०१
विश्वास-प्रस्तुतिः
स᳘ स्रुचो᳘त्तरमाघार᳘माघारयिष्यन्॥
(न्पू᳘) पू᳘र्व्वेण स्रु᳘चावञ्जलिं नि᳘दधाति न᳘मो देवे᳘भ्यः स्वधा᳘ पितृ᳘भ्य इ᳘ति त᳘द्देवे᳘भ्यश्चै᳘वैत᳘त्पितृ᳘भ्यश्चा᳘र्त्विज्यं करिष्यन्नि᳘ह्नुते सुय᳘मे मे भूयास्तमि᳘ति स्रु᳘चावा᳘दत्ते सुभ᳘रे मे भूयास्तं भ᳘र्त्तुं व्वाᳫं शकेयमि᳘त्ये᳘वैत᳘दाहा᳘स्कन्नमद्य᳘ देवे᳘भ्य आ᳘ज्यᳫँ᳭ स᳘म्भ्रियासमित्य᳘विक्षुब्धमद्य᳘ देवे᳘भ्यो यज्ञं᳘ तनवा ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
स᳘ स्रुचो᳘त्तरमाघार᳘माघारयिष्यन्॥
(न्पू᳘) पू᳘र्व्वेण स्रु᳘चावञ्जलिं नि᳘दधाति न᳘मो देवे᳘भ्यः स्वधा᳘ पितृ᳘भ्य इ᳘ति त᳘द्देवे᳘भ्यश्चै᳘वैत᳘त्पितृ᳘भ्यश्चा᳘र्त्विज्यं करिष्यन्नि᳘ह्नुते सुय᳘मे मे भूयास्तमि᳘ति स्रु᳘चावा᳘दत्ते सुभ᳘रे मे भूयास्तं भ᳘र्त्तुं व्वाᳫं शकेयमि᳘त्ये᳘वैत᳘दाहा᳘स्कन्नमद्य᳘ देवे᳘भ्य आ᳘ज्यᳫँ᳭ स᳘म्भ्रियासमित्य᳘विक्षुब्धमद्य᳘ देवे᳘भ्यो यज्ञं᳘ तनवा ऽइ᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
स᳘ स्रुचो᳘त्तरमाघार᳘माघारयिष्य᳘न्॥
पू᳘र्वेण स्रु᳘चावञ्जलिं नि᳘दधाति न᳘मो देवे᳘भ्यः स्वधा᳘ पितृ᳘भ्य इ᳘ति त᳘द्देवे᳘भ्यश्चैॗवैत᳘त्पितृ᳘भ्यश्चा᳘र्त्विज्यं करिष्यन्नि᳘ह्नुते सुय᳘मे मे भूयास्तमि᳘ति स्रु᳘चावा᳘दत्ते सुभ᳘रे मे भुयास्तम् भ᳘र्तुं वां शकेयमि᳘त्येॗवैत᳘दाहा᳘स्कन्नमद्य᳘ देवे᳘भ्य आ᳘ज्यᳫं स᳘म्भ्रियासमित्य᳘विक्षुब्धमद्य᳘ देवे᳘भ्यो यज्ञं᳘ तनवा इ᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
उत्तराघारः ।
स स्रुचोत्तरमाघारमाघारयिष्यन् पूर्वेण स्रुचावञ्जलिं निदधाति- “नमो देवेभ्यः स्वधा पितृभ्यः” -(२ अ. ७ मं.) इति । तद्देवेभ्यश्चैवैतत् पितृभ्यश्चार्त्विज्यं करिष्यन् निह्नुते । “सुयमे मे भूयास्तम्” -(२ अ० ७ मं०) इति । स्रुचावादत्ते- सुभरे मे भूयास्तम् । भर्त्तुं वां शकेयमित्येवैतदाह- “अस्कन्नमद्य देवेभ्य आज्यं सम्भ्रियासम्” -(२ अ० ८ मं०) इति । अविक्षुब्धमद्य देवेभ्यो यज्ञं तनवा इत्येवैतदाह ॥ १ ॥
सायणः
अथ स्रुच्याघारस्य 1 प्रयोगः प्रतिपाद्यते- स स्रुचेत्यादिना । पूर्वेण स्रुचाविति । जुहूपभृतोः पूर्वभाग इत्यर्थः । समन्त्रकस्य अञ्जलिनिधानस्य प्रयोजनमाह- तद्देवेभ्यश्चेति 2 । ‘आर्त्विज्य करिष्यन्’ तदतिक्रमजनितमपराधं तन्नमस्कारेण- ‘निह्नुते’ शमयतीत्यर्थः । समन्त्रकं जुहूपभृतोरादानं विधत्ते 3- सुयमे** इति (का० श्रौ० सू० ३ । १६) । एतस्य मन्त्रभागस्य विवक्षितमर्थमाह- सुभरे इति । सुष्ठुमनुनियन्तुं भर्तुं शक्ये ‘सुयमे’ हे जुहूपभृतौ ! युवामीदृश्यौ ‘भूयास्तम्’ ‘भर्त्तुं वां शकेयम्’- इति तात्पर्यार्थकथनम् । मन्त्रस्य द्वितीयभागमनूद्य व्याचष्टे- अस्कन्नमद्येति । यत् जुहूपभृतोः स्थितमाज्यं तत् ‘अस्कन्नं’ यथा भवति तथा ‘सम्भ्रियासम्’ सम्भर्त्तुं शक्तो भूयासमिति मन्त्रवाक्यस्यार्थः। तदिदमाह- अविक्षुब्धमद्येति । आज्यस्य स्कन्दने हि यज्ञस्य विक्षोभः स्यात्, स च मा भूदित्येवं प्रार्थ्यत इत्यर्थः ॥ १ ॥
Eggeling
- When he (the Adhvaryu) is about to make the second libation with the offering-spoon (sruc), he (twice) lays his joined hands (añjali) on the ground before the two offering-spoons (juhū and upabhr̥t), with the formulas (Vāj. S. II, 7 b), ‘Adoration to the gods!’ ‘Svadhā to the fathers!’ Thereby he propitiates the gods and the fathers, now that
he is about to perform the duties of the sacrificial priest. With the formula, ‘May ye two be easy to manage for me!’ he takes the two offering-spoons: he thereby means to say, ‘May ye two be easy to handle for me; may I be able to handle you!’–He further says (Vāj. S. II. 8), ‘May I this day offer up the butter to the gods unspilt!’ whereby he means to say, ‘May I to-day perform an undisturbed sacrifice to the gods!’
