धम् यो जुष्टम् ब्राह्मणे᳘भ्यो ऽनुब्र᳘वत्॥

मूलम् - विस्वरम्

“जुष्टां ब्रह्मभ्यः” -इति । जुष्टमद्य ब्राह्मणेभ्योऽनूच्यासमित्येवैतदाह । तद्धि समृद्धं- यो जुष्टं ब्राह्मणेभ्यो ऽनुब्रवत् ॥ १९ ॥

सायणः

‘ब्रह्मभ्य’- इति ब्रह्मशब्दस्य ब्राह्मणजातिरर्थ इति व्याचष्टे- जुष्टां ब्रह्मभ्य इति ॥ १९॥

Eggeling
  1. ‘Agreeable to the Brahmans,’–by this he means to say ‘may I this day recite what is agreeable to the Brāhmaṇas (priests);’ for auspicious it is when one recites what is agreeable to the Brāhmaṇas.

२०

विश्वास-प्रस्तुतिः

(ज्जु᳘) जु᳘ष्टां न᳘राश᳘ᳫँ᳭साये᳘ति॥
प्रजा वै न᳘रस्तत्स᳘र्व्वाभ्यः प्रजा᳘भ्य ऽआह तद्धि स᳘मृद्धं य᳘श्च व्वे᳘द य᳘श्च न᳘ साध्व᳘न्ववोचत्साध्व᳘न्ववोचदि᳘त्येव व्वि᳘सृज्यन्ते य᳘दद्य᳘ होतृव᳘र्ये जिह्मं च᳘क्षुः परा᳘पतत् अग्निष्टत्पुनरा᳘भ्रियाज्जात᳘वेदा व्वि᳘चर्षणिरि᳘ति य᳘था यान᳘ग्रे ऽग्नी᳘न्होत्रा᳘य प्रा᳘वृणत ते प्रा᳘धन्वन्नेवं यन्मे᳘ ऽत्र प्रवरेणा᳘ मायि त᳘न्मे पु᳘नरा᳘प्यायये᳘त्ये᳘वैत᳘दाह त᳘थो हास्यैतत्पु᳘नरा᳘प्यायते॥

मूलम् - श्रीधरादि

(ज्जु᳘) जु᳘ष्टां न᳘राश᳘ᳫँ᳭साये᳘ति॥
प्रजा वै न᳘रस्तत्स᳘र्व्वाभ्यः प्रजा᳘भ्य ऽआह तद्धि स᳘मृद्धं य᳘श्च व्वे᳘द य᳘श्च न᳘ साध्व᳘न्ववोचत्साध्व᳘न्ववोचदि᳘त्येव व्वि᳘सृज्यन्ते य᳘दद्य᳘ होतृव᳘र्ये जिह्मं च᳘क्षुः परा᳘पतत् अग्निष्टत्पुनरा᳘भ्रियाज्जात᳘वेदा व्वि᳘चर्षणिरि᳘ति य᳘था यान᳘ग्रे ऽग्नी᳘न्होत्रा᳘य प्रा᳘वृणत ते प्रा᳘धन्वन्नेवं यन्मे᳘ ऽत्र प्रवरेणा᳘ मायि त᳘न्मे पु᳘नरा᳘प्यायये᳘त्ये᳘वैत᳘दाह त᳘थो हास्यैतत्पु᳘नरा᳘प्यायते॥

मूलम् - Weber

जु᳘ष्टां नराश᳘ᳫं᳘साये᳘ति॥
प्रजा वै न᳘रस्तत्स᳘र्वाभ्यः प्रजा᳘भ्य आह तद्धि स᳘मृद्धं य᳘श्च वे᳘द य᳘श्च न᳘ साध्व᳘न्ववोचत्साध्व᳘न्ववोचदि᳘त्येव वि᳘सृज्यन्ते य᳘दद्य᳘ होतृव᳘र्ये जिह्मंच᳘क्षुः परा᳘पतत् अग्निष्टत्पु᳘नरा᳘भ्रियाज्जात᳘वेदा वि᳘चर्षणिरि᳘ति य᳘था यान᳘ग्रे ऽग्नी᳘न्होत्रा᳘य प्रा᳘वृणत ते प्रा᳘धन्वन्नेवं यन्मे᳘ ऽत्र प्रवरेणा᳘मायि त᳘न्मे पु᳘नरा᳘प्यायये᳘त्येॗवैत᳘दाह त᳘थो हास्यैतत्पु᳘नरा᳘प्यायते॥

मूलम् - विस्वरम्

“जुष्टां नराशँसाय” -इति । प्रजा वै नरः । तत्सर्वाभ्यः प्रजाभ्य आह । तद्धि समृद्धम् । यश्च वेद, यश्च न, साध्वन्ववोचत्- साध्वन्ववोचत्- इत्येव विसृज्यन्ते । “यदद्य होतृवर्ये जिह्मं चक्षुः परापतत, अग्निष्टत् पुनराभ्रियाज्जातवेदा विचर्षणिः”- इति । यथा यानग्रे ऽग्नीन् होत्राय प्रावृणत- ते प्राधन्वन्; एवं यन्मे ऽत्र प्रवरेणामायि, तन्मे पुनराप्यायय- इत्येवैतदाह । तथो हास्यैतत्पुनराप्यायते ॥ २० ॥

सायणः

जुष्टां नराशंसायेति । यथा सर्वे ऽपि नराः ‘आ’ सर्वतः शंसन्ति, तथाविधशंसनाय ‘जुष्टां’ प्रियामित्यर्थः । अत्र साधारण्येन नराणां यो जोष आशंसितः; स युक्त एवेत्याह प्रजा वै नर इत्यादिना । न केवलं तद्धि 14 होत्रज्ञानामेव संलापो ऽपेक्षितः, अपि तु यो जुष्टां वाचं जानाति, यश्च न, स सर्वैरप्ययं साधु उक्तवानित्येवंरूपया वाचा ‘विसृज्यन्ते’ उच्चार्यन्ते, तदेव समृद्धमित्यर्थः ।

इमानि मन्त्रवाक्यानि व्याख्याय ऋगात्मकं मन्त्रं व्याख्यातुं साकल्येनानुवदति- यदद्येति । मन्त्रस्यायमर्थः- ‘होतृवर्ये’ होतृवरणे निमित्तभूते सति 15 ‘यत्’ ‘चक्षुः’ अङ्गम् ‘जिह्मम्’ अंशोपरोधेन कुटिलम् ‘परापतत्’ स न्निपतेत् ‘तत्’ विशेषेण द्रष्टा ‘अग्निः’ पुनराभरतु । चक्षुर्वत् प्रधानं होत्रस्याङ्गं यद्भ्रष्टमभूत्, तदग्निः समादधात्विति तात्पर्यार्थः । मन्त्रस्य तात्पर्यार्थः प्रदर्श्यते- यथेत्यादिना । पुरा ‘यान् अग्रे ऽग्नीन् होत्राय’ वृतवन्तः, ‘ते’ ‘प्राधन्वन्’ प्रगता नष्टा अभवन्; ‘एवम्’ इदानीं ‘मे’ मदङ्गम् ‘प्रवरेण’ निमित्तेन ‘अमायि’ हिंसितमभूत्; तत् समाधत्स्वेत्युक्तमिति ॥ २० ॥

Eggeling
  1. ‘Agreeable to Narāśaṁsa 16,’–man (nara), namely, is a creature: hence he says this for all the creatures; thereby it is auspicious, and whether or not he knows (forms of speech that are agreeable), they are uttered (and received with applause), ‘well he has recited! well he has recited!’–‘What at the Hotr̥ choice may escape the crooked eye this day, that may Agni bring back here, he, the knower of beings (jātavedas), the nimble one (vicarshaṇi)!’–by this he means to say, ’even as those (three) Agnis, whom they first chose for the Hotr̥ship, passed away 17, (but thou, the fourth Agni, wast then obtained,) so do thou make good for me whatever mistake may have been committed at my election!’ and it is accordingly made good for him.

२१

विश्वास-प्रस्तुतिः

(ते᳘ ऽथा) अ᳘थाध्वर्युं᳘ चाग्नी᳘ध्रं च स᳘म्मृशति॥
म᳘नो वा᳘ ऽअध्वर्यु᳘र्व्वाग्घो᳘ता तन्म᳘नश्चै᳘वैतद्वा᳘चं च स᳘न्दधाति॥

मूलम् - श्रीधरादि

(ते᳘ ऽथा) अ᳘थाध्वर्युं᳘ चाग्नी᳘ध्रं च स᳘म्मृशति॥
म᳘नो वा᳘ ऽअध्वर्यु᳘र्व्वाग्घो᳘ता तन्म᳘नश्चै᳘वैतद्वा᳘चं च स᳘न्दधाति॥

मूलम् - Weber

अ᳘थाध्वर्युं᳘ चाग्नी᳘धं च स᳘म्मृशति॥
म᳘नो वा᳘ अध्वर्युर्वाग्घो᳘ता तन्म᳘नश्चैॗवैतद्वा᳘चं च सं᳘दधाति॥

मूलम् - विस्वरम्

अथाध्वर्युं चाग्नीध्रं च संमृशति । मनो वा अध्वर्युः, वाग् होता । तन्मनश्चैवैतद् वाचं च सन्दधाति ॥ २१ ॥