०२
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘ङ्घ्रिणा व्विष्णो मा त्वा᳘वक्रमिषमि᳘ति॥
यज्ञो वै व्वि᳘ष्णुस्त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते मा त्वा᳘वक्रमिषमि᳘ति व्व᳘सुमतीमग्ने ते छायामु᳘पस्थेषमि᳘ति साध्वी᳘मग्ने ते छायामु᳘पस्थेषमि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘ङ्घ्रिणा व्विष्णो मा त्वा᳘वक्रमिषमि᳘ति॥
यज्ञो वै व्वि᳘ष्णुस्त᳘स्मा ऽए᳘वैतन्नि᳘ह्नुते मा त्वा᳘वक्रमिषमि᳘ति व्व᳘सुमतीमग्ने ते छायामु᳘पस्थेषमि᳘ति साध्वी᳘मग्ने ते छायामु᳘पस्थेषमि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
अ᳘ङ्घ्रणा विष्णो मा त्वा᳘वक्रमिषमि᳘ति॥
यज्ञो वै वि᳘ष्णुस्त᳘स्मा एॗवैत᳘न्नि᳘ह्नुते मा त्वा᳘वक्रमिषमि᳘ति व᳘सुमतीमग्ने ते छायामु᳘पस्थेषमि᳘ति साध्वी᳘मग्ने ते छायामु᳘पस्थेषमि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
“अङ्घ्रिणा विष्णो मा त्वावक्रमिषम्” -(२ अ० ८ मं०) इति । यज्ञो वै विष्णुः, तस्मा एवैतन्निह्नुते- मा त्वावक्रमिषमिति । “वसुमतीमग्ने ते छायामुपस्थेषम्” -(२ अ० ८ मं०) इति । साध्वीमग्ने ते छायामुपस्थेषमित्येवैतदाह ॥ २ ॥
सायणः
लिङ्गादेवातिक्रमणे विनियोगः सिद्ध इत्यभिप्रेत्य केवलं मन्त्रमनूद्य व्याचष्टे- अङ्घ्रिणेति । हवीरूपेण वेद्यामवस्थितो यज्ञो ऽत्र ‘विष्णु’- शब्देन विवक्षितः । दक्षिणातिक्रमवेलायां तस्यातिक्रमशङ्का मा भूदिति तदभावः प्रतिपाद्यते- हे ‘विष्णो’ हवीरूप यज्ञ ! ‘त्वा’ त्वां ‘मा अवक्रमिषम्’ अवज्ञया त्वां नातिक्रमामि । ‘अपि तु होमार्थं’ तत्रापराधो यथा न भवति तथैव सञ्चरदेशे 4 नातिक्रमामीत्यर्थः । एतल्लिङ्गकल्पितमेव विनियोगं कात्यायनः सूत्रयामास- “दक्षिणातिक्रामत्यङ्घ्रिणा विष्णविति, (३ । १ । १६ ।) “परिधीनपरेण सञ्चरो होष्यतः” -इति “सव्येनेतो दक्षिणेनामुतः” (का० श्रौ० सू० ३ । १६-१८) । स्रुग्व्याघारहोमार्थं यद्दक्षिणतो ऽवस्थानम्, तदपि मन्त्रलिङ्गसिद्धमित्यभिप्रेत्य तं मन्त्रमनूद्य व्याचष्टे- वसुमतीमिति । ‘वसुमतीं’ धनवतीं वासयोग्यां ‘साध्वीं’ त्वदीयां ‘छाया’ हे अग्ने ! ‘उपस्थेषम्’ उपेत्य तिष्ठेयमित्यर्थः ॥२॥
Eggeling
- And again, ‘May I not sin against thee with my foot, O Vishṇu!’ Vishṇu, indeed, is the sacrifice: it is the latter therefore that he propitiates by saying, ‘may I not sin against thee!’ Further, ‘May I step into thy wealth-abounding shade, O Agni!’ whereby he says, ‘may I step into thy auspicious shade, O Agni 5!’
०३
विश्वास-प्रस्तुतिः
व्वि᳘ष्णो स्था᳘नमसी᳘ति॥
यज्ञो वै व्वि᳘ष्णुस्त᳘स्येव᳘ ह्येत᳘दन्तिकं ति᳘ष्ठति त᳘स्मादाह व्वि᳘ष्णो स्था᳘नमसी᳘तीत ऽइ᳘न्द्रो व्वी᳘र्यमकृणोदित्य᳘तो ही᳘न्द्रस्ति᳘ष्ठन्दक्षिणतो᳘ नाष्ट्रा र᳘क्षाᳫंस्यपा᳘हंस्त᳘स्मादाहेत इ᳘न्द्रो व्वी᳘र्यमकृणोदि᳘त्यू᳘र्ध्वो ऽध्वर ऽआ᳘स्थादि᳘त्यध्वरो वै᳘ यज्ञ᳘ ऽऊर्ध्वो᳘ यज्ञ ऽआ᳘स्थादि᳘त्ये᳘वैत᳘दाह॥
मूलम् - श्रीधरादि
व्वि᳘ष्णो स्था᳘नमसी᳘ति॥
यज्ञो वै व्वि᳘ष्णुस्त᳘स्येव᳘ ह्येत᳘दन्तिकं ति᳘ष्ठति त᳘स्मादाह व्वि᳘ष्णो स्था᳘नमसी᳘तीत ऽइ᳘न्द्रो व्वी᳘र्यमकृणोदित्य᳘तो ही᳘न्द्रस्ति᳘ष्ठन्दक्षिणतो᳘ नाष्ट्रा र᳘क्षाᳫंस्यपा᳘हंस्त᳘स्मादाहेत इ᳘न्द्रो व्वी᳘र्यमकृणोदि᳘त्यू᳘र्ध्वो ऽध्वर ऽआ᳘स्थादि᳘त्यध्वरो वै᳘ यज्ञ᳘ ऽऊर्ध्वो᳘ यज्ञ ऽआ᳘स्थादि᳘त्ये᳘वैत᳘दाह॥
मूलम् - Weber
वि᳘ष्णो स्था᳘नमसी᳘ति॥
यज्ञो वै वि᳘ष्णुस्त᳘स्येवॗ ह्येत᳘दन्तिक ति᳘ष्ठति त᳘स्मादाह वि᳘ष्णो स्था᳘नमसी᳘तीत इ᳘न्द्रो वीर्य᳘मकृणोदित्य᳘तो ही᳘न्द्रस्ति᳘ष्ठन्दक्षिणतो᳘ नाष्ट्रा र᳘क्षांस्यपा᳘हंस्त᳘स्मादाहेत इ᳘न्द्रो वीर्य᳘मकृणोदि᳘त्यूॗर्ध्वो ऽध्वर आ᳘स्थादि᳘त्यध्वरो वै᳘ यज्ञ᳘ ऊर्ध्वो᳘ यज्ञ आ᳘स्थादि᳘त्येॗवैत᳘दाह॥
मूलम् - विस्वरम्
“विष्णो स्थानमसि” -(२ अ० ८ मं०) इति । यज्ञो वै विष्णुः, तस्येव ह्येतदन्तिकं तिष्ठति; तस्मादाह- विष्णो स्थानमसीति । ** “इत इन्द्रो वीर्यमकृणोत्”** -(२ अ० ८ मं०) इति । अतो हीन्द्रस्तिष्ठन् दक्षिणतो नाष्ट्रा रक्षांस्यपाहन्, तस्मादाह- इत इन्द्रो वीर्यमकृणोदिति । “ऊर्ध्वो ऽध्वर आस्थात्” -(२ अ० ८ मं०) इति । अध्वरो वै यज्ञः, ऊर्ध्वो यज्ञ आस्थादित्येवैतदाह ॥ ३ ॥
सायणः
मन्त्रशेषमनूद्य व्याचष्टे- विष्णोरिति । तस्येव ह्येतदिति । यज्ञात्मको हि विष्णुरित्याहवनीये निष्पद्यते । यत्र स्थित्वा अध्वर्युर्जुहोति । तत्र तस्यान्निकमिति नेदीयत्वव्यपदेशः 6, एतल्लिङ्गसिद्धमवस्थाने मन्त्रस्य विनियोगं कात्यायनः सूत्रितवान्- वसुमतीमित्यवस्थाय" -इति (का० श्रौ० सू० ३ । १ । १९.) । इत इन्द्र इत्यादेः स्वाहान्तस्य मन्त्रस्य होमे विनियोगो लिङ्गसिद्ध इत्यभिप्रेत्य तं मन्त्रं भागशो ऽनूद्य व्याचष्टे- इत इन्द्र इति । ‘हि’ यस्मादस्मिन् स्थाने निष्ठन्निन्द्रो दक्षिणदिगवस्थितान् राक्षसादीन् ‘अपाहन्’ अतः कारणात् ‘इत इन्द्रो वीर्यमकृणोदिति’ मन्त्रभागे इन्द्रस्तुतिः । द्वितीयभागमनूद्य व्याचष्टे- ऊर्ध्वो ऽध्वर इति । इन्द्रवीर्येण राक्षसादीनां बाधितत्वान्निर्विघ्नः ‘यज्ञः’ ऊर्द्ध्वं प्रवृत्त इत्यर्थः ॥ ३ ॥
Eggeling
- Further, ‘Thou art the abode of Vishṇu!’ Vishṇu, indeed, is the sacrifice, and near to this he now stands: this is why he says, ’thou art the abode of Vishṇu!’–‘Here Indra performed his heroic deed 7;’ for it was while standing in this place that Indra drove off towards the south the evil spirits, the Rakshas: for this reason he says, ‘here Indra performed his heroic deed.’–‘Erect stood the cult;’ cult,
namely, means sacrifice, hence he thereby says ’erect stood the sacrifice.’
०४
विश्वास-प्रस्तुतिः
(हा᳘) अ᳘ग्ने व्वे᳘र्होत्रं व्वे᳘र्द्दू᳘त्यमि᳘ति॥
(त्यु) उभ᳘यं वा᳘ ऽएत᳘दग्नि᳘र्देवा᳘नाᳫँ᳭ हो᳘ता च दूत᳘श्च त᳘दुभ᳘यं व्विद्धि य᳘द्देवा᳘नामसी᳘त्ये᳘वैत᳘दाहा᳘वतां त्वां द्या᳘वापृथिवी ऽअ᳘व त्वं द्या᳘वापृथिवी ऽइ᳘ति ना᳘त्र तिरो᳘हितमिवास्ति स्विष्टकृ᳘द्देवे᳘भ्य ऽइ᳘न्द्र ऽआ᳘ज्येन हवि᳘षाभू᳘त्स्वाहेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्र आ᳘ज्येने᳘ति व्वा᳘चे वा᳘ ऽएत᳘माघारमा᳘घारयती᳘न्द्रोव्वागि᳘त्यु वा᳘ ऽआहुस्त᳘स्माद्वे᳘वाहे᳘न्द्र ऽआ᳘ज्येनेति॥
मूलम् - श्रीधरादि
(हा᳘) अ᳘ग्ने व्वे᳘र्होत्रं व्वे᳘र्द्दू᳘त्यमि᳘ति॥
(त्यु) उभ᳘यं वा᳘ ऽएत᳘दग्नि᳘र्देवा᳘नाᳫँ᳭ हो᳘ता च दूत᳘श्च त᳘दुभ᳘यं व्विद्धि य᳘द्देवा᳘नामसी᳘त्ये᳘वैत᳘दाहा᳘वतां त्वां द्या᳘वापृथिवी ऽअ᳘व त्वं द्या᳘वापृथिवी ऽइ᳘ति ना᳘त्र तिरो᳘हितमिवास्ति स्विष्टकृ᳘द्देवे᳘भ्य ऽइ᳘न्द्र ऽआ᳘ज्येन हवि᳘षाभू᳘त्स्वाहेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्र आ᳘ज्येने᳘ति व्वा᳘चे वा᳘ ऽएत᳘माघारमा᳘घारयती᳘न्द्रोव्वागि᳘त्यु वा᳘ ऽआहुस्त᳘स्माद्वे᳘वाहे᳘न्द्र ऽआ᳘ज्येनेति॥
मूलम् - Weber
अ᳘ग्ने वे᳘र्होत्रं वे᳘र्दूत्य᳘मि᳘ति॥
उभ᳘यं वा᳘ एत᳘दग्नि᳘र्देवा᳘नाᳫं हो᳘ता च दूत᳘श्च त᳘दुभ᳘यं विद्धि य᳘द्देवा᳘नामसी᳘त्येॗवैत᳘दाहा᳘वतां त्वां द्या᳘वापृथिवी अ᳘व त्वं द्या᳘वापृथिवी इ᳘ति ना᳘त्र तिरो᳘हितमिवास्ति स्विष्टकृ᳘द्देवे᳘भ्य इ᳘न्द्र आ᳘ज्येन हवि᳘षाभूत्स्वाहेती᳘न्द्रो वै᳘ यज्ञ᳘स्य देव᳘ता त᳘स्मादाहे᳘न्द्र आ᳘ज्येने᳘ति वाचे वा᳘ एत᳘माघारमा᳘घारयती᳘न्द्रो वागि᳘त्यु वा᳘ आहुस्त᳘स्माद्वेॗवाहे᳘न्द्र आ᳘ज्येने᳘ति॥
मूलम् - विस्वरम्
“अग्ने वेर्होत्रं वेर्दूत्यम्” -(२ अ० ९ मं०) इति । उभयं वा एतदग्निर्देवानाम्- होता च दूतश्च । तदुभयं विद्धि- यद्देवानामसीत्येवैतदाह । ** “अवतां त्वां द्यावापृथिवी अव त्वं द्यावापृथिवी"** -(२ अ० ९ मं०) इति । नात्र तिरोहितमिवास्ति । ** “स्विष्टकृद् देवेभ्य इन्द्र आज्येन हविषाभूत् स्वाहा"** -(२ अ० ९ मं०) इति । इन्द्रो वै यज्ञस्य देवता, तस्मादाह- इन्द्र आज्येनेति । वाचे वा एतमाघारमाघारयति । इन्द्रो वागित्यु वा आहुः । तस्माद्वेवाह- इन्द्र आज्येनेति ॥ ४ ॥
सायणः
भागान्तरमनूद्य व्याचष्टे- अग्ने वेरिति । हे अग्ने ! ‘होत्रे’ होतृकर्म ‘वेः’ बुध्यस्व । तथा । ‘दूत्यं’ दूतकर्म ‘वेः’ बुध्यस्व ‘इति’ मन्त्रवाक्यार्थः । “विद् ज्ञाने"- (अ० प० ५४) इत्यस्माच्छान्दसो लङ्, (पा. सू. ३ । ४ । ६) सिपि “दश्च” (पा० सू० ८. २. ७५) इति दकारस्य रुत्वे वेरिति रूपम् । इममर्थमाह- उभयं वा इत्यादिना । ‘देवानाम्’ अर्थे आत्मनो यद् दूतत्वे होतृत्वं चाङ्गीकृतवान् ‘असि’ ‘तदुभयं’ ‘विद्धि’ जानीहीत्यर्थः । अवतान्त्वेत्यादि निगदसिद्धम् । अन्तिमं भागमनूद्य व्याचष्टे- स्विष्टकृदिति । ‘देवेभ्यः’ देवानामर्थे सो ऽग्निः ‘स्विष्टकृत्’ शोभनयागस्य कर्त्ता । हे अग्ने ! त्वं यस्मादेवं भवसि, तस्मादनेन ‘आज्येन हविषा’ आहुतेन ‘इन्द्रः’ सङ्गतः ‘अभूत्’ भवतु, ‘स्वाहा’ स्वाहुतमिदमाज्यमस्त्विति मन्त्रवाक्यार्थः । इन्द्रो वै यज्ञस्येत्यादि स्पष्टम् । ननु ‘मनसे चैव वाचे च’ इति द्वितीयाघारस्य वाग्देवतार्थत्वं प्रागाम्नातम् (श० प० १ । ४ । ४ । १) । तदिन्द्रार्थत्वे विरुद्ध्यत इत्याशङ्कय, तयोस्तादात्म्यमाह- इन्द्रो वागित्यु वा आहुरिति । वाच इन्द्रेण व्याकृतत्वात् तत्तादात्म्यम् । अत एव तैत्तिरीयके “इमां नो वाचं व्याकुरु” इत्युपक्रम्याम्नातम्- “तामिन्द्रो मध्यतो ऽवक्रम्य व्याकरोत्” (तै० सं० ६. ४. ७, ५.) इति । एषा प्रसिद्धिरत्र ‘वै’- शब्देन द्योत्यते । तस्माद्वेवाहेति । वाच इन्द्रस्य भेदाभावादपीत्यर्थः । अस्य मन्त्रस्य लिङ्गसिद्धं होमे विनियोगमसूत्रयत् कात्यायनः- “इत इन्द्र इति जुहोत्युत्तराघारम्” इति (का० श्रौ० सू० ३ । २ । १९ ।) इति ॥ ४ ॥
Eggeling
- Further (Vāj. S. II, 9): ‘O Agni, take thou upon thyself the office of Hotr̥, take thou upon thyself the part of messenger!’ for Agni is both Hotr̥ and messenger to the gods: hence he thereby says, ‘know thou 8 both (offices) which thou art (holding) for the gods!’–‘May earth and heaven guard thee! Guard thou earth and heaven!’ there is nothing obscure in this.–‘Indra, by this butter-oblation, may be the maker of good offering (svishṭakr̥t) for the gods! Svāhā!’ Indra, indeed, is the deity of sacrifice; therefore he says ‘Indra, by this butter-oblation . . . ‘It is for speech that he makes this sprinkling, and Indra is speech’ so say some; and for this reason also he says Indra, by this butter-oblation. . .’