सायणः

अथ वृतस्य होतुः सम्मर्शनं विधत्ते 18- अथाध्वर्युमिति । सम्मर्शनेनेष्टं विवक्षुरनयोः सम्मर्शने कारणमाह- मनो वा इति। अध्वर्योः कर्तव्यविषयस्य मनोव्यापारस्य बाहुल्यात् मनोरूपत्वाभिधानम् । याज्यापुरोनुवाक्यादिकेवलवागव्यापाराद् होतुर्वागात्मकता, तदुभयात्मकत्वाद् यज्ञस्य; तयोः सम्मर्शनेन मनोवाचोः सन्धानं कृतं भवति । संस्पर्शनप्रकारमाश्वलायन आह- “अंसे ऽध्वर्युमन्वारभेत पार्श्वस्थेन पाणिना आग्नीध्रमङ्कदेशेन” इति 15 (आश्व० श्रौ० सू० १. ३. २५. २६) ॥ २१ ॥

Eggeling
  1. He now touches the Adhvaryu and the Āgnīdhra: for the Adhvaryu is the mind, and the Hotr̥ is, speech: thus he thereby brings mind and speech together.

२२

विश्वास-प्रस्तुतिः

त᳘त्र जपति॥
ष᳘ण्मोर्व्वीर᳘ᳫँ᳭हसस्पा᳘न्त्वग्नि᳘श्च पृथिवी चा᳘पश्च व्वा᳘जश्चा᳘हश्च रा᳘त्रिश्चे᳘त्येता᳘ मा देव᳘ता ऽआ᳘र्तेर्गोपायन्त्वि᳘त्ये᳘वैत᳘दाह त᳘दाह त᳘स्यो हि न᳘ ह्वला᳘स्ति᳘ य᳘मेता᳘ देव᳘ता ऽआ᳘र्तेर्गोपाये᳘युः॥

मूलम् - श्रीधरादि

त᳘त्र जपति॥
ष᳘ण्मोर्व्वीर᳘ᳫँ᳭हसस्पा᳘न्त्वग्नि᳘श्च पृथिवी चा᳘पश्च व्वा᳘जश्चा᳘हश्च रा᳘त्रिश्चे᳘त्येता᳘ मा देव᳘ता ऽआ᳘र्तेर्गोपायन्त्वि᳘त्ये᳘वैत᳘दाह त᳘दाह त᳘स्यो हि न᳘ ह्वला᳘स्ति᳘ य᳘मेता᳘ देव᳘ता ऽआ᳘र्तेर्गोपाये᳘युः॥

मूलम् - Weber

त᳘त्र जपति॥
ष᳘ण्मोर्वीर᳘ᳫं᳘हसस्पान्त्वग्नि᳘श्च पृथिवी चा᳘पश्च वा᳘जश्चा᳘हश्च रा᳘त्रिश्चे᳘त्येता᳘ मा देव᳘ता आ᳘र्त्तेर्गोपायन्त्वि᳘त्येॗवैत᳘दाह त᳘स्यो हि न᳘ ह्वला᳘स्ति य᳘मेता᳘ देव᳘ता आ᳘र्त्तेर्गोपाये᳘युः॥

मूलम् - विस्वरम्

तत्र जपति- “षण् मोर्वीरंहसस्पान्तु-अग्निश्च पृथिवी च आपश्च वाजश्च अहश्च रात्रिश्च” -इति । एता मा देवता आर्तेर्गोपायन्तु- इत्येवैतदाह । तस्यो हि न ह्वलास्ति- यमेता देवता आर्तेर्गोपायेयुः ॥ २२ ॥

सायणः

तत्र जपतीति । अन्वारब्धेन 18 जपितव्यं मन्त्रं सतात्पर्यमाह- षण्मोर्वीरित्यादिना । अग्न्यादीनामुरुत्वं लोकसिद्धम् । ‘एताः’ मां दुरितात् पान्त्विति तस्यार्थः । अंहःशब्दस्य तात्पर्याभिधानम्- आर्तेरिति । आर्तिर्नाशः । अग्न्यादीनां प्रत्यक्षदेवतात्वात् तद्रक्षितस्य नाशाभावः प्रसिद्ध इत्याह- तस्यो हीति ॥ २२ ॥

Eggeling
  1. At the same time he mutters 19, ‘From anguish may the six spaces protect me, fire, earth, water, wind, day, and night 20!’–‘may these deities protect

me from disease!’ thus he thereby says; for he whom these deities protect from disease, will not stumble (or fail).

२३

विश्वास-प्रस्तुतिः

(र᳘) अ᳘थ होतृष᳘दनमुपा᳘वर्तते॥
स᳘ होतृष᳘दनादे᳘कं तृ᳘णं नि᳘रस्यति नि᳘रस्तः पराव᳘सुरि᳘ति पराव᳘सुर्ह वै नामा᳘सुराणाᳫँ᳭ होता स त᳘मे᳘वैत᳘द्धोतृष᳘दनान्नि᳘रस्यति॥

मूलम् - श्रीधरादि

(र᳘) अ᳘थ होतृष᳘दनमुपा᳘वर्तते॥
स᳘ होतृष᳘दनादे᳘कं तृ᳘णं नि᳘रस्यति नि᳘रस्तः पराव᳘सुरि᳘ति पराव᳘सुर्ह वै नामा᳘सुराणाᳫँ᳭ होता स त᳘मे᳘वैत᳘द्धोतृष᳘दनान्नि᳘रस्यति॥

मूलम् - Weber

अ᳘थ होतृष᳘दनमुपा᳘वर्तते॥
स᳘ होतृष᳘दनादे᳘कं तृ᳘णं नि᳘रस्यति नि᳘रस्तः पराव᳘सुरि᳘ति पुराव᳘सुर्ह वै नामा᳘सुराणाᳫं हो᳘ता स त᳘मेॗवैत᳘द्धोतृष᳘दनान्नि᳘रस्यति॥

मूलम् - विस्वरम्

अथ होतृषदनमुपावर्तते । स होतृषदनादेकं तृणं निरस्यति- “निरस्तः परावसुः” -इति । परावसुर्ह वै नामासुराणां होता, स तमेवैतद् होतृषदनाद् निरस्यति ॥ २३ ॥

सायणः

अथेति । सम्मर्शनदेशात् ‘होतृषदनं’ प्रत्यागच्छेत् । उत्तरवेदिश्रोणेर्होतृषदनम् । ‘सः’ होता तस्मात् सदनात् ‘एकं तृणं’ “निरस्त”- इति मन्त्रेण निरस्येत् । परावसोर्निरसने कारणमाह- परावसुर्हेति । ‘परा’ परागतं ‘वसु’ यज्ञाख्यं धनं यस्मात् स 21 तथोक्तः ॥ २३ ॥

Eggeling
  1. He steps beside the Hotr̥’s seat, takes one stalk of (reed) grass from the Hotr̥’s seat and casts it outside (the sacrificial ground), with the formula, ‘Ejected is the wealth-clutcher (parāvasu, lit. “off-wealth”)!’ Formerly, namely, the Hotr̥ of the Asuras was one Parāvasu by name: him he thereby ejects from the Hotr̥’s seat.

२४

विश्वास-प्रस्तुतिः

(त्य᳘) अ᳘थ होतृष᳘दन ऽउ᳘पविशति॥
(ती) इद᳘मह᳘मर्व्वाव᳘सोः स᳘दने सीदामी᳘त्यर्व्वाव᳘सुर्वै ना᳘म देवा᳘नाᳫँ᳭ हो᳘ता त᳘स्यै᳘वैतत्स᳘दने सीदति॥

मूलम् - श्रीधरादि

(त्य᳘) अ᳘थ होतृष᳘दन ऽउ᳘पविशति॥
(ती) इद᳘मह᳘मर्व्वाव᳘सोः स᳘दने सीदामी᳘त्यर्व्वाव᳘सुर्वै ना᳘म देवा᳘नाᳫँ᳭ हो᳘ता त᳘स्यै᳘वैतत्स᳘दने सीदति॥

मूलम् - Weber

अ᳘थ होतृष᳘दन उ᳘पविशति॥
इद᳘मह᳘मर्वाव᳘सोः स᳘दने सीदामी᳘त्यर्वाव᳘सुर्वै ना᳘म देवा᳘नाᳫं हो᳘ता त᳘स्यैॗवैतत्स᳘दने सीदति॥

मूलम् - विस्वरम्

अथ होतृषदने उपविशति ‘इदमहमर्वावसोः सदने सीदामि’ इति । अर्वावसुर्वै नाम देवानां होता, तस्यैवैतत् सदने सीदति ॥ २४ ॥

सायणः

अथ होतृषदन इति । उपवेशनमन्त्रमाह 21- इदमहमिति । ‘अर्वा’ अर्वाक्-अभिमुखं ‘वसु’ यज्ञाख्यं धनं यस्य, स तथोक्तः । ‘तस्य’; सीदत्यत्रेति ‘सदनं’ स्थानम् । तत्र संस्थितिभावनया स्वयमपि तत्सदृशो भवतीत्यभिप्रायः ॥ २४ ॥

Eggeling
  1. He then sits down on the Hotr̥’s seat, with the formula, ‘I here sit down on the seat of the wealth-bestower (arvāvasu, lit. “hither-wealth”)!’ for one Arvāvasu by name was the Hotr̥ of the gods 22, and on his seat he accordingly sits down.