०५
विश्वास-प्रस्तुतिः
(त्य) अथा᳘सᳫंस्पर्शयन्त्स्रु᳘चौ पर्य्य᳘त्य॥
ध्रुव᳘या स᳘मनक्ति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर आघार᳘ ऽआत्मा वै᳘ ध्रुवा त᳘दात्म᳘न्ये᳘वैतच्छि᳘रः प्र᳘तिदधाति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर ऽआघारः श्रीर्वै शि᳘रः श्रीर्हि वै शि᳘रस्त᳘स्माद्यो᳘ ऽर्द्धस्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्द्धस्य शि᳘र इ᳘त्याहुः॥
मूलम् - श्रीधरादि
(त्य) अथा᳘सᳫंस्पर्शयन्त्स्रु᳘चौ पर्य्य᳘त्य॥
ध्रुव᳘या स᳘मनक्ति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर आघार᳘ ऽआत्मा वै᳘ ध्रुवा त᳘दात्म᳘न्ये᳘वैतच्छि᳘रः प्र᳘तिदधाति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर ऽआघारः श्रीर्वै शि᳘रः श्रीर्हि वै शि᳘रस्त᳘स्माद्यो᳘ ऽर्द्धस्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्द्धस्य शि᳘र इ᳘त्याहुः॥
मूलम् - Weber
अथा᳘संस्पर्शयन्त्स्रु᳘चौ पर्ये᳘त्य॥
ध्रुव᳘या स᳘मनक्ति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर आघार᳘ आत्मा वै᳘ ध्रुवा त᳘दात्म᳘न्येॗवैतछि᳘रः प्र᳘तिदधाति शि᳘रो वै᳘ यज्ञस्यो᳘त्तर आघारः श्रीर्वै शि᳘रः श्रीर्हि वै शि᳘रस्त᳘स्माद्यो᳘ ऽर्धस्य श्रे᳘ष्ठो भ᳘वत्यसा᳘वमुष्या᳘र्धस्य शि᳘र इ᳘त्याहुः॥
मूलम् - विस्वरम्
अथासंस्पर्शयन्त्स्रुचौ पर्येत्य ध्रुवया समनक्ति । शिरो वै यज्ञस्योत्तर आघारः । आत्मा वै ध्रुवा । तदात्मन्येवैतच्छिरः प्रतिदधाति । शिरो वै यज्ञस्योत्तर आघारः । श्रीर्वै शिरः । श्रीर्हि वै शिरस्तस्माद्- यो ऽर्द्धस्य श्रेष्ठो भवति, असावमुष्यार्द्धस्य शिर इत्याहुः ॥ ५ ॥
सायणः
होमानन्तरं प्रत्याक्रम्य ध्रुवासमञ्जनं विधत्ते- अथेति । ध्रुवयेति । ध्रुवामित्यर्थः । तदाह कात्यायनः- “आघार्यासँस्पर्शयन्त्स्रुचावेत्य जुह्वा ध्रुवाँ समनक्ति सञ्ज्योतिषेति" इति (का० श्रौ० सू० ३ । २ । २०) । तदेतत् समञ्जनं प्रशंसति- शिरो वा इति । उत्तराघारस्य यज्ञशिरस्त्वं प्राक्- (शत. १ कां. ३ प्र. ६ ब्रा. १२ कं.) प्रतिपादितम् । ध्रुवास्थस्याज्यस्य सर्वयज्ञसाधारण्याद् यज्ञस्य मध्यदेह एव ध्रुवा; आघारशेषस्य तस्यां समञ्जनात् ‘शिरः’ एव तस्मिन् ‘प्रतिदधाति’ इत्यर्थः । यज्ञशिरस्त्वमुपजीव्य श्रीरूपत्वेनाघारं प्रशंसति- शिरो वा इति । शिरसः श्रीत्वोपपादनम्- श्रीर्हि वै इति । ‘हि’- शब्दद्योतितां प्रसिद्धिं लोके श्रीमिति 9 शिरस्त्वं व्यवहारेणाविष्करोति । तस्मादिति । ‘अर्द्धस्य’ देशभागस्य ग्रामादेः ‘यः श्रेष्ठो भवति’ ‘अमुष्य’ ग्रामादेः ‘असौ’ देवदत्तः ‘शिरः’ ‘इति’ लौकिकाः कथयन्ति, अतः शिरसः श्रीरूपत्वम् ॥ ५ ॥
Eggeling
- Having then returned (to his former position behind the altar), without letting the two offering-spoons touch each other, he mixes (some of the butter left in the juhū) with (that in) the dhruvā. Now the second libation (which he has just offered) is the head of the sacrifice, and the dhruvā is its body 10: hence he thereby replaces the head on the body. And the second libation, moreover, is the head of the sacrifice, and the head (śiras) represents excellence (śrī), for the head does indeed represent excellence: hence, of one who is the most excellent (śreshṭḥa) of a community, people say that he is ’the head of that community.’