२५

विश्वास-प्रस्तुतिः

त᳘त्र जपति। व्वि᳘श्वकर्मंस्तनूपा᳘ ऽअसि मा मो᳘दोषिष्टं मा᳘ मा हिᳫँ᳭ सिष्टमेष᳘ वां लोक इत्यु᳘दङ्ङेजत्यन्तरा वा᳘ ऽएत᳘दाहवनी᳘यं च गा᳘र्हपत्यं चास्ते त᳘दु ता᳘भ्यां नि᳘ह्नुते मा मो᳘दोषिष्टं मा᳘ मा हिᳫँ᳭ सिष्टमि᳘ति त᳘था हैनमेतौ न᳘ हिᳫंस्तः᳘॥

मूलम् - श्रीधरादि

त᳘त्र जपति। व्वि᳘श्वकर्मंस्तनूपा᳘ ऽअसि 21 मा मो᳘दोषिष्टं मा᳘ मा हिᳫँ᳭ सिष्टमेष᳘ वां लोक इत्यु᳘दङ्ङेजत्यन्तरा वा᳘ ऽएत᳘दाहवनी᳘यं च गा᳘र्हपत्यं चास्ते त᳘दु ता᳘भ्यां नि᳘ह्नुते मा मो᳘दोषिष्टं मा᳘ मा हिᳫँ᳭ सिष्टमि᳘ति त᳘था हैनमेतौ न᳘ हिᳫंस्तः᳘॥

मूलम् - Weber

त᳘त्र जपति विश्वकर्मस्तनूपा᳘ असि मा मो᳘दोषिष्टं मा᳘ मा हिंसिष्टमेष᳘ वां लोक इत्यु᳘दङ्ङेजत्यन्तरा वा᳘ एत᳘दाहवनि᳘यं च गा᳘र्हपत्यं चास्ते त᳘दु ता᳘भ्यां नि᳘ह्नुते मा मो᳘दोषिष्टं मा᳘ मा हिंसिष्टमि᳘ति त᳘था हैनमेतौ न᳘ हिंस्तः᳟॥

मूलम् - विस्वरम्

तत्र जपति- ** “विश्वकर्मंस्तनूपा असि । मा मोदोषिष्टम् । मा मा हिंसिष्टम् एष वां लोकः”**- इति उदङ एजति । अन्तरा वा एतद्- आहवनीयं च गार्हपत्यं चास्ते । तदु ताभ्यां निह्नुते- मा मोदोषिष्टम्- मा मा हिंसिष्टम्- इति । तथा हैनमेतौ न हिंस्तः ॥ २५ ॥

सायणः

तत्रोपविष्टस्य मन्त्रजपं विधत्ते- तत्रेति । हे विश्वकर्म्मन् ! कृत्स्नविषयव्यापारं करोतीति विश्वकर्मा, ‘तनूपाः’ तनोः पाता, महादेव ! त्वं शरीरस्य पाता भवसि । उपवेशनस्थानादीषदुत्तरतश्चलनं समन्त्रकं विधत्ते- मा मेति । तस्यायमर्थः- हे उभा अग्नी ! युवां ‘मा’ माम् ‘उत्’ उत्कृष्टमाधिक्येन ‘मा उषिष्टं’ दाहं मा कार्ष्टम् । “उष दाहे”- इति (धा. पा. भ्वा. प. ६९६) धातुः । अस्यैव तात्पर्यमाह- ‘मा हिंसिष्टम्’ इति । यतः ‘एषः’ ‘लोकः’ ‘वां’ सम्बन्धि स्थानम्, अतो हेतोर्मां मा हिंसिष्टमिति प्रार्थना युक्ता । होतृषदनाद् ‘उदङ्’ उदङ्मुखः ‘एजति’ । “एजृ-कम्पने” (धा. पा. भ्वा. प. २३४) जपन् कम्पते । ‘अन्तरा वा’ इत्यादिना दाहप्रसङ्गप्रदर्शनम् ॥ २५ ॥

Eggeling
  1. At the same time he mutters, ‘O All-maker, thou art the protector of lives! do not ye two (fires) scorch me away (from this) 23, injure me not! this

is your sphere;’ with this he moves slightly northwards: by this (mantra, he indicates that) he sits midway between the Āhavanīya and the Gārhapatya, and thus he propitiates these two; and in accordance with what he says, ‘do not scorch me away from this! injure me not!’ they do not injure him.

२६

विश्वास-प्रस्तुतिः

(स्तो᳘ ऽथा) अ᳘थाग्निमी᳘क्षमाणो जपति॥
व्वि᳘श्वेदेवाः शास्त᳘न मा यथे᳘ह हो᳘ता वृतो᳘ मन᳘वै य᳘न्निष᳘द्य। प्र᳘ मे ब्रूत भागधे᳘यं य᳘था वो ये᳘न पथा᳘ हव्यमा᳘ वो व्व᳘हानी᳘ति य᳘था ये᳘भ्यः पक्वᳫं स्यात्ता᳘न्ब्रूयाद्व᳘नु मा शास्त य᳘था व ऽआहरिष्या᳘मि य᳘था वः परिवेक्ष्यामी᳘त्येव᳘मे᳘वैत᳘द्देवे᳘षु प्रशा᳘सनमिच्छते᳘ ऽनु मा शास्त य᳘था वो ऽनुष्ठ्᳘या व्वषट्कुर्या᳘मनुष्ठ्या᳘ हव्यं व्व᳘हेयमि᳘ति त᳘स्मादेवं᳘ जपति॥

मूलम् - श्रीधरादि

(स्तो᳘ ऽथा) अ᳘थाग्निमी᳘क्षमाणो जपति॥
व्वि᳘श्वेदेवाः शास्त᳘न मा यथे᳘ह हो᳘ता वृतो᳘ मन᳘वै य᳘न्निष᳘द्य। प्र᳘ मे ब्रूत भागधे᳘यं य᳘था वो ये᳘न पथा᳘ हव्यमा᳘ वो व्व᳘हानी᳘ति य᳘था ये᳘भ्यः पक्वᳫं स्यात्ता᳘न्ब्रूयाद्व᳘नु मा शास्त य᳘था व ऽआहरिष्या᳘मि य᳘था वः परिवेक्ष्यामी᳘त्येव᳘मे᳘वैत᳘द्देवे᳘षु प्रशा᳘सनमिच्छते᳘ ऽनु मा शास्त य᳘था वो ऽनुष्ठ्᳘या व्वषट्कुर्या᳘मनुष्ठ्या᳘ हव्यं व्व᳘हेयमि᳘ति त᳘स्मादेवं᳘ जपति॥

मूलम् - Weber

अ᳘थाग्निमी᳘क्षमाणो जपति॥
वि᳘श्वे देवाः शास्त᳘न मा यथे᳘ह हो᳘ता वृतो᳘ मन᳘वै य᳘न्निष᳘द्य प्र᳘ मे ब्रूत भागधे᳘यं य᳘था वो ये᳘न पथा᳘ हव्यमा᳘ वो व᳘हानी᳘ति य᳘था ये᳘भ्यः पक्वᳫं स्यात्ता᳘न्ब्रूयाद्व᳘नु 24 मा शास्त य᳘था व आहरि᳘ष्यामि य᳘था वः परिवेक्ष्यामी᳘त्येव᳘मेॗवैत᳘द्देवे᳘षु प्रशा᳘सनमिछते᳘ ऽनु मा शास्त य᳘था वो ऽनुष्ठ्या᳘ वषट्कुर्या᳘मनुष्ट्या᳘ हव्यं व᳘हेयमि᳘ति त᳘स्मादेवं᳘ जपति॥

मूलम् - विस्वरम्

अथाग्निमीक्षमाणो जयति- “विश्वेदेवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य । प्रं मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि- (ऋ० सं० १०. ५२. १) इति । यथा येभ्यः पक्वं स्यात्, तान् ब्रूयादु- ‘अनु मा शास्त- यथा व ऽआहरिष्यामि, यथा वः परिवेक्ष्यामि’ इति । एवमेवैतद् देवेषु प्रशासनमिच्छते- ‘अनु मा शास्त,- यथा वोनुष्ठ्या वषट् कुर्याम्, अनुष्ठ्या हव्यं वहेयम्’ इति । तस्मादेवं जपति ॥ २६ ॥

सायणः

अथ समन्त्रकं जपं विधत्ते- अथाग्निमित्यादिना । मन्त्रस्यायमर्थः- हे ‘विश्वेदेवाः !’ ‘इह’ यज्ञे होतृत्वेन ‘वृतः’ अहं ‘यथा’ येन प्रकारेण, ‘यथा’ येन च ‘पथा’ मार्गेण, ‘वः’ ‘हव्यम्’ ‘आ’ समन्ताद् ‘वहानि’ प्रापयानि; तदुभयं ‘मे’ अज्ञाय मह्यम् ‘प्रब्रूत’ । एतन्मन्त्रस्यार्थं लोकदृष्टान्तप्रदर्शनपुरःसरं विशदयति- यथा येभ्य इत्यादिना । ‘यथा’ लोके कश्चित् पाचकः तत्स्वामिनं पृच्छति- ‘पक्वम्’ अन्नं यथा ऽऽनेष्यामि, यथा वानीतं पात्रे समर्पयामीति । एवम्प्रकारप्रश्नस्य लोके दृष्टत्वाद् उक्तमनुशासनप्रार्थनमित्यर्थः । दार्ष्टान्तिके योजयति- एवमेवैतदिति । ‘अनुष्ठ्या’ आनुपूर्व्येण ‘वषट्कुर्याम्’ वषडिति शब्दं ब्रूयाम् । वषट्-शब्दो हविःप्रदानसाधनः । “स्वाहाकारेण वा वषट्कारेण वा देवेभ्यो ऽन्नं प्रदीयते”- इति श्रुतेः । सिद्धमन्यत् ॥ २६ ॥ २ [ ५. १. ]

इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमाध्याये प्रथमं ब्राह्मणम् ॥

Eggeling
  1. He then mutters whilst looking at the (Āhavanīya) fire, ‘All ye gods, instruct me, how and what I am to mind while seated here as the chosen Hotr̥! declare my share (of the sacrificial duties), how and by what road I am to convey the oblation to you!’–for as one says to those for whom food has been cooked, ‘order me how I am to bring if you, how I am to serve it up for you!’ in like manner he is desirous of directions regarding the gods, and for this reason he mutters thus, ‘instruct me how I may utter the Vashaṭ-call for you in its proper order, how I may bring you the oblation in its proper order!’