०६
विश्वास-प्रस्तुतिः
(र्य᳘) य᳘जमानं एव᳘ ध्रुवाम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु स य᳘द्धोपभृ᳘ता समञ्ज्याद्यो य᳘जमानायारातीय᳘ति त᳘स्मिञ्छ्रि᳘यं दध्यात्तद्य᳘जमान ऽए᳘वैतछ्रि᳘यं दधाति त᳘स्माद्ध्रुव᳘या स᳘मनक्ति॥
मूलम् - श्रीधरादि
(र्य᳘) य᳘जमानं एव᳘ ध्रुवाम᳘नु᳘॥
यो ऽस्मा ऽअरातीय᳘ति स᳘ ऽउपभृ᳘तम᳘नु स य᳘द्धोपभृ᳘ता समञ्ज्याद्यो य᳘जमानायारातीय᳘ति त᳘स्मिञ्छ्रि᳘यं दध्यात्तद्य᳘जमान ऽए᳘वैतछ्रि᳘यं दधाति त᳘स्माद्ध्रुव᳘या स᳘मनक्ति॥
मूलम् - Weber
य᳘जमान एव᳘ ध्रुवाम᳘नु᳟᳟॥
यो ऽस्मा अरातीय᳘ति स᳘ उपभृ᳘तम᳘नु स य᳘द्धोपभृ᳘ता समण्ज्याद्यो य᳘जमानायारातीय᳘ति त᳘स्मिंछ्रि᳘यं दध्यात्तद्य᳘जमान एॗवैतछ्रि᳘यं दधाति त᳘स्माद्ध्रुव᳘या स᳘मनक्ति॥
मूलम् - विस्वरम्
यजमान एव ध्रुवामनु । यो ऽस्मा अरातीयति स उपभृतमनु । स यद्धोपभृता समञ्ज्याद्- यो यजमानायारातीयति । तस्मिञ्छ्रियं दध्यात्, तद्यजमान एवैतच्छ्रियं दधाति; तस्माद् ध्रुवया समनक्ति ॥ ६ ॥
सायणः
किं तत इत्याह- यजमान एवेत्यादिना । ‘ध्रुवामनु’- अनोः कर्मप्रवचनीयत्वम्, (पा. सू. १ । ४ । ८४ ।) “कर्मप्रवचनीययुक्ते" -(पा० सू० २. ३. ८) इति द्वितीया । ध्रुवाभागो यजमान इत्यर्थः । ‘अस्मै’ यजमानाय ‘यः’ ‘अरातीयति’ अरातिः शत्रुरिवाचरति । ‘सः’ उपभृदूभागः । ‘उपभृता’- इति द्वितीयार्थे तृतीया (पा. सू. ३ । १ । ८५) । स्पष्टमन्यत् ॥ ६ ॥
Eggeling
- The sacrificer, assuredly, stands behind the dhruvā, and he who means evil to him stands behind the upabhr̥t 11. Hence if he were to mix (the butter remaining in the juhū) with (that in) the upabhr̥t, he would bestow excellence on him who means evil to the sacrificer; but in this, way he bestows that excellence on the sacrificer himself: for this reason he mixes (the butter in the gull with (that in) the dhruvā.
०७
विश्वास-प्रस्तुतिः
स स᳘मनक्ति॥
सञ्ज्यो᳘तिषा ज्यो᳘तिरि᳘ति ज्यो᳘तिर्व्वा ऽइ᳘तरस्यामा᳘ज्यं भ᳘वति ज्यो᳘तिरि᳘तरस्यां ते᳘ ह्येत᳘दुभे ज्योतिषी सङ्ग᳘च्छेते त᳘स्मादेवᳫँ᳭ स᳘मनक्ति॥
मूलम् - श्रीधरादि
स स᳘मनक्ति॥
सञ्ज्यो᳘तिषा ज्यो᳘तिरि᳘ति ज्यो᳘तिर्व्वा ऽइ᳘तरस्यामा᳘ज्यं भ᳘वति ज्यो᳘तिरि᳘तरस्यां ते᳘ ह्येत᳘दुभे ज्योतिषी सङ्ग᳘च्छेते त᳘स्मादेवᳫँ᳭ स᳘मनक्ति॥
मूलम् - Weber
स स᳘मनक्ति॥
सं ज्यो᳘तिषा ज्यो᳘तिरि᳘ति ज्यो᳘तिर्वा इ᳘तरस्यामा᳘ज्यम् भ᳘वति ज्यो᳘तिरि᳘तरस्यां तेॗ ह्येत᳘दुभे ज्यो᳘तिषी संग᳘छेते त᳘स्मादेवᳫं स᳘मनक्ति॥
मूलम् - विस्वरम्
स समनक्ति । **“संज्योतिषा ज्योतिः”- (२ अ० ९ मं०) इति । ज्योतिर्वा इतरस्यामाज्यं भवति, ज्योतिरितरस्याम् । ते ह्येतदुभे ज्योतिषी सङ्गच्छेते । तस्मादेवं समनक्ति ॥ ७ ॥
सायणः
विहितं समञ्जनमनूद्य मन्त्रं विधत्ते- स समनक्तीति 12 । सञ्ज्योतिषा ज्योतिरिति मन्त्रगतज्योतिःशब्दद्वयस्यार्थमाह- ज्योतिर्वा इति । ध्रुवापेक्षया ‘इतरा’ जुहूः, तस्यां यद् ‘आज्यम्’ तत् तृतीयान्तज्योतिःशब्दार्थः । जुह्वपेक्षया ‘इतरा’ ध्रुवा तस्यां यद् ‘आज्यम्’ तत् प्रथमान्तज्योतिःशब्दार्थः । एते चाज्यज्योतिषी क्रमेण सूर्याग्न्यात्मके; तदुभये समञ्जनेन ‘सङ्गच्छेते’ सङ्गते एव भवत इत्यर्थः 13 ॥ ७ ॥
Eggeling
- He mixes it, with the text (Vāj. S. II, 9 h), ‘Light with light!’ for light (lustre), indeed, is the butter in the one (spoon) and light also is that in the other. Thereby these two lights unite with each other, and for this reason he mixes (the butter) in this manner.
०८
विश्वास-प्रस्तुतिः
(क्त्य) अथा᳘तो म᳘नसश्चैव᳘ व्वाच᳘श्च॥
(श्चा) अहंभद्र᳘ ऽउदितं म᳘नश्च ह वै व्वा᳘क्चाहं भद्र᳘ ऽऊदाते॥
मूलम् - श्रीधरादि
(क्त्य) अथा᳘तो म᳘नसश्चैव᳘ व्वाच᳘श्च॥
(श्चा) अहंभद्र᳘ ऽउदितं म᳘नश्च ह वै व्वा᳘क्चाहं भद्र᳘ ऽऊदाते॥
मूलम् - Weber
अथा᳘तो म᳘नसश्चैव᳘ वाच᳘श्च॥
अहम्भद्र᳘ उदितम् म᳘नश्च ह वै वा᳘क्चाहम्भद्र᳘ ऊदाते॥
मूलम् - विस्वरम्
अथातो मनसश्चैव वाचश्चाहंभद्र उदितम् । मनश्च ह वै वाक् चाहंभद्र ऊदाते ॥ ८ ॥
सायणः
प्राजापत्यस्य पूर्वाघारस्योपांशुत्वं प्रतिपादयितुं मनोवाग्भ्यां कृतं संवादमुपन्यसितुं प्रतिजानीते- अथात इति । ‘अथ’- शब्दो ऽधिकारार्थः । ‘अतः’ परम् ‘अहं-भद्रे’ निमित्ते, -अहमेव भद्रः, अहमेव भद्र इति स्वस्वोत्कर्षविषये, ‘मनसो वाचश्च’ यदुक्तं वचनं तदधिक्रियत इत्यर्थः । तमेवेतिहासमुदाहरति- मनश्चेति । ‘अहं-भद्रे’ आत्मीयोत्कर्षविषये ‘ऊदाते’ विवादं चक्रतुः । वदेः किति लिटि यजादित्वात् (पा० सू० ६ । १ । १५) सम्प्रसारणम् ॥ ८ ॥
Eggeling
- Now a dispute once took place between Mind and Speech as to 14 which was the better of the two. Both Mind and Speech said, ‘I am excellent!’