  1. 131:2 The Hotr̥, on concluding the invitation of the gods, sits down with raised knees in the same place where he has been standing (see p. 95, note 1), parts the sacrificial grass of the altar, and measures a span on the earth, with the text (Āśv. I, 3, 22), ‘Aditi is his mother, do not cut him off from the air. With the aid of Agni, the god, the deity; with the threefold chant, with the rāthantara-sāman, with the gāyatrī metre, with the agnishṭoma sacrifice, with the vashaṭ-call, the thunderbolt,–I here kill him who hates us, and whom we hate!’ The Adhvaryu having thereupon walked round the Hotr̥ from left to right, steps behind the utkara (heap of rubbish) with his face to the east and the fuel-band in his hand, and calls on (āśrāvayati) the Āgnīdhra, with Õ śrāvaya (or Õṁ śrāvaya, i.e. ā śrāvaya; or simply śrāvaya;’ cf. Sāyaṇa on Taitt. S. I, 6, 11). The Āgnīdhra (whilst standing north of the Adhvaryu, with his face to the south, and taking the wooden sword and the fuel-band from the Adhvaryu) responds (pratyāśrāvayati) by ‘astu śraushaṭ.’ ↩︎

  2. आश्रावणं प्रत्याश्रावणं चाध्वर्य्वग्नीधोः संमुखयोः सतोरेवोक्तिप्रत्युक्तिदर्शनात् । एवं च प्रयाजादिप्रत्याश्रावणे दक्षिणामुखता न विरुद्वा अध्वर्युसंमुखतायै । तथा चाश्वलायनः-“प्रत्याश्रावयेदग्नीध्र उत्करदेशे तिष्ठन्स्फ्यमिध्मसन्नहनानीत्यादायददक्षिणामुख इति” आ० श्रौ० सू० १ अ० ३ कं० । ↩︎ ↩︎ ↩︎

  3. 132:1 See p. 127, note 1. ↩︎

  4. “अनुष्ठु” इत्येतदव्ययं सम्यक्शब्दसमानार्थं सुष्ठ्विति यथा । सम्यगनुक्रमेण । ‘अपदुःसुषु स्थः’ (४. १ । २५) इति विधीयमानः कुप्रत्ययो बहुलवचनात्तिष्ठतेरनुपूर्वादपि भवति इति ऋ० सं० १ । ९४ । ३ भाष्ये सायणः । ‘अनुष्ठुया’ ‘सुपां सुलुगिति’ (पा० सू० ७ । १ । ३९) तृतीयाया याजोदेश इति च ऋ० सं० ४ । ४ । १५ भाष्ये स एवाह । ↩︎ ↩︎

  5. 133:1 Thus our author. It should rather be ‘May (he) worship the gods, he the wise, the considerate one.’ ↩︎

  6. “अमुवदमुवदित्यत्र सर्वनामस्थाने यजमानसम्बन्धीनि पूर्वजभूतानि परस्तात्पितृस्थानीयादर्वाञ्चि पितृतत्पुत्रतत्पौत्ररूपाणि त्रीण्यार्षेयाणि ऋषेरपत्यानि वृणीते” इति या० दे० भाष्ये । ↩︎ ↩︎ ↩︎

  7. 133:2 Cf. p. 115, note 1. ↩︎

  8. निरुक्तकारो ऽप्याह ‘ब्रह्म परिवृढं सर्वतः’ इति (१. ३. ३.) । ↩︎

  9. ‘प्रवृणीते ऽहोता’ इति मूल इति ज्ञेयम् । ↩︎ ↩︎

  10. “अत्राध्वर्युकर्तृकं होतृवरणं श्रुत्या प्रतिपादितमत एव कात्यायनेन ‘होतरेहि’ इत्याश्वलायनवत् ‘एहि होतः’ इति शांखायनवच्च होतुरामन्त्रणप्रैषो ऽध्वर्युसूत्रे नोपनिबद्धो न वा हौत्रसूत्रे ऽपि दर्शितः । अतएव च याजुर्वेदिकहौत्रपक्षे होतुरामन्त्रणप्रेषमनुष्ठापयन्त इदानींतनाः श्रौतकर्मकरा उपेक्ष्या एव, तेषामाचारस्यैतद्विषयकाज्ञानमूलकत्वादिति । ↩︎

  11. 134:1 Except the beginning, these formulas are entirely different from those given by Āśv. Ś. I, 3, 23-24. ↩︎

  12. मन्त्रस्त्वयमिहैवाम्नातो बोध्यः । तथा शुक्लयजुःपंचदशशाखानामन्यतमशाखायां च पठितः स्यात् । परंचेदानीं तासामनुपलब्धिः । एवमग्रे ऽपि । ↩︎

  13. 135:1 The yājyās (offering-prayers) are the prayers which the Hotr̥ pronounces when the offerings are poured into the fire (this being done simultaneously with, or immediately after, the van shat, ‘may he carry it,’ with which the yājyā ends, is pronounced). At the chief oblations the offering-prayer is preceded by an anuvākyā or puro ’nuvākyā (invitatory prayer) by which the gods are invited to come to the offering, and which ends with ‘om.’ ↩︎

  14. निरु० ४ । ४ । १ । २; ११ । ३ । १ । २ । ↩︎

  15. ‘होतृवर्ये’ इति ऋ० सं० १ । ३१ । ३ । “होत्राव्रियंत इति होतृवर्योयज्ञः” इति तत्र सा० भा० । ↩︎ ↩︎

  16. 136:1 Narāśaṁsa [’the hope or desire (āśaṁsā) of man (nara)’] is a mystical form of Agni, invoked chiefly in the Āprī-hymns at animal sacrifices. ‘Yathā sarve ’pi narā ā sarvataḥ samsanti tathāvidhāya.’ Sāyaṇa. ↩︎

  17. 136:2 See the legend I, 2, 3, 1 seq. ↩︎

  18. यद्यप्यत्र श्रतौ पूर्वं होतृकर्तृकमध्वर्योरग्नीधश्च संमर्शनं पश्चादात्मालंभ उक्तस्तथापि हौत्रकल्पे कात्यायनेन “षण्मोर्वीर हसस्पात्वग्निश्चेत्यनेन मंत्रेण आत्मानमालभते” “इन्द्रमन्वारभ इत्यनेन मन्त्रेण दक्षिणयोरंसयोरध्वर्युमग्नीधं च संमृशति” हौ० सू० खं. २ । १४ । १५ । इति । अतस्तदनुरोधेन प्रयोगो बोध्यः । अतएव च “प्रयोग-साधनं कल्पो न श्रुतिस्तस्य साधनम् । इत्युचिवानुपाध्यायः” इति सोमयागे वैद्यनाथमिश्राः प्राहुः । एवमग्रे ऽपि बोध्यम् । ↩︎ ↩︎

  19. 136:3 This and the succeeding formulas also are entirely different from those given in Āśv. Ś. I, 3, 27 seq. The Sāṅkhāy. Ś. I, 6 (Hillebrandt, Neu and Vollm. p. 91) seems to coincide, to some extent, with those given by our author. ↩︎

  20. 136:4 The six spaces or wide expanses (urvī) are several times referred to in Vedic texts, but the conception seems to have been very vague. They are generally supposed to include the space above, the space below, and the four quarters. In Rig-veda VI, 47, 3-5 it is stated that they have been measured out by Indra, and that outside of them there is no being (bhuvanam); and they are then enumerated thus: the expanse of the earth, the height (varshman,? highest point or sphere) of the sky (div), the sap (pīyūsha) in the three elevations [? i.e. flowing, animating moisture, as rain, rivers, sap, &c.], the atmosphere, the ocean (? arṇas,? of light, air), and the sky (div). The enumeration of six objects in Atharva-veda II, 12, 1 seems to refer to the same conception: heaven and earth (dyāvāpr̥thivī), the wide atmospheric region, the genius (fem.) of the field (kshetrasya patnī), the far-strider (Sun, Light), the wide atmospheric region (uru-antariksham as before; cf. the double enumeration of div in the R̥k passage); and what has the Wind for its guardian (vātagopa). Cf. Weber, Ind: Stud. XIII, p. 164. Sāṇkb. Gr̥hya-sūtra I, 6, 4 gives heaven and earth, day and night, water and plants (St. Petersburg Dictionary s.v.). ↩︎

  21. सांख्या. श्रौ. सू. १ । ६ । ६ । ‘पराग्वसुः’ इति कौषी. ३ । १३७ । ↩︎ ↩︎ ↩︎

  22. 137:1 According to the Kaushīt. Br. VI, 10, Arvāvasu was the Brahman of the gods. Weber, Ind. Stud. II, 306. ↩︎

  23. 137:2 The Hotr̥’s seat stands north of the north-west corner of the altar, the Āhavanīya and the Gārhapatya fires being about equidistant from it towards south-east and south-west respectively. ↩︎

  24. ‘दनुमा’ क्व० पा० । ↩︎