०९
विश्वास-प्रस्तुतिः
त᳘द्ध म᳘न ऽउवाच॥
(चा) अह᳘मेव त्वच्छ्रे᳘यो ऽस्मि न वै म᳘या त्वं कि᳘ञ्चना᳘नभिगतं व्वदसि सा यन्म᳘म त्वं᳘ कृतानुकरा᳘नुवर्त्मा᳘स्यह᳘मेव त्वच्छ्रे᳘यो ऽस्मीति॥
मूलम् - श्रीधरादि
त᳘द्ध म᳘न ऽउवाच॥
(चा) अह᳘मेव त्वच्छ्रे᳘यो ऽस्मि न वै म᳘या त्वं कि᳘ञ्चना᳘नभिगतं व्वदसि सा यन्म᳘म त्वं᳘ कृतानुकरा᳘नुवर्त्मा᳘स्यह᳘मेव त्वच्छ्रे᳘यो ऽस्मीति॥
मूलम् - Weber
त᳘द्ध म᳘न उवाच॥
अह᳘मेव त्वछ्रे᳘यो ऽस्मि न वै म᳘या त्वं किं᳘ चना᳘नभिगतं वदसि सा यन्म᳘म त्वं᳘ कृतानुकरा᳘नुवर्त्मा᳘स्यह᳘मेव त्वछ्रे᳘यो ऽस्मी᳘ति॥
मूलम् - विस्वरम्
तद्ध मन उवाच- अहमेव त्वच्छ्रेयो ऽस्मि, न वै मया त्वं किञ्चनानभिगतं वदसि सा यन्मम त्वं कृतानुकरानुवर्त्मासि, अहमेव त्वच्छ्रेयो ऽस्मीति ॥ ९ ॥
सायणः
तत्र मनसो वाक्यमुदाहरति- तद्धेति । श्रेयस्त्वकारणमाह- न वा इति । हे वाक् ! ‘त्वं’ ‘मया’ मनसा अविषयीकृतं ‘किम्’ अपि ‘न वदसि’; अतो विषयीकृतमेव वदसि । ‘सा त्वं’ ‘मम’ ‘कृतानुकरा’ मया यत्कृतं तदेवानुकुर्वती ‘अनुवर्त्मा’ अनुगन्त्री भवसीत्यर्थः ॥ ९ ॥
Eggeling
- Mind said, ‘Surely I am better than thou, for thou dost not speak anything that is not understood by me; and since thou art only an imitator of what is done by me and a follower in my wake, I am surely better than thou!’
१०
विश्वास-प्रस्तुतिः
(त्य᳘) अ᳘थ ह व्वा᳘गुवाच॥
(चा) अह᳘मेव त्वच्छ्रे᳘यस्यस्मि। यद्वै त्वं व्वे᳘त्थाहं तद्वि᳘ज्ञपयाम्यहᳫँ᳭ स᳘ञ्ज्ञपयामी᳘ति॥
मूलम् - श्रीधरादि
(त्य᳘) अ᳘थ ह व्वा᳘गुवाच॥
(चा) अह᳘मेव त्वच्छ्रे᳘यस्यस्मि। यद्वै त्वं व्वे᳘त्थाहं तद्वि᳘ज्ञपयाम्यहᳫँ᳭ स᳘ञ्ज्ञपयामी᳘ति॥
मूलम् - Weber
अ᳘थ ह वा᳘गुवाच॥
अह᳘मेव त्वछ्रे᳘यस्यस्मि यद्वै त्वं वे᳘त्थाहं तद्वि᳘ज्ञपयाम्यहᳫं सं᳘ज्ञपयामी᳘ति॥
मूलम् - विस्वरम्
अथ ह वागुवाच- अहमेव त्वच्छ्रेयस्यस्मि यद्वै त्वं वेत्थ- अहं तद्विज्ञपयामि, अहं संज्ञपयामीति ॥ १० ॥
सायणः
अथैतस्य प्रत्युत्तरमाह- अथ वागुवाचेति । हे मनः ! ‘अहमेव’ त्वत्तः सकाशात् ‘श्रेयसी’ कुत? ‘यद्वै त्वं’ यद्वस्तु त्वं ‘वेत्थ’ जानासि । ‘अहं तद् विज्ञपयामि’ तदन्तर्गतविषयं परेषां विविधं प्रतिपादयामि । तत् ‘सञ्ज्ञपयामि’ सम्यग् ज्ञपयामि, प्रतिपादयामि । यतो विज्ञापन-सञ्ज्ञापन-साध्यं ममैव, अतस्त्वत्तः श्रेयसीत्यर्थः ॥ १० ॥
Eggeling
- Speech said, ‘Surely I am better than thou, for what thou knowest I make known, I communicate.’
११
विश्वास-प्रस्तुतिः
ते᳘ प्रजा᳘पतिं प्रति प्रश्नमे᳘यतुः॥
स᳘ प्रजा᳘पतिर्म᳘नस ऽएवा᳘नूवाच म᳘न ऽएव त्वच्छ्रे᳘यो म᳘नसो वै त्वं᳘ कृतानुकरा᳘नुवर्त्मासि श्रे᳘यसो वै पा᳘पीयान्कृतानुकरो᳘ ऽनुवर्त्मा भवती᳘ति॥
मूलम् - श्रीधरादि
ते᳘ प्रजा᳘पतिं प्रति प्रश्नमे᳘यतुः॥
स᳘ प्रजा᳘पतिर्म᳘नस ऽएवा᳘नूवाच म᳘न ऽएव त्वच्छ्रे᳘यो म᳘नसो वै त्वं᳘ कृतानुकरा᳘नुवर्त्मासि श्रे᳘यसो वै पा᳘पीयान्कृतानुकरो᳘ ऽनुवर्त्मा भवती᳘ति॥
मूलम् - Weber
ते᳘ प्रजा᳘पतिं प्रतिप्रश्नमे᳘यतुः॥
स᳘ प्रजा᳘पतिर्म᳘नस एवा᳘नूवाच म᳘न एव त्वछ्रे᳘यो म᳘नसो वै त्वं᳘ कृतानुकरा᳘नुवर्त्मासि श्रे᳘यसो वै पा᳘पीयाङ्कृतानुकरो᳘ ऽनुवर्त्मा भवती᳘ति॥
मूलम् - विस्वरम्
ते प्रजापतिं प्रति प्रश्नमेयतुः । स प्रजापतिर्मनस एवानुवाच- मन एव त्वच्छ्रेयः, मनसो वै त्वं कृतानुकरानुवर्त्मासि; श्रेयसो वै पापीयान् कृतानुकरो ऽनुवर्त्मा भवतीति ॥ ११ ॥
सायणः
ते प्रजापतिमिति । एवं विवदमाने ‘ते’ मनश्च वाक् च ‘प्रश्नं प्रति प्रजापतिम्’ ‘एयतुः’ जग्मतुः । ‘सः’ च ‘मनस एव’ अनुकूलम् ‘उवाच’ तद्वाक्यमुदाहरति- मन एवेति । कृतानुकरत्वस्य निकर्षहेतुत्वं लोकप्रसिद्ध्या दर्शयति- श्रेयसो वा इति ॥ ११ ॥
Eggeling
- They went to appeal to Prajāpati for his decision. He, Prajāpati, decided in favour of Mind, saying (to Speech), ‘Mind is indeed better than thou, for thou art an imitator of its deeds and a follower in its wake; and inferior, surely, is he who imitates his better’s deeds and follows in his wake.’
१२
विश्वास-प्रस्तुतिः
सा᳘ ह वाक्प᳘रोक्ता व्वि᳘सिष्मिये॥
त᳘स्यै ग᳘र्भः पपात सा᳘ ह व्वा᳘क्प्रजा᳘पतिमुवाचा᳘हव्यवाडे᳘वाहं तु᳘भ्यं भूयासं यां᳘ मा परा᳘वोच ऽइ᳘ति त᳘स्माद्यत्कि᳘ञ्च प्राजापत्यं᳘ यज्ञे᳘ क्रिय᳘त ऽउपाᳫंश्वेव त᳘त्क्रियते᳘ ऽहव्यवाड्ढि व्वा᳘क्प्रजापतय ऽआ᳘सीत्॥
मूलम् - श्रीधरादि
सा᳘ ह वाक्प᳘रोक्ता व्वि᳘सिष्मिये॥
त᳘स्यै ग᳘र्भः पपात सा᳘ ह व्वा᳘क्प्रजा᳘पतिमुवाचा᳘हव्यवाडे᳘वाहं तु᳘भ्यं भूयासं यां᳘ मा परा᳘वोच ऽइ᳘ति त᳘स्माद्यत्कि᳘ञ्च प्राजापत्यं᳘ यज्ञे᳘ क्रिय᳘त ऽउपाᳫंश्वेव त᳘त्क्रियते᳘ ऽहव्यवाड्ढि व्वा᳘क्प्रजापतय ऽआ᳘सीत्॥
मूलम् - Weber
सा᳘ ह वाक्प᳘रोक्ता वि᳘सिष्मिये॥
त᳘स्यै ग᳘र्भः पपात सा᳘ ह वा᳘क्प्रजा᳘पतिमुवाचा᳘हव्यवाडेॗवाहं तु᳘भ्यम् भूयासं यां᳘ मा परा᳘वोच इ᳘ति त᳘स्माद्यत्किं᳘ च प्राजापत्यं᳘ यज्ञे क्रिय᳘त उपांॗश्वेव त᳘त्क्रियते᳘ हव्यवाढि वा᳘क्प्रजा᳘पतय आसीत्॥
मूलम् - विस्वरम्
सा ह वाक् परोक्ता विसिष्मिये । तस्यै गर्भः पपात । सा ह वाक् प्रजापतिमुवाच- अहव्यवाडेवाहं तुभ्यं भूयासम्, यां मा परावोच इति । तस्माद् यत्किञ्च प्राजापत्यं यज्ञे क्रियते, उपांश्वेव तत् क्रियते । अहव्यवाड्ढि वाक् प्रजापतय आसीत् ॥ १२ ॥
सायणः
सा हेति । एवं प्रजापतिनोक्ते ‘सा’ वाक् पराजितत्वेन ‘उक्ता’ ‘विसिष्मिये’ विगतस्मया भग्नवीर्या बभूव । तस्मात् पराभवात् तस्या वाचो यो ‘गर्भः’ देवमनुष्यादीनामुत्पत्तिहेतुः, सो ऽपि ‘पपात’ । ‘सा वाक्’ पराजयेन खिन्ना सती ‘प्रजापतिम्’ ‘उवाच’ उक्तवती । किमिति ? हे प्रजापते ! ‘तुभ्यमहम्’ ‘अहव्यवाड्’ हव्यवहनस्याहेतुभूतैव ‘भूयासम्’ ‘यां मा’ पराजितत्वेनोक्तवानसि । यस्मादेवं वाचोक्तम्, ‘तस्मात्’ एव कारणात्, यज्ञसंबन्धि यत् किमपि प्रजापतिदेवताकं कर्म, ‘तत्’ सर्वं वाग्व्यापारविरहेण ‘उपांश्वेव क्रियते’ अहव्यवाड्डि- इति प्रागुक्तार्थस्मारणम् 15 ॥ १२ ॥
Eggeling
- Then Speech (vāc, fem.) being thus gainsaid, was dismayed and miscarried. She, Speech, then said to Prajāpati, ‘May I never be thy oblation-bearer, I whom thou hast gainsaid!’ Hence whatever at the sacrifice is performed for Prajāpati, that is performed in a low voice; for speech would not act as oblation-bearer for Prajāpati.
१३
विश्वास-प्रस्तुतिः
त᳘द्धैत᳘द्देवाः॥
(०) रे᳘तश्च᳘र्मन्वा य᳘स्मिन्वा बभ्रुस्त᳘द्ध स्म पृच्छन्त्य᳘त्रैवत्या३ दि᳘ति त᳘तो ऽत्रिः स᳘म्बभूव त᳘स्माद᳘प्यात्रेय्या᳘ योषि᳘तैन᳘स्व्येत᳘स्यै हि योषायै व्वाचो᳘ देव᳘ताया ऽएते स᳘म्भूताः॥
मूलम् - श्रीधरादि
त᳘द्धैत᳘द्देवाः॥
(०) रे᳘तश्च᳘र्मन्वा य᳘स्मिन्वा बभ्रुस्त᳘द्ध स्म पृच्छन्त्य᳘त्रैवत्या३ दि᳘ति त᳘तो ऽत्रिः स᳘म्बभूव त᳘स्माद᳘प्यात्रेय्या᳘ योषि᳘तैन᳘स्व्येत᳘स्यै हि योषायै व्वाचो᳘ देव᳘ताया ऽएते स᳘म्भूताः॥
मूलम् - Weber
त᳘द्धैत᳘द्देवाः᳟॥
रे᳘तश्च᳘र्मन्वा य᳘स्मिन्वा बभ्रुस्त᳘द्ध स्मपृछन्त्य᳘त्रेव त्यादि᳘ति त᳘तो त्रिः स᳘म्बभूव त᳘स्माद᳘प्यात्रैव योषि᳘तैनॗस्व्येत᳘स्यै हि यो᳘षायै वाचो᳘ देव᳘ताया एते स᳘म्भूताः॥
मूलम् - विस्वरम्
तद्धैतद्देवा रेतश्चर्मन् वा यस्मिन् वा बभ्रुः । तद्ध स्म पृच्छन्ति- अत्रैव त्या ३ दिति । ततो ऽत्रिः सम्बभूव । तस्मादप्यात्रेय्या योषितैनस्वी । एतस्यै हि योषायै वाचो देवताया एते सम्भूताः॥ १३ ॥
सायणः
स पतितो वाचो गर्भः कथमासीदिति तदिदानीमनुसन्धत्ते- तद्धैतदिति । ‘तत्’ ‘ह’ खलु ‘एतत्’ वाचः सकाशात् पतितं ‘रेतः’ ‘चर्मन्’ चर्मणि ‘अन्यस्मिन् वा’ यस्मिन् कस्मिंश्चित्पात्रे देवाः ‘बभ्रुः’ धृतवन्तः भृत्वा च ‘तत्’ प्रतिदिवसं ‘पृच्छन्ति’ -अत्रैव त्या ३ दिति । ‘अत्र’ अस्मिन् पात्रे किं’त्या३त्’ एतत्प्रसिद्धं रेतः कथंभूतम् ? ‘इति’ विचारयन्त इत्यर्थः । “विचार्यमाणानाम्"- (पा० सू० ८. २. ९७) इति प्लुतिः । यस्माद्देवैर्विचारितम् 16, ‘ततः’ तस्मात् स गर्भः ‘अत्रिः’ सम्बभूव । अत्रैव त्यदित्यत्रिरिति शब्दव्युत्पत्तिरित्यर्थः । यतो गर्भाशयात् सृतो गर्भो ऽत्रिः संपन्नः, तस्मात् सृतगर्भा रजस्वला स्त्री नाम्ना ‘आत्रेयी’ 17- इत्याख्यायते । तया ‘योषिता’ सह सम्भाषणादिकं कुर्वन् पुरुषः ‘एनस्वी’ भवति । तैत्तिरीयके ऽप्याम्नातम्- “तस्मान्मलवद्वाससा न संवदेत, न सहासीत" -(तै० सं० २. ५. १. ५.) इति । ननु यस्या गर्भो ऽत्रिः संजातः, सैव वागात्रेयी; सर्वस्त्रीणां कथमात्रेयीत्वमित्यत आह- एतस्या इति । ‘एतस्यै’ स्त्रीरूपधारिण्या एतस्याः खलु वाग्देवताया ‘एते’ लौकिकाः सर्वे गर्भाः ‘सम्भूताः’ । गर्भाशयलक्षणे चर्मणि धृतं रेतो हि गर्भात्मना परिणमति, तच्च वाक्संबन्ध्येवेति सिद्धं सर्वासामात्रेयीत्वमित्यर्थः ॥ १३ ॥ ५ ॥ (४. १.)
इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थाध्याये पञ्चमं ब्राह्मणम् ॥
वेदार्थस्य प्रकाशेन तमो हार्द्दं निवारयन् । पुमर्थांश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ ४ ॥
ब्रह्माण्डं गोसहस्रं कनकहयतुलापूरुषौ स्वर्णगर्भं, सप्ताब्धीन्पञ्चसीरींस्त्रिदशतरुलताधेनुसौवर्णभूमीः । रत्नोस्रां रुक्मवाजिद्विपमहितरथौ सायणिः सिङ्गणार्यो, व्यश्राणीद्विश्वचक्रं प्रथितविधिमहाभूतयुक्तं घटं च ॥
धान्याद्रिं धन्यजन्मा तिलभवमतुलः स्वर्णजं वर्णमुख्यः, कार्पासीयं कृपावान्गुडकृतमजडो राजतं राजपूज्यः । आज्योत्थं प्राज्यजन्मा लवणजमनृणः शार्करं चार्कतेजा, रत्नाढ्यो रत्नरूपं गिरिमकृत मुदा पात्रसात्सिङ्गणार्यः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीहरिहरमहाराजसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे माध्यन्दिनशतपथब्राह्मणभाष्ये प्रथमकाण्डे चतुर्थाध्यायः समाप्तः ॥ ४ ॥
Eggeling
- That germ (retas) the gods then brought away in a skin or in some (vessel). They asked: ‘Is it here (atra)?’ and therefore it developed into Atri. For the same reason one becomes guilty by (intercourse) with a woman who has just miscarried (ātreyī); for it is from that woman, from the goddess Speech, that these (germs) originate 18.
-
‘स्रुचाघारस्य’ ‘स्रुवाघारस्य’ इति क्र० पा० । ↩︎
-
“अपरमाहवनीयादञ्जलिङ्करोति नमो देवेभ्यः स्वधा पितृभ्य इति दक्षिणत उत्तानम्” इति का० श्रौ० सू० ३ । १ । १५ । ↩︎
-
“अप उपस्पृश्य सुयमे म इति जुहूपभृतावादायोत्तरां जुहूं कृत्वा" इति का० श्रौ० सू० ३ । १ । १६ । ↩︎
-
सर्वार्थो ऽयं सञ्चरो नोत्तराघारमात्रे । ↩︎
-
128:1 While he pronounces this formula (and while the Hotr̥ recites the formula of invitation to the gods, cf. note on I, 4, 2, 26) the Adhvaryu steps to the south side of the altar (and Āhavanīya fire) and in so doing must take care always to keep the left foot before the right (Kāty. III. 1, 16, 18) and not to touch the top of the prastara, ib. 17, schol. In returning (par. 5) to his former position he has to keep the right foot before the left. ↩︎
-
‘नेदीयस्त्व’ इति क० पा० स एव युक्त भाति । ↩︎
-
128:2 With this and the succeeding formulas, the Adhvaryu makes the second libation (cf. note on I, 4, 4, 1). Before the butter is poured into the fire the sacrificer pronounces the dedicatory formula, ‘Om! for Indra this, not for me!’ ↩︎
-
129:1 Veḥ, in the formula, our author refers to vid, ’to know,’ instead of to vī, ’to strive after, undertake.’ ↩︎
-
शिरःपदेन श्रीमतो व्यवहारमाविष्करोतीति तात्पर्यम् । ↩︎
-
129:2 Cf. I, 3, 2, 2, and Taitt. S. II, 5, 11, 7-8. The second libation (āghāra) has just been made with the juhū. ↩︎
-
130:1 The same idea has been expressed above, I, 3, 2, 11. ↩︎
-
जुह्वा ध्रौवाज्यमध्ये बिन्दुम्पातयतीत्यर्थः । ↩︎
-
“गच्छता” मित्यध्याहार इति कर्कमहीधरौ । ↩︎
-
130:2 Cf. Taitt. S. II, 5, 11, 4: ‘Mind and Speech (or Voice) were contending against one another.’ ‘I will carry the oblation to the gods!’ said Speech. ‘I (will carry it) to the gods!’ said the Mind. They went to Prajāpati to question him. Prajāpati said (to Speech), ‘Thou art the handmaid (dūtī) of the mind, for what one thinks in one’s mind that one speaks with one’s speech.’ [Speech replied], ‘Then indeed they shall not offer to thee with speech!’ For this reason they offer to Prajāpati with the mind; for Prajāpati, as it were, is the mind, &c. ↩︎
-
“वाक्च मनश्चार्तीयेतामहं देवेभ्यो हव्यं वहामीति वागब्रवीत्” इत्यादि चात्रोपाख्यानमाम्नातम् । तै. सं. २ । ५ । ११ । ↩︎
-
अत्रैव त्या ३ दिति यस्माद्देवैर्विचारितम् -इति क्व० पा० युक्तं चैतदेव । ↩︎
-
“आत्रेयी च रजस्वला ऋतुस्नातोच्यते” तथा च वसिष्ठः-“रजस्वलामृतुस्नातामात्रेयीम्” इति । ↩︎
-
131:1 ‘Tasmād apy ātreyyā yoshitainasvy etasyai hi yoshāyai vāco devatāyā ete sambhūtāḥ,’ [ete laukikāḥ sarve garbhāḥ sambhūtāḥ, Sāy.]–The Kāṇva text has, ‘Tasmād api striyātreyyainasvīty āhur etasyā hi sa yoshāyā devatāyā vācaḥ sambhūta iti’ [’–for it is from that woman, from the goddess Speech, that he (Atri) originated’]. ↩︎